०१
विश्वास-प्रस्तुतिः
अ᳘थ दर्भस्तम्बमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा ऽओ᳘षधीरु᳘पादधत त᳘थै᳘वैतद्य᳘जमान ऽओ᳘षधीरु᳘पधत्ते॥
मूलम् - श्रीधरादि
अ᳘थ दर्भस्तम्बमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा ऽओ᳘षधीरु᳘पादधत त᳘थै᳘वैतद्य᳘जमान ऽओ᳘षधीरु᳘पधत्ते॥
मूलम् - Weber
अ᳘थ दर्भस्तम्बमु᳘पदधाति॥
एतद्वै᳘ देवा ओ᳘षधीरु᳘पादधत त᳘थैॗवैतद्य᳘जमान ओ᳘षधीरु᳘पधत्ते॥
मूलम् - विस्वरम्
अथ दर्भस्तम्बोपधानम् ।
अथ दर्भस्तम्बमुपदधाति । एतद्वै देवा ओषधीरुपादधत । तथैवैतद्यजमान ओषधीरूपधत्ते ॥ १ ॥
सायणः
अथ कुशस्तम्बोपधानं विधत्ते- अथ दर्भस्तम्बमिति 1 । एकमूलो ऽनेकशाखः स्तम्ब इत्युच्यते, दर्भाणां स्तम्बो दर्भस्तम्बः । तम् आत्ममध्ये तूष्णीम् ‘उपदधाति’ स्थापयेदित्यर्थः । तदुपधानं देवकर्तृकौषध्युपधानद्वारा स्तौति- एतद्वा इति । ‘उपादधत’ उपहितवन्तः । तथैवैतदिति । प्रकृते योजनम् ॥ १ ॥
Eggeling
- He then places a bunch of darbha (kuśa) grass (poa cynosuroides) on (the middle of the altar-site); for the gods then placed plants thereon, and in like manner does the Sacrificer now place plants thereon.
०२
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ दर्भस्तम्ब᳘मुपद᳘धाति॥
जा᳘यत ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते स᳘ ऽएष स᳘र्व्वस्मा ऽअ᳘न्नाय जायत ऽउभ᳘यम्वेतद᳘न्नं य᳘द्दर्भा ऽआ᳘पश्च᳘ ह्येता ऽओ᳘षधयश्च या वै᳘ व्वृत्राद्बी᳘भत्समाना ऽआ᳘पो ध᳘न्व दृभ᳘न्त्य ऽउदा᳘यंस्ते᳘ दर्भा᳘ ऽअभवन्य᳘द्दृभ᳘न्त्य ऽउदा᳘यंस्त᳘स्माद्दर्भास्ता᳘ हैताः᳘ शुद्धा मे᳘ध्या ऽआपो᳘ व्वृत्राभिप्रक्षरिता य᳘द्दर्भा य᳘दु दर्भास्तेनौ᳘षधय ऽउभ᳘येनै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ दर्भस्तम्ब᳘मुपद᳘धाति॥
जा᳘यत ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते स᳘ ऽएष स᳘र्व्वस्मा ऽअ᳘न्नाय जायत ऽउभ᳘यम्वेतद᳘न्नं य᳘द्दर्भा ऽआ᳘पश्च᳘ ह्येता ऽओ᳘षधयश्च या वै᳘ व्वृत्राद्बी᳘भत्समाना ऽआ᳘पो ध᳘न्व दृभ᳘न्त्य ऽउदा᳘यंस्ते᳘ दर्भा᳘ ऽअभवन्य᳘द्दृभ᳘न्त्य ऽउदा᳘यंस्त᳘स्माद्दर्भास्ता᳘ हैताः᳘ शुद्धा मे᳘ध्या ऽआपो᳘ व्वृत्राभिप्रक्षरिता य᳘द्दर्भा य᳘दु दर्भास्तेनौ᳘षधय ऽउभ᳘येनै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - Weber
य᳘द्वेव᳘ दर्भस्तम्ब᳘मुपद᳘धाति॥
जा᳘यत एष᳘ एतद्य᳘च्चीय᳘ते स᳘ एष स᳘र्वस्मा अ᳘न्नाय जायत उभ᳘यम्वेतद᳘न्नं य᳘द्दर्भा आ᳘पश्चॗ ह्येता ओ᳘षधयश्च या वै᳘ वृत्राद्बी᳘भत्समाना आ᳘पो ध᳘न्व दृभ᳘न्त्य उदा᳘यंस्ते᳘ दर्भा᳘ अभवन्य᳘द्द्वभ᳘न्त्य उदा᳘यंस्त᳘स्माद्दर्भास्ता᳘ हैताः᳘ शुद्धा मे᳘ध्या आपो᳘ वृत्राभिप्रक्षरिता य᳘द्दर्भा य᳘दु दर्भास्तेनौ᳘षधय उभ᳘येनैॗवैन्मेतद᳘न्नेन प्रीणाति॥
मूलम् - विस्वरम्
