०१
विश्वास-प्रस्तुतिः
अ᳘थ प्रायणी᳘यं नि᳘र्वपति॥
त᳘स्य हविष्कृ᳘ता व्वा᳘चं व्वि᳘सृजते व्वा᳘चं व्विसृ᳘ज्य स्तम्बयजु᳘र्हरति स्तम्बयजु᳘र्हृत्वा पू᳘र्वेण परिग्रहे᳘ण परिगृ᳘ह्य लिखि᳘त्वा ऽऽह ह᳘र त्रिरि᳘ति ह᳘रति त्रिरा᳘ग्नीध्रः॥
मूलम् - श्रीधरादि
अ᳘थ प्रायणी᳘यं नि᳘र्वपति॥
त᳘स्य हविष्कृ᳘ता व्वा᳘चं व्वि᳘सृजते व्वा᳘चं व्विसृ᳘ज्य स्तम्बयजु᳘र्हरति स्तम्बयजु᳘र्हृत्वा पू᳘र्वेण परिग्रहे᳘ण परिगृ᳘ह्य लिखि᳘त्वा ऽऽह ह᳘र त्रिरि᳘ति ह᳘रति त्रिरा᳘ग्नीध्रः॥
मूलम् - Weber
अ᳘थ प्रायणी᳘यं नि᳘र्वपति॥
त᳘स्य हविष्कृ᳘ता वा᳘चं वि᳘सृजते वा᳘चं विसृ᳘ज्य स्तम्बयजु᳘र्हरति स्तम्बयजु᳘र्हृत्वा पू᳘र्वेण परिग्रहे᳘ण परिगृ᳘ह्य लिखिॗत्वाह ह᳘र त्रिरि᳘ति ह᳘रति त्रिरा᳘ग्नीध्रः॥
मूलम् - विस्वरम्
अथ प्रायणीयं निर्वपति । तस्य हविष्कृता वाचं विसृजते । वाचं विसृज्य स्तम्बयजुर्हरति । स्तम्बयजुर्हृत्वा पूर्वेण परिग्रहेण परिगृह्य लिखित्वा ऽऽह- ‘हर त्रिः’ इति । हरति त्रिराग्नीध्रः ॥ १ ॥
सायणः
अथ शालाद्वार्योपस्थानमभिधाय प्रायणीयेष्टिं विधत्ते- अथ प्रायणीयमिति । शालाद्वार्योपस्थानानन्तर्यम् ‘अथ’ शब्दार्थः । ‘प्रायणीयम्’ प्राकृतं ज्योतिष्टोमिकम् अदित्यै चरुं ‘निर्वपति’ (का. श्रौ. सू. ७ । १४०) । (ऐ. ब्रा. १ प. २ अ. १ ख.) (आ. श्रौ. सू. ४ । २ । १८; ३ । १) । अग्रे सीरयोजनं विधातुं प्रायणीयेष्टेः कांश्चित् पदार्थाननुवदति- तस्य हविष्कृतेत्यादिना । ‘तस्य’ प्रायणीयस्य ‘हविष्कृता’ हविष्कृच्छब्देन सह हविष्कृदाह्वानकाले वाग्विसर्गं कुर्यात् । हविरावापानन्तरं वा हविष्कृदाह्वानकाले वाग्विसर्गो विकल्पितः, तत्र नियमार्थो ऽयमनुवादः । ‘स्तम्बयजुः’- इति पुरीषहरणकर्मणो नामधेयम् । यद्वा, स्तम्बस्य यजुषा “पृथिवि देवयजनि” इत्यादिना पुरीषं लक्ष्यते, तत् पुरीषं ‘हरति’ तदनु ‘पूर्वेण परिग्रहेण’ वेदिं ‘परिगृह्य’ ततो लिखित्वा स्फ्येन प्राचीस्तिस्रो लेखाः कृत्वा आग्नीध्रं प्रत्यध्वर्युः ‘आह’ ब्रूते । किमित्यपेक्षायामाह- हर त्रिरिति । ह आग्नीध्र ! त्वं कृता लेखाः त्रिवारं ‘हर’ इति प्रैषार्थः । प्रेषितेनाग्नीध्रेण कर्तव्यमाह- हरति त्रिरिति ॥ १ ॥
Eggeling
- He then prepares the Prāyaṇīya 1 (opening sacrifice). With the Havishkr̥t of that (oblation) he releases (the Sacrificer’s) speech 2. Having released his speech, he throws away the grass-bush (stambayajus 3). Having thrown away the grass-bush, and drawn the first line of enclosure 4, and the lines (across the mahā-vedi), he says, ‘Throw thrice!’ and the Āgnīdhra throws thrice (the wooden sword) 5.
०२
विश्वास-प्रस्तुतिः
प्रत्ये᳘त्य प्रायणी᳘येन प्र᳘चरति॥
प्रायणी᳘येन प्रच᳘र्य सी᳘रं युनक्त्येतद्वा᳘ ऽएनं देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘न्नेन स᳘मार्धयंस्त᳘थै᳘वैनमय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्ताद᳘न्नेन स᳘मर्धयति सी᳘रं भवति से᳘रᳫँ᳭ हैतद्यत्सी᳘रमि᳘रामे᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - श्रीधरादि
प्रत्ये᳘त्य प्रायणी᳘येन प्र᳘चरति॥
प्रायणी᳘येन प्रच᳘र्य सी᳘रं युनक्त्येतद्वा᳘ ऽएनं देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘न्नेन स᳘मार्धयंस्त᳘थै᳘वैनमय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्ताद᳘न्नेन स᳘मर्धयति सी᳘रं भवति से᳘रᳫँ᳭ हैतद्यत्सी᳘रमि᳘रामे᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - Weber
प्रत्ये᳘त्य प्रायणी᳘येन प्र᳘चरति॥
प्रायणी᳘येन प्रच᳘र्य सी᳘रं युनक्त्येतद्वा᳘ एनं देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘न्नेन स᳘मार्धयंस्त᳘थैॗवैनमय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्ताद᳘न्नेन स᳘मर्धयति सी᳘रम् भवति से᳘रᳫं हैतद्यत्सी᳘रमि᳘रामेॗवास्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
प्रत्येत्य प्रायणीयेन प्रचरति । प्रायणीयेन प्रचर्य सीरं युनक्ति । एतद्वा ऽएनं देवाः संस्करिष्यन्तः पुरस्तादन्नेन समार्धयन् । तथैवैनमयमेतत्संस्करिष्यन् पुरस्तादन्नेन समर्धयति । सीरं भवति । सेरं हैतद्- यत् सीरम् । इरामेवास्मिन्नेतद्दधाति ॥ २ ॥
सायणः
विहितस्य प्रायणीयहविषः प्रचारं विधत्ते- प्रत्येत्येति 6 । ‘प्रत्येत्य’ महावेदेः प्रत्यागत्य ‘प्रायणीयेन’ हविषा प्रचरेत् । प्रत्येत्येति वचनादेव पूर्वमुक्तं स्तम्बयजुर्हरणादिकं महावेद्यामेव कर्त्तव्यम्, न तु प्रायणीयवेद्यामिति प्रतीयते । प्रायणीयान्ते शंय्वन्ते प्राक्सोमनिवपनात् सीरयोजनं विधत्ते- प्रायणीयेन प्रचर्य सीरं युनक्तीति 7 । ‘प्रायणीयेन’ प्रायणीयशेषेण प्रचारं कृत्वा, ‘सीरं’ हलं ‘युनक्ति’ युञ्ज्यात् । विहिते सीरयोजने प्रजापतेः सीरलक्षणेनान्नेन समर्द्धनद्वारा देवकर्तृकं संस्कारं प्रतिपादयति- एतद्वा एनमिति । ‘एतत्’ एतर्हि एतस्मिन्नवसरे खलु ‘एनं’ पितरं प्रजापतिं विस्रस्तावयवं चयनेन संस्करिष्यन्तो ‘देवाः’ ‘पुरस्तात्’ ततः प्रागेव सीरलक्षणेनान्नेन समृद्धमकुर्वन् । एवमेव ‘अयं’ यजमानो ऽपि ‘एनं’ प्रजापतिं चित्याग्निरूपेण ‘संस्करिष्यन्’ ततः प्रागेव सीरलक्षणेनान्नेन ‘समर्द्धयति’ । नामनिर्वचनेन तस्यान्नरूपतामाविष्करोति- सीरं भवतीत्यादिना । इरया अन्नेन सह वर्त्तत इति सेरम्, एतदेव पारोक्ष्येण सीरमित्युच्यते । अतः कर्षणसाधनत्वेन सीरस्य विधानात् ‘इराम्’ अन्नम् एव ‘अस्मिन्’ संस्क्रियमाणे चित्याग्निरूपे प्रजापतौ ‘एतत्’ एतर्हि ‘दधाति’ स्थापयति ॥ २ ॥
Eggeling
- Having returned (to the offering, or hall-door
fire) he proceeds with the opening sacrifice. Having performed the opening sacrifice, he yokes a plough. For the gods at that time, being about to heal him (Agni-Prajāpati), first supplied him with food, and in like manner does this (Sacrificer) now that he is about to heal him, first supply him with food. It (the food) is the plough (sīra), for ‘sīra’ is the same as ‘sera 8:’ he thus puts food into him.
०३
विश्वास-प्रस्तुतिः
(त्यौ᳘) औ᳘दुम्बरं भवति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन स᳘मर्धयति मौञ्जं प᳘रिसीर्यं त्रिवृत्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(त्यौ᳘) औ᳘दुम्बरं भवति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन स᳘मर्धयति मौञ्जं प᳘रिसीर्यं त्रिवृत्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
औ᳘दुम्बरम् भवति॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊॗर्जैॗवैनमेतद्र᳘सेन स᳘मर्धयति मौञ्जम् प᳘रिसीर्यं त्रिवृत्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
औदुम्बरं भवति । ऊर्ग्वै रस उदुम्बरः । ऊर्जैवैनमेतद्रसेन समर्धयति । मौञ्जं परिसीर्यम्- त्रिवृत् । तस्योक्तो बन्धुः ॥ ३ ॥
सायणः
सीरोपादानभूतं वृक्षविशेषं विधाय स्तौति- औदुम्बरं भवतीति 9 । उदुम्बरस्य विकारः औदुम्बरः । ऊर्ग्वै रस उदुम्बर इति । ऊर्क्’ बलकरमन्नम्, तदात्मको रस एव उदुम्बरवृक्षात्मना परिणतः । अत एव श्रूयते- “देवा वा ऊर्जं व्यभजन्त तत उदुम्बर उदतिष्ठत्” (श० प० ३ । २ । १ । ३३) इति । ऊर्जैवैनमित्यादि । ऊर्ग्रूपेण रसेनेत्यर्थः । सीरयोजनार्थानां रज्जूनां प्रकृतिद्रव्यं विधत्ते- मौञ्जमिति 10 । ‘परिसीर्यं’ परितः सीरस्य योजनायोपयुज्यमानं दाम ‘मौञ्जम्’ मुञ्जतृणैर्निर्मितं ‘त्रिवृत्’ त्रिगुणञ्च कर्त्तव्यम् । तस्योक्तो बन्धुरिति । ‘तस्य’ मौञ्जत्वस्य त्रिवृत्त्वस्य च स्तावकं “सैषा योनिरग्नेर्यन्मुञ्जः”- इत्यादिकम् (श. प. ब्रा. ६ । ३ । १ । २६) “त्रिवृदग्निर्यावानग्निः"- (श. प. ब्रा. ६ । ३ । १ । २६) इत्यादि च वाक्यं प्रागाम्नातम्, अत्रानुसन्धेयमित्यर्थः ॥ ३ ॥
Eggeling
- It is made of udumbara (ficus glomerata) wood,–the Udumbara tree being sustenance, life-sap: he thus supplies him with sustenance, with life-sap. The cordage of the plough consists of muñja grass, triply twisted: the significance of this has been explained.
