०१

विश्वास-प्रस्तुतिः

अथा᳘तो भ᳘स्मन ऽए᳘वाभ्यवह᳘रणस्य॥
देवा वा᳘ ऽएतद᳘ग्रे भस्मो᳘दवपं᳘स्ते ऽब्रुवन्य᳘दि[[!!]] वा᳘ ऽइद᳘मित्थ᳘मेव स᳘दात्मा᳘नमभिसंस्करिष्या᳘महे म᳘र्त्याः कुण᳘पा ऽअ᳘नपहतपाप्मानो भविष्यामो य᳘द्यु परावप्स्या᳘मो यद᳘त्राग्नेयं᳘ बहिर्द्धा त᳘दग्नेः᳘ करिष्याम ऽउ᳘प त᳘ज्जानीत य᳘थेदं᳘ कर᳘वामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेदं᳘ कर᳘वामे᳘ति॥

मूलम् - श्रीधरादि

अथा᳘तो भ᳘स्मन ऽए᳘वाभ्यवह᳘रणस्य॥
देवा वा᳘ ऽएतद᳘ग्रे भस्मो᳘दवपं᳘स्ते ऽब्रुवन्य᳘दि[[!!]] वा᳘ ऽइद᳘मित्थ᳘मेव स᳘दात्मा᳘नमभिसंस्करिष्या᳘महे म᳘र्त्याः कुण᳘पा ऽअ᳘नपहतपाप्मानो भविष्यामो य᳘द्यु परावप्स्या᳘मो यद᳘त्राग्नेयं᳘ बहिर्द्धा त᳘दग्नेः᳘ करिष्याम ऽउ᳘प त᳘ज्जानीत य᳘थेदं᳘ कर᳘वामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेदं᳘ कर᳘वामे᳘ति॥

मूलम् - Weber

अथा᳘तो भ᳘स्मन एॗवाभ्यवह᳘रणस्य॥
देवा वा᳘ एतद᳘ग्रे भस्मो᳘दवॗपंस्ते ऽब्रुवन्य᳘दि वा᳘ इद᳘मित्थ᳘मेव स᳘दात्मा᳘नमभिसंस्करिष्या᳘महे म᳘र्याः कुण᳘पा अ᳘नपहतपाप्मानो भविष्यामो य᳘द्यु परावप्स्या᳘मो यद᳘त्राग्नेय᳘म् बहिर्धा त᳘दग्नेः᳘ करिष्याम उ᳘प त᳘ज्जानीत य᳘थेदं᳘ कर᳘वामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थेदं᳘ कर᳘वामे᳘ति॥

मूलम् - विस्वरम्

अथातो भस्मन एवाभ्यवहरणस्य । देवा वा ऽएतदग्रे भस्मोदवपन् । ते ऽब्रुवन्- यदि वा ऽइदमित्थमेव सदात्मानमभिसंस्करिष्यामहे- मर्त्याः कुणपा अनपहतपाप्मानो भविष्यामः । यद्यु परावप्स्यामः- यदत्राग्नेयं बहिर्द्धा, तद् अग्नेः करिष्यामः । उप तज्जानीत- यथेदं करवामेति । ते ऽब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत यथेदं करवामेति ॥ १ ॥

सायणः

यदुक्तं प्राक् “स यदहः सन्निवप्स्यन् स्यात्, तदहः प्रातरुदित आदित्ये भस्मैव प्रथममुद्वपतीति” (श. प. ६ । ७ । ४ । १४) तद्विधातुमाख्यायिकां वदन् प्रतिजानीते- अथातो भस्मन एवाभ्यवहरणस्येति । मीमांसा क्रियत इति शेषः । ‘देवाः’ खलु ‘अग्रे’ पूर्वम् ‘भस्म’ अग्नेः सकाशात् ‘उदवपन्’ ऊर्द्ध्वमपागमयन्, अनन्तरं ते परस्परमब्रुवन्- ‘यदि वा’ ‘इदम्’ उद्धृतं भस्म ‘इत्थमेव’ अन्यत्र प्रक्षेपमकृत्वा अनुद्धृतप्रकारेणैव स्थितम् ‘आत्मानम्’ अग्नेः शरीरभूतं सन्तं, शरीरं कृत्वेत्यर्थः, ‘अभिसंस्करिष्यामहे,’ तदा ‘मर्त्त्याः’ मरणधर्माणः, ‘कुणपाः’ भस्मनो निर्जीवत्वात् वयमपि ‘कुणपाः’ शवसदृशाः, ‘अनुपहतपाप्मानः’ भस्मनः पापरूपत्वात् तत्संस्कारेणापि अनपहतपाप्मानः ‘भविष्यामः’ । ‘यद्यु’ यद्यपि ‘परावप्स्यामः’ दूरे प्रक्षिपामः, तदा ‘अत्र’ भस्मनि ‘यत् आग्नेयम्,’ ‘तत्’ ‘अग्नेः’ सकाशाद् ‘बहिर्द्धा’ ‘करिष्यामः’ । एवं पक्षद्वये ऽपि दोषसम्भवात् अन्यतरपक्षमनाश्रयमाणाः ‘यथेदं करवाम’ ‘तत्’ प्रकारम् ‘उपजानीत’ ‘इति ते अब्रुवन्’ इति सम्बन्धः । एवमुक्त्वा ते पुनरेवमब्रुवन्, किमिति- चेतयध्वमितीति । तैः केनाभिप्रायेण चेतयध्वमित्युक्तमित्याकाङ्क्षायां श्रुतिः तटस्था सती ब्रूते- चितिमिच्छतेति वाव तदब्रुवन्निति । ‘चितिः’ ज्ञानम्, तत् ‘इच्छत’ ‘इति’ एवम् ‘अब्रुवन्’ देवाः । पूर्वोदितम् “उप तज्जानीत” इत्येतदुत्तरेण वाक्येनाभिगृणाति- तदिच्छत यथेदं करवामेतीति ॥ १ ॥

Eggeling
  1. Now, then, as to the taking down of the ashes (to the water 1). Now, the gods at that time threw out the ashes (from the pan). They said, ‘If we make this, such as it is, part of our own self, we shall become mortal carcases, not freed from sin; and if we cast it away, we shall put outside of Agni what therein is of Agni’s nature: find ye out in what manner we shall do this!’–They said, ‘Meditate ye (cit)!’ whereby, indeed, they said, ‘Seek ye a layer (or altar, citi). Seek ye in what manner we shall do this!’

