०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिः प्रजा᳘ ऽअसृजत॥
स᳘ प्रजाः᳘ सृष्ट्वा स᳘र्वमाजि᳘मित्वा᳘ व्व्यस्रᳫँ᳭सत[[!!]] त᳘स्माद्वि᳘स्रस्तात्प्राणो᳘ मध्यत ऽउ᳘दक्रामद᳘थास्माद्वीर्य᳘मु᳘दक्रामत्त᳘स्मिन्नु᳘त्क्रान्ते ऽपद्यत त᳘स्मात्पन्नाद᳘न्नमस्रवद्यच्च᳘क्षुरध्य᳘शेत त᳘स्मादस्या᳘न्नमस्रव᳘न्नो हेह त᳘र्हि का᳘चन᳘ प्रति᳘ष्ठा ऽऽस॥

मूलम् - श्रीधरादि

प्रजा᳘पतिः प्रजा᳘ ऽअसृजत॥
स᳘ प्रजाः᳘ सृष्ट्वा स᳘र्वमाजि᳘मित्वा᳘ व्व्यस्रᳫँ᳭सत[[!!]] त᳘स्माद्वि᳘स्रस्तात्प्राणो᳘ मध्यत ऽउ᳘दक्रामद᳘थास्माद्वीर्य᳘मु᳘दक्रामत्त᳘स्मिन्नु᳘त्क्रान्ते ऽपद्यत त᳘स्मात्पन्नाद᳘न्नमस्रवद्यच्च᳘क्षुरध्य᳘शेत त᳘स्मादस्या᳘न्नमस्रव᳘न्नो हेह त᳘र्हि का᳘चन᳘ प्रति᳘ष्ठा ऽऽस॥

मूलम् - Weber

प्रजा᳘पतिः प्रजा᳘ असृजत॥
स᳘ प्रजाः᳘ सृष्ट्वा स᳘र्वमाजि᳘मित्वा व्य᳘स्रंसत त᳘स्माद्वि᳘स्रस्तात्प्राणो᳘ मध्यत उ᳘दक्रामद᳘थास्माद्वीर्य᳘मु᳘दक्रामत्त᳘स्मिन्नु᳘त्क्रान्ते ऽपद्यत त᳘स्मात्पन्नाद᳘न्नमस्रवद्यच्च᳘क्षुरध्य᳘शेत त᳘स्मादस्या᳘न्नमस्रवन्नो हेह त᳘र्हि का चन᳘ प्रतिॗष्ठास॥

मूलम् - विस्वरम्

प्रजापतिः प्रजा असृजत । स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत । तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामत् । अथास्माद्वीर्यमुदक्रामत् । तस्मिन्नुत्क्रान्ते ऽपद्यत । तस्मात्पन्नादन्नमस्रवत् । यच्चक्षुरध्यशेत- तस्मादस्यान्नमस्रवत् । नो हेह तर्हि काचन प्रतिष्ठा ऽऽस ॥ १ ॥

सायणः

उख्यरूपेण संस्कृतस्य गार्हपत्याग्नेविराड्रूपप्रजापत्यात्मकतां वक्ष्यन्नस्य प्रजापतेः संस्कृतिं वक्तुकामस्तच्छरीरविश्लेषं प्रतिपादयति- प्रजापतिः प्रजा असृजतेत्यादिना । प्रजाः सृष्ट्वेति । देवमनुष्यादिरूपा बह्वीः ‘प्रजाः सृष्ट्वा’ ‘सर्वम्’ ‘आजिम्’ गन्तव्यं स्थानम् ‘इत्वा’ व्याप्य, श्रान्तः सन् ‘व्यस्रंसत’ विस्रस्तावयवो ऽभवत् । ‘तस्माद्विस्रस्तात्’ प्रजापतिशरीरात् ‘मध्यतः’ ‘प्राणः’ प्राणापानादिपञ्चवृत्त्यात्मकः ‘उदक्रामत्’ उत्क्रान्तो ऽभवत् । ‘अथ’ अनन्तरमेव तस्य प्रजापतेः ‘वीर्यं’ शुक्रम् ‘उदक्रामत्’ । ‘तस्मिन्’ निर्गते सति स भूमौ ‘अपद्यत’ पतितो ऽभवत् । ‘तस्मात्’ ‘पन्नात्’ पतितात् प्रजापतिशरीरात् अन्तरवस्थितम् ‘अन्नम्’ ‘अस्रवत्’ स्रुतमभवत् । ‘यत्’ ‘चक्षुः’ ‘अध्यशेत’ । “अधिशीङ्स्थासां कर्म”- (पा. सू. १ । ४ । ४६) इत्यधिकरणस्य कर्मसञ्ज्ञा । ‘चक्षुरधि’ चक्षुषो मध्ये चक्षुषो ज्योतिरवस्थितमभवदित्यर्थः । ‘तस्मात्’ ज्योतिषः ‘अस्य’ प्रजापतेः ‘अन्नं’ स्रुतमभवत् । ‘तर्हि’ तथा सति नैव खलु काचित् ‘प्रतिष्ठा’ ‘आस’ । तस्य प्रजापतेः शरीरस्य विस्रस्तत्वात् किंचिदपि प्रतिष्ठास्पदं न बभूवेत्यर्थः ॥ १ ॥

Eggeling
  1. Prajāpati produced creatures. Having produced creatures, and run the whole race, he became relaxed 1. From him, when relaxed, the vital air went out from within: then his vigour went out of him. That having gone out, he fell down. From him, thus fallen, food flowed forth: it was from that eye on which he lay that his food flowed. And, verily, there teas then no firm foundation whatever here.

०२

विश्वास-प्रस्तुतिः

ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्न) न वा᳘ ऽइ᳘तो ऽन्या᳘ प्रति᳘ष्ठा ऽस्तीम᳘मेव᳘ पित᳘रं प्रजा᳘पतिᳫँ᳭ सं᳘स्करवाम᳘ सैव᳘ नः प्रतिष्ठा᳘ भविष्यती᳘ति᳘॥

मूलम् - श्रीधरादि

ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्न) न वा᳘ ऽइ᳘तो ऽन्या᳘ प्रति᳘ष्ठा ऽस्तीम᳘मेव᳘ पित᳘रं प्रजा᳘पतिᳫँ᳭ सं᳘स्करवाम᳘ सैव᳘ नः प्रतिष्ठा᳘ भविष्यती᳘ति᳘॥

मूलम् - Weber

ते᳘ देवा᳘ अब्रुवन्॥
न वा᳘ इॗतो ऽन्या᳘ प्रतिॗष्ठास्तीम᳘मेव᳘ पित᳘रम् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करवामॗ सैव᳘ नः प्रतिष्ठा᳘ भविष्यती᳘ति॥

मूलम् - विस्वरम्

ते देवा अब्रुवन्- न वा ऽइतो ऽन्या प्रतिष्ठा ऽस्ति, इममेव पितरं प्रजापतिं संस्करवाम, सैव नः प्रतिष्ठा भविष्यतीति ॥ २ ॥

सायणः

अनन्तरं देवैः कृतमस्य संस्कारं वक्तुमाह- ते देवा इति । ‘इतः’ अस्मात् प्रजापतेः ‘अन्या’ नैव ‘प्रतिष्ठा अस्ति’ आश्रयो विद्यते । ‘इममेव’ अस्मदीयं ‘पितरं प्रजापतिं’ ‘संस्करवाम’, यथा यथापूर्वमवतिष्ठेत, ‘सः’ च संस्कृतो ‘नः’ अस्माकं पुनः ‘प्रतिष्ठा’ आश्रयो ‘भविष्यतीति’ ॥ २ ॥

Eggeling
  1. The gods spake, ‘Verily, there is no other foundation than this: let us restore even him, our father Prajāpati; he shall be our foundation.’

०३

विश्वास-प्रस्तुतिः

ते ऽग्नि᳘मब्रुवन्॥
(न्न) न वा᳘ ऽइ᳘तो ऽन्या᳘ प्रति᳘ष्ठा ऽस्ति त्व᳘यीमं᳘ पित᳘रं प्रजा᳘पतिᳫँ᳭ सं᳘स्करवाम᳘ सैव᳘ नः प्रतिष्ठा᳘ भविष्यती᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति᳘॥

मूलम् - श्रीधरादि

ते ऽग्नि᳘मब्रुवन्॥
(न्न) न वा᳘ ऽइ᳘तो ऽन्या᳘ प्रति᳘ष्ठा ऽस्ति त्व᳘यीमं᳘ पित᳘रं प्रजा᳘पतिᳫँ᳭ सं᳘स्करवाम᳘ सैव᳘ नः प्रतिष्ठा᳘ भविष्यती᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति᳘॥

मूलम् - Weber

ते ऽग्नि᳘मब्रुवन्॥
न वा᳘ इॗतो ऽन्या᳘ प्रतिॗष्ठास्ति त्व᳘यीम᳘म् पित᳘रम् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करवामॗ सैव᳘ नः प्रतिष्ठा᳘ भविष्यती᳘ति कि᳘म् मे त᳘तो भविष्यती᳘ति॥

मूलम् - विस्वरम्

ते ऽग्निमब्रुवन्- न वा ऽइतो ऽन्या प्रतिष्ठा ऽस्ति । त्वयीमं पितरं प्रजापतिं संस्करवाम । सैव नः प्रतिष्ठा भविष्यतीति । किं मे ततो भविष्यतीति ॥ ३ ॥

सायणः

इत्थं सम्प्रधारितमर्थमग्निं कर्तुं प्रार्थितवन्त इत्याह- ते ऽग्निमिति । ‘ते’ देवाः ‘अग्निमब्रुवन्’ ‘न’ खलु ‘इतः’ अस्मात् प्रजापतेः ‘अन्या’ अस्माकम् ‘प्रतिष्ठा अस्ति,’ ‘इमं पितरं’ त्वयि ‘संस्करवाम’ स च संस्कृतः पुनरुत्थितः सन् अस्माकं ‘प्रतिष्ठा भविष्यतीति’ । सो ऽग्निरेतद्वाक्यं श्रुत्वा प्रत्यवोचत्,- ‘ततः’ तस्मात् संस्कारात् ‘मे’ मम किं प्रयोजनं ‘भविष्यतीति’ ॥ ३ ॥

Eggeling
  1. They said unto Agni, ‘Verily, there is no foundation other than this: in thee we will restore this our father Prajāpati; he shall be our foundation.’–‘What will then be my reward?’ said he.

०४

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्॥
(न्न᳘) अ᳘न्नं वा᳘ ऽअयं᳘ प्रजा᳘पतिस्त्व᳘न्मुखा ऽएतद᳘न्नम᳘दाम त्व᳘न्मुखानां न ऽएषो᳘ ऽन्नमसदि᳘ति तथे᳘ति त᳘स्माद्देवा᳘ ऽअग्नि᳘मुखा ऽअ᳘न्नमदन्ति य᳘स्यै हि क᳘स्यै च देव᳘तायै जु᳘ह्वत्यग्ना᳘वेव᳘ जुह्वत्यग्नि᳘मुखा हि त᳘द्देवा ऽअ᳘न्नम᳘कुर्वत॥

मूलम् - श्रीधरादि

ते ऽब्रुवन्॥
(न्न᳘) अ᳘न्नं वा᳘ ऽअयं᳘ प्रजा᳘पतिस्त्व᳘न्मुखा ऽएतद᳘न्नम᳘दाम त्व᳘न्मुखानां न ऽएषो᳘ ऽन्नमसदि᳘ति तथे᳘ति त᳘स्माद्देवा᳘ ऽअग्नि᳘मुखा ऽअ᳘न्नमदन्ति य᳘स्यै हि क᳘स्यै च देव᳘तायै जु᳘ह्वत्यग्ना᳘वेव᳘ जुह्वत्यग्नि᳘मुखा हि त᳘द्देवा ऽअ᳘न्नम᳘कुर्वत॥

मूलम् - Weber

ते ऽब्रुवन्॥
अ᳘न्नं वा᳘ अय᳘म् प्रजा᳘पतिस्त्व᳘न्मुखा एतद᳘न्नम᳘दाम त्व᳘न्मुखानां न एषो᳘ ऽन्नमसदि᳘ति तथे᳘ति त᳘स्माद्देवा᳘ अग्नि᳘मुखा अ᳘न्नमदन्ति य᳘स्यै हि क᳘स्यै च देव᳘तायै जु᳘ह्वत्यग्ना᳘वेव᳘ जुह्वत्यग्नि᳘मुखा हि त᳘द्देवा अ᳘न्नम᳘कुर्वत॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- अन्नं वा ऽअयं प्रजापतिः । त्वन्मुखा एतदन्नमदाम । त्वन्मुखानां न एषो ऽन्नमसदिति । तथेति । तस्माद्देवा अग्निमुखा अन्नमदन्ति । यस्यै हि कस्यै च देवतायै जुह्वति- अग्नावेव जुह्वति । अग्निमुखा हि तद् देवा अन्नमकुर्वत ॥ ४ ॥

सायणः

तस्योत्तरं दर्शयति- ते ऽब्रुवन्निति । अन्नरूपो हि ‘अयं प्रजापतिः’ । तस्य च त्वयि संस्कारे सति वयं सर्वे ‘त्वन्मुखाः’ त्वत्प्रमुखाः ‘एतदन्नम्’ ‘अदाम’ भुञ्जीमहि । ‘त्वन्मुखानाम्’ एवास्माकम् ‘एषः’ संस्कृतः प्रजापतिः ‘अन्नं’ भवत्विति । ‘तथेति’ सो ऽग्निरङ्गीकृतवान् ॥

इदानीन्तनप्रसिद्ध्या देवानामग्निमुखत्वं द्रढयति- यस्या इति । इन्द्रादीनां मध्ये ‘यस्यै कस्यै’ चिद् ‘देवतायै’ यत् किञ्चिद्धविः प्रयच्छन्ति, तत् सर्वम् ‘अग्नावेव जुह्वति’ । तत्र कारणमाह- अग्निमुखा हीति । ‘हि’ यस्मात् ते ‘देवाः’ ‘तत्’ तदानीं प्रजापतिरूपम् ‘अन्नम्’ अग्निमुखा एव ‘अकुर्वत’ तस्मादग्नौ हूयमानं हविर्लक्षणमन्नं सर्वे देवा अश्नन्तीत्यर्थः ॥ ४ ॥

Eggeling
  1. They spake, ‘This Prajāpati is food: with thee for our mouth we will eat that food, and he (Prajāpati) shall be the food of us, having thee for our month.’ He said, ‘So be it!’ Therefore the gods eat food with Agni as their mouth; for to whatsoever deity men offer, it is into Agni that they offer, since it is with Agni for their mouth that the gods thus took in the food.

