०१

विश्वास-प्रस्तुतिः

गा᳘र्हपत्यं चेष्य᳘न्पलाशशाख᳘या व्यु᳘दूहति᳘॥
(त्य᳘) अ᳘वस्यति हैतद्यद्गा᳘र्हपत्यं चिनो᳘ति य᳘ ऽउ वै के᳘ चाग्निचि᳘तो ऽस्या᳘मेव ते᳘ ऽवसितास्तद्य᳘द्व्युदू᳘हत्य᳘वसितानेव तद् व्यु᳘दूहति नेद᳘वसितानध्यवस्यानीति[[!!]]॥

मूलम् - श्रीधरादि

गा᳘र्हपत्यं चेष्य᳘न्पलाशशाख᳘या व्यु᳘दूहति᳘॥
(त्य᳘) अ᳘वस्यति हैतद्यद्गा᳘र्हपत्यं चिनो᳘ति य᳘ ऽउ वै के᳘ चाग्निचि᳘तो ऽस्या᳘मेव ते᳘ ऽवसितास्तद्य᳘द्व्युदू᳘हत्य᳘वसितानेव तद् व्यु᳘दूहति नेद᳘वसितानध्यवस्यानीति[[!!]]॥

मूलम् - Weber

गा᳘र्हपत्यं चेष्य᳘न्पलाशशाख᳘या व्यु᳘दूहति॥
अ᳘वस्यति हैतद्यद्गा᳘र्हपत्यं चिनो᳘ति य᳘ उ वै के᳘ चाग्निचि᳘तो ऽस्या᳘मेव ते᳘ ऽवसितास्तद्य᳘द्व्युदू᳘हत्य᳘वसितानेव तद्व्यु᳘दूहति नेद᳘वसितानध्यवस्यानी᳘ति॥

मूलम् - विस्वरम्

गार्हपत्याग्निचयनम् ।

गार्हपत्यं चेष्यन्पलाशशाखया व्युदूहति । अवस्यति हैतद्- यद्गार्हपत्यं चिनोति । य उ वै के चाग्निचितः- अस्यामेव ते ऽवसिताः । तद् यद्व्युदूहति । अवसितानेव तद्व्युदूहति- नेदवसितानध्यवस्यानीति ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

उखासम्भरणाद्यं तु भस्मावहरणान्तकम् । चित्यस्याग्नेर्बाह्यमङ्गं प्रोक्तं षष्ठे ऽथ सप्तमे ॥ २ ॥

इष्टकाचयनात्पूर्वमग्निस्थानस्य संस्क्रिया । कर्तव्या या समासेन सेह विस्पष्टमीर्यते ॥ ३ ॥

अग्निं चिनुते- इत्यनारभ्य विहितस्य अग्निचयनस्य (तै. सं. ५ । ५ । २ । ३ अनुवाकौ) “अथातो ऽग्निमग्निष्टोमेनानुयजति”- इत्यादिवाक्येन (मी. न्या २ । ३ । १०) सोमयागशेषत्वावगतेः साग्निकस्य सम्बन्धिनां गार्हपत्यादिधिष्ण्यानां सर्वेषामेव चयनम्; संस्कार्यत्वात् । तत्र धिष्ण्येषु गार्हपत्याख्यस्य धिष्ण्यस्य प्राथम्यात् तत्र प्रथमं चयनं विधित्सुस्ततः प्राच्यान् भूसंस्कारान् विधास्यन् तत्स्थानस्य समन्त्रकं व्युदूहनं विधत्ते- गार्हपत्यं चेष्यन्निति । गृहपतिना संयुक्तो ऽग्निर्गार्हपत्यः; “गृहपतिना संयुक्ते ञ्यः”- (पा. सू. ४ । ४ । ९०) इति पाणिनिस्मृतेः । इह तु तस्याग्नेः आधारभूतो भूप्रदेशः आधाराधेययोरभेदोपचारेण आधेयवाचिना शब्देनोच्यते संस्कर्तव्यत्वप्रतिपत्तये । अयमर्थः । यस्मादेतत् स्थानं गार्हपत्यस्याग्नेः अधिकरणम्, अतश्च चयनेन संस्कर्तव्यमित्यर्थः । संस्कारश्चात्र प्राधान्यद्योतिन्या द्वितीयया “व्रीहीन् प्रोक्षति”- इत्यादाविव प्रतिपाद्यते । चेष्यन्निति हेतौ शतृप्रत्ययः । “लक्षणहेत्वोः क्रियायाः” (पा. सू. ३ । २ । १२६) इति । यतो ऽस्मिन् स्थाने चयनं कर्तव्यम्, अतो हेतोरेतत् स्थानं पलाशवृक्षस्य शाखया “अपेत”- इति वक्ष्यमाणेन मन्त्रेण ‘व्युदूहति’ लोष्टतृणादिकसम्मार्जनेनापसारयतीत्यर्थः 1

व्युदूहनस्य प्रयोजनमाह- अवस्यति हैतदिति । गार्हपत्यस्याग्नेर्यत् स्थानं चयने संस्करोति मया ऽत्र सोमेन यष्टव्यमिति, ‘एतत्’ एतेन व्युदूहनेन ‘अवस्यति ह’ निश्चिनोत्येव । यद्वा, गार्हपत्यस्य यच्चयनं तदेव देवयजनाध्यवसानम् । तथा च ‘ये केचित्’ ‘अग्निचितः’ अग्निं चितवन्तो यजमानाः ‘ते’ ‘अस्यामेव’ पृथिव्यामेव ‘अवसिताः’ अवसानं प्राप्तास्तत्रैव प्रवर्त्तन्ते, ‘तत्’ तथा सति पलाशशाखया चयनस्थानं ‘व्युदूवहति’- इति यत् ‘तत्’ तेन ‘अवसितानेव’ तत्र स्थितान् प्राक्तनान् यजमानान् ‘व्युदूहति’ विविधं निरस्यति ॥ व्युदूहनं कुर्वतो यजमानस्याभिप्रायमाह- नेदिति । अग्निचयनमनुष्ठाय तत्रैव ‘अवसितान्’ यजमानान् अत्रैव ‘नेत् अध्यवस्यानि’ तेषामुपरि अध्यवसानमवस्थानं नैव करवाणि ‘इति’ अनेनाभिप्रायेणेत्यर्थः ॥ १ ॥

Eggeling
  1. Being about to build the Gārhapatya (fire-place), he sweeps (its site) with a Palāśa (butea frondosa) branch. For when he builds the Gārhapatya 2 he settles on that place; and whatsoever builders of fire-altars (there have been), they are indeed settled on this earth; and when he sweeps (that place) he thereby sweeps away those settled (there before hire), thinking, ‘Lest I should settle on those already settled (here).’

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘पेत᳘ व्वीत व्वि᳘ च सर्पता᳘त ऽइ᳘ति॥
(त्य᳘) अ᳘प चै᳘वैत व्वि᳘ चेत᳘ व्यु च सर्पता᳘त ऽइ᳘त्येतद्य᳘ ऽउदरसर्पि᳘णस्ता᳘नेत᳘दाह ये᳘ ऽत्र स्थ᳘ पुराण ये᳘ च नू᳘तना ऽइ᳘ति ये᳘ ऽत्र स्थ᳘ सनात᳘ना ये᳘ चाधुनात᳘ना ऽइ᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘पेत᳘ व्वीत व्वि᳘ च सर्पता᳘त ऽइ᳘ति॥
(त्य᳘) अ᳘प चै᳘वैत व्वि᳘ चेत᳘ व्यु च सर्पता᳘त ऽइ᳘त्येतद्य᳘ ऽउदरसर्पि᳘णस्ता᳘नेत᳘दाह ये᳘ ऽत्र स्थ᳘ पुराण ये᳘ च नू᳘तना ऽइ᳘ति ये᳘ ऽत्र स्थ᳘ सनात᳘ना ये᳘ चाधुनात᳘ना ऽइ᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘पेतॗ वीत वि᳘ च सर्पता᳘त इ᳘ति॥
अ᳘प चैॗवैत वि᳘ चेतॗ व्यु च सर्पता᳘त इ᳘त्येतद्य᳘ उदरसर्पि᳘णस्ता᳘नेत᳘दाह ये᳘ ऽत्र स्थ᳘ पुराण ये᳘ च नू᳘तना इ᳘ति ये᳘ ऽत्र स्थ᳘ सनात᳘ना ये᳘ चाधुनात᳘ना इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“अपेत वीत वि च सर्पतातः”- इति । अप चैवेत, वि चेत, व्यु च सर्पतात इत्येतत् । य उदरसर्पिणस्तानेतदाह । “ये ऽत्र स्थ पुराणाः, ये च नूतनाः"- इति । ये ऽत्र स्थ सनातनाः । ये चाधुनातना इत्येतत् ॥ २ ॥

सायणः

तस्मिन् व्युदूहने प्रतीकग्रहणेन मन्त्रं विधत्ते- अपेतेति । अत्र चापेत वीतेति वाक्यद्वयस्यार्थमाह- अप चैवेत वि चेतेति । हे यज्ञविरोधिनो जनाः ! अस्मात् स्थानात् ‘अपेत’ अपगच्छत, अपगमनसमये ऽपि ‘वीत’ विविधं गच्छत । अनयोरपगमनविगमनयोः समुच्चयो विवक्षित इत्यमुमर्थं द्योतयितुं चकारयोः प्रयोगः । ‘वि च सर्पतातः’- इत्येतदनूद्य व्याचष्टे- व्यु चेति । ‘ये तु’ प्राणिनः उदरेणैव सर्पन्ति गच्छन्ति, तान् सर्पसरीसृपादीन् प्राणिनः प्रति अस्मात् स्थानात् अपगमनमनेन प्रार्थ्यते इत्यर्थः । तथा च मन्त्रभागस्यायमर्थः- हे उदरेणैव सर्पणशीलाः पन्नगादयः ! ‘अतः’ अस्मादग्निचयनस्थानाद् ‘विसर्पत’ विविधं गच्छतेति ।

द्वितीयपादमनूद्य व्याचष्टे- ये ऽत्र स्थेति । पुरा अतीतकाले भवाः ‘पुराणाः’ । “सायञ्चिरम्प्राह्णेप्रगे ऽव्ययेभ्यः”- (पा. सू. ४ । ३ । २३) इति पुराशब्दादव्ययात् ट्युप्रत्ययः । “पुराणप्रोक्तेषु”- (पा. सू. ४ । ३ । १०५) इति निपातनात् तुडभावः, तथा च सनातना इत्यर्थो भवति । नूतना इत्यस्यार्थमाह- अधुनातना इति । ‘अधुना’ अस्मिन् वर्तमानकाले भवाः । तदयं मन्त्रभागस्यार्थः- अत्र स्थाने ये पुराणाः सन्तः स्थ, ये च नूतना अधुनातनाः स्थ, ते सर्वे यूयमपेतेति ॥ २ ॥

Eggeling
  1. [He sweeps, with Vāj. S. XII, 45] ‘Off with you! away with you! crawl away from here 3!’–that is, ‘Go off, go away, and crawl away from here!’ he says this to those that crawl on their belly;–‘Ye that are here of old and of late!’ that is, ‘both ye who were here of yore, and ye of the present day.’

०३

विश्वास-प्रस्तुतिः

(द᳘) अ᳘दाद्य᳘मो ऽवसा᳘नं पृथिव्या ऽइ᳘ति॥
यमो᳘ ह वा᳘ ऽअस्या ऽअवसा᳘नस्येष्टे स᳘ ऽएवास्मा ऽअस्या᳘मवसा᳘नं[[!!]] ददाति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘दाद्य᳘मो ऽवसा᳘नं पृथिव्या ऽइ᳘ति॥
यमो᳘ ह वा᳘ ऽअस्या ऽअवसा᳘नस्येष्टे स᳘ ऽएवास्मा ऽअस्या᳘मवसा᳘नं[[!!]] ददाति॥

मूलम् - Weber

अ᳘दाद्यॗमो ऽवसा᳘नम् पृथिव्या इ᳘ति॥
यमो᳘ ह वा᳘ अस्या अवसा᳘नस्येष्टे स᳘ एॗवास्मा अस्या᳘मवसा᳘नं ददाति॥

मूलम् - विस्वरम्

“अदाद्यमो ऽवसानं पृथिव्याः”- इति । यमो ह वा अस्या अवसानस्येष्टे । स एवास्मा अस्यामवसानं ददाति ॥ ३ ॥

सायणः

तृतीयपादमनूद्य व्याचष्टे- अदाद्यम इति । अवस्यति अस्मिन्निति ‘अवसानं’ स्थानम्, ‘पृथिव्याः’ सम्बन्धि यत्, तत् ‘यमः’ अस्मभ्यम् दत्तवान् । यमो ह वा इत्यादि । ‘अस्याः’ पृथिव्याः सम्बन्धिनः ‘अवसानस्य’ स्थानस्य ‘यमः’ खलु ‘ईष्टे’ अतः ‘स एव’ ‘अस्मै’ यजमानाय ‘अस्याः’ पृथिव्याः ‘अवसानं’ स्थानं ‘ददाति’ ॥ ३ ॥

Eggeling
  1. ‘Yama hath given the settlement on earth (to this Sacrificer);’–for Yama indeed rules over the settling on this earth, and it is he who grants to this (Sacrificer) a settlement on this earth.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘क्रन्निमं᳘ पित᳘रो लोक᳘मस्मा ऽइ᳘ति॥
क्षत्रं वै᳘ यमो व्वि᳘शः पित᳘रो य᳘स्मा ऽउ वै᳘ क्षत्रि᳘यो व्विशा᳘ संव्विदा᳘नो ऽस्या᳘मवसा᳘नं द᳘दाति तत्सु᳘दत्तं त᳘थो हास्मै क्षत्रं᳘ यमो᳘ व्विशा᳘ पितृ᳘भिः संव्विदा᳘नो ऽस्या᳘मवसा᳘नं ददाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘क्रन्निमं᳘ पित᳘रो लोक᳘मस्मा ऽइ᳘ति॥
क्षत्रं वै᳘ यमो व्वि᳘शः पित᳘रो य᳘स्मा ऽउ वै᳘ क्षत्रि᳘यो व्विशा᳘ संव्विदा᳘नो ऽस्या᳘मवसा᳘नं द᳘दाति तत्सु᳘दत्तं त᳘थो हास्मै क्षत्रं᳘ यमो᳘ व्विशा᳘ पितृ᳘भिः संव्विदा᳘नो ऽस्या᳘मवसा᳘नं ददाति॥

मूलम् - Weber

अ᳘क्रन्निम᳘म् पित᳘रो लोक᳘मस्मा इ᳘ति॥
क्षत्रं वै᳘ यमो वि᳘शः पित᳘रो य᳘स्मा उ वै᳘ क्षत्रि᳘यो विशा᳘ संविदाॗनो ऽस्या᳘मवसा᳘नं द᳘दाति तत्सु᳘दत्तं त᳘थो हास्मै क्षत्रं᳘ यमो᳘ विशा᳘ पितृ᳘भिः संविदाॗनो ऽस्यामवसा᳘नं ददाति॥

मूलम् - विस्वरम्

“अक्रन्निमं पितरो लोकमस्मै”- (वा. सं. १२ । ४५) इति । क्षत्रं वै यमो, विशः पितरः । यस्मा उ वै क्षत्रियो विशा संविदानो ऽस्यामवसानं ददाति । तत्सुदत्तम् । तथो हास्मै क्षत्रं यमो विशा पितृभिः संविदानो ऽस्यामवसानं ददाति ॥ ४ ॥

सायणः

चतुर्थपादमनूद्य व्याचष्टे- अक्रन्निति । ‘पितरः’ पितृदेवताः ‘अस्मै’ यजमानाय अग्निचयनार्थम् ‘इमं लोकं’ स्थानम् ‘अक्रन्’ अकृषत । क्षत्रं वा इत्यादि । क्षत्रियजातिर्हि यमः, पितरस्तु तस्य ‘विशः’ प्रजाः । “यमः पितृणाँ राजा” इति हि श्रुतिः (तै. सं. ४ । १ । ८ । ४; ऐ० ब्रा० ८ । २ । ३ । १) । यस्मा उ वा इति । लोके हि ‘क्षत्रियः’ राजा ‘विशा’ स्वकीयया प्रजया ‘संविदानः’ सञ्जानानः, ऐकमत्यं प्राप्तः सन् ‘अस्यां’ पृथिव्यां ‘यस्मै’ पुरुषाय ‘अवसानं’ स्थानं ‘ददाति,’ तस्य ‘तत्’ ‘सुदत्तं’ शोभनं दत्तं भवति । यथा ऽयं दृष्टान्तः, तथैव खलु ‘अस्मै’ यजमानाय ‘क्षत्रं’ क्षत्रियः यमो ऽपि पितृरूपया स्वकीयया ‘विशा’ सञ्जाननः सन् ‘अस्यां’ पृथिव्याम् ‘अवसानं’ स्थानं ‘ददाति’ ॥ ४ ॥

Eggeling
  1. ‘The Fathers have prepared this place for him!’ for Yama is the Kshatra (nobility, or ruling power), and the Fathers (deceased ancestors) are the clansmen; and to whomsoever the chief (kshatriya), with the approval of the clan, grants a settlement, that (settlement) is properly given: and in like manner does Yama, the ruling power, with the consent of the Fathers, the clan, now grant to this (Sacrificer) a settlement on this earth.

०५

विश्वास-प्रस्तुतिः

पलाशशाख᳘या व्यु᳘दूहति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैव तद᳘वसितान्व्यु᳘दूहति म᳘न्त्रेण ब्र᳘ह्म वै म᳘न्त्रो ब्र᳘ह्मणैव तद᳘वसितान्व्यु᳘दूहति तामु᳘दीचीमु᳘दस्यति॥ (शतम् ३९०० ॥)

मूलम् - श्रीधरादि

पलाशशाख᳘या व्यु᳘दूहति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैव तद᳘वसितान्व्यु᳘दूहति म᳘न्त्रेण ब्र᳘ह्म वै म᳘न्त्रो ब्र᳘ह्मणैव तद᳘वसितान्व्यु᳘दूहति तामु᳘दीचीमु᳘दस्यति॥ (शतम् ३९०० ॥)

मूलम् - Weber

पलाशशाख᳘या व्यु᳘दूहति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैव तद᳘वसितान्व्यु᳘दूहति म᳘न्त्रेण ब्र᳘ह्म वै म᳘न्त्रो ब्र᳘ह्मणैव तद᳘वसितान्व्यु᳘दूहति तामु᳘दीचीमु᳘दस्यति॥

मूलम् - विस्वरम्

पलाशशाखया व्युदूहति । ब्रह्म वै पलाशः, ब्रह्मणैव तदवसितान् व्युदूहति- मन्त्रेण । ब्रह्म वै मन्त्रः । ब्रह्मणैव तदवसितान् व्युदूहति । तामुदीचीमुदस्यति ॥ ५ ॥

सायणः

तस्मिन् व्युदूहने पलाशशाखायाः करणत्वं यद् विहितम् तदनूद्य स्तौति- पलाशशाखयेति । वृक्षेषु मध्ये पलाशवृक्षो ‘ब्रह्म’ ब्राह्मणजातिः । यद्वा सोमाहरणसमये भूमौ पतितस्य पर्णस्य पलाशवृक्षरूपेणोत्पत्तेः (श. प. १ । ७ । १ । १) गायत्रीसम्बन्धात् पलाशवृक्षो गायत्रीमन्त्रात्मकः । तथाच तेनैव ‘ब्रह्मणा’ ‘तत्’ तत्र ‘अवसितान्’ अवसाय स्थितान् जनान् अस्मात् स्थानात् ‘व्युदूहति’ उच्चाटयति । मन्त्रकरणकत्वमनूद्य स्तौति- मन्त्रेणेति । ब्रह्म वा इति । यद् ब्रह्म विवक्ति हि मन्त्रः, तथा च मन्त्रेण क्रियमाणं व्युदूहनं ब्रह्मणैव कृतं भवतीत्यर्थः ।

तस्याः पलाशशाखाया निरसनं विधत्ते- तामुदीचीमिति 4 । ‘उदीचीम्’ उदगग्राम्, उदीचीं दिशं वा प्रति ‘ताम्’ पलाशशाखाम् ‘उदस्यति’ उत्क्षिपति, परित्यजतीत्यर्थः ॥ ५ ॥

Eggeling
  1. With a palāśa branch he sweeps; for the Palāśa tree is the Brahman 5: it is by the Brahman he thus sweeps away those already settled;–with a prayer (he does so), for the prayer is the Brahman: it is by the Brahman he thus sweeps away those already settled. He throws it (the branch) out towards the north 6.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अथो᳘षान्नि᳘वपति॥
(त्य) अयं वै᳘ लोको गा᳘र्हपत्यः पश᳘व ऽऊ᳘षा ऽअस्मिंस्त᳘ल्लोके᳘ पशू᳘न्दधाति त᳘स्मादि᳘मे ऽस्मिं᳘ल्लोके᳘ पश᳘वः॥

मूलम् - श्रीधरादि

(त्य᳘) अथो᳘षान्नि᳘वपति॥
(त्य) अयं वै᳘ लोको गा᳘र्हपत्यः पश᳘व ऽऊ᳘षा ऽअस्मिंस्त᳘ल्लोके᳘ पशू᳘न्दधाति त᳘स्मादि᳘मे ऽस्मिं᳘ल्लोके᳘ पश᳘वः॥

मूलम् - Weber

अथो᳘षान्नि᳘वपति॥
अयं वै᳘ लोको गा᳘र्हपत्यः पश᳘व ऊ᳘षा अस्मिंस्त᳘ल्लोके᳘ पशू᳘न्दधाति त᳘स्मादिॗमे ऽस्मिं᳘लोके᳘ पश᳘वः॥

मूलम् - विस्वरम्

अथोषान्निवपति । अयं वै लोको गार्हपत्यः, पशव ऊषाः । अस्मिंस्तल्लोके पशून्दधाति । तस्मादिमे ऽस्मिंल्लोके पशवः ॥ ६ ॥

सायणः

सम्मार्जनानन्तरमूषाणां निवपनं विधत्ते- अथोषानिति (का. श्रौ. सू. १७ । ४) । क्षारमृत्तिका ऊषाः । पृथिव्याः पशुसमृद्धिहेतुत्वेनैतत् प्रशंसति- अयं वै लोक इति । ऊषरदेशस्य पशुभिरुपजीव्यत्वादूषाणां पशुत्वव्यपदेश इति । तस्मादिम इति । यस्मादूषाणां निवपनेन पशवो ऽस्मिन् लोके स्थापिताः, तस्मादेव कारणात् इदानीमपि ‘इमे’ ‘पशवः’ गवाद्याः ‘अस्मिन् लोके’ समृद्धा उपलभ्यन्ते ॥ ६ ॥

Eggeling
  1. He then scatters saline soil (over the hearth-site); for the Gārhapatya is this world, and salt means cattle: he thus bestows cattle on this world,–hence those cattle here in this world.