०२

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एत᳘दपश्यन्नप᳘ ऽए᳘वैनदभ्य᳘वहरामा᳘पो वा᳘ ऽअस्य स᳘र्व्वस्य प्रतिष्ठा तद्य᳘त्रास्य स᳘र्व्वस्य प्रतिष्ठा त᳘देनत्प्रतिष्ठा᳘प्य यद᳘त्राग्नेयं त᳘दद्भ्यो᳘ ऽधिजनयिष्याम ऽइ᳘ति त᳘द᳘पो ऽभ्य᳘वाहरंस्त᳘थै᳘वैनदय᳘मेत᳘द᳘पो ऽभ्य᳘वहरति॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एत᳘दपश्यन्नप᳘ ऽए᳘वैनदभ्य᳘वहरामा᳘पो वा᳘ ऽअस्य स᳘र्व्वस्य प्रतिष्ठा तद्य᳘त्रास्य स᳘र्व्वस्य प्रतिष्ठा त᳘देनत्प्रतिष्ठा᳘प्य यद᳘त्राग्नेयं त᳘दद्भ्यो᳘ ऽधिजनयिष्याम ऽइ᳘ति त᳘द᳘पो ऽभ्य᳘वाहरंस्त᳘थै᳘वैनदय᳘मेत᳘द᳘पो ऽभ्य᳘वहरति॥

मूलम् - Weber

ते᳘ चेत᳘यमानाः॥
एत᳘दपश्यन्नप᳘ एॗवैनदभ्य᳘वहरामा᳘पो वा᳘ अस्य स᳘र्वस्य प्रतिष्ठा तद्य᳘त्रास्य स᳘र्वस्य प्रतिष्ठा त᳘देनत्प्रतिष्ठाप्य यद᳘त्राग्नेयं त᳘दद्भ्यो᳘ ऽधि जनयिष्याम इ᳘ति त᳘दॗपो ऽभ्य᳘वाहरंस्त᳘थैॗवैनदय᳘मेत᳘दॗपो ऽभ्य᳘वहरति॥

मूलम् - विस्वरम्

ते चेतयमाना एतदपश्यन्- अप एवैनदभ्यवहराम । आपो वा ऽअस्य सर्वस्य प्रतिष्ठा । तद्यत्रास्य सर्वस्य प्रतिष्ठा- तदेनत् प्रतिष्ठाप्य- यदत्राग्नेयम्; तदद्भ्यो ऽधिजनयिष्याम इति । तदपो ऽभ्यवाहरन् । तथैवैनदयमेतदपो ऽभ्यवहरति ॥ २ ॥

सायणः

ते चेतयमाना इति । कर्त्तव्यविषये बुद्धिं प्रक्षिपन्तः ‘एतत्’ ‘अपश्यन्’ । एतच्छब्दार्थमाह- अप एवैनदिति । अप्सु प्रक्षेपमेवापश्यन्नित्यर्थः; ‘अस्य सर्वस्य’ जगतः अद्भ्य उत्पन्नत्वात्, तदुपजीवनीयत्वाच्च आपः ‘प्रतिष्ठा’ । ‘तत्’ तस्मात् ‘यत्र’ अप्सु ‘अस्य सर्वस्य’ ‘प्रतिष्ठा,’ तत्र ‘एनत्’ भस्म ‘प्रतिष्ठाप्य,’ ‘यत्’ ‘अत्र’ जलस्थे भस्मनि ‘आग्नेयम्’ अस्ति, पुनः ‘तत्’ ‘अद्भ्यः’ सकाशात् उत्पादयिष्यामः ‘इति’ एवम् अपश्यन् । स्पष्टमन्यत् ॥ २ ॥

Eggeling
  1. While meditating, they saw this,–‘Let us take it down to the water; for the water is the foundation of this universe: having settled it on that wherein is the foundation of this universe, we shall reproduce from out of the water what there is of Agni’s nature in this (heap of ashes).’ They then took it down to (and threw it into) the water; and in like manner does this (Sacrificer) now take it down to the water.

०३

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘पो देवीः॥
प्र᳘तिगृभ्णीत भ᳘स्मैत᳘त्स्योने᳘ कृणुध्वᳫँ᳭ सुरभा᳘ ऽउ लोक ऽइ᳘ति जग्धं वा᳘ ऽएत᳘द्यात᳘याम भवति त᳘देत᳘दाह स्र᳘भिष्ठ ऽएनल्लोके᳘ कुरुध्वमि᳘ति त᳘स्मै नमन्तां ज᳘नय ऽइत्या᳘पो वै ज᳘नयो ऽद्भ्यो᳘ हीदᳫँ᳭ स᳘र्वं जा᳘यते सुप᳘त्नीरि᳘त्यग्नि᳘ना ऽवा आ᳘पः सुप᳘त्न्यो मा᳘तेव पुत्रं᳘ बिभृता᳘प्स्वेनदि᳘ति य᳘था माता᳘ पुत्र᳘मप᳘स्थे बिभृया᳘देव᳘मेनद्बिभृते᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘पो देवीः॥
प्र᳘तिगृभ्णीत भ᳘स्मैत᳘त्स्योने᳘ कृणुध्वᳫँ᳭ सुरभा᳘ ऽउ लोक ऽइ᳘ति जग्धं वा᳘ ऽएत᳘द्यात᳘याम भवति त᳘देत᳘दाह स्र᳘भिष्ठ ऽएनल्लोके᳘ कुरुध्वमि᳘ति त᳘स्मै नमन्तां ज᳘नय ऽइत्या᳘पो वै ज᳘नयो ऽद्भ्यो᳘ हीदᳫँ᳭ स᳘र्वं जा᳘यते सुप᳘त्नीरि᳘त्यग्नि᳘ना ऽवा आ᳘पः सुप᳘त्न्यो मा᳘तेव पुत्रं᳘ बिभृता᳘प्स्वेनदि᳘ति य᳘था माता᳘ पुत्र᳘मप᳘स्थे बिभृया᳘देव᳘मेनद्बिभृते᳘त्येत᳘त्॥

मूलम् - Weber

आ᳘पो देवीः॥
प्र᳘तिगृभ्णीत भ᳘स्मैत᳘त्स्योने᳘ कृणुध्वᳫं सुरभा᳘ उ लोक इ᳘ति जग्धं वा᳘ एत᳘द्यात᳘याम भवति त᳘देत᳘दाह स्र᳘भिष्ठ एनल्लोके᳘ कुरुध्वमि᳘ति त᳘स्मै नमन्तां ज᳘नय इत्या᳘पो वै ज᳘नयो ऽद्भ्योॗ हीदᳫं स᳘र्वं जा᳘यते सुप᳘त्नीरि᳘त्यग्नि᳘ना वा आ᳘पः सुप᳘त्न्यो माॗतेव पुत्र᳘म् बिभृता᳘प्स्वेनदि᳘नि य᳘था माता᳘ पुत्र᳘मप᳘स्थे बिभृया᳘देव᳘मेनद्बिभृते᳘न्येत᳘त्॥

मूलम् - विस्वरम्

“आपो देवीः प्रतिगृभ्णीत भस्मैतत् स्योने कृणुध्वं सुरभा ऽउ लोके”- इति । जग्धं वा ऽएतद् यातयाम भवति । तदेतदाह । स्रभिष्ठ ऽएनल्लोके कुरुध्वमिति । “तस्मै नमन्तां जनयः”- इति । आपो वै जनयः । अद्भ्यो हीदं सर्वं जायते । “सुपत्नीः"- इति । अग्निना वा ऽआपः सुपत्न्यः । “मातेव पुत्रं बिभृताप्स्वेनत्"- (वा. सं. १२ । ३५) इति । यथा माता पुत्रमुपस्थे बिभृयाद्- एवमेनद्विभृतेत्येतत् ॥ ३ ॥