०५

विश्वास-प्रस्तुतिः

स᳘ यो ऽस्मात्प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्॥
(द) अय᳘मेव स᳘ व्वायु᳘र्यो ऽयं प᳘वते᳘ ऽथ य᳘दस्माद्वी᳘र्यमुद᳘क्रामदसौ[[!!]] स᳘ ऽआदित्यो᳘ ऽथ य᳘दस्माद᳘न्नम᳘स्रवद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्तत्[[!!]]॥

मूलम् - श्रीधरादि

स᳘ यो ऽस्मात्प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्॥
(द) अय᳘मेव स᳘ व्वायु᳘र्यो ऽयं प᳘वते᳘ ऽथ य᳘दस्माद्वी᳘र्यमुद᳘क्रामदसौ[[!!]] स᳘ ऽआदित्यो᳘ ऽथ य᳘दस्माद᳘न्नम᳘स्रवद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्तत्[[!!]]॥

मूलम् - Weber

सॗ यो ऽस्मात्प्राणो᳘ मध्यत᳘ उद᳘क्रामत्॥
अय᳘मेव स᳘ वायुॗर्यो ऽयम् प᳘वते᳘ ऽथ य᳘दस्माद्वीर्य᳘मुद᳘क्रामदसौ स᳘ आदित्यो᳘ ऽथ य᳘दस्माद᳘न्नम᳘स्रवद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्त᳘त्॥

मूलम् - विस्वरम्

स यो ऽस्मात्प्राणो मध्यत उदक्रामत्- अयमेव स वायुः- यो ऽयं पवते । अथ यदस्माद्वीर्यमुदक्रामत् । असौ स आदित्यः । अथ यदस्मादन्नमस्रवद्- यदेव संवत्सरे ऽन्नम्- तत्तत् ॥ ५ ॥

सायणः

उत्क्रान्तानां प्राणादीनां परिणामविशेषमाह- स यो ऽस्मादिति । प्रजापतिशरीरादुत्क्रान्तः प्राणवायुरेव भूतात्मकबाह्यवायुरूपेणोत्पन्नः । यदुत्क्रान्तं वीर्यं तदेवासौ द्युलोकस्थ आदित्यो ऽभवत् । यदेव संवत्सरे ऽन्नमिति । ‘यत्’ खलु संवत्सरस्य मध्ये व्रीहियवादिरूपम् ‘अन्नं’ पच्यते, ‘तत् तत्’ तदात्मना प्रजापतेर्विस्रस्तमन्नं परिणतमभवदित्यर्थः ॥ ५ ॥

Eggeling
  1. Now the vital air which went out from within him is no other than the wind that blows yonder; and the vigour which went out of him is yonder sun; and the food which flowed from him is all the food which there is within the year.

०६

विश्वास-प्रस्तुतिः

(त्तं᳘) तं᳘ देवा᳘ ऽअग्नौ प्रा᳘वृञ्जन्॥
(ञ्जंस्त) तद्य᳘ ऽएनं प्र᳘वृक्तमग्निरा᳘रोहद्य᳘ ऽए᳘वास्मात्स᳘ प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्स᳘ ऽए᳘वैनᳫँ᳭ स ऽआ᳘पद्यत त᳘मस्मिन्नदधुर᳘थ य᳘दस्माद्वी᳘र्यमुद᳘क्रामत्त᳘दस्मिन्नदधुर᳘थ य᳘दस्माद᳘न्नम᳘स्रवत्त᳘दस्मिन्नदधुस्तᳫँ᳭ स᳘र्वं कृत्स्न᳘ᳫँ᳘ संस्कृ᳘त्योर्ध्वमु᳘दश्रयंस्तद्यं त᳘मुद᳘श्रयन्निमे स᳘ लोकाः[[!!]]॥

मूलम् - श्रीधरादि

(त्तं᳘) तं᳘ देवा᳘ ऽअग्नौ प्रा᳘वृञ्जन्॥
(ञ्जंस्त) तद्य᳘ ऽएनं प्र᳘वृक्तमग्निरा᳘रोहद्य᳘ ऽए᳘वास्मात्स᳘ प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्स᳘ ऽए᳘वैनᳫँ᳭ स ऽआ᳘पद्यत त᳘मस्मिन्नदधुर᳘थ य᳘दस्माद्वी᳘र्यमुद᳘क्रामत्त᳘दस्मिन्नदधुर᳘थ य᳘दस्माद᳘न्नम᳘स्रवत्त᳘दस्मिन्नदधुस्तᳫँ᳭ स᳘र्वं कृत्स्न᳘ᳫँ᳘ संस्कृ᳘त्योर्ध्वमु᳘दश्रयंस्तद्यं त᳘मुद᳘श्रयन्निमे स᳘ लोकाः[[!!]]॥

मूलम् - Weber

तं᳘ देवा᳘ अग्नौ प्रा᳘वृञ्जन्॥
तद्य᳘ एनम् प्र᳘वृक्तमग्निरा᳘रोहद्य᳘ एॗवास्मात्स᳘ प्राणो᳘ मध्यत᳘ उद᳘क्रामत्स᳘ एॗवैनᳫं स आ᳘पद्यत त᳘मस्मिन्नदधुर᳘थ य᳘दस्माद्वीर्य᳘मुद᳘क्रामत्त᳘दस्मिन्नदधुर᳘थ य᳘दस्माद᳘न्नम᳘स्रवत्त᳘दस्मिन्नदधुस्तᳫं स᳘र्वं कृत्स्न᳘ᳫं᳘ संस्कृ᳘त्योर्ध्वमु᳘दश्रयंस्तद्यं त᳘मुद᳘श्रयन्निमे स᳘ लोकाः᳟॥

मूलम् - विस्वरम्

तं देवा अग्नौ प्रावृञ्जन् । तद् य एनं प्रवृक्तमग्निरारोहद्- य एवास्मात्स प्राणो मध्यत उदक्रामत्- स एवैनं स आपद्यत । तमस्मिन्नदधुः । अथ यदस्माद्वीर्यमुदक्रामत्- तदस्मिन्नदधुः । अथ यदस्मादन्नमस्रवत्- तदस्मिन्नदधुः । तं सर्वं कृत्स्नं संस्कृत्योर्ध्वमुदश्रयन् । तद् यं तमुदश्रयन्- इमे स लोकाः ॥ ६ ॥

सायणः

प्रकृतमनुसरति- तं देवा इति । ‘तं’ प्रजापतिदेहं ‘देवाः’ ‘अग्नौ’ ‘प्रावृञ्जन्’ प्रतपनेन समस्कुर्वन् । ‘तत्’ तत्र प्रवृञ्जने सति ‘एनं’ प्रवृक्तं प्रजापतिं ‘यः’ ‘अग्निः’ ‘आरोहत्’ सङ्क्रामति स्म, तदात्मना प्राङ् निष्क्रान्तः ‘प्राणः’ ‘एव’ ‘एनं’ प्रजापतिं पुनः ‘आपद्यत’ प्राप्नोत् । तथा च ‘तं’ प्राणं वीर्यादिकम् ‘अस्मिन्’ प्रजापतौ प्रवृञ्जनेन स्थापितवन्त इत्यर्थः । तं सर्वमित्यादि । इत्थं प्रवृञ्जनेन ‘तं’ प्रजापतिं ‘सर्वं’ निरवशेषं कृत्स्नं पूर्णावयवं ‘संस्कृत्य’ पुनः ‘ऊर्द्ध्वमुदश्रयन्’ गमनागमनव्यवहारसमर्थमूर्द्ध्वाकारमुच्छ्रितमकुर्वन् । ‘तत्’ तत्र च ‘यम्’ प्रजापतिम् ‘उदश्रयन्’ देवाः, ‘सः’ एव ‘इमे’ त्रयो ‘लोकाः’ लोकत्रयात्मको ऽभवदित्यर्थः ॥ ६ ॥

Eggeling
  1. The gods heated him in the fire; and when the

fire rose over him thus heated, that same vital air which had gone out from within him came back to him, and they put it into him; and the vigour which had gone out of him they put into him; and the food which had flowed from him they put into him. Having made him up entire and complete, they raised him (so as to stand) upright; and inasmuch as they thus raised him upright he is these worlds.

०७

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्याय᳘मेव᳘ लोकः᳘ प्रतिष्ठा[[!!]]॥
(ष्ठा᳘ ऽथ᳘) अ᳘थ᳘ यो ऽस्मिल्ँ᳘लो᳘के ऽग्निः᳘ सो ऽस्या᳘वाङ् प्राणो᳘ ऽथास्यान्त᳘रिक्षमात्मा᳘ ऽथ᳘ यो ऽन्त᳘रिक्षे व्वायुर्य᳘ ऽए᳘वाय᳘मात्म᳘न्प्रा᳘णः सो ऽस्य स द्यौ᳘रे᳘वास्य शि᳘रः सूर्याचन्द्रम᳘सौ च᳘क्षुषी यच्च᳘क्षुरध्य᳘शेत स᳘ चन्द्र᳘मास्त᳘स्मात्स᳘ मीलित᳘त᳘तरो᳘ ऽन्नᳫँ᳭ हि त᳘स्माद᳘स्रवत्॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्याय᳘मेव᳘ लोकः᳘ प्रतिष्ठा[[!!]]॥
(ष्ठा᳘ ऽथ᳘) अ᳘थ᳘ यो ऽस्मिल्ँ᳘लो᳘के ऽग्निः᳘ 2 सो ऽस्या᳘वाङ् प्राणो᳘ ऽथास्यान्त᳘रिक्षमात्मा᳘ ऽथ᳘ यो ऽन्त᳘रिक्षे व्वायुर्य᳘ ऽए᳘वाय᳘मात्म᳘न्प्रा᳘णः सो ऽस्य स द्यौ᳘रे᳘वास्य शि᳘रः सूर्याचन्द्रम᳘सौ च᳘क्षुषी यच्च᳘क्षुरध्य᳘शेत स᳘ चन्द्र᳘मास्त᳘स्मात्स᳘ मीलित᳘त᳘तरो᳘ ऽन्नᳫँ᳭ हि त᳘स्माद᳘स्रवत्॥

मूलम् - Weber

त᳘स्याय᳘मेव᳘ लोकः᳘ प्रतिष्ठा᳟॥
अ᳘थॗ यो ऽस्मिं᳘लोॗके ऽग्निःॗ सो ऽस्या᳘वाङ् प्राणो᳘ ऽथास्यान्त᳘रिक्षमात्मा᳘थॗ यो ऽन्त᳘रिक्षे वायुर्य᳘ एॗवाय᳘मात्म᳘न्प्राॗणः सो ऽस्य स द्यौ᳘रेॗवास्य शि᳘रः सूर्याचन्द्रम᳘सौ च᳘क्षुषी यच्च᳘क्षुरध्य᳘शेत स᳘ चन्द्र᳘मास्त᳘स्मात्स᳘ मीलित᳘त᳘तरो᳘ ऽन्नᳫं हि त᳘स्माद᳘स्रवत्॥

मूलम् - विस्वरम्

तस्यायमेव लोकः प्रतिष्ठा । अथ यो ऽस्मिंल्लोके ऽग्निः- सो ऽस्यावाङ्प्राणः । अथास्यान्तरिक्षमात्मा । अथ यो ऽन्तरिक्षे वायुः- य एवायमात्मन् प्राणः, सो ऽस्य सः । द्यौरेवास्य शिरः । सूर्याचन्द्रमसौ चक्षुषी । यच्चक्षुरध्यशेत । स चन्द्रमाः । तस्मात्स मीलिततरः । अन्नं हि तस्मादस्रवत् ॥ ७ ॥

सायणः

तस्य कीदृक् किमङ्गमिति ? तदाह- तस्यायमेवेत्यादिना । ‘अयं’ भूलोकः ‘एव’ ‘तस्य’ विराडात्मकस्य प्रजापतेः ‘प्रतिष्ठा’ । प्रतितिष्ठत्यस्यामिति प्रतिष्ठाशब्देन पादावुच्येते । पार्थिवो ऽग्निस्तस्य अवाचीनः प्राणः, येन मूत्रपुरीषादिकमुत्सृज्यते । ‘अन्तरिक्षं’ द्युलोको ऽस्य प्रजापतेः ‘आत्मा’ मध्यदेहः । तत्र सञ्चरन् ‘वायुः’ ‘आत्मन्’ आत्मनि मध्यदेहे ऽवस्थितः प्राणः । सो ऽस्य स इति । स वायुरेवास्य प्राण इत्यर्थ । द्यौरेवास्येति । द्युलोको ऽस्य प्रजापतेर्मूर्द्धा । तत्रत्यौ ‘सूर्याचन्द्रमसौ चक्षुषी’ तयोर्मध्ये ‘यच्चक्षुरध्यशेत’ यस्मिन् चक्षुषि ज्योतिश्चक्षुरवस्थितमभवत्, तच्चक्षुः ‘चन्द्रमाः’ । तदुपपादयति- तस्मादिति । ‘हि’ यस्मात्, ‘तस्मात्’ चक्षुषः अन्नमस्रवत्, तस्मात् कारणात् तच्चक्षूरूपः ‘चन्द्रमाः’ ‘मीलिततरः’ अतिशयेन मीलितः; सूर्यादल्पप्रकाशो दृश्यत इत्यर्थः ॥ ७ ॥

Eggeling
  1. This (terrestrial) world truly is his foundation; and what fire there is in this world that is his (Prajāpati’s) downward vital air. And the air is his body, and what wind there is in the air, that is that vital air of his in the body. And the sky is his head; the sun and the moon are his eyes. The eye on which he lay is the moon: whence that one is much closed up, for the food flowed therefrom.

०८

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘देषा वै सा᳘ प्रतिष्ठा[[!!]]॥
यां त᳘द्देवाः᳘ सम᳘स्कुर्व᳘न्त्सै᳘वेय᳘मद्या᳘पि प्रतिष्ठा᳘ सो ऽएवाप्य᳘तो ऽधि भविता[[!!]]॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘देषा वै सा᳘ प्रतिष्ठा[[!!]]॥
यां त᳘द्देवाः᳘ सम᳘स्कुर्व᳘न्त्सै᳘वेय᳘मद्या᳘पि प्रतिष्ठा᳘ सो ऽएवाप्य᳘तो ऽधि भविता[[!!]]॥

मूलम् - Weber

त᳘देषा वै सा᳘ प्रतिष्ठा᳟॥
यां त᳘द्देवाः᳘ सम᳘स्कुर्वॗन्त्सैॗवेय᳘मद्या᳘पि प्रतिष्ठाॗ सो एवाप्यतो ऽधि भविता᳟॥

मूलम् - विस्वरम्

तदेषा वै सा प्रतिष्ठा- यां तद्देवाः समस्कुर्वन् । सैवेयमद्यापि प्रतिष्ठा । सो ऽएवाप्यतो ऽधि भविता ॥ ८ ॥

सायणः

तदेषा वा इत्यादि । ‘तत्’ तथा सति देवादीनां प्रजानाम् ‘एषा’ प्रजापत्यात्मिका ‘सा प्रतिष्ठा’ अभवदिति शेषः । ‘तत्’ तदानीं ‘यां’ ‘समस्कुर्वन्’ उदीरितरीत्या संस्कृतवन्तः । न केवलमतीतकाल एव प्रजापतेः प्रतिष्ठारूपता, वर्त्तमानभविष्यत्कालयोरपीत्याह- सैवेयमिति । ‘अद्य’ इदानीं वर्त्तमानकाले ऽपीत्यर्थः । अतो ऽधि भवितेति । ‘अतः’ अस्माद्वर्त्तमानादूर्ध्वकाले ऽपि सैव प्रतिष्ठा ‘भविता’ “अनद्यतने लुट्” (पा. सू. ३ । ३ । १५) इति भविष्यत्यनद्यतने लुट् ॥ ८ ॥

Eggeling
  1. Now that same foundation which the gods thus restored is the foundation here even to this day, and will be so even hereafter.