०७

विश्वास-प्रस्तुतिः

(वो) य᳘द्वेवो᳘षान्निव᳘पति॥
प्रजा᳘पतिः प्रजा᳘ ऽअसृजत ता ना᳘नोल्बा ऽअसृजत ता न स᳘मजानत᳘ सो ऽकामयत सं᳘जानीरन्नि᳘ति ताः᳘ समानो᳘ल्बा ऽअकरोत्ता᳘सामू᳘षानु᳘ल्बमकरोत्ताः स᳘मजानत त᳘स्माद᳘प्येत᳘र्हि समानो᳘ल्बाः स᳘मेव᳘ जानते देवैः᳘ समानो᳘ल्बो ऽसानी᳘त्यु वै᳘ यजते यो य᳘जते तद्यदू᳘षान्निव᳘पति देवै᳘रेव त᳘त्समानो᳘ल्बो भवति॥

मूलम् - श्रीधरादि

(वो) य᳘द्वेवो᳘षान्निव᳘पति॥
प्रजा᳘पतिः प्रजा᳘ ऽअसृजत ता ना᳘नोल्बा ऽअसृजत ता न स᳘मजानत᳘ सो ऽकामयत सं᳘जानीरन्नि᳘ति ताः᳘ समानो᳘ल्बा ऽअकरोत्ता᳘सामू᳘षानु᳘ल्बमकरोत्ताः स᳘मजानत त᳘स्माद᳘प्येत᳘र्हि समानो᳘ल्बाः स᳘मेव᳘ जानते देवैः᳘ समानो᳘ल्बो ऽसानी᳘त्यु वै᳘ यजते यो य᳘जते तद्यदू᳘षान्निव᳘पति देवै᳘रेव त᳘त्समानो᳘ल्बो भवति॥

मूलम् - Weber

य᳘द्वेवो᳘षान्निव᳘पति॥
प्रजा᳘पतिः प्रजा᳘ असृजता ता ना᳘नोल्बा असृजत ता न स᳘मजानतॗ सो ऽकामयत सं᳘जानीरन्नि᳘ति ताः᳘ समानो᳘ल्बा अकरोत्ता᳘सामू᳘षानु᳘ल्बमकरोत्ताः स᳘मजानत त᳘स्माद᳘प्येत᳘र्हि समानो᳘ल्बाः स᳘मेव᳘ जानते देवैः᳘ समानो᳘ल्बो ऽसानी᳘त्यु वै᳘ यजते यो य᳘जते तद्यदू᳘षान्निव᳘पति देवै᳘रेव त᳘त्समानो᳘ल्बो भवति॥

मूलम् - विस्वरम्

यद्वेवोषान्निवपति । प्रजापतिः प्रजा असृजत । ता नानोल्बा असृजत । ता न समजानत । सो ऽकामयत- संजानीरन्निति । ताः समानोल्बा अकरोत् । तासामूषानुल्बमकरोत् । ताः समजानत । तस्मादप्येतर्हि समानोल्बाः समेव जानते । देवैः समानोल्बो ऽसानीत्यु वै यजते यो यजते । तद् यदूषान्निवपति- देवैरेव तत्समानोल्बो भवति ॥ ७ ॥

सायणः

ऊषनिवपनं प्रकारान्तरेण स्तोतुमनुवदति- यद्वेवेति । ऊषाणामुल्बरूपत्वमाख्यायिकया प्रतिपादयन् संज्ञानहेतुतामाह- प्रजापतिः प्रजा इति । ता नानोल्बा इति । नानाविधं परस्परं विभिन्नमुल्बं गर्भवेष्टनं यासां तास्तथोक्ताः, ततो भिन्नजातीयत्वात् ‘ताः’ प्रजाः परस्परं ‘न समजानत’ समानज्ञाना नाभवन् । ‘स’ च प्रजापतिः ‘अकामयत’ इमाः प्रजाः परस्परं ‘सञ्जानीरन्निति’ एवं कामयित्वा भिन्नोल्बजनितत्वं दोषमालोच्य ‘ताः’ प्रजाः ‘समानोल्बाः’ समानमेकमेवोल्बं यासां तथाविधाः ‘अकरोत्’ । किं तत् समानमुल्बमिति, तदाह- तासामूषानिति । उत्पद्यमानानां प्रजानामुल्बत्वेनोषान् कृतवानित्यर्थः । तथा चैकोल्बजनितत्वेन समानजातीयाः ‘ताः’ सर्वाः प्रजाः ‘समजानत’ ऐकमत्यं प्राप्ता आसन् । यस्मादेवं पुरावृत्तम्, ‘तस्माद्’ इदानीमपि समानोल्बानामेकमातृकाणां प्रजानां सम्मतिर्दृश्यत इत्यर्थः । देवैरित्यादि । देवैः सह समानजन्मा भवानीत्यनेनाभिप्रायेण हि ‘यः’ यजमानो ‘यजते’ ‘तत्’ तथा सति उल्बसंस्तुतानामूषाणां निवपनेन ‘देवैः’ ‘समानोल्बः’ समानजन्मा ‘भवति’ इत्यर्थः ॥ ७ ॥

Eggeling
  1. And again why he scatters saline soil. Prajāpati created creatures; he created them with different kinds of amnions: they did not agree together. He desired, ‘May they agree together!’ He made them to be of the same (kind of) amnion: hence even to this day, being of equal amnions, they agree together. And he who offers, offers thinking, ‘May I be (born) with the same (kind of) amnion as the gods!’ and when he scatters saline salt (in the hearth-site) he thereby becomes of equal amnion with the gods.

०८

विश्वास-प्रस्तुतिः

संज्ञा᳘नमसी᳘ति॥
सम᳘जानत᳘ ह्येते᳘न कामध᳘रणमि᳘ति पश᳘वो वा ऽऊ᳘षाः पश᳘वः कामध᳘रणं म᳘यि ते कामध᳘रणं भूयादि᳘ति म᳘यि ते पश᳘वो भूयासुरि᳘त्येतत्तैः स᳘र्व्वं गा᳘र्हपत्यं प्र᳘च्छादयति यो᳘निर्वै गा᳘र्हपत्या चि᳘तिरु᳘ल्बमू᳘षाः स᳘र्व्वां तद्यो᳘निमु᳘ल्बेन प्र᳘च्छादयति᳘॥

मूलम् - श्रीधरादि

संज्ञा᳘नमसी᳘ति॥
सम᳘जानत᳘ ह्येते᳘न कामध᳘रणमि᳘ति पश᳘वो वा ऽऊ᳘षाः पश᳘वः कामध᳘रणं म᳘यि ते कामध᳘रणं भूयादि᳘ति म᳘यि ते पश᳘वो भूयासुरि᳘त्येतत्तैः स᳘र्व्वं गा᳘र्हपत्यं प्र᳘च्छादयति यो᳘निर्वै गा᳘र्हपत्या चि᳘तिरु᳘ल्बमू᳘षाः स᳘र्व्वां तद्यो᳘निमु᳘ल्बेन प्र᳘च्छादयति᳘॥

मूलम् - Weber

सज्ञा᳘नमसी᳘ति॥
सम᳘जानतॗ ह्येते᳘न कामध᳘रणमि᳘ति पश᳘वो वा ऊ᳘षाः कामध᳘रणम् म᳘यि ते कामध᳘रणम् भूयादि᳘ति म᳘यि ते पश᳘वो भूयासुरि᳘त्येतत्तैः स᳘र्वं गा᳘र्हपत्यम् प्र᳘छादयति यो᳘निर्वै गा᳘र्हपत्या चि᳘तिरु᳘ल्बमू᳘षाः स᳘र्वां तद्यो᳘निमु᳘ल्बेन प्र᳘छादयति॥

मूलम् - विस्वरम्

“संज्ञानमसि”- इति । समजानत ह्येतेन । “कामधरणम्”- इति । पशवो वा ऊषाः, पशवः कामधरणम् । “मयि ते कामधरणं भूयात्”- इति । मयि ते पशवो भूयासुरित्येतत् । तैः सर्वं गार्हपत्यं प्रच्छादयति । योनिर्वै गार्हपत्या चितिः, उल्बमूषाः । सर्वां तद् योनिमुल्बेन प्रच्छादयति ॥ ८ ॥

सायणः

तस्मिन् निवपने मन्त्रं विधाय तदीयपदानि व्याचष्टे- संज्ञानमिति 7 । करणे ल्युडित्याह (पा. सू. ३ । ३ । ११७) समजानतेति । ‘हि’ यस्माद् विप्रतिपन्नाः प्रजाः ‘एतेन’ ऊषरूपेणोल्बेन ‘समजानत’ समानज्ञाना अभवन्, तस्मात् हे ऊष ! त्वम् “संज्ञानमसि” इति मन्त्रेण प्रतिपाद्य इत्यर्थः । पशवः कामधरणमिति । कामाः ध्रियन्ते धीयन्ते अनेन गोरूपत्वेन स्तुतेनोषेणेति व्युत्पत्त्या मन्त्रगतकामधरणशब्देन पशुविषयस्य कामस्य धरणं प्रतिपाद्यत इत्यर्थः । मयि त इत्यादि । हे ऊष ! यतः त्वं कामधरणमसि, अतः ‘ते’ तव सम्बन्धि पशुरूपं ‘कामधरणं’ कामप्रापणम् ‘मयि भूयात्’ इति । मन्त्रवाक्यार्थस्य पर्यवसानमाह- मयि ते पशव इति । ‘ते’ तव सम्बन्धिनः पशवः ‘मयि भूयासुः’ इत्येतत् अत्र प्रतिपाद्यमित्यर्थः । न्युप्तैरूषैः प्रच्छादनं विधत्ते- तैरिति 8 । गार्हपत्याग्निस्थानम् । तत्प्रच्छादनं प्रशंसति- योनिर्वा इति । गार्हपत्याग्निसम्बन्धिनी या ‘चितिः’, सा ‘योनिर्वै’ सर्वोत्पत्तिकारणम् । गार्हपत्याग्नेराहवनीयाग्न्युत्पत्तिहेतुत्वात् तदीयचयनस्याप्युत्पत्तिहेतुत्वाद् योनित्वेन स्तुतिः। उल्बमूषा इति । “तासामूषानुल्बमकरोत्”- इत्याम्नातम् (७ । १ । १ । १७ कं) । ‘तत्’ तेन ऊषैः प्रच्छादनेन ‘सर्वां’ कृत्स्नामेव ‘योनिम्’ आहवनीयाद्युत्पत्तये ‘उल्बेन’ प्रच्छादितवान् भवतीत्यर्थः ॥ ८ ॥

Eggeling
  1. [He does so, with Vāj. S. XII, 46] ‘Concord thou art!’ for thereby they agreed together 9;–‘fulfilment of desire;’ for salt is cattle, and fulfilment of desire means cattle;–‘In me may there be the fulfilment of thy desire!’ that is, ‘May there be on me cattle for thee!’–He covers with it the whole (circular) Gārhapatya; for the Gārhapatya altar is the womb, and the saline soil is the amnion: he thus covers the whole womb with the amnion.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सि᳘कता नि᳘वपति॥
(त्य) अग्ने᳘रेत᳘द्वैश्वानर᳘स्य भ᳘स्म यत्सि᳘कता ऽअग्नि᳘मु वा᳘ ऽएतं᳘ व्वैश्वानरं᳘ चेष्य᳘न्भवति न वा᳘ ऽअग्निः स्वं भस्मा᳘तिदहत्य᳘नतिदाहाय॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सि᳘कता नि᳘वपति॥
(त्य) अग्ने᳘रेत᳘द्वैश्वानर᳘स्य भ᳘स्म यत्सि᳘कता ऽअग्नि᳘मु वा᳘ ऽएतं᳘ व्वैश्वानरं᳘ चेष्य᳘न्भवति न वा᳘ ऽअग्निः स्वं भस्मा᳘तिदहत्य᳘नतिदाहाय॥

मूलम् - Weber

अ᳘थ सि᳘कता नि᳘वपति॥
अग्ने᳘रेत᳘द्वैश्वानर᳘स्य भ᳘स्म यत्सि᳘कता अग्नि᳘मु वा᳘ एतं᳘ वैश्वानरं᳘ चेष्य᳘न्भवति न वा᳘ अग्निः स्वम् भस्मा᳘तिदहत्य᳘नतिदाहाय॥

मूलम् - विस्वरम्

अथ सिकता निवपति । अग्नेरेतद्वैश्वानरस्य भस्म- यत् सिकताः । अग्निमु वा एतं वैश्वानरं चेष्यन् भवति । न वा अग्निः स्वं भस्मातिदहति । अनतिदाहाय ॥ ९ ॥

सायणः

सिकतानां निवपनं विधत्ते- अथेति । ऊषवत् ‘सिकताः’ वालुकाः निक्षिपति 7 । पृथिव्याः दाहराहित्यहेतुत्वेनैतत् स्तौति- अग्नेरेतदिति । ‘वैश्वानरस्य’ विश्वनरहितस्य ‘अग्नेः’ ‘एतद्’ भस्म ‘यत् सिकताः’ । ‘वैश्वानरं’ विश्वेषु नरेषु अवस्थितं हिरण्यगर्भात्मकम् ‘अग्निं’ खल्वसौ यजमानः ‘चेष्यन् भवति’ । यथा च चीयमानो वैश्वानरो ऽग्निः पृथिवीं न दहेत् तथा च सिकतानां निवपनं पृथिव्या ‘अनतिदाहाय’ अतिक्रम्य अतिशयितो वा दाहो ऽतिदाह - तद्राहित्याय भवति । न खल्वग्निः स्वकीयं भस्मातीत्य दहति, किन्तु तेनैव च्छन्नः सन् दाहसमर्थो भवतीत्यर्थः ॥ ९ ॥

Eggeling
  1. He then scatters sand to keep (the saline soil, or amnion) from being scorched 10;–for sand is nothing else than the ashes of Agni Vaiśvānara, and him, Agni Vaiśvānara, he is indeed about to build up; and Agni does not scorch his own self.

१०

विश्वास-प्रस्तुतिः

य᳘द्वेव सि᳘कता निव᳘पति॥
(त्य) अग्ने᳘रेत᳘द्वैश्वानर᳘स्य रे᳘तो यत्सि᳘कता ऽअग्नि᳘मु वा᳘ ऽएतं᳘ व्वैश्वानरं᳘ चेष्य᳘न्भवति न वा᳘ ऽअरेत᳘स्कात्किं᳘चन व्वि᳘क्रियते ऽस्माद्रे᳘तसो᳘ ऽधि वि᳘क्रियाता ऽइ᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वेव सि᳘कता निव᳘पति॥
(त्य) अग्ने᳘रेत᳘द्वैश्वानर᳘स्य रे᳘तो यत्सि᳘कता ऽअग्नि᳘मु वा᳘ ऽएतं᳘ व्वैश्वानरं᳘ चेष्य᳘न्भवति न वा᳘ ऽअरेत᳘स्कात्किं᳘चन व्वि᳘क्रियते ऽस्माद्रे᳘तसो᳘ ऽधि वि᳘क्रियाता ऽइ᳘ति॥

मूलम् - Weber

य᳘द्वेव सि᳘कता निव᳘पति॥
अग्ने᳘रेत᳘द्वैश्वानर᳘स्य रे᳘तो यत्सि᳘कता अग्नि᳘मु वा᳘ एतं᳘ वैश्वानरं᳘ चेष्य᳘न्भवति न वा᳘ अरेत᳘स्कात्किं᳘ चन वि᳘क्रियते ऽस्माद्रे᳘तसो᳘ ऽधि वि᳘क्रियाता इ᳘ति॥

मूलम् - विस्वरम्

यद्वेव सिकता निवपति । अग्नेरेतद्वैश्वानरस्य रेतो- यत्सिकताः । अग्निमु वा एतं वैश्वानरं चेष्यन् भवति । न वा अरेतस्कात्किञ्चन विक्रियते । अस्माद्रेतसो ऽधि विक्रियाता इति ॥ १० ॥

सायणः

एतदेवानूद्य प्रकारान्तरेण स्तौति- यद्वेवेति । सिकता इति यत् एतद् ‘अग्नेः’ वैश्वानरस्य ‘रेतः’ वर्णसादृश्यात् । न वा अरेतस्कादिति । ‘न’ खलु ‘अरेतस्कात्’ निर्वीर्यात् पुरुषात् किमपीषदपि ‘विक्रियते’ उत्पद्यते, अतश्चेष्यमाणो ऽग्निः ‘रेतसः’ ‘अधि’ उपरि चितः सन् ‘विक्रियातै’ नानाविधफलसाधनयागहेतुत्वेन विकृतो भवेत् ‘इति’ अनेनाभिप्रायेण सिकतानिवपनं कर्तव्यमित्यर्थः ॥ १० ॥

Eggeling
  1. And again why he scatters sand,–sand is nothing else than the seed of Agni Vaiśvānara 11, and him, Agni Vaiśvānara, he is about to build up; but nothing is fashioned from out of the seedless: ‘May he (Agni) be fashioned from out of this seed!’ so he thinks.

११

विश्वास-प्रस्तुतिः

(त्य) अग्नेर्भ᳘स्मास्यग्नेः पु᳘रीषमसी᳘ति॥
यात᳘याम वा᳘ ऽअग्नेर्भस्मा᳘यातयाम्न्यः सि᳘कता ऽअ᳘यातयाममे᳘वैनदेत᳘त्करोति ता᳘भिः स᳘र्वं गा᳘र्हपत्यं प्र᳘च्छादयति यो᳘निर्वै गा᳘र्हपत्या चि᳘ती रे᳘तः सि᳘कताः स᳘र्वस्यां तद्यो᳘नौ रे᳘तो दधाति᳘॥

मूलम् - श्रीधरादि

(त्य) अग्नेर्भ᳘स्मास्यग्नेः पु᳘रीषमसी᳘ति॥
यात᳘याम वा᳘ ऽअग्नेर्भस्मा᳘यातयाम्न्यः सि᳘कता ऽअ᳘यातयाममे᳘वैनदेत᳘त्करोति ता᳘भिः स᳘र्वं गा᳘र्हपत्यं प्र᳘च्छादयति यो᳘निर्वै गा᳘र्हपत्या चि᳘ती रे᳘तः सि᳘कताः स᳘र्वस्यां तद्यो᳘नौ रे᳘तो दधाति᳘॥

मूलम् - Weber

अग्नेर्भ᳘स्मास्यग्नेः पु᳘रीषमसी᳘ति॥
यात᳘याम वा᳘ अग्नेर्भस्मा᳘यातयाम्न्यः सि᳘कता अ᳘यातयाममेॗवैनदेत᳘त्करोति ता᳘भिः स᳘र्वं गा᳘र्हपत्यम् प्र᳘छादयति यो᳘निर्वै गा᳘र्हपत्या चि᳘ती रे᳘तः सि᳘कताः स᳘र्वस्यां तद्यो᳘नौ रे᳘तो दधाति॥

मूलम् - विस्वरम्

“अग्नेर्भस्मास्यग्नेः पुरीषमसि”- इति । यातयाम वा अग्नेर्भस्म । अयातयाम्न्यः सिकताः । अयातयाममेवैनदेतत्करोति । ताभिः सर्वं गार्हपत्यं प्रच्छादयति । योनिर्वै गार्हपत्या चितिः, रेतः सिकताः । सर्वस्यां तद्योनौ रेतो दधाति ॥ ११ ॥

सायणः

तत्र मन्त्रं विदधाति- अग्नेर्भस्मेति । यातयाम वा इति । ‘अग्नेर्भस्म’ ‘यातयाम’ गतसारम्, रेतोरूपास्तु ‘सिकताः’ ‘अयातयाम्न्यः’ अगतसाराः; तथा चैतेन सिकतानिवपनेन, ‘अयातयाम’ अगतरसम्, सारवदेव ‘एतत्’ चयनं ‘करोति’ इत्यर्थः ॥

सिकताभिः प्रच्छादनं विधत्ते- ताभिरिति । यतो रेतःसंस्तुताः सिकताः, तस्मात् तासां गार्हपत्यायतने सर्वत्र प्रक्षेपेण सर्वस्यामेव योनौ प्रजोत्पत्तिहेतुभूतं ‘रेत एव दधाति’ सिक्तवान् भवति ॥ ११ ॥

Eggeling
  1. [He scatters it, with Vāj. S. XII, 46] ‘Agni’s ashes thou art! Agni’s soil thou art!’ for Agni’s ashes are useless, and the sand is not useless: he thus makes it (the Gārhapatya hearth) to be useful. He covers with it the whole Gārhapatya; for the

Gārhapatya altar is the womb, and the sand is seed: he thus fills the whole womb with seed.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं परिश्रि᳘द्भिः प᳘रिश्रयति॥
यो᳘निर्व्वै᳘ परिश्रि᳘त ऽइद᳘मे᳘वैतद्रे᳘तः सिक्तं यो᳘न्या प᳘रिगृह्णाति त᳘स्माद्यो᳘न्या रे᳘तः सिक्तं प᳘रिगृह्यते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं परिश्रि᳘द्भिः प᳘रिश्रयति॥
यो᳘निर्व्वै᳘ परिश्रि᳘त ऽइद᳘मे᳘वैतद्रे᳘तः सिक्तं यो᳘न्या प᳘रिगृह्णाति त᳘स्माद्यो᳘न्या रे᳘तः सिक्तं प᳘रिगृह्यते॥

मूलम् - Weber

अ᳘थैनम् परिश्रि᳘द्भिः प᳘रिश्रयति॥
यो᳘निर्वै᳘ परिश्रि᳘त इद᳘मेॗवैतद्रे᳘तः सिक्तं यो᳘न्या प᳘रिगृह्णाति त᳘स्माद्यो᳘न्या रे᳘तः सिक्तम् प᳘रिगृह्यते॥

मूलम् - विस्वरम्

अथैनं परिश्रिद्भिः परिश्रयति । योनिर्वै परिश्रितः । इदमेवैतद्रेतः सिक्तं योन्या परिगृह्णाति । तस्माद्योन्या रेतः सिक्तं परिगृह्यते ॥ १२ ॥

सायणः

शर्कराभिः परिश्रयणं विधत्ते- अथैनमिति 12 । ‘एनं’ गार्हपत्यप्रदेशं परिश्रयन्त्येभिरिति ‘परिश्रितः’ शर्करापरपर्यायाः सूक्ष्मपाषाणाः, तै ‘परिश्रयति’ परितो वेष्टयति । तत् परिश्रयणं प्रशंसति- योनिर्वा इति । योनिस्थानीयाः । ‘इदमेव’ सिकतारूपं ‘सिक्तं रेतः’ ‘एतत्’ एतया परिश्रिद्रूपया ‘योन्या’ ‘परिगृह्णाति’ परितो धारयति, यथा न विपद्यते । यस्मादेवं वैदिके कर्मणि, ‘तस्मात्’ एव कारणात् लोके योषित्सु गर्भाशये ‘सिक्तं रेतः’ ‘योन्या परिगृह्यते’ परितो धार्यते ॥

एतदुक्तं भवति,- गार्हपत्यचितिसकाशादेतदुत्पाद्यते आहवनीयचितिः; तदुत्पत्तावत्र न्युप्ता ऊषा उल्बं, सिकता रेतः, परिश्रितो योनिः; अतः परिश्रयणान्तैः संस्कारैराहवनीयचितिः गर्भावस्थां प्रतिपद्यत इति ॥ १२ ॥

Eggeling
  1. He then encloses it with enclosing-stones; for the enclosing-stones are the womb: he thus encloses the seed here cast in the womb; and hence the seed which is cast is enclosed in the womb.

१३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनं परिश्रिद्भिः परिश्र᳘यति॥
(त्य) अयं वै᳘ लोको गा᳘र्हपत्य ऽआ᳘पः परिश्रि᳘त ऽइमं तं᳘ लोक᳘मद्भिः प᳘रितनोति समुद्रे᳘ण हैनं तत्प᳘रितनोति सर्व्व᳘तस्त᳘स्मादिमं᳘ लोक᳘ᳫँ᳘ सर्व्व᳘तः समुद्रः प᳘र्येति दक्षिणावृत्त᳘स्मादिमं᳘ लोकं᳘ दक्षिणावृ᳘त्समुद्रः प᳘र्येति खाते᳘न त᳘स्मादिमं᳘ लोकं᳘ खाते᳘न समुद्रः प᳘र्येति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनं परिश्रिद्भिः परिश्र᳘यति॥
(त्य) अयं वै᳘ लोको गा᳘र्हपत्य ऽआ᳘पः परिश्रि᳘त ऽइमं तं᳘ लोक᳘मद्भिः प᳘रितनोति समुद्रे᳘ण हैनं तत्प᳘रितनोति सर्व्व᳘तस्त᳘स्मादिमं᳘ लोक᳘ᳫँ᳘ सर्व्व᳘तः समुद्रः प᳘र्येति दक्षिणावृत्त᳘स्मादिमं᳘ लोकं᳘ दक्षिणावृ᳘त्समुद्रः प᳘र्येति खाते᳘न त᳘स्मादिमं᳘ लोकं᳘ खाते᳘न समुद्रः प᳘र्येति॥

मूलम् - Weber

य᳘द्वेॗवैनम् परिश्रिद्भिः परिश्र᳘यति॥
अयं वै᳘ लोको गा᳘र्हपत्य आ᳘पः परिश्रि᳘त इमं तं᳘ लोक᳘मद्भिः प᳘रितनोति समुद्रे᳘ण हैनं तत्प᳘रितनोति सर्व᳘तस्त᳘स्मादिमं᳘ लोक᳘ᳫं᳘ सर्व᳘तः समुद्रः प᳘र्येति दक्षिणावृत्त᳘स्मादिमं᳘ लोकं᳘ दक्षिणावृ᳘त्समुद्रः प᳘र्येति खाते᳘न त᳘स्मादिमं᳘ लोकं᳘ खाते᳘न समुद्रः प᳘र्येति॥

मूलम् - विस्वरम्

यद्वेवैनं परिश्रिद्भिः परिश्रयति । अयं वै लोको गार्हपत्यः । आपः परिश्रितः । इमं तं लोकमद्भिः परितनोति । समुद्रेण हैनं तत् परितनोति । सर्वतः । तस्मादिमं लोकं सर्वतः समुद्रः पर्येति । दक्षिणावृत् । तस्मादिमं लोकं दक्षिणावृत् समुद्रः पर्येति । खातेन । तस्मादिमं लोकं खातेन समुद्रः पर्येति ॥ १३ ॥

सायणः

एतदेव परिश्रयणमनूद्य प्रकारान्तरेण स्तौति- यद्वेवैनमिति । अयं वै लोक इति । ‘अयं’ भूलोकात्मकः खलु ‘गार्हपत्यः’ अग्निः; तद्वाचिन्या भूरिति व्याहृत्या आहितत्वात् । आपः परिश्रित इति । परिश्रयणार्थाः शर्कराः ‘आपः’ उदकात्मिकाः; शर्करायुक्ते हि भूप्रदेशे खननादाप उपलभ्यन्ते । तथा च गार्हपत्यस्य परिश्रिद्भिः परिश्रयणे सति ‘इमम्’ एव भूलोकम् ‘अद्भिः’ ‘परितनोति’ परितो वेष्टयति । केनोपायेनाद्भिः परिवेष्टनमिति तदाह- समुद्रेणेति । तस्मादिममिति । यस्मात् परिश्रिद्भिः गार्हपत्यस्य परिश्रयणं भूलोकस्य समुद्रेणावरणकारणम्, ‘तस्मात्’ ‘इमं लोकं’ ‘सर्वतः’ सर्वासु दिक्षु ‘समुद्रः’ ‘पर्येति’ परितो व्याप्नोति । परिश्रयणस्य प्रादक्षिण्यं विधाय स्तौति- दक्षिणावृदिति । ‘दक्षिणा’ प्रदक्षिणम् ‘आवृत्’ आवर्तनं यथा भवति तथा परिश्रयेदित्यर्थः । ‘तस्मात्’ करणभूते परिश्रयणे दक्षिणावृन्निदर्शनात् समुद्रो ऽपि ‘इमं लोकं’ ‘दक्षिणावृत्’ प्रदक्षिणावर्त्तनेन ‘पर्येति’ परितो गच्छति । खाते देशे परिश्रयणं विधाय स्तौति- खातेनेति । गार्हपत्यायतनस्य परितः खातेन प्रदेशेन परिश्रिद्भिः परिश्रयेत् ॥ १३ ॥

Eggeling
  1. And, again, why he encloses it with enclosing-stones;–the Gārhapatya hearth is this (terrestrial) world, and the enclosing-stones are the waters: he thus surrounds this world with water,–it is with the ocean that he thus surrounds it on all sides, and hence the ocean flows round this world on all sides. (He puts up the stones) by turning to the right (or south) 13, whence the ocean flows round this world (from the east) southwards;–by means of a dug out (hole, or moat) 14, whence the ocean flows round this world in a moat.