सायणः

इदानीमप्सु भस्मप्रक्षेपमन्त्रं विधाय व्याचष्टे- आपो 2 देवीः प्रतिगृभ्णीतेत्यादिना । हे ‘आपः !’ ‘देवीः’ द्योतमानाः यूयम् ‘एतत्’ क्षिप्तं ‘भस्म’ ‘प्रतिगृभ्णीत’ स्वीकुरुत । स्वीकृत्य च ‘स्योने’ सुखकरे, ‘सुरभौ’ शोभनपरिमलयुक्ते ‘लोके’ स्थाने ‘कृणुध्वं’ कुरुत । ‘तस्मै’ भस्मरूपायाग्नये ‘सुपत्नीः’ शोभनपतिकाः ‘जनयः’ सर्वस्योत्पादयित्र्यः आपः ‘नमन्ताम्’ प्रह्वीभवन्तु ! हे अब्देवताः ! ‘माता पुत्रमिव’ ‘अप्सु’ युष्मासु ‘बिभृत’ धारयत । उत्तरार्द्धे “सुरभौ कृणुध्वम्"- इत्यभिधानस्य तात्पर्यमाह- जग्धं वा एतदिति । उदके निमग्नम् ‘एतत्’ भस्म जग्धं भवति, ‘एतद्’ ‘यातयाम’ गतरसं ‘भवति’ । तस्मात् एतन्मन्त्रवाक्यमाह- ‘स्रभिष्ठे’ अतिशयेन सुरभौ ‘लोके’ ‘कृणुध्वम्’ । तथा सति अयातयाम भवति । ‘जनयः’- इति व्याचष्टे- आपो वै जनय इति । तदेव समर्थयते- अद्भ्यो हीदमिति । सुपत्नीरित्येतद् व्याचष्टे- अग्निना वा आपः सुपत्न्य इति । मातेवेति । अस्य ब्राह्मणं स्पष्टम् ॥ ३ ॥

Eggeling
  1. [Vāj. S. XII, 35] ‘O divine waters, receive ye these ashes, and put them in a soft and fragrant place!’–that, being consumed (matter), has run its course (is useless): regarding that he says, ‘Put it in, the most fragrant place!’–‘May

the wives, wedded to a good lord, bow down to him,’–the wives, doubtless, are the waters, for from the waters this universe is produced; and in Agni the waters have indeed a good lord;–‘bear it on the waters, even as a mother (bears) her son!’–that is, ‘as a mother would bear her son on her lap, so bear ye this!’

०४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘प्स्वग्ने[[!!]] स᳘धिष्टवेति[[!!]]॥
(त्य᳘) अ᳘प्स्वग्ने[[!!]] यो᳘निष्टवे᳘त्येतत्सौ᳘षधीर᳘नुरुध्यस ऽइत्यो᳘षधी᳘र्ह्ये᳘षो ऽनुरुध्य᳘ते ग᳘र्भे स᳘ञ्जायसे पु᳘नरि᳘ति ग᳘र्भे᳘ ह्येष स᳘ञ्जा᳘यते पु᳘नर्ग᳘र्भो अस्यो᳘षधीनां ग᳘र्भो व्व᳘नस्प᳘तीनाम्। ग᳘र्भो व्वि᳘श्वस्य भूतस्या᳘ग्ने ग᳘र्भो ऽअपा᳘मसी᳘ति त᳘देनमस्य स᳘र्व्वस्य ग᳘र्भं करोति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘प्स्वग्ने[[!!]] स᳘धिष्टवेति[[!!]]॥
(त्य᳘) अ᳘प्स्वग्ने[[!!]] यो᳘निष्टवे᳘त्येतत्सौ᳘षधीर᳘नुरुध्यस ऽइत्यो᳘षधी᳘र्ह्ये᳘षो ऽनुरुध्य᳘ते ग᳘र्भे स᳘ञ्जायसे पु᳘नरि᳘ति ग᳘र्भे᳘ ह्येष स᳘ञ्जा᳘यते पु᳘नर्ग᳘र्भो अस्यो᳘षधीनां ग᳘र्भो व्व᳘नस्प᳘तीनाम्। ग᳘र्भो व्वि᳘श्वस्य भूतस्या᳘ग्ने ग᳘र्भो ऽअपा᳘मसी᳘ति त᳘देनमस्य स᳘र्व्वस्य ग᳘र्भं करोति॥

मूलम् - Weber

अप्स्व᳘ग्ने स᳘धिष्टवे᳘ति॥
अप्स्व᳘ग्ने यो᳘निष्टवे᳘त्येतत्सौ᳘षधीर᳘नुरुध्यस इत्यो᳘षधीॗर्ह्येषो ऽनुरुध्य᳘ते ग᳘र्भो स᳘न्जायसे पु᳘नरि᳘ति ग᳘र्भोॗ ह्येष सन्जा᳘यते पु᳘नर्ग᳘र्भो अस्यो᳘षधीनां ग᳘र्भो व᳘नस्प᳘तीनाम् ग᳘र्भो वि᳘श्वस्य भूतस्या᳘ग्ने ग᳘र्भो अपा᳘मसी᳘ति त᳘देनमस्य स᳘र्वस्य ग᳘र्भं करोति॥

मूलम् - विस्वरम्

“अप्स्वग्ने सधिष्टव”- इति । अप्स्वग्ने योनिष्टवेत्येतत् । “सौषधीरनुरुध्यसे”- इति । ओषधीर्ह्येषो ऽनुरुध्यते । “गर्भे सञ्जायसे पुनः”- (वा. सं. १२ । ३६) इति । गर्भे ह्येष सञ्जायते पुनः । “गर्भो ऽअस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भो ऽअपामसि”- (वा. सं. १२ । ३७) इति । तदेनमस्य सर्वस्य गर्भं करोति ॥ ४ ॥

सायणः

भस्माभ्यवहरणे द्वितीयं मन्त्रं विधाय प्रशंसति- अप्स्वग्न इत्यादिना 3 । हे ‘अग्ने !’ ‘तव’ ‘अप्सु’ ‘सधिः’ सह धीयते अस्मिन्निति ‘सधिः’ सहस्थानम्, तव योनिरित्यर्थः, इदानीं भवति; पश्चात्तु ‘ओषधीः’ त्वया परिपच्यमानाः ‘अनु’ त्वमपि ताभिः ‘रुध्यसे’ प्रतिबध्यते, तत्र निरुद्धो भवसीत्यर्थः । पुनश्च अरण्योः ‘गर्भे’ वर्त्तमानः ‘सन्’ पुनः ‘जायसे’ । एवं सर्वत्र व्याप्त इति स्तुतिः । पूर्वपादे ‘सधिः’ शब्देन योनिर्विवक्षित इति व्याचष्टे- अप्स्त्वग्ने योनिष्टवेत्येतदिति । उपरितनपादद्वयस्य ब्राह्मणं स्पष्टम् । तृतीयमन्त्रं विधाय स्पष्टार्थत्वात् संगृह्य तात्पर्यं दर्शयति- गर्भो असीत्यादिना तदेनमस्य सर्वस्य गर्भं करोतीत्यन्तेन । मन्त्रार्थस्तु स्पष्टः ॥ ४ ॥

Eggeling
  1. [Vāj. S. XII, 36; R̥k S. VIII, 43, 9] ‘In the waters, O Agni, is thy seat,’–that is, ‘in the waters, O Agni, is thy womb; as such thou clingest to the plants,’–for he does indeed cling to (love) the plants,–‘being in (their) womb thou art born again,’–when he is in the womb he is indeed born again,–[Vāj. S. XII, 37] ‘Thou art the child of the herbs, the child of the trees, the child of all that is, O Agni, thou art the child of the waters;’–he thus makes him (Agni) the child of this entire (universe).