देव दर्भस्तम्बमुपदधाति । जायत ऽएष एतद्- यच्चीयते । स एष सर्वस्मा ऽअन्नाय जायते । उभयम्वेतदन्नम् । यद्दर्भाः- आपश्च ह्येता ओषधयश्च । या वै वृत्राद्बीभत्समाना आपो धन्व दृभन्त्य उदायन्- ते दर्भा अभवन् । यद्दृभन्त्य उदायन्- तस्माद्दर्भाः । ता ह्येताः शुद्धा मेध्या आपो ऽवृत्राभिप्रक्षरिताः- यद्दर्भाः । यदु दर्भाः- तेनौषधयः । उभयेनैवैनमेतदन्नेन प्रीणाति ॥ २ ॥
सायणः
तदेव प्रकारान्तरेणापि स्तौति- यद्वेवेति । य ‘एषः’ आहवनीयो ऽग्निः ‘चीयते’ चयनेन सम्पाद्यते, ‘एषः’ ‘जायते’ उत्पद्यत एव । ‘स एषः’ जायमानो ऽग्निः ‘सर्वस्मै’ कृत्स्नाय ‘अन्नाय’ तदुपभोक्तुं जायते । दर्भाणां नामनिर्वचनद्वारा उभयविधान्नत्वमाह- उभयम्वेतदिति । उभयं किमित्यत आह- यद्दर्भा इति । उभयविधत्वमेव विवृणोति- या वै वृत्रादिति । “वृत्रो ह वा इदं सर्वं वृत्वा शिश्ये”- इत्युपक्रम्य, “तस्मादु हैका आपो बीभत्साञ्चक्रिरे”- इत्यादिना प्रथमकाण्डे अपां दर्भभावप्रत्ययादिति (श. प. १ । १ । ३ । ४ । ५) । ‘याः’ ‘आपः’ वृत्रासुराद् ‘बीभत्समानाः’ जुगुप्समानाः जुगुप्साश्रयत्वाद्विकुर्वाणा इत्यर्थः । ‘धन्व’ अन्तरिक्षं ‘दृभन्त्यः’ गुम्फनं कुर्वन्त्यः ‘उदायन्’ उद्गतवत्यः । “धन्वान्तरिक्षम्, धन्वन्त्यस्मादापः”- (निरु. ५ । १ । ५) इति हि यास्कः । ‘दृभन्त्य’ इति तौदादिकात् “दृभी गुम्फने” 2 (धा. पा. तु. प. ४२ ।) इति धातोः शतरि “ऋन्नेभ्यो ङीप्”- (पा. सू. ४ । १ । ५ ।) इति ङीप् । ‘ते दर्भा अभवन्’ आप एव दर्भत्वं प्राप्ता इत्यर्थः । ‘ते’ इति पुल्ँलिङ्गं दर्भापेक्षम् । दर्भनाम निर्वक्ति- यद्दृभन्त्य इति । ‘यत्’ यस्मात् ‘दृभन्त्यो’ गुम्फनं कुर्वन्त्य आप उद्गतवत्यः, ‘तस्माद्’ दर्भणादापो ‘दर्भाः’ दर्भशब्दवाच्या इत्यर्थः । दर्भभूतास्ता अपः प्रशंसति- ता हैता इति । ये दर्भाः ‘ताः’ एताः आपः ‘शुद्धाः’ शुद्धिसाधनभूताः, तथा ‘मेध्याः’ मेधार्हाः । तदेव विस्पष्टयति- आपो ऽवृत्राभिप्रक्षरिता इति । ‘न वृत्रात् अभिप्रक्षरिताः’ अभिप्रस्रुताः ‘उ’ पुनः ‘यत्’ यस्मात् ‘दर्भाः,’ ‘तेन’ कारणेन ‘ओषधयः’ दर्भाणामोषधित्वमन्यत्राप्याम्नायते- “ओषधयो बर्हिः” इति । उभयविधत्वमुपयोगप्रतिपादनेनोपसंहरति- उभयेनैवैनमिति । ‘एनं’ चित्याग्निम् ‘एतत्’ एतेनोभयविधेन ‘अन्नेन’ ‘प्रीणाति’ ॥ २ ॥
Eggeling
- And, again, why he places a bunch of grass thereon;–when he (Agni) is built up, he is born, and he is born here for all (kinds of) food; but these darbha plants (contain) both kinds of food, for they are both water and plants. Now the waters which, loathing Vr̥tra, rose up on the dry land forming bushes, became those grasses 3,–inasmuch as they rose forming bushes (dr̥bh), they are (called) darbha-grasses. These darbha-grasses, then, are the water (which remained) pure, and meet for sacrifice, when Vr̥tra flowed towards it; and inasmuch as they are darbha-grasses, they are plants: by both kinds of food he thus gratifies him (Agni).