१४

विश्वास-प्रस्तुतिः

चि᳘त स्थे᳘ति॥
चिनो᳘ति᳘ ह्येनाः परिचि᳘त स्थे᳘ति प᳘रि᳘ ह्येनाश्चिनो᳘त्यूर्ध्वचि᳘तः श्रयध्वमि᳘त्यूर्ध्वा᳘ ऽउपद᳘धदाह त᳘स्मादूर्ध्व᳘ ऽएव᳘ समुद्रो᳘ विजते᳘ ऽथ य᳘त्तिर᳘श्चीरुपदध्या᳘त्सकृ᳘द्धैवेदᳫँ᳭[[!!]] स᳘र्व्वᳫँ᳭ समुद्रो नि᳘र्मृज्यान्न᳘ सादयत्य᳘सन्ना ह्या᳘पो न सू᳘ददोहसा᳘ ऽधिवदति᳘॥

मूलम् - श्रीधरादि

चि᳘त स्थे᳘ति॥
चिनो᳘ति᳘ ह्येनाः परिचि᳘त स्थे᳘ति प᳘रि᳘ ह्येनाश्चिनो᳘त्यूर्ध्वचि᳘तः श्रयध्वमि᳘त्यूर्ध्वा᳘ ऽउपद᳘धदाह त᳘स्मादूर्ध्व᳘ ऽएव᳘ समुद्रो᳘ विजते᳘ ऽथ य᳘त्तिर᳘श्चीरुपदध्या᳘त्सकृ᳘द्धैवेदᳫँ᳭[[!!]] स᳘र्व्वᳫँ᳭ समुद्रो नि᳘र्मृज्यान्न᳘ सादयत्य᳘सन्ना ह्या᳘पो न सू᳘ददोहसा᳘ ऽधिवदति᳘॥

मूलम् - Weber

चि᳘त स्थे᳘ति॥
चिनो᳘तिॗ ह्येनाः परिचि᳘त स्थे᳘ति प᳘रिॗ ह्येनाश्चिनो᳘त्यूर्ध्वचि᳘तः श्रयध्वमि᳘त्यूर्ध्वा᳘ उपद᳘धदाह त᳘स्मादूर्ध्व᳘ एव᳘ समुद्रो᳘ विजते᳘ ऽथ य᳘त्तिर᳘श्चीरुपदध्या᳘त्सकृ᳘द्धैॗवेदᳫं स᳘र्वᳫं समुद्रो नि᳘र्मृज्यान्न᳘ सादयत्य᳘सन्ना ह्या᳘पो न सू᳘ददोहसा᳘धिवदति॥

मूलम् - विस्वरम्

“चितः स्थ”- इति । चिनोति ह्येनाः । “परिचितः स्थ”- इति । परि ह्येनाश्चिनोति । “ऊर्द्ध्वचितः श्रयध्वम्”- (वा० सं० १२ । ४६) इत्यूर्द्ध्वा उपदधदाह । तस्मादूर्ध्व एव समुद्रो विजते । अथ यत्- तिरश्चीरुपदध्यात्- सकृद्धैवेदं सर्वं समुद्रो निर्मृज्यात् । न सादयति । असन्ना ह्यापः । न सूददोहसा ऽधिवदति ॥ १४ ॥

सायणः

तस्मिन् परिश्रयणे मन्त्रं विधाय व्याचष्टे- चितः स्थेति । ‘हि’ यस्मात् ‘एनाः’ शर्कराः ‘चिनोति’ स्थापयति, तस्मात् हे शर्कराः ! यूयं ‘चितः स्थ’ चीयमाना भवथेति समवेतार्थो मन्त्रभागः । परि ह्येना इति । यस्मादेनाः परिश्रितश्चिनोति, तस्मात् ‘परिचितः स्थ’ परितश्चीयमाना भवथेति ॥

ऊर्द्ध्वा उपदधदिति । परितः ऊर्द्ध्वमुखा अवस्थापयन् “ऊर्द्ध्वचितः श्रयध्वम्" इति मन्त्रभागं ब्रूयादित्यर्थः । तदेतत् सूत्रितं कात्यायनेन- “परिश्रिद्भिः परिश्रयति पूर्ववदेकविंशत्या चितः स्थेति” (का. श्रौ. सू. १७ । ७ ।) इति ॥

समुद्रो विजत इति । अब्रूपाणां परिश्रितामूर्द्ध्वमुखत्वात् तत्समुदायरूपः समुद्रो ऽपि ऊर्द्ध्व एव विजते । “ओविजी मयचलनयोः” (धा. पा. तु. आ. ९) । कल्लोलैरूर्द्ध्वं चलति समुद्र इत्यर्थः, न तु तिर्यक् कृत्स्नां भूमिमावृणोति । विजतिर्व्याप्तिकर्मा । तिर्यगुपधाने दोषमाह- अथ यत् तिरश्चीरिति । ‘तिरश्चीः’ तिर्यगञ्चनाः । सकृद्धैवेदमिति । युगपदेव ‘इदं सर्वं’ जगत् ‘समुद्रो निर्मृज्यात्’ निःशेषेण प्रक्षालयेत्, सर्वं समुद्रे प्रविलीयेतेत्यर्थः । सादनं सूददोहसा ऽधिवदनञ्च इष्टकाधर्मतया प्रसक्तम्, अत्र निषेधति- न सादयतीति । उपधानकाले मन्त्रेणोपधाय ततस्तया देवतयेत्युपहितस्य सादनम्; “ता अस्य सूददोहसः” इति मन्त्रः सूददोहाः, तेनाधिवदनमुपरिष्टाद् वदनम्, सर्वेष्टकासाधारणो धर्मः; तदुभयं परिश्रिदुपधाने न कर्तव्यम् । तत्र हेतुः- असन्ना ह्यापः इति । क्वचित् क्वचित् सीदन्ति; प्रवहणशीलत्वादित्यर्थः ॥ १४ ॥

Eggeling
  1. [Vāj. S. XII, 46] ‘Ranging ye are!’ for he does range them;–‘ranging around ye are!’ for he does range them all round;–‘upwards ranging get ye fixed!’ thus he says, placing them upright: hence the ocean surges upwards; but were he to place them sideways, the ocean surely would all at once overflow all this (earth). He does not settle them, for unsettled are the waters; nor does he pronounce the Sūdadohas (verse) on them 15.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘स्थीनि वै᳘ परिश्रि᳘तः॥
प्राणः सू᳘ददोहा न वा ऽअ᳘स्थिषु प्रा᳘णो ऽस्त्ये᳘केन य᳘जुषा बह्वीरि᳘ष्टका ऽउ᳘पदधात्ये᳘क᳘ᳫँ᳘ ह्येत᳘द्रूपं यदापो᳘ ऽथ य᳘द्बह्व्यः[[!!]] परिश्रि᳘तो भ᳘वन्ति ब᳘ह्व्यो ह्या᳘पः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘स्थीनि वै᳘ परिश्रि᳘तः॥
प्राणः सू᳘ददोहा न वा ऽअ᳘स्थिषु प्रा᳘णो ऽस्त्ये᳘केन य᳘जुषा बह्वीरि᳘ष्टका ऽउ᳘पदधात्ये᳘क᳘ᳫँ᳘ ह्येत᳘द्रूपं यदापो᳘ ऽथ य᳘द्बह्व्यः[[!!]] परिश्रि᳘तो भ᳘वन्ति ब᳘ह्व्यो ह्या᳘पः॥

मूलम् - Weber

अ᳘स्थीनि वै᳘ परिश्रि᳘तः॥
प्राणः सू᳘ददोहा न वा अ᳘स्थिषु प्राॗणो ऽस्त्ये᳘केन य᳘जुषा बह्वीरि᳘ष्टका उ᳘पदधात्येॗकᳫं ह्येत᳘द्रूपं यदापो᳘ ऽथ य᳘द्बह्व्यः᳘ परिश्रि᳘तो भ᳘वन्ति बॗह्व्यो ह्या᳘पः॥

मूलम् - विस्वरम्

अस्थीनि वै परिश्रितः, प्राणः सूददोहाः । न वा अस्थिषु प्राणो ऽस्ति । एकेन यजुषा बह्वीरिष्टका उपदधाति । एकं ह्येतद्रूपम्- यदापः । अथ यद्बह्व्यः परिश्रितो भवन्ति- बह्व्यो ह्यापः ॥ १५ ॥

सायणः

सूददोहसो निषेधमुपपादयति- अस्थीनि वा इति । अस्थ्यात्मिका हि ‘परिश्रितः’ शर्कराः; तत्सादृश्यात् । “ता अस्य सूददोहसः”- इति सूददोहः- शब्दयुक्तो मन्त्रः ‘सूददोहाः;’ स च प्राणात्मकः खलु । सूदं शोभनमुदकम् दोग्धि, येन सिक्तं सत् रसं न शुष्यति; यस्मिन्नङ्गे प्राणः सञ्जातो नास्ति, तत् काष्ठवत् शुष्कमेव भवति; अतः प्राण एव सूददोहाः । तथा चास्थिसंस्तुतासु परिश्रित्सु नासौ कर्तव्यः; न खल्वस्थिषु प्राणो ऽस्ति, नाडीष्वेव हि तस्य सञ्चार इत्यर्थः । चितः स्थेत्येकेनैव यजुषा बहूनां परिश्रितां स्थापनमुपपादयति- एकेनेति । ‘उपदधाति’- चोदितत्वात् परिश्रितामिष्टकात्वम् । अत एवाहापस्तम्बः- “स्रुचौ सप्त स्वयमातृण्णाः शर्करा हिरण्येष्टकाः पञ्च घृतेष्टका दुर्वास्तम्बः कूर्म उलूखलं मुसलं शूपेमश्मानः पशुशिराँ सि सर्पशिरश्चामृन्मयीरिष्टकाः”- इति (आप. श्रौ. सू. १६ । १३ । १०) । एकँ ह्येतदिति । आप इति यत्, तदेकमेव हि रूपम्, एकरूपा एव हि लक्ष्यन्ते, अतः ‘एकेन यजुषा’ परिश्रिद्रूपाणामपामुपधानं युक्तमिति ॥

बह्व्यो हीति । ‘हि’ यस्मात् ‘आपः’ ‘बह्व्यः’ बहुविधाः, तस्मात् तदात्मिकाः ‘परिश्रितः’ अपि ‘बह्व्यो भवन्ति’ बहुशब्दाद् “वोतो गुणवचनात्”- “बह्वादिभ्यश्च”- (पा. सू. ४ । १ । ४४ । ४५) इति ङीप् ॥ १५ ॥

Eggeling
  1. For the enclosing-stones are the bones, and the Sūdadohas is the breath; and there is no breath in the bones. With one and the same formula he lays down many bricks 16, for of one and the same form are the waters; and as to there being many enclosing-stones, it is because there are many waters.

१६

विश्वास-प्रस्तुतिः

(स्त) तद्वै यो᳘निः परिश्रि᳘तः॥
(ऽ) उ᳘ल्बमू᳘षा रे᳘तः सि᳘कता बा᳘ह्याः परिश्रि᳘तो भ᳘वन्त्य᳘न्तर ऽऊ᳘षा बा᳘ह्या हि यो᳘निर᳘न्तरमु᳘ल्बं बा᳘ह्य ऽऊ᳘षा भ᳘वन्त्य᳘न्तराः सि᳘कता बा᳘ह्यᳫँ᳭ ह्यु᳘ल्बम᳘न्तरᳫँ᳭ रे᳘त ऽएते᳘भ्यो वै जा᳘यमानो जायते ते᳘भ्य ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - श्रीधरादि

(स्त) तद्वै यो᳘निः परिश्रि᳘तः॥
(ऽ) उ᳘ल्बमू᳘षा रे᳘तः सि᳘कता बा᳘ह्याः परिश्रि᳘तो भ᳘वन्त्य᳘न्तर ऽऊ᳘षा बा᳘ह्या हि यो᳘निर᳘न्तरमु᳘ल्बं बा᳘ह्य ऽऊ᳘षा भ᳘वन्त्य᳘न्तराः सि᳘कता बा᳘ह्यᳫँ᳭ ह्यु᳘ल्बम᳘न्तरᳫँ᳭ रे᳘त ऽएते᳘भ्यो वै जा᳘यमानो जायते ते᳘भ्य ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - Weber

तद्वै यो᳘निः परिश्रि᳘तः॥
उ᳘ल्बमू᳘षा रे᳘तः सि᳘कता बा᳘ह्याः परिश्रि᳘तो भ᳘वन्त्य᳘न्तर ऊ᳘षा बा᳘ह्या हि यो᳘निर᳘न्तरमु᳘ल्बम् बा᳘ह्य ऊ᳘षा भ᳘वन्त्य᳘न्तराः सि᳘कता बा᳘ह्यᳫं ह्यु᳘ल्बम᳘न्तरं रे᳘त एते᳘भ्यो वै जा᳘यमानो जायते ते᳘भ्य एॗवैनमेत᳘ज्जनयति॥

मूलम् - विस्वरम्

तद्वै योनिः परिश्रितः, उल्बमूषाः, रेतः सिकताः । बाह्याः परिश्रितो भवन्ति, अन्तर ऊषाः । बाह्या हि योनिः, अन्तरमुल्बम् । बाह्य ऊषा भवन्ति, अन्तराः सिकताः । बाह्यं ह्युल्बम्, अन्तरं रेतः । एतेभ्यो वै जायमानो जायते । तेभ्य एवैनमेतज्जनयति ॥ १६ ॥

सायणः

परिश्रिद्रूपसिकतानां बाह्याभ्यन्तरभावं विधाय स्तौति- तद्वै योनिरित्यादिना । ‘तद्वै’ तत्र ऊषसिकतापरिश्रित्सु मध्ये ‘परिश्रितः’ शर्कराः ‘योनिः’ गर्भनिर्गमनमार्गः । उल्ब-संस्तुता ऊषाः रेतः-संस्तुताः सिकताः, अतो योनि-संस्तुतानां परिश्रितामुल्बात्मकेभ्यो बाह्यत्वम्, ऊषाणाञ्च तत आन्तरत्वमुपपन्नमित्यर्थः । बाह्य ऊषा भवन्तीत्यादि । उल्बसंस्तुतत्वादूषाणां बाह्यदेशवर्तित्वम्, रेतःसंस्तुतत्वात् सिकतानामाभ्यन्तरत्वं युक्तमित्यर्थः । बाह्यं हीति । लोकप्रसिद्ध्योपपादनम् । एतेभ्यो वा इति । योन्युल्बरेतोभ्यः खलु जायमानो जन्तुर्जायते लोके । तथा च ‘एनम्’ अग्निं ‘तेभ्य एव’ योन्यादिभ्यः इदानीं ‘जनयति’ ॥ १६ ॥

Eggeling
  1. The enclosing-stones, then, are the womb; the saline earth is the amnion, and the sand is the seed. The enclosing-stones are outside, and the saline earth is inside; for the womb is outside, and the amnion inside. The saline earth is outside, and the sand inside; for the amnion is outside, and the seed inside. He who is born is born from these: it is from them that he thus causes him (Agni) to be born.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनम᳘तश्चिनोति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तं व्वि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तं व्वि᳘क्रियते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनम᳘तश्चिनोति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तं व्वि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तं व्वि᳘क्रियते॥

मूलम् - Weber

अ᳘थैनम᳘तश्चिनोति॥
इद᳘मेॗवैतद्रे᳘तः सिक्तं वि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तं वि᳘क्रियते॥

मूलम् - विस्वरम्

अथैनमतश्चिनोति । इदमेवैतद्रेतः सिक्तं विकरोति । तस्माद्योनौ रेतः सिक्तं विक्रियते ॥ १७ ॥

सायणः

इत्थं संस्कृतस्य गार्हपत्यायतनस्येष्टकाभिश्चयनं विधत्ते- अथैनमिति । ‘अथ’ अनन्तरम्, सिकतात्मना सिक्तस्य रेतसः यस्मात् कार्यरूपेण परिणामो ऽपेक्षितः, ‘अतः’ कारणात् ‘एनं’ व्युद्हनादिभि संस्कृतं गार्हपत्यदेशमिष्टकाभिः ‘चिनोति’ । ‘इदमेव’ सिकतारूपेण ‘सिक्तं रेतः’ ‘एतत्’ एतेन चयनेन ‘विकरोति’ विकृतमवयवयुक्तं करोति । तस्मादिति लौकिकोदाहरणम् ॥ १७ ॥

Eggeling
  1. Thereon he now builds it (the hearth): he

GĀRHAPATYA HEARTH.

thereby fashions that infused seed; and hence the infused seed is fashioned in the womb.

१८

विश्वास-प्रस्तुतिः

स च᳘तस्रः प्रा᳘चीरु᳘पदधाति॥
द्वे᳘ पश्चा᳘त्तिर᳘श्च्यौ द्वे᳘ पुर᳘स्तात्तद्याश्च᳘तस्रः प्रा᳘चीरुपद᳘धाति स᳘ ऽआत्मा तद्यत्ताश्च᳘तस्रो भ᳘वन्ति च᳘तुर्व्विधो᳘ ह्यय᳘मात्मा᳘ ऽथ[[!!]] ये᳘ पश्चात्ते᳘ स᳘क्थ्यौ ये᳘ पुर᳘स्तात्तौ᳘ बाहू य᳘त्र वा᳘ ऽआत्मा त᳘देव शि᳘रः॥

मूलम् - श्रीधरादि

स च᳘तस्रः प्रा᳘चीरु᳘पदधाति॥
द्वे᳘ पश्चा᳘त्तिर᳘श्च्यौ द्वे᳘ पुर᳘स्तात्तद्याश्च᳘तस्रः प्रा᳘चीरुपद᳘धाति स᳘ ऽआत्मा तद्यत्ताश्च᳘तस्रो भ᳘वन्ति च᳘तुर्व्विधो᳘ ह्यय᳘मात्मा᳘ ऽथ[[!!]] ये᳘ पश्चात्ते᳘ स᳘क्थ्यौ ये᳘ पुर᳘स्तात्तौ᳘ बाहू य᳘त्र वा᳘ ऽआत्मा त᳘देव शि᳘रः॥

मूलम् - Weber

स च᳘तस्रः प्रा᳘चीरु᳘पदधाति॥
द्वे᳘ पश्चा᳘त्तिर᳘श्च्यौ द्वे᳘ पुर᳘स्तात्तद्याश्च᳘तस्रः प्रा᳘चीरुपद᳘धाति स᳘ आत्मा तद्यत्ताश्च᳘तस्रो भ᳘वन्ति च᳘तुर्विधो ह्य᳘य᳘मात्मा᳘थ ये᳘ पश्चात्ते᳘ सॗक्थ्यौ ये᳘ पुर᳘स्तात्तौ᳘ बाहू य᳘त्र वा᳘ आत्मा त᳘देव शि᳘रः॥

मूलम् - विस्वरम्

स चतस्रः प्राचीरुपदधाति, द्वे पश्चात्तिरश्च्यौ, द्वे पुरस्तात् । तद्याश्चतस्रः प्राचीरुपदधाति- स आत्मा । तद्यत्ताश्चतस्रो भवन्ति । चतुर्विधो ह्ययमात्मा । अथ ये पश्चात्- ते सक्थ्यौ । ये पुरस्तात् तौ बाहू । यत्र वा आत्मा तदेव शिरः ॥ १८ ॥

सायणः

विहितस्य चयनस्य निष्पत्तये इष्टकानामुपधानप्रकारं विधत्ते- स चतस्र इति । गार्हपत्यायतनस्य मध्येप्रथमं ‘चतस्रः’ ‘प्राचीः’ प्रागायताः इष्टकाः उपदध्यात् । ततः ‘पश्चात्’ पश्चाद्भागे ‘तिरश्च्यौ’ तिर्यगायते ‘द्वे’ इष्टके उपदध्यात् । तथा चतसृणां ‘पुरस्तात्’ अपि द्वे तिरश्च्यौ उपदध्यात् । एतासु त्रिविधास्विष्टकासु अवयवकॢप्तिं करोति- तद्याश्चतस्र इत्यादिना । स आत्मेति । मध्यदेह इत्यर्थः । चतुर्विधो ह्ययमिति । त्वगसृङ्मांसास्थिभेदेन, मनोबुद्ध्यहङ्कारचित्तैर्वा, जाग्रदाद्यवस्थाचतुष्टयेन वा, आत्मनश्चातुर्विध्यम् । सक्थ्याविति । सक्थिः श्रोणिः, तेन च पादो लक्ष्यते; पश्चादुपहिते इष्टके पादावित्यर्थः । पादपाणियुक्तस्यास्य शरीरस्य किं तर्हि शिर इत्यत आह- यत्र वा इति । ‘यत्र’ खलु ‘आत्मा’ मध्यदेहो वर्तते, तत्रैव ‘शिरः’ अपि आत्मन्येवान्तर्भूतमिति अतो न पृथक् वक्तव्यमित्यर्थः ॥ १८ ॥

Eggeling
  1. He puts on (the circular site) four (bricks) running eastwards 17; two behind running crosswise (from south to north), and two (such) in front. Now the four which he puts on running eastwards are the body; and as to there being four of these, it is because this body (of ours) consists, of four parts 18. The two at the back then are the thighs; and the two in front the arms; and where the body is that (includes) the head.

