०१

विश्वास-प्रस्तुतिः

अथा᳘तो नैर्ऋती᳘र्हरन्ति॥
(न्त्ये) एतद्वै᳘ देवा गा᳘र्हपत्यं चित्वा᳘ समा᳘रोहन्नयं वै᳘ लोको गा᳘र्हपत्य ऽइम᳘मेव त᳘ल्लोक᳘ᳫँ᳘ संस्कृ᳘त्य समा᳘रोहंस्ते त᳘म ऽए᳘वानतिदृश्य᳘मपश्य᳘न्॥

मूलम् - श्रीधरादि

अथा᳘तो नैर्ऋती᳘र्हरन्ति॥
(न्त्ये) एतद्वै᳘ देवा गा᳘र्हपत्यं चित्वा᳘ समा᳘रोहन्नयं वै᳘ लोको गा᳘र्हपत्य ऽइम᳘मेव त᳘ल्लोक᳘ᳫँ᳘ संस्कृ᳘त्य समा᳘रोहंस्ते त᳘म ऽए᳘वानतिदृश्य᳘मपश्य᳘न्॥

मूलम् - Weber

अथा᳘तो नैरृती᳘र्हरन्ति॥
एतद्वै᳘ देवा गा᳘र्हपत्यं चित्वा᳘ समा᳘रोहन्नयं वै᳘ लोको गा᳘र्हपत्य इम᳘मेव तं᳘ लोक᳘ᳫं᳘ संस्कृ᳘त्य समा᳘रोहंस्ते त᳘म एॗवानतिदृश्य᳘मपश्यन्॥

मूलम् - विस्वरम्

अथ नैर्ऋतीष्टकाचयनम् ।

अथातो नैर्ऋतीर्हरन्ति । एतद्वै देवा गार्हपत्यं चित्वा समारोहन् । अयं वै लोको गार्हपत्यः । इममेव तल्लोकं संस्कृत्य समारोहन् । ते तम एवानतिदृश्यमपश्यन् ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथाख्यायिकया प्रयोजनप्रतिपादनपुरस्सरं नैर्ऋतीनामिष्टकानामुपधानं विधित्सुस्तासां हरणं संग्रहेण प्रतिजानीते- अथात इति । ‘अथ,’ गार्हपत्यचयनानन्तरम् ‘अतः’ अस्मात् स्थानात् निर्ऋतिदेवताकाः इष्टकाः ‘हरन्ति,’ नैर्ऋत्यां दिशि निरस्येयुरित्यर्थः । तासामुपधानस्य प्रयोजनमाख्यायिकया ऽऽचष्टे- एतद्वा इति । ‘एतद्’ एतस्मिन् खलु गार्हपत्यचयनानन्तरकाले ‘देवाः’ ‘समारोहन्’ सम्प्राप्नुवन् । एतदेव विवृणोति- अयं वा इति । ते तम एवेति । चयनेन संस्कृतं भूलोकमारूढाः ‘ते’ ‘अनतिदृश्यम्’ दृश्यमतिक्रम्य द्रष्टुमशक्यं सर्ववस्त्वाच्छादकं पापरूपम् ‘तम एव’ सर्वत्र अपश्यन्नित्यर्थः ॥ १ ॥

Eggeling
  1. They now take the Nirr̥ti (bricks) from there. For, having built the Gārhapatya, the gods then ascended it,–the Gārhapatya being this (earth-) world, it is this world they ascended after completing it. They saw nothing but darkness not to be seen through.

०२

विश्वास-प्रस्तुतिः

(श्यं᳘स्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘थेदं त᳘मः पाप्मा᳘नमपह᳘नामहा ऽइ᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेदं त᳘मः पाप्मा᳘नमपह᳘नामहा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(श्यं᳘स्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘थेदं त᳘मः पाप्मा᳘नमपह᳘नामहा ऽइ᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेदं त᳘मः पाप्मा᳘नमपह᳘नामहा ऽइ᳘ति॥

मूलम् - Weber

ते ऽब्रुवन्॥
उ᳘प त᳘ज्जानीत य᳘थेदं त᳘मः पाप्मा᳘नमपह᳘नामहा इ᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछित य᳘थेदं त᳘मः पाप्मा᳘नमपह᳘नामहा इ᳘ति॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- उप तज्जानीत- यथेदं तमः पाप्मानमपहनामहा ऽइति । ते ऽब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत- यथेदं तमः पाप्मानमपहनामहा ऽइति ॥ २ ॥

सायणः

ते ऽब्रुवन्निति । उप तज्जानीतेति । उपेत्य ‘तत्’ तमो ऽपहन्तुमुपायं विचारयतेत्यर्थः । तमः पाप्मानमिति । तमोरूपं पाप्मानम् । चेतयध्वमितीच्छार्थे णिजिति व्याचष्टे- (पा. सू. ३ । १ । ८) चितिमिच्छतेतीति । ‘चितिं’ पापहननसाधनमिष्टकानां चयनमिच्छतेत्यर्थः । तदिच्छतेति । हे देवाः ! ‘तत्’ चयनम् ‘इच्छत,’ ‘यथा’ येन चयनेन ‘इदं’ तमोरूपं पापं नाशयेमेत्यर्थः ॥ २ ॥

Eggeling
  1. They said, ‘Think ye upon this, how we may dispel that darkness, evil!’ They said, ‘Meditate ye (cetay)!’–whereby indeed they said, ‘Seek ye to build an altar (kitim)!’–‘Seek ye so that we may dispel that darkness, evil!’

०३

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एता ऽइ᳘ष्टका ऽअपश्यन्नैर्ऋतीस्ता ऽउ᳘पादधत ता᳘भिस्तत्त᳘मः पाप्मा᳘नम᳘पाघ्नत पाप्मा वै नि᳘र्ऋतिस्तद्य᳘देता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपा᳘घ्नत त᳘स्मादेता᳘ नैर्ऋत्यः॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एता ऽइ᳘ष्टका ऽअपश्यन्नैर्ऋतीस्ता ऽउ᳘पादधत ता᳘भिस्तत्त᳘मः पाप्मा᳘नम᳘पाघ्नत पाप्मा वै नि᳘र्ऋतिस्तद्य᳘देता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपा᳘घ्नत त᳘स्मादेता᳘ नैर्ऋत्यः॥

मूलम् - Weber

ते᳘ चेत᳘यमानाः॥
एता इ᳘ष्टका अपश्यन्नैरृतीस्ता उ᳘पादधत ता᳘भिस्तत्त᳘मः पाप्मा᳘नम᳘पाघ्नत पाप्मा वै नि᳘रृतिस्तद्य᳘देता᳘भिः पाप्मा᳘नं नि᳘रृतिम पा᳘घ्नत त᳘स्मादेता᳘ नैरृत्यः॥

मूलम् - विस्वरम्

ते चेतयमानाः एता इष्टका अपश्यन्- नैर्ऋतीः । ता उपादधत, ताभिस्तत्तमः पाप्मानमपाघ्नत । पाप्मा वै निर्ऋतिः । तद्यदेताभिः पाप्मानं निर्ऋतिमपाघ्नत- तस्मादेता नैर्ऋत्यः ॥ ३ ॥

सायणः

ते चेतयमाना इति । चितिमिच्छन्त इत्यर्थः । पाप्मा वै निर्ऋतिरिति । दक्षिणापरदिगधिदेवता सा ‘पाप्मा वै’ पापरूपैव । एतत्तादात्म्यमुपजीव्य पापापहतिहेतुभूतानामिष्टकानां ‘नैर्ऋत्यः’- इति नाम निर्वृत्तम् । तद्यदेताभिरिति । ‘अपाघ्नत’ अनाशयन् ॥ ३ ॥

Eggeling
  1. Whilst meditating, they saw those Nirr̥ti bricks; they piled them up, and by them dispelled that darkness, evil; for Nirr̥ti (corruption, or destruction) is evil; and inasmuch as by them they dispelled Nirr̥ti, evil, these are Nirr̥ti’s (bricks).

०४

विश्वास-प्रस्तुतिः

(स्त) तद्वा᳘ ऽएत᳘त्क्रियते॥
य᳘द्देवा ऽअ᳘कुर्वन्निदं नु तत्त᳘मः स᳘ पाप्मा᳘ देवै᳘रेवा᳘पहतो य᳘त्त्वेत᳘त्करो᳘ति य᳘द्देवा ऽअ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो य᳘ ऽएव᳘ पाप्मा या नि᳘र्ऋतिस्त᳘मेता᳘भिर᳘पहते तद्य᳘देता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपहते त᳘स्मादेता᳘ नैर्ऋ᳘त्यः᳘॥

मूलम् - श्रीधरादि

(स्त) तद्वा᳘ ऽएत᳘त्क्रियते॥
य᳘द्देवा ऽअ᳘कुर्वन्निदं नु तत्त᳘मः स᳘ पाप्मा᳘ देवै᳘रेवा᳘पहतो य᳘त्त्वेत᳘त्करो᳘ति य᳘द्देवा ऽअ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो य᳘ ऽएव᳘ पाप्मा या नि᳘र्ऋतिस्त᳘मेता᳘भिर᳘पहते तद्य᳘देता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपहते त᳘स्मादेता᳘ नैर्ऋ᳘त्यः᳘॥

मूलम् - Weber

तद्वा᳘ एत᳘त्क्रियते॥
य᳘द्देवा अ᳘कुर्वन्निदं नु तत्त᳘म स᳘ पाप्मा᳘ देवै᳘रेवा᳘पहतो यॗत्त्वेत᳘त्करो᳘ति य᳘द्देवा अ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो य᳘ एव᳘ पाप्मा या नि᳘रृतिस्त᳘मेता᳘भिर᳘पहते तद्य !देता᳘भिः पाप्मा᳘नं नि᳘रृतिमपहते त᳘स्मादेता᳘ नैरृत्यः᳟॥

मूलम् - विस्वरम्

तद्वा ऽएतत्क्रियते- यद्देवा अकुर्वन् । इदं नु तत्तमः, स पाप्मा देवैरेवापहतः । यत्त्वेतत्करोति- यद्देवा अकुर्वन्- तत्करवाणीति । अथो य एव पाप्मा, या निर्ऋतिः- तमेताभिरपहते । तद्यदेताभिः पाप्मानं निर्ऋतिमपहते । तस्मादेता नैर्ऋत्यः ॥ ४ ॥

सायणः

इत्थमाख्यायिकया नैर्ऋतीनामुपधानस्य पापरूपतमोनिवृत्त्यर्थतां प्रतिपाद्य, इदानीन्तनानुष्ठानस्यापि तदर्थतामाह- तद्वा एतत् क्रियत इति । ‘तत्’ खलु ‘एतत्’ इदानीं यजमानेन ‘क्रियते,’ ‘यद्देवाः’ पुरा ‘अकुर्वन्’ । यथा ‘देवैः’ ‘अपहतः’ नाशितः तमोरूपः ‘स पाप्मा,’ इदानीमप्यनुष्ठानेन निवर्तते । यत्त्वेतदिति । ‘यत्’ खलु ‘एतद्’ यजमानः अनुतिष्ठति, देवैर्यत् कृतम्, ‘तत्’ अहमपि ‘करवाणि,’ ‘इति’ अनेनाभिप्रायेण तदनुष्ठीयत इत्यर्थः । न केवलमनुकरणमात्रं तथाविधफलसाधनमपीत्याह- अथो इति । उक्तमर्थमनूद्य नैर्ऋतीनामिष्टकानां तमोपहन्तृत्वद्वारा नाम निर्ब्रूते- तद्यदेताभिरिति ॥ ४ ॥

Eggeling
  1. Now that same thing which the gods did, is done here: even now that darkness, that evil, has indeed been dispelled by the gods themselves; but when he now does this, it is because he thinks, ‘I must do what the gods did.’ And, besides, he removes, by means of these (bricks), whatever evil, whatever corruption there is; and because he removes by them evil, corruption (nirr̥ti), therefore these are Nirr̥ti’s (bricks).