०३
विश्वास-प्रस्तुतिः
सीतासमरे[[!!]]॥
व्वाग्वै᳘ सीतासमरः᳘ प्राणा वै सी᳘तास्ता᳘सामय᳘ᳫँ᳘ समयो᳘ व्वाचि वै᳘ प्राणेभ्यो᳘ ऽन्नं धीयते मध्यतो᳘ मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधाति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫँ᳭ स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणैवास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
सीतासमरे[[!!]]॥
व्वाग्वै᳘ सीतासमरः᳘ प्राणा वै सी᳘तास्ता᳘सामय᳘ᳫँ᳘ समयो᳘ व्वाचि वै᳘ प्राणेभ्यो᳘ ऽन्नं धीयते मध्यतो᳘ मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधाति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫँ᳭ स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणैवास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - Weber
सीतासमरे᳟॥
वाग्वै᳘ सीतासमरः᳘ प्राणा वै सी᳘तास्ता᳘सामय᳘ᳫं᳘ समयो᳘ वाची वै᳘ प्राणेभ्यो᳘ ऽन्नं धीयते मध्यतो᳘ मध्यत᳘ एॗवास्मिन्नेतद᳘न्नं दधाति तूष्णीम᳘निरुक्तं वै तद्य᳘तूष्णीᳫं स᳘र्वं वा अ᳘निरुक्तᳫं स᳘र्वेणैवास्मिन्नेतद᳘न्ने दधाति॥
मूलम् - विस्वरम्
सीतासमरे । वाग्वै सीतासमरः । प्राणा वै सीताः । तासामयं समयः । वाचि वै प्राणेभ्यो ऽन्नं धीयते । मध्यतः । मध्यत एवास्मिन्नेतदन्नं दधाति । तूष्णीम् । अनिरुक्तं वै तद्- यत्तूष्णीम् । सर्वं वा ऽअनिरुक्तम् । सर्वेणैवास्मिन्नेतदन्नं दधाति ॥ ३ ॥
सायणः
तदुपधानं क्षेत्रे विधाय स्तौति- सीतासमर इति । कृष्टाः सीताः समृच्छन्ते सङ्गच्छन्ते यत्रासौ ‘सीतासमरः’ क्षेत्रमध्यप्रदेशः, तत्रोपदध्यादिति शेषः । आधियज्ञिकस्य सीतासमरस्याध्यात्मं मुखरूपतामाह- वाग्वा इति । वागायतनत्वाद् ‘वाक्’ मुखम् खलु ‘सीतासमरः’ । कथमित्यपेक्षायां तदुपपादयति- प्राणा वा इति । ‘प्राणाः’ खलु ‘सीताः’ नाड्यः तत्सञ्चारितत्वात् । तासां नाडीरूपाणां सीतानाम् ‘अयं’ मुखलक्षणः ‘समयः’ सङ्गमः, सम्यगयन्ते सङ्गच्छन्ते यत्र सो ऽयं समयः; मुखे हि सर्वाः प्राणा नाड्यः सङ्गच्छन्ते । ततः किमित्याकाङ्क्षायामाह- वाचि वा इति । ‘वाचि वै’ मुखे एव ‘प्राणेभ्यः’ अर्थे ‘अन्नं’ ‘धीयते’ स्थाप्यते; मुखेनैव हि जग्धे ऽन्ने प्राणानामाप्यायनस्य सद्भावात् । सीतासमरे ऽपि मध्यदेशे उपदध्यादित्याह- मध्यत इति । सप्तम्यर्थे तसिलयम् । ‘अस्मिन्’ चित्याग्नौ मध्ये ‘एव’ ‘एतत्’ एतेन अन्नं स्थापितवान् भवति । उपधाने मन्त्राभावं विधत्ते- तूष्णीमिति । तदेवोपपादयति- अनिरुक्तं वा इति । स्पष्टो ऽर्थः ॥ ३ ॥
Eggeling
- [He places it] at the meeting of the furrows, for the meeting of furrows is speech (the mouth) 4, and the furrows (channels) are the vital airs; and this is their place of meeting; and in the mouth food is put for the vital airs. In the middle (he places the bunch), whereby he puts it into the very
middle of him; silently (he does so), for what is silent is undefined, and the undefined is everything: with everything he thus puts food into him.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमभि᳘जुहोति॥
जा᳘यत ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते स᳘ ऽएष स᳘र्व्वस्मा ऽअ᳘न्नाय जायते स᳘र्व्वस्यो ऽअ᳘स्यैष र᳘सो यदा᳘ज्यमपां᳘ च᳘ ह्येष ऽओ᳘षधीनां च र᳘सो᳘ ऽस्यै᳘वैनमेतत्स᳘र्व्वस्य र᳘सेन प्रीणाति या᳘वानु वै र᳘सस्ता᳘वाना᳘त्मा ऽने᳘नै᳘वैनमेतत्स᳘र्व्वेण प्रीणाति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्चर्त᳘वः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमभि᳘जुहोति॥
जा᳘यत ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते स᳘ ऽएष स᳘र्व्वस्मा ऽअ᳘न्नाय जायते स᳘र्व्वस्यो ऽअ᳘स्यैष र᳘सो यदा᳘ज्यमपां᳘ च᳘ ह्येष ऽओ᳘षधीनां च र᳘सो᳘ ऽस्यै᳘वैनमेतत्स᳘र्व्वस्य र᳘सेन प्रीणाति या᳘वानु वै र᳘सस्ता᳘वाना᳘त्मा ऽने᳘नै᳘वैनमेतत्स᳘र्व्वेण प्रीणाति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्चर्त᳘वः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - Weber
अ᳘थैनमभि᳘जुहोति॥
जा᳘यत एष᳘ एतद्य᳘च्चीय᳘ते स᳘ एष स᳘र्वस्मा अ᳘न्नाय जायते स᳘र्वस्यो अॗस्यैष र᳘सो यदा᳘ज्यमपां᳘ चॗ ह्येष ओ᳘षधीनां च र᳘सोॗ ऽस्यैॗवैनमेतत्स᳘र्वस्य र᳘सेन प्रीणाति या᳘वानु वै र᳘सस्ता᳘वाना᳘त्माने᳘नैॗवैनमेतत्स᳘र्वस्य र᳘सेन प्रीणाति या᳘वानु वै र᳘सस्ता᳘वानाॗत्माने᳘नैॗवैनमेतत्स᳘र्वेण प्रीणाति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - विस्वरम्
अथैनमभिजुहोति । जायत ऽएष एतद्- यच्चीयते । स एष सर्वस्मा ऽअन्नाय जायते । सर्वस्यो ऽअस्यैष रसो यदाज्यम् । अपां च ह्येष ओषधीनां च रसः । अस्यैवैनमेतत्सर्वस्य रसेन प्रीणाति । यावानु वै रसस्तावानात्मा । अनेनैवैनमेतत्सर्वेण प्रीणाति । पञ्चगृहीतेन । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति ॥ ४ ॥