०५

विश्वास-प्रस्तुतिः

त्रिभि᳘रभ्य᳘वहरति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनदेत᳘दभ्य᳘वहरत्ये᳘केनाग्रे᳘ ऽथ द्वा᳘भ्यां द्वा᳘भ्यां वा ऽग्रे ऽथै᳘केन द्विस्तु कृ᳘त्वो ऽभ्य᳘वहरति तद्ये द्वि᳘पादाः पश᳘वस्तै᳘रे᳘वैनदेत᳘दभ्य᳘वहरति॥

मूलम् - श्रीधरादि

त्रिभि᳘रभ्य᳘वहरति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनदेत᳘दभ्य᳘वहरत्ये᳘केनाग्रे᳘ ऽथ द्वा᳘भ्यां द्वा᳘भ्यां वा ऽग्रे ऽथै᳘केन द्विस्तु कृ᳘त्वो ऽभ्य᳘वहरति तद्ये द्वि᳘पादाः पश᳘वस्तै᳘रे᳘वैनदेत᳘दभ्य᳘वहरति॥

मूलम् - Weber

त्रिभि᳘रभ्य᳘वहरति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनदेत᳘दभ्य᳘वहरत्ये᳘केनाग्रे᳘ ऽथ द्वा᳘भ्यां द्वा᳘भ्यां वाग्रे ऽथै᳘केन द्विस्तु कृ᳘त्वो ऽभ्य᳘वहरति तद्ये द्वि᳘पादाः पश᳘वस्तै᳘रेॗवैनदेत᳘दभ्य᳘वहरति॥

मूलम् - विस्वरम्

त्रिभिरभ्यवहरति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनदेतदभ्यवहरति । एकेनाग्रे अथ द्वाभ्याम् । द्वाभ्यां वा ऽग्रे- अथैकेन । द्विस्तु कृत्वो ऽभ्यवहरति । तद्ये द्विपादाः पशवः । तैरेवैनदेतदभ्यवहरति ॥ ५ ॥

सायणः

भस्माभ्यवहरणमन्त्राणां यत् त्रित्वं तत् प्रशंसति- त्रिभिरभ्यवहरति त्रिवृदग्निरित्यादिना । अग्नेस्त्रिवृत्त्वं रुद्रशर्वपशुपत्याद्यष्टमूर्तीरनुक्रम्य श्रूयते- “तान्येतान्यष्टावग्निरूपाणि कुमारो नवमः सैवाग्नेस्त्रिवृत्ता"- (श. प. ६ । १ । ३ । १८) इति । तथा “मृदं शुष्कापमूषसिकतम्” इत्यादिना नव द्रव्याण्युपक्रम्य, “ता वा एता नव सृष्टयः इयमसृज्यत तस्मादाहुस्त्रिवृदग्निरिति”- (श. प. ६ । १ । १ । १४ कं.) इति च प्राग्दर्शितम् ॥ मन्त्रत्रयेणापि सकृद् भस्मप्रक्षेपप्रसक्तावाह- एकेनाग्रे ऽथ द्वाभ्यां, द्वाभ्यां वा ऽग्रे ऽथैकेनेति 4 । उक्तप्रकारान्तरशङ्कां निराचष्टे- द्विस्तु कृत्वो ऽभ्यवहरतीति । ‘तु’- शब्दः पक्षं व्यावर्त्तयति । सर्वथा द्विःकृत्वो ऽप्स्वभ्यवहरेत्, न त्वेकैकेन मन्त्रेण त्रिःकृत्वः । तद् ये द्विपादा इत्याद्यर्थवादः स्पष्टः ॥ ५ ॥

Eggeling
  1. With three (verses) he throws (the ashes into the water),–threefold is Agni: as great as Agni is, as great as is his measure, by so much he thus throws them down. First with one (prayer), and then with two; or first with two, and then with one,–but at two separate times he throws them down: he thus throws them down by means of the two-footed animals.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थापा᳘दत्ते॥
तद्यद᳘त्राग्नेयं त᳘देत᳘दद्भ्यो᳘ ऽधि जनयत्यन᳘या ऽन᳘या वै᳘ भेषजं᳘ क्रियते ऽन᳘यै᳘वैनमेतत्स᳘म्भरति प्रस᳘द्य भ᳘स्मना यो᳘निमप᳘श्च पृथिवी᳘मग्न ऽइ᳘ति प्र᳘सन्नो᳘ ह्येष भ᳘स्मना यो᳘नि᳘मप᳘श्च पृथिवीं᳘ च भ᳘वति सᳫँ᳭सृ᳘ज्य मातृभि᳘ष्ट्वं[[!!]] ज्यो᳘तिष्मान्पु᳘नरा᳘सद ऽइ᳘ति संग᳘त्य मातृ᳘भिष्ट्वं ज्यो᳘तिष्मान्पुनरा᳘सद इ᳘त्येतत्पु᳘नरास᳘द्य[[!!]] स᳘दनं पु᳘नरूर्जा᳘ सह᳘ रय्ये᳘त्येते᳘न मा स᳘र्व्वेणाभिनि᳘वर्तस्वे᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थापा᳘दत्ते॥
तद्यद᳘त्राग्नेयं त᳘देत᳘दद्भ्यो᳘ ऽधि जनयत्यन᳘या ऽन᳘या वै᳘ भेषजं᳘ क्रियते ऽन᳘यै᳘वैनमेतत्स᳘म्भरति प्रस᳘द्य भ᳘स्मना यो᳘निमप᳘श्च पृथिवी᳘मग्न ऽइ᳘ति प्र᳘सन्नो᳘ ह्येष भ᳘स्मना यो᳘नि᳘मप᳘श्च पृथिवीं᳘ च भ᳘वति सᳫँ᳭सृ᳘ज्य मातृभि᳘ष्ट्वं[[!!]] ज्यो᳘तिष्मान्पु᳘नरा᳘सद ऽइ᳘ति संग᳘त्य मातृ᳘भिष्ट्वं ज्यो᳘तिष्मान्पुनरा᳘सद इ᳘त्येतत्पु᳘नरास᳘द्य[[!!]] स᳘दनं पु᳘नरूर्जा᳘ सह᳘ रय्ये᳘त्येते᳘न मा स᳘र्व्वेणाभिनि᳘वर्तस्वे᳘त्येत᳘त्॥