०५

विश्वास-प्रस्तुतिः

(त्यो) य᳘द्वे᳘वैता᳘ नैर्ऋतीर्ह᳘रन्ति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘मुखा᳘यां यो᳘नौ रे᳘तोभूत᳘मसिञ्चन्यो᳘निर्वा᳘ ऽउखा त᳘स्मा ऽएता᳘ᳫँ᳭ संवत्सरे᳘ प्रतिष्ठाᳫँ᳭ स᳘मस्कुर्वन्निम᳘मेव᳘ लोक᳘मयं वै᳘ लोको गा᳘र्हपत्यस्त᳘स्मिन्नेनं प्रा᳘जनयंस्त᳘स्य यः᳘ पाप्मा यः᳘ श्लेष्मा यदु᳘ल्बं य᳘ज्जरायु[[!!]] त᳘दस्यैता᳘भिर᳘पाघ्नंस्तद्य᳘दस्यैता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपा᳘घ्नंस्त᳘स्मादेता᳘ नैर्ऋ᳘त्यः[[!!]]॥

मूलम् - श्रीधरादि

(त्यो) य᳘द्वे᳘वैता᳘ नैर्ऋतीर्ह᳘रन्ति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘मुखा᳘यां यो᳘नौ रे᳘तोभूत᳘मसिञ्चन्यो᳘निर्वा᳘ ऽउखा त᳘स्मा ऽएता᳘ᳫँ᳭ संवत्सरे᳘ प्रतिष्ठाᳫँ᳭ स᳘मस्कुर्वन्निम᳘मेव᳘ लोक᳘मयं वै᳘ लोको गा᳘र्हपत्यस्त᳘स्मिन्नेनं प्रा᳘जनयंस्त᳘स्य यः᳘ पाप्मा यः᳘ श्लेष्मा यदु᳘ल्बं य᳘ज्जरायु[[!!]] त᳘दस्यैता᳘भिर᳘पाघ्नंस्तद्य᳘दस्यैता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपा᳘घ्नंस्त᳘स्मादेता᳘ नैर्ऋ᳘त्यः[[!!]]॥

मूलम् - Weber

य᳘द्वेॗवैता᳘ नैरृतीर्ह᳘रन्ति॥
प्रजा᳘पतिं वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘मुखा᳘यां यो᳘नौ रे᳘तो भूत᳘मसिञ्चन्यो᳘निर्वा᳘ उखा त᳘स्मा एता᳘ᳫं᳘ संवत्सरे᳘ प्रतिष्ठाᳫं स᳘मस्कुर्वन्निम᳘मेव᳘ लोक᳘मयं वै᳘ लोको गा᳘र्हपत्यस्त᳘स्मिन्नेनम् प्रा᳘जनयंस्त᳘स्य यः᳘ पाप्मा यः᳘ श्लेष्मा यदु᳘ल्बं य᳘ज्जरा᳘यु त᳘दस्यैता᳘भिर᳘पाघ्नंस्तद्य᳘दस्यैता᳘भिः पाप्मा᳘नं नि᳘रृतिमपा᳘घ्नंस्त᳘स्मादेता᳘ नैरृत्यः᳟॥

मूलम् - विस्वरम्

यद्वेवैता नैर्ऋतीर्हरन्ति- प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन्- तमुखायां योनौ रेतोभूतमसिञ्चन् । योनिर्वा ऽउखा । तस्मा ऽएतां संवत्सरे प्रतिष्ठां समस्कुर्वन्- इममेव लोकम् । अयं वै लोको गार्हपत्यः । तस्मिन्नेनं प्राजनयन् । तस्य यः पाप्मा, यः श्लेष्मा, यदुल्बम्, यज्जरायु- तदस्यैताभिरपाघ्नन् । तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपाघ्नन्- तस्मादेता नैर्ऋत्यः ॥ ५ ॥

सायणः

प्रयोजनान्तरं वक्तुं नैर्ऋतीनां हरणमनुवदति- यद्वेवैता इति । ‘यत् उ एव’ यस्मादेव प्रयोजनान्तरात् ‘एता नैर्ऋतीः’ इष्टकाः ‘हरन्ति,’ तदुच्यत इति शेषः । आख्यायिकया तत् प्रतिपादयति- प्रजापतिं विस्रस्तमिति । यदा खलु ‘देवाः’ ‘विस्रस्तं’ विश्लिष्टावयवं ‘प्रजापतिम्’ ‘समस्कुर्वन्’ पुनरजयन्, तदा ‘तम्’ प्रजापतिम्, उखालक्षणायां ‘योनौ’ उख्याग्निरूपेण ‘रेतोभूतम्’ ‘असिञ्चन्’ । योनिर्वा उखेति । उख्याग्नेस्तत उत्पत्तेः । तस्मा एतामिति । ‘तस्मै’ प्रजापतये ‘संवत्सरे’ उख्याग्निभरणेन नीते सति ‘एतां प्रतिष्ठां’ प्रतितिष्ठत्यनेनेति पादद्वयं प्रतिष्ठा; भूलोकात्मकं पादद्वयमजनयन्नित्यर्थः । ननु संवत्सरे अतिक्रान्ते गार्हपत्य एव चीयते, न भूलोकस्योत्पत्तिरित्याशङ्क्य तयोस्तादात्म्यमाह- अयं वै लोक इति । तस्मिन्नेनमिति । ‘तस्मिन्’ भूलोकात्मके गार्हपत्ये ‘एनं’ प्रतिष्ठारूपं प्रजापत्यवयवं ‘प्राजनयन्’ उदपादयन् । ‘तस्य’ प्रजायमानस्य ‘यः पाप्मा’ शरीरे लिप्तः, ‘यः श्लेष्मा,’ ‘यत्’ च ‘उल्बं’ गर्भवेष्टनम्, ‘यत्’ च जराय्वाख्यं गर्भस्य बाह्यवेष्टनम्, ‘तत्’ सर्वं पापरूपम् ‘अस्य’ प्रजापतेः ‘एताभिः’ इष्टकाभिः ‘अपाघ्नन्’ अपहतवन्तः । अत्रापि पूर्ववन्नामनिर्वचनं करोति- तद्यदस्येति ॥ ५ ॥

Eggeling
  1. And, again, why they take these (bricks) of Nirr̥ti;–when the gods restored the relaxed Prajāpati, they cast him as seed into the fire-pan, the

womb; the fire-pan being indeed a womb. In the course of a year they prepared for him this foundation, even this (terrestrial) world; the Gārhapatya (hearth) being this world: therein they generated him. And whatever evil there was in him, whatever mucus, whatever inner and outer membrane, that they removed from him by means of these (bricks); and inasmuch as thereby they removed his evil, his corruption, these are Nirr̥ti’s (bricks).

०६

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘थै᳘वैतद्य᳘जमानः॥
(ऽ) आत्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति यो᳘निर्व्वा᳘ ऽउखा त᳘स्मा ऽएता᳘ᳫँ᳘ संवत्सरे᳘ प्रतिष्ठाᳫँ᳭ सं᳘स्करोतीम᳘मेव᳘ लोक᳘मयं वै᳘ लोको गा᳘र्हपत्यस्त᳘स्मिन्नेनं प्र᳘जनयति त᳘स्य यः᳘ पाप्मा यः᳘ श्लेष्मा यदु᳘ल्बं य᳘ज्जरा᳘यु त᳘दस्यैता᳘भिर᳘पहन्ति तद्य᳘दस्यैता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपह᳘न्ति त᳘स्मादेता᳘ नैर्ऋ᳘त्यः[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘थै᳘वैतद्य᳘जमानः॥
(ऽ) आत्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति यो᳘निर्व्वा᳘ ऽउखा त᳘स्मा ऽएता᳘ᳫँ᳘ संवत्सरे᳘ प्रतिष्ठाᳫँ᳭ सं᳘स्करोतीम᳘मेव᳘ लोक᳘मयं वै᳘ लोको गा᳘र्हपत्यस्त᳘स्मिन्नेनं प्र᳘जनयति त᳘स्य यः᳘ पाप्मा यः᳘ श्लेष्मा यदु᳘ल्बं य᳘ज्जरा᳘यु त᳘दस्यैता᳘भिर᳘पहन्ति तद्य᳘दस्यैता᳘भिः पाप्मा᳘नं नि᳘र्ऋतिमपह᳘न्ति त᳘स्मादेता᳘ नैर्ऋ᳘त्यः[[!!]]॥

मूलम् - Weber

त᳘थैॗवैतद्य᳘जमानः॥
आत्मा᳘नमुखा᳘यां यो᳘नौ रे᳘तो भूतᳫं सिञ्चति यो᳘निर्वा᳘ उखा त᳘स्मा एता᳘ᳫं᳘ संवत्सरे᳘ प्रतिष्ठाᳫं स᳘ᳫं᳘स्करोतीम᳘मेव᳘ लोक᳘मयं वै᳘ लोको गा᳘र्हपत्यस्त᳘स्मिन्नेनम् प्र᳘जनयति त᳘स्य यः᳘ पाप्मा यः᳘ श्लेष्मा यदु᳘ल्बं य᳘ज्जरा᳘यु त᳘दस्यैता᳘भिर᳘पहन्ति तद्य᳘दस्यैता᳘भिः पाप्मा᳘नं नि᳘रृतिमपहन्ति त᳘स्मादेता᳘ नैरृत्यः᳟॥

मूलम् - विस्वरम्

तथैवैतद्यजमान आत्मानमुखायां योनौ रेतोभूतं सिञ्चति । योनिर्वा ऽउखा । तस्मा ऽएतां संवत्सरे प्रतिष्ठां संस्करोति- इममेव लोकम् । अयं वै लोको गार्हपत्यः । तस्मिन्नेनं प्रजनयति । तस्य यः पाप्मा, यः श्लेष्मा, यदुल्बम्, यज्जरायु- तदस्यैताभिरपहन्ति । तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपहन्ति- तस्मादेता नैर्ऋत्यः ॥ ६ ॥

सायणः

इतिहाससिद्धमर्थं दृष्टान्तीकृत्य दार्ष्टान्तिके योजयति- तथैवैतदिति । यथा प्रजापतिमुदीरितरीत्या देवाः समस्कुर्वन्, तथैवेदानीं यजमानो ऽपि प्रजापतिरूपमात्मानम् उखायामित्यादि पूर्ववद्योज्यम् ॥ ६ ॥

Eggeling
  1. In like manner the Sacrificer now casts his own self 1, as seed, into the fire-pan, the womb; the fire-pan being indeed a womb. In the course of a year he prepares for that (self of his) this foundation, even this (terrestrial) world; the Gārhapatya being this world: therein he generates it. And whatever evil there is of it, whatever mucus, whatever inner and outer membrane, that he removes therefrom by these (bricks); and inasmuch as he thereby removes its evil, its corruption, these are Nirr̥ti’s (bricks).

०७

विश्वास-प्रस्तुतिः

पादमा᳘त्र्यो भवन्ति॥
(न्त्य) अधस्पद᳘मेव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिं कुरुते ऽलक्षणा᳘ भवन्ति यद्वै ना᳘स्ति त᳘दलक्षणम᳘सन्त᳘मेव तत्पाप्मा᳘नं[[!!]] नि᳘र्ऋतिं कुरुते तुषपक्वा[[!!]] भवन्ति नैर्ऋता वै तुषा[[!!]] नैर्ऋतै᳘रेव त᳘न्नैर्ऋतं क᳘र्म करोति कृष्णा᳘ भवन्ति कृष्णᳫँ᳭ हि तत्त᳘म ऽआ᳘सीद᳘थो कृष्णा वै नि᳘र्ऋतिः॥

मूलम् - श्रीधरादि

पादमा᳘त्र्यो भवन्ति॥
(न्त्य) अधस्पद᳘मेव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिं कुरुते ऽलक्षणा᳘ भवन्ति यद्वै ना᳘स्ति त᳘दलक्षणम᳘सन्त᳘मेव तत्पाप्मा᳘नं[[!!]] नि᳘र्ऋतिं कुरुते तुषपक्वा[[!!]] भवन्ति नैर्ऋता वै तुषा[[!!]] नैर्ऋतै᳘रेव त᳘न्नैर्ऋतं क᳘र्म करोति कृष्णा᳘ भवन्ति कृष्णᳫँ᳭ हि तत्त᳘म ऽआ᳘सीद᳘थो कृष्णा वै नि᳘र्ऋतिः॥

मूलम् - Weber

पादमाॗत्र्यो भवन्ति॥
अधस्पद᳘मेव त᳘त्पाप्मा᳘नं नि᳘रृतिं कुरुते ऽलक्षणा᳘ भवन्ति यद्वै ना᳘स्ति त᳘दलक्षणम᳘सन्तमेव त᳘त्पाप्मा᳘नं नि᳘रृतिं कुरुते तु᳘षपक्वा भवन्ति नैरृता वै तु᳘षा नैरृतै᳘रेव त᳘न्नैरृतं क᳘र्म करोति कृष्णा᳘ भवन्ति कृष्णᳫं हि तत्त᳘म आ᳘सीद᳘थो कृष्णा वै नि᳘रृतिः॥