०९

विश्वास-प्रस्तुतिः

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीय᳘ते तद्य᳘दे᳘षोखा᳘ रिक्ता शे᳘ते पुरा᳘ प्रव᳘र्जनाद्य᳘थैव त᳘त्प्रजा᳘पतिरु᳘त्क्रान्ते प्राण ऽउ᳘त्क्रान्ते व्वी᳘र्ये स्रुते᳘ ऽन्ने रिक्तो᳘ ऽशयदेत᳘दस्य त᳘द्रूपम्[[!!]]॥

मूलम् - श्रीधरादि

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीय᳘ते तद्य᳘दे᳘षोखा᳘ रिक्ता शे᳘ते पुरा᳘ प्रव᳘र्जनाद्य᳘थैव त᳘त्प्रजा᳘पतिरु᳘त्क्रान्ते प्राण ऽउ᳘त्क्रान्ते व्वी᳘र्ये स्रुते᳘ ऽन्ने रिक्तो᳘ ऽशयदेत᳘दस्य त᳘द्रूपम्[[!!]]॥

मूलम् - Weber

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयत तद्य᳘देॗषोखा᳘ रिक्ता शे᳘ते पुरा᳘ प्रव᳘र्जनाद्य᳘थैव त᳘त्प्रजा᳘पतिरु᳘त्क्रान्ते प्राण उ᳘त्क्रान्ते वीॗर्येॗ स्रुते᳘ ऽन्ने रिक्तो᳘ ऽशयदेत᳘दस्य त᳘द्रूप᳘म्॥

मूलम् - विस्वरम्

स यः स प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । तद्यदेषोखा रिक्ता शेते- पुरा प्रवर्जनाद्- यथैव तत् प्रजापतिरुत्क्रान्ते प्राणे, उत्क्रान्ते वीर्ये, स्रुते ऽन्ने रिक्तो ऽशयत् । एतदस्य तद्रूपम् ॥ ९ ॥

सायणः

प्रतिष्ठारूपस्य प्रजापतेः संस्कारमभिधाय चित्याग्नेरपि तादृक्संस्कारं वक्तुं तयोस्तादात्म्यमाह- स य इति । ‘सः’ इत्येकस्तच्छब्दः प्रसिद्धौ, अपरः प्रकृतपरामर्शकः । यो ऽयमग्निरिति । गार्हपत्यचितिरूपो यो ऽग्निरित्यर्थः । तयोस्तादात्म्योपपत्तये प्रजापतेरवस्थाविशेषमत्रापि दर्शयति- तद्यदेषेति । ‘तत्’ तत्र आहवनीये ‘प्रवर्जनात्’ पूर्वं ‘रिक्ता उखा शेते’ इति ‘यत्’ अस्य उत्क्रान्तप्राणादिकस्य प्रजापतेरेतद्रूपमित्यर्थः ॥ ९ ॥

Eggeling
  1. And the Prajāpati who became relaxed is this same Agni who is now being built up. And when that fire-pan lies there empty before being heated, it is just like Prajāpati, as he lay there with the vital air and the vigour gone out of him, and the food having flowed out.

१०

विश्वास-प्रस्तुतिः

ता᳘मग्नौ प्र᳘वृणक्ति॥
य᳘थै᳘वैनमदो᳘ देवाः प्रा᳘वृञ्जंस्तद्य᳘ ऽएनां प्र᳘वृक्तामग्नि᳘रारो᳘हति य᳘ ऽए᳘वास्मात्स᳘ प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्स᳘ ऽए᳘वैनᳫँ᳭ स ऽआ᳘पद्यते त᳘मस्मिन्दधात्य᳘थ य᳘द्रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्ति य᳘दे᳘वास्माद्वी᳘र्यमुद᳘क्रामत्त᳘दस्मिन्दधात्य᳘थ[[!!]] याः᳘ समि᳘ध ऽआद᳘धाति य᳘दे᳘वास्माद᳘न्नम᳘स्रवत्त᳘दस्मिन्दधाति॥

मूलम् - श्रीधरादि

ता᳘मग्नौ प्र᳘वृणक्ति॥
य᳘थै᳘वैनमदो᳘ देवाः प्रा᳘वृञ्जंस्तद्य᳘ ऽएनां प्र᳘वृक्तामग्नि᳘रारो᳘हति य᳘ ऽए᳘वास्मात्स᳘ प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्स᳘ ऽए᳘वैनᳫँ᳭ स ऽआ᳘पद्यते त᳘मस्मिन्दधात्य᳘थ य᳘द्रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्ति य᳘दे᳘वास्माद्वी᳘र्यमुद᳘क्रामत्त᳘दस्मिन्दधात्य᳘थ[[!!]] याः᳘ समि᳘ध ऽआद᳘धाति य᳘दे᳘वास्माद᳘न्नम᳘स्रवत्त᳘दस्मिन्दधाति॥

मूलम् - Weber

ता᳘मग्नौ प्र᳘वृणक्ति॥
य᳘थैॗवैनमदो᳘ देवाः प्रा᳘वृञ्जंस्तद्य᳘ एनाम् प्र᳘वृक्तामग्नि᳘रारो᳘हति य᳘ एॗवास्मात्स᳘ प्राणो᳘ मध्यत᳘ उद᳘क्रामत्स᳘ एॗवैनᳫं स आ᳘पद्यते त᳘मस्मिन्दधात्य᳘थ य᳘द्रुक्भ᳘म् प्रतिमु᳘च्य बिभ᳘र्ति य᳘देवास्माद्वीर्य᳘मुद᳘क्रामत्त᳘दस्मिन्दधात्य᳘थ याः᳘ समि᳘ध आद᳘धाति य᳘देॗवास्माद᳘न्नम᳘स्रवत्त᳘दस्मिन्दधाति॥

मूलम् - विस्वरम्

तामग्नौ प्रवृणक्ति- यथैवैनमदो देवाः प्रावृञ्जन्- तद्य एनां प्रवृक्तामग्निरारोहति- य एवास्मात्स प्राणो मध्यत उदक्रामत्- स एवैनं स आपद्यते । तमस्मिन्दधाति । अथ यद्रुक्मं प्रतिमुच्य बिभर्ति- यदेवास्माद्वीर्यमुदक्रामत्- तदस्मिन्दधाति । अथ याः समिध आदधाति । यदेवास्मादन्नमस्रवत्- तदस्मिन्दधाति ॥ १० ॥

सायणः

संस्कारसाम्यमाह- तामग्नाविति । ‘ताम्’ उखाम् ‘अग्नौ’ आहवनीये ‘प्रवृणक्ति’ प्रतपति । यथैवैनमिति । प्रजापतिसाम्यवर्णनम् । ‘एनं’ प्रजापतिम् ‘अदः’ अमुष्मिन् सृष्टिकाल इत्यर्थः । तद्य एनामिति । ‘एनाम्’ उखां ‘प्रवृक्तां’ प्रतप्ताम् ‘अग्निः’ ‘आरोहति’ आक्रमते, अन्तर्जायत इति ‘यः,’ अनेन पुरा प्रजापतिशरीरादुत्क्रान्तः ‘सः’ प्राणः एव ‘सः’ अग्निर्भूत्वा ‘एनम्’ उखात्मकं प्रजापतिम् ‘आपद्यते’ आगच्छति । तं प्राणम् ‘अस्मिन्’ ‘दधाति’ स्थापयति । अथ यद्रुक्ममित्यादि । यजमानः सौवर्णं ‘रुक्मं’ ‘प्रतिमुच्य’ कण्ठे सूत्रेण बद्ध्वा, तस्योपरि तमुख्यं बिभर्त्तीति ‘यत्,’ तेन प्रागुत्क्रान्तवीर्यमेवास्मिन् पुनः स्थापयतीत्यर्थः । अथ याः समिध इति । उखायामग्न्यारोहणानन्तरं तस्मिन् ‘याः समिध आदधाति,’ ताभिस्तत्प्रागस्मात् स्रुतमप्यन्नं पुनरस्मिन् स्थापयति । यदाह कात्यायनः- “अग्नावारूढे त्रयोदशास्यां प्रादेशमात्रीः समिध आदधाति”- (का. श्रौ. सू. १६ । १३३) इति ॥ १० ॥

Eggeling
  1. He heats it on the fire, even as the gods then heated him (Prajāpati). And when the fire rises over it thus heated, then that same vital air which went out from within him comes back to him, and he puts it into him. And when, putting on the gold plate, he wears it, he puts into him that very vigour which had gone out of him. And when he puts on kindling-sticks, he puts into him that very food which had flowed from him.

११

विश्वास-प्रस्तुतिः

ता वै᳘ सायंप्रातरा᳘दधाति॥
(त्य᳘) अ᳘ह्नश्च हि तद्रा᳘त्रेश्चा᳘न्नम᳘स्रवत्ता᳘न्येता᳘नि स᳘र्व्वस्मिन्नेव᳘ संवत्सरे᳘ स्युः संवत्सरो हि स᳘ प्रजा᳘पतिर्य᳘स्मात्ता᳘न्युद᳘क्रामंस्त᳘दस्मिन्नेतत्स᳘र्वस्मिन्नेव स᳘र्वं दधाति य᳘स्मिन्हास्यैत᳘दृतो न᳘ कुर्यान्न᳘ हास्य त᳘स्मिन्नेत᳘द्दध्यान्ना᳘संवत्सरभृतस्ये᳘क्षकेण चन᳘ भवित᳘व्यमि᳘ति ह स्माह व्वा᳘मकक्षायणो ने᳘दिमं᳘ पित᳘रं प्रजा᳘पतिं व्विच्छिद्य᳘मानं प᳘श्यानी᳘ति त᳘ᳫँ᳘ संवत्सरे स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ संस्कृ᳘त्योर्ध्वमु᳘च्छ्रयति य᳘थै᳘वैनमदो᳘ देवा᳘ ऽउद᳘श्रयन्॥

मूलम् - श्रीधरादि

ता वै᳘ सायंप्रातरा᳘दधाति॥
(त्य᳘) अ᳘ह्नश्च हि तद्रा᳘त्रेश्चा᳘न्नम᳘स्रवत्ता᳘न्येता᳘नि स᳘र्व्वस्मिन्नेव᳘ संवत्सरे᳘ स्युः संवत्सरो हि स᳘ प्रजा᳘पतिर्य᳘स्मात्ता᳘न्युद᳘क्रामंस्त᳘दस्मिन्नेतत्स᳘र्वस्मिन्नेव स᳘र्वं दधाति य᳘स्मिन्हास्यैत᳘दृतो न᳘ कुर्यान्न᳘ हास्य त᳘स्मिन्नेत᳘द्दध्यान्ना᳘संवत्सरभृतस्ये᳘क्षकेण चन᳘ भवित᳘व्यमि᳘ति ह स्माह व्वा᳘मकक्षायणो ने᳘दिमं᳘ पित᳘रं प्रजा᳘पतिं व्विच्छिद्य᳘मानं प᳘श्यानी᳘ति त᳘ᳫँ᳘ संवत्सरे स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ संस्कृ᳘त्योर्ध्वमु᳘च्छ्रयति य᳘थै᳘वैनमदो᳘ देवा᳘ ऽउद᳘श्रयन्॥

मूलम् - Weber

ता वै᳘ साय᳘म् प्रातरा᳘दधाति॥
अ᳘ह्नश्च हि तद्रा᳘त्रेश्चा᳘न्नम᳘स्रवत्ता᳘न्येता᳘नि स᳘र्वस्मिन्नेव᳘ संवत्सरे᳘ स्युः संवत्सरो हि स᳘ प्रजा᳘पतिर्य᳘स्मात्ता᳘न्युद᳘क्रामंस्त᳘दस्मिन्नेतत्स᳘र्वस्मिन्नेव स᳘र्वं दधाति य᳘स्मिन्हास्यैत᳘दतो न᳘ कुर्यान्न᳘ हास्य त᳘स्मिन्नेत᳘द्दध्यान्ना᳘संवत्सरभृतस्ये᳘क्षकेण चन᳘ भवित᳘व्यमि᳘ति ह स्माह वा᳘मकक्षायणो ने᳘दिमम् पित᳘रम् प्रजा᳘पतिं विछिद्य᳘मानम् प᳘श्यानीति त᳘ᳫं᳘ संवत्सरे स᳘र्वं कृत्स्न᳘ᳫं᳘ संस्क᳘त्योर्ध्वमु᳘छ्रयति य᳘थैॗवैनमदो᳘ देवा᳘ उद᳘श्रयन्॥

मूलम् - विस्वरम्

ता वै सायंप्रातरादधाति । अह्नश्च हि तद् रात्रेश्चान्नमस्रवत् । तान्येतानि सर्वस्मिन्नेव संवत्सरे स्युः । संवत्सरो हि स प्रजापतिः । यस्मात्तान्युदक्रामन् । तदस्मिन्नेतत्सर्वस्मिन्नेव सर्वं दधाति । यस्मिन्हास्यैतदृतौ न कुर्यात्- न हास्य तस्मिन्नेतद्दध्यात् । नासंवत्सरभृतस्येक्षकेण चन भवितव्यमिति ह स्माह वामकक्षायणः । नेदिमं पितरं प्रजापतिं विच्छिद्यमानं पश्यानीति । तं संवत्सरे सर्वं कृत्स्नं संस्कृत्योर्ध्वमुच्छ्रयति । यथैवैनमदो देवा उदश्रयन् ॥ ११ ॥

सायणः

तासामहरहरभ्याधानमनूद्य तत्र कारणमाह- ता वा इति । ‘तत्’ तदानीम् ‘अह्नो रात्रेश्च’ सकाशात् प्रजापतिशरीरात् ‘अन्नमस्रवत्’, अतस्तस्य पुनरवाप्तये समिधामाधानम् एतस्मिन् ‘संवत्सरे’ प्रत्यहं कालत्रये ऽपि कर्त्तव्यमित्यर्थः । अत एवोक्तं सूत्रकृता “पालाशीः प्रत्यृचमहरहरिति”- (का. श्रौ. सू. १६ । १४०) इति । रुक्मप्रतिमोचनोख्यभरणादीनां संवत्सरकालव्याप्तिमाह- तान्येतानीति । ‘तानि’ रुक्मप्रतिमोचनोख्यभरणसमिदाधानविष्णुक्रमणादीनि पूर्वोक्तान्येतानि (श. प. ६ । ७ । १ । ४ । ५ का. श्रौ. सू. १६ । १४६) प्राणवीर्यान्नरूपेणानुक्रान्तानीत्यर्थः । ‘सर्वस्मिन्’ कृत्स्ने ‘एव’ ‘संवत्सरे’ भवेयुरिति विधिवाक्यमेतत् । तेषां संवत्सरकर्तव्यत्व उपपत्तिमाह- संवत्सरो हीति । यस्मात् प्रजापतेस्तानि प्राणवीर्यान्नानि उत्क्रान्तानि, स हि संवत्सरकालात्मकः खलु ‘एतत्’ एतेन रुक्मप्रतिमोचनादीनां संवत्सरमनुष्ठानेन ‘अस्मिन्’ प्रकृते सर्वात्मके प्रजापतौ सर्वं निरवशेषं विश्वं ‘दधाति’ स्थापयति । व्यतिरेके बाधमाह 3- यस्मिन् हेति । ‘अस्य’ संवत्सरात्मकस्य प्रजापतेः ‘यस्मिन्’ ऋतौ वसन्तादिके कालावयवे ‘एतत्’ पूर्वोक्तं ‘न’ स्थापयेत् । इत्थं प्रतिपादितं संवत्सरावयवे सर्वानाधानलक्षणं दोषं स्पष्टयितुं संवत्सरमभृतस्याग्नेः द्रष्टृत्वमपि निषेधयति- नासं वत्सरभृतस्येति । न संवत्सरपर्यन्तं भृतः उखायां धृतः, सो ऽयम् ‘असंवत्सरभृतः’ तस्य ‘ईक्षकेण चन’ द्रष्ट्रापि ‘न’ भाव्यम्, किमुतर्त्विजा । ‘इति’ एवं ‘वामकक्षायणः’ वामकक्षो नाम ऋषिः तस्य युवा ऽपत्यं वामकक्षायणः ‘आह’ उक्तवान् । ‘चन’-शब्दो ऽप्यर्थे । एवं ब्रुवतो वामकक्षायणस्याभिप्रायमाह- नदिममिति । “नेदिति परिभये”- (निरु. १ । ३ । ५) ‘पितरं’ पालकं ‘इमम्’ अधियज्ञात्मकं ‘प्रजापतिं’ ‘विच्छिद्यमानं’ विशेषेण भिद्यमानं ‘नेत्पश्यानि’ नैव ईक्षे ‘इति’ । ‘इति’- शब्दस्तदभिप्रायपरिसमाप्तिद्योतकः । उक्तमर्थं निगमयति- तँ संवत्सर इति । ‘संवत्सरे’ अतीते ‘तं’ प्रजापतिं ‘सर्वं’ निरवशेषं ‘कृत्स्नं’ संपूर्णावयवं ‘संस्कृत्य’ ऊर्द्ध्वमुच्छ्रयति’ गमनागमनव्यवहारसमर्थमूर्ध्वाकारमुच्छ्रितं करोति । ‘यथैव’ येनैव प्रकारेण ‘अदः’ पूर्वं ‘देवाः’ ‘एनं’ प्रजापतिम् ‘उदश्रयन्’ उच्छ्रितं कृतवन्तः, तथेत्यर्थः ॥ ११ ॥