मूलम् - Weber

अ᳘थापा᳘दत्ते॥
तद्यद᳘त्राग्नेयं त᳘देत᳘दद्भ्यो᳘ ऽधि जनयत्यन᳘यान᳘या वै᳘ भेषजं᳘ क्रियते ऽन᳘यैॗवैनमेतत्स᳘म्भरति प्रस᳘द्य भ᳘स्मना यो᳘निमप᳘श्च पृथिवी᳘मग्न इ᳘ति प्र᳘सन्नोॗ ह्येष भ᳘स्मना यो᳘निमप᳘श्च पृथिवीं᳘ च भ᳘वति संसृ᳘ज्य मातृ᳘भिष्ट्वं ज्यो᳘तिष्मान्पु᳘नरा᳘सद इ᳘ति संग᳘त्य मातृ᳘भिष्ट्वं ज्यो᳘तिष्मान्पु᳘नरा᳘सद इ᳘त्येतत्पु᳘नरास᳘द्य स᳘दनम् पु᳘नरूर्जा᳘ सह᳘ रय्ये᳘त्येते᳘न मास᳘र्वेणाभिनि᳘वर्तस्वे᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथापादत्ते । तद्यदत्राग्नेयं- तदेतदद्भ्यो ऽधि जनयति- अनया । अनया वै भेषजं क्रियते, अनयैवैनमेतत् सम्भरति । “प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने”- इति । प्रसन्नो ह्येष भस्मना योनिम् अपश्च, पृथिवीं च भवति । “संसृज्य मातृभिष्ट्वं ज्योतिष्मान् पुनरासदः”- (वा. सं. १२ । ३८) इति । सङ्गत्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासद इत्येतत् । “पुनरासद्य सदनम्”- (वा. सं. १२ । ३९) “पुनरूर्जा”- (वा. सं. १२ । ४०) “सह रय्या”- (वा. सं. १२ । ४१) इति । एतेन मा सर्वेणाभिनिवर्तस्वेत्येतत् ॥ ६ ॥

सायणः

अद्भ्यः पुनरीषद्भस्मादातव्यमिति विधाय प्रशंसति- अथापादत्ते तद्यदत्रेति 4 । ‘अथ’ प्रक्षेपानन्तरम् ‘अत्र’ प्रक्षिप्ते भस्मनि । ‘अद्भ्यो ऽधि’- इति, अयं पञ्चम्यर्थानुवादी । ‘आग्नेयम्’ अंशम् ‘अद्भ्यः’ उत्पादितवान् भवति । ‘अनया’ इति अपादानसाधना अनामिका निर्दिश्यते । अनयैवेति को ऽयं नियम इत्यत्राह- अनया वै भेषजं क्रियत इति । मन्त्रमाह- प्रसद्येति । हे भस्मरूप अग्ने ! त्वं ‘भस्मना’ भस्मरूपेण आत्मना ‘योनिम्’ तव योनिस्थानीया ‘अपः पृथिवीञ्च’ ‘प्रसद्य’ प्रसन्नो भूत्वा, तथा ‘मातृभिः’ अद्भिः ‘संसृज्य’ ‘ज्योतिष्मान्’ प्रकृष्टज्योतिः सन् ‘पुनरासदः’ पुनरागच्छ । पूर्वार्द्धे ‘प्रसद्य’- पदस्य प्रसन्नतार्थतया योनिमप इति सामानाधिकरण्यं विवक्षितमिति व्याचष्टे- प्रसन्नो ह्येष भस्मनेत्यादिना । ‘संसृज्य’- इत्यस्य सङ्गतिरर्थ इति व्याचष्टे- सङ्गत्य मातृभिरिति । उत्तरमन्त्रत्रयस्य व्याख्येयार्थत्वाभावात् प्रतीकमुपादाय सङ्गृह्य तात्पर्यमाह- पुनरासद्येति प्रथमः, पुनरूर्जेति द्वितीयः, सह रय्येति तृतीयः (वा. सं. १२ । ३९-४१) ॥ ६॥

Eggeling
  1. He then takes some (of the ashes) therefrom: he thereby reproduces from the waters what there is of Agni’s nature in that (heap of ashes). [He takes it] with that (nameless or little finger), for with that (finger) medicine is prepared: it is with that one he thus puts him (Agni) together. [Vāj. S. XII, 38-41] ‘Having settled 5 in the womb, as

ashes, in the waters, and the earth, O Agni,’–by his ashes he is, indeed, settled in the womb, that is, both in the waters and in the earth;–‘having united with the mothers, thou hast again, brightly shining, seated thee;’–that is, ‘Having joined thy mothers, thou, the shining one, hast again seated thyself (in thy home).’–‘Having again seated thee in thy seat, the waters and the earth, O Agni, thou liest in her (the earth, or pan) most happy, as in a mother’s lap.’–‘Return again with sustenance, again, O Agni, with food and life; guard us again from trouble!–With wealth return, O Agni, overflow with the all-feeding stream on every side!’–that is, ‘With all this return thou to me!’

०७

विश्वास-प्रस्तुतिः

(च्च) चतु᳘र्भिरपा᳘दत्ते॥
तद्ये च᳘तुष्पादाः पश᳘वस्तै᳘रे᳘वैनमेतत्स᳘म्भरत्य᳘थो ऽअ᳘न्नं वै᳘ पशवो᳘ ऽन्नेनै᳘वैनमेतत्स᳘म्भरति त्रिभि᳘रभ्य᳘वहरति त᳘त्सप्त᳘ सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(च्च) चतु᳘र्भिरपा᳘दत्ते॥
तद्ये च᳘तुष्पादाः पश᳘वस्तै᳘रे᳘वैनमेतत्स᳘म्भरत्य᳘थो ऽअ᳘न्नं वै᳘ पशवो᳘ ऽन्नेनै᳘वैनमेतत्स᳘म्भरति त्रिभि᳘रभ्य᳘वहरति त᳘त्सप्त᳘ सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

चतु᳘र्भिरपा᳘दत्ते॥
तद्ये च᳘तुष्पादाः पश᳘वस्तै᳘रेॗवैनमेतत्स᳘म्भरत्य᳘थो अ᳘न्नं वै᳘ पशवो᳘ ऽन्नेनैॗवैनमेतत्स᳘म्भरति त्रिभि᳘रभ्य᳘वहरति त᳘त्सप्त᳘ सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

चतुर्भिरपादत्ते । तद् ये चतुष्पादाः पशवः । तैरेवैनमेतत्सम्भरति । अथो ऽअन्नं वै पशवः । अन्नेनैवैनमेतत् सम्भरति । त्रिभिरभ्यवहरति । तत् सप्त । सप्तचितिको ऽग्निः । सप्त ऽर्तवः सम्वत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति ॥ ७ ॥

सायणः

उत्तरमन्त्रद्वयस्य पृथग्विनियोगशङ्कापनोदनायाह- चतुर्भिरपादत्त इति । “तद् ये चतुष्पादाः”- इत्यादि स्पष्टम् । भस्मापादानमन्त्रगतां सङ्ख्याम् अभ्यवहरणमन्त्रगतया सङ्ख्यया समुच्चित्य प्रशंसति- त्रिभिरभ्यवहरति, तत्सप्त, सप्तचितिको ऽग्निरित्यादिना । षट् चितय इष्टकामय्यः प्रसिद्धाः, सप्तमी तु “विकर्णीञ्च स्वयमातृण्णाञ्चोपदधाति, हिरण्यशकलैः प्रोक्षति, अग्निमभ्यादधाति, सा सप्तमी चितिः” (श. प. ८ । १ । ४ । ९) इति श्रुतत्वात् सप्त चितयः ‘सप्तचितिको ऽग्निः’ । यावत्यस्य मात्रेति । चितिगतसप्तसङ्ख्यारूपा मात्रेत्यर्थः । अप्सु प्रासनं पुनस्तत एवादानञ्च सूत्रकारः स्पष्टमाह- “पलाशपुटेनापो देवीरित्येकया, ततो द्वाभ्याम्, आद्याभ्यां वा पूर्वम्, अनामिकया प्रास्तादादत्ते प्रसद्येति”- (का. श्रौ. सू. १६ । १९५-१९८) इति ॥ ७ ॥

Eggeling
  1. With four (verses) he takes (some of the ashes);–he thereby supplies him (Agni) with four-footed animals; and animals being food, it is with food he thus supplies him. With three (verses) he takes (the ashes) down (to the water),–that makes seven, for of seven layers consists the fire-altar 6, seven seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.