१९

विश्वास-प्रस्तुतिः

(स्तं) तं वा᳘ ऽएतम्[[!!]]॥
(म᳘) अ᳘त्र पक्षपुच्छ᳘वन्तं व्वि᳘करोति यादृग्वै यो᳘नौ रे᳘तो व्विक्रिय᳘ते तादृ᳘ग्जायते तद्य᳘देतम᳘त्र पक्षपुच्छ᳘वन्तं व्विकरो᳘ति त᳘स्मादे᳘षो ऽमु᳘त्र पक्षपुच्छ᳘वाञ्जायते॥

मूलम् - श्रीधरादि

(स्तं) तं वा᳘ ऽएतम्[[!!]]॥
(म᳘) अ᳘त्र पक्षपुच्छ᳘वन्तं व्वि᳘करोति यादृग्वै यो᳘नौ रे᳘तो व्विक्रिय᳘ते तादृ᳘ग्जायते तद्य᳘देतम᳘त्र पक्षपुच्छ᳘वन्तं व्विकरो᳘ति त᳘स्मादे᳘षो ऽमु᳘त्र पक्षपुच्छ᳘वाञ्जायते॥

मूलम् - Weber

तं वा᳘ एत᳘म्॥
अ᳘त्र पक्षपुछ᳘वन्तं वि᳘करोति यादृग्वै यो᳘नौ रे᳘तो विक्रिय᳘ते तादृ᳘ग्जायते तद्य᳘देतम᳘त्र पक्षपुछ᳘वन्तं विकरो᳘ति त᳘स्मादेॗषो ऽमु᳘त्र पक्षपुछ᳘वान्जायते॥

मूलम् - विस्वरम्

तं वा एतमत्र पक्षपुच्छवन्तं विकरोति । यादृग्वै योनौ रेतो विक्रियते- तादृग् जायते । तद्यदेतमत्र पक्षपुच्छवन्तं विकरोति- तस्मादेषो ऽमुत्र पक्षपुच्छवाञ्जायते ॥ १९ ॥

सायणः

तं वा इत्यादि । ‘अत्र’ अस्मिन् गार्हपत्यस्थाने ‘तम्’ एव ‘एतम्’ अग्निं पक्षाभ्यां पृच्छेन च युक्तमेव ‘विकरोति’, मध्ये च चतस्रः, उभयपार्श्वयोः द्वे द्वे, इत्येवमुपधीयमानत्वात् । यादृग्वा इति । ‘योनौ’ गर्भाशये अवस्थितं ‘रेतः’ गर्भः, यादृगाकारं ‘विक्रियते’ विशिष्टावयवं क्रियते, जननसमये ऽपि तादृगाकारविशिष्टमेवापत्यं ‘जायते’ ॥

इत्थं लौकिकीं स्थितिमुक्त्वा प्रकृते योजयति- तद्यदिति । ‘तत्’ तत्र ‘एतम्’ अग्निम् ‘अत्र’ गार्हपत्यातनयोनौ ‘यद्’ यस्मात् ‘पक्षपुच्छवन्तं विकरोति’ सूक्ष्मरूपेण निर्मिमीते, ‘तस्मात्’ ‘एषः’ अग्निः ‘अमुत्र’ आहवनीयस्थाने ‘पक्षपुच्छवान्’ ‘जायते’ जायमान उपलभ्यत इत्यर्थः ॥ १९ ॥

Eggeling
  1. Now he here fashions him (Agni) with wings and tail; for whatlike the seed is fashioned in the womb suchlike (offspring) is born: thus inasmuch as he now fashions him with wings and tail, he is born hereafter 19 with wings and tail.

२०

विश्वास-प्रस्तुतिः

तं वै᳘ पक्षपुच्छ᳘वन्तमेव स᳘न्तम्॥
(न्तं) न᳘ पक्षपुच्छ᳘वन्तमिव पश्यन्ति त᳘स्माद्यो᳘नौ ग᳘र्भं न᳘ यथारूपं᳘ पश्यन्त्य᳘थैनममु᳘त्र पक्षपुच्छ᳘वन्तं पश्यन्ति त᳘स्माज्जातं ग᳘र्भं यथारूपं᳘ पश्यन्ति॥

मूलम् - श्रीधरादि

तं वै᳘ पक्षपुच्छ᳘वन्तमेव स᳘न्तम्॥
(न्तं) न᳘ पक्षपुच्छ᳘वन्तमिव पश्यन्ति त᳘स्माद्यो᳘नौ ग᳘र्भं न᳘ यथारूपं᳘ पश्यन्त्य᳘थैनममु᳘त्र पक्षपुच्छ᳘वन्तं पश्यन्ति त᳘स्माज्जातं ग᳘र्भं यथारूपं᳘ पश्यन्ति॥

मूलम् - Weber

तं वै᳘ पक्षपुछ᳘वन्तमेव स᳘न्तम्॥
न᳘ पक्षपुछ᳘वन्तमिव पश्यन्ति त᳘स्माद्यो᳘नौ ग᳘र्भं न᳘ यथारूप᳘म् पश्यन्त्य᳘थैनममु᳘त्र पक्षपुछ᳘वन्तम् पश्यन्ति त᳘स्माज्जातं ग᳘र्भं यथारूप᳘म् पश्यन्ति॥

मूलम् - विस्वरम्

तं वै पक्षपुच्छवन्तमेव सन्तं- न पक्षपुच्छवन्तमिव पश्यन्ति । तस्माद्योनौ गर्भं न यथारूपं पश्यन्ति । अथैनममुत्र पक्षपुच्छवन्तं पश्यन्ति । तस्माज्जातं गर्भं यथारूपं पश्यन्ति ॥ २० ॥

सायणः

तं वा इति । न पक्षपुच्छवन्तमिव पश्यन्तीति । सतामपि पक्षपुच्छानामदर्शनं योन्यामनभिव्यक्तेर्वा भवति । एतल्लौकिकोदाहरणेनोपपादयति- तस्मादिति । यथारूपमिति । विद्यमानं शिरःपादादिकं कृत्स्नं रूपमित्यर्थः । अथैनममुत्रेति । ‘एनम्’ अनभिव्यक्तरूपमग्निम् ‘अमुत्र’ आहवनीयस्थाने अभिव्यक्तं ‘पक्षपुच्छवन्तं’ यस्मात् ‘पश्यन्ति’ ‘तस्मात्’ एव कारणात् जननात् प्रागनभिव्यक्तावयवं ‘गर्भं’ ‘जातं’ जननात् ऊर्द्ध्वं ‘यथारूपम्’ यथावसितरूपम् अभिव्यक्तावयवं ‘पश्यन्ति’ इत्यर्थः ॥ २० ॥

Eggeling
  1. While being indeed furnished with wings and tail, people do not see him as one having wings and tail 20: hence one does not see the child in the womb in its proper shape; but hereafter they (will) see him as one having wings and tail, and hence one sees the child after it is born in its proper shape.

२१

विश्वास-प्रस्तुतिः

स च᳘तस्रः पू᳘र्व्वा ऽउ᳘पदधाति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वति दक्षिणत ऽउ᳘दङ्ङा᳘सीन ऽउत्तरा᳘र्ध्यां प्रथमामु᳘पदधाति त᳘थो हास्यै᳘षो ऽभ्यात्म᳘मे᳘वाग्नि᳘श्चितो᳘ भवति॥

मूलम् - श्रीधरादि

स च᳘तस्रः पू᳘र्व्वा ऽउ᳘पदधाति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वति दक्षिणत ऽउ᳘दङ्ङा᳘सीन ऽउत्तरा᳘र्ध्यां प्रथमामु᳘पदधाति त᳘थो हास्यै᳘षो ऽभ्यात्म᳘मे᳘वाग्नि᳘श्चितो᳘ भवति॥

मूलम् - Weber

स च᳘तस्रः पू᳘र्वा उ᳘पदधाति॥
आत्माॗ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वति दक्षिणत उ᳘दङ्ङा᳘सीन उत्तराॗर्ध्याम् प्रथमामु᳘पदधाति त᳘थो हास्यैॗषो ऽभ्यात्म᳘मेॗवाग्नि᳘श्चितो᳘ भवति॥

मूलम् - विस्वरम्

स चतस्रः पूर्वा उपदधाति । आत्मा ह्येवाग्रे सम्भवतः सम्भवति । दक्षिणत उदङ्ङासीन उत्तरार्घ्यां प्रथमामुपदधाति । तथो हास्यैषो ऽभ्यात्ममेवाग्निश्चितो भवति ॥ २१ ॥

सायणः

स चतस्र इति । आत्मा ह्येवाग्र इति । यस्मात् शिरसा युक्तो मध्यदेहः ‘एव’ ‘सम्भवतः’ उत्पद्यमानस्य प्राणिनः ‘अग्रे’ प्रथमतः ‘सम्भवति’ अभिव्यक्तो भवति, तस्मादात्मसंस्तुता इष्टकाः पूर्वमुपदध्यादिति युक्तम् । तस्मिन्नुपधाने धर्मविशेषमाह- दक्षिणत इति । गार्हपत्यायतनस्य दक्षिणदेशे उदङ्मुख आसीनः चतसृणां मध्ये ‘प्रथमाम्’ इष्टकाम् ‘उत्तरार्द्ध्याम्’ उत्तरार्द्धे भवाम्, उत्तरभागे ऽवस्थितामुपदध्यात् । ‘दिक्-पूर्वपदाट्ठञ् च’ (पा. सू. ४ । ३ । ६) इत्यत्र चकारात् उत्तरार्द्धात् यत्-प्रत्ययः । उत्तरार्द्ध्यायाः प्रथममुपधाने प्रयोजनमाह- तथो हेति । तथैव खलु ‘अस्य’ ‘दक्षिणतो ऽवस्थितस्य अध्वर्योः ‘एषः’ अग्निः ‘अभ्यात्मम्’ आत्माभिमुखमेव ‘चितो भवति’ ॥ २१ ॥

Eggeling
  1. Four (bricks) he puts on first, for of him that

is being produced it is the body (trunk) that is produced first. Sitting south (of the hearth-site) with his face to the north he puts on first one (brick) of the upper (north) part 21 (of the trunk); and in this manner that Agni of his comes to be built up towards (or for the Sacrificer) himself.

२२

विश्वास-प्रस्तुतिः

(त्य) अयँ सो᳘ ऽअग्निः᳘॥
(र्य᳘) य᳘स्मिन्त्सो᳘ममि᳘न्द्रः सुतं᳘ दध ऽइ᳘त्ययं वै᳘ लोको गा᳘र्हपत्य ऽआ᳘पः सो᳘मः सु᳘तो ऽस्मिंस्त᳘ल्लो᳘के ऽप ऽइ᳘न्द्रो ऽधत्त जठ᳘रे व्वावशान ऽइ᳘ति म᳘ध्यं वै᳘ जठ᳘रᳫँ᳭ सहस्रि᳘यं व्वा᳘जम᳘त्यं न स᳘प्तिमित्या᳘पो वै᳘ सहस्रि᳘यो व्वा᳘जः ससवान्त्स᳘न्त्स्तूयसे जातवेद ऽइ᳘ति चितः सं᳘श्चीयसे जातवेद ऽइ᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अयँ सो᳘ ऽअग्निः᳘॥
(र्य᳘) य᳘स्मिन्त्सो᳘ममि᳘न्द्रः सुतं᳘ दध ऽइ᳘त्ययं वै᳘ लोको गा᳘र्हपत्य ऽआ᳘पः सो᳘मः सु᳘तो ऽस्मिंस्त᳘ल्लो᳘के ऽप ऽइ᳘न्द्रो ऽधत्त जठ᳘रे व्वावशान ऽइ᳘ति म᳘ध्यं वै᳘ जठ᳘रᳫँ᳭ सहस्रि᳘यं व्वा᳘जम᳘त्यं न स᳘प्तिमित्या᳘पो वै᳘ सहस्रि᳘यो व्वा᳘जः ससवान्त्स᳘न्त्स्तूयसे जातवेद ऽइ᳘ति चितः सं᳘श्चीयसे जातवेद ऽइ᳘त्येतत्[[!!]]॥

मूलम् - Weber

अयᳫं सो᳘ अग्निः᳟॥
य᳘स्मिन्त्सो᳘ममि᳘न्द्रः सुतं᳘ दध इ᳘त्ययं वै᳘ लोको गा᳘र्हपत्य आ᳘पः सो᳘मः सुॗतो ऽस्मिंस्त᳘ल्लोॗके ऽप इ᳘न्द्रो ऽधत्त जठ᳘रे वावशान इ᳘ति म᳘ध्यं वै᳘ जठ᳘रᳫं सहस्रि᳘यं वा᳘जम᳘त्यं न स᳘प्तिमित्या᳘पो वै᳘ सहस्रि᳘यो वा᳘जः ससवान्त्स᳘न्त्स्तूयसे जातवेद इ᳘ति चितः सं᳘श्चीयसे जातवेद इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“अयं सो ऽअग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे”- इति । अयं वै लोको गार्हपत्यः । आपः सोमः सुतः । अस्मिंस्तल्लोके ऽप इन्द्रो ऽधत्त । “जठरे वावशानः”- इति । मध्यं वै जठरम् । “सहस्रियं वाजमत्यं न सप्तिम्”- इति । आपो वै सहस्रियो वाजः । “ससवान्त्सन्त्स्तूयसे जातवेदः”- (वा. सं. १२ । ४७) इति । चितः संश्चीयसे जातवेद इत्येतत् ॥ २२ ॥

सायणः

चतसृणामुपधाने “अयँ सो ऽअग्निः” इत्याद्याश्चत्वारो मन्त्राः, इत्यभिप्रेत्य प्रतीकमुपादत्ते- अयँ स इति । तथा च कात्यायनः- “मध्ये ऽर्द्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति दक्षिणत उदङ्ङय सो ऽअग्निरिति प्रत्यृचम्”- (का. श्रौ. सू. १७ । ८) इति । तत्र प्रथमाया ऋचो ऽयमर्थः, ‘सः’ चीयमानो गार्हपत्यः ‘अग्निः’ ‘अयं’ भूलोक एव । ‘यस्मिन्’ शरीरभूते ऽस्मिन् भूलोके ‘जठरे’ मध्ये ‘वावशानः’ कामयमानः ‘इन्द्रः’ ‘सुतम्’ अभिषुतं ‘सोमम्’ तत्कारणभूता वृष्टिलक्षणा अपः ‘दधे’ अधत्त । ‘सहस्रियं’ सहस्रोपकारजनकं ‘वाजम्’ अब्लक्षणमन्नम्, ‘सप्तिं’ सरणशीलम्, ‘अत्यं’ सततगामिनम्, ‘अत्यं न’ अश्वमिव । “नेत्युपमार्थे”- (निरु. १ । २ । १) ‘ससवान्’ सम्भक्तवान् । “वन षण सम्भक्तौ”- (धा. पा. भ्वा. प. ४६४) इत्यस्मात् क्वसौ रूपम् । गार्हपत्यरूपेण प्रथमं चितः ‘सन्’ हे ‘जातवेदः !’ जातानां वेदितः अग्ने ! ‘स्तूयसे’ आहवनीयात्मना चीयमानः तद्धारणमन्त्रैः प्रतिपाद्यसे इत्यर्थः ॥

एतदर्थपरतां मन्त्रस्य प्रतिपादयति- अयं वै लोक इत्यादिना । मध्यं वै जठरमिति । देहमध्यवाचिना जठरशब्देन भूलोकस्य मध्यमत्र लक्ष्यते । आपो वै सहस्रिय इति । उपकाराणां सहस्रेण सम्मितः ‘सहस्रियः’ “सहस्रेण सम्मितौ घः” (पा. सू. ४ । ४ । १३५) । तथाविधो वाजो ऽन्नमब्लक्षणं विवक्षितम् ॥ २२ ॥

Eggeling
  1. [He puts it on, with Vāj. S. XII, 47; R̥k S. III, 22, 1, &c.] ‘This is the Agni wherein Indra taketh the Soma-juice,’ for the Gārhapatya hearth is this (terrestrial) world, and the Soma-juice is the waters: Indra thus took up the waters in this world;–‘into his belly, craving it,’–for the belly is the centre;–’thousandfold strength, like a swift racer,’–the thousandfold strength, doubtless, is the waters,–’thou, having gained, art exalted, O knower of beings!’ that is, ’thou, being built, art built 22, O knower of beings!’

२३

विश्वास-प्रस्तुतिः

(द᳘) अ᳘ग्ने य᳘त्ते दिवि व्व᳘र्च ऽइ᳘ति॥
(त्या) आदित्यो वा᳘ ऽअस्य दिवि व्व᳘र्चः पृथिव्यामि᳘त्यय᳘मग्निः᳘ पृथिव्यां यदो᳘षधीष्वप्स्वा᳘ यजत्रे᳘ति य᳘ एवौ᳘षधिषु चाप्सु᳘ चाग्निस्त᳘मेत᳘दाह ये᳘नान्तरिक्षमु᳘र्वाततन्थे᳘ति[[!!]] व्वायुः स᳘ त्वेषः स᳘ भानु᳘रर्णवो᳘ नृच᳘क्षा ऽइ᳘ति महान्त्स᳘ भानु᳘रर्णवो᳘ नृच᳘क्षा ऽइ᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(द᳘) अ᳘ग्ने य᳘त्ते दिवि व्व᳘र्च ऽइ᳘ति॥
(त्या) आदित्यो वा᳘ ऽअस्य दिवि व्व᳘र्चः पृथिव्यामि᳘त्यय᳘मग्निः᳘ पृथिव्यां यदो᳘षधीष्वप्स्वा᳘ यजत्रे᳘ति य᳘ एवौ᳘षधिषु चाप्सु᳘ चाग्निस्त᳘मेत᳘दाह ये᳘नान्तरिक्षमु᳘र्वाततन्थे᳘ति[[!!]] व्वायुः स᳘ त्वेषः स᳘ भानु᳘रर्णवो᳘ नृच᳘क्षा ऽइ᳘ति महान्त्स᳘ भानु᳘रर्णवो᳘ नृच᳘क्षा ऽइ᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘ग्ने य᳘त्ते दिवि व᳘र्च इ᳘ति॥
आदित्यो वा᳘ अस्य दिवि व᳘र्चः पृथिव्यामि᳘त्यय᳘मग्निः᳘ पृथिव्यां यदो᳘षधीष्वप्स्वा᳘ यजत्रे᳘ति य᳘ एवौ᳘षधिषु चाप्सु᳘ चाग्निस्त᳘मेत᳘दाह ये᳘नान्त᳘रिक्षमुॗर्वाततन्थे᳘ति वायुः स᳘ त्वेषः स᳘ भानु᳘रर्णवो᳘ नृच᳘क्षा इ᳘ति महान्त्स᳘ भानु᳘रर्णवो᳘ नृच᳘क्षा इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“अग्ने यत्ते दिवि वर्चः”- इति । आदित्यो वा ऽअस्य दिवि वर्चः । “पृथिव्याम्”- इति । अयमग्निः पृथिव्याम् । “यदोषधीष्वप्स्वा यजत्र"- इति । य एवौषधिषु चाप्सु चाग्निस्तमेतदाह । “येनान्तरिक्षमुर्वाततन्थ"- इति । वायुः सः । “त्वेषः स भानुरर्णवो नृचक्षाः”- (वा. सं. १२ । ४८) इति । महान्स भानुरर्णवो नृचक्षा इत्येतत् ॥ २३ ॥

सायणः

द्वितीयं मन्त्रं भागशो ऽनूद्य व्याचष्टे- अग्ने यत्त इति । अस्य मन्त्रस्यायमर्थः- हे ‘अग्ने !’ ‘यत्’ ‘ते’ त्वदीयं ‘वर्चः’ आदित्यात्मकं ज्योतिः ‘दिवि’ वर्त्तते, तथा ‘पृथिव्यां’ भूलोके ‘यद्’ ‘वर्चः’ दाहपाकप्रकाशनसमर्थमग्न्यात्मकं ज्योतिरस्ति, ‘ओषधीषु’ तरुगुल्माद्यासु, ‘अप्सु’ आकारः समुच्चये, उदकेषु जाठरबाडवरूपेण, हे ‘यजत्र’ यजनीयाग्ने ! त्वदीयं यत् तेजो ऽस्ति, ‘येन’ वाय्वात्मना तदीयेन रूपेण ‘उरु’ विस्तीर्णम् ‘अन्तरिक्षम्’ ‘आततन्थ’ आतनोषि, हे अग्ने ! ‘त्वेषः’ दीप्यमानो महानित्यर्थः । ‘सः’ अग्निः वाय्वादिरूपेण लोकत्रयं व्याप्य अवस्थितः, तदीयो ‘भानुः’ प्रकाशः ‘अर्णवः’ समुद्रोपमः सन्, ‘नृचक्षाः’ सर्वेषां नृणां द्रष्टा, प्रकाशको भवति ॥

अयमेवार्थः श्रुत्या प्रतिपाद्यते- आदित्यो वा अस्य दिवि वर्च इत्यादिना ॥ २३ ॥

Eggeling
  1. [The second brick, with Vāj. S. XII, 48] ‘O Agni, what splendour is thine in the heaven,’–his splendour in the heaven doubtless is the sun;–‘on earth,’ that on earth is this fire;–‘and that which is in the plants, in the waters, O holy one!’ he thereby means the fire that is both in the plants, and in the waters;–‘wherewith thou hast overspread the wide air,’–that is, the wind;–‘brilliant is that light, surging, man-viewing;’ that is, ‘great is that light, surging, man-viewing.’

२४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘ग्ने दिवो ऽअ᳘र्णम᳘च्छा जिगासीति᳘[[!!]]॥
(त्या᳘) आ᳘पो वा᳘ ऽअस्य दिवो᳘ ऽर्णस्ता᳘ ऽएष᳘ धूमेना᳘च्छैत्य᳘च्छा देवा᳘ २ँ॥ ऽऊचिषे धि᳘ष्ण्या य ऽइ᳘ति प्राणा वै᳘ देवा धि᳘ष्ण्यास्ते हि स᳘र्वा धि᳘य ऽइष्ण᳘न्ति या᳘ रोचने᳘ पर᳘स्तात्सू᳘र्यस्य या᳘श्चाव᳘स्तादुपति᳘ष्ठन्त ऽआ᳘प ऽइ᳘ति रोचनो᳘ ह ना᳘मैष᳘ लोको य᳘त्रैष᳘ ऽएतत्त᳘पति तद्या᳘श्चैतम् प᳘रेणा᳘पो याश्चा᳘वरेण ता᳘ ऽएत᳘दाह॥

मूलम् - श्रीधरादि

(द᳘) अ᳘ग्ने दिवो ऽअ᳘र्णम᳘च्छा जिगासीति᳘[[!!]]॥
(त्या᳘) आ᳘पो वा᳘ ऽअस्य दिवो᳘ ऽर्णस्ता᳘ ऽएष᳘ धूमेना᳘च्छैत्य᳘च्छा देवा᳘ २ँ॥ ऽऊचिषे धि᳘ष्ण्या य ऽइ᳘ति प्राणा वै᳘ देवा धि᳘ष्ण्यास्ते हि स᳘र्वा धि᳘य ऽइष्ण᳘न्ति या᳘ रोचने᳘ पर᳘स्तात्सू᳘र्यस्य या᳘श्चाव᳘स्तादुपति᳘ष्ठन्त ऽआ᳘प ऽइ᳘ति रोचनो᳘ ह ना᳘मैष᳘ लोको य᳘त्रैष᳘ ऽएतत्त᳘पति तद्या᳘श्चैतम् प᳘रेणा᳘पो याश्चा᳘वरेण ता᳘ ऽएत᳘दाह॥

मूलम् - Weber

अ᳘ग्ने दिवो अ᳘र्णम᳘छा जिगासी᳘ति॥
आ᳘पो वा᳘ अस्य दिवो᳘ ऽर्णस्ता᳘ एष᳘ धूमेना᳘छैत्य᳘छा देवां ऊचिषे धि᳘ष्ण्या य इ᳘ति प्राणा वै᳘ देवा धि᳘ष्ण्यास्ते हि स᳘र्वा धि᳘य इष्ण᳘न्ति या᳘ रोचने᳘ पर᳘स्तात्सू᳘र्यस्य या᳘श्चाव᳘स्तादुपति᳘ष्ठन्त आ᳘प इ᳘ति रोचनो᳘ ह ना᳘मैष᳘ लोको य᳘त्रैष᳘ एतत्त᳘पति तद्या᳘श्चैतम् प᳘रेणा᳘पो याश्चा᳘वरेण ता᳘ एत᳘दाह॥

मूलम् - विस्वरम्

“अग्ने दिवो ऽअर्णमच्छा जिगासि"- इति । आपो वा ऽअस्य दिवो ऽर्णः । ता एष धूमेनाच्छैति । “अच्छा देवाँ २ ॥ ऊचिषे धिष्ण्या ये”- इति । प्राणा वै देवा धिष्ण्याः । ते हि सर्वा धिय इष्णन्ति । “या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त ऽआपः”- (वा. सं. १२ । ४९) इति । रोचनो ह नामैष लोकः- यत्रैष एतत्तपति । तद्याश्चैतं परेणापः, याश्चावरेण, ता एतदाह ॥ २४ ॥

सायणः

तृतीयं मन्त्रं व्याचष्टे- अग्ने दिव इत्यादि । हे ‘अग्ने !’ अस्य ‘दिवः’ अन्तरिक्षस्य सम्बन्धि ‘अर्णं’ मेत्रस्थमुदकम् ‘अच्छ’ अभिलक्ष्य, धूमेन ‘जिगासि’ व्याप्नोषि । तथा अध्यात्मं ‘ये’ प्राणरूपाः ‘धिष्ण्याः’ धियः इष्णन्ति व्याप्नुवन्तो वर्त्तन्ते, तान् ‘देवान्’ त्वं जाठराग्निरूपेण ‘ऊचिषे’ समवैषि । “उच समवाये” (धा.पा. दि. प. ११७) इति धातुः । तथा ‘याः’ ‘आपः’ ‘रोचने’ रोचमाने सूर्यलोके वर्तमानस्य ‘सूर्यस्य’ ‘परस्ताद्’ उपरिभागे वर्त्तन्ते, ‘याश्च’ ‘अवस्तात्’ अधोभागे ‘उपतिष्ठन्ते’ वर्तन्ते, आसामाश्रयित्वं प्राप्नोषीति शेषः ॥

उक्तार्थपरतां मन्त्रस्य दर्शयति- आपो वा अस्य दिवो ऽर्ण इति । एष धूमेनेति । भूम्यां पार्थिवरूपेणावस्थितः ‘एषः’ अग्निरित्यर्थः । प्राणा वै देवा इति । दीव्यन्ति विषयप्रकाशान् जनयन्तीति ‘देवाः’ ‘प्राणाः’ इन्द्रियाणि । ते हि सर्वा इति । ‘हि’ यस्मात् ‘ते’ प्राणाः ‘सर्वाः धियः’ शब्दादिविषयाणि सर्वाणि ज्ञानानि ‘इष्णन्ति’ आभीक्ष्ण्येन व्याप्नुवन्ति । “इष आभीक्ष्ण्ये”- (धा. पा. क्र्या. प. ५२) इति क्रैयादिको धातुः । तस्मादेते धिष्ण्यशब्देन मन्त्रे विवक्षिताः । याश्चैतं परेणेति । एतस्मात् सूर्याददूरेण परभागे इत्यर्थः । “एनबन्यतरस्याम्” (पा. सू. ५ । ३ । ३५) इत्येनप् । “एनपा द्वितीया”- (पा. सू. २ । ३ । ३) इति द्वितीया ॥ २४ ॥

Eggeling
  1. [The third, with Vāj . S. XII, 49] ‘O Agni,

thou goest up to the flood of the heaven;’ the flood of that heaven doubtless is the waters (of the atmosphere): to them he goes by his smoke;–‘hither callest thou the divine inspirers,’–the divine inspirers doubtless are the vital airs, for these inspire all thoughts;–’the waters approach (thee), they that are beyond the luminous sphere of the sun, and they that are below here;’–the luminous sphere doubtless is that world yonder where that (sun) is burning: he thereby means both the waters which are beyond, and those which are below that (sun).