Eggeling
  1. He puts them on in the evening and morning, for the food both of the day and the night was flowing out. These same (ceremonies) should be (performed) during a whole year, for that Prajāpati whence those (substances) went out is the year: into that whole (Prajāpati) he thus puts all that (which belongs to him). And in whatever part of this (year) he should therefore 4 not do so, into that part of him (Prajāpati) he would not put that (which belongs therein). ‘One must not even be a looker-on at the (building up of a fire) not carried about for a year,’ Vāmakakshāyaṇa was wont to say, ’lest he should see this our father Prajāpati being torn to pieces 5.’ He restores him so as to be whole and complete, and raises him to stand upright, even as the gods then raised him.

१२

विश्वास-प्रस्तुतिः

(यंस्त᳘) त᳘स्य गा᳘र्हपत्य ऽए᳘वायं᳘ लोकः[[!!]]॥
(को᳘ ऽथ) अ᳘थ यो गा᳘र्हपत्ये ऽग्निर्य᳘ ऽए᳘वाय᳘मस्मिल्ँ᳘लो᳘के ऽग्निः᳘ सो ऽस्य[[!!]] सो᳘ ऽथ य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च त᳘दन्त᳘रिक्षम᳘थ य᳘ ऽआग्नीध्री᳘ये ऽग्निर्य᳘ ऽए᳘वाय᳘मन्त᳘रिक्षे व्वायुः᳘ सो ऽस्य[[!!]] स᳘ ऽआहवनी᳘य ऽएव द्यौर᳘थ य᳘ ऽआहवनी᳘ये ऽग्निस्तौ᳘ सूर्याचन्द्रम᳘सौ᳘ सो ऽस्यैष᳘ आ᳘त्मैव[[!!]]॥

मूलम् - श्रीधरादि

(यंस्त᳘) त᳘स्य गा᳘र्हपत्य ऽए᳘वायं᳘ लोकः[[!!]]॥
(को᳘ ऽथ) अ᳘थ यो गा᳘र्हपत्ये ऽग्निर्य᳘ ऽए᳘वाय᳘मस्मिल्ँ᳘लो᳘के ऽग्निः᳘ सो ऽस्य[[!!]] सो᳘ ऽथ य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च त᳘दन्त᳘रिक्षम᳘थ य᳘ ऽआग्नीध्री᳘ये ऽग्निर्य᳘ ऽए᳘वाय᳘मन्त᳘रिक्षे व्वायुः᳘ सो ऽस्य[[!!]] स᳘ ऽआहवनी᳘य ऽएव द्यौर᳘थ य᳘ ऽआहवनी᳘ये ऽग्निस्तौ᳘ सूर्याचन्द्रम᳘सौ᳘ सो ऽस्यैष᳘ आ᳘त्मैव[[!!]]॥

मूलम् - Weber

त᳘स्य गा᳘र्हपत्य एॗवायं᳘ लोकः᳟॥
अ᳘थ यो गा᳘र्हपत्ये ऽग्निर्य᳘ एॗवाय᳘मस्मिं᳘लोॗके ऽग्निः᳘ सो ऽस्यॗ सो ऽथ य᳘दन्त᳘राहवनी᳘यं च गा᳘र्हपत्यं च त᳘दन्त᳘रिक्षम᳘थ य᳘ आग्नीध्री᳘ये ऽग्निर्य᳘ एॗवाय᳘मन्त᳘रिक्षे वायुःॗ सो ऽस्य᳘ स᳘ आहवनी᳘य एव द्यौर᳘थ य᳘ आहवनी᳘ये ऽग्निस्तौ᳘ सूर्याचन्द्रम᳘सौॗ सो ऽस्यैष᳘ आॗत्मैव᳟॥

मूलम् - विस्वरम्

तस्य गार्हपत्य एवायं लोकः । अथ यो गार्हपत्ये ऽग्निः, य एवायमस्मिंल्लोके ऽग्निः- सो ऽस्य सः । अथ यदन्तरा ऽऽहवनीयं च गार्हपत्यं च- तदन्तरिक्षम् । अथ य आग्नीध्रीये ऽग्निः- य एवायमन्तरिक्षे वायुः- सो ऽस्य सः । आहवनीय एव द्यौः । अथ य आहवनीये ऽग्निः- तौ सूर्याचन्द्रमसौ- सो ऽस्यैष आत्मैव ॥ १२ ॥

सायणः

प्रकृतस्य चयनात्मकस्य प्रजापतेर्लोकत्रयात्मकतां तदधिष्ठात्रग्निवाय्वादित्यात्मकतां च प्रतिपादयति- तस्य गार्हपत्य इत्यादिना । “स यः स प्रजापतिर्व्यस्रँसत अयमेव स यो ऽयमग्निश्चीयते”- (९ कं) इत्युक्तम्, ‘तस्य’ चित्याग्न्यात्मनः प्रजापतेः ‘गार्हपत्यं एव’ चितिरूपस्थलविशेष एव ‘अयं लोकः’ पृथिवी । ‘अथ यो गार्हपत्ये’ अधिकरणे उख्यः ‘अग्निः’ स्थापितः, यश्चायमस्मिन् लोके पृथिव्यामधिष्ठातृत्वेन स्थितो ऽग्निः, स उख्यो ऽग्निः पृथिवीस्थानो ऽग्निरपि अस्य प्रजापतेः सम्बन्धी; स जाटरो ऽग्निर्बोद्धव्य इति शेषः । ‘अथ’ ‘आहवनीयं’ गार्हपत्यं च ‘अन्तरा’ मन्ये, चित्योरन्तराल इति यावत्, यत् स्थलं ‘तदन्तरिक्षं’ मध्यलोक इत्यर्थः । ‘अथ’ च ‘यः’ अयम् ‘आग्नीध्रीये’ धिष्ण्ये ‘अग्निः’ स्थापितः, य एव चायमन्तरिक्षे अधिष्ठातृत्वेन स्थितो वायुः, स आग्नीध्रीयस्थो ऽन्तरिक्षस्थो वायुश्चेत्युभयविधो ऽप्यस्य प्रजापतेः ‘सः’ पञ्चवृत्यात्मकः प्राण इत्यर्थः । ‘आहवनीयः’ चित्यात्मकः ‘एव द्यौः’ द्युलोकः । ‘अथ’ ‘आहवनीये’ अधिकरणे ‘यः अग्निः’ अतिप्रणीतः स्थापितः, ‘तौ सूर्याचन्द्रमसौ’ द्युलोके ऽधिष्ठातृत्वेन स्थितौ । ‘स एषः’ आहवनीयादिः चन्द्रान्तः ‘अस्य’ ‘आत्मैव’ मध्यदेह एवेत्यर्थः ॥ १२ ॥

Eggeling
  1. This (terrestrial) world in truth is his (Prajāpati’s) Gārhapatya (hearth); and what fire there is in this world that to him is the fire on the Gārhapatya. And what space there is between the Āhavanīya and the Gārhapatya, that is the air 6; and that wind in

the air is for him the fire on the Āgnīdhrīya. The sky is his Āhavanīya (hearth), and those two, the sun and the moon, are the fire on the Āhavanīya. This then is indeed his own self 7.

१३

विश्वास-प्रस्तुतिः

त᳘स्य शि᳘र ऽए᳘वाहवनीयः[[!!]]॥
(यो᳘ ऽथ) अ᳘थ य᳘ ऽआहवनी᳘ये ऽग्निर्य᳘ ऽए᳘वाय᳘ᳫँ᳘ शीर्ष᳘न्प्राणः᳘ सो ऽस्य स तद्यत्स᳘ पक्षपुच्छ᳘वान्भ᳘वति पक्षपुच्छ᳘वा᳘न्ह्यय᳘ᳫँ᳘[[!!]] शीर्ष᳘न्प्राणश्च᳘क्षुः शि᳘रो द᳘क्षिणᳫँ᳭ श्रो᳘त्रं द᳘क्षिणः पक्ष ऽउ᳘त्तरᳫँ᳭ श्रो᳘त्रमु᳘त्तरः पक्षः᳘ प्राणो म᳘ध्यमात्मा वाक्पु᳘च्छं प्रतिष्ठा तद्य᳘त्प्राणा᳘ वाचा᳘ ऽन्नं जग्ध्वा᳘ प्रतिति᳘ष्ठन्ति त᳘स्मात्प्राणा᳘नां वाक्पु᳘च्छं प्रतिष्ठा॥

मूलम् - श्रीधरादि

त᳘स्य शि᳘र ऽए᳘वाहवनीयः[[!!]]॥
(यो᳘ ऽथ) अ᳘थ य᳘ ऽआहवनी᳘ये ऽग्निर्य᳘ ऽए᳘वाय᳘ᳫँ᳘ शीर्ष᳘न्प्राणः᳘ सो ऽस्य स तद्यत्स᳘ पक्षपुच्छ᳘वान्भ᳘वति पक्षपुच्छ᳘वा᳘न्ह्यय᳘ᳫँ᳘[[!!]] शीर्ष᳘न्प्राणश्च᳘क्षुः शि᳘रो द᳘क्षिणᳫँ᳭ श्रो᳘त्रं द᳘क्षिणः पक्ष ऽउ᳘त्तरᳫँ᳭ श्रो᳘त्रमु᳘त्तरः पक्षः᳘ प्राणो म᳘ध्यमात्मा वाक्पु᳘च्छं प्रतिष्ठा तद्य᳘त्प्राणा᳘ वाचा᳘ ऽन्नं जग्ध्वा᳘ प्रतिति᳘ष्ठन्ति त᳘स्मात्प्राणा᳘नां वाक्पु᳘च्छं प्रतिष्ठा॥

मूलम् - Weber

त᳘स्य शि᳘र एॗवाहवनी᳘यः॥
अ᳘थ य᳘ आहवनी᳘ये ऽग्निर्य᳘ एॗवायं᳘ शीर्ष᳘न्प्राॗणः सो ऽस्य स तद्यत्स᳘ पक्षपुछ᳘वान्भ᳘वति पक्षपुछ᳘वान्ह्य᳘यं᳘ शीर्ष᳘न्प्राणश्च᳘क्षुः शि᳘रो द᳘क्षिणं श्रो᳘त्रं द᳘क्षिणः पक्ष उ᳘त्तरं श्रो᳘त्रमु᳘त्तरः पक्षः᳘ प्राणो म᳘ध्यमात्मा वाक्पु᳘छम् प्रतिष्ठा तद्य᳘त्प्राणा᳘ वाचा᳘न्नं जग्ध्वा᳘ प्रतिति᳘ष्ठन्ति त᳘स्माद्वाक्पु᳘छम् प्रतिष्ठा॥

मूलम् - विस्वरम्

तस्य शिर एवाहवनीयः । अथ य आहवनीये ऽग्निः- य एवायं शीर्षन्प्राणः- सो ऽस्य सः । तद्यत्स पक्षपुच्छवान्भवति- पक्षपुच्छवान्ह्ययं शीर्षन्प्राणः । चक्षुः शिरः । दक्षिणं श्रोत्रं दक्षिणः पक्षः, उत्तरं श्रोत्रमुत्तरः पक्षः । प्राणो मध्यमात्मा । वाक्पुच्छं प्रतिष्ठा । तद् यत् प्राणा वाचा ऽन्नं जग्ध्वा प्रतितिष्ठन्ति- तस्मात्प्राणानां वाक् पुच्छं प्रतिष्ठा ॥ १३ ॥

सायणः

तस्य प्रजापतेराधियाज्ञिकमाध्यात्मिकं च रूपं प्रतिपिपादयिषुराह- तस्य शिर इति । ‘तस्य’ प्रजापतेः ‘आहवनीयः’ चित्यात्मकः ‘शिरः’ मूर्द्धा । ‘अथ’ ‘यः’ तत्र निधीयमानः ‘अग्निः,’ ‘यो ऽयम्’ ‘शीर्षन्’ शीर्ष्णि ‘प्राणः’ नासिकासञ्चारी, स उभयविधो ऽपि ‘अस्य’ प्रजापतेः ‘स एव’ शीर्षण्यः प्राण एवेत्यर्थः ॥

चित्यात्मकस्याहवनीयस्य, तत्र निधीयमानस्याग्नेश्च क्रमेण शीर्षत्वं शीर्षण्यप्राणत्वञ्च प्रतिपाद्य, तयोरेव पक्षपुच्छवत्त्वं प्रतिपादयति- तद्यत्स इति । ‘तत्’ तत्र ‘यत्’ यस्मात् ‘सः’ चित्यात्मक आहवनीयः ‘पक्षपुच्छवान्’ पक्षाभ्यां पुच्छेन च युक्तो ऽस्ति, ‘अयं’ ‘शीर्षन्’ शीर्ष्णि वर्तमानः ‘प्राणः’ नासिक्य इति यावत् । सो ऽपि ‘पक्षपुच्छवान् हि’ पक्षपुच्छैरन्वितः खलु । पक्षपुच्छवत्त्वमेवोपपादयति- चक्षुः शिर इत्यादिना । ‘चक्षुः’ सव्यदक्षिणात्मकं चक्षुरिन्द्रियम् नासिक्यप्राणस्य ‘शिरः’ मूर्द्धभूतम्; तदुपरि वर्त्तमानत्वात् । दक्षिणकर्णो दक्षिणपक्षस्थानीयः; तस्य दक्षिणपार्श्ववर्त्तित्वात् । उत्तरकर्णश्चोत्तरपक्षस्थानीयः; उत्तरपार्श्ववर्त्तित्वादेव । ‘प्राणः’ स एव नासिक्यः ‘मध्यम्’ अन्तर्वर्त्ति ‘आत्मा’ शरीरम् । वागायतनत्वाद् वाङ् मुखम्, तदायतनं रसनमपि वाक्, तत् पुच्छम् पश्चाद्भावित्वात् । सैव ‘प्रतिष्ठा’ आस्पदम् । प्रतिष्ठात्वमेवोपपादयति- तद्यदिति । ‘यत्’ यस्मात् ‘प्राणाः’ नासिक्यादयो ‘वाचा’ मुखेन ‘अन्नम्’ ‘जग्ध्वा’ भक्षयित्वा शरीरे ‘प्रतितिष्ठन्ति’ नोत्क्रामन्ति, ‘तस्मात्’ हेतोः ‘प्राणानां’ ‘वाक् पुच्छं’ प्रतिष्ठेत्युपपन्नम् ॥ १३ ॥

Eggeling
  1. The Āhavanīya truly is his head; and the fire which is on the Āhavanīya is that vital air of his in the head. And as to why it (the Āhavanīya) has wings and tail, it is because that vital air in the head has wings and tail 8;–the eye is its head, the right ear its right wing, the left ear its left wing, the vital air its central body 9, and the voice is the tail (and) the foundation (the feet): inasmuch as the vital airs subsist by eating food with speech (voice) 10, the voice is the tail, the foundation.

