०१
विश्वास-प्रस्तुतिः
व्वनीवाह्ये᳘ताग्निं बि᳘भ्रदि᳘त्याहुः॥
(र्दे) देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ ऽअस्पर्द्धन्त ते᳘ देवा᳘श्चक्रम᳘चरञ्छालम᳘सुरा ऽआसंस्ते᳘ देवा᳘श्चक्रे᳘ण च᳘रन्त ऽएतत्क᳘र्मापश्यंश्चक्रे᳘ण हि वै᳘ देवाश्च᳘रन्त ऽएतत्कर्मा᳘पश्यंस्त᳘स्माद᳘नस ऽएव᳘ पौरोडाशे᳘षु य᳘जूᳫँ᳭ष्य᳘नसो ऽग्नौ[[!!]]॥
मूलम् - श्रीधरादि
व्वनीवाह्ये᳘ताग्निं बि᳘भ्रदि᳘त्याहुः॥
(र्दे) देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ ऽअस्पर्द्धन्त ते᳘ देवा᳘श्चक्रम᳘चरञ्छालम᳘सुरा ऽआसंस्ते᳘ देवा᳘श्चक्रे᳘ण च᳘रन्त ऽएतत्क᳘र्मापश्यंश्चक्रे᳘ण हि वै᳘ देवाश्च᳘रन्त ऽएतत्कर्मा᳘पश्यंस्त᳘स्माद᳘नस ऽएव᳘ पौरोडाशे᳘षु य᳘जूᳫँ᳭ष्य᳘नसो ऽग्नौ[[!!]]॥
मूलम् - Weber
वनीवाह्ये᳘ताग्निम् बि᳘भ्रदि᳘त्याहुः॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ अस्पर्धन्त ते᳘ देवा᳘श्चक्रम᳘चरञ्छालम᳘सुरा आसंस्ते᳘ देवा᳘श्चक्रे᳘ण च᳘रन्त एतत्क᳘मापश्यंश्चक्रे᳘ण हि वै᳘ देवाश्च᳘रन्त एतत्कर्मा᳘पश्यंस्त᳘स्माद᳘नस एव᳘ पौरोडाशे᳘षु य᳘जूंष्य᳘नसो ऽग्नौ᳟॥
मूलम् - विस्वरम्
वनीवाह्येताग्निं बिभ्रदित्याहुः । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्द्धन्त । ते देवाश्चक्रमचरन्- शालमसुरा आसन् । ते देवाश्चक्रेण चरन्त एतत् कर्मापश्यन् । चक्रेण हि वै देवाश्चरन्त एतत् कर्मापश्यन् । तस्माद्- अनस एव पौरोडाशेषु यजूंषि, अनसो ऽग्नौ ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
रुक्मशिक्यपाशासन्दीसशिक्योखाग्निधारणम् । विष्णुक्रमश्च वात्सप्रोपस्थानं सप्तमे गतम् ॥ २ ॥
अथाष्टमे ऽत्र ह्युख्याग्नेर्गार्हपत्यचयार्थकम् । देवयजनदेशस्य प्रापणादिकमुच्यते ॥ ३ ॥
तत्रोख्याग्नेर्गार्हपत्यं प्रति अनसा प्रापणं विधास्यंस्तदुपोद्धातमाह- वनीवाह्येताग्निं बिभ्रदित्यादिना 1 । अग्निचयनप्रदेशप्रापणीयाग्निं ‘बिभ्रद्’ यजमानो ‘वनीवाह्येत’ अनसा तमुख्याग्निं भृशं वाहयेत् ‘इत्याहुः’ पूर्वमहर्षयः । वहतेर्यङन्तस्याभ्यासस्य नीगागमश्छान्दसः ॥
केनाभिप्रायेणेति, तमभिप्रायं पूर्ववृत्तान्तमुखेन दर्शयति- देवाश्चेति । ‘ते देवाः’ ‘चक्रम् अचरन्’ चक्रेणाचरन्नित्यर्थः । ‘असुराः’ तु ‘शालम्’ चक्रव्यतिरिक्तं साधनम् शालम्, तत् ‘आसन्’ तत्साधना अभवन्नित्यर्थः । ते देवाश्चक्रेण चरन्त एतत् कर्मापश्यन्निति । ‘एतत्’ उख्याग्निप्रणयनलक्षणमित्यर्थः । यस्माद् ‘अपश्यन्’ ‘तस्मात्’ ‘पौरोडाशेषु’ पुरोडाशसम्बन्धिषु कर्मसु ‘अनसः एव’ शकटस्यैव ‘यजूंषि’ मन्त्राः सन्ति, तथा ‘अग्नौ’ अग्निचयने ऽपि ‘अनसः’ एव ‘यजूंषि’ ॥ १ ॥
Eggeling
- ‘Let him drive Agni about while keeping him up, so they say. The gods and the Asuras, both of them sprung from Prajāpati, were contending. The gods drove about on wheels (cars), and the Asuras stayed at home. The gods, while driving about on wheels, saw 2 this rite (sacrificial performance), for it was indeed in driving about on wheels that they saw this rite: hence it is to the cart that the formulas relate at the (performance with) sacrificial cakes 3, and to the cart in the building of the fire-altar 4.