०४
विश्वास-प्रस्तुतिः
सो ऽग्नेर्द᳘क्षिणाᳫँ᳭ श्रो᳘णिम्॥
(ञ्ज) जघ᳘नेन ति᳘ष्ठन्नु᳘त्तरस्या᳘ᳫँ᳘सस्य पुर᳘स्ताद्युज्य᳘मानमभि᳘मन्त्रयते सी᳘रा युञ्जन्ति कव᳘यो युगा व्वि᳘तन्वते पृ᳘थगि᳘ति ये᳘ व्विद्वा᳘ᳫँ᳘सस्ते᳘ कव᳘यस्ते सी᳘रं च युञ्ज᳘न्ति युगा᳘नि च व्वि᳘तन्वते पृ᳘थग्धी᳘रा देवे᳘षु सुम्नये᳘ति यज्ञो वै᳘ सुम्नं धी᳘रा देवे᳘षु यज्ञं᳘ तन्वाना ऽइ᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
सो ऽग्नेर्द᳘क्षिणाᳫँ᳭ श्रो᳘णिम्॥
(ञ्ज) जघ᳘नेन ति᳘ष्ठन्नु᳘त्तरस्या᳘ᳫँ᳘सस्य पुर᳘स्ताद्युज्य᳘मानमभि᳘मन्त्रयते सी᳘रा युञ्जन्ति कव᳘यो युगा व्वि᳘तन्वते पृ᳘थगि᳘ति ये᳘ व्विद्वा᳘ᳫँ᳘सस्ते᳘ कव᳘यस्ते सी᳘रं च युञ्ज᳘न्ति युगा᳘नि च व्वि᳘तन्वते पृ᳘थग्धी᳘रा देवे᳘षु सुम्नये᳘ति यज्ञो वै᳘ सुम्नं धी᳘रा देवे᳘षु यज्ञं᳘ तन्वाना ऽइ᳘त्येत᳘त्॥
मूलम् - Weber
सो ऽग्नेर्द᳘क्षिणां श्रो᳘णिम्॥
जघ᳘नेन ति᳘ष्ठन्नु᳘त्तरस्या᳘ᳫं᳘सस्य पुर᳘स्ताद्युज्य᳘मानमभि᳘मन्त्रयते सी᳘रा युञ्जन्ति कव᳘यो युगा वि᳘तन्वते पृ᳘थगि᳘ति ये᳘ विद्वा᳘ᳫं᳘सस्ते᳘ कव᳘यस्ते सी᳘रं च युञ्ज᳘न्ति युगा᳘नि च वि᳘तन्वते पृ᳘थग्धी᳘रा देवे᳘षु सुम्नये᳘ति यज्ञो वै᳘ सुम्नं धी᳘रा देवे᳘षु यज्ञं᳘ तन्वाना इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
सो ऽग्नेर्दक्षिणां श्रोणिं जघनेन तिष्ठन्नुत्तरस्यांसस्य पुरस्ताद्युज्यमानमभिमन्त्रयते- “सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक्”- इति । ये विद्वांसस्ते कवयः । ते सीरं च युञ्जन्ति, युगानि च वितन्वते पृथग् । “धीरा देवेषु सुम्नया”- (वा० सं० १२ । ६७)- इति । यज्ञो वै सुम्नम् । धीरा देवेषु यज्ञं तन्वाना इत्येतत् ॥ ४ ॥
सायणः
युज्यमानस्य सीरस्य स्थानविशेषविशिष्टमभिमन्त्रणं विधत्ते- सो ऽग्नेरिति 9 । चेष्यमाणस्याग्नेर्यावान् भूभागः शौल्बेन मानेन चतुरस्रीकृतः, तस्य ‘दक्षिणां श्रोणिं जघनेन’ दक्षिणापरेण तस्य पश्चात् ‘तिष्ठन्’ ‘उत्तरांसस्य’ अग्निक्षेत्रसम्बन्धिन उत्तरपूर्वकोणस्य ‘पुरस्तात्’ ‘युज्यमानं’ सीरं युगबलीवर्दादिभिः सह रज्ज्वा बध्यमानं “सीरा युञ्जन्ति’- इति मन्त्रद्वयेन ‘अभिमन्त्रयते’ । अभिमन्त्रणं 10 नाम मन्त्रेण स्मर्यमाणस्यार्थस्येक्षणपूर्वकमनुसन्धानम् । उक्तं हि- “मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत् । सेक्षणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम् । एतदेवाभिमन्त्रणलक्षणञ्चेक्षणावधि” इति । अत्र च सीरयोजनस्य तदभिमन्त्रणस्य च भिन्नदेशकर्मकर्त्तव्यतया यौगपद्याय कर्तृभेदो ऽवसीयते । तत्राभिमन्त्रणस्य संस्कार्यतया प्रधानत्वात् सीरयोजनमध्वर्युः कुर्यात्, तत्संस्कारात्मकमभिमन्त्रणं तु द्वितीयः प्रतिप्रस्थाता कुर्यात् । उक्तं हि सूत्रभाष्यकृता कर्कोपाध्यायेन- “प्रतिप्रस्थाता ऽभिमन्त्रयते- सीरा युञ्जन्तीत्यनेन मन्त्रेण, योजने तु प्रधानत्वादध्वर्युः” (का. श्रौ. सू. १७ । ३४ । क. भा.) इति ॥
तत्र “सीरा युञ्जन्ति” इति गायत्री प्रथमो मन्त्रः, तस्याः पूर्वार्द्धमनूद्य व्याचष्टे-सीरा युञ्जन्तीति । ये विद्वाँसस्ते कवय इति । मन्त्रगतेन ‘कवि’- शब्देन सीरयोजनप्रकारं सम्यग्जानानास्तदभिज्ञा विवक्षिता इत्यर्थः । सीरञ्चेति । “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इत्यनेन मन्त्रे सीरशब्दात् परस्य अमः आकारः । युगानि चेति । “शेश्छन्दसि बहुलम्”- (पा. सू. ६ । १ । ७०) इति युगशब्दात् परस्य शेर्मन्त्रे लोप इत्यर्थः । उत्तरार्द्धमनूद्य व्याचष्टे- धीरा देवेष्विति । सुम्नशब्दात् परस्य द्वितीयैकवचनस्य या आदेशः (पा. सू. ७ । १ । ३९) । सुखहेतुत्वात् यज्ञः खलु सुम्नशब्दाभिधेयः । वितन्वत इति प्रकृतस्य कर्मणो ऽनुषङ्गमाह- तन्वाना इत्येतदिति ॥
तदयं मन्त्रार्थः- ‘कवयः’ तदभिज्ञाः ‘सीरं’ च ‘युञ्जन्ति’ कर्मणो योग्यं बध्नन्ति षड्द्वादशादिसंख्यानामनडुहां योजनाय ‘पृथक्’ भेदेन ‘युगानि च’ ‘वितन्वते’ विस्तारयन्ति । किं कुर्वन्तः ? ‘देवेषु’ ‘सुम्नम्’ अग्निचयनलक्षणं यज्ञं ‘तन्वानाः’ विस्तारयन्त इति । अत एव ‘धीराः’ तदुपायभूतया धिया युक्ताः ‘इति’ ॥ ४ ॥
Eggeling
- Standing behind the right (southern) hip of Agni (the site of the fire-altar) he (the Pratiprasthātr̥) addresses it (the plough) while being yoked (by the Adhvaryu) in front of the left (northern) shoulder, with (Vāj. S. XII, 67, 68; R̥k S. X, 101, 4, 3), ‘The skilful yoke 11 the ploughs, and stretch across the yokes,’–the skilful are those who know, and they do yoke the plough and stretch the yokes across;–’the wise, with mind devoted to the gods,’–devotion means sacrifice: thus, ’the wise, performing sacrifice to the gods.’
०५
विश्वास-प्रस्तुतिः
(द्यु) युन᳘क्त सी᳘रा व्वि᳘ युगा᳘ तनुध्वमि᳘ति॥
युञ्ज᳘न्ति हि सी᳘रं व्वियुगा᳘नि तन्व᳘न्ति कृते यो᳘नौ व्वपतेह बी᳘जमि᳘ति बी᳘जाय वा᳘ ऽएषा यो᳘निष्क्रियते यत्सी᳘ता य᳘था ह वा ऽअ᳘योनौ रे᳘तः सिञ्चे᳘देवं तद्यद᳘कृष्टे व्व᳘पति गिरा᳘ च श्रुष्टिः स᳘भरा ऽअ᳘सन्न ऽइ᳘ति व्वाग्वै गीर᳘न्नᳫँ᳭ श्रुष्टिर्ने᳘दीय ऽइ᳘त्सृण्यः[[!!]] पक्वमे᳘यादि᳘ति यदा वा ऽअ᳘न्नं पच्यते᳘ ऽथ त᳘त्सृण्यो᳘पचरन्ति द्वा᳘भ्यां युनक्ति गायत्र्या᳘ च त्रिष्टुभा[[!!]] च त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(द्यु) युन᳘क्त सी᳘रा व्वि᳘ युगा᳘ तनुध्वमि᳘ति॥
युञ्ज᳘न्ति हि सी᳘रं व्वियुगा᳘नि तन्व᳘न्ति कृते यो᳘नौ व्वपतेह बी᳘जमि᳘ति बी᳘जाय वा᳘ ऽएषा यो᳘निष्क्रियते यत्सी᳘ता य᳘था ह वा ऽअ᳘योनौ रे᳘तः सिञ्चे᳘देवं तद्यद᳘कृष्टे व्व᳘पति गिरा᳘ च श्रुष्टिः स᳘भरा ऽअ᳘सन्न ऽइ᳘ति व्वाग्वै गीर᳘न्नᳫँ᳭ श्रुष्टिर्ने᳘दीय ऽइ᳘त्सृण्यः[[!!]] पक्वमे᳘यादि᳘ति यदा वा ऽअ᳘न्नं पच्यते᳘ ऽथ त᳘त्सृण्यो᳘पचरन्ति द्वा᳘भ्यां युनक्ति गायत्र्या᳘ च त्रिष्टुभा[[!!]] च त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
युन᳘क्त सी᳘रा वि᳘ युगा᳘ तनुध्वमि᳘ति॥
युञ्ज᳘न्ति हि सी᳘रं वि᳘ युगा᳘नि तन्व᳘न्ति कृते यो᳘नौ वपतेह बी᳘जमि᳘ति बी᳘जाय वा᳘ एषा यो᳘निष्क्रियते यत्सी᳘ता य᳘था ह वा अ᳘योनौ रे᳘तः सिञ्चे᳘देवं तद्यद᳘कृष्टे व᳘पति गिरा᳘ च श्रुष्टिः स᳘भरा अ᳘सन्न इ᳘ति वाग्वै गीर᳘न्नं श्रुष्टिर्ने᳘दीय इ᳘त्सृण्यः᳘ पक्वमे᳘यादि᳘ति यदा वा अ᳘न्नम् पच्यते᳘ ऽथ त᳘त्सृण्यो᳘पचरन्ति द्वा᳘भ्यां युनक्ति गायत्र्या᳘ च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“युनक्त सीरा वि युगा तनुध्वम्”- इति । युञ्जन्ति हि सीरं, वि युगानि तन्वन्ति । “कृते योनौ वपतेह बीजम्”- इति । बीजाय वा ऽएषा योनिष्क्रियते- यत् सीता । यथा ह वा ऽअयोनौ रेतः सिञ्चेद्- एवं तद्- यदकृष्टे वपति । “गिरा च श्रुष्टिः सभरा असन्नः”- इति । वाग्वै गीः, अन्नं श्रुष्टिः । “नेदीय इत्सृण्यः पक्वमेयात्"- (वा. सं. १२ । ६८) इति । यदा वा ऽअन्नं पच्यते- अथ तत् सृण्योपचरन्ति । द्वाभ्यां युनक्ति- गायत्र्या च त्रिष्टुभा च । तस्योक्तो बन्धुः ॥ ५ ॥
सायणः
युनक्तेति त्रिष्टुप् । तद्द्वितीयो ऽभिमन्त्रणमन्त्रः । पुरा परोक्षवदुक्तो ऽत एवास्य पादेन प्रत्यक्षवदुच्यते । हे यजमानपुरुषाः ! ‘सीरा’ पूर्ववदाकारः (पा. सू. ७ । १ । ३९ ।) सीरं ‘युनक्त’ बध्नीत । युजेः (धा. पा. रु० उ. ७) लोटि मध्यमपुरुषे बहुवचनस्य “तप्तनप्तनथनाश्च”- (पा. सू. ७ । १ । ४५) इति तबादेशः । अत एव श्नमो ऽलोपाभावः । ‘युगा’ पूर्ववच्छेर्लोपः (पा. सू. ७ । १ । ३९) युगानि च ‘वितनुध्वं’ विस्तारयतेति । प्रत्यक्षवदुक्तार्थं श्रुतिः स्वयं परोक्षवद् व्याचष्टे- युञ्जन्ति हीति । ‘सीरं युञ्जन्ति’ ‘युगानि’ च ‘वितन्वन्ति,’ कवय इति शेषः ॥
द्वितीयपादमनूद्य व्याचष्टे- बीजाय वा इति । बीजवपनाय सीतारूपा योनिर्विधीयते । विपक्षे दोषमुद्भावयति- यथा ह वा इति । ‘अकृष्टे’ अलिखिते ‘यत्’ यदि ‘वपति,’ तर्हि ‘अयोनौ’ गर्भाशयादन्यत्र यथा रेतःसेकस्तथा व्यर्थं भवेदित्यर्थः ॥