१४

विश्वास-प्रस्तुतिः

(ष्ठा᳘ ऽथ) अ᳘थ य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च॥
स᳘ आत्मा᳘ ऽथ य᳘ ऽआग्नीध्री᳘ये ऽग्निर्य᳘ ऽए᳘वाय᳘मन्त᳘रात्म᳘न्प्राणः᳘[[!!]] सो ऽस्य स᳘ प्रति᳘ष्ठै᳘वास्य गा᳘र्हपत्यो᳘ ऽथ यो गा᳘र्हपत्ये ऽग्निः᳘ सो ऽस्या᳘वाङ् प्राणः[[!!]]॥

मूलम् - श्रीधरादि

(ष्ठा᳘ ऽथ) अ᳘थ य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च॥
स᳘ आत्मा᳘ ऽथ य᳘ ऽआग्नीध्री᳘ये ऽग्निर्य᳘ ऽए᳘वाय᳘मन्त᳘रात्म᳘न्प्राणः᳘[[!!]] सो ऽस्य स᳘ प्रति᳘ष्ठै᳘वास्य गा᳘र्हपत्यो᳘ ऽथ यो गा᳘र्हपत्ये ऽग्निः᳘ सो ऽस्या᳘वाङ् प्राणः[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘दन्त᳘राहवनी᳘यं च गा᳘र्हपत्यं च॥
स᳘ आत्मा᳘थ य᳘ आग्नीध्री᳘ये ऽग्निर्य᳘ एॗवाय᳘मन्त᳘रात्म᳘न्प्राॗणः सो ऽस्य स᳘ प्रतिॗष्ठैॗवास्य गा᳘र्हपत्यो᳘ ऽथ यो गा᳘र्हपत्ये ऽग्निःॗ सो ऽस्या᳘वाङ् प्राणः᳟॥

मूलम् - विस्वरम्

अथ यदन्तरा ऽऽहवनीयं च गार्हपत्यं च- स आत्मा । अथ य आग्नीध्रीये ऽग्निः- य एवायमन्तरात्मन् प्राणः- सो ऽस्य सः । प्रतिष्ठैवास्य गार्हपत्यः । अथ यो गार्हपत्ये ऽग्निः- सो ऽस्यावाङ् प्राणः ॥ १४ ॥

सायणः

प्रकारान्तरेणापि तस्याधियाज्ञिकाध्यात्मिकरूपतामेव प्रतिपादयति- अथ यदन्तरेति । आहवनीयगार्हपत्ययोः अन्तरालदेश इति ‘यत्’, ‘स आत्मा’ शरीरम् । ‘आग्नीध्रीये’ तदादौ धिष्ण्ये ‘यो ऽग्निः’ निहितः । प्रदर्शनार्थमाग्नीध्रीयग्रहणम्; उत्तरत्र “अन्तरिक्षं धिष्ण्याः” (श. प. ७ । १ । २ । २३)- इति बहुवचनोपदेशात् । यो ऽयम् अन्तरात्मनि ‘प्राणः’ पञ्चवृत्त्यात्मकः, ‘सः’ सर्वधिष्ण्यस्थ एव ‘अस्य’ पञ्चावृत्तिकः प्राण इत्यर्थः । गार्हपत्यो ऽस्य ‘प्रतिष्ठा’ पादौ । यश्च तत्रत्यः ‘अग्निः’ सो ऽस्य’ अवाचीनः ‘प्राणः’; पश्चाद्वर्तित्वात् ॥ १४ ॥

Eggeling
  1. And what space there is between the Āhavanīya and Gārhapatya, that is the body (trunk); and the fire on the Āgnīdhrīya is to him that vital air inside the body. The Gārhapatya is his foundation; and the fire on the Gārhapatya is his downward vital air.

१५

विश्वास-प्रस्तुतिः

(स्त) तᳫँ᳭ है᳘के त्रिचि᳘तं चिन्वन्ति॥
त्र᳘यो वा᳘ ऽइमे᳘ ऽवाञ्चः प्राणा ऽइ᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्त्येकविᳫँ᳭शसम्प᳘दम᳘थो ऽअनुष्टुप्संप᳘दम᳘थो बृहतीसम्प᳘दं[[!!]] ये त᳘था कुर्वन्त्ये᳘क᳘ᳫँ᳘ ह्ये᳘वैत᳘द्रूपं यो᳘निरेव प्र᳘जातिरेव य᳘देते᳘ ऽवाञ्चः प्राणा यद्धि मू᳘त्रं करो᳘ति यत्पु᳘रीषं᳘ प्रैव त᳘ज्जायते॥

मूलम् - श्रीधरादि

(स्त) तᳫँ᳭ है᳘के त्रिचि᳘तं चिन्वन्ति॥
त्र᳘यो वा᳘ ऽइमे᳘ ऽवाञ्चः प्राणा ऽइ᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्त्येकविᳫँ᳭शसम्प᳘दम᳘थो ऽअनुष्टुप्संप᳘दम᳘थो बृहतीसम्प᳘दं[[!!]] ये त᳘था कुर्वन्त्ये᳘क᳘ᳫँ᳘ ह्ये᳘वैत᳘द्रूपं यो᳘निरेव प्र᳘जातिरेव य᳘देते᳘ ऽवाञ्चः प्राणा यद्धि मू᳘त्रं करो᳘ति यत्पु᳘रीषं᳘ प्रैव त᳘ज्जायते॥

मूलम् - Weber

तᳫं है᳘के त्रिचि᳘तं चिन्वन्ति॥
त्र᳘यो वा᳘ इमे᳘ वाञ्चः प्राणा इ᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्त्येकविंशसम्प᳘दम᳘थो अनुष्टुप्सम्प᳘दम᳘थो बृहतीसम्पदं᳘ ये त᳘था कुर्वन्त्ये᳘कᳫं ह्येॗवैत᳘द्रूपं यो᳘निरेव प्र᳘जातिरेव य᳘देते᳘ ऽवाञ्चः प्राणा यद्धि मू᳘त्रं करो᳘ति यत्पु᳘रीषम् प्रैव त᳘ज्जायते॥

मूलम् - विस्वरम्

तं हैके त्रिचितं चिन्वन्ति । त्रयो वा ऽइमे ऽवाञ्चः प्राणा इति । न तथा कुर्यात् । अति ते रेचयन्ति- एकविंशसम्पदम्, अथो ऽअनुष्टुप्सम्पदम्, अथो बृहतीसम्पदम्- ये तथा कुर्वन्ति । एकं ह्येवैतद्रूपम्- योनिरेव, प्रजातिरेव । यदेते ऽवाञ्चः प्राणाः । यद्धि मूत्रं करोति, यत्पुरीषम्- प्रैव तज्जायते ॥ १५ ॥

सायणः

त्रिचितिको गार्हपत्यश्चेतव्य इत्येकीयमतमुपन्यस्यति- तँ हैक इति । ‘एके’ शाखिनः तं प्रकृतं गार्हपत्यं ‘त्रिचितम्,’ उपर्युपरि चितित्रयात्मकं ‘चिन्वन्ति’ । तिसृभिश्चितिभिश्चितस्त्रिचितस्तं तथाविधम् । एवं चिन्वतामभिप्रायमाह- त्रयो वा इम इति । प्रजननमूत्रपुरीषसर्गावृत्तिभेदेन त्रित्वम्, ततश्च तिसृभिश्चितिभिस्त्रीण्येव प्राणायतनानि कल्पितानि भविष्यन्तीत्याशयः । वक्ष्यमाणसम्पत्तित्रयातिरेकात्मकदोषाधानेन तमेतं पक्षं निराचष्टे- न तथेति । ये शाखिनः तथा त्रिचितचयनं कुर्वन्ति, ‘ते’ ‘एकविंशसम्पदं’ “ता उभय्य एकविंशतिः सम्पद्यन्ते”- (श. प. ६ । १ । १ । ३४) इत्यादिनोक्ताम् एकविंशतेरिष्टकानां सम्पदम् ‘अतिरेचयन्ति’ अतिरिक्तां कुर्वन्ति । त्रिचितिके हि बहुतरा इष्टकाः स्युः; तथा, आनुष्टुभेषु “अथातः सम्पदेवैकविंशतिरिष्टकाः”- (१६ कं०) इत्यादिना वक्ष्यमाणायास्त्रिविधाया अपि सम्पदम्, तथा “सेषा बृहत्येव”- (२२ कं०) इत्यादिना वक्ष्यमाणाया बृहत्याः सम्पदमपि अतिरेचयन्तीत्यनुषङ्गः ॥

“त्रयो वा इमे ऽवाञ्चः प्राणाः”- इति यदुक्तम्, तदप्यङ्गीकृत्य निराकरोति- एकं ह्येवेत्यादिना । एतस्य प्राणस्य रूपम् ‘एतद्रूपम्’ ‘एकम्’ एव खलु, ‘यदेते ऽवाञ्चः प्राणाः’ प्रजननमूत्रपुरीषसर्गवृत्तिभेदेन त्रयो ऽपि । किं पुनस्तदित्याह- योनिरेवेति । ‘योनिः’ स्थानं कारणम् । मूत्रपुरीषरेतसामेकमेवैतद्रूपं कारणमनादृत्यापि कर्मविवक्षया आह- प्रजातिरेवेति । मूत्रपुरीषसर्गात्मना प्रजातेरेकत्वमित्यर्थः । तदेवोपपादयति- यद्धीति । ‘यन्मूत्रं करोति;’ ‘यत्’ च ‘पुरीषं’ करोति; ‘तत् जायत एव’ इति प्रजातिरूपेण त्रयाणामप्येकत्वं सिद्धमेवेत्यर्थः ॥ १५ ॥

Eggeling
  1. Now some build it (the Gārhapatya) in three layers, saying, ‘There are here three downward vital airs.’ Let him not do so: they who do so do what is excessive,–one amounting to twenty-one, one amounting to the Anushṭubh, and one amounting to the Br̥hatī; for this (altar) is of one single form–a

womb. And as to those downward vital airs, they are indeed a bringing forth, for even the urine and faeces he voids are ‘brought forth.’

१६

विश्वास-प्रस्तुतिः

(ते ऽथा᳘) अथा᳘तः सम्प᳘देव[[!!]]॥
(वै᳘) ए᳘कविᳫँ᳭शतिरि᳘ष्टका न᳘व य᳘जूᳫँ᳭षि त᳘त्त्रिᳫँ᳭शत्सा᳘दनं च सू᳘ददोहाश्च तद्द्वा᳘त्रिᳫँ᳭शद्द्वा᳘त्रिᳫँ᳭शदक्षरा ऽनुष्टुप्सै᳘षा ऽनुष्टुप्[[!!]]॥

मूलम् - श्रीधरादि

(ते ऽथा᳘) अथा᳘तः सम्प᳘देव[[!!]]॥
(वै᳘) ए᳘कविᳫँ᳭शतिरि᳘ष्टका न᳘व य᳘जूᳫँ᳭षि त᳘त्त्रिᳫँ᳭शत्सा᳘दनं च सू᳘ददोहाश्च तद्द्वा᳘त्रिᳫँ᳭शद्द्वा᳘त्रिᳫँ᳭शदक्षरा ऽनुष्टुप्सै᳘षा ऽनुष्टुप्[[!!]]॥

मूलम् - Weber

अथा᳘तः सम्प᳘देव᳟॥
ए᳘कविंशतिरि᳘ष्टका न᳘व य᳘जूंषि त᳘त्त्रिंशत्सा᳘दनं च सू᳘ददोहाश्च तद्द्वा᳘त्रिंतद्द्वा᳘त्रिंशदक्षरानुष्टुॗप्सैॗषानुष्टु᳘प्॥

मूलम् - विस्वरम्

अथातः सम्पदेव । एकविंशतिरिष्टकाः, नव यजूंषि- तत् त्रिंशत् । सादनं च, सूददोहाश्च- तद् द्वात्रिंशद् । द्वात्रिंशदक्षरा ऽनुष्टुप् । सैषा ऽनुष्टुप् ॥ १६ ॥

सायणः

पूर्वमुपक्षिप्तामनुष्टुब्बृहत्योः सम्पदमाह- अथातः सम्पदेवेत्यादिना । ‘वक्ष्यते’- इति शेषः । “अयँ सो अग्निः”- इत्यादिभिर्मन्त्रैरुपहिता अष्टौ यजुष्मत्यः, लोकम्पृणास्त्रयोदशेति ‘एकविंशतिरिष्टकाः’ । नव यजूँषीति । अष्टानामर्द्धबृहतीप्रभृतीनां यजुष्मतीनामष्टौ “अयं सो ऽअग्निः” इत्यादीनि (वा० सं० १२ । ४७-५३), लोकम्पृणानामेकं “लोकं पृण" इति (वा० सं० १२ । ५४), एवं नव । ‘तत्’ तत्र ‘त्रिंशत्’ संख्या संपद्यते । ‘सादनञ्च’ यजुः “तया देवतया” इति (वा० सं० १२ । ५३), सूददोहाश्च “ता अस्य” इति (वा० सं० १२ । ५५) । ‘तत्’ तेन ‘द्वात्रिंशत्,’ ‘अनुष्टुप् द्वात्रिंशदक्षरा’ ‘सैषा’ प्रसिद्धा ‘अनुष्टुप्’ गार्हपत्यचितौ सम्पन्ना द्रष्टव्या ॥ १६ ॥

Eggeling
  1. Now then the (mystic) correspondence,–twenty-one bricks, nine formulas 11, that makes thirty;–and the ‘settling’ and Sūdadohas verse, that makes thirty-two,–the anushṭubh verse consists of thirty-two syllables: this is an anushṭubh 12.