मूलम् - विस्वरम्

पादमात्र्यो भवन्ति । अधस्पदमेव तत्पाप्मानं निर्ऋतिं कुरुते । अलक्षणा भवन्ति । यद्वै नास्ति तदलक्षणम् । असन्तमेव तत् पाप्मानं निर्ऋतिं कुरुते । तुषपक्वा भवन्ति । नैर्ऋता वै तुषाः । नैर्ऋतैरेव तन्नैर्ऋतं कर्म करोति । कृष्णा भवन्ति । कृष्णं हि तत्तम आसीत् । अथो कृष्णा वै निर्ऋतिः ॥ ७ ॥

सायणः

इत्थं पापरूपस्य तमसः, गर्भसम्बन्धिश्लेष्मोल्बादिरूपस्य च पाप्मनो निर्हरणहेतुत्वेन नैर्ऋतीरिष्टकाः प्रशस्य, तासां लक्षणमाह- पादमात्र्य इति । विंशत्यधिकशतांगुलिपरिमितः पुरुषः; तस्य दशमों ऽशः पादः, स प्रमाण यासां ताः ‘पादमात्र्यः’ तदुक्तं कात्यायनेन- “पञ्चारत्निर्दशवितस्तिर्विंशतिशतांगुलः पुरुषः, द्वादशाङ्गुलं पदम्” (का. शु. सू. ८२) इति 2 । तत् परिमाणं प्रशंसति- अधस्पदमेवेति । ‘एतत्’ एतेन नैर्ऋतीनां पादमात्रपरिमाणकरणेन ‘अधस्पदं’ पादस्याधस्तादेव निर्ऋतिरूपम् ‘पाप्मानं’ कृतवान् भवतीत्यर्थः । एतेन पादमात्र्य इत्यत्र पादशब्दो ऽङ्घ्रिपर्यायः, न तु चतुर्थांशवाचक इति व्याख्यातं भवति । धर्मविशेषं विधत्ते- अलक्षणा भवन्तीति । त्र्यालिखितादिकं लक्षणम्, तद्रहिता भवेयुरित्यर्थः । एतदुपपादयति- यद्वै नास्तीति । ‘यत्’ खल्वभावप्रतियोगि, ‘तत्’ निःस्वरूपत्वात् ‘अलक्षणं’ व्यावर्त्तकचिह्नरहितम्, अतो ऽत्रालक्षणकरणेन ‘निर्ऋतिं’ पाप्मानम् ‘असन्तम्’ अभावप्रतियोगिनमेव करोति । ननु पाके सतीष्टकान्तरलक्षणवत्त्वमासामवर्जनीयमित्याशङ्क्य, तासां पाकप्रकारमाह- तुषपक्वा भवन्तीति । तुषैः पक्वाः ‘तुषपक्वाः’ । पचेः कर्मणि क्तः, “पचो वः”-(पा. सू. ८ । २ । १२) इति निष्ठातकारस्य वत्वम् । तत् प्रशंसति- नैर्ऋता वा इति । दर्शपूर्णमासप्रकरणे “अथ तुषान् प्रहन्त्यपहतँ रक्ष इति”- (श. प. १ । १ । ४ । २१) इति रक्षःसम्बन्धस्य समाम्नातत्वात् तुषाणां नैर्ऋतत्वम् । तासां कार्ष्ण्यं विधत्ते- कृष्णा भवन्तीति । ताः तिस्र इष्टकाः कृष्णवर्णाः । तत्र कारणमाह- कृष्णं हीति । अपहन्तव्यस्य तमसः कृष्णवर्णत्वात् तदभिमानिन्या निर्ऋतिदेवतायाश्च तादृग्वर्णत्वादित्यर्थः ॥ ७ ॥

Eggeling
  1. They measure a foot (square): he thus treads evil, corruption, under foot. They are unmarked; for whatever is not, that is unmarked (by characteristics): he thus makes evil, corruption to be non-existent. They get baked by (rice) husks, for husks belong to Nirr̥ti: by Nirr̥ti’s own (objects) he thus performs Nirr̥ti’s rite. They are black, for black was that darkness; and black in truth is Nirr̥ti (corruption).

०८

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘भिरेतां दि᳘शं यन्ति॥
(न्त्ये) एषा वै[[!!]] नैर्ऋती दि᳘ङ् नैर्ऋत्या᳘मेव त᳘द्दिशि नि᳘र्ऋतिं दधाति स य᳘त्र स्व᳘कृतं वे᳘रिणᳫँ᳭ श्वभ्रप्रदरो᳘ वा स्यात्त᳘देना ऽउ᳘पदध्याद्य᳘त्र वा᳘ ऽअस्या᳘ ऽअवदीर्य᳘ते य᳘त्र वा ऽस्या ऽओ᳘षधयो न जा᳘यन्ते नि᳘र्ऋतीर्हास्यै त᳘द्गृह्णाति नैर्ऋत᳘ ऽएव तद्भू᳘मेर्नि᳘र्ऋतिं दधाति ताः प᳘राचीर्लोकभा᳘जः कृत्वो᳘पदधाति॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘भिरेतां दि᳘शं यन्ति॥
(न्त्ये) एषा वै[[!!]] नैर्ऋती दि᳘ङ् नैर्ऋत्या᳘मेव त᳘द्दिशि नि᳘र्ऋतिं दधाति स य᳘त्र स्व᳘कृतं वे᳘रिणᳫँ᳭ श्वभ्रप्रदरो᳘ वा स्यात्त᳘देना ऽउ᳘पदध्याद्य᳘त्र वा᳘ ऽअस्या᳘ ऽअवदीर्य᳘ते य᳘त्र वा ऽस्या ऽओ᳘षधयो न जा᳘यन्ते नि᳘र्ऋतीर्हास्यै त᳘द्गृह्णाति नैर्ऋत᳘ ऽएव तद्भू᳘मेर्नि᳘र्ऋतिं दधाति ताः प᳘राचीर्लोकभा᳘जः कृत्वो᳘पदधाति॥

मूलम् - Weber

ता᳘भिरेतां दि᳘शं यन्ति॥
एषा वै᳘ नैरृती दि᳘ङ्नैरृत्या᳘मेव त᳘द्दिशि नि᳘रृतिं दधाति स य᳘त्र स्व᳘कृतं वे᳘रिणं श्वभ्रप्रदरो᳘ वा स्यात्त᳘देना उ᳘पदध्याद्य᳘त्र वा᳘ अस्या᳘ अवदीर्य᳘ते य᳘त्र वास्या ओ᳘षधयो न जा᳘यन्ते नि᳘रृतीर्हास्यै त᳘द्गृह्णाति नैऋत᳘ एव तद्भू᳘मेर्नि᳘रृतिं दधाति ताः प᳘राचीर्लोकभा᳘जः कृत्वो᳘पदधाति॥

मूलम् - विस्वरम्

ताभिरेतां दिशं यन्ति । एषा वै नैर्ऋती दिक् । नैर्ऋत्यामेव तद्दिशि निर्ऋतिं दधाति । स यत्र स्वकृतं वेरिणम्, श्वभ्रमदरो वा स्यात्- तदेना उपदध्यात् । यत्र वा ऽअस्या ऽअवदीर्यते, यत्र वा ऽस्या ऽओषधयो न जायन्ते- निर्ऋतिर्हास्यै तद् गृह्णाति । नैर्ऋत ऽएव तद्भूमेर्निर्ऋतिं दधाति । ताः पराचीर्लोकभाजः कृत्वोपदधाति ॥ ८ ॥

सायणः

तासामुपधानार्थं दिग्विशेषमभिनयेन दर्शयति- ताभिरेतामिति । ‘एतां’ दक्षिणापरां दिशं ‘ताभिः’ इष्टकाभिः सह ‘यन्ति’ गच्छेयुः । ‘एषा’ खलु ‘नैर्ऋती’ निर्ऋतिदेवताधिष्ठिता ‘दिक्’ । तथा सति स्वकीयदिश्येवैतां ‘निर्ऋतिं’ ‘दधाति’ स्थापयति । तत्रापि देशविशेषमाह- स यत्रेति । ‘सः’ अध्वर्युः नैर्ऋत्यां दिशि ‘यत्र’ यस्मिन् स्थाने ‘स्वकृतं’ स्वयमेव सञ्जातम् ‘इरिणं’ निस्तृणं, ऊषरस्थानं वा भवति, ‘श्वभ्रप्रदरो वा’ श्वभ्राकारेण प्रदीर्णः प्रदेशो भवेत्, ‘तत्’ तस्मिन् स्थाने ‘एनाः’ नैर्ऋतीः ‘उपदध्यात्’ । तादृक्स्थानस्य निर्ऋतिदेवताधिष्ठितत्वमाह- यत्र वा इति । ‘यत्र’ खलु ‘अस्याः’ पृथिव्याः सम्बन्धिनि स्थाने आत्मा ‘अवदीर्यते’ भिद्यते, ‘यत्र वा’ ऊषरस्थाने ‘ओषधयो न जायन्ते’ ‘तदेतत्’ स्थानद्वयं निर्ऋतिगृहीतम्; तथा च निर्ऋतिसम्बद्धे स्थाने एव नैर्ऋतीनामुपधानेन निर्ऋतिं स्थापितवान् भवति । धर्मविशेषं विधत्ते- ताः पराचीरिति 3 । पराञ्चनाः स्वस्वानभिमुखा यथा भवन्ति तथा ‘लोकभाजः’ स्थानभाजः ‘कृत्वा’ ‘ताः’ इष्टका उपदध्यात् । एतच्च पराक्त्वमग्रे प्रतिपादयिष्यते ॥ ८॥

Eggeling
  1. With them they proceed towards that (southwestern) quarter, for that is Nirr̥ti’s quarter: he thus places Nirr̥ti (corruption) in Nirr̥ti’s quarter.

And anywhere where there is a self-produced hollow 4 or cleft in the ground, he lays down those (bricks); for on whatever part of this (earth) there is a cleaving, or in whatever part of it plants are not produced, verily that part of it Nirr̥ti seizes upon: he thus places corruption in a (part) of the earth set aside for Nirr̥ti. Having put them in their places in a direction away from himself 5, he lays them down 6.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘सुन्वन्तम᳘यजमानमिच्छे᳘ति॥
यो वै न᳘ सुनो᳘ति न य᳘जते तं नि᳘र्ऋतिर्ऋच्छति स्तेन᳘स्येत्याम᳘न्विहि त᳘स्करस्ये᳘ति स्तेन᳘स्य चेत्या᳘मन्विहि त᳘स्करस्य चे᳘त्येतद᳘थो य᳘था स्तेनस्त᳘स्करः प्रला᳘यमे᳘त्येवं᳘ प्रला᳘यमिही᳘त्यन्य᳘मस्म᳘दिच्छ सा᳘ त ऽइत्येत्य᳘नित्थंविद्वाᳫँ᳭समिच्छे᳘त्येतन्न᳘मो देवि निर्ऋते तुभ्यमस्त्वि᳘ति[[!!]] नमस्कारे᳘णै᳘वैनाम᳘पहते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘सुन्वन्तम᳘यजमानमिच्छे᳘ति॥
यो वै न᳘ सुनो᳘ति न य᳘जते तं नि᳘र्ऋतिर्ऋच्छति स्तेन᳘स्येत्याम᳘न्विहि त᳘स्करस्ये᳘ति स्तेन᳘स्य चेत्या᳘मन्विहि त᳘स्करस्य चे᳘त्येतद᳘थो य᳘था स्तेनस्त᳘स्करः प्रला᳘यमे᳘त्येवं᳘ प्रला᳘यमिही᳘त्यन्य᳘मस्म᳘दिच्छ सा᳘ त ऽइत्येत्य᳘नित्थंविद्वाᳫँ᳭समिच्छे᳘त्येतन्न᳘मो देवि निर्ऋते तुभ्यमस्त्वि᳘ति[[!!]] नमस्कारे᳘णै᳘वैनाम᳘पहते॥