तृतीयपादमनूद्य तत्रत्ययोर्गीःश्रुष्टिशब्दयोः क्रमेण वागन्नार्थतामाह- वाग्वै गीरन्नं श्रुष्टिरिति । चतुर्थपादमनूद्य तत्तात्पर्यमाह- यदा वा इति । ‘यदा’ खलु समये ‘अन्नं’ व्रीहियवादि स्वयं पक्वं भवति । ‘अथ’ तदानीं ‘सृण्या’ दात्रेण ‘उपचरन्ति’ लुनन्तीत्यर्थः ॥
मन्त्रार्थस्तु,- हे यजमानपुरुषाः ‘सीरा’ सीरं हलं ‘युनक्त’ योजयत, ‘युगा,’ युगानि ‘वितनुध्वं’ विशेषेण योक्त्रप्रभृतिभिर्विस्तारयत । ‘इह’ क्षेत्रे ‘योनौ’ स्थाने ‘कृते’ संस्कृते सति ‘बीजं’ व्रीह्यादि ‘वपत’ निक्षिपतेत्यर्थः । केन साधनेनेत्यपेक्षायामाह- गिरा चेति । ‘गिरा’ वाचा “या ओषधीः” इत्यादिवक्ष्यमाणमन्त्ररूपया 12 च- शब्दाच्चमसेनापि, वपतेति सम्बन्धः । ‘श्रुष्टिः’ व्रीह्यादिकान्नजातिः, ‘सभराः’ फलकृतेन भरसा भरणेन सह वर्तत इति सभराः, अभितफलेति यावत् । तादृशी ‘नः’ अस्माकं यथा ‘असत्’ भवेत् । ‘इत्’ शब्दो ऽनर्थकः (निरु. १ । ३ । ४ ।) ‘सृण्यः’ अङ्कुशाकारस्य लवनसाधनस्य दात्रस्य ‘नेदीयः’ अन्तिकतमं ‘पक्वं’ व्रीह्याद्यन्नं यथा ‘आ-इयात्’ आगच्छेत्, तथा वपतेति सम्बन्धः । “सृणिरङ्कुशो भवति, सरणात्” - (निरु. ५ । ४ । ९ ।) इति हि यास्कः ॥
तच्च युज्यमानाभिमन्त्रणं द्वाभ्यां गायत्रीत्रिष्टुब्भ्यां कुर्यादित्याह- द्वाभ्यामिति । तस्य द्विसंख्यायोगस्यार्थवादो “द्वाभ्यां प्रवृणक्ति द्विपाद्यजमानः”- (श. प. ६ । ६ । २ । ७) इत्यादिना षष्ठकाण्डे प्रागाम्नात इत्याह- तस्योक्त इति ॥ ५ ॥
Eggeling
- ‘Yoke ye the ploughs, and stretch across the yokes!’–they indeed yoke the plough, and stretch the yokes across;–‘into the ready womb here cast ye the seed!’ it is for the seed that that womb, the furrow, is made; and if one casts
(seed) into unploughed (ground), it is just as if one were to shed seed elsewhere than into the womb. ‘And plentiful yield 13 be there through our song!’–the song is speech, and yield means food;–‘and let the ripe crop go anigh the sickle!’ for when food gets ripe, people approach it with the sickle. With two (verses) he yokes, a Gāyatrī and a Trishṭubh one: the significance of this has been explained.
०६
विश्वास-प्रस्तुतिः
स᳘ दक्षिण᳘मेवा᳘ग्रे युनक्ति॥
(क्त्य᳘) अ᳘थ सव्य᳘मेवं᳘ देव᳘त्रेतर᳘था मानुषे᳘ षड्गवं᳘ भवति द्वादशगवं᳘ वा चतुर्विᳫँ᳭शतिगवं᳘ वा संवत्सरमेवाभिसम्प᳘दम्[[!!]]॥
मूलम् - श्रीधरादि
स᳘ दक्षिण᳘मेवा᳘ग्रे युनक्ति॥
(क्त्य᳘) अ᳘थ सव्य᳘मेवं᳘ देव᳘त्रेतर᳘था मानुषे᳘ षड्गवं᳘ भवति द्वादशगवं᳘ वा चतुर्विᳫँ᳭शतिगवं᳘ वा संवत्सरमेवाभिसम्प᳘दम्[[!!]]॥
मूलम् - Weber
स᳘ दक्षिण᳘मेवा᳘ग्रे युनक्ति॥
अ᳘थ सव्य᳘मेवं᳘ देवॗत्रेतर᳘था मानुषे᳘ षड्गव᳘म् भवति द्वादशगवं᳘ वा चतुर्विंशतिगवं᳘ वा संवत्सर᳘मेॗवाभिसम्प᳘दम्॥
मूलम् - विस्वरम्
स दक्षिणमेवाग्रे युनक्ति । अथ सव्यम् । एवं देवत्रा । इतरथा मानुषे । षड्गवं भवति, द्वादशगवं वा, चतुर्विंशतिगवं वा- संवत्सरमेवाभिसम्पदम् ॥ ६ ॥
सायणः
विहिते सीरयोजने दक्षिणसव्ययोर्धुर्ययोः पौर्वापर्यं विधत्ते- स दक्षिणमेवाग्र इति । ‘सः’ अध्वर्युः दक्षिणमेव धुर्यं प्रथमं युञ्ज्यात्, तदनु ‘सव्यं’ वामं धुर्यमित्यर्थः । ‘एवम्’ उक्तकरणम् ‘देवत्रा’ देवेषु कृतं स्यात्; मनुष्यव्यवहारे तु ‘इतरथा’ सव्यः पूर्वो, दक्षिणः पश्चादिति भेदः ॥
सीरयोजने अनडुहां वैकल्पिकं सङ्ख्यात्रितयं विधत्ते- षड्गवमित्यादिना । षड्गावः समाहृताः षड्गवम् । “तद्धितार्थोत्तरपदसमाहारे च”- (पा. सू. २ । १ । ५१ ।) इति समाहारे तत्पुरुषैकदेशो द्विगुः । ततो “गोरतद्धितलुकि”- (पा. सू. ५ । ४ । ९२) इति टच् समासान्तः । तथा ‘द्वादशगवम्,’ ‘चतुर्विंशतिगवं’ चेति पक्षौ । तत्रापि पक्षद्वये तथैव समासः, समासान्तश्च । “षट् द्वादश चतुर्विंशतिं वा युनक्ति पूर्वेणोत्तरांसम्”- (का. श्रौ. सू. १७ । ३३ । ३४) इति हि सूत्रम् । सङ्ख्यात्रितये ऽप्युपपत्तिमाह- संवत्सरमेवेति । सम्पद्यत इति सम्पत् । षडृतु-द्वादशमास-चतुर्विंशत्यर्द्धमाससम्पत्त्यात्मको यस्तं तादृशं संवत्सरमभिलक्ष्य त्रयो ऽप्येते पक्षा उपपन्ना इत्यर्थः ॥ ६ ॥
Eggeling
- He yokes the right (ox) first, then the left one: thus it is (done) with the gods, differently in human (practice). It is a team of six oxen, or one of twelve oxen, or one of twenty-four oxen: it is the year (he obtains) as the consummation.
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थैनं व्वि᳘कृषति॥
(त्य᳘) अ᳘न्नं वै᳘ कृषि᳘रेतद्वा᳘ ऽअस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘न्नमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्ताद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थैनं व्वि᳘कृषति॥
(त्य᳘) अ᳘न्नं वै᳘ कृषि᳘रेतद्वा᳘ ऽअस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘न्नमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्ताद᳘न्नं दधाति॥
मूलम् - Weber
अ᳘थैनं वि᳘कृषति॥
अ᳘न्नं वै᳘ कृषि᳘रेतद्वा᳘ अस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘न्नमदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्ताद᳘न्नं दधाति॥
मूलम् - विस्वरम्
अथैनं विकृषति- अन्नं वै कृषिः । एतद्वा ऽअस्मिन्देवाः संस्करिष्यन्तः पुरस्तादन्नमदधुः । तथैवास्मिन्नयमेतत् संस्करिष्यन्पुरस्तादन्नं दधाति ॥ ७ ॥
सायणः
अथ चित्याग्निक्षेत्रमध्ये विकर्षणं विधत्ते- अथैनमिति । ‘एनम्’ आत्मानम् । तदेव कर्षणमन्नात्मना स्तौति- अन्नं वा इति । ‘अन्नं’ खलु ‘कृषिः’; तद्धेतुत्वात् । कृष्टे एव हि सम्यगन्नं पच्यते । कर्षणमेव तद्देवकर्तृकान्नाधानतया स्तौति- एतद्वा इति । ‘पुरस्तात्’ चयनात् प्रागेव ‘देवाः’ संस्कारं करिष्यन्तः ‘अस्मिन्’ आत्मनि ‘एतत्’ एतेन कर्षणेन ‘अन्नम्’ एव स्थापितवन्तः, तथैवायं यजमानो ऽपि इति ॥ ७ ॥
Eggeling
- He then ploughs through it,–ploughing means food; and the gods at that time when they were about to heal him (Agni-Prajāpati) first put food into him; and in like manner does this (Sacrificer) now when he is about to heal him, first put food into him.
०८
विश्वास-प्रस्तुतिः
स वा᳘ ऽआत्मा᳘नमेव᳘ व्विकृष᳘ति॥
न᳘ पक्षपुच्छा᳘न्यात्मंस्तद᳘न्नं द᳘धाति य᳘दु वा᳘ ऽआत्मन्न᳘न्नं धीय᳘ते त᳘दात्मा᳘नम᳘वति त᳘त्पक्षपुच्छान्य᳘थ य᳘त्पक्षपुच्छे᳘षु᳘ नैव त᳘दात्मा᳘नम᳘वति न᳘ पक्षपुच्छा᳘नि॥
मूलम् - श्रीधरादि
स वा᳘ ऽआत्मा᳘नमेव᳘ व्विकृष᳘ति॥
न᳘ पक्षपुच्छा᳘न्यात्मंस्तद᳘न्नं द᳘धाति य᳘दु वा᳘ ऽआत्मन्न᳘न्नं धीय᳘ते त᳘दात्मा᳘नम᳘वति त᳘त्पक्षपुच्छान्य᳘थ य᳘त्पक्षपुच्छे᳘षु᳘ नैव त᳘दात्मा᳘नम᳘वति न᳘ पक्षपुच्छा᳘नि॥
मूलम् - Weber
स वा᳘ आत्मा᳘नमेव᳘ विकृष᳘ति॥
न᳘ पक्षपुछा᳘न्यात्मंस्तद᳘न्नं दधाति य᳘दु वा᳘ आत्मन्न᳘न्नं धीय᳘ते त᳘दात्मा᳘नम᳘वति तत्पक्षपुछान्य᳘थ य᳘त्पक्षपुछे᳘षुॗ नैव त᳘दात्मा᳘नमवति न᳘ पक्षपुछा᳘नि॥
मूलम् - विस्वरम्
स वा ऽआत्मानमेव विकृषति- न पक्षपुच्छानि । आत्मंस्तदन्नं दधाति । यदु वा ऽआत्मन्नन्नं धीयते- तदात्मानमवति, तत्पक्षपुच्छानि । अथ यत्पक्षपुच्छेषु- नैव तदात्मानमवति, न पक्षपुच्छानि ॥ ८ ॥
सायणः
अथ पक्षपुच्छानि विहायात्मन्येव कर्षणं विधत्ते- स वा आत्मानमिति 14 । आत्मंस्तदिति । ‘तत्’ तेन विकर्षणेन ‘आत्मन्’ आत्मनि ‘अन्नम्’ एव स्थापितवान् भवति । अथात्मन्यन्नाधानं स्तौति- यदु वा इति । ‘आत्मन्’ आत्मनि यदेव ‘अन्नम्’ ‘धीयते’ स्थाप्यते, ‘तत्’ एवान्नं पक्षपुच्छसहितम् ‘आत्मानं’ रक्षति । पक्षपुच्छेष्वन्नाधानं त्वकिञ्चित्करमित्याह- अथ यदित्यादिना ॥ ८ ॥
Eggeling
- Only the body (of the altar-site) he ploughs through, not the wings and tail: he thus puts food into the body. And, indeed, the food which is put into the body benefits the body as well as the wings and tail; but that which (is put) into the wings and tail does not benefit either the body or the wings and tail.