१७

विश्वास-प्रस्तुतिः

(बे᳘) ए᳘कविᳫँ᳭शतिर्वेव᳘ परिश्रि᳘तः॥
(तो) य᳘जुर्द्वाविᳫँ᳭शं᳘ व्युदू᳘हनस्य य᳘जुरू᳘षाश्च य᳘जुश्च सि᳘कताश्च य᳘जुश्च पु᳘रीषं च य᳘जुश्च चतु᳘र्भिः संनि᳘वपति व्वि᳘मुञ्चति पञ्चमे᳘न त᳘तस्त्रिभि᳘रियं द्वा᳘त्रिᳫँ᳭शदक्षरा ऽनुष्टुप्सै᳘षा ऽनुष्टुप्[[!!]]॥

मूलम् - श्रीधरादि

(बे᳘) ए᳘कविᳫँ᳭शतिर्वेव᳘ परिश्रि᳘तः॥
(तो) य᳘जुर्द्वाविᳫँ᳭शं᳘ व्युदू᳘हनस्य य᳘जुरू᳘षाश्च य᳘जुश्च सि᳘कताश्च य᳘जुश्च पु᳘रीषं च य᳘जुश्च चतु᳘र्भिः संनि᳘वपति व्वि᳘मुञ्चति पञ्चमे᳘न त᳘तस्त्रिभि᳘रियं द्वा᳘त्रिᳫँ᳭शदक्षरा ऽनुष्टुप्सै᳘षा ऽनुष्टुप्[[!!]]॥

मूलम् - Weber

ए᳘कविंशतिर्वेव᳘ परिष्रि᳘तः॥
य᳘जुर्द्वाविंशं᳘ व्युदू᳘हनस्य य᳘जुरू᳘षाश्च य᳘जुश्च सि᳘कताश्च य᳘जुश्च पु᳘रीषं च य᳘जुश्च चतु᳘र्भिः संनि᳘वपति वि᳘मुञ्चति पञ्चमे᳘न त᳘तस्त्रिभि᳘रियं द्वा᳘त्रिंशदक्षरानुष्टुॗप्सैॗषानुष्टु᳘प्॥

मूलम् - विस्वरम्

एकविंशतिर्वेव परिश्रितः । यजुर्द्वाविंशम् । व्युदूहनस्य यजुः । ऊषाश्च, यजुश्च । सिकताश्च, यजुश्च । पुरीषं च, यजुश्च,- चतुर्भिः संनिवपति, विमुञ्चति पञ्चमेन । ततस्त्रिभिरियं द्वात्रिंशदक्षरा ऽनुष्टुप् । सैषा ऽनुष्टुप् ॥ १७ ॥

सायणः

एवमेकामनुष्टुभं सम्पाद्य अपरे द्वे अनुष्टुभावेव सम्पादयितुमाह- एकविंशतिर्वेवेति । ‘उ,-एव’- इति पदच्छेदः । ‘परिश्रितः’ एकविंशतिसङ्ख्या एव । यदुक्तं सूत्रकृता- “परिश्रिद्भिः परिश्रयति पूर्ववदेकविंशत्या चितः स्थेति”- (का. श्रौ. सू. १७ । ७) इति । यजुर्द्वाविंशमिति । परिश्रितामेवोपधाने विहितम् “चितः स्थ” इति ‘व्युदूहनस्य यजुः’ । “अपेत वीत” इति (वा. सं. १२ । ४५) त्रयोविंशम् । ‘ऊषाः’ तन्निवापे विहितं यजुः “संज्ञानम्” इति (वा. सं. १२ । ४६) च द्वे चतुर्विंशपञ्चविंशे । ‘सिकताश्च’ तन्निवापयजुः “अग्नेर्भस्म” इति (वा. सं. १२ । ४६) च द्वे षड्विंशसप्तविंशे । ‘पुरीषञ्च’ तन्निवापयजुश्च “इन्द्रं विश्वाः”- (वा. सं. १२ । ५६) इति द्वे अष्टाविंशैकोनत्रिंशे । ‘चतुर्भिः’ यजुर्भिः “समितम्” इत्यादिभिः (वा. सं. १२ । ५७-६०) उख्यमग्निं ‘सन्निवपति’, तत्सन्निवापस्त्रिंशः । विमुञ्चति पञ्चमेनेति । “मातेव पुत्रम्”- इति (वा. सं. १२ । ६९) यजुषा विहितः शिक्यादुखाविमोक एकत्रिंशः । अग्निसन्निवापोखाविमोकयोरुपयुक्तसङ्ख्यान्तःपातात् तत्सम्बद्धानि पञ्च यजूंष्यवशिष्टानीत्यभिप्रेत्य तेषां पञ्चानामुपयोगमाह- ततस्त्रिभिरिति । ‘ततः’ तेभ्यः पञ्चभ्यो यजुर्भ्यः ‘त्रिभिः’ यजुर्भिः एकदेशभूतैरेका द्वात्रिंशत्तमी सङ्ख्या । एवं ‘इयम्’ इदानीं प्रतिपादिता ‘द्वात्रिंशदक्षरा ऽनुष्टुप्,’ संपद्यत इति शेषः । ‘सैषा’ प्रसिद्धा द्वितीया ‘अनुष्टुप्’ ॥ १७ ॥

Eggeling
  1. And, again, there are twenty-one enclosing-stones; the formula the twenty-second; the formula for the sweeping, the saline earth and its formula, the sand and its formula, the filling (soil) and its formula; with four (formulas) he pours (the two fires) together; with a fifth he unties (the pan); then this (Nirr̥ti) with three 13,–the anushṭubh verse consists of thirty-two syllables: this then is an anushṭubh.

१८

विश्वास-प्रस्तुतिः

(ब᳘) अ᳘थैते द्वे य᳘जुषी॥
सो ऽअनुष्टु᳘बेव व्वाग्वा᳘ ऽअनुष्टुप्तद्य᳘दिदं᳘ द्वयं᳘ व्वाचो᳘ रूपं दै᳘वं च मानुषं᳘ चोच्चै᳘श्च शनै᳘श्च त᳘देते द्वे[[!!]]॥

मूलम् - श्रीधरादि

(ब᳘) अ᳘थैते द्वे य᳘जुषी॥
सो ऽअनुष्टु᳘बेव व्वाग्वा᳘ ऽअनुष्टुप्तद्य᳘दिदं᳘ द्वयं᳘ व्वाचो᳘ रूपं दै᳘वं च मानुषं᳘ चोच्चै᳘श्च शनै᳘श्च त᳘देते द्वे[[!!]]॥

मूलम् - Weber

अ᳘थैते द्वे य᳘जुषी॥
सो अनुष्टु᳘बेव वाग्वा᳘ अनुष्टुप्तद्य᳘दिदं᳘ द्वयं᳘ वाचो᳘ रूपं दै᳘वं च मानुषं᳘ चोच्चै᳘श्च शनै᳘श्च त᳘देते द्वे᳟॥

मूलम् - विस्वरम्

अथैते द्वे यजुषी- सो ऽअनुष्टुबेव । वाग्वा ऽअनुष्टुप् । तद्यदिदं द्वयं वाचो रूपम्- दैवं च, मानुषं च, उच्चैश्च शनैश्च- तदेते द्वे ॥ १८ ॥

सायणः

अथ वाग्रूपां तृतीयामनुष्टुभमाह- अथैते द्वे इति । पञ्चसु मध्यमानुष्टुभि त्रीण्युपयुक्तानि, ‘अथैते’ ये अन्तिमे ‘द्वे’ ‘यजुषी’ अवशिष्येते, ‘सा’ ‘तु’ पुनर्यजुर्द्वयात्मिका ‘अनुष्टुबेव’ । ननु यजुर्द्वयात्मिकाया अस्याः कथमनुष्टुप्त्वमित्यत आह- वाग्वा इति । ‘वाक्’ खलु ‘अनुष्टुप्’; “वागनुष्टुब्” इत्यग्निरहस्ये श्रुतत्वात् (श. प. १० । १ । ३ । १०) । यजुर्द्वयात्मिकानुष्टुबैकात्म्यप्रतिपादनाय वाचो द्विरूपतामाह- तद्यदिदं द्वयमिति । द्वयमेव द्वयात्मकमित्यर्थः । तदेव द्वेधा विवृणोति- दैवं चेत्यादिना । ‘दैवं’ देवसम्बन्धि वाक्यम् संस्कृतम् । ‘मानुषं’ मनुष्यसम्बन्धि वाक्यञ्च;- ‘उच्चैः’ तारस्वरं वाक्यम्, ‘शनैः’ मन्द्रस्वरं चेति । ‘तदेते द्वे’ इत्युपक्षिप्तनिगमनम् । एवं तृतीया ऽनुष्टुप् सम्पन्ना ॥ १८ ॥

Eggeling
  1. Then there are these two formulas 14, and they are indeed an anushṭubh–the Anushṭubh is speech: thus what twofold form of speech there is, the divine and the human, loud and low, that is those two.

१९

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएता᳘स्ति᳘स्रो ऽनुष्टु᳘भः॥
(श्चि) चित᳘ ऽएष गा᳘र्हपत्यस्तद्य᳘देता ऽअ᳘त्र ति᳘स्रो ऽनुष्टु᳘भः सम्पाद᳘यन्त्य᳘त्र᳘ ह्ये᳘वेमे᳘ तदा स᳘र्वे लोका भ᳘वन्ति त᳘तो ऽन्यतरां द्वा᳘त्रिᳫँ᳭शदक्षरामनुष्टु᳘भमाहवनी᳘यᳫँ᳭ हरन्ति स᳘ ऽआहवनी᳘यः सा द्यौस्तच्छिरो᳘ ऽथे᳘हान्यतरा प᳘रिशिष्यते स गा᳘र्हपत्यः सा᳘ प्रतिष्ठा स᳘ ऽउ ऽअयं᳘ लोकः[[!!]]॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएता᳘स्ति᳘स्रो ऽनुष्टु᳘भः॥
(श्चि) चित᳘ ऽएष गा᳘र्हपत्यस्तद्य᳘देता ऽअ᳘त्र ति᳘स्रो ऽनुष्टु᳘भः सम्पाद᳘यन्त्य᳘त्र᳘ ह्ये᳘वेमे᳘ तदा स᳘र्वे लोका भ᳘वन्ति त᳘तो ऽन्यतरां द्वा᳘त्रिᳫँ᳭शदक्षरामनुष्टु᳘भमाहवनी᳘यᳫँ᳭ हरन्ति स᳘ ऽआहवनी᳘यः सा द्यौस्तच्छिरो᳘ ऽथे᳘हान्यतरा प᳘रिशिष्यते स गा᳘र्हपत्यः सा᳘ प्रतिष्ठा स᳘ ऽउ ऽअयं᳘ लोकः[[!!]]॥

मूलम् - Weber

ता वा᳘ एता᳘स्तिॗस्रो ऽनुष्टु᳘भः॥
चित᳘ एष गा᳘र्हपत्यस्तद्य᳘देता अ᳘त्र तिॗस्रो ऽनुष्टु᳘भः सम्पाद᳘यन्त्य᳘त्रॗ ह्येॗवेमे᳘ तदा स᳘र्वे लोका भ᳘वन्ति त᳘तो ऽन्यतरां द्वा᳘त्रिंशदक्षरामनुष्टु᳘भमाहवनी᳘यᳫं हरन्ति स᳘ आहवनी᳘यः सा द्यौस्तछिरो᳘ ऽथेॗहान्यतरा प᳘रिशिष्यते स गा᳘र्हपत्यः सा᳘ प्रतिष्ठा स᳘ उ अयं᳘ लोकः᳟॥

मूलम् - विस्वरम्

ता वा ऽएतास्तिस्रो ऽनुष्टुभः। चित एष गार्हपत्यः । तद्यदेता अत्र तिस्रो ऽनुष्टुभः सम्पादयन्ति- अत्र ह्येवेमे तदा सर्वे लोका भवन्ति । ततो ऽन्यतरां द्वात्रिंशदक्षरामनुष्टुभमाहवनीयं हरन्ति । स आहवनीयः । सा द्यौः । तच्छिरः । अथेहान्यतरा परिशिष्यते- स गार्हपत्यः । सा प्रतिष्ठा । स उ ऽअयं लोकः ॥ १९ ॥

सायणः

प्रतिपादितानां तिसृणामनुष्टुभामुपयोगं विधत्ते- ता वा एता इति । ‘एषः’ ‘चितः’ चित्या सम्पादितः ‘गार्हपत्यः,’ ‘ताः’ प्रसिद्धाः ‘एतास्तिस्रो ऽनुष्टुभः’ खलु, सम्पादितानुष्टुप्त्रयात्मक इत्यर्थः । अनुष्टुप्त्रयसम्पादनस्य गार्हपत्यचितौ लोकत्रयसम्पादनहेतुतामाह- तद्यदेता इति । ‘अत्र’ गाईपत्यचितौ ‘यत्’ ‘एतास्तिस्रः अनुष्टुभः’ ‘सम्पादयन्ति,’ वेदवादिन इति शेषः । ‘तदा’ आहवनीयचयनात् प्रागेवात्रैव गार्हपत्ये ‘इमे सर्वे लोकाः’ त्रयो ऽपि ‘भवन्ति’ । कारणे कार्यस्यान्तर्गतत्वादुत्तरे ऽग्नयो ऽपि गार्हपत्ये एवान्तर्गताः, पृथिवीलोके चेतरौ लोकावन्तर्गतौ । “सो ऽग्निना पृथिवीं मिथुनँ समभवत् तत आण्डँ समवर्त्तत”- इति तत एवोत्पत्तिश्रुतेः (श. प. ६ । १ । २ । १) । तासामेव अनुष्टुभामुपयोगान्तरमपि विधत्ते- ततो ऽन्यतरामिति । तयोर्द्वात्रिंशदक्षरयोः अनुष्टुभोर्मध्ये ‘अन्यतराम्’ एकाम् ‘द्वात्रिंशदक्षरामनुष्टुभं’ बुद्ध्या विविच्य आहवनीयस्थानं ‘हरन्ति’ अनुसन्धाय हरेयुरित्यर्थः । ‘सा’ चाहृता अनुष्टुप् आहवनीयचितिः, सैव द्युलोकः, तदेव चित्याग्निरूपस्य प्रजापतेः ‘शिरः’ भवति । ‘इह’ अस्मिन् गार्हपत्यस्थाने ‘अन्यतरा’ एका द्वात्रिंशदक्षरा अनुष्टुप् ‘परिशिष्यते,’ ‘सः’ एव ‘गार्हपत्यः’ अग्निरिति चित्याग्निरूपस्य प्रजापतेः ‘सा’ एव ‘प्रतिष्ठा’ पादौ । ‘सः’ एव ‘अयं लोकः’ भूलोको ऽपीत्यर्थः ॥ १९ ॥

Eggeling
  1. The Gārhapatya pile thus is those three

anushṭubh verses. And as to why they make up three anushṭubhs in this (Gārhapatya), it is because all these (three) worlds then come to be (contained) therein. From it they take one of the two (first) anushṭubhs of thirty-two syllables (to be) the Āhavanīya,–that Āhavanīya is that sky, that head (of Prajāpati). Then one of the two (anushṭubhs) is left here (to be) this Gārhapatya, this foundation, this very (terrestrial) world.