०२
विश्वास-प्रस्तुतिः
स यो᳘ व्वनीवाह्य᳘ते॥
देवान्क᳘र्मणैति दै᳘वᳫँ᳭ हास्य क᳘र्म कृतं᳘ भवत्य᳘थ यो न᳘ व्वनीवाह्यते᳘ ऽसुरान् क᳘र्मणैत्यसुर्यᳫँ᳭ हास्य क᳘र्म कृतं᳘ भवति॥
मूलम् - श्रीधरादि
स यो᳘ व्वनीवाह्य᳘ते॥
देवान्क᳘र्मणैति दै᳘वᳫँ᳭ हास्य क᳘र्म कृतं᳘ भवत्य᳘थ यो न᳘ व्वनीवाह्यते᳘ ऽसुरान् क᳘र्मणैत्यसुर्यᳫँ᳭ हास्य क᳘र्म कृतं᳘ भवति॥
मूलम् - Weber
स यो᳘ वनीवाह्य᳘ते॥
देवान्क᳘र्मणैति दै᳘वᳫं हास्य क᳘र्म कत᳘म् भवत्य᳘थ यो न᳘ वनीवाह्यते᳘ ऽसुरान्क᳘र्मणैत्यसुर्य᳘ᳫं᳘ हास्य क᳘र्म कृत᳘म् भवति॥
मूलम् - विस्वरम्
स यो वनीवाह्यते- देवान् कर्मणैति, दैवं हास्य कर्म कृतं भवति । अथ यो न वनीवाह्यते- असुरान् कर्मणैति । असुर्यं हास्य कर्म कृतं भवति ॥ २ ॥
सायणः
इत्थमुपोद्घातमुक्त्वा औपोद्घातिकं दर्शयति- स यो वनीवाह्यत इति । भूशमनसा वाहयेत् तद् वनीवाहनलक्षणेन ‘कर्मणा’ ‘देवान् एति’ देवानामाचरणमनुकरोतीत्यर्थः । तदेव व्याचष्टे- दैवं हास्येति । व्यतिरेकं दर्शयति- अथ यो न वनीवाह्यत इति । वनीवाहनमकृत्वा शालायामेवाग्निं निष्पादयेत्, तदा ‘असुर्यम्’ तत् कर्म असुरेभ्यो हितं भवतीत्यर्थः ॥ २ ॥
Eggeling
- Now he who drives Agni about goes to the gods by the sacred performance, for divine is the rite performed by him; but he who does not drive him about goes to the Asuras by the sacred performance, for demoniac is the rite performed by him.
०३
विश्वास-प्रस्तुतिः
तद्धै᳘क ऽआहुः॥
स्वयं वा᳘ ऽएष᳘ व्वनीवाहितो᳘ व्विष्णुक्रमैर्व्वा᳘ ऽएष᳘ प्रया᳘ति व्वात्सप्रेणा᳘वस्यती᳘ति न त᳘था व्विद्याद्दै᳘वं वा᳘ ऽअस्य त᳘त्प्रया᳘णं य᳘द्विष्णुक्रमा दै᳘वमवसा᳘नं य᳘द्वात्सप्रम᳘थास्येदं᳘ मानुषं᳘ प्रया᳘णं य᳘दिदं᳘ प्रया᳘ति मानुष᳘मवसा᳘नं य᳘दवस्य᳘ति॥
मूलम् - श्रीधरादि
तद्धै᳘क ऽआहुः॥
स्वयं वा᳘ ऽएष᳘ व्वनीवाहितो᳘ व्विष्णुक्रमैर्व्वा᳘ ऽएष᳘ प्रया᳘ति व्वात्सप्रेणा᳘वस्यती᳘ति न त᳘था व्विद्याद्दै᳘वं वा᳘ ऽअस्य त᳘त्प्रया᳘णं य᳘द्विष्णुक्रमा दै᳘वमवसा᳘नं य᳘द्वात्सप्रम᳘थास्येदं᳘ मानुषं᳘ प्रया᳘णं य᳘दिदं᳘ प्रया᳘ति मानुष᳘मवसा᳘नं य᳘दवस्य᳘ति॥
मूलम् - Weber
तद्धै᳘क आहुः॥
स्वयं वा᳘ एष᳘ वनीवाहितो᳘ विष्णुक्रमैर्वा᳘ एष᳘ प्रया᳘ति वात्सप्रेणा᳘वस्यती᳘ति न त᳘था विद्याद्दै᳘वं वा᳘ अस्य त᳘त्प्रया᳘णं य᳘द्विष्णुक्रमा दै᳘वमवसा᳘नं य᳘द्वात्सप्रम᳘थास्येद᳘म् मानुष᳘म् प्रया᳘णं य᳘दिद᳘म् प्रया᳘ति मानुष᳘मवसा᳘नं य᳘दवस्य᳘ति॥
मूलम् - विस्वरम्
तद्धैक ऽआहुः- स्वयं वा ऽएष वनीवाहितः । विष्णुक्रमैर्वा ऽएष प्रयाति, वात्सप्रेणावस्यतीति । न तथा विद्याद् । दैवं वा ऽअस्य तत् प्रयाणं- यद् विष्णुक्रमाः । दैवमवसानम्- यद् वात्सप्रम् । अथास्येदं मानुषं प्रयाणं- यदिदं प्रयाति । मानुषमवसानं- यदवस्यति ॥ ३ ॥
सायणः
इत्थं वनीवाहनं कर्त्तव्यमिति विधाय, तस्य प्रकारान्तरेण प्राप्तिमाशङ्कते- तद्धैक आहुः स्वयं वा एष इति । अग्नेर्भृशं वहनमेवापेक्षितम् । तत् विष्णुक्रमणेनैव सवात्सप्रेण कृतमित्यभिप्रायः । दैवं वा अस्य तत् प्रयाणमिति । विष्णुक्रमरूपं प्रयाणं देवविष्णुभावेनाक्रान्तत्वात्, अवसानस्य तादृक्त्वमपि तस्मादेव; वनीवाहनरूपं तु मानुषमेव ॥ ३ ॥
Eggeling
- Here now some say, ‘It is by himself that he (Agni) is driven about; for by the Vishṇu-strides he drives forward, and by the Vātsapra he unyokes.’ Let him not think this to be so; for divine (to the gods) is that progress of his, to wit, the Vishṇu-strides; and divine the unyoking, to wit, the Vātsapra. But human would be that progress of his, which he makes in this manner, and human the unyoking he makes.