०९
विश्वास-प्रस्तुतिः
स᳘ दक्षिणार्धे᳘नाग्नेः[[!!]]॥
(र᳘) अ᳘न्तरेण परिश्रि᳘तः प्रा᳘चीं प्रथमाᳫँ᳭ सी᳘तां कृषति शुनᳫँ᳭ सुफा᳘ला व्वि᳘कृषन्तु भू᳘मिᳫँ᳭ शुनं᳘ कीना᳘शा ऽअभि᳘यन्तु व्वाहैरि᳘ति शुन᳘ᳫँ᳘ शुनमि᳘ति यद्वै स᳘मृद्धं त᳘च्छुनᳫँ᳭ स᳘मर्धयत्ये᳘वैनामेतत्[[!!]]॥
मूलम् - श्रीधरादि
स᳘ दक्षिणार्धे᳘नाग्नेः[[!!]]॥
(र᳘) अ᳘न्तरेण परिश्रि᳘तः प्रा᳘चीं प्रथमाᳫँ᳭ सी᳘तां कृषति शुनᳫँ᳭ सुफा᳘ला व्वि᳘कृषन्तु भू᳘मिᳫँ᳭ शुनं᳘ कीना᳘शा ऽअभि᳘यन्तु व्वाहैरि᳘ति शुन᳘ᳫँ᳘ शुनमि᳘ति यद्वै स᳘मृद्धं त᳘च्छुनᳫँ᳭ स᳘मर्धयत्ये᳘वैनामेतत्[[!!]]॥
मूलम् - Weber
स᳘ दक्षिणार्धे᳘नाग्नेः᳟॥
अ᳘न्तरेण परिश्रि᳘तः प्रा᳘चीम् प्रथमाᳫं सी᳘तां कृषति शुनᳫं सु फा᳘ला वि᳘कृषन्तु भू᳘मिं शुनं᳘ कीना᳘शा अभि᳘यन्तु वाहैरि᳘ति शुनं᳘ शुनमि᳘ति यद्वै स᳘मृद्धं त᳘छुनᳫं स᳘मर्धयत्येॗवैनामेत᳘त्॥
मूलम् - विस्वरम्
स दक्षिणार्द्धेनाग्नेरन्तरेण परिश्रितः प्राचीं प्रथमां सीतां कृषति । “शुनं सुफाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः”- (वा० सं० १२ । ६९) इति । शुनं शुनमिति । यद्वै समृद्धम्- तच्छुनम् । समर्धयत्येवैनामेतत् ॥ ९ ॥
सायणः
अथ परिश्रितां समीपे आत्मनो दक्षिणभागे ऽन्तरतः प्रागायतां सीतां विधत्ते- स दक्षिणार्द्धेनेति 15 । ‘परिश्रितो ऽन्तरेण’ तत्संलग्नमेव चित्याग्नेः आत्मनो ‘दक्षिणार्द्धेन’ दक्षिणपार्श्वे प्रागपवर्गां ‘प्रथमां’ ‘सीतां’ लाङ्गलपद्धतिं कृषेत् । “अन्तरा ऽन्तरेणयुक्ते”- इति (पा. सू. २ । ३ । ४ ।) परिश्रिच्छब्दे द्वितीया । तत्र पूर्वार्द्धोपादानेन मन्त्रं विधाय तत्रत्यशुनशब्दस्य समृद्धार्थवाचकतया प्रथमसीतायाः समर्द्धनमाह- शुनं सुफाला इत्यादिना ॥
मन्त्रस्यायमर्थः- “शुनम् इति सुखनाम” (निघं. २ । ६ । १) तच्च क्रियाविशेषणम् । ‘सु’ शोभनाः ‘फालाः’ लाङ्गलाग्रस्थिताः कुशीभेदाः ‘शुनं’ सुखम् यथा स्यात् तथा ‘भूमिं’ ‘विकृषन्तु’ विलिखन्तु, ‘फाला’- इति “ञिफला विशरणे"- (धा. पा. भ्वा. प. ५१७) इति । फालयन्ति भूमिं विदारयन्ति ते फालाः । ‘कीनाशाः’ कर्षकाः । ‘वाहैः’ अनडुद्भिः सहिताः ‘शुनं’ सुखम् ‘अभियन्तु’ अभिगच्छन्तु । “कीनाशस्तु कदर्ये स्याद्राक्षसे कर्षुके यमे”- इत्यनेकार्थतिलकः । ‘शुनासीरा’ द्विवचनस्य “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इति डादेशः । वाय्वादित्यावित्यर्थः । तौ ‘हविषा’ उदकेन ‘तोशमाना’ भूमिं निघ्नन्तौ । “तोशतिर्वधकर्मा”- (निघं. २ । १९ । २९) ‘अस्मे’ अस्मभ्यम् ‘ओषधीः’ व्रीह्यादिकान्यन्नानि ‘सुपिप्पलाः’ शोभनफलोपेताः ‘कर्त्तन’ कुरुतम् । “शुनो वायुः, शुएत्यन्तरिक्षे; सीर आदित्यः, सरणात्”- (निरु. ८ । ४ । ६) इति हि यास्कः । ‘हविः’- शब्दः उदकनामसु “कम्, अन्नं, हविः"- (निघ. १ । १२ । ६५) इति पठितः । ‘कर्त्तन’ इति,- “तप्तनप्तनथ नाश्च”- (पा. सू. ७ । १ । ४५) इति तनप् । द्वित्वे बहुवचनं छान्दसम् ॥ ९ ॥
Eggeling
- On the right (south) side of the fire-altar, he ploughs first a furrow eastwards 16 inside the enclosing-stones, with (Vār. S. XII, 69; R̥k S. IV, 57, 8), ‘Right luckily may the plough-shares plough up the ground, luckily the tillers ply with their
oxen!’–’luckily–luckily,’ he says, ‘for what is successful that is lucky:’ he thus makes it (the furrow) successful.
१०
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ जघनार्धेनो᳘दीचीम्॥
(ङ्घृ) घृते᳘न सी᳘ता म᳘धुना स᳘मज्यतामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्व्वि᳘श्वैर्देवैर᳘नुमता मरु᳘द्भिरि᳘ति व्वि᳘श्वे च वै᳘ देवा᳘ मरु᳘तश्च व्वर्ष᳘स्येशत ऽऊ᳘र्जस्वती प᳘यसा पि᳘न्वमाने᳘ति र᳘सो वै प᳘य ऽऊ᳘र्जस्वती र᳘सेना᳘न्नेन पि᳘न्वमाने᳘त्येत᳘दस्मा᳘न्त्सीते प᳘यसा ऽभ्या᳘ववृत्स्वे᳘त्यस्मा᳘न्त्सीते र᳘सेनाभ्या᳘ववृत्स्वे᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ जघनार्धेनो᳘दीचीम्॥
(ङ्घृ) घृते᳘न सी᳘ता म᳘धुना स᳘मज्यतामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्व्वि᳘श्वैर्देवैर᳘नुमता मरु᳘द्भिरि᳘ति व्वि᳘श्वे च वै᳘ देवा᳘ मरु᳘तश्च व्वर्ष᳘स्येशत ऽऊ᳘र्जस्वती प᳘यसा पि᳘न्वमाने᳘ति र᳘सो वै प᳘य ऽऊ᳘र्जस्वती र᳘सेना᳘न्नेन पि᳘न्वमाने᳘त्येत᳘दस्मा᳘न्त्सीते प᳘यसा ऽभ्या᳘ववृत्स्वे᳘त्यस्मा᳘न्त्सीते र᳘सेनाभ्या᳘ववृत्स्वे᳘त्येतत्[[!!]]॥
मूलम् - Weber
अ᳘थ जघनार्धेनो᳘दीचीम्॥
घृते᳘न सी᳘ता म᳘धुना स᳘मज्यतामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्वि᳘श्वैर्देवैर᳘नुमता मरु᳘द्भिरि᳘ति वि᳘श्वे च वै᳘ देवा᳘ मरु᳘तश्च वर्ष᳘स्येशत ऊ᳘र्जस्वती प᳘यसा पि᳘न्वमाने᳘ति र᳘सो वै प᳘य ऊ᳘र्जस्वती र᳘सेना᳘न्नेन पि᳘न्वमाने᳘त्येत᳘दस्मा᳘न्त्सीते प᳘यसाभ्या᳘ववृत्स्वे᳘त्यस्मा᳘न्त्सीते र᳘सेनाभ्या᳘ववृत्स्वे᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथ जघनार्धेनोदीचीम् । “घृतेन सीता मधुना समज्यताम्"- इति । यथैव यजुस्तथा बन्धुः । “विश्वैर्देवैरनुमता मरुद्भिः”- इति । विश्वे च वै देवा मरुतश्च वर्षस्येशते । “ऊर्जस्वती पयसा पिन्वमना”- इति । रसो वै पयः । ऊर्जस्वती रसेनान्नेन पिन्वमाना- इत्येतत् । “अस्मान्त्सीते पयसा ऽभ्याववृत्स्व”- (वा० सं० १२ । ७०) इति । अस्मान्त्सीते रसेनाभ्याववृत्स्वेत्येतत् ॥ १० ॥
सायणः
ततो दक्षिणश्रोणेरारभ्योदगपवर्गां पश्चिमपार्श्वे द्वितीयां सीतां विधत्ते- अथ जघनार्द्धेनेति 15 । तत्र मन्त्रं विधत्ते- घृतेनेति । तत्र तु प्रथमपादो निगदव्याख्यात इत्याह- यथैव यजुरिति । द्वितीयपादे ऽनुमतेति शब्दस्य विश्वदेवानां मरुताञ्च वृष्टेरीशितृत्वं प्रयोजकमिति व्याचष्टे- विश्वे च वै देवा इति । ‘वर्षस्य’ वृष्टेः ‘ईशते’ प्रयोजका भवन्ति । “अधीगर्थ”- (पा. सू. २ । ३ । ५२ ।) इति कर्मणि षष्ठी । तृतीयपादे पयःशब्दस्य रसो ऽर्थः इति व्याचष्टे- रसो वै पय इति । तत्रैव ‘पिन्वमाना’- इति पदमध्याहृत्यान्नपदेनान्वेतीति व्याचष्टे- अनेन पिन्वमानेत्येतदिति । चतुर्थे ऽपि पयःशब्दो रसवचन एव ॥
मन्त्रस्यायमर्थः- ‘सीता’ पश्चिमत उदीची क्रियमाणा लाङ्गलपद्धतिः । ‘मधुना घृतेन’ मधुरेणोदकेन ‘समज्यतां’ संसिच्यताम् । “घृतमित्युदकनाम, जिघर्त्तेः सिञ्चतिकर्मणः"- (निरु. ७ । ७ । १) इति हि यास्कः । ‘विश्वैर्देवैः’ वृष्टेरीशानैः ‘मरुद्भिश्च’ गणदेवैः ‘अनुमता’ अभ्यनुज्ञाता, तथा ‘पयसा’ रसेन ‘ऊर्जस्वती’ बलकररसोपेता, तथा ‘पिन्वमाना’ सेचनं कुर्वती, अन्नेनेति शेषः । तथा श्रुतिरेव व्याचष्टे- अन्नेन पिन्वमानेत्येतदिति । एवं स्तुते हे ‘सीते !’ त्वम् ‘अस्मान्’ ‘अभ्याववृत्स्व’ अतिशयेनाभिमुखमावृत्ता मवेत्यर्थः ॥ १० ॥
Eggeling
- Then on the hindpart (he ploughs a furrow) northwards 17, with (Vāj. S. XII, 70), ‘With sweet ghee let the furrow be saturated,’–as the text so its meaning;–‘approved of by the All-gods, by the Maruts!’ for both the All-gods and the Maruts have power over the rain;–‘sapful, and teeming with milk,’–milk means life-sap: thus, ’teeming with life-sap and food;’–‘with milk, O furrow, turn thou unto us!’ that is, ‘with life-sap, O furrow, turn thou unto us!’