२५

विश्वास-प्रस्तुतिः

पुरी᳘ष्यासो ऽअग्न᳘य ऽइ᳘ति॥
पश᳘व्यासो ऽग्न᳘य ऽइ᳘त्येत᳘त्प्रावणे᳘भिः सजो᳘षस ऽइ᳘ति प्रायणरूपं प्रा᳘यण᳘ᳫँ᳘[[!!]] ह्येत᳘दग्नेर्यद्गा᳘र्हपत्यो जुष᳘न्तां यज्ञ᳘मद्रुहो ऽनमीवा ऽइ᳘षो[[!!]] महीरि᳘ति जुष᳘न्तां यज्ञ᳘मद्रु᳘हो ऽनशनाया ऽइ᳘षो महीरि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

पुरी᳘ष्यासो ऽअग्न᳘य ऽइ᳘ति॥
पश᳘व्यासो ऽग्न᳘य ऽइ᳘त्येत᳘त्प्रावणे᳘भिः सजो᳘षस ऽइ᳘ति प्रायणरूपं प्रा᳘यण᳘ᳫँ᳘[[!!]] ह्येत᳘दग्नेर्यद्गा᳘र्हपत्यो जुष᳘न्तां यज्ञ᳘मद्रुहो ऽनमीवा ऽइ᳘षो[[!!]] महीरि᳘ति जुष᳘न्तां यज्ञ᳘मद्रु᳘हो ऽनशनाया ऽइ᳘षो महीरि᳘त्येतत्[[!!]]॥

मूलम् - Weber

पुरीॗष्यासो अग्न᳘य इ᳘ति॥
पशॗव्यासो ऽग्न᳘य इ᳘त्येत᳘त्प्रावणे᳘भिः सजो᳘षस इ᳘ति प्रायणरूपम् प्रा᳘यॗणᳫं ह्येत᳘दग्नेर्यद्गा᳘र्हपत्यो जुष᳘न्तां यज्ञ᳘मद्रु᳘हो ऽनमीवा इ᳘षो महीरि᳘ति जुष᳘न्तां यज्ञ᳘मद्रु᳘हो ऽनशनाया इ᳘षो महीरि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“पुरीष्यासो ऽअग्नयः”- इति । पशव्यासो ऽग्नय इत्येतत् । “प्रावणेभिः सजोषसः”- इति । प्रायणरूपम् । प्रायणं ह्येतदग्नेः- यद्गार्हपत्यः । “जुषन्तां यज्ञमद्रुहो ऽनमीवा ऽइषो महीः”- (वा. सं. १२ । ५०) इति । जुषन्तां यज्ञमद्रुहो ऽनशनाया इषो महीरित्येतत् ॥ २५ ॥

सायणः

पुरीष्यासो अग्नय इति । चतुर्थो मन्त्रः । अस्यायमर्थः,- पूरयति पयःप्रभृतिभिर्लोकमिति ‘पुरीषं’ पशवः; तेभ्यो हिताः ‘पुरीष्याः’ “आजसेरसुक्” (पा. सू. ७ । १ । ५०) । तथाविधाः ‘अग्नयः’ ‘प्रावणेभिः’ प्रवणसम्बन्धिभिः सम्भजनयुक्तैस्तैर्देवैः ‘सजोषसः’ समानप्रीतयः सन्तः अस्मदीयं ‘यज्ञं’ ‘जुषन्ताम्’ सेवन्ताम् । तदनन्तरम् ‘अद्रुहः’ द्रोहरहिताः, ‘अनमीवाः’ अमीवा अशनाया, तद्रहिताः । ‘महीः’ महतीः ‘इषः’ अन्नानि, अस्मभ्यं प्रयच्छन्त्विति शेषः ॥

उक्तार्थपरतां मन्त्रस्य व्याचष्टे- पशव्यासो ऽग्नय इत्येतदित्यादिना । प्रायणरूपमिति । ‘प्रावणेभिः’- इति मन्त्र- गतः प्र- शब्दः ‘प्रायणरूपम्’ प्रायणस्य प्रगमनस्य प्रारम्भस्य रूपम् । गार्हपत्यचितिश्च ‘अग्नेः’ अग्निचयनस्य ‘प्रायणम्’ प्रारम्भः; अतः प्रशब्दोपेतो मन्त्रो ऽत्र योग्य इत्यर्थः । अनमीवा इत्यस्यार्थमाह- अनशनाया इति । अशनेच्छा अशनाया क्षुत्पीडा, न विद्यते सा यासां ताः ‘अनशनायाः’ । “अशनायोदन्यधनायाः”- (पा. सू. ७ । ४ । ३४) इति बुभुक्षायां क्यचीत्वाभावो निपात्यते ॥ २५ ॥

Eggeling
  1. [The fourth one, with Vāj. S. XII, 50] ‘The Agnis Purīshyas,’–that is, the Agnis favourable to cattle; ’together with those of the streams (prāvaṇa);’ this is a form of starting 23 (prāyaṇa), for the Gārhapatya is indeed a starting of the fire;–‘may they, benevolent, accept the sacrifice, the copious, salutary draughts!’ that is, ‘may they benevolently accept the sacrifice, the copious, innocuous draughts!’

२६

विश्वास-प्रस्तुतिः

(न्ना) नानो᳘पदधाति॥
ये᳘ नाना कामा᳘ ऽआत्मंस्तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं त᳘दात्मा᳘नं करोति सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्राणे᳘नै᳘वैनमेतत्सं᳘तनोति सं᳘दधाति॥

मूलम् - श्रीधरादि

(न्ना) नानो᳘पदधाति॥
ये᳘ नाना कामा᳘ ऽआत्मंस्तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं त᳘दात्मा᳘नं करोति सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्राणे᳘नै᳘वैनमेतत्सं᳘तनोति सं᳘दधाति॥

मूलम् - Weber

नानो᳘पदधाति॥
ये᳘ नानाकामा᳘ आत्मंस्तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं त᳘दात्मा᳘नं करोति सू᳘ददोहसा᳘धिवदति प्राणो वै सू᳘ददोहाः प्राणे᳘णैॗवैनमेतत्सं᳘तनोति सं᳘दधाति॥

मूलम् - विस्वरम्

नानोपदधाति । ये नाना कामा आत्मन्- तांस्तद्दधाति । सकृत्सादयति । एकं तदात्मानं करोति । सूददोहसा ऽधिवदति । प्राणो वै सूददोहाः । प्राणेनैवैनमेतत्सन्तनोति, सन्दधाति ॥ २६ ॥

सायणः

एतासामिष्टकानां क्रमेण कृतमुपधानमनूद्य स्तौति- नानोपदधातीति । ‘नाना’ पृथगेकैकेष्टकामुपदध्यात् । तेन ‘ये’ ‘आत्मन्’ आत्मनि स्थिताः नानाविधाः ‘कामाः,’ ‘तान्’ सर्वान् असङ्कीर्णं पृथगेव ‘दधाति’ स्थापयति । सादनसूददोहसोः सकृत्त्वं विधाय स्तौति- सकृत्सादयतीत्यादिना 24 । तथा देवतयेति यत् सादनम्, तत् चतसृणामिष्टकानां सम्भूय सकृदेव कर्तव्यम् । ‘तत्’ तेन सकृत्त्वेन ‘आत्मानम्’ ‘एकम्’ एकाकारं संहतं ‘करोति’ । पृथक् सादनेन आत्मा विश्लिष्टः स्यात्, तथा “ता अस्य सूददोहसः” इति मन्त्रेण यदधिवदनम्, तदपि सादनस्य सकृत्त्वात् सकृदेव कर्तव्यमित्यर्थः । अत एव सर्वेष्टकोपधानसाधारणधर्मत्वेन सादनसूददोहसौ कात्यायनेनोक्तौ- “नित्ये सादनसूददोहसा ऽउपधानादुत्तरे तया देवतया ता अस्येत्यविशेषोपदेशात्”- (का. श्रौ. सू. १६ । २१३ । २१४) इति । प्राणेनैवैनमिति । ‘एनम्’ आत्मानम् ‘एतत्’ एतेनाधिवदनेन ‘सन्तनोति’ संयोजयति । तस्यैव विवरणम्- सन्दधातीति ॥ २६ ॥

Eggeling
  1. He puts them down separately: what different desires there are, those he thereby lays into the self. He ‘settles’ them once: he thereby makes the self one. He pronounces the Sūdadohas 25 verse on them; for the Sūdadohas is the vital air: by means of the vital air he thus makes him (Agni) continuous, joins him together.

२७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ जघ᳘नेन परी᳘त्य॥
(त्यो) उत्तरतो᳘ दक्षिणा᳘ ऽऽसीनो᳘ ऽपरयोर्द᳘क्षिणाम᳘ग्र ऽउ᳘पदधाती᳘डामग्ने पुरुद᳘ᳫँ᳘सᳫँ᳭ सनिं गोरि᳘ति पश᳘वो वा ऽइ᳘डा पशूना᳘मे᳘वास्मा ऽएता᳘माशि᳘षमा᳘शास्ते शश्वत्तमᳫँ᳭ ह᳘वमानाय साधे᳘ति य᳘जमानो वै ह᳘वमानः स्या᳘न्नः सूनुस्त᳘नयो व्विजावे᳘ति प्रजा वै᳘ सूनुर᳘ग्ने सा᳘ ते सुमति᳘र्भूत्वस्मे ऽइ᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ जघ᳘नेन परी᳘त्य॥
(त्यो) उत्तरतो᳘ दक्षिणा᳘ ऽऽसीनो᳘ ऽपरयोर्द᳘क्षिणाम᳘ग्र ऽउ᳘पदधाती᳘डामग्ने पुरुद᳘ᳫँ᳘सᳫँ᳭ सनिं गोरि᳘ति पश᳘वो वा ऽइ᳘डा पशूना᳘मे᳘वास्मा ऽएता᳘माशि᳘षमा᳘शास्ते शश्वत्तमᳫँ᳭ ह᳘वमानाय साधे᳘ति य᳘जमानो वै ह᳘वमानः स्या᳘न्नः सूनुस्त᳘नयो व्विजावे᳘ति प्रजा वै᳘ सूनुर᳘ग्ने सा᳘ ते सुमति᳘र्भूत्वस्मे ऽइ᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - Weber

अ᳘थ जघ᳘नेन परी᳘त्य॥
उत्तरतो᳘ दक्षिणा᳘सीनो᳘ ऽपरयोर्द᳘क्षिणाम᳘ग्र उ᳘पदधाती᳘डामग्ने पुरुद᳘ᳫं᳘सᳫं सनिं गोरि᳘ति पश᳘वो वा इ᳘डा पशूना᳘मेॗवास्मा एता᳘माशि᳘षमा᳘शास्ते शश्वत्तमᳫं ह᳘वमानाय साधे᳘ति य᳘जमानो वै ह᳘वमानः स्या᳘न्नः सूनुस्त᳘नयो विजावे᳘ति प्रजा वै᳘ सूनुर᳘ग्ने सा᳘ ते सुमति᳘र्भूत्वस्मे इ᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

अथ जघनेन परीत्य, उत्तरतो दक्षिणा ऽऽसीनो ऽपरयोर्दक्षिणामग्र उपदधाति । “इडामग्ने पुरुदंसं सनिं गोः”- इति । पशवो वा ऽइडा । पशूनामेवास्मा ऽएतामाशिषमाशास्ते । “शश्वत्तमं हवमानाय साध”- इति । यजमानो वै हवमानः । स्यान्नः सूनुस्तनयो विजावा"- इति । प्रजा वै सूनुः । “अग्ने सा ते सुमतिर्भूत्वस्मे”- (वा. सं. १२ । ५१) इति । आशिषाशास्ते ॥ २७ ॥

सायणः

पश्चिमार्ध्ययोरिष्टकयोरुपधानप्रकारमाह- अथ जघनेनेति 24 । मध्येष्टकोपधानानन्तर्यमथ- शब्दार्थः । ‘जघनेन परीत्य’ गार्हपत्यस्थानस्य पश्चात् परिक्रम्य, ‘उत्तरतः’ उत्तरस्यां दिशि दक्षिणामुखः ‘आसीनः’ सन् ‘अपरयोः’ पाश्चात्त्ययोरिष्टकयोः ‘दक्षिणां’ दक्षिणभागस्थामिष्टकाम् ‘अग्रे’ प्रथमम् ‘उपदधाति’ “इडामग्ने” इति मन्त्रेण ॥

तस्यायमर्थः- ‘हे अग्ने !’ ‘हवमानाय’ हवनं कुर्वते यजमानाय ‘इडां’ पशुम् । जातावेकवचनम् । (पा. सू. १ । २ । ५८) गवाश्वादिपशून् ‘साध’ साधय । पशुरेव विशेष्यते- पुरुदंसमिति । ‘दंसस्’ इति कर्मनाम, (निघं २ । १ । ३) बहुकर्महेतुभूतम्, अन्त्यलोपश्छान्दसः । ‘शश्वत्तमं’ शाश्वतिकतमञ्च पुत्रपौत्रादिरूपेणाविच्छेदेन सर्वदा वर्त्तमानम् । ‘गोस्सनिं’ गवादिपशूनां दातारम् । अस्मै यजमानाय साधय सम्पादय । अपि च ‘नः’ अस्माकं ‘तनयः’ पुत्रः, ‘सूनुः’ तत्पुत्रश्च, ‘विजावा’ विविधानां जनयिता स्यात्, उत्पद्यतामित्यर्थः । जनेर्विपूर्वात्- “अन्येभ्यो ऽपि दृश्यन्ते”- (पा. सू. ३ । २। ७५) इति वनिप्, “विड्वनोरनुनासिकस्यात्”- (पा. सू. ६ । ४ । ४१) इत्यात्वम् । किं बहुना हे ‘अग्ने !’ ‘ते’ त्वदीया सा ‘सुमतिः’ सर्वश्रेयोनिदानभूता कल्याणी बुद्धिः ‘अस्मे’ अस्मासु ‘भूतु’ भवत्वित्यर्थः ॥

एतदर्थपरत्वेन मन्त्रं व्याचष्टे- पशवो वा इडेति । इडा खलु मनोर्दुहिता । तेनाप्सु हुतैर्घृतदधिमस्त्वामिक्षारूपैर्द्रव्यैरुत्पन्ना । एतच्च “तत्रापि पाकयज्ञेनेजे स घृतम्"- (श. प. १ । ८ । १ । ७) इत्यादिना प्रथमकाण्डे प्रतिपादितम् । तथा च पशुप्रभवद्रव्येभ्य उत्पन्नत्वादिडायास्तद्वाचिनेडाशब्देन कारणभूताः पशव एवोच्यन्ते । पुरुदंसादिविशेषणेषु लिङ्गव्यत्ययश्छान्दसः । पशूनामेवेति कर्मणि षष्ठी; पशुविषयाम् ‘आशिषं’ प्रार्थनाम् ‘अस्मै’ यजमानाय अध्वर्युः ‘आशास्ते’ । यजमानो वै हवमान इति । देवानाह्वयति तेभ्यो जुहोतीति वा, हवमानशब्दो यजमानवाचीत्यर्थः । प्रजा वै सुनुरिति । तनय-शब्देन पुत्रस्य प्रतिपादितत्वात्- तत्पुत्रादिरूपाः प्रजाः सूनु- शब्देन प्रतिपाद्यन्त इत्यर्थः ॥ २७ ॥

Eggeling
  1. Thereupon going round behind, he sits down on the north side with his face to the south, and puts on first the southern one of the two behind,

with (Vāj. S. XII, 51), ‘Potent nourishment, O Agni, the possession of kine,’–nourishment means cattle: he thus invokes for him the blessing of cattle;–‘Grant thou perpetually unto him that calleth!’–he that calls doubtless is the Sacrificer; ‘May there be to us a son, the perpetuator of the race,’–a son means offspring;–’let that, O Agni, be thy good-will unto us!’ he therewith invokes a blessing.

२८

विश्वास-प्रस्तुतिः

(स्ते ऽथो᳘) अथो᳘त्तराम्॥
(म) अयं᳘ ते यो᳘निर्ऋत्वि᳘यो य᳘तो जातो ऽअ᳘रोचथा ऽइ᳘त्ययं᳘ ते यो᳘निर्ऋत᳘व्यः[[!!]] सनात᳘नो य᳘तो जातो᳘ ऽदीप्यथा ऽइ᳘त्येतत्तं᳘ जान᳘न्नग्न ऽआ᳘रोहा᳘था नो वर्ध᳘या रयिमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(स्ते ऽथो᳘) अथो᳘त्तराम्॥
(म) अयं᳘ ते यो᳘निर्ऋत्वि᳘यो य᳘तो जातो ऽअ᳘रोचथा ऽइ᳘त्ययं᳘ ते यो᳘निर्ऋत᳘व्यः[[!!]] सनात᳘नो य᳘तो जातो᳘ ऽदीप्यथा ऽइ᳘त्येतत्तं᳘ जान᳘न्नग्न ऽआ᳘रोहा᳘था नो वर्ध᳘या रयिमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

अथो᳘त्तराम्॥
अयं᳘ ते यो᳘निरृत्वि᳘यो य᳘तो जातो अ᳘रोचथा इ᳘त्ययं᳘ ते यो᳘निरृतव्यः᳘ सनात᳘नो य᳘तो जातो᳘ ऽदीप्यथा इ᳘त्येतत्तं᳘ जान᳘न्नग्न आ᳘रोहा᳘था नो वर्ध᳘या रयिमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

अथोत्तराम् । “अयं ते योनिर्ऋत्वियो यतो जातो ऽअरोचथाः”- इति । अयं ते योनिर्ऋतव्यः सनातनो- यतो जातो ऽदीप्यया इत्येतत् । “तं जानन्नग्न ऽआरोहाथा नो वर्धया रयिम्”- (वा. सं. १२ । ५२) इति । यथैव यजुस्तथा बन्धुः ॥ २८ ॥

सायणः

अथ पाश्चात्त्ययोरुत्तरस्या इष्टकाया उपधानं विधत्ते- अथोत्तरामिति । उपदधातीति शेषः । मन्त्रस्यायमर्थः,- हे ‘अग्ने !’ ‘ऋत्वियः’ ऋतौ भवः सनातनः अयं भूप्रदेशस्तव ‘योनिः’ उत्पत्तिकारणम् । ‘यतः’ यस्माद्योनेः ‘जात’ सन् ‘अरोवथाः,’ अदीप्यथाः, ‘तं’ योनिभूतम् देशं ‘जानन्’ ‘आरोह’ प्राप्नुहि । अथ अनन्तरम् ‘नः’ अस्माकं ‘रयिं’ धनं ‘वर्धय’ ॥

मन्त्रस्यैतमर्थं प्रतिपादयति- अयं त इत्यादिना (का. श्रौ. सू. १७ । ११) । “ऋत्वियः” इति मन्त्रपदस्यार्थमाह- ऋतव्य इति । ऋतौ भव इति विगृह्य “छन्दसि घस्”- (पा. सू. ५ । १ । १०६) इति घस्-प्रत्यये ऋत्विय इति रूपम्, तथा च ऋतव्य इति तस्यार्थो भवति । ‘सनातनः’- इति ऋतव्यपदव्याख्यानम्; ऋत्वात्मकस्य कालस्य सर्वदा विद्यमानत्वात् तत्र भवः अग्निः ‘सनातनः’ नित्य इत्यर्थः । तथा च ‘जातः’- इति प्रादुर्भावमात्रं विवक्षितम्, नोत्पत्तिः । अदीप्यथा इत्येतदिति । “रुच दीप्तावभिप्रीतौ च”- (धा. पा. भ्वा. आ. १४६) इति रुचिधातोरनेकार्थत्वादत्र दीप्त्यर्थो विवक्षित इति भावः । यथैव यजुरिति । यजुर्मन्त्रो यथैव प्रतिपादयति, तथैव तस्य ‘बन्धुः’ बन्धनीयं व्याख्यानम्, स्पष्टार्थतया न पृथग्व्याख्यायत इत्यर्थः ॥ २८ ॥

Eggeling
  1. Then the northern one, with (Vāj. S. XII, 52; R̥k S. III, 29, 10), ‘This is thy natural womb, whence born thou shonest forth,’–that is, ’this (householder’s hearth) is thy primeval, perennial womb (birth-place), whence born thou wert enkindled;’–‘knowing it, ascend, O Agni, and increase our substance!’ as the text, so its meaning.

२९

विश्वास-प्रस्तुतिः

स᳘क्थ्यावस्यैते[[!!]]॥
ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना᳘ हीमे᳘ स᳘क्थ्यौ द्वे᳘ भवतो द्वे᳘ हीमे᳘ स᳘क्थ्यौ पश्चादु᳘पदधाति पश्चा᳘द्धीमे᳘ स᳘क्थ्याव᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳘स्पृष्टे भवत ऽएव᳘ᳫँ᳘ हीमे᳘ स᳘क्थ्याव᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳘स्पृष्टे॥

मूलम् - श्रीधरादि

स᳘क्थ्यावस्यैते[[!!]]॥
ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना᳘ हीमे᳘ स᳘क्थ्यौ द्वे᳘ भवतो द्वे᳘ हीमे᳘ स᳘क्थ्यौ पश्चादु᳘पदधाति पश्चा᳘द्धीमे᳘ स᳘क्थ्याव᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳘स्पृष्टे भवत ऽएव᳘ᳫँ᳘ हीमे᳘ स᳘क्थ्याव᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳘स्पृष्टे॥

मूलम् - Weber

सॗक्थ्यावस्यैते᳟॥
ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘धिवदति ना᳘नाॗ हीमे᳘ सॗक्थ्यौ द्वे᳘ भवतो द्वेॗ हीमे᳘ सॗक्थ्यौ पश्चादु᳘पदधाति पश्चाॗद्धीमे᳘ सॗक्थ्याव᳘ग्राभ्याᳫं स᳘ᳫं᳘स्पृष्टे भवत एॗवᳫं हीमे᳘ सॗक्थ्याव᳘ग्राभ्याᳫं स᳘ᳫं᳘स्पृष्टे॥

मूलम् - विस्वरम्

सक्थ्यावस्यैते । ते नानोपदधाति । नाना सादयति । नाना सूददोहसा ऽधिवदति । नाना हीमे सक्थ्यौ । द्वे भवतो- द्वे हीमे सक्थ्यौ । पश्चादुपदधाति । पश्चाद्धीमे सक्थ्यौ । अग्राभ्यां संस्पृष्टे भवतः । एवं हीमे सक्थ्यावग्राभ्यां संस्पृष्टे ॥ २९ ॥

सायणः

एतयोः पाश्चात्त्ययोः इष्टकयोरुपधानसादनादीनां पृथक् कर्तव्यतामाह- सक्थ्यावित्यादिना । ‘अस्य’ अग्नेः ‘सक्थ्यौ’ श्रोण्यौ ‘एते’ इष्टके; अतः ‘ते’ ‘नाना’ पृथगुपदध्यात् । सादनसूददोहसा ऽधिवदने अपि पृथक् कर्त्तव्ये । तत्र कारणमाह- नाना हीमे इति । ‘इमे’ मनुष्यसम्बन्धिन्यौ सक्थ्यौ ‘हि’ यस्मात् ‘नाना’ पृथगसंश्लिष्टे भवतः, तस्मात् तत्संस्तुतयोः इष्टकयोरप्यसंश्लेषो युक्त इत्यर्थः । द्वित्वमनूद्य स्तौति- द्वे भवत इति ॥

पश्चाद्भागोपधानमनूद्य स्तौति- पश्चादिति । पश्चाद्धीमे इति । ‘हि’ ‘यस्मात्’ ‘इमे’ दृश्यमाने पुरुषसम्बन्धिन्यौ सक्थ्यौ ‘पश्चाद्’-भागे शरीरस्यापरभागे भवतः, तस्मादनयोः पश्चादुपधानं युक्तम् । अग्रप्रदेशेन तयोः परस्परसंसर्गं विधत्ते- अग्राभ्यामिति । आत्मसमीपे अग्रदेशः, तत्रैते ‘संस्पृष्टे’ भवत इत्यर्थः । एवं हीमे इति । लौकिकं निदर्शनम् ॥ २९ ॥

Eggeling
  1. These two are his (Agni’s) thighs,–separately he puts them on, separately he ‘settles’ them, separately he pronounces the Sūdadohas verse upon them, for separate are these two thighs. There are two of them, for there are two thighs. Behind he puts them on, for behind are those thighs. At their upper ends they are joined (to the central ones 26), for so are these thighs joined (to the body) at their upper ends.