सायणः
अभिहोमं विधत्ते- अथैनमभीति । ‘एनं’ दर्भस्तम्बम् । जायत एष इत्यादि- पूर्ववद् व्याख्येयम् । अभिहोमे आज्यं द्रव्यं विधातुं स्तौति- सर्वस्यो ऽअस्यैष इति । ‘यत्’ ‘आज्यं’ सर्पिः ‘एषः’ ‘अस्य’ ‘सर्वस्य’ विश्वस्य ‘रसः’ । रसत्वमेवोपपादयति- अपां च हीति । अपामोषधीनां च गोभिः पानाद् भक्षणाच्च ह्याज्यमुत्पद्यते । रसत्वोपपादनस्य प्रयोजनमाह- अस्यैवैनमिति । ‘एनं’ चित्याग्निं ‘प्रीणाति’ तर्पयति । सर्वरसत्वकथने कारणमाह- यावानु वा इति । ‘रसः’ ‘यावान्’ यत्परिमाणविशिष्टः, ‘आत्मा’ देहो ऽपि ‘तावान्’ तत्परिमाणविशिष्ट एव; देहस्य रसोपजीवनत्वात् । अनेनेति । ‘सर्वेण’ रसेनेत्यर्थः । आज्यस्य पञ्चगृहीतत्वं विधत्ते- पञ्चगृहीतेनेति । पञ्चगृहीतत्वं स्तौति-पञ्चचितिको ऽग्निरित्यादिना । ‘पञ्चर्त्तवः’ पञ्चर्त्वात्मकः ‘संवत्सरः’; “हेमन्तशिशिरयोः समासेन” (ऐ. ब्रा. १ । १ । १) । संवत्सरो ऽग्निरित्यादि । गतार्थम् (श. प. ७ । २ । २ । १६) ॥ ४ ॥
Eggeling
- He then offers thereon,–when he (Agni) is built, he is born, and he is born here for all (kinds of) food; but that ghee is the life-sap (essence) of this universe, for it is the life-sap of both the waters and plants: he thus gratifies him by the life-sap of this universe. And as far as the life-sap extends, so far extends the body: he thus gratifies him by this universe. With (ghee) taken in five (ladlings, he offers),–the fire-altar consists of five layers, five seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, with so much food he thus gratifies him.
०५
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै य᳘त्रैतं᳘ प्राणा ऽऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫँ᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेतं᳘ पुर᳘स्ताद्भाग᳘मकुर्वत त᳘स्मात्पुर᳘स्ताद्भागास्तद्य᳘दभिजुहो᳘ति य᳘ ऽए᳘वास्मिंस्ते᳘ प्राणा ऽऋ᳘षयः पुर᳘स्ताद्भागम᳘कुर्वत ता᳘ने᳘वैत᳘त्प्रीणात्या᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै य᳘त्रैतं᳘ प्राणा ऽऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫँ᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेतं᳘ पुर᳘स्ताद्भाग᳘मकुर्वत त᳘स्मात्पुर᳘स्ताद्भागास्तद्य᳘दभिजुहो᳘ति य᳘ ऽए᳘वास्मिंस्ते᳘ प्राणा ऽऋ᳘षयः पुर᳘स्ताद्भागम᳘कुर्वत ता᳘ने᳘वैत᳘त्प्रीणात्या᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
य᳘द्वेॗवैनमभिजुहो᳘ति॥
एतद्वै य᳘त्रैत᳘म् प्राणा ऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫं᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेत᳘म् पुर᳘स्ताद्भाग᳘मकुर्वत त᳘स्मात्पुर᳘स्ताद्भागास्तद्य᳘दभिजुहो᳘ति य᳘ एॗवास्मिंस्ते᳘ प्राणा ऋ᳘षयः पुर᳘स्ताद्भागम᳘कुर्वत ता᳘नेॗवैत᳘त्प्रीणात्या᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
यद्वेवैनमभिजुहोति । एतद्वै यत्रैतं प्राणा ऋषयो ऽग्रे ऽग्निं समस्कुर्वन्- तदस्मिन्नेतं पुरस्ताद्भागमकुर्वत । तस्मात्पुरस्ताद्भागाः । तद्यदभिजुहोति- य ऽएवास्मिंस्ते प्राणा ऋषयः पुरस्ताद्भागमकुर्वत- तानेवैतत्प्रीणाति । आज्येन पञ्चगृहीतेन । तस्योक्तो बन्धुः ॥ ५ ॥
सायणः
प्रकारान्तरेणाभिहोमं स्तौति- यद्वेवैनमिति । ‘एतद्वै’ कारणं खलु ‘यत्र’ यदा ‘प्राणाः’ एव ‘ऋषयः’ ‘अग्रे’ प्रपञ्चसृष्टेः पुरा ‘एतम्’ ‘अग्निं’ चित्याख्यं संस्कृतवन्तः, ‘तत्’ तदा ‘अस्मिन्’ अग्नौ ‘एतम्’ अभिहोमलक्षणं ‘पुरस्ताद्भागम्’ चयनात् प्रागेव भजनीयमंशम् ‘अकुर्वत’ सम्पादितवन्तः, ‘तस्मात्’ ते ऋषयः ‘पुरस्ताद्भागाः’ पुरस्तादादौ भागो भजनीयों ऽशो येषां ते पुरस्ताद्भागाः, प्रथमपूज्या इत्यर्थः । तद्यदिति । ‘तत्’ तत्र यत्कारणात् ‘अभिजुहोति,’ इदानीन्तनो यजमान इति शेषः । ‘ये’ पुरस्ताद्भागकर्तारः प्राणरूपा ‘ऋषयः,’ ‘तानेव’ ‘एतत्’ एतेनाभिहोमेन तर्पयतीति तत्कारणमित्यर्थः । आज्येनेत्यादि । व्याख्यातम् ॥ ५ ॥
Eggeling
- And, again, why he offers thereon;–when in the beginning the R̥shis, the vital airs 5, put together this Agni, they gained for themselves that fore-share 6 in him: hence they are the fore-sharers. Thus when he offers on (the grass-bush) he thereby gratifies those Rishis, the vital airs, who gained for themselves the fore-share in him (Agni). With fivefold-taken ghee (he offers): the significance of this has been explained.