०८

विश्वास-प्रस्तुतिः

(त्य) अपादा᳘य भ᳘स्मनः प्रत्ये᳘त्य॥
(त्यो) उखा᳘यामोप्यो᳘पतिष्ठत ऽएतद्वा᳘ ऽएतद᳘यथायथं करोति य᳘दग्नि᳘म᳘पो ऽभ्यवह᳘रति त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭साया ऽआग्नेयी᳘भ्यामग्न᳘य ऽए᳘वैतन्नि᳘ह्नुते बुद्ध᳘वतीभ्यां य᳘थै᳘वास्यैत᳘दग्निर्व्व᳘चो निबो᳘धेत्॥

मूलम् - श्रीधरादि

(त्य) अपादा᳘य भ᳘स्मनः प्रत्ये᳘त्य॥
(त्यो) उखा᳘यामोप्यो᳘पतिष्ठत ऽएतद्वा᳘ ऽएतद᳘यथायथं करोति य᳘दग्नि᳘म᳘पो ऽभ्यवह᳘रति त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭साया ऽआग्नेयी᳘भ्यामग्न᳘य ऽए᳘वैतन्नि᳘ह्नुते बुद्ध᳘वतीभ्यां य᳘थै᳘वास्यैत᳘दग्निर्व्व᳘चो निबो᳘धेत्॥

मूलम् - Weber

अपादा᳘य भ᳘स्मनः प्रत्ये᳘त्य॥
उखा᳘यामोप्यो᳘पतिष्ठत एतद्वा᳘ एतद᳘यथायथं करोति य᳘दग्नि᳘मॗपो ऽभ्यवह᳘रति त᳘स्मा एॗवैतन्नि᳘ह्नुते᳘ ऽहिंसाया आग्नेयी᳘भ्यामग्न᳘य एॗवैतन्नि᳘ह्नुते बुद्ध᳘वतीभ्यां य᳘थैॗवास्यैत᳘दग्निर्व᳘चो निबो᳘धेत्॥

मूलम् - विस्वरम्

अपादाय भस्मनः प्रत्येत्य- उखायामोप्योपतिष्ठते । एतद्वा ऽएतदयथायथं करोति- यदग्निमपो ऽभ्यवहरति । तस्मा ऽएवैतन्निह्नुते- अहिंसायै । आग्नेयीभ्याम् । अग्नय ऽएवैतन्निह्नुते । बुद्धवतीभ्याम् । यथैवास्यैतदग्निर्वचो निबोधेत् ॥ ८ ॥

सायणः

अपादायेति । भस्मनः सकाशात् ‘अपादाय’ पुनः ‘उखायाम् ओप्य’ उपतिष्ठते 7 उपस्थानमग्नेः कोपशान्तये, तस्य कः प्रसङ्ग इति तं दर्शयति- एतद्वा एतदयथायथं करोतीति । तदेव स्पष्टयति- यदग्निमपो ऽभ्यवहरतीति । निह्नवः कृतस्यापराधस्याच्छादनम् । तच्च उपस्थानकर्मणि सङ्गतमिति स्तौति- बुद्धवतीभ्यां यथैवास्यैतदग्निर्वचो निबोधेदिति । ‘अस्य’ उपस्थानकर्तुः ‘वचः’ ‘यथा अग्निः निबोधेत्’ इत्येवमर्थं ‘बुद्धवतीभ्याम्’ उपस्थानं युक्तम् ॥ ८ ॥

Eggeling
  1. Having taken some of the ashes, and returned, he throws it into the fire-pan, and stands by (the fire) worshipping it; for when he throws Agni into the water he does what is improper; he now makes amends to him so that he may not injure him. With two (verses) relating to Agni (he worships),–for it is to Agni that he makes amends,–and with such

as contain (the verb) ‘budh’ (to attend to, awake), in order that Agni may attend to this speech of his.

०९

विश्वास-प्रस्तुतिः

(द्बो᳘) बो᳘धा मे ऽअस्य व्व᳘चसो यविष्ठे᳘ति॥
बो᳘ध मे ऽस्य व्व᳘चसो यविष्ठे᳘त्येतन्म᳘ᳫँ᳘हिष्ठस्य प्र᳘भृतस्य स्वधाव ऽइ᳘ति भू᳘यिष्ठस्य प्र᳘भृतस्य स्वधाव ऽइ᳘त्येतत्पी᳘यति त्वो ऽअ᳘नु त्वो गृणाती᳘ति पी᳘यत्येको ऽन्वे᳘को गृणाति व्वन्दा᳘रुष्टे तन्वं᳘ व्वन्दे ऽअग्न ऽइ᳘ति व्व᳘न्दिता ते ऽहं᳘ तन्वं᳘ व्वन्दे ऽग्न ऽइ᳘त्येतत्स᳘ बोधि सूरि᳘र्मघ᳘वा व्व᳘सुपते व्व᳘सुदावन्॥ युयो᳘ध्यस्मद्द्वे᳘षाᳫँ᳭सी᳘ति य᳘थै᳘वास्माद्द्वे᳘षाᳫँ᳭सि युया᳘देव᳘मेत᳘दाह द्वा᳘भ्यामुपतिष्ठते[[!!]] गायत्र्या च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द्बो᳘) बो᳘धा मे ऽअस्य व्व᳘चसो यविष्ठे᳘ति॥
बो᳘ध मे ऽस्य व्व᳘चसो यविष्ठे᳘त्येतन्म᳘ᳫँ᳘हिष्ठस्य प्र᳘भृतस्य स्वधाव ऽइ᳘ति भू᳘यिष्ठस्य प्र᳘भृतस्य स्वधाव ऽइ᳘त्येतत्पी᳘यति त्वो ऽअ᳘नु त्वो गृणाती᳘ति पी᳘यत्येको ऽन्वे᳘को गृणाति व्वन्दा᳘रुष्टे तन्वं᳘ व्वन्दे ऽअग्न ऽइ᳘ति व्व᳘न्दिता ते ऽहं᳘ तन्वं᳘ व्वन्दे ऽग्न ऽइ᳘त्येतत्स᳘ बोधि सूरि᳘र्मघ᳘वा व्व᳘सुपते व्व᳘सुदावन्॥ युयो᳘ध्यस्मद्द्वे᳘षाᳫँ᳭सी᳘ति य᳘थै᳘वास्माद्द्वे᳘षाᳫँ᳭सि युया᳘देव᳘मेत᳘दाह द्वा᳘भ्यामुपतिष्ठते[[!!]] गायत्र्या च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