२०

विश्वास-प्रस्तुतिः

(को᳘ ऽथ) अ᳘थ ये᳘ ऽएते द्वे य᳘जुषी॥
एतत्तद्य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च त᳘दन्त᳘रिक्षᳫँ᳭ स᳘ ऽआत्मा तद्यत्ते द्वे भ᳘वतस्त᳘स्मादेतत्त᳘नीयो य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च त᳘स्मादेषां᳘ लोका᳘नामन्तरिक्षलोकस्त᳘निष्ठः᳘॥

मूलम् - श्रीधरादि

(को᳘ ऽथ) अ᳘थ ये᳘ ऽएते द्वे य᳘जुषी॥
एतत्तद्य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च त᳘दन्त᳘रिक्षᳫँ᳭ स᳘ ऽआत्मा तद्यत्ते द्वे भ᳘वतस्त᳘स्मादेतत्त᳘नीयो य᳘दन्त᳘रा ऽऽहवनी᳘यं च गा᳘र्हपत्यं च त᳘स्मादेषां᳘ लोका᳘नामन्तरिक्षलोकस्त᳘निष्ठः᳘॥

मूलम् - Weber

अ᳘थ ये᳘ एते द्वे य᳘जुषी॥
एतत्तद्य᳘दन्त᳘राहवनी᳘यं च गा᳘र्हपत्यं च त᳘दन्त᳘रिक्षᳫं स᳘ आत्मा तद्यत्ते द्वे भ᳘वतस्त᳘स्मादेतत्त᳘नीयो य᳘दन्त᳘राहवनी᳘यं च गा᳘र्हपत्यं च त᳘स्मादेषां᳘ लोका᳘नामन्तरिक्षलोकस्त᳘निष्ठः॥

मूलम् - विस्वरम्

अथ ये ऽएते द्वे यजुषी- एतत्तत् । यदन्तरा ऽऽहवनीयं च गार्हपत्यं च । तदन्तरिक्षम् । स आत्मा । तद्यत्ते द्वे भवतः- तस्मादेतत्तनीयो- यदन्तरा ऽऽहवनीयं च गार्हपत्यं च । तस्मादेषां लोकानामन्तरिक्षलोकस्तनिष्ठः ॥ २० ॥

सायणः

द्विसंख्यायोगाद् गौणी या तृतीया अनुष्टुप्, तस्या अन्तरिक्षादिरूपतामाह- अथ ये एते इति । आहवनीयगार्हपत्यचित्योर्मध्ये यदस्ति स्थानमानीध्रीयाख्यम्, एतदेव सा यजुर्द्वयात्मिका अनुष्टुप्, ‘तदेवान्तरिक्षम्’ तृतीयानुष्टुबात्मको ऽयमन्तरिक्षलोक इत्यर्थः । सैव आनुष्टुभस्य चित्याग्निरूपस्य प्रजापतेः ‘आत्मा’ मध्यदेहः । द्वात्रिंशदक्षराभ्यां पूर्वाभ्यामनुष्टुब्भ्यां द्विसंख्यायोगिन्यास्तृतीयस्या अनुष्टुभो ऽल्पीयस्त्वात् तदात्मकतयोक्तानामल्पपरिमाणत्वमाह- तद्यत् ते द्वे भवत इत्यादिना । यस्मात् तृतीया अनुष्टुप् द्विसंख्यायोगिनी, तस्मात् तदात्मकं गार्हपत्याहवनीययोरन्तरालं ‘तनीयः’ तनुतरम्, अल्पपरिमाणमेव भवति । ‘तस्मात्’ एव कारणात् ‘एषां लोकानाम्’ मध्ये ‘अन्तरिक्षलोकः’ ‘तनिष्ठः’ सूक्ष्मतमो भवति ॥ २० ॥

Eggeling
  1. And as to those two formulas, they are that space between the Āhavanīya and the Gārhapatya, that air (-world), that body (of Prajāpati). And because there are two of them (making up one anushṭubh), therefore that space (and hearth) between the Āhavanīya and the Gārhapatya (viz. the Āgnīdhrīya hearth 15) is smaller; and therefore the air-world is the smallest of these worlds.

२१

विश्वास-प्रस्तुतिः

सैषा᳘ त्रेधा व्विहिता व्वा᳘गनुष्टुप्[[!!]]॥
(प्ता᳘) ता᳘मे᳘षो ऽग्निः᳘ प्राणो᳘ भूत्वा ऽनुसं᳘चरति य᳘ ऽआहवनी᳘ये ऽग्निः स᳘ प्रा᳘णः सो ऽसा᳘वादित्यो᳘ ऽथ य᳘ ऽआग्नीध्री᳘ये ऽग्निः स᳘ व्व्यानः स᳘ उ ऽअयं᳘ व्वायु᳘र्यो ऽयं प᳘वते᳘ ऽथ यो गा᳘र्हपत्ये ऽग्निः स᳘ ऽउदानः स᳘ ऽउ ऽअ᳘यं यो ऽय᳘मस्मिल्ँ᳘लो᳘के ऽग्नि᳘रेवंव्वि᳘द्ध वाव स᳘र्व्वां व्वा᳘चᳫँ᳭ स᳘र्वं प्राणᳫँ᳭ स᳘र्वमात्मा᳘नᳫँ᳭ सं᳘स्कुरुते᳘॥

मूलम् - श्रीधरादि

सैषा᳘ त्रेधा व्विहिता व्वा᳘गनुष्टुप्[[!!]]॥
(प्ता᳘) ता᳘मे᳘षो ऽग्निः᳘ प्राणो᳘ भूत्वा ऽनुसं᳘चरति य᳘ ऽआहवनी᳘ये ऽग्निः स᳘ प्रा᳘णः सो ऽसा᳘वादित्यो᳘ ऽथ य᳘ ऽआग्नीध्री᳘ये ऽग्निः स᳘ व्व्यानः स᳘ उ ऽअयं᳘ व्वायु᳘र्यो ऽयं प᳘वते᳘ ऽथ यो गा᳘र्हपत्ये ऽग्निः स᳘ ऽउदानः स᳘ ऽउ ऽअ᳘यं यो ऽय᳘मस्मिल्ँ᳘लो᳘के ऽग्नि᳘रेवंव्वि᳘द्ध वाव स᳘र्व्वां व्वा᳘चᳫँ᳭ स᳘र्वं प्राणᳫँ᳭ स᳘र्वमात्मा᳘नᳫँ᳭ सं᳘स्कुरुते᳘॥

मूलम् - Weber

सैषाॗ त्रेधाविहिता वा᳘गनृष्टु᳘प्॥
ता᳘मेॗषो ऽग्निः᳘ प्राणो᳘ भूॗत्वानुसं᳘चरति य᳘ आहवनी᳘ये ऽग्निः स᳘ प्राॗणः सो ऽसा᳘वादित्यो᳘ ऽथ य᳘ आग्नीध्री᳘ये ऽग्निः स᳘ व्यानः स᳘ उ अयं᳘ वायुॗर्यो ऽयम् प᳘वते᳘ ऽथ यो गा᳘र्हपत्ये ऽग्निः स᳘ उदानः स᳘ उ अॗयं यो ऽय᳘मस्मिं᳘लोॗके ऽग्नि᳘रेवंवि᳘द्ध वाव स᳘र्वां वा᳘चᳫं स᳘र्वम् प्राणᳫं स᳘र्वमात्मा᳘नᳫं स᳘ᳫं᳘स्कुरुते॥

मूलम् - विस्वरम्

सैषा त्रेधा विहिता वागनुष्टुप् । तामेषो ऽग्निः प्राणो भूत्वा ऽनुसञ्चरति । य आहवनीये ऽग्निः- स प्राणः, सो ऽसावादित्यः । अथ य आग्नीध्रीये ऽग्निः- स व्यानः; स उ ऽअयं वायुः- यो ऽयं पवते । अथ यो गार्हपत्ये ऽग्निः- स उदानः । स उ ऽअयं- यो ऽयमस्मिंल्लोके ऽग्निः । एवंविद्ध वाव सर्वां वाचं, सर्वं प्राणं, सर्वमात्मानं संस्कुरुते ॥ २१ ॥

सायणः

सैषा त्रेधा विहितेत्यादि । त्रिप्रकारेण विहिता ‘सैषा अनुष्टुप्’ ‘वाक्’ एव । ‘ताम्’ ‘एषः’ उख्यः ‘अग्निः’ ‘प्राणो भूत्वा अनुसञ्चरति’ आहवनीयगार्हपत्याग्नीध्रीयाख्येषु स्थानेषु क्रमेण व्याप्नोति । तत्तत्स्थानगते ऽग्नौ प्राणोदानव्यानवृत्त्यात्मना सूर्यादिभेदेन तस्य व्याप्तिमाचष्टे- य आहवनीये ऽग्निरिति । ‘आहवनीये’ आहवनीयस्थाने निहितो ‘यः अग्निः,’ ‘सः’ ‘प्राणः’ प्राणात्मकः, ‘सो ऽसावादित्यः’ आदित्यात्मकश्च । ‘आग्नीध्रीये’ निहितस्तु व्यानात्मकः, वाय्वात्मकश्च । ‘गार्हपत्ये’ निहितस्तु उदानात्मकः, पार्थिवाग्निरूपश्च । आहवनीयादीनां द्युलोकादिरूपत्वस्य प्रतिपादितत्वात् ऊर्ध्वमध्याधोदेशसम्बन्धेन प्राणादीनां तत्तदग्न्यात्मकता अवगन्तव्या ॥

प्रतिपादितमर्थं विदुषः फलमाह- एवंविदिति । अग्न्याद्यविष्ठितलोकत्रयाणां प्रजापत्यात्मकत्वम्, गार्हपत्यचितौ सम्पादितास्वनुष्टुप्सु उदीरितरीत्या जानन् कृत्स्नां ‘वाचम्’ कृत्स्नं ‘प्राणम्’ एतैरेव सर्वैः सम्पूर्णम् ‘आत्मानम्’ अग्निशरीरम् ‘संस्कुरुते’ उत्पादयति ॥ २१ ॥

Eggeling
  1. That same Anushṭubh, speech, is threefold. That fire, taking the form of the vital air, goes along with it (speech),–the fire which is on the Āhavanīya (altar) is the out-breathing, and yonder sun; and the fire which is on the Āgnīdhrīya is the through-breathing, and the wind which blows yonder; and the fire which is on the Gārhapatya is the in-breathing, and what fire there is here in this (earth-) world. And verily he who knows this makes up for himself the whole Vāc (speech), the whole vital air, the whole body (of Prajāpati).

२२

विश्वास-प्रस्तुतिः

सैषा᳘ बृह᳘त्येव[[!!]]॥
ये वै द्वे द्वा᳘त्रिᳫँ᳭शतौ द्वा᳘त्रिᳫँ᳭शदेव तद᳘थैते द्वे य᳘जुषी तच्च᳘तुस्त्रिᳫँ᳭शदग्नि᳘रेव᳘ पञ्चत्रिᳫँ᳭शो᳘ नाक्ष᳘राच्छ᳘न्दो᳘ व्येत्ये᳘कस्मान्न द्वा᳘भ्याᳫँ᳭ स᳘ ऽउ᳘ द्व्यक्षरस्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा[[!!]] बृहती᳘ बृहतीं वा᳘ ऽएष सं᳘चितो ऽभिस᳘म्पद्यते यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्य᳘देताम᳘त्र बृहतीं᳘ करो᳘ति त᳘स्मादेष सं᳘चितो बृहती᳘मभिस᳘म्पद्यते॥

मूलम् - श्रीधरादि

सैषा᳘ बृह᳘त्येव[[!!]]॥
ये वै द्वे द्वा᳘त्रिᳫँ᳭शतौ द्वा᳘त्रिᳫँ᳭शदेव तद᳘थैते द्वे य᳘जुषी तच्च᳘तुस्त्रिᳫँ᳭शदग्नि᳘रेव᳘ पञ्चत्रिᳫँ᳭शो᳘ नाक्ष᳘राच्छ᳘न्दो᳘ व्येत्ये᳘कस्मान्न द्वा᳘भ्याᳫँ᳭ स᳘ ऽउ᳘ द्व्यक्षरस्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा[[!!]] बृहती᳘ बृहतीं वा᳘ ऽएष सं᳘चितो ऽभिस᳘म्पद्यते यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्य᳘देताम᳘त्र बृहतीं᳘ करो᳘ति त᳘स्मादेष सं᳘चितो बृहती᳘मभिस᳘म्पद्यते॥

मूलम् - Weber

सैषा᳘ बृहॗत्येव᳟॥
ये वै द्वे द्वा᳘त्रिंशतौ द्वा᳘त्रिंशदेव तद᳘थैते द्वे य᳘जुषी तच्च᳘तुस्त्रिंशदग्नि᳘रेव᳘ पञ्चत्रिंशोॗ नाक्ष᳘राच्छ᳘न्दोॗ व्येत्ये᳘कस्मान्न द्वा᳘भ्याᳫं स᳘ उ द्व्य᳘क्षरस्तत्ष᳘ट्त्रिंशत्ष᳘ट्त्रिंशदक्षरा बृहती᳘ बृहतीं वा᳘ एष सं᳘चितो ऽभिस᳘म्पद्यते यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्य᳘देताम᳘त्र बृहतीं᳘ करो᳘ति तस्मादेष सं᳘चितो बृहती᳘मभिस᳘म्पद्यते॥

मूलम् - विस्वरम्

सैषा बृहत्येव । ये वै द्वे द्वात्रिंशतौ- द्वात्रिंशदेव तत् । अथैते द्वे यजुषी- तच्चतुस्त्रिंशत् । अग्निरेव पञ्चत्रिंशः । नाक्षराच्छन्दो व्येति- एकस्मात्, न द्वाभ्याम् । स उ द्व्यक्षरः । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती । बृहतीं वा ऽएष संचितो ऽभिसम्पद्यते । यादृग्वै योनौ रेतः सिच्यते- तादृग्जायते । तद्यदेतामत्र बृहतीं करोति- तस्मादेष सञ्चितो बृहतीमभिसम्पद्यते ॥ २२ ॥

सायणः

“अथो बृहतीसम्पदम्" इति (श. प. ७ । १ । २ । १५) प्राक् सूचितां सम्पत्तिमाह- सैषेति । ‘सैषा’ गार्हपत्यचितिः ‘बृहत्येव,’ सम्पद्यत इति शेषः । तामेव सम्पत्तिं दर्शयति- ये वा इति । ‘ये’ खलु पूर्वमुक्ते द्वात्रिंशदक्षरे अनुष्टुभौ, तदुभयं मिलित्वा द्वात्रिंशदेवात्र सम्पद्यते । अवशिष्टे ‘द्वे यजुषी,’ ‘अग्निरेव’ ‘पञ्चत्रिंशः’ पञ्चत्रिंशत्सङ्ख्यापूरकः ॥

ननु “षट्त्रिंशदक्षरा बृहती” इति श्रुतेः इतः परमप्येकेन भवितव्यमित्यत आह- नाक्षरादिति । न चैकस्मादक्षरादविद्यमानात् ‘छन्दः’ ‘व्येति’ विगच्छति, अन्यथा भवति । ‘न’ च ‘द्वाभ्याम्’ अक्षराभ्याम् । एकेन द्वाभ्यां वा न्यूनं छन्दो न वैकल्यं प्राप्नोतीत्यर्थः । तथा चैषा पञ्चत्रिंशत्सङ्ख्या ऽपि बृहत्येवेति तत्सम्पत्तिरविरुद्धा । सङ्ख्यापूर्त्तिमपि दर्शयति- स उ द्व्यक्षर इति । यः पञ्चत्रिंशो ऽग्निः स खल्वक्षरद्वयवाच्यः । ततस्ताभ्यामग्निरित्यक्षराभ्यां सह षट्त्रिंशत् सङ्ख्या सम्पद्यते; तथा च षट्त्रिंशदक्षरा बृहती सम्पन्ना । अपि च ‘एषः’ आहवनीयस्थाने ‘सञ्चितः’ अग्निरपि ‘बृहतीमभिसम्पद्यते’ । तत्र गार्हपत्यचितेर्बृहतीसम्पत्तिरेव कारणमित्याह- यादृग्वा इति । ‘योनौ’ गर्भाशये यादृगाकारविशिष्टं ‘रेतः’ ‘सिच्यते’ तादृग्रूप एवोत्पत्तिसमये ‘जायते’ यथैव लोके, ‘तत्’ तथैवात्रापि योनिरूपायां गार्हपत्यचितौ ‘यद्’ यस्मात् ‘एतां बृहतीं करोति;’ ‘तस्मात्’ इत उत्पद्यमानः ‘एषः सञ्चितः’ अयमाहवनीयो ऽग्निरपि ‘बृहतीमभिसम्पद्यते’ । तां सम्पत्तिं यजुष्मतीनां षष्ट्युत्तरत्रिंशतसंख्यया दश बृहत्यः सम्पद्यन्त इति दशमकाण्डे दर्शयिष्यामः ॥ २२ ॥

Eggeling
  1. Then that Br̥hatī (metre),–the two (verses) of thirty-two syllables: that makes thirty-two; then those two formulas: that makes thirty-four; Agni the thirty-fifth;–a metre does not vanish by a syllable (too much or too little), neither by one nor by two 16;–moreover, that (Agni) consists of two syllables: that makes thirty-six. The Br̥hatī consists of thirty-six syllables,–it is the Br̥hatī that that (Āhavanīya) pile thus amounts to; for whatlike the seed which is infused into the womb, suchlike (offspring) is born therefrom: thus in that he makes up that Br̥hatī (metre) in this (Gārhapatya hearth), thereby that (Āhavanīya) fire-altar amounts to the Br̥hatī.