०४
विश्वास-प्रस्तुतिः
प्रजा᳘पतिरे᳘षो ऽग्निः᳘॥
(रु) उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्य᳘च्च देवा य᳘च्च मनु᳘ष्यास्तद्य᳘द्विष्णुक्रमवात्सप्रे भ᳘वतो य᳘द्वे᳘वास्य दै᳘वᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोत्य᳘थ य᳘द्वनीवाह्य᳘ते य᳘दे᳘वास्य मानुष᳘ᳫँ᳘ रूपं त᳘दस्य ते᳘न सं᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ विद्वा᳘न्वनीवाह्य᳘ते त᳘स्मादु व्वनीवाह्ये᳘तैव[[!!]]॥
मूलम् - श्रीधरादि
प्रजा᳘पतिरे᳘षो ऽग्निः᳘॥
(रु) उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्य᳘च्च देवा य᳘च्च मनु᳘ष्यास्तद्य᳘द्विष्णुक्रमवात्सप्रे भ᳘वतो य᳘द्वे᳘वास्य दै᳘वᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोत्य᳘थ य᳘द्वनीवाह्य᳘ते य᳘दे᳘वास्य मानुष᳘ᳫँ᳘ रूपं त᳘दस्य ते᳘न सं᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ विद्वा᳘न्वनीवाह्य᳘ते त᳘स्मादु व्वनीवाह्ये᳘तैव[[!!]]॥
मूलम् - Weber
प्रजा᳘पतिरेॗषोग्निः᳟॥
उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्य᳘च्च देवा य᳘च्च मनुॗष्यास्तद्य᳘द्विष्णुक्रमवात्सप्रे भ᳘वतो य᳘द्वॗवास्य दै᳘वं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्करोत्य᳘थ य᳘द्वनीवाह्य᳘ते य᳘देॗवास्य मानुषं᳘ रूपं त᳘दस्यते᳘न स᳘ᳫं᳘स्करोति स᳘ ह वा᳘ एतᳫं स᳘र्वं कृत्स्न᳘म् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति य᳘ एवं᳘ विद्वा᳘न्वनीवाह्य᳘ते त᳘स्मादु वनीवाह्ये᳘तैव᳟॥
मूलम् - विस्वरम्
प्रजापतिरेषो ऽग्निः । उभयम्वेतत् प्रजापतिः- यच्च देवाः, यच्च मनुष्याः । तद् यद् विष्णुक्रमवात्सप्रे भवतः- यद्वेवास्य दैवं रूपम्- तदस्य तेन संस्करोति । अथ यद्वनीवाह्यते- यदेवास्य मानुषं रूपम् । तदस्य तेन संस्करोति । स ह वा ऽएतं सर्वं कृत्स्नं प्रजापतिं संस्करोति- य एवं विद्वान् वनीवाह्यते । तस्मादु वनीवाह्येतैव ॥ ४ ॥
सायणः
अस्त्वेवं विषयभेदेन प्रयाणभेदः, तथापि द्विविधमपि कर्त्तव्यमित्यत्र किङ्कारणमिति तद् दर्शयति- प्रजापतिरेषो ऽग्निरुभयम्वेतदित्यादिना । स्रष्टृस्रष्टव्ययोरभेदोपचारेण ‘एतत् उभयम्’ अपि ‘प्रजापतिः’ एव । तथा सत्युभयेन सवात्सप्रेण विष्णुक्रमेण वनीवाहनेन चेत्युभयेन दैवमानुषभेदेनोभयविधमपि ‘रूपं संस्करोति’ । अत उभयमप्यवश्यमनुष्ठेयमित्यर्थः । उक्तार्थज्ञानपूर्वकमनुतिष्ठतः फलमाह- स ह वा एतमिति । तस्माद्विति । निगमनम् ॥ ४ ॥
Eggeling
- This Agni is Prajāpati; and Prajāpati is both the gods and men. Now when the Vishṇu-strides and the Vātsapra are (performed), he thereby makes up that form of his which is divine; and when he drives him about he thereby makes up that form of his which is human. Verily, then, he who, knowing this, drives him about, makes up that whole and entire Prajāpati: let him therefore by all means drive him (Agni) about.