०६
विश्वास-प्रस्तुतिः
(र्य᳘) य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै या᳘न्येत᳘स्मिन्नग्नौ᳘ रूपा᳘ण्युपधास्यन्भ᳘वति यान्त्स्तोमान्या᳘नि[[!!]] पृष्ठा᳘नि या᳘नि च्छ᳘न्दाᳫँ᳭सि ते᳘भ्य ऽएतं᳘ पुर᳘स्ताद्भागं᳘ करोति ता᳘न्ये᳘वैत᳘त्प्रीणात्या᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(र्य᳘) य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै या᳘न्येत᳘स्मिन्नग्नौ᳘ रूपा᳘ण्युपधास्यन्भ᳘वति यान्त्स्तोमान्या᳘नि[[!!]] पृष्ठा᳘नि या᳘नि च्छ᳘न्दाᳫँ᳭सि ते᳘भ्य ऽएतं᳘ पुर᳘स्ताद्भागं᳘ करोति ता᳘न्ये᳘वैत᳘त्प्रीणात्या᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
य᳘द्वेॗवैनमभिजुहो᳘ति॥
एतद्वै या᳘न्येत᳘स्मिन्नग्नौ᳘ रूपा᳘ण्युपधास्यन्भ᳘वति यान्त्स्तो᳘मान्या᳘नि पृष्ठा᳘नि या᳘नि छ᳘न्दांसि ते᳘भ्य एत᳘म् पुर᳘स्ताद्भागं᳘ करोति ता᳘न्येॗवैत᳘त्प्रीणान्या᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
यद्वेवैनमभिजुहोति । एतद्वै यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति, यान्त्स्तोमान्, यानि पृष्ठानि, यानि च्छन्दांसि- तेभ्य एतं पुरस्ताद्भागं करोति । तान्येवैतत्प्रीणाति । आज्येन पञ्चगृहीतेन । तस्योक्तो बन्धुः ॥ ६ ॥
सायणः
प्रकारान्तरेण तमेवाभिहोमं स्तौति- यद्वेवेति । ‘एतस्मिन् अग्नौ’ चित्यात्मके ‘यानि रूपाणि’ गार्हपत्यचितिधिष्ण्यलक्षणानि, तथा ‘यान् स्तोमान्’ स्तोत्रियासमूहान् त्रिवृत्पञ्चदशादीन्, ‘यानि पृष्ठानि’ बृहद्रथन्तरादीनि, ‘यानि च च्छन्दांसि’ गायत्र्यादीनि, ‘उपधास्यन्’ एतेषामुपधानं करिष्यन् ‘भवति’, ‘तेभ्यः’ रूपादिभ्यः ‘एतम्’ अभिहोमलक्षणम् ‘पुरस्ताद्भागं’ सम्पादयति । ‘तान्येव’ रूपादीनि ‘एतत्’ एतेन तर्पयति । आज्येनेत्यादि पूर्ववत् ॥ ६ ॥
Eggeling
- And, again, why he offers thereon;–whatever forms, whatever modes of chanting, whatever pr̥shṭḥa (stotras), whatever metres he is now going to bestow on Agni, for them he prepares this fore-share, and it is them he thereby gratifies. With
fivefold-taken ghee (he offers): the significance of this has been explained.