मूलम् - Weber

अ᳘सुन्वन्तम᳘यजमानमिछे᳘ति॥
यो वै न᳘ सुनो᳘ति न य᳘जते तं नि᳘रृतिरृछति स्तेन᳘स्येत्याम᳘न्विहि त᳘स्करस्ये᳘ति स्तेन᳘स्य चेत्या᳘मन्विहि त᳘स्करस्य चे᳘त्येतद᳘थो य᳘था स्तेनस्त᳘स्करः प्रला᳘यमे᳘त्येव᳘म् प्रला᳘यमिही᳘त्यन्य᳘मस्म᳘दिछ सा᳘ त इत्येत्य᳘नित्थंविद्वांसमिछे᳘त्येतन्न᳘मो देवि निरृते तु᳘भ्यमस्त्वि᳘ति नमस्कारे᳘णैॗवैनाम᳘पहते॥

मूलम् - विस्वरम्

“असुन्वन्तमयजमानमिच्छ”- इति । यो वै न सुनोति, न यजते- तं निर्ऋतिर्ऋच्छति । “स्तेनस्येत्यामन्विहि तस्करस्य”- इति । स्तेनस्य चेत्यामन्विहि तस्करस्य चेत्येतत् । अथो यथा स्तेनस्तस्करः प्रलायमेति- एवं प्रलायमिहीति । “अन्यमस्मदिच्छ सा त ऽइत्या”- इति । अनित्थंविद्वांसमिच्छेत्येतत् । “नमो देवि निर्ऋते तुभ्यमस्तु”- (वा० सं० १२ । ६२) इति । नमस्कारेणैवैनामपहते ॥ ९ ॥

सायणः

तत्र तिसृणामिष्टकानां त्रयो मन्त्राः, तान् क्रमेण प्रदर्शयन् व्याचष्टे- असुन्वन्तमयजमानमित्यादिना । यो वै न सुनोतीति । ‘यः’ पुरुषः सोमाभिषवं न करोति, यश्च दर्शपूर्णमासादिभिर्हविर्यज्ञैः ‘न यजते’ ‘तं’ ‘निर्ऋतिः’ पापदेवता ‘ऋच्छति’ प्राप्नोति । तस्मान्निर्ऋतिं सम्बोध्य “असुन्वन्तमयजमानमिच्छ”- इति मन्त्रपाठो युक्त इत्यर्थः ॥

स्तेनस्य चेत्यामिति । प्रच्छन्नचोरः स्तेनः, प्रत्यक्षं परेषां धनमपहरति यः स तस्करः; अनयोः परस्परविलक्षणत्वात् अविद्यमानमपि ‘च’- शब्दमध्याहृत्य योजयति । ‘स्तेनस्य तस्करस्य च’ या ‘इत्या’ गतिः, “सञ्ज्ञायां समजनिषद” इत्यादिना (पा. सू. ३ । ३ । ९९) “इण् गतौ”- (धा. पा. अ. प. ३५) इत्यस्माद् भावे क्यप् । तां गतिं हे निर्ऋते ! त्वम् ‘अन्विहि’ अनुगच्छ । एतदेव विवृणोति- अथो इति । अपि च यथा स्तेनः तस्करश्च ‘प्रलायं’ प्रलीयप्रलीय अदृश्यो भूत्वा ‘एति’ गच्छति । ‘प्रलायम्’ इति णमुलन्तः (पा. सू. ३ । ४ । २२) । ‘एवं’ निर्ऋते ! त्वमपि ‘प्रलानम्’ अदर्शनम् ‘इहि’ गच्छेति मन्त्रभागस्याभिप्रायः । अनित्थंविद्वांसमिति । ‘इत्थम्’ अनेन प्रकारेणोक्तमर्थं यो न वेत्ति सो ऽनित्थंविद्वान् अत्रान्यशब्देन विवक्षित इत्यर्थः । हे निर्ऋते ! अस्मत्तः अन्यं त्वत्स्वरूपानभिज्ञम् ‘इच्छ’ । ‘सा’ तादृशी अविद्वद्विषयैव खलु ‘ते’ तव ‘इत्या’ गतिरिति मन्त्रभागस्यार्थः । नमस्कारेणैवेति । “नमो देवि निर्ऋते”- इत्यन्तिमपादे नमस्कारप्रतिपादनात् तेनैव नमस्कारेण ‘एनां’ निर्ऋतिम् ‘अपहते’ अपबाधते अपसारयतीत्यर्थः ॥ ९ ॥

Eggeling
  1. [He lays them down, with Vāj. S. XII, 62-64] ‘Seek thou him that offereth not Soma, nor other offering!’ him who neither presses Soma nor makes offering Nirr̥ti indeed visits;–‘Of the thief do thou follow the way, of the robber!’ that is, ‘follow the way both of the thief and the robber, and even as a thief or a robber remains concealed, so do thou remain concealed!’–‘Seek thou some one other than us: this is thy way;’ that is, ‘seek him who is ignorant of this (sacred work);’–‘Homage be to thee, O divine Nirr̥ti!’ he thus turns Nirr̥ti aside by rendering homage to her.

१०

विश्वास-प्रस्तुतिः

न᳘मः सु᳘ ते निर्ऋते तिग्मतेज ऽइ᳘ति॥
तिग्म᳘तेजा वै नि᳘र्ऋतिस्त᳘स्या ऽएतन्न᳘मस्करोत्ययस्म᳘यं व्वि᳘चृता बन्ध᳘मेतमि᳘त्ययस्म᳘येन ह वै तं᳘ बन्धे᳘न नि᳘र्ऋतिर्बध्नाति यं᳘ बध्ना᳘ति यमे᳘न त्वं᳘ यम्या᳘ संव्विदाने᳘त्यग्निर्वै᳘ यम᳘ ऽइयं᳘ य᳘म्याभ्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वं यत᳘माभ्यां त्व᳘ᳫँ᳘ संव्विदाने᳘त्येत᳘दुत्तमे ना᳘के ऽअ᳘धिरोहयैनमि᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गे᳘ लोके य᳘जमानम᳘धिरोहयेत्यतत्[[!!]]॥

मूलम् - श्रीधरादि

न᳘मः सु᳘ ते निर्ऋते तिग्मतेज ऽइ᳘ति॥
तिग्म᳘तेजा वै नि᳘र्ऋतिस्त᳘स्या ऽएतन्न᳘मस्करोत्ययस्म᳘यं व्वि᳘चृता बन्ध᳘मेतमि᳘त्ययस्म᳘येन ह वै तं᳘ बन्धे᳘न नि᳘र्ऋतिर्बध्नाति यं᳘ बध्ना᳘ति यमे᳘न त्वं᳘ यम्या᳘ संव्विदाने᳘त्यग्निर्वै᳘ यम᳘ ऽइयं᳘ य᳘म्याभ्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वं यत᳘माभ्यां त्व᳘ᳫँ᳘ संव्विदाने᳘त्येत᳘दुत्तमे ना᳘के ऽअ᳘धिरोहयैनमि᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गे᳘ लोके य᳘जमानम᳘धिरोहयेत्यतत्[[!!]]॥

मूलम् - Weber

न᳘मः सु᳘ ते निरृते तिग्मतेज इ᳘ति॥
तिग्म᳘तेजा वै नि᳘रृतिस्त᳘स्या एतन्न᳘मस्करोत्ययस्म᳘यं वि᳘चृता बन्ध᳘मेतमि᳘त्ययस्म᳘येन ह वै त᳘म् बन्धे᳘न नि᳘रृतिर्बध्नाति य᳘म् बध्ना᳘ति यमे᳘न त्वं᳘ यम्या᳘ संविदाने᳘त्यग्निर्वै᳘ यम᳘ इयं᳘ यॗम्याभ्याॗᳫंॗ हीदᳫं स᳘र्वं यत᳘माभ्यां त्व᳘ᳫं᳘ संविदाने᳘त्येत᳘दुत्तमे ना᳘के अ᳘धि रोहयैनमि᳘ति स्वर्गो वै लोको ना᳘कः स्वर्गे᳘ लोके यजमानम᳘धिरोहये᳘त्यत᳘त्॥

मूलम् - विस्वरम्

“नमः सु ते निर्ऋते तिग्मतेजः”- इति । तिग्मतेजा वै निर्ऋतिः, तस्या ऽएतन्नमस्करोति । “अयस्मयं विचृता बन्धमेतम्”- इति । अयस्मयेन ह वै तं बन्धेन निर्ऋतिर्बध्नाति- यं बध्नाति । “यमेन त्वं यम्या संविदाना”- इति । अग्निर्वै यमः, इयं यमी । आभ्यां हीदं सर्वं यतम् । आभ्यां त्वं संविदानेत्येतत् । “उत्तमे नाके ऽअधिरोहयैनम्”- (वा. सं. १२ । ६३) इति । स्वर्गो वै लोको नाकः । स्वर्गे लोके यजमानमधिरोहयेत्येतत् ॥ १० ॥

सायणः

नमः सु ते इति । द्वितीयो मन्त्रः । तत्र तिग्मतेज इति विशेषणस्य प्रसिद्धिमाह- तिग्मतेजा वा इति । तिग्मं तीक्ष्णं तेजो यस्याः सा तिग्मतेजाः, हे तिग्मतेजो निर्ऋते ! ‘ते’ तुभ्यं नमो ऽस्त्विति तस्यार्थः । द्वितीयपादमनूद्य व्याचष्टे- अयस्मयमिति । अयसा लोहेन निर्मितो बन्धो ऽयस्मयः । विकारार्थे मयट् (पा. सू. ४ । ३ । १४३) तादृशेन खलु बन्धेन ‘निर्ऋतिस्तं बध्नाति’ ‘यं’ बन्धनीयं मन्यते । हे निर्ऋते ! ‘अयस्मयमेतं बन्धं विचृत’ विमुञ्चेति प्रार्थना युक्ता । यम-यमीशब्दयोर्विवक्षितमर्थमाह- अग्निर्वै यम इति । अन्तःप्रविष्टः सन् कृत्स्नजगन्नियमनाद् ‘अग्निर्यमः;’ तदधिष्ठितत्वात् ‘इयं’ पृथिव्येव ‘यमी;’ इयमपि हि आश्रितं सर्वं जगन्नियच्छति । तथा ‘आभ्यां’ यमेनाग्निना, यम्या पृथिव्या च संविदाना सञ्जानाना ‘त्वम्’ इति तृतीयभागस्यार्थः । चतुर्थं पादमनूद्य व्याचष्टे- उत्तमे नाक इति । कं सुखम्, न कम् अकं दुःखम्, तदस्मिन् नास्तीति ‘नाकः’ स्वर्गाख्यो लोकः । उक्तं हि- “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥”- इति । सिद्धमन्यत् ॥ १० ॥

Eggeling
  1. ‘Homage be unto thee full well, O sharp-edged Nirr̥ti!’ for Nirr̥ti is indeed sharp-edged: to her he thereby renders homage;–’loose thou

this iron bond!’ for it is indeed with an iron bond that Nirr̥ti binds him whom she binds;–‘being of one mind with Yama and Yamī,’–Yama doubtless is Agni, and Yam is this (earth), and by these two everything here is kept in check: thus, ‘being of one mind with those two,’–‘raise him unto the highest firmament!’ the firmament is the heavenly world: thus, ‘raise the Sacrificer up to the heavenly world!’