०५
विश्वास-प्रस्तुतिः
स यद᳘हः प्रयास्यन्त्स्यात्[[!!]]॥
(त्त) तद᳘हरुत्तर᳘तो ऽग्नेः प्राग᳘न ऽउपस्थाप्या᳘थास्मिन्त्समि᳘धमा᳘दधात्येतद्वा᳘ ऽएनं देवा᳘ ऽएष्य᳘न्तं पुर᳘स्ताद᳘न्नेनाप्रीणन्नेत᳘या समि᳘धा त᳘थै᳘वैनमय᳘मेत᳘देष्य᳘न्तं पुर᳘स्ताद᳘न्नेन प्रीणात्येत᳘या समि᳘धा॥
मूलम् - श्रीधरादि
स यद᳘हः प्रयास्यन्त्स्यात्[[!!]]॥
(त्त) तद᳘हरुत्तर᳘तो ऽग्नेः प्राग᳘न ऽउपस्थाप्या᳘थास्मिन्त्समि᳘धमा᳘दधात्येतद्वा᳘ ऽएनं देवा᳘ ऽएष्य᳘न्तं पुर᳘स्ताद᳘न्नेनाप्रीणन्नेत᳘या समि᳘धा त᳘थै᳘वैनमय᳘मेत᳘देष्य᳘न्तं पुर᳘स्ताद᳘न्नेन प्रीणात्येत᳘या समि᳘धा॥
मूलम् - Weber
स यद᳘हः प्रयास्यन्त्स्या᳘त्॥
तद᳘हरुत्तर᳘तो ऽग्नेः प्राग᳘न उपस्थाप्या᳘थास्मिन्त्समि᳘धमा᳘दधात्येतद्वा᳘ एनं देवा᳘ एष्य᳘न्तम् पुर᳘स्ताद᳘न्नेनाप्रीणन्नेत᳘या समि᳘धा त᳘थैॗवैनमय᳘मेत᳘देष्य᳘न्तम् पुर᳘स्ताद᳘न्नेन प्रीणात्येत᳘या समि᳘धा॥
मूलम् - विस्वरम्
स यदहः प्रयास्यन्त्स्यात्- तदहरुत्तरतो ऽग्नेः प्रागन उपस्थाप्य- अथास्मिन् समिधमादधाति । एतद्वा ऽएनं देवा एष्यन्तं पुरस्तादन्नेनाप्रीणन्- एतया समिधा । तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन प्रीणाति- एतया समिधा ॥ ५ ॥
सायणः
अग्नेर्गार्हपत्यचयनदेशं प्रति प्रणयनप्रयोगमाह- स यदहरिति । यस्मिन्नहनि दीक्षां समाप्य, चितिप्रदेशं प्रति ‘प्रयास्यन् स्यात्,’ तदोख्याग्नेः ‘उत्तरतः’ प्राक् अनः उपस्थाप्य, ‘अस्मिन्’ उख्याग्नौ ‘समिधम्’ आदध्यात् । तथा च कात्यायनः- “प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधा ऽग्निमिति”- (का. श्रौ. सू. १६ । १८४) इति । एतत् प्रशंसति- एतद्वा एनमिति । यथा लोके प्रयास्यन्तं भोजयित्वा प्रस्थापयति, तत्स्थानीयमिदं समिदाधानमिति स्तुतिः ॥ ५ ॥
Eggeling
- Now on any day on which he may intend to drive, he gets the chariot placed north of the fire (with the pole) to the east; and puts a kindling-stick on it (the fire); for at that time the gods first regaled him (Agni) with food, with that kindling-stick, when he was about to start: and in like manner does this one now first regale him with food, with that kindling-stick, when he is about to start.