०७
विश्वास-प्रस्तुतिः
(र्य᳘) य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्दीर्घं वा᳘ ऽइदं क᳘र्म यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएता᳘मेत᳘स्य क᳘र्मणः पुरस्तात्सᳫँ᳭स्था᳘मपश्यंस्तम᳘त्रैव स᳘र्व्वᳫँ᳭ सम᳘स्थापयन्न᳘त्राचिन्वंस्त᳘थै᳘वैनमय᳘मेतद᳘त्रैव स᳘र्व्वᳫँ᳭ सᳫँ᳭स्थाप᳘यत्य᳘त्र चिनोति॥
मूलम् - श्रीधरादि
(र्य᳘) य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्दीर्घं वा᳘ ऽइदं क᳘र्म यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएता᳘मेत᳘स्य क᳘र्मणः पुरस्तात्सᳫँ᳭स्था᳘मपश्यंस्तम᳘त्रैव स᳘र्व्वᳫँ᳭ सम᳘स्थापयन्न᳘त्राचिन्वंस्त᳘थै᳘वैनमय᳘मेतद᳘त्रैव स᳘र्व्वᳫँ᳭ सᳫँ᳭स्थाप᳘यत्य᳘त्र चिनोति॥
मूलम् - Weber
य᳘द्वेॗवैनमभिजुहो᳘ति॥
एतद्वै᳘ देवा᳘ अबिभयुर्दीर्घं वा᳘ इद क᳘र्म यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एता᳘मेत᳘स्य क᳘र्मणः पुरस्तात्संस्था᳘मपश्यंस्तम᳘त्रैव स᳘र्वᳫं सम᳘स्थापयन्न᳘त्राचिन्वंस्त᳘थैवैनमय᳘मेतद᳘त्रैव स᳘र्वᳫं संस्थाप᳘यत्य᳘त्र चिनोति॥
मूलम् - विस्वरम्
यद्वेवैनमभिजुहोति । एतद्वै देवा अबिभयुः- दीर्घं वा ऽइदं कर्म, यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । त ऽएतामेतस्य कर्मणः पुरस्तात्संस्थामपश्यन् । तमत्रैव सर्वं समस्थापयन् । अत्राचिन्वन् । तथैवैनमयमेतदत्रैव सर्वं संस्थापयति, अत्र चिनोति ॥ ७ ॥
सायणः
प्रकारान्तरेणाप्यभिहोममेव स्तौति- यद्वेवेति । ‘एतत्’ एतेन हेतुना ‘देवाः’ ‘अबिभयुः’ भीतवन्तः । मयस्वरूपमेव विशदयति- दीर्घं वा इत्यादिना । ‘इदं’ चयनलक्षणं ‘कर्म,’ ‘दीर्घं’ विस्तृतं खलु । अस्तु पुनर्द्राघीयः, तावता को भयहेतुरित्यत आह- यद्वै न इति । ‘नः’ अस्माकम् ‘इह’ दीर्घे कर्मणि ‘इमम्’ अग्निं ‘नाष्ट्रा रक्षांसि’ ‘न हन्युः’ हिंस्युरिति । अयं सम्भावने लिङ् (पा. सू. ३ । ३ । १६१) । ‘इति’- शब्दो देवाभिप्रायसमाप्तौ । भीतिनिवृत्तिप्रकारं दृष्टवन्त इत्याह- त एतामिति । ‘ते’ देवाः ‘एतस्य’ दीर्घस्य चयनाख्यकर्मणः ‘पुरस्तात्’ चयनात् प्रागेव ‘एताम्’ अभिहोमलक्षणाम् ‘संस्थां’ समाप्तिम् ‘अपश्यन्’ ददृशुः । दृष्ट्वा चानुष्ठितवन्त इत्याह- तमत्रैवेति । ‘अत्रैव’ चयनात् प्रागवसरे एव ‘तं’ चित्यात्मकमग्निं सर्वं निरवशेषं ‘समस्थापयन्’ समापितवन्तः, ‘अत्र’ आदावित्यर्थः । ‘अचिन्वन्’ चितवन्त इति भाविनि भूतवदुपचारः । उक्तमर्थं प्रकृते योजयति- तथैवैनमिति ॥ ७ ॥
Eggeling
- And, again, why he offers thereon;–at that time the gods were afraid, thinking, ‘Long indeed is this performance: we hope the Rakshas, the fiends, will not smite here this (Agni) of ours!’ They saw this preliminary conclusion 7 of this performance, and brought that whole (Agni) to completion even at that (point), and built him up then; and in like manner this (Sacrificer) brings that whole (Agni) to completion even at this (point), and builds him now.
०८
विश्वास-प्रस्तुतिः
सजूर᳘ब्द ऽइ᳘ति चि᳘तिः॥
(र᳘) अ᳘यवोभिरि᳘ति पु᳘रीषᳫँ᳭ सजू᳘रुषा ऽइ᳘ति चि᳘तिर᳘रुणीभिरि᳘ति पु᳘रीषᳫँ᳭ सजो᳘षसावश्विने᳘ति चि᳘तिर्द᳘ᳫँ᳘सोभिरि᳘ति पु᳘रीषᳫँ᳭ सजूः सू᳘र ऽइ᳘ति चि᳘तिरे᳘तशेने᳘ति पु᳘रीषᳫँ᳭ सजू᳘र्व्वैश्वानर ऽइ᳘ति चि᳘तिरि᳘डये᳘ति पु᳘रीषं घृतेने᳘ति चि᳘तिः स्वे᳘ति पु᳘रीषᳫँ᳭ हे᳘ति चि᳘तिः॥
मूलम् - श्रीधरादि
सजूर᳘ब्द ऽइ᳘ति चि᳘तिः॥
(र᳘) अ᳘यवोभिरि᳘ति पु᳘रीषᳫँ᳭ सजू᳘रुषा ऽइ᳘ति चि᳘तिर᳘रुणीभिरि᳘ति पु᳘रीषᳫँ᳭ सजो᳘षसावश्विने᳘ति चि᳘तिर्द᳘ᳫँ᳘सोभिरि᳘ति पु᳘रीषᳫँ᳭ सजूः सू᳘र ऽइ᳘ति चि᳘तिरे᳘तशेने᳘ति पु᳘रीषᳫँ᳭ सजू᳘र्व्वैश्वानर ऽइ᳘ति चि᳘तिरि᳘डये᳘ति पु᳘रीषं घृतेने᳘ति चि᳘तिः स्वे᳘ति पु᳘रीषᳫँ᳭ हे᳘ति चि᳘तिः॥
मूलम् - Weber
सजूर᳘ब्द इ᳘ति चि᳘तिः॥