११

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘स्यास्ते घोर ऽआस᳘ञ्जुहोमी᳘ति॥
घोरा वै नि᳘र्ऋतिस्त᳘स्या ऽएत᳘दास᳘ञ्जुहोति य᳘त्तद्देव᳘त्यं क᳘र्म करो᳘त्येषां बन्धा᳘नामवस᳘र्जनाये᳘ति यै᳘र्बन्धै᳘र्बद्धो भ᳘वति यां᳘ त्वा ज᳘नो भू᳘मिरि᳘ति प्रम᳘न्दत ऽइ᳘तीयं वै भू᳘मिरस्यां वै स᳘ भवति यो भ᳘वति नि᳘र्ऋतिं त्वा ऽहं प᳘रिवेद व्विश्व᳘त ऽइ᳘ति नि᳘र्ऋतिरि᳘ति त्वा ऽहं प᳘रिवेद सर्व्व᳘त ऽइ᳘त्येत᳘दियं वै नि᳘र्ऋतिरियं वै तं नि᳘रर्पयति यो᳘ निर्ऋच्छ᳘ति तद्य᳘था वै᳘ ब्रूयाद᳘सावामुष्याय᳘णो ऽसि व्वे᳘द त्वा मा᳘ मा हिᳫँ᳭सीरि᳘त्येव᳘मेत᳘दाह नतराᳫँ᳭ हि᳘ व्विदित ऽआ᳘मन्त्रितो हिन᳘स्ति॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘स्यास्ते घोर ऽआस᳘ञ्जुहोमी᳘ति॥
घोरा वै नि᳘र्ऋतिस्त᳘स्या ऽएत᳘दास᳘ञ्जुहोति य᳘त्तद्देव᳘त्यं क᳘र्म करो᳘त्येषां बन्धा᳘नामवस᳘र्जनाये᳘ति यै᳘र्बन्धै᳘र्बद्धो भ᳘वति यां᳘ त्वा ज᳘नो भू᳘मिरि᳘ति प्रम᳘न्दत ऽइ᳘तीयं वै भू᳘मिरस्यां वै स᳘ भवति यो भ᳘वति नि᳘र्ऋतिं त्वा ऽहं प᳘रिवेद व्विश्व᳘त ऽइ᳘ति नि᳘र्ऋतिरि᳘ति त्वा ऽहं प᳘रिवेद सर्व्व᳘त ऽइ᳘त्येत᳘दियं वै नि᳘र्ऋतिरियं वै तं नि᳘रर्पयति यो᳘ निर्ऋच्छ᳘ति तद्य᳘था वै᳘ ब्रूयाद᳘सावामुष्याय᳘णो ऽसि व्वे᳘द त्वा मा᳘ मा हिᳫँ᳭सीरि᳘त्येव᳘मेत᳘दाह नतराᳫँ᳭ हि᳘ व्विदित ऽआ᳘मन्त्रितो हिन᳘स्ति॥

मूलम् - Weber

य᳘स्यास्ते घोर आस᳘न्जुहोमी᳘ति॥
घोरा वै नि᳘रृतिस्त᳘स्या एत᳘दास᳘न्जुहोति य᳘त्तद्देव᳘त्यं क᳘र्म करो᳘त्येषाम् बन्धा᳘नामवस᳘र्जनाये᳘ति यै᳘र्बन्धै᳘र्बद्धो भ᳘वति यां᳘ त्वा ज᳘नो भू᳘मिरि᳘ति प्रम᳘न्दत इ᳘तीयं वै भू᳘मिरस्यां वै स᳘ भवति यो भ᳘वति नि᳘रृतिं त्वाहम् प᳘रिवेद विश्व᳘त इ᳘ति नि᳘रृतिरि᳘ति त्वाहम् प᳘रिवेद सर्व᳘त इ᳘त्येत᳘दियं वै नि᳘रृतिरियं वै ते नि᳘रर्पयति यो᳘ निरृछ᳘ति तद्य᳘था वै᳘ ब्रूयाद᳘सावामुष्यायॗणो ऽसि वे᳘द त्वा मा᳘ मा हिंसीरि᳘त्येव᳘मेत᳘दाह नतराᳫं हि᳘ विदित आ᳘मन्त्रितो हिन᳘स्ति॥

मूलम् - विस्वरम्

“यस्यास्ते घोर ऽआसन् जुहोमि”- इति । घोरा वै निर्ऋतिः । तस्या एतदासन् जुहोति- यत्तद्देवत्यं कर्म करोति । “एषां बन्धानामवसर्जनाय”- इति । यैर्बन्धैर्बद्धो भवति । “यां त्वा जनो भूमिरिति प्रमन्दते”- इति । इयं वै भूमिः । अस्यां वै स भवति- यो भवति । “निर्ऋतिं त्वा ऽहं परिवेद विश्वतः”- (वा. सं. १२ । ६४)- इति । निर्ऋतिरिति त्वा ऽहं परिवेद सर्वत इत्येतद् । इयं वै निर्ऋतिः । इयं वै तं निरर्पयति- यो निर्ऋच्छति । तद्यथा वै ब्रूयाद्- असावामुष्यायणो ऽसि, वेद त्वा, मा मा हिंसीः- इति- एवमेतदाह । नतरां हि विदित आमन्त्रितो हिनस्ति ॥ ११ ॥

सायणः

यस्यास्त इति । तृतीयो मन्त्रः । तत्र प्रथमपादस्य तात्पर्यमाह- घोरा वा इति । ‘निर्ऋतिः’ पापदेवतात्वात् पापस्य च दुःखहेतुत्वात् ‘घोरा’ तीव्रा दुःसहा । तथा च ‘तद्देवत्यमेतत् कर्म करोति’ इति यत्, ‘एतत्’ एतेन ‘तस्याः’ निर्ऋतेः ‘आसन्’ आस्ये ‘जुहोति’ प्रक्षिपति । एवञ्च प्रथमपादस्यायमर्थः- हे घोरे निर्ऋते ! यस्याः तव आस्ये जुहोमि, तां त्वामित्युपरि सम्बन्धः ॥

द्वितीयपादमनूद्य एषामिति इदंशब्दनिर्देश्यमाह- यैर्बन्धैरिति । शिक्यपाशरुक्मसूत्रादिभिर्यैः ‘बन्धैः’ दुःखहेतुभिः ‘बद्धो भवति’ यजमानः, ‘एषां बन्धानां’ निर्ऋतिबन्धहेतुभूतानां पापानाम् ‘अवसर्जनाय’ विश्लेषणाय जुहोमीति सम्बन्धः ॥

तृतीयपादमनूद्य, तत्र भूमिरिति विशेषणस्य तात्पर्यमाह- यां त्वेति । हे निर्ऋते ! ‘जनः’ लोकः ‘यां त्वा’ ‘भूमिः’ भवनहेतुः समृद्धिहेतुर्वा ‘इति’ प्रमन्दते स्तौतीति तस्य पादस्यार्थः । इयं वा इत्यादि । ‘इयं’ खलु पृथिवी निर्ऋतिरूपा ‘भूः’ भवनहेतुः । कुत एतदित्याह- अस्यां वा इति । ‘यो भवति’ उत्पद्यते, समृध्यते वा, ‘सः’ ‘अस्यां’ पृथिव्यामाधारभूतायां खलु ‘भवति’ । तस्माद् भवनाधिकरणत्वात् भूमिरिति नाम्ना त्वं स्तूयस इत्यर्थः ॥

जनवादमुपन्यस्य, स्वस्य विशेषज्ञतां चतुर्थपादेनाह- निर्ऋतिं त्वेति । अत्र विश्वशब्दः सर्वशब्दपर्याय एव, न तु जगद्वाचीत्यभिप्रेत्य व्याचष्टे- निर्ऋतिरितीति । अयमर्थः- तृतीयपादे भूमिशन्दादुत्तरत्वेन पठितः ‘इति’- शब्दो ऽत्रानुषज्यते । ‘अहं’ पुनः त्वा ‘त्वां’ ‘निर्ऋतिः’ सर्वतो निरर्पणहेतुः आर्तिकारणम् (अम. को. १. । ९ । २), ‘इति’ ‘परिवेद’ परितो जानामि । एवं निर्ऋतिं त्वेति द्वितीयान्तं निर्ऋतिपदमितिशब्दानुषञ्जनेन व्याख्यायैतदुपपादयति- इयं वा इति । यो निःशेषेण ‘ऋच्छति’ अर्त्तिं प्राप्नोति, ‘तं’ पुरुषम् ‘इयम्’ एव देवता ‘निरर्पयति’ निर्ऋतं प्रयुङ्क्ते । निरुपपदात् ऋच्छतेः प्रयोजकव्यापारे णिचि (पा. सू. १ । ४ । ५५ । ३ । १ । २६) “अर्त्तिह्री” (पा. सू. ७ । ३ । ३६) इत्यादिना पुक् । अतो निरर्पणादियमेव पृथिवी निर्ऋतिरित्युच्यते । अतो भवत्याः स्वरूपं सम्यगहं जानामीत्यर्थः ॥

एतज्ज्ञानस्य सदृष्टान्तं प्रयोजनमाह- तद्यथेति । ‘तत्’ तत्र अरण्यादौ चोरादिष्वागतेषु, असौ त्वमेतन्नामा ऽसि, अमुष्य यज्ञदत्तस्य पुत्रो ऽसि, अतस्त्वामहं जानामि, ‘मा’ मां ‘मा हिंसीः’ मा वधिष्ठाः ‘इति’ आगतं प्रति यथोच्यते, एवमेव खल्वेतत्, “निर्ऋतिं त्वा ऽहम्" इत्यादिना निर्ऋतेः स्वरूपप्रतिपादनम् । नामग्रहणस्य फलमाह- नतरामिति । ‘विदितः’ ज्ञातो नामगोत्रादिना, ‘आमन्त्रितः’ आहूतः, चोरादिः आत्मीयत्वेनाह्वातारं पुरुषं ‘नतराम्’ अतिशयेन नैव ‘हिनस्ति’ बाधते; एवमेव निर्ऋतिनामग्रहणादेनं यजमानं निर्ऋतिर्न बाधत इत्यर्थः ॥ ११ ॥

Eggeling
  1. ‘Thee, O awful (goddess), into whose mouth I offer–’ Nirr̥ti is indeed awful, and into her mouth he now offers when he performs this divine rite;–‘for the unloosing of these bonds;’ that is, of those bonds with which he has been bound;–‘Thee whom people rejoice in calling Earth,’–the Earth is this (world), and he who exists, exists thereon,–‘but I know thee to be Nirr̥ti everywhere!’ that is, in every respect I know that thou art Nirr̥ti. Now Nirr̥ti is this earth, and this earth makes him decay who becomes corrupted: in speaking thus, it is as if he were to say, ‘Thou art So and So, the son of So and So, I know thee, do not injure me!’ for in no wise does he who is known injure one when spoken to.

१२

विश्वास-प्रस्तुतिः

नो᳘पस्पृशति॥
पाप्मा वै निर्ऋतिर्ने᳘त्पाप्म᳘ना सᳫँ᳭स्पृशा ऽइ᳘ति न᳘ सादयति प्रतिष्ठा वै सा᳘दनं ने᳘त्पाप्मा᳘नं प्रतिष्ठाप᳘यानी᳘ति न सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहा ने᳘त्पाप्मा᳘नं प्राणे᳘न संतन᳘वानि संद᳘धानी᳘ति॥

मूलम् - श्रीधरादि

नो᳘पस्पृशति॥
पाप्मा वै निर्ऋतिर्ने᳘त्पाप्म᳘ना सᳫँ᳭स्पृशा ऽइ᳘ति न᳘ सादयति प्रतिष्ठा वै सा᳘दनं ने᳘त्पाप्मा᳘नं प्रतिष्ठाप᳘यानी᳘ति न सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहा ने᳘त्पाप्मा᳘नं प्राणे᳘न संतन᳘वानि संद᳘धानी᳘ति॥

मूलम् - Weber

नो᳘पस्पृशति॥
पाप्मा वै निरृतिर्ने᳘त्पाप्म᳘ना संस्पृशा इ᳘ति न᳘ सादयति प्रतिष्ठा वै सा᳘दनं ने᳘त्पाप्मा᳘नम् प्रतिष्ठाप᳘यानी᳘ति न सू᳘ददोहसा᳘धिवदति प्राणो वै सू᳘ददोहा ने᳘त्पाप्मा᳘नम् प्राणे᳘न संतन᳘वानि संद᳘धानी᳘ति॥

मूलम् - विस्वरम्

नोपस्पृशति । पाप्मा वै निर्ऋतिः । नेत् पाप्मना संस्पृशा ऽइति । न सादयति । प्रतिष्ठा वै सादनम् । नेत्पाप्मानं प्रतिष्ठापयानीति । न सूददोहसा ऽधिवदति । प्राणो वै सूददोहाः । नेत्पाप्मानं प्राणेन सन्तनवानि, सन्दधानीति ॥ १२ ॥

सायणः

उपस्पर्शनसादनसूददोहसामिष्टकान्तरवदासु प्रसक्तानां निषेधं करोति- नोपस्पृशतीत्यादिना । उपहिताया इष्टकायाः प्रथममुपस्पर्शनं कर्त्तव्यम्, पश्चात् “तया देवतया” (वा. सं. १२ । ५३) इति सादनम्, ततः “ता अस्य” इति मन्त्रेण सूददोहसा ऽधिवदनम् (वा. सं. १२ । ५५) तदेतत् त्रितयमत्र न कर्त्तव्यम् । पापसंसर्गो मा भूदित्यभिप्रायः । सन्तनवानीत्यस्य विवरणं ‘सन्दधानि’ इति । अन्यन्निगदसिद्धम् ॥ १२ ॥

Eggeling
  1. He does not touch (the bricks),–Nirr̥ti being evil,–lest he put himself in contact with evil. He does not ‘settle’ them,–settlement being a firm footing–lest he give a firm footing to evil. He does not pronounce the Sūdadohas verse upon them,–the Sūdadohas being the vital air,–lest he should join Nirr̥ti (corruption) together, and restore her.