०६
विश्वास-प्रस्तुतिः
समि᳘धा ऽग्निं᳘ दुवस्यते᳘ति॥
समि᳘धा ऽग्निं[[!!]] नमस्यते᳘त्येत᳘द्धृतै᳘र्बोधयता᳘तिथिमा ऽस्मिन्हव्या᳘[[!!]] जुहोतने᳘ति घृतैर᳘ह बोध᳘यता᳘तिथि᳘मो ऽअस्मिह्नव्या᳘नि जुहुते᳘त्येत᳘द्बुद्ध᳘वत्येत्या᳘यै᳘ ह्येनमेत᳘द्बोध᳘यति॥
मूलम् - श्रीधरादि
समि᳘धा ऽग्निं᳘ दुवस्यते᳘ति॥
समि᳘धा ऽग्निं[[!!]] नमस्यते᳘त्येत᳘द्धृतै᳘र्बोधयता᳘तिथिमा ऽस्मिन्हव्या᳘[[!!]] जुहोतने᳘ति घृतैर᳘ह बोध᳘यता᳘तिथि᳘मो ऽअस्मिह्नव्या᳘नि जुहुते᳘त्येत᳘द्बुद्ध᳘वत्येत्या᳘यै᳘ ह्येनमेत᳘द्बोध᳘यति॥
मूलम् - Weber
समि᳘धाग्निं᳘ दुवस्यते᳘ति॥
समि᳘धाग्निं᳘ नमस्यते᳘त्येत᳘द्घृतै᳘र्बो᳘धयता᳘तिथिमास्मिन्हव्या᳘ जुहोतने᳘ति घृतैर᳘ह बोध᳘यता᳘तिथिॗमो अस्मिन्हव्या᳘नि जुहुते᳘त्येत᳘द्ब्रुद्ध᳘वत्येत्पा᳘यैॗ ह्येनमेत᳘द्बोध᳘यति॥
मूलम् - विस्वरम्
“समिधा ऽग्निं दुवस्यत”- इति । समिधा ऽग्निं नमस्यतेत्येतद् । “धृतैर्बोधयतातिथिम् । आ ऽस्मिन् हव्या जुहोतन"- (वा. सं. १२ । ३०) इति । घृतैरह बोधयतातिथिम् । ओ ऽअस्मिन् हव्यानि जुहुतेत्येतद् । बुद्धवत्या । इत्यायै ह्येनमेतद् बोधयति ॥ ६ ॥
सायणः
तत्र समिधा ऽग्निमिति मन्त्रः । हे ऋत्विग्यजमानाः ! ‘समिधा अग्निं’ ‘दुवस्यत’ प्रचरत, ‘घृतैः’ अतिथिभूतमग्निं ‘बोधयत’ प्रबुद्धं कुरुत । अथ चितिप्रदेशे गार्हपत्यभूते ‘अस्मिन्’ ‘हव्या’ हवींषि ‘आजुहोतन’ सर्वतो जुहुत । तत्र दुवस्यतेत्येतद् व्याचष्टे- समिधा ऽग्निं नमस्यतेत्येतदिति । स्पष्टमन्यत् । बोधयतेति यद् बोद्धृलिङ्गमस्ति, तस्य तात्पर्यमाह- इत्यायै ह्येनमेतद् बोधयतीति । ‘इत्यायै’ गमनाय ॥ ६ ॥
Eggeling
- [Vāj. S. XII, 30; R̥k S. VIII, 44, 1] ‘With fuel serve ye Agni!’–that is, ‘with fuel worship ye Agni!’–‘with draughts of ghee awake ye the guest, offer ye libations unto him!’–that is, ‘with (draughts of) ghee do ye awake the guest, and offer libations unto him!’–with a (verse) containing (the verb) ‘awake’ he awakens him for the starting.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमु᳘द्यच्छति॥
(त्यु᳘) उ᳘दु त्वा व्वि᳘श्वे देवा ऽअ᳘ग्ने भ᳘रन्तु चि᳘त्तिभिरि᳘ति व्वि᳘श्वे वा᳘ ऽएतम᳘ग्रे देवाश्चि᳘त्तिभिरु᳘दभरन्नेत᳘द्ध्येषां तदा᳘ चित्तमा᳘सीत्त᳘थै᳘वैनमय᳘मेतच्चि᳘त्तिभिरु᳘द्भरत्येत᳘द्ध्यस्य[[!!]] तदा᳘ चित्तं भ᳘वति स᳘ नो भव शिवस्त्व᳘ᳫँ᳘ सुप्र᳘तीको व्विभा᳘वसुरि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुस्तं᳘ दक्षिणत ऽउ᳘दञ्चमा᳘दधाति त᳘स्योक्तो ब᳘न्धुः स्थाल्यां गा᳘र्हपत्यᳫँ᳭ समुप्या᳘परमा᳘दधाति स य᳘दि काम᳘येतोपा᳘धिरोहेत्पार्श्वतो᳘ वा व्व्रजेत्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमु᳘द्यच्छति॥
(त्यु᳘) उ᳘दु त्वा व्वि᳘श्वे देवा ऽअ᳘ग्ने भ᳘रन्तु चि᳘त्तिभिरि᳘ति व्वि᳘श्वे वा᳘ ऽएतम᳘ग्रे देवाश्चि᳘त्तिभिरु᳘दभरन्नेत᳘द्ध्येषां तदा᳘ चित्तमा᳘सीत्त᳘थै᳘वैनमय᳘मेतच्चि᳘त्तिभिरु᳘द्भरत्येत᳘द्ध्यस्य[[!!]] तदा᳘ चित्तं भ᳘वति स᳘ नो भव शिवस्त्व᳘ᳫँ᳘ सुप्र᳘तीको व्विभा᳘वसुरि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुस्तं᳘ दक्षिणत ऽउ᳘दञ्चमा᳘दधाति त᳘स्योक्तो ब᳘न्धुः स्थाल्यां गा᳘र्हपत्यᳫँ᳭ समुप्या᳘परमा᳘दधाति स य᳘दि काम᳘येतोपा᳘धिरोहेत्पार्श्वतो᳘ वा व्व्रजेत्॥
मूलम् - Weber
अ᳘थैनमु᳘द्यछति॥