अ᳘यवोभिरि᳘ति पु᳘रीषᳫं सजू᳘रुषा इ᳘ति चि᳘तिर᳘रुणीभिरि᳘ति पु᳘रीषᳫं सजो᳘षसावश्विने᳘ति चि᳘तिर्द᳘ᳫं᳘सोभिरि᳘ति पु᳘रीषᳫं सजूः सू᳘र इ᳘ति चि᳘तिरे᳘तशेने᳘ति पु᳘रीषᳫं सजू᳘र्वैश्वानर इ᳘ति चि᳘तिरि᳘डये᳘ति पु᳘रीषं घृतेने᳘ति चि᳘तिः स्वे᳘ति पु᳘रीषᳫं हे᳘ति चि᳘तिः॥
मूलम् - विस्वरम्
“सजूरब्दः”- इति चितिः (१) । “अयवोभिः”- इति पुरीषम् (२) । “सजूरुषाः”- इति चितिः (३) । “अरुणीभिः”- इति पुरीषम् (४) । “सजोषसावश्विना”- इति चितिः (५) । “दंसोभिः”- इति पुरीषम् (६) । “सजूः सूरः”- इति चितिः (७) । “एतशेन”- इति पुरीषम् (८) । “सजूर्वैश्वानरः”- इति चितिः (९) । “इडया”- इति पुरीषम् (१०) । “घृतेन”- इति चितिः (११) । “स्वा”- इति पुरीषम् (१२) । “हा”- (वा. सं. १२ । ७४) इति चितिः (१३) ॥ ८ ॥
सायणः
अभिहोमे मन्त्रं विधाय व्याहृतिरूपेण त्रयोदशधा विभज्य चितिपुरीषात्मना स्तौति- सजूरब्द इति चितिरित्यादिना । मन्त्रार्थस्तु,- ‘अब्दः’ संवत्सरः ‘अयवोभिः’ मासैरर्द्धमासैश्च ‘सजूः’ समानजोषणः । यवा अयवाश्चार्द्धमासा मासाश्चोच्यन्ते; अर्द्धमासा एव वा, “पूर्वपक्षा वै यवा अपरपक्षा अयवाः”- इति श्रुतेः (श. प. ८ । ४ । २ । ११) । ‘उषाः’ रात्रेरपरः कालः । ‘अरुणीभिः’ अरुणवर्णाभिर्गोभिः ‘सजूः’ समानजोषणः । “अरुण्यो गाव उषसम्”- इति निघण्टुः (१ । १५ । खं. ७) । ‘अश्विना’ नासत्यौ देवौ ‘दंसोभिः’ कर्मभिः सजोषसौ समानजोषणौ । ‘सूरः’ सूर्यः ‘एतशेन’ हरितवर्णेनाश्वेन ‘सजूः’ ‘वैश्वानरः’ विश्वनरनेता अग्निः ‘इडया’ अग्नाय्या ‘घृतेन’ आज्येन हविषा च ‘सजूः’ ‘स्वाहा’ इदमाज्यं सुहुतमस्तु ॥ ८ ॥
Eggeling
- [Vāj. S. XII, 74] ‘The year,’ this is a layer (of bricks);–’together with the dark half-months,’ this is a layer of earth;–’the Dawn,’ this is a layer (of bricks);–’together with the ruddy (cows),’ this is a layer of earth;–’the two Aśvins,’ this is a layer (of bricks); ’together with their wonderful deeds,’ this is a layer of earth;–’the Sun,’ this is a layer (of bricks);–’together with the dappled horse,’ this is a layer of earth;–’(Agni) Vaiśvānara,’ this is a layer (of bricks);–’together with Iḍā,’ this is a layer of earth;–‘with ghee,’ this is a layer (of bricks);–‘Svā-,’ this is a layer of earth;–‘hā!’ this is a layer (of bricks).
०९
विश्वास-प्रस्तुतिः
(स्त्र᳘) त्र᳘योदशैता व्या᳘हृतयो भवन्ति॥
त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोत्या᳘ज्येन जुहोत्यग्नि᳘रेष यदा᳘ज्यमग्नि᳘मे᳘वैत᳘च्चिनोति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोत्यूर्ध्वा᳘मुद्गृह्ण᳘ञ्जुहोत्यूर्ध्वं त᳘दग्निं चि᳘तिभिश्चिनोति॥
मूलम् - श्रीधरादि
(स्त्र᳘) त्र᳘योदशैता व्या᳘हृतयो भवन्ति॥
त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोत्या᳘ज्येन जुहोत्यग्नि᳘रेष यदा᳘ज्यमग्नि᳘मे᳘वैत᳘च्चिनोति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोत्यूर्ध्वा᳘मुद्गृह्ण᳘ञ्जुहोत्यूर्ध्वं त᳘दग्निं चि᳘तिभिश्चिनोति॥
मूलम् - Weber
त्र᳘योदशैता व्या᳘हृतयो भवन्ति॥
त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनमेत᳘च्चिनोत्या᳘ज्येन जुहोत्यग्नि᳘रेष यदा᳘ज्यमग्नि᳘मेॗवैत᳘च्चिनोति पञ्चगृहीते᳘न प᳘ञ्चिचिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनमेत᳘च्चिनोत्यूर्ध्वा᳘मुद्गृह्ण᳘न्जुहोत्यूर्ध्वं त᳘दग्निं चि᳘तिभिश्चिनोति॥
मूलम् - विस्वरम्
त्रयोदशैता व्याहृतयो भवन्ति । त्रयोदश मासाः संवत्सरः । त्रयोदशाग्नेश्चितिपुरीषाणि । यावानग्निर्यावत्यस्य मात्रा- तावन्तमेवैनमेतच्चिनोति । आज्येन जुहोति । अग्निरेषः- यदाज्यम् । अग्निमेवैतच्चिनोति । पञ्चगृहीतेन । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निः, यावत्यस्य मात्रा- तावन्तमेवैनमेतच्चिनोति । ऊर्ध्वामुद्गृह्णञ्जुहोति । ऊर्ध्वं तदग्निं चितिभिश्चिनोति ॥ ९॥