बो᳘धा मे अस्य व᳘चसो यविष्ठे᳘ति॥
बो᳘ध मे ऽस्य व᳘चसो यविष्ठे᳘त्येतन्म᳘ᳫं᳘हिष्ठस्य प्र᳘भृतस्य स्वधाव इ᳘ति भू᳘यिष्ठस्य प्र᳘भृतस्य स्वधाव इ᳘त्येतत्पी᳘यति त्वो अ᳘नु त्वो गृणाती᳘ति पी᳘यत्येको ऽन्वे᳘को गृणाति वन्दा᳘रुष्टे तन्वं᳘ वन्दे अग्न इ᳘ति व᳘न्दिता ते ऽहं᳘ तन्वं᳘ वन्दे ऽग्न इ᳘त्येतत्स᳘ बोधि सूरि᳘र्मघ᳘वा व᳘सुपते व᳘सुदावन् युयोध्य᳘स्मद्द्वे᳘षांसी᳘ति य᳘थैॗवास्माद्द्वे᳘षांसि युया᳘देव᳘मेत᳘दाह द्वा᳘भ्यामु᳘पतिष्ठते गायत्र्य:! च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“बोधा मे ऽअस्य वचसो यविष्ठ”- इति । बोध मे ऽस्य वचसो यविष्ठेत्येतत् । “मंहिष्ठस्य प्रभृतस्य स्वधावः”- इति । भूयिष्ठस्य प्रभृतस्य स्वधाव इत्येतत् । “पीयति त्वो ऽअनु त्वो गृणाति”- इति । पीयत्येकः, अन्वेको गृणाति । “वन्दारुष्टे तन्वं वन्दे अग्ने”- (वा. सं. १२ । ४२) इति । वन्दिता ते ऽहं तन्वं वन्दे ऽग्न ऽइत्येतत् । “स बोधि सूरिर्म्मघवा वसुपते वसुदावन् । युयोध्यस्मद्द्वेषांसि”- (वा. सं. १२ । ४३) इति यथैवास्माद्द्वेषांसि युयाद् । एवमेतदाह । द्वाभ्यामुपतिष्ठते; गायत्र्या च त्रिष्टुभा च । तस्योक्तो बन्धुः ॥ ९ ॥

सायणः

तत्राद्यं मन्त्रं विधाय व्याचष्टे- बोधा मे अस्येत्यादिना । हे ‘यविष्ठ’ युवतम ! हे ‘स्वधावः’ “स्वधेत्यन्ननाम” (निघं. २ । ७ । १७) । बह्वन्न ! ‘अग्ने’ ! अस्य वचसः एतदुपस्थानसाधनमन्त्ररूपं वचः ‘बोध’ बुध्यस्व । वचो विशिष्यते- ‘मंहिष्ठस्य’ अत्यन्तमहनीयस्य, ‘प्रभृतस्य’ प्रकर्षेण सम्भृतस्य । कर्मणि षष्ठी । लोके ‘त्वः’ एकः ‘पीयति’ वधकर्मैतत् (निरु. ४ । ४ । ४), हिनस्ति । तथा ‘त्वः’ एकः ‘अनुगृणाति’ स्तौति । तत्राहं ‘वन्दारुः’ वन्दकः, अतो हे अग्ने ! ‘ते तन्वम्’ अहं ‘वन्दे’ स्तौमि । ‘बोधा मे’- इति छान्दसो दीर्घः (पा. सू. ६ । ३ । १३५) इति व्याचष्टे- बोध मे ऽस्येति । ‘मंहिष्ठस्य’ इत्यस्य व्याख्यानम्- भूयिष्ठस्येति । ‘त्व’ शब्द एकशब्दपर्याय इति व्याचष्टे- पीयत्येको ऽन्वेको गृणातीति । अनुगृणातीति सम्बन्धः । ‘वन्दारु’- शब्दः ताच्छीलिक आरुप्रत्यये भवतीत्यभिप्रेत्य व्याचष्टे- वन्दितेति ॥

स बोधीति द्वितीयो मन्त्रः । तस्यार्थः- हे ‘वसुपते’ प्रभूतधनस्वामिन् ! न केवलं स्वामित्वमेव, किन्तु ‘वसुदावन्’ हे वसुनो धनस्य दातः ! ‘सूरिः’ विद्वान्, ‘मघवा’ अन्नवान् ‘सः’ ‘बोधि’ बुध्यस्व अस्मद्वचनम् । ततः ‘अस्मत्’ अस्मत्तः ‘द्वेषांसि’ द्वेष्यान् पाप्मनः ‘युयोधि’ पृथक् कुरु । संग्रहेण तात्पर्यमाह- यथैवास्माद् द्वेषांसि युयाद्, एवमेतदाहेति । स्पष्टो ऽर्थः । मन्त्रयोर्यद्गायत्रत्वं त्रिष्टुप्त्वं च, तदुभयार्थवादं पूर्वोक्तमतिदिशति- तस्योक्तो बन्धुरिति । उखासन्तपनप्रस्तावे “प्राणो गायत्र्यात्मा त्रिष्टुप्” इत्युपक्रम्य, “अथो अग्निर्वै गायत्रीन्द्रस्त्रिष्टुबैन्द्राग्नो ऽग्निर्यावानग्निः"- इत्यादिनोक्त इत्यर्थः (श. प. ६ । ६ । २ । ७) ॥ ९ ॥

Eggeling
  1. [Vāj. S. XII, 42-3; R̥k S. I, 147, 2; II, 6, 4] ‘Attend thou to this word of mine, O youngest!’–that is, ‘attend to this word of mine, O youngest!’–‘put forth most plentifully, O faithful one!’–that is, ‘put forth most abundantly, O faithful one!’–’this one revileth thee, and that one singeth thy praises,’–that is, ‘one (man) reviles thee, and another sings thy praises;’–‘reverently I revere thy body, O Agni!’–that is, ‘I, thy reverer, revere thy body, O Agni!’–‘Be thou a munificent patron of offerings, O lord of wealth, the bestower of wealth, keep off from us the haters!’ this he says in order that he may keep off haters from him. With two (verses) he worships the fire, a Gāyatrī and a Trishṭubh verse: the significance of this has been explained.

१०

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘नि न᳘व भवन्ति॥
न᳘व दि᳘शो दि᳘शो ऽग्निर्न᳘व प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘नि न᳘व भवन्ति॥
न᳘व दि᳘शो दि᳘शो ऽग्निर्न᳘व प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

ता᳘नि न᳘व भवन्ति॥
न᳘व दि᳘शो दि᳘शो ऽग्निर्न᳘व प्राणाः᳘ प्राणा᳘ अग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

तानि नव भवन्ति । नव दिशः । दिशो ऽग्निः । नव प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ १० ॥

सायणः

एतां द्वित्वसङ्ख्यां पूर्वत्रोक्तभस्माभ्यवहरणतदपादानमन्त्रसङ्ख्यया समुच्चित्य प्रशंसति- तानि नव भवन्ति, नव दिशो, दिशो ऽग्निर्नव प्राणाः- इत्यादिना । ऊर्द्ध्वाधोभावेनावस्थिता साधारणी दिक् एकेति दिशां नवत्वम्; द्वाववाञ्चौ प्राणौ सप्त शीर्षण्या इति नवत्वं प्राणानाम्; चित्यवस्थापन्नस्याग्नेः प्राणात्मकहिरण्यगर्भरूपत्वात् प्राणो ऽग्निः ॥ १० ॥