३०

विश्वास-प्रस्तुतिः

(ष्टे ऽअ) अ᳘थ ते᳘नैव पु᳘नः परी᳘त्य॥
दक्षिणत ऽउ᳘दङ्ङा᳘सीनः पू᳘र्वयोरु᳘त्तराम᳘ग्र ऽउ᳘पदधाति चि᳘दसि त᳘या देव᳘तया ऽङ्गिरस्व᳘द्ध्रुवा᳘ सीदेत्य᳘थ द᳘क्षिणां परिचि᳘दसि त᳘या देव᳘तया ऽङ्गिरस्व᳘द्ध्रुवा᳘ सीदे᳘ति॥

मूलम् - श्रीधरादि

(ष्टे ऽअ) अ᳘थ ते᳘नैव पु᳘नः परी᳘त्य॥
दक्षिणत ऽउ᳘दङ्ङा᳘सीनः पू᳘र्वयोरु᳘त्तराम᳘ग्र ऽउ᳘पदधाति चि᳘दसि त᳘या देव᳘तया ऽङ्गिरस्व᳘द्ध्रुवा᳘ सीदेत्य᳘थ द᳘क्षिणां परिचि᳘दसि त᳘या देव᳘तया ऽङ्गिरस्व᳘द्ध्रुवा᳘ सीदे᳘ति॥

मूलम् - Weber

अ᳘थ ते᳘नैव पु᳘नः परी᳘त्य॥
दक्षिणत उ᳘दङ्ङा᳘ सीनः पू᳘र्वयोरु᳘त्तराम᳘ग्र उ᳘पदधाति चि᳘दसि त᳘या देव᳘तयाङ्गिरस्व᳘दृद्ध्रुवा᳘ सीदेत्य᳘थ द᳘क्षिणाम् परिचि᳘दसि त᳘या देव᳘तयाङ्गिरस्व᳘द्ध्रुवा᳘ सीदे᳘ति॥

मूलम् - विस्वरम्

अथ तेनैव पुनः परीत्य- दक्षिणत उदङ्ङासीनः पूर्वयोरुत्तरामग्र ऽउपदधाति । “चिदसि तया देवतया ऽङ्गिरस्वद् ध्रुवा सीद"- इति । अथ दक्षिणां- “परिचिदसि तया देवतया ऽङ्गिरस्वद् ध्रुवा सीद”- (वा. सं. १२ । ५३) इति ॥ ३० ॥

सायणः

पूर्वार्द्ध्ययोरुपधानप्रकारमाह- अथ तेनैवेति 27 । येन मार्गेण पाश्चात्ययोरुपधाने परिक्रमणं कृतम्, तेनैव पुनः ‘दक्षिणतः’ ‘परीत्य’ परिक्रम्य, तत्रोदङ्मुखः ‘आसीनः’ ‘पूर्वयोः’ इष्टकयोः मध्ये ‘अग्रे’ प्रथमम् ‘उत्तरामुपदधाति’ । चिदसीति- तस्य मन्त्रः । अनन्तरम्, ‘दक्षिणाम्’ उपदधाति परिचिदसीति ॥

तन्मन्त्रयोरयमर्थः- भोगांश्चिनोति सम्पादयतीति चित् । हे इष्टके ! त्वं ‘चित्’ चेतयमाना वागसि भोगांश्चिन्वाना ऽसि । या देवता त्वामभिमन्यते ‘तया’ वाग्रूपया ‘देवतया’ ‘अङ्गिरस्वत्’ अङ्गिराः प्राणाः । “प्राणो हि वा अङ्गानां रसः”- इति तन्नामव्युत्पत्तेः (श. प. ६ । १ । २ । २८) । सो ऽस्यास्तीत्यङ्गिरस्वत् । क्रियाविशेषणमेतत् । “तसौ मत्वर्थे”- (पा. सू. १ । ४ । १९) इति भत्वादुत्वाभावः । तेन युक्तं यथा भवति तथा वाग्देवतया युक्ता असीत्यर्थः । ‘ध्रुवा’ स्थिरा सती ‘सीद’ निषण्णा भव ॥

परिचिदसीति द्वितीयो मन्त्रः । परितो भोगांश्चिन्वाना सम्पादयमाना परिचीयमाना वागसीत्यर्थः ॥ ३० ॥

Eggeling
  1. Thereupon, going round again by the same way, he sits down on the south side, with his face to the north, and puts on first the northern one of the two (bricks) in front, with (Vāj. S. XII, 53),

‘Ranging thou art: by that deity, Aṅgiras-like, lie thou steady 28!’ Then the southern one, with, ‘Ranging round thou art: by that deity, Aṅgiras-like, lie thou steady’!’

३१

विश्वास-प्रस्तुतिः

बाहू᳘ ऽअस्यैते[[!!]]॥
ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना᳘ हीमौ᳘ बाहू द्वे᳘ भवतो द्वौ᳘ हीमौ᳘ बाहू᳘ पूर्वार्ध ऽउ᳘पदधाति[[!!]] पुर᳘स्ता᳘द्धीमौ᳘ बाहू ऽअ᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳭स्पृष्टे भवत ऽएव᳘ᳫँ᳘[[!!]] हीमौ᳘ बाहू ऽअ᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳘स्पृष्टौ स वा ऽइ᳘तीमा᳘ ऽउपद᳘धाती᳘तीमे ऽइ᳘तीमे त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा॥

मूलम् - श्रीधरादि

बाहू᳘ ऽअस्यैते[[!!]]॥
ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना᳘ हीमौ᳘ बाहू द्वे᳘ भवतो द्वौ᳘ हीमौ᳘ बाहू᳘ पूर्वार्ध ऽउ᳘पदधाति[[!!]] पुर᳘स्ता᳘द्धीमौ᳘ बाहू ऽअ᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳭स्पृष्टे भवत ऽएव᳘ᳫँ᳘[[!!]] हीमौ᳘ बाहू ऽअ᳘ग्राभ्याᳫँ᳭ स᳘ᳫँ᳘स्पृष्टौ स वा ऽइ᳘तीमा᳘ ऽउपद᳘धाती᳘तीमे ऽइ᳘तीमे त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा॥

मूलम् - Weber

बाहू᳘ अस्यैते᳟॥
ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘धिवदति ना᳘नाॗ हीमौ᳘ बाहू द्वे᳘ भवतो द्वौॗ हीमौ᳘ बाहू᳘ पूर्वार्ध᳘ उ᳘पदधाति पुर᳘स्ताॗद्धीमौ᳘ बाहू अ᳘ग्राभ्याᳫं स᳘ᳫं᳘स्पृष्टे भवत एॗवᳫं हीमौ᳘ बाहू अ᳘ग्राभ्याᳫं स᳘ᳫं᳘स्पृष्टौ स वा इ᳘तीमा᳘ उपद᳘धाती᳘तीमे इ᳘तीमे त᳘द्दक्षिणावृत्तद्धि᳘ देवॗत्रा॥

मूलम् - विस्वरम्

बाहू ऽअस्यैते । ते नानोपदधाति । नाना सादयति । नाना सूददोहसा ऽधिवदति । नाना हीमौ बाहू । द्वे भवतः । द्वौ हीमौ बाहू । पूर्वार्द्ध ऽउपदधाति । पुरस्ताद्धीमौ बाहू । अग्राभ्यां संस्पृष्टे भवतः । एवं हीमौ बाहू ऽअग्राभ्यां संस्पृष्टौ । स वा ऽइतीमा ऽउपदधाति, इतीमे, इतीमे । तद्दक्षिणावृत् । तद्धि देवत्रां ॥ ३१ ॥

सायणः

‘सक्थ्यावस्यैते’- इतिवद् “बाहू अस्यैते”- इति व्याख्येयम् । एतासामिष्टकानामुपधानस्प प्रादक्षिण्यमुपनयेन दर्शयन्स्तौति- स वा इतीमा इति । ‘इमाः’ मध्ये उपधीयमानाश्चतस्र इष्टकाः आत्मन उत्तरार्द्धमारभ्य दक्षिणा उपदधाति 29 । ‘इमे’ पाश्चात्त्ये इष्टके ‘इति’ प्रथमं दक्षिणार्द्ध्याम्, पश्चादुत्तरार्द्ध्यामित्यनेन क्रमेणोपदधाति । तथा ‘इमे’ पौरस्त्ये इष्टके प्रथममुत्तरार्द्ध्याम्, पश्चादक्षिणार्द्ध्यामित्यनेन क्रमेणोपदधाति । ‘तत्’ तथा सति ‘दक्षिणावृत्’ प्रादक्षिण्येन वर्तनं भवति । ‘तत्’ खलु, ‘देवत्रा’ देवेषु योग्यमित्यर्थः ॥ ३१ ॥

Eggeling
  1. These two are his (Agni’s) arms,–separately he puts them on, separately he ‘settles’ them, separately he pronounces the Sūdadohas 30 verse on them; for separate are these two arms. There are two of them, for there are two arms. He puts them on in the forepart, for these arms are here in front. At their upper ends they are joined (to the central ones), for so are these two arms joined (to the body) at the upper ends. Those two (arms) he puts on thus (from north to south), and those two (thighs) thus (from south to north): that is (from east to) southward 31, for thus it is with the gods 32.

३२

विश्वास-प्रस्तुतिः

(त्रा ऽष्टा) अष्टावि᳘ष्टका ऽउ᳘पदधाति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोति प᳘ञ्चकृ᳘त्वः सादयति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोत्यष्टावि᳘ष्टकाः प᳘ञ्चकृ᳘त्वः सादयति तत्त्र᳘योदश त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(त्रा ऽष्टा) अष्टावि᳘ष्टका ऽउ᳘पदधाति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोति प᳘ञ्चकृ᳘त्वः सादयति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोत्यष्टावि᳘ष्टकाः प᳘ञ्चकृ᳘त्वः सादयति तत्त्र᳘योदश त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

अष्टावि᳘ष्टका उ᳘पदधाति॥
अष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनमेत᳘च्चिनोति प᳘ञ्च कृ᳘त्वः सादयति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वनग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनमेत᳘च्चिनोत्यष्टावि᳘ष्टकाः प᳘ञ्च कृ᳘त्वः सादयति तत्त्र᳘योदश त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावन्तमेवैनमेतच्चिनोति । पञ्चकृत्वः सादयति । पञ्चचितिको ऽग्निः । पञ्चर्तवः संवत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावन्तमेवैनमेतच्चिनोति । अष्टाविष्टकाः; पञ्चकृत्वः सादयति । तत् त्रयोदश । त्रयोदश मासाः संवत्सरः । त्रयोदशाग्नेश्चितिपुरीषाणि । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ ३२ ॥

सायणः

अथोपहितानामिष्टकानां सम्भूय संख्यां प्रशंसति- अष्टाविष्टका इति । गायत्रो ऽग्निरिति । अष्टाक्षरपादेन गायत्रीच्छन्दसा सह प्रजापतिमुखादुत्पन्नत्वादग्नेर्गायत्रत्वम् (तै. सं. ७ । १ । १ । ४) । सादनसंख्यामनूद्य स्तौति- पञ्चकृत्व इति । मध्ये उपधेयस्य इष्टकाचतुष्टयस्य एकं सादनम्, अन्यासां चत्वारीति तानि पञ्च भवन्ति । पञ्चचितिको ऽग्निरिति । पञ्च चितयः प्रस्ताराः यस्मिन् स तथोक्तः । पञ्चर्तव इति । हेमन्तशिशिरयोः समासा ऽभिप्रायेण (ऐ. ब्रा. १ । १ । १) । संवत्सरो ऽग्निरिति । संवत्सरः प्रजापतिर्विराट्, तदात्मकश्चीयमानो ऽग्निः प्रागुक्त इत्यर्थः । संख्याद्वयं सम्भूय प्रशंसति- अष्टाविष्टका इति । त्रयोदश मासा इति । संसर्पांहस्पतिसञ्ज्ञको ऽधिमासस्त्रयोदश; “अस्ति त्रयोदशो मासः”- इति श्रुतेः (श. प. ४ । ३ । १ । ५) । त्रयोदशाग्नेरिति । चित्यस्याग्नेश्चितिपुरीषाणि त्रयोदश भवन्ति । आदितश्चतस्रश्चितयः पुरीषनिवपनान्ताः, स्तोमभागान्ता पञ्चमी चितिः । तदनन्तरभाव्येकं पुरीषम्, नाकसत्प्रभृतिपुरीषनिवपनान्ता षष्ठी चितिरिति द्वे, ततो विकर्णस्वयमातृण्णयोरुपधानम्, हिरण्यशकलैः प्रोक्षणमग्न्यभ्याधानञ्चेति सप्तमी चितिः, सा त्रयोदशी, इत्यादिर्विभाग ऊह्याः । अत इष्टकाचितयः सप्त, पुरीषनिवपनानि षडिति मिलित्वा त्रयोदश । तथा चाष्टमकाण्डे समाम्नास्यते- “अथ यदत ऊर्ध्वमा पुरीषादा षष्ठीः” (श. प. ८ । ५ । ४ । ८) इत्यादिना ॥ ३२ ॥

Eggeling
  1. Eight bricks he puts on (the hearth-site),the Gāyatrī consists of eight syllables, and Agni is Gāyatra 33: as great as Agni is, as great as is his measure, so great he thus builds him. Five times he ‘settles’ (the bricks)–the fire-altar consists of five layers; five seasons are a year, and Agni is the year: as great as Agni is, as great as is his measure,

so great he thus builds him. Eight bricks he ‘settles’ five times, that makes thirteen,–thirteen months are a year, and there are thirteen layers of earth in the fire-altar: as great as Agni is, as great .as is his measure, so great does this become.

३३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ लोकम्पृणामु᳘पदधाति॥
त᳘स्या ऽउप᳘रि ब᳘न्धुस्तिस्रः पू᳘र्वास्त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोति दशो᳘त्तरास्ता᳘सामुप᳘रि ब᳘न्धुर्द्वे वा ऽग्रे᳘ ऽथ दशाथै᳘कामेवᳫँ᳭ हि चि᳘तिं चिन्व᳘न्ति तास्त्र᳘योदश स᳘म्पद्यन्ते त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ लोकम्पृणामु᳘पदधाति॥
त᳘स्या ऽउप᳘रि ब᳘न्धुस्तिस्रः पू᳘र्वास्त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोति दशो᳘त्तरास्ता᳘सामुप᳘रि ब᳘न्धुर्द्वे वा ऽग्रे᳘ ऽथ दशाथै᳘कामेवᳫँ᳭ हि चि᳘तिं चिन्व᳘न्ति तास्त्र᳘योदश स᳘म्पद्यन्ते त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ लोकम्पृणामु᳘पदधाति॥
त᳘स्या उप᳘रि ब᳘न्धुस्तिस्रः पू᳘र्वास्त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनमेत᳘च्चिनोति दशो᳘त्तरास्ता᳘सामुप᳘रि ब᳘न्धुर्द्वे वाग्रे᳘ ऽथ दशाथै᳘कामेवᳫं हि चि᳘तिं चिन्व᳘न्ति तास्त्र᳘योदश स᳘म्पद्यन्ते त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ लोकंपृणामुपधाति । तस्या उपरि बन्धुः । तिस्रः पूर्वाः । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावन्तमेवैनमेतच्चिनोति । दशोत्तराः । तासामुपरि बन्धुः । द्वे वा ऽग्रे, अथ दश, अथैकाम् । एवं हि चितिं चिन्वन्ति । तास्त्रयोदश सम्पद्यन्ते । तस्योक्तो बन्धुः ॥ ३३ ॥

सायणः

लोकम्पृणाख्याया इष्टकाया उपधानं विधत्ते- अथेति । एवमष्टाविष्टका उपधाय, अनन्तरमवशिष्टे गार्हपत्यचितिस्थाने लोकम्पृणाख्यामिष्टकामुपदधाति; लोकं शिष्टं स्थानं पृण पूरयेति तन्मन्त्रे (वा. सं. १२ । ५४) प्रतिपादनात् । तस्या उपरि बन्धुरिति । ‘तस्याः’ लोकम्पृणायाः ‘उपरि’ उपरिष्टात्, अष्टमकाण्डावसाने “असौ वा आदित्यो लोकम्पृणा”- इत्यादिः स्तावको वाक्यशेषः (श. प. ८ । ७ । २ । १) आम्नास्यत इत्यर्थः ॥

सकृदुच्चरितेन लोकम्पृणेति मन्त्रेण तिसृणां युगपदुपधानं विधत्ते- तिस्रः पूर्वा इति । तत् प्रशंसति- त्रिवृदग्निरिति । “स श्रान्तस्तेपानो मृदँ शुष्कापम्” इत्यादिना अग्नेस्त्रिवृत्त्वं प्रतिपादितम् (श. प. ६ । १ । १ । १३) । अतो ऽग्नेस्त्रिवृत्त्वसंख्यायोगात् तिसृणामुपधानं युक्तमित्यर्थः ॥

अथ तेनैव सकृदुच्चरितेनैव मन्त्रेण दशानामिष्टकानामुपधानं विधत्ते- दशोत्तरा इति । उपदधातीति शेषः ‘उत्तराः’ उपरिभाविनीरित्यर्थः । तासामुपरीति । ‘तासां’ दशानामिष्टकानाम्, यादृशी संख्या, तत्स्तावको ऽर्थवादो भविष्यतीत्यर्थः ॥

पूर्वं त्रयोदशलोकम्पृणानां द्वेधा विभागेनोपधानमभिधाय, त्रेधा विभागपक्षमप्याह- द्वे वा ऽग्र इति । एतच्च पक्षद्वयं सूत्रकृता ऽपि दर्शितम्- “तिसृषु लोकम्पृणासु मन्त्रो दशसु च द्वयोर्वा दशस्वेकस्याञ्च” (का. श्रौ. सू. १७ । १७) इति । द्वितीयं पक्षं लौकिकेन निदर्शनेनोपपादयति- एवं हीति । यत्र हि काष्ठादिभिश्चितिर्निर्मीयते, तत्र एवमेव हि ‘चितिं चिन्वन्ति’ । मूलाग्रभागयोर्द्वे काष्ठे प्रथमं तिर्यक् स्थापयन्ति, पश्चात्तयोरुपर्युपरि अन्यानि सर्वाणि प्रागग्राण्यवशिष्टानि स्थापयन्ति । उपरिष्टाच्चलनाभावायैकं पुनः स्थापयन्ति । तस्मात् तदनुसारेणायं पक्ष उक्त इत्यर्थः । तासां लोकम्पृणानां संख्यां सम्भूयानूद्य प्रागुक्तो वाक्यशेष इति दर्शयति- तास्त्रयोदशेति । “त्रयोदश मासाः संवत्सरः”- इत्यादिरुक्तो वाक्यशेषो ऽत्रापि योजनीय इत्यर्थः ॥ ३३ ॥

Eggeling
  1. He then puts on a space-filling one: the significance of that one (will be explained) further on 34. Three there are in front 35,–threefold is Agni: as great as Agni is, as great as is his measure, so great he thus builds him;–and ten those that follow 36,–the significance of these (will be explained) further on. Or first two, then ten, and then one, for in this way they build up the pile,–these amount to thirteen: the significance of this has been told.

३४

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘ ऽउभ᳘य्य ऽए᳘कविᳫँ᳭शतिः स᳘म्पद्यन्ते॥
द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकवि᳘ᳫँ᳘शो ऽमुं त᳘दादित्य᳘मस्मि᳘न्नग्नौ प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘ ऽउभ᳘य्य ऽए᳘कविᳫँ᳭शतिः स᳘म्पद्यन्ते॥
द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकवि᳘ᳫँ᳘शो ऽमुं त᳘दादित्य᳘मस्मि᳘न्नग्नौ प्र᳘तिष्ठापयति॥

मूलम् - Weber

ता᳘ उभ᳘य्य ए᳘कविंशतिः स᳘म्पद्यन्ते॥
द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंॗशो ऽमुं त᳘दादित्य᳘मस्मि᳘न्नग्नौ प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

ता उभय्य एकविंशतिः सम्पद्यन्ते- द्वादश मासाः पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः । अमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति ॥ ३४ ॥

सायणः

पूर्वाभिरिष्टकाभिः सहैतासां संख्यां सम्भूय प्रशंसति- ता उभय्य इति । ‘उभय्यः’ उभयविधाः, “अयँ सो ऽअग्निः”- इत्यादिभिर्मन्त्रैः प्रागुपहिता अष्टौ, लोकम्पृणास्त्रयोदशेति मिश्रिता एकविँशतिर्भवन्ति । “एकविँश इति,” एकविंशतिसंख्यापूरकः । “तस्य पूरणे डट्”- (पा. सू. ५ । २ । ४८) “ति विंशतेर्डेति”−(पा. सू. ६ । ४ । १४२) इति ‘ति’- शब्दलोपः । ‘तत्’ तेनैकविंशतिसंख्यासम्पादनेन ‘अमुं’ द्युलोकस्थमेव ‘आदित्यम्’ ‘अस्मिन्’ चिते ‘अग्नौ’ प्रतिष्ठापयति । एकविंशतिसंख्यायोगाच्चीयमानो ऽग्निस्तदात्मको भवतीत्यर्थः ॥ ३४ ॥

Eggeling
  1. Both these kinds (of bricks) amount to twenty-one;–there are twelve months, five seasons, these three worlds, and yonder sun as the twenty-first: that sun he thus establishes in this fire-altar.