सायणः
त्रयोदशधा विभक्ता मन्त्रावयवा व्याहृतिरूपाः स्युरित्याह- त्रयोदशैता इति । व्याह्रियन्त 8 एभिः ‘व्याहृतयः’ । ‘एताः’ इति स्त्रीलिङ्गत्वं व्याहृतिशब्दापेक्षम् । व्याहृतिगतां त्रयोदशसङ्ख्यां प्रशंसति- त्रयोदश मासा इति । संसर्पांहस्पतिसञ्ज्ञको ऽधिमासस्त्रयोदशः । “अस्ति त्रयोदशो मासः”- (श. प. ४ । ३ । १ । ५) इति श्रुतेः । त्रयोदशाग्नेरिति । चित्यस्याग्नेश्चितयः पुरीषाणि च मिलित्वा त्रयोदश सम्पद्यन्ते । तथाहि- आदितश्चतस्रश्चितयः पुरीषनिवपनान्ताः ८, स्तोमभागान्ता पञ्चमी चितिः ९, तदनन्तरभावि पुरीषमेकम् १०, नाकसत्प्रभृतिपुरीषनिवपनान्ता षष्ठी चितिरिति द्वे १२, ततो विकर्णीस्वयमातृण्णयोरुपधानं हिरण्यशकलैः प्रोक्षणमग्न्यभ्याधानं चेति सप्तमी चितिः । सा १३ त्रयोदशीत्यादिर्विभाग ऊह्यः (श. प. ८ । ५ । ४ ब्रा.) । यावानग्निरित्यादि असकृद् गतम् ॥
आज्यस्य होमसाधनत्वमनूद्य प्रशंसति- आज्येनेत्यादिना । आज्यस्याग्नित्वम् “तेजो वै घृतम्”- (ऐ. ब्रा. ८ । ४ । ६ तै. सं. २ । ५ । २ । ७) इति श्रुतेः । पञ्चगृहीतेनेत्यादि । व्याख्यातचरम् । तत्राभिहोमे स्रुच उद्गृहीतत्वं विधाय प्रशंसति- ऊर्द्ध्वामिति । ‘उद्गृह्णन्’ स्रुचमूर्द्ध्वां कुर्वन् जुहोतीत्यर्थः । ‘तत्’ तेन स्रुच ऊर्द्ध्वकरणेन ‘अग्निं’ प्रकृतं ‘चितिभिः’ ऊर्द्ध्वं चितवान् भवति । “पञ्चगृहीते नोद्गृह्णन्नभिजुहोति सजूरब्द इति”- (का. श्रौ. सू. १७ । ४७ ।) इति सूत्रम् ॥ ९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (७ । २ । ३) ॥
Eggeling
- There are thirteen utterings,–thirteen months are a year; thirteen in number are the layers of bricks and earth of the fire-altar: as great as Agni is, as great as is his measure, so great he thus builds him up. With butter he sacrifices,–butter is the
same as Agni: it is Agni he thus builds up. With fivefold-taken (butter he offers),–the altar consists of five layers,–five seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great he thus builds him up. He offers raising (the spoon) upwards: he thus builds Agni upwards by means of the layers (of the altar).
-
कुशस्तंबमुपदधाति मध्ये तूष्णीम् । का. श्रौ. सू. १७ । ४६ । अथमपक्वेष्टकास्वप्यन्तर्भूतो नेति बोध्यम् । ↩︎
-
धातुपाठे “दृभी ग्रन्थे”- इत्यस्ति ग्रन्थनमेव गुम्फनमतः सम्यक् । इति बोध्यम् ॥ ↩︎
-
332:1 The author here alludes to the legend given at I, 1, 3, 4-5,–Vr̥tra lay enveloping all that space which extends between heaven and earth, and because he lay enveloping (vr̥) all that, he is called Vr̥tra. Him Indra slew. Being slain, he flowed stinking in all directions towards the water; for in every direction lies the ocean. Now some of the water loathed him, it rose higher and higher and flowed over: hence (sprang) these kuśa grasses,–they are indeed the water which was not putrified; but with the other water some (matter) has indeed become mixed when the putrid Vr̥tra flowed into it. ↩︎
-
332:2 See p. 200, note 3. ↩︎
-
333:1 See VI, 1, 1, 1. ↩︎
-
333:2 Literally, a share in front, in the first place, i.e. a preferential share, or fore-taste. Being accented separately, ‘purastāt’ here, however, forms no compound with ‘bhāga;’ though it does in ‘purastādbhāga,’ fore-sharer. Cf. Taitt. S. V, 6, 4, 2. ↩︎
-
334:1 Literally, a conclusion previously, or at the beginning of the performance. ↩︎
-
“व्याह्रियन्ते प्रतिपाद्यन्ते एभिश्चितिपुरीषाणीति व्याहृतयो मन्त्रभागाः”- इति क्व. पा. । ↩︎