२३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य᳘) य᳘दयं᳘ लोको गा᳘र्हपत्यो ऽन्त᳘रिक्षं धि᳘ष्ण्या द्यौ᳘राहवनी᳘यो ऽन्तरिक्षलोक᳘ ऽउ ऽअस्मा᳘ल्लोकाद᳘नन्तर्हितो᳘ ऽथ क᳘स्माद्गा᳘र्हपत्यं चि᳘त्वा ऽऽहवनी᳘यं चिनोत्य᳘थ धि᳘ष्ण्यानि᳘ति सह᳘ है᳘वेमाव᳘ग्रे लोका᳘वासतुस्त᳘योर्व्वियतोर्यो᳘ ऽन्तरेणाकाश ऽआ᳘सीत्त᳘दन्त᳘रिक्षमभवदी᳘क्षᳫँ᳭ हैतन्ना᳘म त᳘तः पु᳘रा ऽन्तरा वा᳘ ऽइदमी᳘क्षमभूदि᳘ति त᳘स्मादन्त᳘रिक्षं तद्यद्गा᳘र्हपत्यं चि᳘त्वा ऽऽहवनी᳘यं चिनो᳘त्येतौ ह्य᳘ग्रे लोकाव᳘सृज्येताम᳘थ प्रत्ये᳘त्य धि᳘ष्ण्यान्नि᳘वपति क᳘र्मण ऽएवा᳘नन्तरयाया᳘थो ऽअ᳘न्तयोर्वाव᳘ संस्क्रिय᳘माणयोर्म᳘ध्यᳫँ᳭ सं᳘स्क्रियते॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य᳘) य᳘दयं᳘ लोको गा᳘र्हपत्यो ऽन्त᳘रिक्षं धि᳘ष्ण्या द्यौ᳘राहवनी᳘यो ऽन्तरिक्षलोक᳘ ऽउ ऽअस्मा᳘ल्लोकाद᳘नन्तर्हितो᳘ ऽथ क᳘स्माद्गा᳘र्हपत्यं चि᳘त्वा ऽऽहवनी᳘यं चिनोत्य᳘थ धि᳘ष्ण्यानि᳘ति सह᳘ है᳘वेमाव᳘ग्रे लोका᳘वासतुस्त᳘योर्व्वियतोर्यो᳘ ऽन्तरेणाकाश ऽआ᳘सीत्त᳘दन्त᳘रिक्षमभवदी᳘क्षᳫँ᳭ हैतन्ना᳘म त᳘तः पु᳘रा ऽन्तरा वा᳘ ऽइदमी᳘क्षमभूदि᳘ति त᳘स्मादन्त᳘रिक्षं तद्यद्गा᳘र्हपत्यं चि᳘त्वा ऽऽहवनी᳘यं चिनो᳘त्येतौ ह्य᳘ग्रे लोकाव᳘सृज्येताम᳘थ प्रत्ये᳘त्य धि᳘ष्ण्यान्नि᳘वपति क᳘र्मण ऽएवा᳘नन्तरयाया᳘थो ऽअ᳘न्तयोर्वाव᳘ संस्क्रिय᳘माणयोर्म᳘ध्यᳫँ᳭ सं᳘स्क्रियते॥

मूलम् - Weber

त᳘दाहुः॥
य᳘दयं᳘ लोको गा᳘र्हपत्यो ऽन्त᳘रिक्षं धि᳘ष्ण्या द्यौ᳘राहवनी᳘यो ऽन्तरिक्षलोक᳘ उ अस्मा᳘ल्लोकाद᳘नन्तर्हितो᳘ ऽथ क᳘स्माद्गा᳘र्हपत्यं चिॗत्वाहवनी᳘यं चिनोत्य᳘थ धि᳘ष्ण्यानि᳘ति सह᳘ हैॗवेमाव᳘ग्रे लोका᳘वासतुस्त᳘योर्वियतोर्यो᳘ ऽन्तरेणाकाश आ᳘सीत्त᳘दन्त᳘रिक्षमभवदी᳘क्षᳫं हैतन्ना᳘म त᳘तः पुॗरान्तरा वा᳘ इदमी᳘क्षमभूदि᳘ति त᳘स्मादन्त᳘रिक्षं तद्यद्गा᳘र्हपत्यं चिॗत्वाहवनी᳘यं चिनो᳘त्येतौ ह्य᳘ग्रे लोकाव᳘सृज्येताम᳘थ प्रत्ये᳘त्य धि᳘ष्ण्यान्नि᳘वपति क᳘र्मण एवा᳘नन्तरयाया᳘थो अ᳘न्तयोर्वाव᳘ संस्क्रिय᳘माणयोर्म᳘ध्यᳫं स᳘ᳫं᳘स्क्रियते॥

मूलम् - विस्वरम्

तदाहुः- यदयं लोको गार्हपत्यः, अन्तरिक्षं धिष्ण्याः, द्यौराहवनीयः । अन्तरिक्षलोक उ अस्माल्लोकादनन्तर्हितः । अथ कस्माद्गार्हपत्यं चित्वा ऽऽहवनीयं चिनोति, अथ धिष्ण्यानिति । सह हैवेमावग्रे लोकावासतुः । तयोर्वियतोर्यो ऽन्तरेणाकाश आसीत्- तदन्तरिक्षमभवत् । ईक्षं हैतन्नाम ततः पुरा । अन्तरा वा ऽइदमीक्षमभूदिति- तस्मादन्तरिक्षम् । तद् यद्गार्हपत्यं चित्वा ऽऽहवनीयं चिनोति । एतौ ह्यग्रे लोकावसृज्येताम् । अथ प्रत्येत्य धिष्ण्यान्निवपति- कर्मण एवानन्तरायाय । अथो ऽअन्तयोर्वाव संस्क्रियमाणयोर्मध्यं संस्क्रियते ॥ २३ ॥

सायणः

गार्हपत्याग्नीध्रीयाहवनीयानां क्रमेण पृथिव्यन्तरिक्षद्युलोकात्मकत्वात् क्रमेणैव तेषां संस्कारो युक्त इत्याशंक्य व्युत्क्रमानुष्ठानमुपपादयति- तदाहुरित्यादिना । अन्तरिक्षं धिष्ण्या इति । गार्हपत्याहवनीययोरन्तरालवर्तिन आग्नीध्रीयादयो धिष्ण्याः, ते अन्तरिक्षलोकात्मका इत्यर्थः । तत्र गार्हपत्यचयनानन्तर्यम् आहवनीयचितेराक्षिपति- अन्तरिक्षलोक इति । ‘अस्माद् लोकात्’ भूलोकात् । ‘अन्तरिक्षलोकः’ ‘अनन्तर्हितः’ प्रत्यासन्नः । तथा च गार्हपत्यचयनानन्तरं धिष्ण्यनिवपनमकृत्वा ‘अथ’ कस्मात्, हेतोराहवनीयचयनमेव क्रियते । ‘अथ’ अनन्तरमेव ‘धिष्ण्यान्’ चिनोतीत्यनुषज्यते । इत्थमनुष्ठाने कारणं वक्तुमाह- सह हैवेमाविति । ‘अग्रे’ पुरा इमौ भूस्वर्गाख्यौ ‘लोकौ’ ‘सहासतुः’ । ‘तयोः’ ‘वियतोः’ विविधं गच्छतोः वियुज्यमानयोः ‘यः’ मध्ये ‘आकाशः’ अवकाशः ‘आसीत्’ ‘तदन्तरिक्षमभवत्’ । ‘ततः पुरा’ द्यावापृथिव्योर्विगमनात् पूर्वम् ‘ईक्षम्’ इति आकाशस्य ‘नाम’ द्यावापृथिव्योर्विश्लेषे सति ‘अन्तरा’ तयोर्मध्ये खलु ‘इदमीक्षमभूत्’ ‘इति’ हेतौ; यस्मादेवं तस्मादिदमाकाशमन्तरिक्षनामकं संपन्नमित्यर्थः ॥

तद् यद्गार्हपत्यमित्यादि । एवमन्तरिक्षनिष्पत्तेर्लोकद्वयानन्तरभावित्वाद् गार्हपत्यचयनानन्तरमन्तरिक्षसंस्तुतान् धिष्ण्यानतिक्रम्य ‘आहवनीयं’ ‘चिनोति’ चयनेन संस्करोति । ‘यत्’ यस्मात् तौ भूस्वर्लोकौ ‘अग्रे’ खलु सह ‘असृज्येतां’ सृष्टावभवताम्, ‘अथ’ आहवनीयचयनानन्तरं ‘प्रत्येत्य’ प्रतिनिवृत्य सदसि ‘धिष्ण्यान्’ ‘निवपति’ निर्मिमीते । अत्र प्रयोजनमाह- कर्मण एवेति । तत्र धिष्ण्यानां निवपनं कर्मणः क्रियाकलापस्य ‘अनन्तरायाय’ अविच्छेदायैव भवति । न त्वनेन किञ्चित् संस्कर्त्तव्यमस्तीत्याह- अथो इति । अपि च उभयोः ‘अन्तयोः’ आहवनीयगार्हपत्ययोश्चयनेन ‘संस्क्रियमाणयोः’ ‘मध्यम्’ अपि स्थलं ‘संस्क्रियते’ तेनैव संस्कारेण संस्कृतमेव भवति; तस्माद् गार्हपत्यचयनानन्तरमाहवनीयस्यैव चयनम्, पश्चाद्धिष्ण्यानां निवपनमिति क्रमः सिद्ध इति भावः ॥ २३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (७–१–२) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये सप्तमकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ ७-१ ॥

Eggeling
  1. As to this they say, ‘As the Gārhapatya is this (terrestrial) world, the Dhishṇya hearths the air, and the Āhavanīya the sky, and the air-world is not separated from this (earth-) world, why then, after building the Gārhapatya, does he build the Āhavanīya, and (only) then the Dhishṇyas?’ Well, at first these two worlds (heaven and earth) were together; and when they parted asunder, the space which was between (antar) them became that air (antariksha); for ‘īksha 17’ indeed it was theretofore, and ‘Now this “īksha” has come between (antarā),’ they said, whence ‘antariksha’ (air). And as to why, after building the Gārhapatya, he builds the Āhavanīya, it is because these two worlds were created first. Then, going back, he throws up the Dhishṇya hearths, just to prevent discontinuity of

the sacred work; and thus indeed the middle is completed, after the two ends have been completed.


  1. 312:1 Literally, fallen asunder, i.e. broken to pieces, or disjointed (‘opened,’ Delbrück, Synt. F. V, p. 385). ↩︎

  2. अत्र हि “तकारो ले लम्” इत्यस्मादग्रिमेण “नश्चानुनासिकम्” इत्यनेन प्रातिशाख्यसूत्रेण नकारस्यानुनासिको लकारः एवं सर्वत्र बोध्यम् । ↩︎

  3. “संवत्सरव्याप्त्यभावे दोषमाह” इति क्व. पा. ↩︎

  4. 314:1 Or, in whatever part of this (year) from henceforward he should not do so. ↩︎

  5. 314:2 It is very doubtful whether. this second clause of the oratio directa is really meant to belong to Vāmakakshāyaṇa’s argument, or whether it is the author’s own, in which case it has to be taken with what follows. ‘Lest he should . . . pieces, he (first) restores him,’ &c. That is, he is not to place him (Prajāpati) in an upright position, until he has been completely restored. The particular form of the participle qualifying Prajāpati (vichidyamāna) might seem to favour the former alternative; see, however, paragraph 23, antayoḥ saṁskriyamāṇayor, ‘after the two ends have been perfected.’ ↩︎

  6. 314:3 In this and the following paragraphs the ordinary position of subject and predicate seems often reversed: in the present case one would expect–that air is to him the space between the two fires. ↩︎

  7. 315:1 Viz. the sacrificial ground thus becomes identical with the universe, i.e. with Prajāpati. ↩︎

  8. 315:2 That is, it is (like) a bird. The word ‘prāṇa’ might almost be rendered here by ’the living being.’ ↩︎

  9. 315:3 In the text this is reversed, the head is the eye, the right wing the right ear, the left wing the left ear, the central body the vital air, which can scarcely be the construction intended by the author. ↩︎

  10. 315:4 Or, with the mouth. In VIII, 5, 4, 1; X, 5, 2, 15, ‘vāc’ is identified with the tongue. ↩︎

  11. 316:1 Viz. XII, 47-54 (XII, 53, consisting of two formulas). ↩︎

  12. 316:2 That is to say, these thirty-two items form, as it were, an Anushṭubh verse consisting of thirty-two syllables. ↩︎

  13. 316:3 See VII, 2, 1, 1 seq. ↩︎

  14. 316:4 I do not see what other formulas can be intended here except those addressed to the enclosing stones, concluding with the sādana,’ or ‘settling’ formula, viz. Vāj. S. XII, 53; see above, VII, 1, 1, 30; though these do not exactly yield thirty-two syllables, but thirty-four (see, however, paragraph 22). Our available MSS. of the commentary are unfortunately defective at this place.–On the artificial manipulation of making up imaginary metres by the mere number of syllables, irrespective of their real prosodic value, see Professor Weber, Ind. Stud., VIII, p. 23 seq. ↩︎

  15. 317:1 Or, the Dhishṇya hearths (see paragraph 23), which are more properly situated between the Gārhapatya and the Āhavanīya fireplaces. See the plan of the sacrificial ground in part ii; where, however, the Āhavanīya of the Prācīnavaṁśa (hall), or the so-called śālādvārya (hall-door fire), would represent the Gārhapatya for the Āhavanīya of the Mahāvedi. ↩︎

  16. 318:1 The same latitude in the computation of the number of syllables constituting a metre is conceded, Ait. Br. I, 6. ↩︎

  17. 318:2 ? That is, ‘visible,’ or, ‘capable of being seen through.’ ↩︎