३५

विश्वास-प्रस्तुतिः

(त्ये᳘) ए᳘कविᳫँ᳭शतिर्वेव᳘ परिश्रि᳘तः॥
(तो) द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअय᳘मग्नि᳘रमुतो᳘ ऽध्येकविᳫँ᳭श᳘ ऽइमं त᳘दग्नि᳘ममु᳘ष्मिन्नादित्ये प्र᳘तिष्ठापयति तद्य᳘देता᳘ ऽएव᳘मुपद᳘धात्येता᳘वे᳘वैत᳘द᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठापयति ता᳘वेता᳘व᳘न्यो ऽन्य᳘स्मिन्प्रतिष्ठितौ तौ वा᳘ ऽएताव᳘त्र द्वा᳘वेकविᳫँ᳭शौ स᳘म्पादयत्य᳘त्र᳘ ह्ये᳘वेमौ᳘ त᳘दोभौ भ᳘वत ऽआहवनी᳘यश्च गा᳘र्हपत्यश्च॥

मूलम् - श्रीधरादि

(त्ये᳘) ए᳘कविᳫँ᳭शतिर्वेव᳘ परिश्रि᳘तः॥
(तो) द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअय᳘मग्नि᳘रमुतो᳘ ऽध्येकविᳫँ᳭श᳘ ऽइमं त᳘दग्नि᳘ममु᳘ष्मिन्नादित्ये प्र᳘तिष्ठापयति तद्य᳘देता᳘ ऽएव᳘मुपद᳘धात्येता᳘वे᳘वैत᳘द᳘न्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठापयति ता᳘वेता᳘व᳘न्यो ऽन्य᳘स्मिन्प्रतिष्ठितौ तौ वा᳘ ऽएताव᳘त्र द्वा᳘वेकविᳫँ᳭शौ स᳘म्पादयत्य᳘त्र᳘ ह्ये᳘वेमौ᳘ त᳘दोभौ भ᳘वत ऽआहवनी᳘यश्च गा᳘र्हपत्यश्च॥

मूलम् - Weber

ए᳘कविंशतिर्वेव᳘ परिश्रि᳘तः॥
द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ अय᳘मग्नि᳘रमुतो᳘ ऽध्येकविंश᳘ इमं त᳘दग्नि᳘ममु᳘ष्मिन्नादित्ये प्र᳘तिष्ठापयति तद्य᳘देता᳘ एव᳘मुपद᳘धात्येता᳘वेॗवैत᳘दॗन्यो ऽन्य᳘स्मिन्प्र᳘तिष्ठापयति ता᳘वेता᳘वॗन्यो ऽन्य᳘स्मिन्प्रतिष्ठितौ तौ वा᳘ एताव᳘त्र द्वा᳘वेकविंशौ स᳘म्पादयत्य᳘त्रॗ ह्येॗवेमौ᳘ तॗदोभौ भ᳘वत आहवनी᳘यश्च गा᳘र्हपत्यश्च॥

मूलम् - विस्वरम्

एकविंशतिर्वेव परिश्रितः- द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, अयमग्निरमुतो ऽध्येकविंशः । इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति । तद् यदेता एवमुपदधाति- एतावेवैतदन्यो ऽन्यस्मिन्प्रतिष्ठापयति । तावेतावन्यो ऽन्यस्मिन् प्रतिष्ठितौ । तौ वा ऽएतावत्र द्वावेकविंशौ सम्पादयति । अत्र ह्येवेमौ तदोभौ भवतः- आहवनीयश्च गार्हपत्यश्च ॥ ३५ ॥

सायणः

परिश्रितां संख्यामनूद्य स्तौति- एकविंशतिरिति । ‘उ’- ‘एव’- इत्यनयोर्यणादेशे सति ‘वेव’- इति भवति । तत्र ‘उ’- शब्दो ऽप्यर्थे । ‘परिश्रितः’ गार्हपत्यचितेः परितः चिताः शर्करा अप्येकविंशतिसंख्याका एव भवन्ति; तत्रापि मासादिलोकान्ता विंशतिः पूर्ववत् । ‘अयम्’ एव चीयमानः ‘अग्निः’ ‘अमुतः’ अमुत्र परिश्रिति ‘एकविंशः’ एकविंशतिसंख्यापूरकः । ‘अधिः’ सप्तम्यर्थानुवादी । ‘तत्’ तथा सति ‘इमम्’ एकविंशम् ‘अग्निम्’ अमुष्मिन् एकविंशे ‘आदित्ये’ ‘प्रतिष्ठापयति’ ॥

एतदेव विवृणोति- तद्यदिति । ‘तत्’ तत्र ‘यत्’ यस्मात् ‘एताः’ परिश्रितः इष्टकाश्च ‘एवं’ प्रत्येकमेकविंशतिसंख्याकाः ‘उपदधाति’ ‘एतत्’ एतेन कारणेन ‘एतावेव’ अग्न्यादित्यौ ‘अन्यो ऽन्यस्मिन्’ ‘प्रतिष्ठापयति’ । अत एवेदानीं ‘तौ’ ‘एतौ’ ‘अन्यो ऽन्यस्मिन् प्रतिष्ठितौ’ दृश्येते । आदित्यो रात्रावग्निं प्रविश्य प्रतितिष्ठति, अग्निश्चोद्यन्तमादित्यं प्रविश्य प्रतिष्ठितो भवति । एतच्चाग्निहोत्रब्राह्मणे प्रतिपादितम् (श. प. २ । ३ । १ । ३) । तयोरुभयोरप्यत्र सन्निधानमाह- तौ वा इति । परिश्रिदिष्टकासंख्यया द्वयोरेकविंशयोरत्र सम्पादनात् ‘इमौ’ अग्न्यादित्यौ ‘उभौ’ अपि ‘अत्र’ चित्याग्नौ सन्निहितौ ‘भवतः’ तत्राहवनीयचितिरूपेणादित्यो वर्तते, गार्हपत्यचितिरूपेणाग्निरिति तयोर्विभाग इत्यर्थः ॥ ३५ ॥

Eggeling
  1. Moreover, there are twenty-one enclosing-stones,–twelve months, five seasons, these three worlds, and that Agni from yonder (sun) 37 as the twenty-first: this Agni he thus establishes in yonder sun. And inasmuch as he puts on those (bricks) in this way, he thereby establishes those two (the sun and the fire) in each other, and (accordingly) those two are established in each other; for both of them he now makes out to be the twenty-first, and both

of them are then here 38, as the Āhavanīya and the Gārhapatya.

३६

विश्वास-प्रस्तुतिः

(श्चा᳘) अ᳘थ पु᳘रीषं नि᳘वपति॥
त᳘स्योप᳘रि ब᳘न्धुस्त᳘च्चात्वालवेला᳘या ऽआ᳘हरत्यग्नि᳘रेष यच्चा᳘त्वालस्त᳘थो हास्यैत᳘दाग्नेय᳘मेव᳘ भवति सा᳘ समम्बिला᳘ स्यात्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(श्चा᳘) अ᳘थ पु᳘रीषं नि᳘वपति॥
त᳘स्योप᳘रि ब᳘न्धुस्त᳘च्चात्वालवेला᳘या ऽआ᳘हरत्यग्नि᳘रेष यच्चा᳘त्वालस्त᳘थो हास्यैत᳘दाग्नेय᳘मेव᳘ भवति सा᳘ समम्बिला᳘ स्यात्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ पु᳘रीषं नि᳘वपति॥
त᳘स्योप᳘रि ब᳘न्धुस्त᳘च्चात्वालवेला᳘या आ᳘हरत्यग्नि᳘रेष यच्चा᳘त्वालस्त᳘थो हास्यैत᳘दाग्नेय᳘मेव᳘ भवति सा᳘ समम्बिला᳘ स्यात्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ पुरीषं निवपति । तस्योपरि बन्धुः । तच्चात्वालवेलाया आहरति । अग्निरेषः- यच्चात्वालः । तथो हास्यैतदाग्नेयमेव भवति । सा समम्बिला स्यात् । तस्योक्तो बन्धुः ॥ ३६ ॥

सायणः

पुरीषनिवपनं विधत्ते- अथ पुरीषमिति 39 । इष्टकासन्धिषु छिद्रपूरणार्थाः पांसवः पुरीषम् । तस्मात् तासामुपरि प्रक्षिपतीत्यर्थः । तस्योपरि बन्धुरिति । ‘तस्य’ पुरीषनिवपनस्य प्रयोजनप्रतिपादको वाक्यशेषः “इन्द्रं विश्वा अवीवृधन्” इति तन्मंत्रविधिश्च उपरिष्टादष्टमकाण्डावसाने (श. प. ८ । ७ । ३ । ७) आम्नास्यत इत्यर्थः ॥

पुरीषाहरणस्थानं विधत्ते- तच्चात्वालेति । उत्तरवेद्यर्थानां पांसूनां निर्हरणस्थानं ‘चात्वालः’ उत्तरवेद्यंसदेशः, तस्य या वेला समीपम्, ततः पुरीषमाहरेदित्यर्थः । तत् प्रशंसति- अग्निरेष इति । आहवनीयाग्न्याधारोत्तरवेदिहेतुत्वाच्चात्वालस्याग्न्यात्मकता । तथो हेति । तथैव खलु सति ‘अस्य’ चित्याग्नेः ‘एतत्’ पुरीषमपि ‘आग्नेयम्’ अग्निसम्बद्धम् ‘एव भवति’ ॥

इत्थं पुरीषान्ता गार्हपत्यचितिरुक्ता, अथ तस्याः प्रान्तेषु साम्यमाह- सा समम्बिला स्यादिति । ‘सा’ गार्हपत्यचितिः ‘समम्बिला’ भवेत् । ‘समं’ समानं बाह्याभ्यन्तरभावेन न्यूनाधिकाकाररहितं ‘बिलं’ परितः प्रान्तदेशो यस्याः सा तथोक्ता । तस्योक्त इति । ‘तस्य’ बिलसाम्यस्य उखानिर्माणप्रस्तावे स्तावको वाक्यशेष आम्नात इत्यर्थः (श. प. ६ । ५ । २ । २०) ॥ ३६ ॥

Eggeling
  1. He then throws thereon a layer of earth,–the significance of this (will be told) further on 40. He takes it from the edge of the pit (Cātvāla); for the Cātvāla is the same as Agni 41, and in this way does that which is of Agni’s nature become his. It (the Gārhapatya altar) should be even with the mouth (of the fire-pan): the significance of this has been told 42.

३७

विश्वास-प्रस्तुतिः

(र्व्या) व्याममात्री᳘ भवति॥
व्याममात्रो वै पु᳘रुषः पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘सम्मितां तद्यो᳘निं करोति परिमण्डला᳘ भवति परिमण्डला हि यो᳘निर᳘थो ऽअयं वै᳘ लोको गा᳘र्हपत्यः परिमण्डल᳘ ऽउ वा᳘ ऽअयं᳘ लोकः[[!!]]॥

मूलम् - श्रीधरादि

(र्व्या) व्याममात्री᳘ भवति॥
व्याममात्रो वै पु᳘रुषः पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘सम्मितां तद्यो᳘निं करोति परिमण्डला᳘ भवति परिमण्डला हि यो᳘निर᳘थो ऽअयं वै᳘ लोको गा᳘र्हपत्यः परिमण्डल᳘ ऽउ वा᳘ ऽअयं᳘ लोकः[[!!]]॥

मूलम् - Weber

व्याममात्री᳘ भवति॥
व्याममात्रो वै पु᳘रुषः पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘सम्मितां तद्यो᳘निं करोति परिमण्डला᳘ भवति परिमण्डला हि यो᳘निर᳘थो अयं वै᳘ लोको गा᳘र्हपत्यः परिमण्डल᳘ उ वा᳘ अयं᳘ लोकः᳟॥

मूलम् - विस्वरम्

व्याममात्री भवति । व्याममात्रो वै पुरुषः । पुरुषः प्रजापतिः । प्रजापतिरग्निः । आत्मसंमितां तद्योनिं करोति । परिमण्डला भवति । परिमण्डला हि योनिः । अथो ऽअयं वै लोको गार्हपत्यः । परिमण्डल उ वा ऽअयं लोकः ॥ ३७ ॥

सायणः

गार्हपत्यचितेः परिमाणं विधत्ते- व्याममात्रीति । चतुररत्निर्व्यामः, स परिमाणमस्याः सा । “प्रमाणे द्वयसच्”- (पा. सू. ५ । २ । ३७ ।) इति मात्रच्-प्रत्ययः । तत् प्रशंसति- व्याममात्रो वा इति । तिर्यक् प्रसारितौ बाहू यावत्परिमाणौ भवतः, तस्य परिमाणविशेषस्य व्यायम्यते ऽस्मिन् बाहुद्वयमिति व्युत्पत्त्या व्यायाम इति संज्ञा; स एवात्र वर्णलोपेन व्याम इत्युच्यते । ‘पुरुषो व्याममात्रः’ चतुररत्निपरिमित इत्येतत् प्रसिद्धम् । विराडात्मकः ‘प्रजापतिः’ च तादृक्पुरुषात्मकः । “त एतान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्”- (श. प. ६ । १ । १ । १) इति श्रुत्या प्रतिपादितत्वात्, तादृशो विराडात्मकः प्रजापतिरेवायं चीयमानः ‘अग्निः’ उभयोरपि संस्क्रियमाणरूपत्वसाम्यात् । आत्मसम्मितामिति । चेष्यमाणस्याग्नेरुक्तरीत्या पुरुषत्वात् आत्मना स्वेनाग्निरूपपुरुषेण ‘सम्मितां’ समानपरिमाणाम् ‘तत्’ तेन व्याममात्रकरणेन गार्हपत्यचितिरूपां ‘योनिं’ कृतवान् भवतीत्यर्थः । परितो मण्डलाकारां विधत्ते- परिमण्डलेति । पारिमाण्डल्यं द्वेधोपपादयति- परिमण्डला हीति ॥ ३७ ॥

Eggeling
  1. It (the Gārhapatya hearth) measures a fathom (in diameter 43), for man is a fathom high, and man is Prajāpati (the lord of generation), and Prajāpati is Agni: he thus makes the womb of equal size to his (Agni’s) body. It is circular, for the womb is circular; and moreover the Gārhapatya is this (terrestrial) world, and this world doubtless is circular.

३८

विश्वास-प्रस्तुतिः

(को᳘ ऽथै) अ᳘थैनौ संनि᳘वपति॥
संज्ञा᳘मे᳘वाभ्यामेत᳘त्करोति स᳘मितᳫँ᳭ सं᳘कल्पेथाᳫँ᳭ सं᳘ वां म᳘नाᳫँ᳭सि सं᳘ व्रता᳘ ऽग्ने त्वं᳘ पुरी᳘ष्यो भ᳘वतं नः स᳘मनसावि᳘ति शम᳘यत्ये᳘वैनावेतद᳘हिᳫँ᳭सायै य᳘था᳘ ना᳘न्यो ऽन्य᳘ᳫँ᳘ हिᳫँ᳭स्या᳘ताम्॥

मूलम् - श्रीधरादि

(को᳘ ऽथै) अ᳘थैनौ संनि᳘वपति॥
संज्ञा᳘मे᳘वाभ्यामेत᳘त्करोति स᳘मितᳫँ᳭ सं᳘कल्पेथाᳫँ᳭ सं᳘ वां म᳘नाᳫँ᳭सि सं᳘ व्रता᳘ ऽग्ने त्वं᳘ पुरी᳘ष्यो भ᳘वतं नः स᳘मनसावि᳘ति शम᳘यत्ये᳘वैनावेतद᳘हिᳫँ᳭सायै य᳘था᳘ ना᳘न्यो ऽन्य᳘ᳫँ᳘ हिᳫँ᳭स्या᳘ताम्॥

मूलम् - Weber

अ᳘थैनौ संनि᳘वपति॥
संज्ञा᳘मेॗवाभ्यामेत᳘त्करोति स᳘मितᳫं सं᳘कल्पेथाᳫं सं᳘ वाम् म᳘नांसि सं᳘ व्रता᳘ग्ने त्व᳘म् पुरीॗष्यो भ᳘वतं नः स᳘मनसावि᳘ति शम᳘यत्येॗवैनावेतद᳘हिंसायै य᳘था नाॗन्यो ऽन्य᳘ᳫं᳘ हिंस्या᳘ताम्॥

मूलम् - विस्वरम्

अथैनौ सन्निवपति । संज्ञामेवाभ्यामेतत्करोति । “समितं सङ्कल्पेथाम् । सं वां मनांसि सम्व्रता । अग्ने त्वं पुरीष्यः । भवतं नः समनसौ”- (वा. सं. १२ । ५७-६०) इति । शमयत्येवैनावेतदहिंसायै- यथा नान्यो ऽन्यं हिंस्याताम् ॥ ३८ ॥

सायणः

गार्हपत्यचितिरूपस्याग्नेरुख्याग्नेश्च चतुर्भिर्मन्त्रैः संसर्जनं विधत्ते- अथैनाविति । ‘अथ’ गार्हपत्यचयनानन्तरम्, ‘एनौ’ चित्योख्यरूपावग्नी ‘सन्निवपति’ सङ्गमयति, इष्टकाभिः चिते गार्हपत्यधिष्ण्ये उख्यमग्निं स्थापयतीत्यर्थः । सन्निवपतीति संशब्दसूचितमर्थमाह- संज्ञामेवेति । ‘आभ्याम्’ अग्निभ्याम्, कर्त्तरि तृतीया । ‘सञ्ज्ञाम्’ अग्निद्वयकर्तृकं संज्ञानम्, परस्परैकमत्यम्, एतेन सन्निवपनेन करोतीत्यर्थः । तत्र करणभूतानां चतुर्णां मन्त्राणां प्रतीकग्रहणं करोति- तत्र, “समितमिति”- प्रथमस्य प्रतीकम्, “सं वामिति” द्वितीयस्य, “अग्ने त्वं पुरीष्यः” इति तृतीयस्य, “भवतं नः” इति चतुर्थस्य ॥

ते च मन्त्राः (वा. सं. १२ । ५७-६०) संहिताभाष्ये एव व्याख्याता इति प्रतीकमत्र व्याख्यायते । चित्योख्यरूपावग्नी ! ‘समितं’ सङ्गतौ भवतम् । ‘सङ्कल्पेथां’ समानकल्पनौ समानसामर्थ्यौ एककार्यकरौ भवतम् (१) । हे ‘अग्नी’ ! ‘वां’ युवयोः ‘मनांसि’ ‘समकरम्’ समानविषयाणि कुर्वे । तथा ‘व्रता’ “शेश्छन्दसि बहुलम्”- (पा. सू. ६ । १ । ७०) इति शेर्लोपः, ‘व्रतानि’ युवयोः कर्माणि समानानि (२) ! हे चीयमानाग्ने ! ‘त्वं पुरीष्यः’ पशव्यो भवसि (३) । हे अग्नी ! ‘नः’ अस्माकं युवां ‘समनसौ’ समानमनस्कौ ‘भवतम्’ (४) । इति चतुर्णां प्रतीकानामर्थः ॥

मन्त्राणां तात्पर्यमाह- शमयत्येवैनाविति । परस्परं विद्विषाणौ ‘एनौ’ अग्नी ‘एतेन’ मन्त्रकरणकेन निवपनेन ‘शमयत्येव’ शान्तावेव करोति । तच्च शमनम् ‘अहिंसायै’ हिंसापरिहाराय; ‘यथा’ तावग्नी ‘अन्यो ऽन्यं’ परस्परं ‘न हिंस्यातां’ हिंसां न कुर्यातामिति ॥ ३८ ॥

Eggeling
  1. He then pours those two (fires) together 44,–he thereby establishes concord between them–with (Vāj. S. XII, 57-60), ‘Unite ye two, and get ye on together, loving, radiant, well-disposed, dwelling together for food and drink!–Together have I brought your minds, together your rites, together your thoughts: O Agni Purīshya 45, be thou the overlord, and bestow thou food and drink upon our Sacrificer!–O Agni, thou art the Purīshya, wealthy, prosperous: having made happy all the regions, seat thee here in thine own seat!–Be ye two unto us of one mind, of one thought, without guile! Injure ye not the sacrifice, nor the lord of the sacrifice, and be ye propitious unto us this day, ye knowers of beings!’ He therewith pacifies them for (mutual) safety, so that they shall do no injury to one another.

३९

विश्वास-प्रस्तुतिः

(ञ्च) चतु᳘र्भिः संनि᳘वपति॥
तद्ये च᳘तुष्पादाः पश᳘वस्तै᳘रे᳘वाभ्यामेत᳘त्संज्ञां᳘ करोत्य᳘थो ऽअ᳘न्नं वै᳘ पशवो᳘ ऽन्नेनै᳘वाभ्यामेत᳘त्संज्ञां᳘ करोति॥

मूलम् - श्रीधरादि

(ञ्च) चतु᳘र्भिः संनि᳘वपति॥
तद्ये च᳘तुष्पादाः पश᳘वस्तै᳘रे᳘वाभ्यामेत᳘त्संज्ञां᳘ करोत्य᳘थो ऽअ᳘न्नं वै᳘ पशवो᳘ ऽन्नेनै᳘वाभ्यामेत᳘त्संज्ञां᳘ करोति॥

मूलम् - Weber

चतु᳘र्भिः संनि᳘वपति॥
तद्ये च᳘तुष्पदाः पश᳘वस्तै᳘रेॗवाभ्यामेत᳘त्संज्ञां᳘ करोत्य᳘थो अ᳘न्नं वै᳘ पशवो᳘ ऽन्नेनैॗवाभ्यामेत᳘त्संज्ञां᳘ करोति॥

मूलम् - विस्वरम्

चतुर्भिः सन्निवपति । तद्ये चतुष्पादाः पशवः- तैरेवाभ्यामेतत्संज्ञां करोति । अथो ऽअन्नं वै पशवः । अन्नेनैवाभ्यामेतत्संज्ञां करोति ॥ ३९ ॥

सायणः

चतुर्मन्त्रकरणकम् उख्याग्नेगार्हपत्यचितिमध्ये निवपनं विधत्ते- चतुर्भिरिति 46 । ‘सन्निवपति’ नीचैःस्थापयति । तद्य इति । ‘तत्’ तेन चतुर्मन्त्रकरणकेन सन्निवपनेन ‘ये’ ‘चतुष्पादाः पशवः’ गवाश्वादयः, ‘तैरेव’ उपायनभूतैः ‘आभ्याम्’ उख्यचित्यात्मकाभ्यामग्निभ्यां ‘सञ्ज्ञां’ परस्परैकमत्यं ‘करोति’ । कारणान्तरमप्याह- अथो इति । ‘अन्नं’ खलु ‘पशवः,’ सम्भोजनीयत्वात्; ‘अन्नेन’ पशुरूपेण ॥ ३९ ॥

Eggeling
  1. With four (verses) he pours them together,–he thereby establishes concord between them by whatever four-footed cattle there are; and cattle being food, it is by means of food that he establishes concord between them.

४०

विश्वास-प्रस्तुतिः

तां न᳘ रिक्ताम᳘वेक्षेत॥
ने᳘द्रिक्ता᳘मवे᳘क्षा ऽइ᳘ति य᳘द्रिक्ता᳘मवे᳘क्षेत ग्र᳘सेत हैनम्॥

मूलम् - श्रीधरादि

तां न᳘ रिक्ताम᳘वेक्षेत॥
ने᳘द्रिक्ता᳘मवे᳘क्षा ऽइ᳘ति य᳘द्रिक्ता᳘मवे᳘क्षेत ग्र᳘सेत हैनम्॥

मूलम् - Weber

तां न᳘ रिक्ताम᳘वेक्षेत॥
ने᳘द्रिक्ता᳘मवे᳘क्षा इ᳘ति य᳘द्रिक्ता᳘मवे᳘क्षेत ग्र᳘सेत हैनम्॥

मूलम् - विस्वरम्

तां न रिक्तामवेक्षेत । नेद्रिक्तामवेक्षा ऽइति । यद्रिक्तामवेक्षेत- ग्रसेत हैनम् ॥ ४० ॥

सायणः

रिक्ताया उखाया अध्वर्युकर्तृकं यजमानकर्तृकं वा अवेक्षणं निषेधति- तां न रिक्तामिति 46 । “नेदिति परिभये”- (या. निरु. १ । ३ । ४) ‘रिक्ताम्’ उखां ‘नेदवेक्षेत’ पश्यतु नैव । विपक्षे बाधमाह- यद्रिक्तामिति । ‘एनम्’ अवेक्षितारं ‘ग्रसेत ह’ भक्षयेदेव ॥ ४० ॥

Eggeling
  1. Let him not look at that (pan) while empty: ‘I must not look at the empty one!’ so he thinks. Were he to look at the empty (pan), it would certainly devour him.

४१

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थास्याᳫँ᳭ सि᳘कता ऽआ᳘वपति॥
(त्य) अग्ने᳘रेत᳘द्वैश्वानर᳘स्य रे᳘तो यत्सि᳘कता ऽअग्नि᳘मे᳘वास्यामेत᳘द्वैश्वानरᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति सा᳘ समम्बिला᳘ स्यात्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थास्याᳫँ᳭ सि᳘कता ऽआ᳘वपति॥
(त्य) अग्ने᳘रेत᳘द्वैश्वानर᳘स्य रे᳘तो यत्सि᳘कता ऽअग्नि᳘मे᳘वास्यामेत᳘द्वैश्वानरᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति सा᳘ समम्बिला᳘ स्यात्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थास्याᳫं सि᳘कता आ᳘वपति॥
अग्ने᳘रेत᳘द्वैश्वानर᳘स्य रे᳘तो यत्सि᳘कता अग्नि᳘मेॗवास्यामेत᳘द्वैश्वानरं रे᳘तो भूत᳘ᳫं᳘ सिञ्चति सा᳘ समम्बिला᳘ स्यात्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथास्यां सिकता आवपति । अग्नेरेतद्वैश्वानरस्य रेतो- यत्सिकताः । अग्निमेवास्यामेतद्वैश्वानरं रेतोभूतं सिञ्चति । सा समम्बिला स्यात् । तस्योक्तो बन्धुः ॥ ४१ ॥

सायणः

तर्हि किं कुर्यादित्यपेक्षायां रिक्ताया उखायाः सिकताभिः समगर्त्तत्वकरणं विधते- अथास्यामिति 46 । ‘अस्यां’ रिक्तायामुखायां सिकता आवपति, यावद्बिलं पूरयति । वैश्वानरस्याग्नेः ‘एतद्रेतः’ ‘यत्’ याः ‘सिकताः’ शौक्ल्यसाम्यात् । ‘एतत्’ एतेन सिकतानिवपनेन ‘अस्याम्’ उखायां ‘रेतोभूतं’ ‘वैश्वानरम्’ अग्निं ‘सिञ्चति’ स्थापयति । ‘सा’ उखा ‘समंबिला’ भवेत्; समं निम्नोन्नतत्वरहितम् बिलं मुखं यस्याः सा, तथा समबिलेति प्राप्ते पूर्वपदस्य मुगागमश्छान्दसः । समम्बिलत्वस्तावको ऽर्थवादः प्रागुक्त इत्याह- तस्येति । स च “योनिर्वा इयँ रेत इदम्" इत्यादिना षष्ठकाण्डे प्रतिपादितः (श. प. ६ । ४ । ४ । १९) ॥ ४१ ॥

Eggeling
  1. He then pours sand into it 47, for sand (sikatā) is

the seed of Agni Vaiśvānara: he thus pours (sic) Agni Vaiśvānara as seed into it. It should be even with the brim: the significance of this has been explained.