११
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थोत्तरार्धे᳘न प्रा᳘चीम्॥
(चींल्लां᳘) ला᳘ङ्गलं प᳘वीरवदि᳘ति ला᳘ङ्गलᳫँ᳭ रयिमदि᳘त्येत᳘त्सुशे᳘वᳫँ᳭ सोमपि᳘त्सर्व्वित्य᳘न्नं वै सो᳘मस्तदुद्वपति गाम᳘विं प्रफ᳘र्व्व्यं[[!!]] च पी᳘वरीं प्रस्था᳘वद्रथवा᳘हणमि᳘त्येतद्धि स᳘र्वᳫँ᳭ सी᳘तोद्व᳘पति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थोत्तरार्धे᳘न प्रा᳘चीम्॥
(चींल्लां᳘) ला᳘ङ्गलं प᳘वीरवदि᳘ति ला᳘ङ्गलᳫँ᳭ रयिमदि᳘त्येत᳘त्सुशे᳘वᳫँ᳭ सोमपि᳘त्सर्व्वित्य᳘न्नं वै सो᳘मस्तदुद्वपति गाम᳘विं प्रफ᳘र्व्व्यं[[!!]] च पी᳘वरीं प्रस्था᳘वद्रथवा᳘हणमि᳘त्येतद्धि स᳘र्वᳫँ᳭ सी᳘तोद्व᳘पति॥
मूलम् - Weber
अ᳘थोत्तरार्धे᳘न॥
ला᳘ङ्गलम् प᳘वीरवदि᳘ति ला᳘ङ्गलं रयिमदि᳘त्येत᳘त्सुशे᳘वᳫं सोमपि᳘त्सर्वित्य᳘न्नं वै सो᳘मस्तदु᳘द्वपति गाम᳘विम् प्रफर्व्यं᳘ च पी᳘वरीम् प्रस्था᳘वद्रथवा᳘हनमि᳘त्येतद्धि स᳘र्वᳫं सी᳘तोद्व᳘पति॥
मूलम् - विस्वरम्
अथोत्तरार्धेन प्राचीम् । “लाङ्गलं पवीरवत्”- इति । लाङ्गलं रयिमदित्येतत् । “सुशेवं सोमपित्सरु” इति । अन्नं वै सोमः । “तदुद्वपति गामविं प्रफर्व्यं च पीवरीम् । प्रस्थावद्रथवाहणम्"- (वा. सं. १२ । ७१) इति । एतद्धि सर्वे सीतोद्वपति ॥ ११ ॥
सायणः
अथोत्तरपार्श्वे प्रागपवर्गां तृतीयां सीतां विधत्ते- अथोत्तरार्द्धेनेति 18 । “प्रकृत्या साधुः”- इतिवत्- “तृतीया सप्तम्यर्थे”- (पा. सू. २ । ३ । १८ सू. वा.) । तत्र मन्त्रं विधत्ते- लाङ्गलमिति । तत्र प्रथमपादे भूमेः खननेन श्रीरूपान्ननिष्पादनद्वारा फालस्य साधनत्वात् लक्षणया पवीरवद्रयिमदिति व्याचष्टे- लाङ्गलं रयिमदिति । द्वितीये पादे ‘सोमपित्सरु’- इति पदैकदेशभूतस्य सोमशब्दस्यान्नमर्थ इत्याह- अन्नं वै सोम इति । उत्तरार्द्धपरिष्ठितस्य पदार्थजातस्य सीतैवोद्गमयित्रीत्याह- एतद्धि सर्वं सीतोद्वपतीति । ‘उद्वपति’ उद्गमयतीत्यर्थः ॥
मन्त्रार्थस्तु- ‘लाङ्गलं’ हलं ‘पवीरवत्’ पविः धारा, सा अस्यास्तीति पवीरं फालः । रो मत्वर्थे, दैर्घ्यं तु च्छान्दसम्;- तत् पवीरमस्य लाङ्गलस्यास्तीति पवीरवत्, फालसंयुक्तमित्यर्थः । ‘शेवमिति’- सुखनाम (निघं. ३ । १ । १७) । सुष्ठु शोभनं शेवयति सुखप्रति तत् ‘सुशेवम्’ । सोमं पिबतीति ‘सोमपाः’ यजमानः, तस्मिन् ‘सोमपि’ यजमाने ‘त्सरति’ पापादिकं नाशयतीति ‘सोमपित्सरु’ । यद्वा, सोममन्नं पाति रक्षति स सोमपाः, तस्मिन् वर्त्तमानम् अशनायादुःखं त्सरति नाशयति इति तथा; श्रुतेरभिमतमेतद् व्याख्यानम् । सोमपीत्यत्र सप्तम्याः अलुक् छान्दसः (पा. सू. ६। ३ । ९) । यदित्थम्भूतं लाङ्गलम्, ‘तत्’ कर्तृ गवादिरथवाहनान्तम् ‘उद्वपति’ उद्गमयति । ‘गां’ गोजातिम् । ‘अविं’ मेषजातिम् । ‘प्रफर्व्यं’ प्रथमयुवतिं तरुणीमित्यर्थः । फर्वतिर्गतिकर्मा । प्रकर्षेण फर्व्या गम्या, ताम्; छान्दसो ह्रस्वः । कीदृशीं ताम् ? ‘पीवरीम्’ उन्नतस्तनकपोलाम्, ‘प्रस्था’ प्रस्थानम् तद्वत् उत्कृष्टजवोपेतम्, ‘रथवाहणम्’ अश्वं रथं वहतीति यानम् ॥ ११ ॥
Eggeling
- Then on the left (north) side (he ploughs a furrow) eastwards 19, with (Vāj. S. XII, 71), ‘The share-shod 20 plough,’–that is, ’the plough abounding in wealth,’–‘propitious, offering prospect for the Soma-cup 21’–for Soma is food;–‘it throweth up the cow, the sheep, the lusty wife, the swift-wheeled
waggon,’ for all this the furrow throws up (yields).
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पूर्वार्धे᳘न दक्षिणाम्[[!!]]॥
का᳘मं कामदुघे धुक्ष्व मित्रा᳘य व्व᳘रुणाय च॥ इ᳘न्द्रायाश्वि᳘भ्यां पूष्णे᳘ प्रजा᳘भ्य ऽओ᳘षधीभ्य ऽइ᳘ति सर्वदेव᳘त्या वै᳘ कृषि᳘रेता᳘भ्यो देव᳘ताभ्यः स᳘र्वान्का᳘मान्धुक्ष्वे᳘त्येतदित्य᳘ग्रे कृषत्यथे᳘ति। अथेत्यथेति[[!!]] त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पूर्वार्धे᳘न दक्षिणाम्[[!!]]॥
का᳘मं कामदुघे धुक्ष्व मित्रा᳘य व्व᳘रुणाय च॥ इ᳘न्द्रायाश्वि᳘भ्यां पूष्णे᳘ प्रजा᳘भ्य ऽओ᳘षधीभ्य ऽइ᳘ति सर्वदेव᳘त्या वै᳘ कृषि᳘रेता᳘भ्यो देव᳘ताभ्यः स᳘र्वान्का᳘मान्धुक्ष्वे᳘त्येतदित्य᳘ग्रे कृषत्यथे᳘ति। अथेत्यथेति[[!!]] त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा[[!!]]॥
मूलम् - Weber
अ᳘थ पूर्वार्धे᳘न दक्षिणा᳘म्॥
का᳘मं कामदुघे धुक्ष्व मित्रा᳘य व᳘रुणाय च इ᳘न्द्रायाश्वि᳘भ्याम् पूष्णे᳘ प्रजा᳘भ्य ओ᳘षधीभ्य इति सर्वदेव᳘त्या वै᳘ कृषि᳘रेता᳘भ्यो देव᳘ताभ्यः स᳘र्वान्का᳘मान्धुक्ष्वे᳘त्येतदित्य᳘ग्रे कृषत्यथे᳘ति अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳟॥
मूलम् - विस्वरम्
अथ पूर्वार्धेन दक्षिणाम् । “कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्यः”- (वा. सं. १२ । ७२) इति । सर्वदेवत्या वै कृषिः । एताभ्यो देवताभ्यः सर्वान्कामान्धुक्ष्वेत्येतत् । इत्यग्रे कृषति, अथेति, अथेति, अथेति- तद्दक्षिणावृत् । तद्धि देवत्रा ॥ १२ ॥
सायणः
अथ पूर्वपार्श्वे दक्षिणापवर्गां चतुर्थीं सीतां विधत्ते- अथ पूर्वार्द्धेनेति 22 । तत्र मन्त्रः- “कामं कामदुघे इति- (वा. सं. १२ । ७२) । मन्त्रस्यायमर्थः- हे ‘कामदुघे’ कामानां प्रपूरणे ! हे सीते ! ‘मित्राय वरुणाय च,’ तथा ‘इन्द्राय’, ‘अश्विभ्यां’ युग्मदेवाभ्यां ‘पूष्णे प्रजाभ्य ओषधीभ्यः’ च ‘कामं’ काम्यमानं फलं ‘धुक्ष्व’ प्रपूरय । ‘इति’- शब्दो मन्त्रसमाप्तिद्योतकः । कृषेः सर्वदेवतासम्बन्धद्वारा मन्त्रोक्तदेवताभ्यः कामप्रपूरणमाशास्यमिति मन्त्रतात्पर्यमाह- सर्वदेवत्या वै कृषिरिति । इत्थं दक्षिणादिचतसृषु दिक्षु प्रादक्षिण्येन कृतं कर्षणमभिनयेन निर्द्दिश्य स्तौति- इत्यग्र इति । ‘अग्रे’ प्रथमम्, ‘इति’ अनेन प्रकारेण “स दक्षिणार्द्धेन” इत्युक्तलक्षणेन दक्षिणतः प्राचीं सीतां कृषति । ‘अथ’ अनन्तरम्, ‘इति’ अनेन प्रकारेण “अथ जघनार्द्धेन”- इत्युक्तलक्षणेन पश्चिमतः उदीचीं कृषति । ‘अथ’ अनन्तरम्, ‘इति’ अनेन प्रकारेण “अथोत्तरार्द्धेन” इत्युक्तलक्षणेन उत्तरतः प्राचीं कृषति । ‘अथ’ अनन्तरम्, ‘इति । अनेन प्रकारेण “अथ पूर्वार्द्धेन”- इत्युक्तलक्षेन पूर्वस्यां दिश्युदग्दक्षिणायतां सीतां कृषति । ‘तत्’ एवं सति ‘दक्षिणावृत्’ प्रादक्षिण्येनावृत्तिर्भवति । ‘तत्’ खलु ‘देवत्रा’ देवसम्बन्धिनि कर्मणि योग्यम् । तदुक्तमापस्तम्बेन- “यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति”- इति (आपस्तं. श्रौ. सू. २४ । २ । १५) ॥ १२ ॥
Eggeling
- Then on the forepart he ploughs a furrow) southwards 23, with (Vāj. S. XII, 72), ‘Milk out, O cow of plenty, their desire to Mitra, and to Varuṇa, to Indra, to the Aśvins, to Pūshan, to creatures and plants!’ husbandry is (beneficial) to all deities: thus, ‘Milk out for these deities all their desires!’–He first ploughs thus (south-west to southeast), then thus (south-west to north-west), then thus (north-west to north-east), then thus (north-east to south-east): that is (sunwise), for thus it is with the gods 24.