१३

विश्वास-प्रस्तुतिः

ता है᳘के पर᳘स्तादर्वा᳘चीरु᳘पदधति॥
पाप्मा वै नि᳘र्ऋतिर्ने᳘त्पाप्मा᳘नं नि᳘र्ऋतिमन्ववा᳘यामे᳘ति न त᳘था कुर्यात्प᳘राचीरेवो᳘पदध्यात्प᳘राञ्चमेव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - श्रीधरादि

ता है᳘के पर᳘स्तादर्वा᳘चीरु᳘पदधति॥
पाप्मा वै नि᳘र्ऋतिर्ने᳘त्पाप्मा᳘नं नि᳘र्ऋतिमन्ववा᳘यामे᳘ति न त᳘था कुर्यात्प᳘राचीरेवो᳘पदध्यात्प᳘राञ्चमेव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - Weber

ता है᳘के पर᳘स्तादर्वा᳘चीरु᳘पदधति॥
पाप्मा वै नि᳘रृतिर्ने᳘त्पाप्मा᳘नं नि᳘रृतिमन्ववा᳘यामे᳘ति न त᳘था कुर्यात्प᳘राचीरेवो᳘पदध्यात्प᳘राञ्चमेव त᳘त्पाप्मा᳘नं नि᳘रृतिम᳘पहते॥

मूलम् - विस्वरम्

ता हैके परस्तादर्वाचीरुपदधाति । पाप्मा वै निर्ऋतिः । नेत्पाप्मानं निर्ऋतिमन्ववायामेति । न तथा कुर्यात् । पराचीरेवोपदध्यात् । पराञ्चमेव तत् पाप्मानं निर्ऋतिमपहते ॥ १३ ॥

सायणः

तासामुपधाने प्रकारद्वयमाह- ता हैके 7 इत्यादिना । एके शाखिनः ‘ताः’ नैर्ऋतीरिष्टकाः ‘परस्ताद्’ विप्रकृष्टाद्देशादारभ्य ‘अर्वाचीः’ आत्माभिमुखमुत्तरोत्तरमात्माभिमुखीः ‘उपदधति’ । तेषामभिप्रायमाह- पाप्मा वा इति । समीपदेशादारभ्योत्तरोत्तरं विप्रकर्षेणोपधाने हि पूर्वोपहितामिष्टकामतिक्रम्य गमनात् पापसंसर्गः स्यात्, तादृग्रूपां ‘निर्ऋतिम्’ ‘नेत् अन्ववायाम’ नैव प्राप्तवाम ‘इति’ अनेनाभिप्रायेणेत्यर्थः ॥

द्वितीयं पक्षं विधातुमेतन्निषेधति- न तथेति । तं पक्षमाह- पराचीरेवेति (का. श्रौ. सू. १७ । २४) । ताः ‘पराचीः’ उत्तरोत्तरं विप्रकृष्टाः एवोपदध्यात् । तथा च निर्ऋतिरूपं ‘पाप्मानं’ ‘पराञ्चम्’ आत्मानभिमुखं विप्रकृष्टम् ‘एव’ प्रेरयित्वा ‘अपहते’ हिनस्ति ॥ १३ ॥

Eggeling
  1. Now some lay (the bricks) down from the farther end towards themselves,–Nirr̥ti (corruption) being evil,–lest they themselves should go the way

to corruption. Let him not do so, but let him lay them down in the direction away from him: he thus drives evil, corruption, away from him.

१४

विश्वास-प्रस्तुतिः

तिस्र ऽइ᳘ष्टका ऽउ᳘पदधाति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - श्रीधरादि

तिस्र ऽइ᳘ष्टका ऽउ᳘पदधाति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - Weber

तिस्र इ᳘ष्टका उ᳘पदधाति॥
त्रिवृदग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्पाप्मा᳘नं नि᳘रृतिम᳘पहते॥

मूलम् - विस्वरम्

तिस्र इष्टका उपदधाति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैव तत्पाप्मानं निर्ऋतिमपहते ॥ १४ ॥

सायणः

तासां नैर्ऋतीनां सङ्ख्यामनूद्य स्तौति- तिस्र इति (का. श्रौ. सू. १७ । २३) । त्रिवृदग्निरिति । असकृदुक्तार्थम् ॥ १४ ॥

Eggeling
  1. Three bricks he lays down,–threefold is Agni: as great as Agni is, as great as is his measure, by so much he thus repels evil, corruption.

१५

विश्वास-प्रस्तुतिः

(ते᳘ ऽथा) अ᳘थासन्दी᳘ᳫँ᳘ शि᳘क्यम्[[!!]]॥
(ᳫँ᳭) रुक्मपाश᳘मि᳘ण्ड्वे त᳘त्परार्धे᳘ न्यस्यति[[!!]] नैर्ऋतो वै पा᳘शो निर्ऋतिपाशा᳘देव तत्प्र᳘मुच्यते यं᳘ ते देवी नि᳘र्ऋतिराबब᳘न्ध पा᳘शं ग्रीवा᳘स्वविचृत्य᳘मित्य᳘नेवंविदुषा हाविचृत्यस्तं᳘ ते व्वि᳘ष्याम्या᳘युषो न म᳘ध्यादि᳘त्यग्निर्वा ऽआ᳘युस्त᳘स्यैतन्म᳘ध्यं य᳘च्चितो गा᳘र्हपत्यो भ᳘वत्य᳘चित ऽआहवनी᳘यस्त᳘स्माद्य᳘दि यु᳘वा ऽग्निं᳘ चिनुते य᳘दि स्थ᳘विर ऽआ᳘युषो न म᳘ध्यादि᳘त्ये᳘वाहा᳘थैतं᳘ पितु᳘मद्धि प्र᳘सूत ऽइत्य᳘न्नं वै᳘ पितुर᳘थैतद᳘न्नमद्धि प्र᳘मुक्त ऽइ᳘त्येत᳘त्त्रिष्टु᳘ब्भिर्व्व᳘ज्रो वै त्रिष्टुब्व᳘ज्रेणैव[[!!]] त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथा) अ᳘थासन्दी᳘ᳫँ᳘ शि᳘क्यम्[[!!]]॥
(ᳫँ᳭) रुक्मपाश᳘मि᳘ण्ड्वे त᳘त्परार्धे᳘ न्यस्यति[[!!]] नैर्ऋतो वै पा᳘शो निर्ऋतिपाशा᳘देव तत्प्र᳘मुच्यते यं᳘ ते देवी नि᳘र्ऋतिराबब᳘न्ध पा᳘शं ग्रीवा᳘स्वविचृत्य᳘मित्य᳘नेवंविदुषा हाविचृत्यस्तं᳘ ते व्वि᳘ष्याम्या᳘युषो न म᳘ध्यादि᳘त्यग्निर्वा ऽआ᳘युस्त᳘स्यैतन्म᳘ध्यं य᳘च्चितो गा᳘र्हपत्यो भ᳘वत्य᳘चित ऽआहवनी᳘यस्त᳘स्माद्य᳘दि यु᳘वा ऽग्निं᳘ चिनुते य᳘दि स्थ᳘विर ऽआ᳘युषो न म᳘ध्यादि᳘त्ये᳘वाहा᳘थैतं᳘ पितु᳘मद्धि प्र᳘सूत ऽइत्य᳘न्नं वै᳘ पितुर᳘थैतद᳘न्नमद्धि प्र᳘मुक्त ऽइ᳘त्येत᳘त्त्रिष्टु᳘ब्भिर्व्व᳘ज्रो वै त्रिष्टुब्व᳘ज्रेणैव[[!!]] त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - Weber

अ᳘थासन्दीं᳘ शिक्य᳘म्॥
रुक्भपाश᳘मिॗण्ड्वे त᳘त्परार्धे न्य᳘स्यति नैरृतो वै पा᳘शो निरृतिपाशा᳘देव तत्प्र᳘मुच्यते यं᳘ ते देवी नि᳘रृतिराबब᳘न्ध पा᳘शं ग्रीवा᳘स्वविचृत्यमित्य᳘नेवंविदुषा हाविचृत्यस्तं᳘ ते वि᳘ष्याम्या᳘युषो न म᳘ध्यादि᳘त्यग्निर्वा आ᳘युस्त᳘स्यैतन्म᳘ध्यं य᳘च्चितो गा᳘र्हपत्यो भ᳘वत्य᳘चित आहवनीयस्त᳘स्माद्य᳘दि युॗवाग्निं᳘ चिनुते य᳘दि स्थ᳘विर आ᳘युषो न म᳘ध्यादि᳘त्येॗवाहा᳘थैत᳘म् पितु᳘मद्धि प्र᳘सूत इत्य᳘न्नं वै᳘ पितुर᳘थैतद᳘न्नमद्धि प्र᳘मुक्त इ᳘त्येतत्त्रिष्टु᳘ब्भिर्व᳘ज्रो वै त्रिष्टुब्व᳘ज्रे᳘णैव त᳘त्पाप्मा᳘नं नि᳘रृतिम᳘पहते॥

मूलम् - विस्वरम्

अथासन्दीम्, शिक्यम्, रुक्मपाशम्, इण्ड्वे- तत्परार्धे न्यस्यति । नैर्ऋतो वै पाशः । निर्ऋतिपाशादेव तत् प्रमुच्यते । “यं ते देवी निर्ऋतिराबबन्ध पाशं ग्रीवास्वविचृत्यम्"- इति । अनेवंविदुषा हाविचृत्यः । “तं ते विष्याम्यायुषो न मध्यात्”- इति । अग्निर्वा ऽआयुः । तस्यैतन्मध्यं- यच्चितो गार्हपत्यो भवति- अचित आहवनीयः । तस्माद् यदि युवा ऽग्निं चिनुते, यदि स्थविरः- आयुषो न मध्यादित्येवाह । “अथैतं पितुमद्धि प्रसूतः"- इति । अन्नं वै पितुः, अथैतदन्नमद्धि प्रमुक्त इत्येतत् । त्रिष्टुब्भिः । वज्रो वै त्रिष्टुप् । वज्रेणैव तत् पाप्मानं निर्ऋतिमपहते ॥ १५ ॥

सायणः

आसन्द्यादीनां तत्र प्रासनं विधत्ते- अथेति । ‘अथ’ समिदाधानानन्तरम्, या उख्याग्निधारणार्था ‘आसन्दी,’ यच्च भरणसमये उख्यधारणार्थं ‘शिक्यम्,’ यश्च सौवर्णस्य रुक्मस्य प्रतिमोचनार्थं ‘पाशः’ सूत्रम्, ये च ‘इण्ड्वे’ अग्निसहिताया उखाया उभयतो धारणाय तृणमयौ पिण्डौ । ‘तत्’ सर्वं नैर्ऋतीनां ‘परार्द्धे’ पश्चाद्भागे ‘न्यस्यति’ क्षिपेत् । “यन्ते देवी” इति तस्य मन्त्रः । तथा च कात्यायनः- ‘नैर्ऋतीः कृष्णास्तुषपक्वास्तिस्रो ऽलक्षणाः पादमात्रीर्हविष्यासन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखो ऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यृचं पराचीरभ्यात्ममेके, नित्याभावः, शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यन्त इति"- (का. श्रौ. सू. १७ । २३-२७) इति । आसन्द्यादीनामुख्याग्निना तप्तत्वात् प्रासनीयत्वं स्पष्टमित्यभिप्रेत्य रुक्मपाशस्य प्रासनीयत्वमुपपादयति- नैर्ऋतो वा इति । निगदसिद्धो ऽर्थः ॥