४२

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थैनां वि᳘मुञ्चति॥
(त्य᳘) अ᳘प्रदाहाय यद्धि᳘ युक्तं न᳘ विमुच्य᳘ते प्र त᳘द्दह्यत ऽएतद्वा᳘ ऽएत᳘द्युक्ता रे᳘तो ऽभार्षीदेत᳘मग्निं तम᳘त्राजीजनदथा᳘परं धत्ते यो᳘षा वा᳘ ऽउखा त᳘स्माद्यदा यो᳘षा पू᳘र्वᳫँ᳭ रे᳘तः प्रजन᳘यत्यथा᳘परं धत्ते॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थैनां वि᳘मुञ्चति॥
(त्य᳘) अ᳘प्रदाहाय यद्धि᳘ युक्तं न᳘ विमुच्य᳘ते प्र त᳘द्दह्यत ऽएतद्वा᳘ ऽएत᳘द्युक्ता रे᳘तो ऽभार्षीदेत᳘मग्निं तम᳘त्राजीजनदथा᳘परं धत्ते यो᳘षा वा᳘ ऽउखा त᳘स्माद्यदा यो᳘षा पू᳘र्वᳫँ᳭ रे᳘तः प्रजन᳘यत्यथा᳘परं धत्ते॥

मूलम् - Weber

अ᳘थैनां वि᳘मुञ्चति॥
अ᳘प्रदाहाय यद्धि᳘ युक्तं न᳘ विमुच्य᳘ते प्र त᳘द्दह्यत एतद्वा᳘ एत᳘द्युक्ता रे᳘तो ऽभार्षीदेत᳘मग्निं तम᳘त्राजीजनदथा᳘परं धत्ते यो᳘षा वा᳘ उखा त᳘स्माद्यदा यो᳘षा पू᳘र्वं रे᳘तः प्रजन᳘यत्यथा᳘परं धत्ते॥

मूलम् - विस्वरम्

अथैनां विमुञ्चति- अप्रदाहाय । यद्वि युक्तं न विमुच्यते- प्र तद्दह्यते । एतद्वा ऽएतद्युक्ता रेतो ऽभार्षीत्- एतमग्निं, तमत्राजीजनत् । अथापरं धत्ते । योषा वा ऽउखा । तस्माद्यदा योषा पूर्वं रेतः प्रजनयति- अथापरं धत्ते ॥ ४२ ॥

सायणः

उखायाः शिक्याद्विमोचनं विधत्ते- अथैनामिति 48 । ‘एनां’ सिकतायुक्तामुखां शिक्याद् ‘विमुञ्चति’ पृथक् करोति । विमोकप्रयोजनमाह- अप्रदाहायेति । तत्रोपपत्तिमाह- यद्धीति । ‘युक्तम्’ अश्वादि यद्वाहनम् ‘न विमुच्यते’ ‘तत् प्रदह्यते’ खलु । उक्तमर्थं प्रकृते योजयति- एतद्वा इति । ‘एतद्वै’ एषा खलूखा ‘युक्ता’ सती ‘एतम्’ ‘अग्निम्’ उख्यम् ‘एतद्रेतः’ रेतो ऽवस्थापन्नम् ‘अभार्षीत्’ धृतवती । ततः कृतकार्यत्वाद्विमोकोपपत्तिः । धृतस्याग्नेः प्रजननमाह- तमत्रेति । ‘अत्र’ अवसरे ‘तम्’ उख्याग्निम् ‘अजीजनत्’ प्रासोष्ट; उखेति शेषः । प्रजननानन्तरं रेतोधारणद्वारोखायाः स्त्रीसाधर्म्यं प्रतिपादयति- अथापरमिति । ‘अपरं’ सिकतात्मकं रेतः ‘धत्ते’ धारयति । योषा वा उखेति । सिकतावापोपपत्तिः । तस्मादिति । लौकिकदृष्टान्तप्रदर्शनम् ॥ ४२ ॥

Eggeling
  1. He then unlooses it, to keep it from chafing; for if that which is yoked is not unloosed it is chafed. Now when yoked there, it (the fire-pan) bore this Agni within it as seed, and him it has now brought forth. It now conceives a second time; for the ‘Ukhā’ is a female, and hence when a female has brought forth the seed the first time, it conceives a second time.

४३

विश्वास-प्रस्तुतिः

मा᳘तेव पुत्रं᳘ पृथिवी᳘ पुरी᳘ष्यमि᳘ति[[!!]]॥
मा᳘तेव पुत्रं᳘ पृथिवी᳘ पश᳘व्यमि᳘त्येत᳘दग्निᳫँ᳭[[!!]] स्वे यो᳘नावभारुखे᳘त्यग्निᳫँ᳭ स्वे यो᳘नावभार्षीदुखे᳘त्येतत्तां व्वि᳘श्वैर्देवै᳘र्ऋतु᳘भिः संव्विदानः᳘ प्रजा᳘पतिर्व्विश्व᳘कर्मा व्वि᳘मुञ्चत्वि᳘त्यृत᳘वो वै व्वि᳘श्वे देवास्त᳘देनां व्वि᳘श्वैर्देवै᳘र्ऋतु᳘भिः संव्विदानः᳘ प्रजा᳘पतिर्व्विश्व᳘कर्मा व्वि᳘मुञ्चति ता᳘मुत्तर᳘तो ऽग्नेर्नि᳘दधात्यरत्निमात्रे त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

मा᳘तेव पुत्रं᳘ पृथिवी᳘ पुरी᳘ष्यमि᳘ति[[!!]]॥
मा᳘तेव पुत्रं᳘ पृथिवी᳘ पश᳘व्यमि᳘त्येत᳘दग्निᳫँ᳭[[!!]] स्वे यो᳘नावभारुखे᳘त्यग्निᳫँ᳭ स्वे यो᳘नावभार्षीदुखे᳘त्येतत्तां व्वि᳘श्वैर्देवै᳘र्ऋतु᳘भिः संव्विदानः᳘ प्रजा᳘पतिर्व्विश्व᳘कर्मा व्वि᳘मुञ्चत्वि᳘त्यृत᳘वो वै व्वि᳘श्वे देवास्त᳘देनां व्वि᳘श्वैर्देवै᳘र्ऋतु᳘भिः संव्विदानः᳘ प्रजा᳘पतिर्व्विश्व᳘कर्मा व्वि᳘मुञ्चति ता᳘मुत्तर᳘तो ऽग्नेर्नि᳘दधात्यरत्निमात्रे त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

माॗतेव पुत्र᳘म् पृथिवी᳘ पुरीष्य᳘मि᳘ति॥
माॗतेव पुत्र᳘म् पृथिवी᳘ पशव्य᳘मि᳘त्येत᳘दग्निᳫं स्वे यो᳘नावभारुखे᳘त्यग्निᳫं स्वे यो᳘नावभार्षीदुखे᳘त्येतत्तां वि᳘श्वैर्देवै᳘रृतु᳘भिः संविदानः प्रजा᳘पतिर्विश्व᳘कर्मा वि᳘मुञ्चत्वि᳘यृत᳘वो वै वि᳘श्वे देवास्त᳘देनां वि᳘श्वैर्देवै᳘रृतु᳘भिः संविदानः᳘ प्रजा᳘पतिर्विश्व᳘कर्मा वि᳘मुञ्चति ता᳘मुत्तरॗतो ऽग्नेर्नि᳘दधात्यरत्निमात्रे त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“मातेव पुत्रं पृथिवी पुरीष्यम्”- इति । मातेव पुत्रं पृथिवी पशव्यमित्येतत् । “अग्निं स्वे योनावभारुखा”- इति । अग्निं स्वे योनावभार्षीदुखेत्येतत् । “तां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु”- (वा. सं. १२ । ६१) इति । ऋतवो वै विश्वे देवाः । तदेनां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चति । तामुत्तरतो ऽग्नेर्निदधाति; अरत्निमात्रे । तस्योक्तो बन्धुः ॥ ४३ ॥

सायणः

विहिते उखाविमोके मन्त्रमनूद्य व्याचष्टे- मातेव पुत्रमिति 48 । पुरीष्यपदस्य पशव्यत्वं वाच्यो ऽर्थः । ‘अभाः’ इति भृञः प्रथमपुरुषैकवचने व्यत्ययेन लुङि रूपमित्याह- अभार्षीदिति । “अभारुखा”- इत्युखाशब्द सामानाधिकरण्यात् ॥

मन्त्रस्यायमर्थः,- येयम् ‘उखा’ ‘माता पुत्रमिव’ ‘पृथिवी’ भूमिरूपा; मृन्मयीत्वात् । ‘पुरीष्यम्’ पशव्यम्, पशुभ्यो हितमिति यावत् । तादृशम् ‘अग्निं’ ‘स्वे योनौ’ स्वकीये गर्भस्थाने ‘अभाः’ अभार्षीत्, धारितवती । ‘विश्वकर्मा’ सर्वस्य कर्ता प्रजापतिः ‘ऋतुभिः’ यज्ञं प्रति गच्छद्भिः, विश्वैः सर्वैः देवैः ‘संविदानः’ अहो महत् कर्म कृतमित्येवं संवादं कुर्वन्, इदानीं कृतकृत्यां सतीं ‘ताम्’ उखां ‘विमुञ्चतु’ शिक्याद्विमुञ्चति, पृथक् कुरुत इत्यर्थः ॥

तस्या उखायाः ज्वलनरूपस्याग्नेरुत्तरपार्श्वे अरत्निमात्रे चितावेव निधानं कर्तव्यमित्याह- तामुत्तरत इति 49 । अरत्निमात्रप्रदेशे स्थापनस्य स्तावको वाक्यशेषः प्रागुक्त इत्याह- तस्योक्त इति । “अरत्निमात्राद्धि वृषा योषामुपशेते”- इति हि षष्ठकाण्डे प्रतिपादितम् (श. प. ६ । ३ । १ । ३०) ॥ ४३ ॥

Eggeling
  1. [He unlooses it from the netting, with Vāj. S. XII, 61] ‘Even as a mother her son, so hath the Earth borne Agni Purīshya,’–that is, Agni, favourable to cattle;–‘she, the Ukhā, in her own womb;’ that is, the Ukhā has borne Agni in her own womb;–‘May Prajāpati, the all-former, release her, in concert with the All-gods, the seasons!’ the All-gods doubtless are the seasons: thus Prajāpati, the all-former, releases it, in concert with the All-gods, the seasons. He deposits it north of the fire, at a cubit’s distance: the significance of this has been explained 50.

४४

विश्वास-प्रस्तुतिः

(र᳘)अ᳘थास्यां प᳘य ऽआ᳘नयति॥
(त्ये) एतद्वा᳘ ऽएतद्रे᳘तो धत्ते᳘ ऽथ प᳘यो धत्ते यो᳘षा वा᳘ ऽउखा त᳘स्माद्यदा यो᳘षा रे᳘तो धत्ते᳘ ऽथ प᳘यो धत्ते᳘ ऽधराः सि᳘कता भ᳘वन्त्यु᳘त्तरं पयो᳘ ऽधरᳫँ᳭ हि रे᳘त ऽउ᳘त्तरं प᳘यस्तन्म᳘ध्य ऽआ᳘नयति य᳘था तत्प्र᳘ति पुरुषशीर्ष᳘मुपदध्यात्[[!!]]॥

मूलम् - श्रीधरादि

(र᳘)अ᳘थास्यां प᳘य ऽआ᳘नयति॥
(त्ये) एतद्वा᳘ ऽएतद्रे᳘तो धत्ते᳘ ऽथ प᳘यो धत्ते यो᳘षा वा᳘ ऽउखा त᳘स्माद्यदा यो᳘षा रे᳘तो धत्ते᳘ ऽथ प᳘यो धत्ते᳘ ऽधराः सि᳘कता भ᳘वन्त्यु᳘त्तरं पयो᳘ ऽधरᳫँ᳭ हि रे᳘त ऽउ᳘त्तरं प᳘यस्तन्म᳘ध्य ऽआ᳘नयति य᳘था तत्प्र᳘ति पुरुषशीर्ष᳘मुपदध्यात्[[!!]]॥

मूलम् - Weber

अ᳘थास्याम् प᳘य आ᳘नयति॥
एतद्वा᳘ एतद्रे᳘तो धत्ते᳘ ऽथ प᳘यो धत्ते यो᳘षा वा᳘ उखा त᳘स्माद्यदा यो᳘षा रे᳘तो धत्ते᳘ ऽथ प᳘यो धत्ते᳘ ऽधराः सि᳘कता भ᳘वन्त्यु᳘त्तरम् पयो᳘ ऽधरᳫं हि रे᳘त उ᳘त्तरम् प᳘यस्तन्म᳘ध्य आ᳘नयति य᳘था तत्प्र᳘ति पुरुषशीर्ष᳘मुपदध्या᳘त्॥

मूलम् - विस्वरम्

अथास्यां पय आनयति । एतद्वा ऽएतद्रेतो धत्ते, अथ पयो धत्ते । योषा वा ऽउखा । तस्माद् यदा योषा रेतो धत्ते, अथ पयो धत्ते । अधराः सिकता भवन्ति- उत्तरं पयः । अधरं हि रेतः- उत्तरं पयः। तन्मध्य ऽआनयति- यथा तत्प्रति पुरुषशीर्षमुपदध्यात् ॥ ४४ ॥

सायणः

सिकतापूर्णाया उखाया मध्ये तूष्णीं पयस आसेचनं विधत्ते- अथास्यामिति 51 । ‘अस्याम्’ उखायां ‘पयः’ दुग्धम् ‘आनयति’ आसिञ्चति । पयआसेके कारणमुपपादयति- एतद्वा इति । ‘एतत्’ खलु कारणम्- ‘एतत्’ सिकतालक्षणं ‘रेतः’ उखां ‘धत्ते’ धारयति । ‘अथ’ तदनन्तरमिदमानीतं पयो धत्ते । उक्तार्थसाधकं लौकिकदृष्टान्तं प्रतिपादयति- योषा वा इति । सिकतापयसोरधरोत्तरभावमनूद्य स्तौति- अधराः सिकता इति । अधरं हि रेत इति । गर्भाशये अधोभागे स्थितं पुरुषस्य रेतः, स्त्रीवीर्यं शोणितरूपम् ‘पयः’ ‘उत्तरम्’ उपर्यवस्थितं सत् तत् पुंवीर्यं वेष्टयति । अत एव षाट्कौशिकस्य शरीरस्य त्वङ्मांसासृगाख्या बाह्यास्त्रयो धातवो मातृतो भवन्तीति स्मर्यते । तस्मात् सिकतापयसोर्बाह्याभ्यन्तरभावो गर्भोत्पत्तये सम्पद्यत इत्यर्थः । आनयनस्थानं विधत्ते- तन्मध्य इति । ‘तत्’ पयः, उखायाः ‘मध्ये’ ‘आनयति’ आसिञ्चति, ‘यथा तत्’ पयः प्रत्युपधानसमये ‘पुरुषशीर्षमुपदध्यात्’ तथेत्यर्थः । अत एवोपधानसमये पुरुषशिरस उखायामुपधानं सूत्रितम्- “उखायां प्रत्यञ्चि, सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये”- (का. श्रौ. सू. १७ । ११२. ११३) इति ॥ ४४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (७-१-१) ॥

Eggeling
  1. He then pours milk into it,–it first receives seed, and now it receives milk; for the fire-pan is a female: hence when a female receives seed, then it receives milk. The sand is below, and the milk above, for the seed is below, and the milk above. He pours it into the middle, so that thereon he may place the human head 52.

  1. पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पच्छः प्रतिदिशं पुरस्तात्प्रथमम् । का० श्रौ० सू० १७ । ३ । ↩︎

  2. 298:1 That is, ’the householder’s fire,’ which represents the Sacrificer’s domestic hearth. ↩︎

  3. 298:2 This first pāda is taken from R̥k S. X, 14, 9. The four pādas of the verse are muttered by the Adhvaryu while sweeping the four sides of the site respectively, beginning in the east and ending in the north. On this place when swept the circular site of the Gārhapatya is then marked off by saline soil being scattered over it (cf. Taitt. S. V, 2, 3, 2-3). ↩︎

  4. उदीचीँ शाखामुदस्य । का. श्रौ. सू. १७ । ४ । ↩︎

  5. 299:1 For the identification of the Palāśa with the Brahman (sacred writ, or the holy spirit embodied therein), see part i, p. 90, note 1. ↩︎

  6. 299:2 ‘He throws it upwards,’ Delbrück, Synt. F. V, 79. ↩︎

  7. ऊषान् निवपति संज्ञानमिति । का० श्रौ० सू० १७ । ४ । ↩︎ ↩︎

  8. मंडलं छादयति । का० श्रौ० सू० १७ । ५ । ↩︎

  9. 300:1 Sāyaṇa, on Taitt. S. IV, 2, 4, takes ‘saṁjñānam’ in the sense of ‘knowledge, recognition;’ explaining it from the fact that cattle by their smell recognise the places of saline soil and lick them. ↩︎

  10. 300:2 Or, to keep (the fire) from burning over (or through the sand, and injuring the saline soil or amnion). For the construction, see p. 198, note 2. ↩︎

  11. 300:3 This notion is apparently based on the supposed etymological connection of ‘śikatā,’ sand, with the root ‘sic.’ ↩︎

  12. परिश्रिद्भिः परिश्रयति पूर्व्ववदेकविंशत्या चित स्येति । का० श्रौ० सू० १७ । ७ । ↩︎

  13. 301:1 That is, from east to south, &c., following the course of the sun. ↩︎

  14. 301:2 ? That is, by digging in each stone, the circle consisting of altogether twenty-one stones. ↩︎

  15. 301:3 The two ceremonies here referred to, viz. the ‘sādana’ (settling, setting, steadying, viz. by means of the formula, XII, 53, ‘with the help of that deity lie thou steady, like Aṅgiras,’ see VII, 1, 1, 30) and the muttering of the Sūdadohas verse (Vāj. S. XII, 55, for which see note 2 to paragraph 31), are the so-called ’necessary’ rites, because they have as a rule to be performed on each (special) brick, when it has been laid down in building up the fire-altar. ↩︎

  16. 302:1 Viz. the so-called ’lokampr̥ṇā’ (or space-filling bricks), for which see p. 153, note 1. ↩︎

  17. 303:1 That is, with the lines by which they are marked running from west to east. Whilst these four bricks are oblong ones, measuring two feet by one, the four placed at the back and in front of them measure each a foot square, as do also those placed in the corners of the square pile, except the south-east corner, where two bricks are to be placed measuring one foot by half a foot each. ↩︎

  18. 303:2 See VI, 1, 1, 3-6. ↩︎

  19. 303:3 Or ‘yonder,’ that is, as the great fire-altar, soon to be built, which is ultimately to receive the Āhavanīya fire, taken from the Gārhapatya. ↩︎

  20. 303:4 While in the form of the Gārhapatya the wings and tail are not represented at all, these appendages form an important part of the great altar of the Āhavanīya fire. In the Gārhapatya hearth, Agni would seem represented rather as a man lying on his back with the head towards the east. ↩︎

  21. 304:1 In laying down the bricks he again follows the course of the sun, that is, he lays down the four large or central ones from north to south, then the two back ones from south to north, and finally the two front ones from north to south. ↩︎

  22. 304:2 ? That is, Thou, being built (as the Gārhapatya), art built (once more as the Āhavanīya). ↩︎

  23. 305:1 Viz. inasmuch as ‘prāvaṇa’ begins with the preposition ‘pra,’ forward, Sāy. ↩︎

  24. सकृन्नित्ये । का. श्रौ. सू. १७ । ९ । ↩︎ ↩︎

  25. 305:2 See p. 307, note 2. ↩︎

  26. 306:1 They are joined to each other, according to Sāyaṇa, but this can hardly be the meaning intended, as the stones lie close to each other also at the lower (western) end. ↩︎

  27. चिदसीति पूर्व्वं दक्षिणतः प्रतिमन्त्रम् । का. श्रौ. सू. १७ । १२ । ↩︎

  28. 307:1 This common portion of the two formulas forms the so-called ‘settling’ (or ‘setting’) formula (sādana); Kāty. Sr. XVI, 7, 14; cf. VI, 1, 2, 28, and p. 301, note 3. Aṅgiras-like’ apparently means, ‘as (thou didst) in the case of, or with, Aṅgiras.’ ↩︎

  29. नित्ये प्रतीष्टकं तिरश्चीषु । का. श्रौ. सू. १७ । १३ । ↩︎

  30. 307:2 Vāj. S. XII, 55; R̥k S. VIII, 69, 3. ‘At his birth the well-like milking, speckled ones mix the Soma (draught), the clans of the gods in the three spheres of the heavens.’ This difficult verse has been differently translated by different translators. The Brāhmaṇa itself also gives a very different, doubtless quite fanciful, interpretation of it at VIII, 7, 3, 21. ↩︎

  31. 307:3 That is, in accordance with the course of the sun. ↩︎

  32. 307:4 Or, ’thus (it goes,–or, Agni, as a bird, flies) to the gods.’ ↩︎

  33. 307:5 See VI, 1, 1, 15. ↩︎

  34. 308:1 VIII, 7, 2, 1 seq. ↩︎

  35. 308:2 Viz. one in the north-east, and two (of half the size) in the south-east corner. ↩︎

  36. 308:3 Viz. one in the south-west, and one in the north-west corner; and further, eight more filling up the four segments of the circle. See the outline of the Gārhapatya altar at p. 302. ↩︎

  37. 308:4 Or, perhaps that Agni on yonder sky (or fire-altar?). In any case it is the sun that is referred to. ↩︎

  38. 309:1 That is to say, they will be here after the completion of the two altars,–the Gārhapatya fire being the Agni proper, and the Āhavanīya fire the sun. ↩︎

  39. चात्वालदेशात्पुरीषं निवपतीन्द्रं व्विश्वा इति । का. श्रौ. सू. १७ । १८ । ↩︎

  40. 309:2 For this, and the formula (Vāj. S. XII, 56) used therewith, see VIII, 7, 3, 1 seq. ↩︎

  41. 309:3 See part ii, p. 116, note 3, ‘The earth taken from the pit being used for constructing the high altar, both are of the same size or cubic extent.’ ↩︎

  42. 309:4 See VI, 3, 3, 26. ↩︎

  43. 309:5 Or rather, it is a circle corresponding in area to a square of one fathom; which gives a diameter somewhat exceeding in length a fathom (that is, the space between the tips of the middle fingers when the arms are extended). The measurement is (at least theoretically) a relative one, being adapted to the Sacrificer’s size; but practically the fathom (vyāma, or purusha, man) may be taken to be of about 6 feet, the vyāma being equal to 4 aratnis (cubits) of 2 prādeśas (spans of some 18 inches each). This allows for a central square of 4 feet, and about 1 foot (in reality somewhat less) for each of the two bisectors of the segments. ↩︎

  44. 310:1 That is, he pours the fire of the pan (ukhyāgni) on the Gārhapatya (hearth). ↩︎

  45. 310:2 ‘Purīshya’ seems here to have the sense of ‘rich, plentiful.’ See p. 201, note 1. ↩︎

  46. समंबिलां कृत्वोख्यं निवपति समितमिति । का० श्रौ० सू० १७ । १९ । ↩︎ ↩︎ ↩︎

  47. 310:3 ‘Ukhā,’ the pan, is feminine, and represents the womb from which Agni is born. ↩︎

  48. शिक्याद्विमुच्य । का० श्रौ० सू० १७ । २१ । ↩︎ ↩︎

  49. उत्तरत आहवनीयस्यारत्निमात्रे । का. श्रौ. सू. १७ । ४८ । ↩︎

  50. 311:1 VI, 3, 1, 30. ↩︎

  51. आसिंचति पयो मध्ये तूष्णीम् । का. श्रौ. सू. १७ । २१ । ↩︎

  52. 311:2 See VII, 5, 2, 14. ↩︎