१३
विश्वास-प्रस्तुतिः
च᳘तस्रः सी᳘ता य᳘जुषा कृषति॥
तद्य᳘च्चतसृ᳘षु दिक्ष्व᳘न्नं त᳘दस्मिन्नेत᳘द्दधाति तद्वै य᳘जुषा ऽद्धा वै तद्य᳘द्यजुर᳘द्धो[[!!]] तद्य᳘दिमा दिशः[[!!]]॥
मूलम् - श्रीधरादि
च᳘तस्रः सी᳘ता य᳘जुषा कृषति॥
तद्य᳘च्चतसृ᳘षु दिक्ष्व᳘न्नं त᳘दस्मिन्नेत᳘द्दधाति तद्वै य᳘जुषा ऽद्धा वै तद्य᳘द्यजुर᳘द्धो[[!!]] तद्य᳘दिमा दिशः[[!!]]॥
मूलम् - Weber
च᳘तस्रः सी᳘ता य᳘जुषा कृषति॥
तद्य᳘च्चतसृ᳘षु दिक्ष्व᳘न्नं त᳘दस्मिन्नेत᳘द्दधाति तद्वै य᳘जुषाद्धा वै तद्यद्य᳘जुरॗद्धो तद्य᳘दिमा दि᳘शः॥
मूलम् - विस्वरम्
चतस्रः सीता यजुषा कृषति । तद् यच्चतसृषु दिक्ष्वन्नम्- तदस्मिन्नेतद्दधाति । तद्वै यजुषा । अद्धा वै तद्- यद्यजुः । अद्धो तद्- यदिमा दिशः ॥ १३ ॥
सायणः
उक्तं कर्षणं समन्त्रकमनूद्य स्तौति- चतस्र इति । “स दक्षिणार्द्धेन” इत्यादिना चतसृषु दिक्षु क्रमेण प्रोक्ताः चतस्रः सीताः “शुनं सुफाला विकृषन्तु भूमिम्” इत्यादिना- ‘यजुषा’ यजुर्वेदपठितमन्त्रेणेत्यर्थः । चतसृषु दिक्ष्वित्यादि । प्रागादिषु दिक्षु ‘यत्’ प्रसिद्धं कृष्टपच्यं व्रीहियवादिकम् ‘अन्नम्’ अस्ति, ‘तत्’ ‘अस्मिन्’ अग्नौ यजमाने वा ‘एतत्’ एतेन कर्षणेन ‘दधाति’ स्थापयति ॥
यजुर्मन्त्रेण कर्षणं प्रकारान्तरेण स्तौति- तद्वा इति । ‘तत्’ खलु कर्षणं ‘यजुषा’ क्रियते, यजुरिति यदस्ति, ‘तत् अद्धा वै’ अनुष्ठेयार्थप्रकाशकत्वात् प्रत्यक्षतो विस्पष्टम्, ‘इमाः’ प्रागाद्याः ‘दिशः’ च प्रत्यक्षत्वाद् विस्पष्टतराः; अतो यजुषो दिशाश्चाद्धात्वसाम्याद् दिक्षु यजुषा कर्षणं युक्ततरमिति भावः ॥ १३ ॥
Eggeling
- Four furrows he ploughs with prayer: he thereby puts into him (Prajāpati-Agni) what food there is in the four quarters; and that with prayer,–true is the prayer, and true (manifest) are those quarters.
१४
विश्वास-प्रस्तुतिः
(शो᳘ ऽथा) अ᳘थात्मा᳘नं व्वि᳘कृषति॥
तद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं त᳘दस्मिन्नेत᳘द्दधाति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫँ᳭ स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वास्मिन्नेतद᳘न्नं दधातीत्य᳘ग्रे कृषत्यथे᳘ति। अथेत्यथे᳘ति त᳘द्दक्षिणाव्वृत्तद्धि᳘ देवत्रा᳘॥
मूलम् - श्रीधरादि
(शो᳘ ऽथा) अ᳘थात्मा᳘नं व्वि᳘कृषति॥
तद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं त᳘दस्मिन्नेत᳘द्दधाति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫँ᳭ स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वास्मिन्नेतद᳘न्नं दधातीत्य᳘ग्रे कृषत्यथे᳘ति। अथेत्यथे᳘ति त᳘द्दक्षिणाव्वृत्तद्धि᳘ देवत्रा᳘॥
मूलम् - Weber
अ᳘थात्मा᳘नं वि᳘कृषति॥
तद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं त᳘दस्मिन्नेत᳘द्दधाति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫं स᳘र्वं वा अ᳘निरुक्तᳫं स᳘र्वेणैॗवास्मिन्नेतद᳘न्नं दधातीत्य᳘ग्रे कृषत्यथे᳘ति अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳟॥
मूलम् - विस्वरम्
अथात्मानं विकृषति । तद्यदेव संवत्सरे ऽन्नम्- तदस्मिन्नेतद्दधाति । तुष्णीम् । अनिरुक्तं वै तद्- यत्तूष्णीम् । सर्वं वा ऽअनिरुक्तम् । सर्वेणैवास्मिन्नेतदन्नं दधाति । इत्यग्रे कृषति, अथेति, अथेति, अथेति- तद्दक्षिणावृत् । तद्धि देवत्रा ॥ १४ ॥
सायणः
अमन्त्रकं द्वादशसङ्ख्याकानां सीतानां कर्षणं विधाय स्तौति- अथात्मानमित्यादिना । यदेव संवत्सर इति । सीतानां संवत्सरसम्बन्धिनां मासानां च द्वादशसङ्ख्यासाम्यात् कृत्स्ने संवत्सरे यदेव व्रीहियवादिकमन्नं पच्यते, ‘तत्’ सर्वम् ‘अस्मिन्’ अग्नौ ‘एतत्’ एतेन द्वादशसीताकर्षणेन ‘दधाति’ स्थापयतीत्यर्थः ॥
अमन्त्रकत्वमनूद्य स्तौति- तूष्णीमिति । ‘तूष्णीम्’ अमन्त्रं कृषेत् । ‘तूष्णीम्’ इति यदस्ति, तत् ‘अनिरुक्तं वै’ मन्त्रवाक्येन कस्यचिदर्थस्य निष्कृष्यानभिधानात् । अत एव तदनिरुक्तं सर्वात्मकम्, अतः ‘सर्वेणैव’ साधनेन ‘अस्मिन्’ अग्नौ ‘अन्नं’ स्थापितं भवतीत्यर्थः ॥
पूर्ववदत्राप्याभिनयेन कर्षणप्रकारं निर्दिश्य स्तौति- इत्यग्र इति । ‘इति’ अनेन प्रकारेण ‘अग्रे’ प्रथममात्मनो दक्षिणार्द्धमारभ्य उत्तरार्द्धपर्यन्त ‘कृषति’ कर्षणं कुर्यात् । ‘अथ’ अनन्तरम् ‘इति’ अनेन प्रकारेण दक्षिणां श्रोणिमारभ्य उत्तरांसपर्यन्तमक्ष्णया विकृषेत् । ‘अथ’ अनन्तरम्, ‘इति’ अनेन प्रकारेण पश्चाद्भागमारभ्य पूर्वार्द्धपर्यन्तं विकृषेत् । एतदनन्तरम्, ‘इति’ अनेन प्रकारेणोत्तरां श्रोणिमारभ्य दक्षिणांसपर्यन्तं विकृषेत्, इममेवार्थमभिप्रेत्य सूत्रितम्- “तूष्णीं तिस्रस्तिस्रः प्रदक्षिणं, तिर्यगनूके, अक्ष्णया श्रोण्यंसयोरनूके श्रोण्यंसयोः”- (का. श्रौ. सू. १७ । ३८-४०) इति । ‘तत्’ तथा उक्तप्रकारेण कर्षणे सति प्रदक्षिणावर्त्तनं सिध्यति । तच्च ‘देवत्रा’ देवेषु योग्यम् । “देवमनुष्य”- (पा. सू. ५ । ४ । ५६ ।) इत्यादिना सप्तम्यर्थे त्रा-प्रत्ययः ॥ १४ ॥
Eggeling
- He then ploughs (again) through the body: he thereby puts into him what food there is in the year. Silently (he does so), for what is silent is undetermined, and the undetermined is everything: by means of everything he thus puts food into him. He first ploughs thus (through the middle from south to north), then thus (south-west to north-east), then thus (east to west), then thus (north-west to south-east),–that is sunwise 25, for thus it is with the gods.
१५
विश्वास-प्रस्तुतिः
तिस्र᳘स्तिस्रः सी᳘ताः कृषति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
तिस्र᳘स्तिस्रः सी᳘ताः कृषति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - Weber
तिस्र᳘स्तिस्रः सी᳘ताः कृषति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मात्रा तावतैवास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - विस्वरम्
तिस्रस्तिस्रः सीताः कृषति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदन्नं दधाति ॥ १५ ॥
सायणः
विहितानाममन्त्रकाणां चतसृणां सीतानां प्रत्येकं त्रित्वं विधाय स्तौति- तिस्रस्तिस्र इति । त्रिवृदग्निरित्यादि । स्तोत्रियानवकात्मको हि त्रिवृत्स्तोमः (सा. वे. तां. ब्रा. ३ । ९ । २ । ३) अग्नेरपि रुदादिनामाष्टकाभिधेयैरष्टाभिरग्निरूपैः स्वात्मना च नवसङ्ख्योपेतत्वात् त्रिवृत्त्वम् । तथा हि- “तमब्रवीद्रुद्रो ऽसि” इत्यारभ्य “तान्येतान्यष्टावग्निरूपाणि कुमारो नवमः, सैवाग्नेस्त्रिवृत्ता" इति षष्ठे समाम्नातम् (श. प. ६ । १ । ३ । १० ।) । एष च यावान् यत्परिमाणविशिष्टो ऽग्निः, ‘अस्य’ अग्नेः ‘यावती’ यत्परिमाणविशिष्टा ‘मात्रा’ अवयवः, ‘तावता’ तादृक्परिमाणविशिष्टेन कृत्स्नेन चाग्निरूपेण ‘अस्मिन्’ चीयमाने ऽग्नौ यजमाने वा ‘एतत्’ एतेन त्रिसङ्ख्यायुक्तेन कर्षणेन ‘अन्नं’ धारयति । एवं सर्वत्र त्रिवृदग्निरिति वाक्यशेषो व्याख्येयः ॥ १५ ॥ १६ ॥
Eggeling
- Three furrows he ploughs each time,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus puts food into him.
१६
विश्वास-प्रस्तुतिः
द्वा᳘दश सी᳘तास्तूष्णीं᳘ कृषति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
द्वा᳘दश सी᳘तास्तूष्णीं᳘ कृषति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - Weber
द्वा᳘दश सी᳘तास्तूष्णीं᳘ कृषति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद᳘न्नं दधाति॥
मूलम् - विस्वरम्
द्वादश सीतास्तूष्णीं कृषति । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदन्नं दधाति ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- Twelve furrows he ploughs silently,–the year (consists of) twelve months, and the year is Agni: as great as Agni is, as great as is his measure, by so much he thus puts food into him.