उ᳘दु त्वा वि᳘श्वे देवा अ᳘ग्ने भ᳘रन्तु चि᳘त्तिभिरि᳘ति वि᳘श्वे वा᳘ एतम᳘ग्रे देवाश्चि᳘त्तिभिरु᳘दभरन्नेतॗद्ध्येषां तदा᳘ चित्तमा᳘सीत्त᳘थैॗवैनमय᳘मेतच्चि᳘तिभिरु᳘द्भरत्येतद्ध्य᳘स्य तदा᳘ चित्तम् भ᳘वति स᳘ नो भव शिवस्त्व᳘ᳫं᳘ सुप्र᳘तीको विभा᳘वसुरि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुस्तं᳘ दक्षिणत उ᳘दञ्चमा᳘दधाति त᳘स्यो ब᳘न्धु स्थाल्यां गा᳘र्हपत्यᳫं समुप्या᳘परमा᳘दधाति स य᳘दि काम᳘येतोपा᳘धिरोहेत्पार्श्वतो᳘ वा व्रजेत्॥
मूलम् - विस्वरम्
अथैनमुद्यच्छति । “उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः”- इति । विश्वे वा ऽएतमग्रे देवाश्चित्तिभिरुदभरन् । एतद्ध्यस्य तदा चित्तमासीत् । तथैवैनमयमेतच्चित्तिभिरुद्भरति । एतद्ध्यस्य तदा चित्तं भवति । “स नो भव शिवस्त्वं सुप्रतीको विभावसुः”- (वा. सं. १२ । ३१) इति । यथैव यजुस्तथा बन्धुः । तं दक्षिणत उदञ्चमादधाति । तस्योक्तो बन्धुः । स्थाल्यां गार्हपत्यं समुप्य, अपरमादधाति । स यदि कामयेत- उपाधिरोहेत्, पार्श्वतो वा व्रजेत् ॥ ७ ॥
सायणः
अथैनमुद्यच्छत्युदु त्वेति । अनस उपरि उख्याग्निं स्थापयितुमूर्द्ध्वं धारयेत् । तच्च धारणमासन्दीसहितम् “सासन्दीकमुद्यम्य"- (का. श्रौ. सू. १६ । १८५) इति सूत्रात् । पूर्वार्द्धे चित्तिभिरित्येतद् व्याचष्टे- एतद्ध्येषामिति । ‘एषां’ देवानां ‘चित्तिभिः’ ज्ञानैरुद्भरणं कुर्वताम् ‘तदा’ उद्भरणकाले ‘एतत्’ उद्भरणमेव ‘चित्तं’ चेत्तव्यम् ‘आसीत्’ । ‘तथैव’ देववदेव यजमानो ऽपि ‘चित्तिभिः’ उद्भृतवान् भवति । अस्यापि यजमानस्य ‘एतदेव’ उद्भरणमेव चित्तं भवति । उत्तरार्द्धस्य स्पष्टार्थतामाह- यथैव यजुस्तथा बन्धुरिति । मन्त्रस्यायमर्थः- हे ‘अग्ने !’ ‘त्वा’ त्वाम् ‘विश्वे देवाः’ ‘चित्तिभिः’ ज्ञानैः ‘उद्भरन्तु’ । ‘सः’ तथाविधस्त्वं ‘नः’ अस्माकं ‘शिवो भव’ तथा ‘सुप्रतीकः’ शोभनाङ्गः ‘विभावसुः’ प्रभैकधनश्चभव ॥
उद्भृतस्याग्नेरनसि स्थापने विशेषमाह- तं दक्षिणत उदञ्चमादधातीति । ‘दक्षिणतः’ सकाशात् ‘उदञ्चम्’ उदङ्मुखम् । “उदु त्वेति दक्षिणतो ऽनसि करोति”- (का. श्रौ. सू. १६ । १८५) इति सूत्रम् । पूर्वोक्तमर्थवादमुक्ते ऽर्थे ऽतिदिशति- तस्योक्तो बन्धुरिति । “दक्षिणतो वा उदग् योनौ रेतः सिच्यते”-(श. प. ६ । ४ । २ । १० कं.) इत्येवमुक्त इत्यर्थः । अन्यस्यां ‘स्थाल्याम्’ ‘अपरं’ ‘गार्हपत्यम्’ अग्निं स्थापयित्वा ‘आदधाति’ अग्नेः पश्चाद्देशे स्थापयेत् । “स्थाल्यां गार्हपत्यं पश्चात्”- (का. श्रौ. सू. १६ । १८६) इति हि सूत्रम् । यजमानस्याप्यारोहणं पाक्षिकमिति दर्शयति- स यदि कामयेतेति ॥ ७ ॥
Eggeling
- He then lifts him (the fire) up, with (Vāj. S. XII, 31), ‘Upwards may the All-gods bear thee, O Agni, by their thoughts!’–at the beginning all the gods did indeed bear him upwards by their thoughts, for that (or, he) was then their thought: in like manner does this (Sacrificer) now bear him upwards by his thoughts, for this now is his thought;–‘be thou gracious unto us, of fair look, and rich splendour!’–as the text, so its meaning. From the south he places him (Agni) northwards
on (the chariot)–the significance of this has been explained. Having put the Gārhapatya into a pot, he places it on (the chariot) behind (the Āhavanīya, or Ukhya Agni). If he choose, he himself may mount up beside him (Agni), or he may walk by the side (of the chariot).