मन्त्रस्य पूर्वार्द्धे ‘अविचृत्यम्’ इति पदस्याभिप्रायमाह- अनेवंविदुषा हेति । उक्तार्थज्ञानरहितः ‘अनेवं विद्वान्’; तेन ‘अविचृत्यः’ । “चृती हिंसाग्रन्थनयोः” (धा. पा. तु. प. ४४ ।) चर्त्तितुं विश्लेषयितुं शक्यो न । अयमर्थः- हे यजमान ! ‘ते’ तव ‘ग्रीवासु’ ‘अविचृत्यं’ विमोक्तुमशक्यं ‘यं’ ‘पाशं’ ‘निर्ऋतिः’ देवता ‘आबबन्ध’ आबद्धवती ‘तं ते विष्यामि’ इत्युत्तरत्र सम्बन्धः । तत्रत्यस्यायुःशब्दस्य विवक्षितमर्थमाह- अग्निर्वा आयुरिति । आयुषो दातृत्वादग्निरेवात्रायुःशब्देनोच्यते । तस्यैतन्मध्यमित्यादि । ‘तस्य’ चीयमानस्यायुःशब्दाभिधेयस्याग्नेः ‘एतत्’ ‘मध्यं’ मध्यशरीरं ‘यद्’ गार्हपत्यचयनादूर्ध्वमाहवनीयचयनात् प्राचीनं कर्म; तदत्र मन्त्रगतेन मध्यशब्देनोच्यत इत्यर्थः । फलितमाह- तस्मादिति । ‘तस्मात्’ आयुःशब्दस्य चीयमानाग्निपरत्वात् यूनः स्थविरस्य च यजमानस्य प्रयोगे “आयुषो मध्यात्”- इति मन्त्रभागस्य पाठो न विरुध्यते; यदि ह्यायुःशब्देन यजमानस्य जीवनकालो विवक्षितः स्यात्, तदा यूनः प्रयोगे आयुष आदेरिति विपरिणमयितव्यम्; स्थविरस्य प्रयोगे तु आयुषो ऽन्तादिति । ‘मध्यादित्येवाह’ इत्येवकारेणेदृग्विधपरिणामो व्यावर्त्त्यते । तथा च तृतीयपादस्यायमर्थः- हे यजमान ! ‘ते’ तव ग्रीवास्वाबद्धं तं शिक्यपाशं रुक्मपाशं च ‘विष्यामि । “स्यतिरुपसृष्टो विमोचने”- (नि० १ । ६ । १ ।) इति यास्कः । तथा च विमुञ्चामीत्यर्थः । ‘आयुषः’ चीयमानस्याग्नेः मध्यात् गार्हपत्यचयनादूर्ध्वभाविनः कर्मकलापात् न विमुञ्चामीति । चतुर्थपादमनूद्य व्याचष्टे- अथैतमिति । पितुशब्दो ऽन्नवाची । ‘अथ’ पाशविमोचनानन्तरम्, ‘एतं पितुम्’ अग्निचयनफलभूतमन्नं ‘प्रसूतः’ निर्ऋतिदेवतया ऽनुज्ञातः सन् हे यजमान ! त्वम् ‘अद्धि’ अशानेत्यर्थः । प्रमुक्त इत्येतदिति । ‘प्रसूत’ इति मन्त्रपदेन प्रमोचनं विवक्षितमिति भावः ॥

मन्त्रगतं छन्दः प्रशंसति- त्रिष्टुब्भिरिति । वज्रो वै त्रिष्टुबिति । त्रिष्टुभ इन्द्रेण सहोत्पन्नत्वाद् (तै. सं. ७ । १ । १ । ४) वज्रस्य च तदायुधत्वात् त्रिष्टुभस्तत्तादात्म्यम् ॥ १५ ॥

Eggeling
  1. The seat, the netting, the sling of the gold plate, and the two pads he throws down on the farther side (of the bricks),–the sling 8 is sacred to Nirr̥ti: from Nirr̥ti’s sling he is thus freed. [He throws them down, with Vāj. S. XII, 65] ‘The indissoluble bond which the divine Nirr̥ti hath fastened upon thy neck,’–indissoluble indeed for him who does not know this;–’that (bond) of thine I unloose, as from the middle of Āyus,’–Āyus 9 doubtless is Agni, and his middle (body) is that Gārhapatya which has been built;–not yet built is the Āhavanīya: hence whether a youth builds the altar, or an old man, he says ‘as from the middle of Āyus;’–’now, being urged forward, eat thou this nourishment!’ nourishment means food: thus, ’now, set free, eat thou this food.’ With Trishṭubh verses (he performs this rite), for the Trishṭubh is a thunderbolt: it is thus with a thunderbolt that he repels evil, corruption.

१६

विश्वास-प्रस्तुतिः

तिस्र ऽइ᳘ष्टका भवन्ति॥
(न्त्या) आसन्दी᳘ शि᳘क्यᳫँ᳭[[!!]] रुक्मपाश᳘ ऽइ᳘ण्ड्वे त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - श्रीधरादि

तिस्र ऽइ᳘ष्टका भवन्ति॥
(न्त्या) आसन्दी᳘ शि᳘क्यᳫँ᳭[[!!]] रुक्मपाश᳘ ऽइ᳘ण्ड्वे त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिम᳘पहते॥

मूलम् - Weber

तिस्र इ᳘ष्टका भवन्ति॥
आसन्दी᳘ शिक्यं᳘ रुक्भपाश᳘ इॗण्ड्वे त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्पाप्मा᳘नं नि᳘रृतिम᳘पहते॥

मूलम् - विस्वरम्

तिस्र इष्टका भवन्ति । आसन्दी, शिक्यम्, रुक्मपाशः, इण्ड्वे- तदष्टौ । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैव तत् पाप्मानं निर्ऋतिमपहते ॥ १६ ॥

सायणः

इष्टकादीन् सम्भूय, अनूद्य, संख्याद्वारेण प्रशंसति- तिस्र इति ॥ १६ ॥

Eggeling
  1. There are three bricks, the seat, the netting, the sling of the gold plate, and the two pads; that makes eight;–the Gāyatrī consists of eight syllables,

and Agni is Gāyatra: as great as Agni is, as great as is his measure, by so much he thus repels evil, corruption.

१७

विश्वास-प्रस्तुतिः

(ते ऽथा᳘) अथा᳘न्तरेणोदचमसं नि᳘नयति॥
व्व᳘ज्रो वा ऽआ᳘पो व्व᳘ज्रेणैव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिमन्त᳘र्धत्ते न᳘मो भू᳘त्यै᳘ येदं᳘ चकारे᳘त्युपो᳘त्तिष्ठन्ति भू᳘त्यै वा᳘ ऽएतद᳘ग्रे देवाः क᳘र्माकुर्वत᳘ त᳘स्या ऽएतन्न᳘मो ऽकुर्वन्भू᳘त्या ऽउ ऽए᳘वाय᳘मेतत्क᳘र्म कुरुते त᳘स्या ऽएतन्न᳘मस्करोत्य᳘प्रतीक्षमा᳘यन्त्य᳘प्रतीक्षमेव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिं जहति॥

मूलम् - श्रीधरादि

(ते ऽथा᳘) अथा᳘न्तरेणोदचमसं नि᳘नयति॥
व्व᳘ज्रो वा ऽआ᳘पो व्व᳘ज्रेणैव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिमन्त᳘र्धत्ते न᳘मो भू᳘त्यै᳘ येदं᳘ चकारे᳘त्युपो᳘त्तिष्ठन्ति भू᳘त्यै वा᳘ ऽएतद᳘ग्रे देवाः क᳘र्माकुर्वत᳘ त᳘स्या ऽएतन्न᳘मो ऽकुर्वन्भू᳘त्या ऽउ ऽए᳘वाय᳘मेतत्क᳘र्म कुरुते त᳘स्या ऽएतन्न᳘मस्करोत्य᳘प्रतीक्षमा᳘यन्त्य᳘प्रतीक्षमेव त᳘त्पाप्मा᳘नं नि᳘र्ऋतिं जहति॥

मूलम् - Weber

अथा᳘न्तरेणोदचमसं नि᳘नयति॥
व᳘ज्रो वा आ᳘पो व᳘ज्रेणैव त᳘त्पाप्मा᳘नं नि᳘रृतिमन्त᳘र्धत्ते न᳘मो भू᳘त्यैॗ येदं᳘ चकारे᳘त्युपो᳘त्तिष्ठन्ति भू᳘त्यै वा᳘ एतद᳘ग्रे देवाः क᳘र्माकुर्वत त᳘स्या एतन्न᳘मो ऽकुर्वन्भू᳘त्या उ एॗवाय᳘मेतत्क᳘र्म कुरुते त᳘स्या एतन्न᳘मस्करोत्य᳘प्रतीक्षमा᳘यन्त्य᳘प्रतीक्षमेव त᳘त्पाप्मा᳘नं नि᳘रृतिं जहति॥

मूलम् - विस्वरम्

अथान्तरेणोदचमसं निनयति । वज्रो वा ऽआपः । वज्रेणैव तत् पाप्मानं निर्ऋतिमन्तर्धत्ते । “नमो भूत्यै येदं चकार”- (वा. सं. १२ । ६५) इत्युपोत्तिष्ठन्ति । भूत्यै वा ऽएतदग्रे देवाः कर्माकुर्वत । तस्या ऽएतन्नमो ऽकुर्वन् । भूत्या ऽउ एवायमेतत्कर्म कुरुते । तस्या ऽएतन्नमस्करोति । अप्रतीक्षमायन्ति । अप्रतीक्षमेव तत् पाप्मानं निर्ऋतिं जहति ॥ १७ ॥

सायणः

उदकस्य निनयनं विधत्ते- अथान्तरेणेति । ‘अथ’ आसन्द्यादीनां प्रासनानन्तरम्, ‘अन्तरेण’ स्वात्मन इष्टकानाञ्च मध्ये उदकपूर्णं चमसं ‘निनयति’ निषिञ्चति (का. श्रौ. सू. १७ । २८) । तदेतत् प्रशंसति- वज्रो वा इति । नैर्ऋत्यो हि ता इष्टकाः, तासामात्मनश्च मध्ये वज्रसंस्तुतानामपां निनयनेन पापरूपां ‘निर्ऋतिम्’ ‘अन्तर्द्धत्ते’ व्यवदधाति, तत्संसर्गपरिहारायेत्यर्थः ॥

निषेचनानन्तरमुपोत्थानं समन्त्रकं विधत्ते- नमो भूत्या इति । ‘या’ भूतिलक्षणा देवता ‘इदं’ नैर्ऋतेष्टकोपधानरूपं कर्म ‘चकार’ कृतवती । तस्यै ‘भूत्यै’ श्रियै नमो ऽस्त्विति मन्त्रार्थः । तत्रोदकनिनयनपूर्वकमुपोत्थानं कात्यायनः सूत्रितवान्- “उदपात्रं निषिच्यान्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति”- (का. श्रौ. सू. १७ । २८) इति ॥

पुरावृत्तन्यायेन भूत्यर्थतां कर्मणः प्रदर्शयन् तन्नमस्कारपरतां मन्त्रस्य व्याचष्टे- भूत्यै वा इति । ‘भूत्यै’ भवनाय ऐश्वर्याय खलु ‘एतत् कर्म’ ‘देवाः’ ‘अग्रे’ प्राक् ‘अकुर्वत’ कृतवन्तः । ‘तस्यै’ एव भूत्यै ‘एतन्नमः’ ‘अकुर्वन्,’ तद्वदेव ‘अयं’ यजमानो ऽपि भूत्यर्थमेव ‘एतत्’ कर्म कुरुते, ‘तस्यै एतन्नमस्करोति’ इति ॥

उपोत्थानानन्तरं शालां प्रत्यागमनं धर्मविशिष्टं विधाय स्तौति- अप्रतीक्षमायन्तीति । प्रतिनिवृत्य नैर्ऋतस्थानस्येक्षणमकृत्वा ‘आयन्ति’ शालामागच्छन्ति, ‘तत्’ तेनाप्रतीक्षणेन निर्ऋतिरूपं ‘पाप्मानम्’ ‘अप्रतीक्षमेव’ प्रतीक्षणमकृत्वैव ‘जहति’ त्यजन्ति । “ओहाक् त्यागे”- इति (धा. पा. जु. प. ८) ॥ १७ ॥

Eggeling
  1. On the space between (the Sacrificer and the bricks) he pours out a jarful of water,–water is a thunderbolt: with a thunderbolt he thus separates from himself evil, corruption. With ‘Homage to (the goddess of) Prosperity who hath done this!’ they rise, for it was with a view to prosperity that the gods at first performed this rite, and to that (goddess) they then rendered homage; and for prosperity indeed this (Sacrificer) now performs this rite, and to that (goddess) he now renders homage. They go back (to the sacrificial ground) without looking back: they thus abandon evil, corruption, even without looking back to it.