१७
विश्वास-प्रस्तुतिः
ता᳘ ऽउभ᳘य्यः[[!!]] षो᳘डश स᳘म्पद्यन्ते॥
षो᳘डशकलः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘संमितमे᳘वास्मिन्नेतद᳘न्नं दधाति य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - श्रीधरादि
ता᳘ ऽउभ᳘य्यः[[!!]] षो᳘डश स᳘म्पद्यन्ते॥
षो᳘डशकलः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘संमितमे᳘वास्मिन्नेतद᳘न्नं दधाति य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - Weber
ता᳘ उभय्यः᳘ षो᳘डश स᳘म्पद्यन्ते॥
षो᳘डशकलः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘ᳫं᳘सम्मितमेॗवास्मिन्नेतद᳘न्नं दधाति य᳘दु वा᳘ आत्म᳘सम्मितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - विस्वरम्
ता उभय्यः षोडश सम्पद्यन्ते । षोडशकलः प्रजापतिः । प्रजापतिरग्निः । आत्मसंमितमेवास्मिन्नेतदन्नं दधाति । यदु वा ऽआत्मसंमितमन्नं- तदवति, तन्न हिनस्ति । यद्भूयो- हिनस्ति तत् । यत्कनीयः- न तदवति ॥ १७ ॥
सायणः
अमन्त्रकसीतासङ्ख्यां सम्भूय प्रशंसति- ता उभय्य इति । ‘उभय्यः’ उभयविधाः, समन्त्रकामन्त्रकभेदेन द्विविधाः सम्भूय षोडशसङ्ख्याका भवन्ति । ‘षोडशकलः’ षोडशावयवसमुदायो हि स्थूलशरीराभिमानी विराडात्मकः प्रजापतिरभिधीयते । स हि;- तस्य ज्ञानेन्द्रियाणि पञ्च, तथा कर्मेन्द्रियाणि, मन एकम्, पञ्चभिर्भूतैर्वा प्राणैर्वा सह षोडश कलाः । गतमन्यत् । आत्मसम्मितमिति । आत्मना शरीरेण समानम् मितम्, न तु न्यूनमधिकं वेत्यर्थः । आत्मसम्मितान्नस्य तृप्तिहेतुतामाह- यदु वा इति । ‘यत्’ खलु ‘आत्मसम्मितमन्नम्’ ‘तद्’ भोक्तॄन् ‘अवति’ रक्षति । अत एतदन्नं सात्म्यं सत् ‘न हिनस्ति’ न बाधते । अधिकन्यूनयोरुक्तवैपरीत्यं क्रमेणाह- यद्भूय इति । ‘भूयः’ बहुलतरमात्मनो ऽधिकम्, ‘कनीयः’ अल्पतरमात्मनो ऽपर्याप्तमित्यर्थः ॥ १७ ॥
Eggeling
- Both kinds (of furrows) amount to sixteen,–of sixteen parts Prajāpati consists, and Prajāpati is Agni: he thus puts into him food proportionate to his body. And, indeed, the food which is proportionate to the body, satisfies, and does no harm; but that which is too much, does harm, and that which is too little, does not satisfy.
१८
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैनं व्विकृष᳘ति॥
(त्ये) एतद्वा᳘ ऽअस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्तात्प्राणा᳘नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तात्प्राणा᳘न्दधाति ले᳘खा भवन्ति ले᳘खासु᳘ हीमे᳘ प्राणाः[[!!]]॥ (शतम् ४०००)
मूलम् - श्रीधरादि
य᳘द्वे᳘वैनं व्विकृष᳘ति॥
(त्ये) एतद्वा᳘ ऽअस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्तात्प्राणा᳘नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तात्प्राणा᳘न्दधाति ले᳘खा भवन्ति ले᳘खासु᳘ हीमे᳘ प्राणाः[[!!]]॥ (शतम् ४०००)
मूलम् - Weber
य᳘द्वेॗवैनं विकृष᳘ति॥
एतद्वा᳘ अस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्तात्प्राणा᳘नदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तात्प्राणा᳘न्दधाति ले᳘खा भवन्ति ले᳘खासुॗ हीमे᳘ प्राणाः᳟॥
मूलम् - विस्वरम्
यद्वेवैनं विकृषति । एतद्वा ऽअस्मिन्देवाः संस्करिष्यन्तः पुरस्तात् प्राणानदधुः । तथैवास्मिन्नयमेतत्संस्करिष्यन् पुरस्तात्प्राणान्दधाति । लेखा भवन्ति । लेखासु हीमे प्राणाः ॥ १८ ॥
सायणः
विकर्षणं प्रकारान्तरेण स्तोतुमनुवदति- यद्वेवैनमिति । पुरा खलु पितरं प्रजापतिं ‘संस्करिष्यन्तो देवाः’ ‘पुरस्तात्’ चयनलक्षणात् संस्कारात् पूर्वम् ‘अस्मिन्’ प्रजापतौ ‘प्राणान्’ ‘एतत्’ एतेन विकर्षणेन ‘अदधुः’ अधारयन् । ‘तथैव’ ‘अयं’ यजमानो ऽपि ‘संस्करिष्यन्’ ‘अस्मिन्’ चेष्यमाणे ऽग्निलक्षणे प्रजापतौ पूर्वं ‘प्राणान्’ स्थापयति । कथमेतदित्यत आह- लेखा भवन्तीति । ‘हि’ यस्माल्लोके चक्षुरादिगोलकात्मिकासु ‘लेखासु’ रेखासु ‘इमे’ ‘प्राणाः’ चक्षुरादीन्द्रियाणि वर्त्तन्ते; अतस्तेषामत्र स्थाप्यमानानां सञ्चरणार्थं कर्षणेन रेखाकरणं युक्तमिति भावः ॥ १८ ॥
Eggeling
- And, again, why he ploughs through him,–the gods being about to put him (Prajāpati) together, thereby in the first place put the vital airs into him; and in like manner does this (Sacrificer), being about to put him together, thereby in the first place put the vital airs into him. They (the furrows) are lines, for these vital airs (move) in lines (channels).
१९
विश्वास-प्रस्तुतिः
(श्च᳘) च᳘तस्रः सी᳘ता य᳘जुषा कृषति॥
तद्य᳘ ऽइमे᳘ शीर्षं᳘श्चत्वा᳘रो नि᳘रुक्ताः प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति तद्वै य᳘जुषा ऽद्धा वै तद्यद्य᳘जुर᳘द्धो तद्य᳘दिमे᳘ शीर्ष᳘न्प्राणाः[[!!]]॥
मूलम् - श्रीधरादि
(श्च᳘) च᳘तस्रः सी᳘ता य᳘जुषा कृषति॥
तद्य᳘ ऽइमे᳘ शीर्षं᳘श्चत्वा᳘रो नि᳘रुक्ताः प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति तद्वै य᳘जुषा ऽद्धा वै तद्यद्य᳘जुर᳘द्धो तद्य᳘दिमे᳘ शीर्ष᳘न्प्राणाः[[!!]]॥
मूलम् - Weber
च᳘तस्रः सी᳘ता य᳘जुषा कृषति॥
तद्य᳘ इमे᳘ शीर्ष᳘म्श्चत्वा᳘रो नि᳘रुक्ताः प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति तद्वै य᳘जुषाद्धा वै तद्यद्य᳘जुरॗद्धो तद्य᳘दिमे᳘ शीर्ष᳘न्प्राणाः᳟॥
मूलम् - विस्वरम्
चतस्रः सीता यजुषा कृषति । तद्य इमे शीर्षश्चत्वारो निरुक्ताः प्राणाः । तानस्मिन्नेतद्दधाति । तद्वै यजुषा । अद्धा वै तद्यद्यजुः । अद्धो तद्- यदिमे शीर्षन्प्राणाः ॥ १९ ॥
सायणः
समन्त्रकं कर्षणमनूद्य सङ्ख्याद्वारा स्तौति- चतस्र इति । ‘शीर्षन्’ शीर्ष्णि शिरसि ‘ये इमे चत्वारो निरुक्ताः’ चक्षुः, श्रोत्रं, नासिका, मुखमिति निःशेषेणोक्ताः प्रकाशमानाः ‘प्राणाः,’ ‘तान्’ ‘अस्मिन्’ अग्नौ एतेन सयजुष्केण सीताचतुष्टयेन स्थापितवान् भवति । एतदेव विवृणोति- तद्वै यजुषेति । अद्धेत्यादि । प्रागुक्तार्थम् ॥ १९ ॥
Eggeling
- Four furrows he ploughs with prayer: he thereby puts into him those four well-defined vital airs which are in the head; and this (he does) with prayer,–true is the prayer, and true (manifest, real) are these vital airs in the head.
२०
विश्वास-प्रस्तुतिः
(०) य᳘द्वे᳘वात्मा᳘नं व्विकृष᳘ति॥
य᳘ ऽए᳘वे᳘मे ऽन्त᳘रात्म᳘न्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति तूष्णीं को हि तद्वे᳘द या᳘वन्त ऽइमे ऽन्त᳘रात्म᳘न्प्राणाः[[!!]]॥
मूलम् - श्रीधरादि
(०) य᳘द्वे᳘वात्मा᳘नं व्विकृष᳘ति॥
य᳘ ऽए᳘वे᳘मे ऽन्त᳘रात्म᳘न्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति तूष्णीं को हि तद्वे᳘द या᳘वन्त ऽइमे ऽन्त᳘रात्म᳘न्प्राणाः[[!!]]॥
मूलम् - Weber
य᳘द्वेॗवात्मा᳘नं विकृष᳘ति॥
य᳘ एॗवेॗमे ऽन्त᳘रात्म᳘न्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति तूष्णीं को हि तद्वे᳘द या᳘वन्त इमे ऽन्त᳘रात्म᳘न्प्राणाः᳟॥
मूलम् - विस्वरम्
यदेवात्मानं विकृषति । य ऽएवेमे ऽन्तरात्मन्प्राणाः- तानस्मिन्नेतद्दधाति । तूष्णीम् । को हि तद् वेद- यावन्त इमे प्राणाः ॥ २० ॥
सायणः
अमन्त्रकं कर्षणमनूद्य स्तौति- यद्वेवात्मानमिति । ‘अन्तरात्मन्’ आत्मनि देहे अन्तर्मध्ये ‘य एवेमे’ ‘प्राणाः’ प्राणवृत्तयः प्राणापानादिलक्षणाः, मनोबुद्ध्यादिरूपा अन्तःकरणवृत्तयश्च, ‘तान्’ ‘अस्मिन्’ अग्नौ ‘एतत्’ एतेनामन्त्रककर्षणेन ‘दधाति’ स्थापयति । एतदेव विवृणोति- तूष्णीमिति । ‘यावन्तः’ यत्परिमाणविशिष्टाः ‘इमे’ अन्तरात्मन्यवस्थिताः ‘प्राणाः’ इति, ‘को’ नाम ‘तद्वेद’ ? तेषाम् आनन्त्यात्; किन्तु न कश्चिदपि वेत्तुं शक्नोति । तस्मादनिरुक्तानां तेषां सङ्ग्रहणाय तूष्णीमात्मनो द्वादशसीताकर्षणं युक्तमित्यर्थः ॥ २० ॥
Eggeling
- And as to why he ploughs through the body: he thereby puts into him those vital airs which are inside the body. Silently (he does so), for who knows how many vital airs there are inside the body?