०८
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थानड्वा᳘हौ युनक्ति॥
दक्षिणमग्रे᳘ ऽथ सव्य᳘मेवं᳘ देव᳘त्रेतर᳘था मानुषे स यां का᳘ञ्च दि᳘शं यास्यन्त्स्यात्प्रा᳘ङेवा᳘ग्रे प्र᳘यायात्प्रा᳘ची हि दि᳘गग्नेः स्वा᳘मेव तद्दि᳘शम᳘नु प्र᳘याति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थानड्वा᳘हौ युनक्ति॥
दक्षिणमग्रे᳘ ऽथ सव्य᳘मेवं᳘ देव᳘त्रेतर᳘था मानुषे स यां का᳘ञ्च दि᳘शं यास्यन्त्स्यात्प्रा᳘ङेवा᳘ग्रे प्र᳘यायात्प्रा᳘ची हि दि᳘गग्नेः स्वा᳘मेव तद्दि᳘शम᳘नु प्र᳘याति॥
मूलम् - Weber
अ᳘थानड्वा᳘हौ युनक्ति॥
दक्षिणमग्रे᳘ ऽथ सव्य᳘मेवं᳘ देवॗत्रेतर᳘था मानुषे स यां कां᳘ च दि᳘शं यास्यन्त्स्यात्प्रा᳘ङेवा᳘ग्रे प्र᳘यायात्प्रा᳘ची हि दि᳘गग्नेः स्वा᳘मेव तद्दि᳘शम᳘नु प्र᳘याति॥
मूलम् - विस्वरम्
अथानड्वाहौ युनक्ति- दक्षिणमग्रे, अथ सव्यम् । एवं देवत्रा । इतरथा मानुषे । स यां काञ्च दिशं यास्यन्त्स्यात्- प्राङेवाग्रे प्रयायात् । प्राची हि दिगग्नेः । स्वामेव तद्दिशमनु प्रयाति ॥ ८ ॥
सायणः
अनस्यनडुहोर्योजनं तत्क्रमं चाह- अथानड्वाहाविति 5 । ‘एवम्’ उक्तक्रमेण चेत् ‘देवत्रा’ देवेषूचितं भवति । ‘इतरथा’ सव्यं प्रथमं युनक्ति चेत् ‘मानुषे’ मनुष्ये, तद्योग्यमित्यर्थः । यजनदेशस्य यत्र कुत्रचित् अवस्थितत्वे ऽपि आदौ प्राङ्मुखो यायादिति नियमं सार्थवादं विधत्ते- स यां काञ्चेति । देवानां दिग्व्यवस्थाकाले अग्निना प्राग्दिक्परिग्रहात्- प्राची हि दिगग्नेरित्युक्तम् (श. प. ६ । ३ । ३ । २) । “प्राची दिगग्निर्देवता”- (तै. सं. ४ । ३ । ३) इति तैत्तिरीयकप्रसिद्धिः “प्राची हि”- इति हिशब्देन द्योत्यते । तदनसः प्राक् प्रवर्त्तनम् ॥ ८ ॥
Eggeling
- He then yokes two oxen, first the right one, then the left one: so (it is done) with the gods, otherwise in human (practice). And in whatever direction he may intend to drive, let him first drive east, for the east is Agni’s region: he (Agni) thus proceeds towards his own region.