१८

विश्वास-प्रस्तुतिः

प्रत्ये᳘त्याग्निमु᳘पतिष्ठते॥
(त ऽ) एतद्वा᳘ ऽएतद᳘यथाय᳘थं करोति य᳘दग्नौ᳘ सामि᳘चित ऽएतां दि᳘शमे᳘ति त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭सायै॥

मूलम् - श्रीधरादि

प्रत्ये᳘त्याग्निमु᳘पतिष्ठते॥
(त ऽ) एतद्वा᳘ ऽएतद᳘यथाय᳘थं करोति य᳘दग्नौ᳘ सामि᳘चित ऽएतां दि᳘शमे᳘ति त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭सायै॥

मूलम् - Weber

प्रत्ये᳘त्याग्निमु᳘पतिष्ठते॥
एतद्वा᳘ एतद᳘यथायथं करोति य᳘दग्नौ᳘ सामि᳘चित एतां दि᳘शमेति त᳘स्मा एॗवैतन्नि᳘ह्नुते᳘ ऽहिंसायै॥

मूलम् - विस्वरम्

प्रत्येत्याग्निमुपतिष्ठते । एतद्वा ऽएतदयथायथं करोति- यदग्नौ सामिचित ऽएतां दिशमेति । तस्मा ऽएवैतन्निह्नुते- अहिंसायै ॥ १८ ॥

सायणः

गार्हपत्योपस्थानं विधत्ते- प्रत्येत्येति । ‘प्रत्येत्य’ नैर्ऋतस्थानात् प्रतिनिवृत्य, गार्हपत्यम् ‘अग्निमुपतिष्ठते’ । तदुक्तं सूत्रकृता- “अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति”- (का. श्रौ. सू. १७ । २९) इति । उपस्थानस्य प्रयोजनमाह- एतद्वा इति । ‘एतत् वा’ एतस्मिन् समये खलु ‘एतदयथायथम्’ अयथास्वमन्याय्यं करोति । किं पुनरेतदिति, तदाह-यदग्नाविति । ‘अग्नौ’ गार्हपत्यचितिरूपे शालाद्वार्ये, ‘सामिचिते’ अर्द्धचिते ‘एतां दिशं’ नैर्ऋतीम् ‘एति’ गच्छति । ‘अहिंसायै’ हिंसापरिहाराय ‘तस्मै’ गार्हपत्यचितिरूपायाग्नये ‘एतत्’ निह्नुते एव अयथायथकरणजनितमपराधं शमयत्येव ॥ १८ ॥

Eggeling
  1. Having returned, he stands worshipping by the fire; for when he goes into that (south-western) direction whilst Agni is only half built up, he does what is improper: he now makes amends to him to prevent his doing any harm.

१९

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वोपति᳘ष्ठते॥
(ते ऽयं) अयं वै᳘ लोको गा᳘र्हपत्यः प्रतिष्ठा वै गा᳘र्हपत्य ऽइय᳘मु वै᳘ प्रतिष्ठा᳘ ऽथैतद᳘पथमिवैति य᳘देतां दि᳘शमे᳘ति तद्य᳘दुपति᳘ष्ठत ऽइमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वोपति᳘ष्ठते॥
(ते ऽयं) अयं वै᳘ लोको गा᳘र्हपत्यः प्रतिष्ठा वै गा᳘र्हपत्य ऽइय᳘मु वै᳘ प्रतिष्ठा᳘ ऽथैतद᳘पथमिवैति य᳘देतां दि᳘शमे᳘ति तद्य᳘दुपति᳘ष्ठत ऽइमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - Weber

य᳘द्वेॗवोपति᳘ष्ठते॥
अयं वै᳘ लोको गा᳘र्हपत्यः प्रतिष्ठा वै गा᳘र्हपत्य इय᳘मु वै᳘ प्रतिष्ठा᳘थैतद᳘पथमिवैति य᳘देतां दि᳘शमे᳘ति तद्य᳘दुपति᳘ष्ठत इमा᳘मेॗवैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मेवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

यद्वेवोपतिष्ठते । अयं वै लोको गार्हपत्यः । प्रतिष्ठा वै गार्हपत्यः । इयमु वै प्रतिष्ठा । अथैतदपथमिवैति । यदेतां दिशमेति । तद्यदुपतिष्ठते- इमामेवैतत्प्रतिष्ठामभिप्रत्यैति । अस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति ॥ १९ ॥

सायणः

प्रकारान्तरेणाप्युपस्थानस्य कर्त्तव्यतामाह- यद्वेवेति । अयं वा इति । ‘गार्हपत्यः’ पृथिवीलोकात्मकः खलु प्रतिष्ठात्मकश्च सः । ‘इयम् उ वै’ पृथिव्यपि खलु ‘प्रतिष्ठा’ आस्पदम् । ‘अथैतत्’ इदानीम् ‘अपथमिवैति’ अमार्गेणैव प्रतिपद्यते, ‘यदेतां’ नैर्ऋतीं ‘दिशम्’ ‘एति’ गच्छति । उपस्थानस्य प्रतिष्ठितिहेतुतां प्रतिपादयति- तद्यदिति । ‘एतत्’ एतेनोपस्थानेन ‘इमां’ प्रतिष्ठारूपां पृथिवीमेव ‘अभिप्रत्यैति’ साम्मुख्येन प्रतिपन्नो भवति ‘प्रतिष्ठायाम्’ अस्यां ‘प्रतितिष्ठति’ च चिरं स्थितिं लभत इत्यर्थः ॥ १९ ॥

Eggeling
  1. And again, why he stands by (the fire). The Gārhapatya (hearth) is this (terrestrial) world; for the Gārhapatya is a foundation, and the foundation doubtless is this (earth). Now when he goes into that direction, he goes where there is no path; and when he stands by (the fire), he thereby returns to this (earth), the foundation, and establishes himself upon this foundation.

२०

विश्वास-प्रस्तुतिः

निवे᳘शनः संग᳘मनो व्व᳘सूनामि᳘ति॥
निवे᳘शनो᳘ ह्ययं᳘[[!!]] लोकः᳘ संग᳘मनो व्व᳘सूनां व्वि᳘श्वा रू᳘पा ऽभि᳘चष्टे श᳘चीभिरि᳘ति स᳘र्व्वाणि रूपा᳘ण्यभि᳘चष्टे श᳘चीभिरि᳘त्येत᳘द्देव᳘ ऽइव सविता᳘ सत्य᳘धर्मे᳘न्द्रो न᳘ तस्थौ समरे᳘ पथीनामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

निवे᳘शनः संग᳘मनो व्व᳘सूनामि᳘ति॥
निवे᳘शनो᳘ ह्ययं᳘[[!!]] लोकः᳘ संग᳘मनो व्व᳘सूनां व्वि᳘श्वा रू᳘पा ऽभि᳘चष्टे श᳘चीभिरि᳘ति स᳘र्व्वाणि रूपा᳘ण्यभि᳘चष्टे श᳘चीभिरि᳘त्येत᳘द्देव᳘ ऽइव सविता᳘ सत्य᳘धर्मे᳘न्द्रो न᳘ तस्थौ समरे᳘ पथीनामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

निवे᳘शनः संग᳘मनो व᳘सूनामि᳘ति॥
निवे᳘शनो ह्य᳘यं᳘ लोकः᳘ संग᳘मनो व᳘सूनां वि᳘श्वा रूॗपाभि᳘चष्टे श᳘चीभिरि᳘ति स᳘र्वाणि रूपा᳘ण्यभि᳘चष्टे श᳘चीभिरि᳘त्येत᳘द्देव᳘ इव सविता᳘ सत्य᳘धर्मे᳘न्द्रो न᳘ तस्थौ समरे᳘ पथीनामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“निवेशनः सङ्गमनो वसूनाम्”- इति । निवेशनो ह्ययं लोकः सङ्गमनो वसूनाम् । “विश्वा रूपा ऽभिचष्टे शचीभिः”- इति । सर्वाणि रूपाण्यभिचष्टे शचीभिरित्येतद् । “देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम्”- (वा. सं. १२ । ६६) इति । यथैव यजुस्तथा बन्धुः ॥ २० ॥

सायणः

विहिते शालाद्वार्योपस्थाने मन्त्रमनूद्य व्याचष्टे- निवेशन इति । निविशन्ते वसूनि अस्मिन्निति ‘निवेशन’ । सङ्गच्छन्ते धनान्यस्मिन्निति ‘सङ्गमनः’ । आधाराधेययोरभेदोपचारेणाग्नेः पृथिवीलोकत्वमित्यभिप्रेत्याह- निवेशनो ह्ययं लोक इति । विश्वशब्दस्य सर्वशब्दाभिधायकत्वं व्याचष्टे- सर्वाणीति । उत्तरार्द्धं तु निगदव्याख्यातमित्याह- यथैव यजुरिति ॥

मन्त्रार्थस्तु- यो ऽयमग्निः ‘वसूनां’ धनानां ‘निवेशनः’ एकाश्रयः ‘सङ्गमनः’ सङ्गत्याधारश्च, ‘विश्वा रूपा’ सर्वाणि रूपाणि आहवनीयदक्षिणाग्न्यतिप्रणीताग्नीद्ध्रधिष्ण्यप्रभृतीनि ‘शचीभिः’ कर्मभिः ‘अभिचष्टे’ अभिपश्यति । कथं पश्यतीत्यपेक्षायामाह- ‘सत्यधर्मा’ अवितथधर्मकारी ‘सविता’ देव इव’ स यथा सर्वमभिपश्यति, तथेत्यर्थः । यः ‘इन्द्रो न’ इन्द्र इव ‘पथीनां समरे’ परिपन्थिभिः सह सङ्ग्रामे ‘तस्थौ’ स्थितवान् । नकारो ऽत्रोपमार्थीयः; “उपमार्थीय उपरिष्टादुपचारस्तस्य येनोपमिमीते” (नि. १ । २ । १) इति हि यास्कः ॥ २० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (७-२-१) ॥

Eggeling
  1. [He worships, with Vāj. S. XII, 66] ‘The harbourer and gatherer of riches,’ for a harbourer this world indeed is, a gatherer of riches;–‘all form he watches over with his favours,’–that is, ‘all forms (of being) he watches over with

his favours;’–’like the god Savitr̥, like Indra, he of true covenant stood at the meeting of ways 10;’ as the text, so its meaning.


  1. 320:1 Or (Prajāpati’s), Agni’s self, or body. ↩︎

  2. नैर्ऋतोः कृष्णास्तुषपक्वास्तिस्रो ऽलक्षणाः पादमात्रीर्हविष्यासन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखो ऽनुपस्पृशन् । का. श्रौ. सू. १७ । २३ । ↩︎

  3. असुन्वंतमिति प्रत्यृचं पराची । का. श्रौ. सू. १७ । २४ । ↩︎

  4. 321:1 Or probably, a barren spot, see p. 43, note 2. ↩︎

  5. 321:2 That is, whilst himself remaining north of the place, and facing the south, he puts them down in the direction from north to south. ↩︎

  6. 321:3 That is, he performs the formal ceremony of ’laying down (upadhāna)’ whilst muttering the respective verses. In the present case the ’laying down’ of the bricks is to be performed by him whilst muttering the formulas, but without touching the bricks themselves. The direction that the bricks are to be deposited in a direction ‘away from him’ perhaps refers to the ’laying down’ instead of to the actual placing them. ↩︎

  7. अभ्यात्ममेके- नित्याभावः । का० श्रौ० सू० १७ । २५-२६ ॥ ↩︎

  8. 323:1 According to Sāyaṇa the sling of the gold plate is here singled out, because the other objects have necessarily been damaged by the hot fire-pan and are consequently thrown away as a matter of course. ↩︎

  9. 323:2 See III, 4, 1, 22. In the formula ‘āyus’ may rather have to be taken in the sense of ’life,’ or ‘vital power.’ Mahīdhara takes ’na’ in the sense of ’now (samprati),’ instead of ‘as.’ ↩︎

  10. 325:1 Mahīdhara takes ‘samare pathīnām’ in the sense of ‘in the battle of (i.e. with) the waylayers (paripanthibhiḥ saha).’ ↩︎