२१
विश्वास-प्रस्तुतिः
(ऽ) अ᳘थैनान्वि᳘मुञ्चति॥
(त्या) आप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनान्युङ्क्ते व्वि᳘मुच्यध्वमघ्न्या ऽइ᳘त्यघ्न्या᳘ हैते᳘ देवत्रा᳘ देवयाना ऽइ᳘ति दै᳘व᳘ᳫँ᳘ ह्येभिः क᳘र्म करोत्य᳘गन्म त᳘मसस्पार᳘मस्ये᳘त्यशनाया वै तमो᳘ ऽगन्मास्या᳘ ऽअशनाया᳘यै पारमि᳘त्येतज्ज्यो᳘तिरापामे᳘ति ज्यो᳘ति᳘र्ह्याप्नो᳘ति यो᳘ देवान्यो᳘ यज्ञम᳘थैनानु᳘दीचः प्रा᳘चः प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुस्ता᳘नध्वर्य᳘वे ददाति स हि तैः᳘ करो᳘ति तांस्तु द᳘क्षिणानां काले᳘ ऽनुदिशेत्॥
मूलम् - श्रीधरादि
(ऽ) अ᳘थैनान्वि᳘मुञ्चति॥
(त्या) आप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनान्युङ्क्ते व्वि᳘मुच्यध्वमघ्न्या ऽइ᳘त्यघ्न्या᳘ हैते᳘ देवत्रा᳘ देवयाना ऽइ᳘ति दै᳘व᳘ᳫँ᳘ ह्येभिः क᳘र्म करोत्य᳘गन्म त᳘मसस्पार᳘मस्ये᳘त्यशनाया वै तमो᳘ ऽगन्मास्या᳘ ऽअशनाया᳘यै पारमि᳘त्येतज्ज्यो᳘तिरापामे᳘ति ज्यो᳘ति᳘र्ह्याप्नो᳘ति यो᳘ देवान्यो᳘ यज्ञम᳘थैनानु᳘दीचः प्रा᳘चः प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुस्ता᳘नध्वर्य᳘वे ददाति स हि तैः᳘ करो᳘ति तांस्तु द᳘क्षिणानां काले᳘ ऽनुदिशेत्॥
मूलम् - Weber
अ᳘थैनान्वि᳘मुञ्चति॥
आप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनान्युङ्क्ते वि᳘मुच्यध्वमघ्न्या इ᳘त्यघ्न्या᳘ हैते᳘ देवत्रा᳘ देवयाना इ᳘ति दैॗवᳫं ह्येभिः क᳘र्म करोत्य᳘गन्म त᳘मसस्पार᳘मस्ये᳘त्यशनाया वै तमो᳘ ऽगन्मास्या᳘ अशनाया᳘यै पारमि᳘त्येतज्ज्यो᳘तिरापामे᳘ति ज्यो᳘तिॗर्ह्याप्नो᳘ति यो᳘ देवान्यो᳘ यज्ञम᳘थैनानु᳘दीचः प्रा᳘चः प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुस्ता᳘नध्वर्य᳘वे ददाति स हि तै᳘ करो᳘ति तांस्तु द᳘क्षिणानां काले᳘ ऽनुदिशेत्॥
मूलम् - विस्वरम्
अथैनान्विमुञ्चति । “आप्त्वा तं कामम्, यस्मै कामायैनान्युङ्क्ते विमुच्यध्वमघ्न्याः”- इति । अघ्न्या हैते । “देवत्रा देवयानाः”- इति । दैवं ह्येभिः कर्म करोति । “अगन्म तमसस्पारमस्य”- इति । अशनाया वै तमः । अगन्मास्या ऽअशनायायै पारमित्येतत् । “ज्योतिरापाम”- इति । ज्योतिर्ह्याप्नोति । यो देवान्, यो यज्ञम् । अथैनानुदीचः प्राचः प्रसृजति । तस्योक्तो बन्धुः । तानध्वर्यवे ददाति । स हि तैः करोति । तांस्तु दक्षिणानां काले ऽनुदिशेत् ॥ २१ ॥
सायणः
कर्षणानन्तरमनडुहां विमोचनं विधत्ते- अथैनानिति 26 । अघ्न्या इत्यादि । ‘यस्मै’ खलु प्रयोजनाय ‘एनान्’ पूर्वं युक्तवान्, ‘तं’ कामं कर्षणलक्षणं प्रयोजनम् ‘आप्त्वा’ लब्ध्वा तेषां विमोचनं युक्तमिति शेषः ॥
विमोचने मन्त्रं विधाय व्याचष्टे- विमुच्यध्वमिति । “अघ्न्या”- इति गोनाम (निघ. । २ । ११ । १) । एते खल्वनड्वाहो ‘देवत्रा’ देवेषु ‘अघ्न्याः’ अहन्तव्याः, देवसम्बन्धिनो गाव इत्यर्थः । दैवँ ह्येभिरिति । ‘एभिः’ अनडुद्भिः ‘दैवं’ देवसम्बन्धि कर्षणलक्षणं ‘कर्म करोति’ । तस्माद्देवान् याति प्राप्नोत्येभिरिति व्युत्पत्त्या ‘देवयानाः’- इत्यनडुद्विशेषणं युक्तमिति भावः ॥
द्वितीयं पादमनूद्य तत्रत्यतमःशब्दस्य विवक्षितमर्थमाह- अगन्मेति । अशनस्येच्छा ‘अशनाया’ क्षुत्पीडा । स्पष्टमन्यत् । ज्योतिर्हीत्यादि । यो हि हविःप्रदातृत्वेन यज्ञं, तत्रत्यान् देवांश्च प्राप्नोति, एष हि ‘ज्योतिः’ ज्योतिर्मयं स्वर्गादिभोगयोग्यं शरीरम् ‘आप्नोति,’ अत एव तैत्तिरीयके समाम्नायते- “सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि”- (तै. सं. ५ । ४ । १ । ३) इति । अतो ऽत्र मन्त्रे “ज्योतिरापाम”- इति ज्योतिराप्तिप्रतिपादनं युक्ततरमित्यर्थः ॥
उत्तरपूर्वस्यां दिशि तेषामनडुहां प्रस्थापनं विधत्ते- अथैनानुदीच इति (का. श्रौ. सू. १७ । ४५)। ‘अथ’ विमोचनानन्तरमेव अनडुहः ‘उदीचः’ उदङ्मुखान् ‘प्राचः’ प्राङ्मुखांश्च कृत्वा ‘प्रसृजति’ प्रस्थापयति । प्रागुदक्त्वस्य स्तावकं प्रागाम्नातं वाक्यशेषमतिदिशति- तस्योक्त इति । “एषा होमयेषां देवमनुष्याणां दिग्यदुदीची-प्राची” (श. प. ६ । ६ । २ । ३) इत्यादि ॥
तेषां दक्षिणाकाले दानं विधत्ते- तानध्वर्यव इति । अत एव सूत्रितम्- “दक्षिणाकाले ऽध्वर्यवे ददाति”- (का. श्रौ. सू. १७ । ४५) इति 27 । अन्यानृत्विजो विहायाध्वर्योरेव सम्प्रदानत्वे कारणमाह- स हीति । ‘हि’ यस्मात् ‘सः’ अध्वर्युः ‘तैः’ अनडुद्भिः कर्षणं ‘करोति’ तस्मादध्वर्यवे दानं युक्तमिति भावः 28 । तस्मिन् दाने कालविशेषं विधत्ते- तांस्त्विति । ऋत्विक्परिक्रयहेतवो दातव्या गावो दक्षिणाः, तासां यः कालो माध्यन्दिनसवनात्मकः, तस्मिन्, ‘तान्’ अनडुहः ‘अनुदिशेत्’ दद्यादिति यावत् ॥ २१ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (७-२-२) ॥
इति सप्तमे काण्डे प्रथमः प्रपाठकः ॥ (७- १) ।
Eggeling
- Having gained the object for which he yokes those (oxen), he now unyokes them, with (Vāj. S. XII, 73), ‘Be ye unyoked, ye inviolable (oxen)!’ for inviolable 29 they indeed are with the gods;–‘Ye god ward-striding!’ for with them he performs the divine work;–‘We have come to the end of this gloom;’–gloom doubtless means famine: thus, ‘we have come to the end of this famine;’–‘we have attained the light!’ for he who attains the gods, the sacrifice, indeed attains the light. He then lets them loose towards north-east–the significance of this has been explained 30. He gives them to the Adhvaryu, for it is he that does the work with them: let him assign them (to him) at the time of (the presentation of) the Dakshiṇās.
-
325:2 See part ii, p. 47 seq. ↩︎
-
325:3 Viz. by calling out three times ‘Havishkr̥t, come hither,’ whereby the Adhvaryu summons one of the priests, or maidservants, to assist in preparing the material for offering. See part i, p. 27 seq. ↩︎
-
325:4 Part i, p. 55 seq. ↩︎
-
325:5 Part i, p. 59 seq. ↩︎
-
325:6 See part i, p. 55. It must, however, be borne in mind that the passage here referred to relates to the construction of the Vedi of an ordinary ishṭi, whilst in the present instance we have to do with a Mahāvedi, as prescribed for Soma-sacrifices (cf. part ii, p. 111 seq., where, however, only a few distinctive points are adverted to). The plan of the Mahāvedi, given at the end of part ii, shows at the eastern end a square mound, the so-called uttara-vedi, or higher, upper altar, on which the Āhavanīya, or offering, fire is maintained. On a similar earth mound, but raised in the centre of the square site (see VII, 3, 1, 27), the Agnicayana requires the erection of the large brick fire-altar, the preparation of the site of which is explained from the next paragraph. ↩︎
-
प्रायणीयहविष्कृदंते महावेदेः स्फ्याद्या सम्मर्शनात् करोति । का. श्रौ. सू. १७ । ३० । ↩︎
-
प्रायणीयांते सीरं युनक्ति । का. श्रौ. सू. १७ । ३१ । ↩︎
-
326:1 That is ‘sa + irā,’ with draught or food. ↩︎
-
326:2 Or rather, put (the oxen) to the ploughs. Professor Ludwig takes ‘sīrā’ in the sense of ‘straps, traces,’–the skilful fasten the traces. ↩︎
-
या ऽओषधीरिति त्रिचैर्व्वपत्युदपात्रवत् । का. श्रौ. सू. १७ । ५२ । ↩︎
-
327:1 Or, concession (Erhörung). ↩︎
-
आत्मनि कृषत्यनुपरिश्रिच्छुनँ सुफाला इति प्रत्यृचम् । का. श्रौ. सू. १७ । ३५ । ↩︎
-
327:2 That is, from the right thigh to the right shoulder (south-west to south-east). ↩︎
-
328:1 That is, from the right thigh to the left thigh (south-west to north-west). Whilst the first furrow was ploughed from the southwest to the south-east corner, the present and two following furrows are ploughed ‘sunwise’ from south-west to north-west, north-west to north-east, and north-east to south-east respectively. We are not told in what manner the plough is to be got back from the southeast to the south-west corner after the ploughing of the first furrow, whether it is to be carried there, or to be pulled back outside the enclosed square. ↩︎
-
तूष्णीं तिस्रस्तिस्रः प्रदक्षिणम् । का. श्रौ. सू. १७ । ३८ । ↩︎
-
328:2 That is, from the left thigh to the left shoulder (north-west to north-east). ↩︎
-
328:3 Or, the metal-shod. The author’s reason for interpreting ‘pavīravat’ by ‘rayimat’ is not clear. ↩︎
-
328:4 According to the St. Petersburg dictionary, ‘somapitsaru’ is probably a corrupt form, like the various readings ‘somasatsaru’ (Ath. S. III, 17, 3) and ‘sumatitsaru’ (Taitt. S. IV, 2, 5, 6 = ‘moving up and down,’ Sāyaṇa). Cf. Vāsishṭḥa Dharmaśāstra (Bühler’s translation, Sacred Books of the East, vol. xiv, p. 13), where ‘somapitsaru’ is explained in the text as meaning ‘provided with a handle (tsaru) for the Soma-drinker’ (somapi). Also Indische Studien, XVII, p. 259, where Professor Weber proposes to divide the word ‘somasatsaru’ into ‘soma(n),’ with thongs, and ‘sa-tsaru,’ with handle. If ‘somapi-tsaru’ really represent the constituent elements, ’tsaru,’ handle, may indeed be intended as having special reference to the handle of the Soma-cup (camasa); though ‘somapi’ could only be taken in the sense of ‘Soma-drinker,’ and not in that of ‘Soma-cup,’ optionally suggested by Mahīdhara. ↩︎
-
तिर्यगनूके । का. श्रौ. सू. १७ । ३९ । ↩︎
-
329:1 That is, from the left to the right shoulder (north-east to southeast). ↩︎
-
329:2 Or, perhaps, thus it goes to the gods; this tends godward. Whilst the last three furrows are indeed ploughed ‘sunwise’ (east to south, &c.), the first furrow was ploughed in the opposite direction (south-west to south-east). The reason for this is that the whole performance is to take place in an easterly direction, so as to tend towards the gods. Were he to start at the south-east corner, and then plough right round, he would be moving away from the gods, who are supposed to reside in the east. ↩︎
-
330:1 Here, again, the sunwise motion of the plough only applies to the three last furrows (or sets of furrows), which always move from left to right,–south-west to north-east, east to west, northwest to south-east. The first set of furrows–drawn from south to north, or along the ‘cross-spine’ (as distinguished from the real, or easterly spine running from west to east)–are apparently drawn in this way, in order to avoid the southerly direction, as that would imply speedy death to the Sacrificer,–his going to the Fathers, or deceased ancestors, who are supposed to reside in the south. In drawing the furrows in the way they do, the priests not only avoid that region, but at the very outset move away from it, and thereby assure long life to the Sacrificer. ↩︎
-
अनडुहो व्विमुच्यध्वमिति । का. श्रौ. सू. १७ । ४४ । ↩︎
-
पशुवदुत्सृज्य । इत्यादिभागो ऽस्य सूत्रस्य । ↩︎
-
दीर्घप्रयुक्तेषु वा पुरुषाः कृषंति । का. श्रौ. सू. १७ । ४३ । ↩︎
-
331:1 See part ii, p. 216, note 2, where ‘aghnyā’ was used of cows. ↩︎
-
331:2 See VI, 4, 4, 22. The plough is put aside on the utkara (heap of rubbish). ↩︎