Eggeling
  1. These make nine (verses),–there are nine regions 8, and Agni is the regions; nine vital airs, and Agni is the vital airs: as great as Agni is, as great as is his measure, so great does this become.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रा᳘यश्चित्ती करोति॥
स᳘र्व्वेभ्यो वा᳘ ऽएष᳘ ऽएतं का᳘मेभ्य ऽआ᳘धत्ते तद्य᳘दे᳘वास्या᳘त्र का᳘मानां व्यवच्छिद्य᳘ते ऽग्ना᳘व᳘पो ऽभ्यवह्रिय᳘माणे त᳘दे᳘वैतत्स᳘न्तनोति स᳘न्दधात्युभे प्रा᳘यश्चित्ती करोति ये᳘ ऽए᳘वाग्नाव᳘नुगते त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रा᳘यश्चित्ती करोति॥
स᳘र्व्वेभ्यो वा᳘ ऽएष᳘ ऽएतं का᳘मेभ्य ऽआ᳘धत्ते तद्य᳘दे᳘वास्या᳘त्र का᳘मानां व्यवच्छिद्य᳘ते ऽग्ना᳘व᳘पो ऽभ्यवह्रिय᳘माणे त᳘दे᳘वैतत्स᳘न्तनोति स᳘न्दधात्युभे प्रा᳘यश्चित्ती करोति ये᳘ ऽए᳘वाग्नाव᳘नुगते त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ प्रा᳘यश्चित्ती करोति॥
स᳘र्वेभ्यो वा᳘ एष᳘ एतं का᳘मेभ्य आ᳘धत्ते तद्य᳘देवास्या᳘त्र का᳘मानां व्यवछिद्य᳘ते ऽग्ना᳘वॗपो ऽभ्यवह्रिय᳘माणे त᳘देॗवैतत्सं᳘तनोति सं᳘दधात्युभे प्रा᳘यश्चित्ती करोति ये᳘ एॗवाग्नाव᳘नुगते त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ प्रायश्चित्ती करोति । सर्वेभ्यो वा ऽएष एतं कामेभ्य आधत्ते । तद् यदेवास्यात्र कामानां व्यवच्छिद्यते- अग्नावपो ऽभ्यवाह्रियमाणे- तदेवैतत्सन्तनोति, सन्दधाति । उभे प्रायश्चित्ती करोति- ये ऽएवाग्नावनुगते । तस्योक्तो बन्धुः ॥ ११ ॥

सायणः

उपस्थानानन्तरं द्विविधं प्रायश्चित्तं तन्निमित्तं च दर्शयति- अथ प्रायश्चित्ती करोतीत्यादिना 9 । एतदुखासन्तपनानन्तरोक्तेन “अथ प्रायश्चित्ती करोति सर्वेभ्यो वा एषः” इत्यादिना व्याख्यातप्रायम् (श. प. ६ । ६ । ४ । ११) “अग्नावनुगते"- इति तत्र, अत्र तु “अग्नावपो ऽभ्यवह्रियमाणे”- इति विशेषः । प्रायश्चित्तमन्त्रः तत्प्रकारश्च “स समिधा ऽऽज्यस्योपहत्यासीन आहुतिं जुहोति विश्वकर्मणे स्वाहा” (वा. सं. १२ । ४३) इत्यादिना तत्रोक्तत्वात् (श. प. ६ । ६ । ४ । १२) नात्राभिधानमिति द्रष्टव्यम् । ये एवाग्नावनुगते तस्योक्तो बन्धुरिति । “अथ यदि गार्हपत्यो ऽनुगच्छेत् अरणी वाव स गच्छति" इत्यादिनोक्त इत्यर्थः । (श. प. ६ । ६ । ४ । १३) ॥ ११ ॥

Eggeling
  1. He then performs two expiations; for it is for (the obtainment of) all his desires that he sets up that (fire);–thus whatever part of his desires is here cut off when the fire is thrown into the water, that he thereby joins together and restores. He performs both expiations which (are performed) when the fire has gone out 10: the significance of this has been explained.

१२

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘नि द᳘श भवन्ति॥
द᳘शाक्षरा व्विरा᳘ड्विरा᳘डग्निर्द्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘नि द᳘श भवन्ति॥
द᳘शाक्षरा व्विरा᳘ड्विरा᳘डग्निर्द्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

ता᳘नि द᳘श भवन्ति॥
द᳘शाक्षरा विरा᳘ड्विरा᳘डग्निर्दे᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ अग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

तानि दश भवन्ति । दशाक्षरा विराट् । विराडग्निः । दश दिशः । दिशो ऽग्निः । दश प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ १२ ॥

सायणः

पूर्वोक्तमन्त्रगतनवसङ्ख्यया सह प्रायश्चित्तमन्त्रसंख्यां समुच्चित्य प्रशंसति- तानि दश भवन्ति दशाक्षरा विराडित्यादिना । मन्त्रगतदशसंख्याद्वारेणाग्निरपि विराट् चीयमानस्याग्नेर्विराजात्मकत्वाद्वा । ऊर्द्ध्वाधोदिगपेक्षया दिशो दशनामभिर्दशेति श्रुतेः तदपेक्षया ‘प्राणाः’ अपि ‘दश’ । गतमन्यत् ॥ १२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे ऽष्टमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-८-२) ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठकाण्डे अष्टमो ऽध्यायः समाप्तः ॥ ६-८ ॥

इति श्रीसायणभाष्यसमेतम् उखासम्भरणनामकं षष्ठं काण्डं समाप्तम् ।

Eggeling
  1. This makes ten (performances),–the Virāj consists of ten syllables, and Agni is the Virāj 11; there are ten regions, and Agni is the regions; ten vital airs, and Agni is the vital airs: as great as Agni is, as great as is his measure, so great does this become.

  1. 293:1 The ashes removed from the ‘ukhā’ or fire-pan are put in a bag made of leaves of some sacred tree, and are then thrown into the water in two portions. As they are floating on the water, a small portion is taken from them again with the little finger and put in the pan. ↩︎

  2. पलाशपुटेनापो देवीरित्येकया । का. श्रौ. सू. १६ । १९५ ॥ ↩︎

  3. ततो द्वाभ्याम् । का० श्रौ० सू० १६ । १९६ । ↩︎

  4. आद्याभ्यां वा पूर्वम् । का. श्रौ. सू. १६ । १९७ । ↩︎ ↩︎

  5. 294:1 ‘Pra-sad’ (= pra-āp, Mahīdhara) seems here really to have the meaning of ‘abhiprasad’ or ‘anuprasad,’ as the accusative can scarcely be taken along with ‘āsadaḥ.’ ↩︎

  6. 295:1 See p. 249, note 3. ↩︎

  7. प्रास्योखायामुपतिष्ठते बोधा म इति । का० श्रौ० सू० १६ । १९९ । ↩︎

  8. 296:1 Viz. the four cardinal points, and the four intermediate points, of the compass, and the upper region. To these paragraph 12 adds, as a tenth, the lower region. ↩︎

  9. प्रायश्चित्तिँ समिधोपहत्याज्यं विश्वकर्मण इति । का० श्रौ० सू० १६ । १४० ॥ ↩︎

  10. 296:2 VI, 6, 4, 10 seq. ↩︎

  11. 297:1 That is, the wide-shining, or wide-ruling one. ↩︎