०९
विश्वास-प्रस्तुतिः
प्रे᳘दग्ने ज्यो᳘तिष्मान्याहि॥
शिवे᳘भिरर्चि᳘भिष्ट्वामि᳘ति प्रे᳘दग्ने त्वं ज्यो᳘तिष्मान्याहि शिवे᳘भिरर्चि᳘भिर्द्दीप्यमानैरि᳘त्येत᳘द्बृह᳘द्भिर्भानु᳘भिर्भा᳘सन्मा᳘ हिᳫँ᳭सीस्त᳘न्वा प्रजा ऽइ᳘ति बृह᳘द्भिरर्चि᳘भिर्द्दी᳘प्यमानैर्मा᳘ हिᳫँ᳭सीरात्म᳘ना प्रजा ऽइ᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
प्रे᳘दग्ने ज्यो᳘तिष्मान्याहि॥
शिवे᳘भिरर्चि᳘भिष्ट्वामि᳘ति प्रे᳘दग्ने त्वं ज्यो᳘तिष्मान्याहि शिवे᳘भिरर्चि᳘भिर्द्दीप्यमानैरि᳘त्येत᳘द्बृह᳘द्भिर्भानु᳘भिर्भा᳘सन्मा᳘ हिᳫँ᳭सीस्त᳘न्वा प्रजा ऽइ᳘ति बृह᳘द्भिरर्चि᳘भिर्द्दी᳘प्यमानैर्मा᳘ हिᳫँ᳭सीरात्म᳘ना प्रजा ऽइ᳘त्येतत्[[!!]]॥
मूलम् - Weber
प्रे᳘दग्ने ज्यो᳘तिष्मान्याहि॥
शिवे᳘भिरर्चि᳘भिष्ट्वामि᳘ति प्रे᳘दग्ने त्वं ज्यो᳘तिष्मान्याहि शिवे᳘भिरर्चि᳘भिर्दी᳘प्यमानैरि᳘त्येत᳘द्बृह᳘द्भिर्भानु᳘भिर्भा᳘सन्मा᳘ हिंसीस्तॗन्वा प्रजा इ᳘ति बृह᳘द्भिरर्चि᳘भिर्दी᳘प्यमानैर्मा᳘ हिंसीरात्म᳘ना प्रजा इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“प्रेदग्ने ज्योतिष्मान्याहि शिवेभिरर्चिभिष्ट्वम्”- इति । प्रेदग्ने त्वं ज्योतिष्मान्याहि शिवेभिरर्चिभिर्द्दीप्यमानैरित्येतत् । “बृहद्भिर्भानुभिर्भासन् मा हिंसीस्तन्वा प्रजाः”- (वा. सं १२ । ३२) इति । बृहद्भिरर्चिभिर्द्दीप्यमानैर्मा हिंसीरात्मना प्रजा इत्येतत् ॥ ९ ॥
सायणः
मन्त्रे पूर्वार्द्धस्य तात्पर्यं दर्शयन् अर्च्चिभिरित्येतस्यावयवार्थमाह- प्रेदग्न इत्यादिना । शिवेभिरर्च्चिभिर्दीप्यमानैरिति । “ऋच दीप्तौ” 6- इत्यस्मात् अर्च्चिशब्द इति प्रतिपादितं भवति । तथैवोत्तरार्द्धस्य तात्पर्यं दर्शयन् भानु-शब्दस्यार्च्चिरर्थ इति व्याचष्टे- बृहद्भिर्भानुभिरिति । ‘तन्वा’- इत्यस्य व्याख्यानमात्मनेति, शरीरेणेत्यर्थः । अयमर्थः- हे ‘अग्ने !’ त्वं ‘ज्योतिष्मान्’ प्रभूतज्योतिष्कः, त्वं ‘शिवेभिः’ मङ्गलैः ‘अर्च्चिभिः’ उपलक्षितः सन् ‘प्रयाहि’ प्रगच्छ, तथा ‘बृहद्भिः भानुभिः’ प्रकाशैः ‘भासन्’ भासमानः, ‘तन्वा’ स्वकीयेन शरीरेण ‘प्रजाः’ अस्मदीयाः ‘मा हिंसीः’ हिंसां मा कुरु ॥ ९ ॥
Eggeling
- [Whilst driving thither, he mutters, Vāj. S. XII, 32] ‘Go forth, O Agni, brilliant thou with propitious flames!’–that is, ‘Brilliant, O Agni, go thou forth with propitious, shining flames!’–‘Beaming with great beams injure not my people with thy body!’–that is, ‘With great shining flames do not injure my people by thyself!’
१०
विश्वास-प्रस्तुतिः
(त्स᳘) स᳘ यदा᳘ ऽक्ष ऽउत्स᳘र्जेत्॥
(द᳘) अ᳘थैतद्य᳘जुर्जपेदसु᳘र्या वा᳘ ऽएषा वाग्या᳘ ऽक्षस्य ता᳘मेत᳘च्छमयति ता᳘मेत᳘द्देवत्रा᳘ करोति॥
मूलम् - श्रीधरादि
(त्स᳘) स᳘ यदा᳘ ऽक्ष ऽउत्स᳘र्जेत्॥
(द᳘) अ᳘थैतद्य᳘जुर्जपेदसु᳘र्या वा᳘ ऽएषा वाग्या᳘ ऽक्षस्य ता᳘मेत᳘च्छमयति ता᳘मेत᳘द्देवत्रा᳘ करोति॥
मूलम् - Weber
स᳘ यदा᳘क्ष उत्स᳘र्जेत्॥
अ᳘थैतद्य᳘जुर्जपेदसुॗर्या वा᳘ एषा वाग्या᳘क्षस्य ता᳘मेत᳘छमयति ता᳘मेत᳘द्देवत्रा᳘ करोति॥
मूलम् - विस्वरम्
स यदा ऽक्ष उत्सर्जेत्- अथैतद्यजुर्जपेत् । असुर्या वा ऽएषा वाक्- या ऽक्षस्य । तामेतच्छमयति । तामेतद्देवत्रा करोति ॥ १० ॥
सायणः
अक्षध्वनौ प्रायश्चित्तमाह- स यदेति । ‘उत्सर्जेत्’ ध्वनिं कुर्यात्, तदा ‘एतद्’ वक्ष्यमाणम् “अक्रन्दत्”- इति ‘यजुः’ ‘जपेत्’ 6 । अक्षसम्बन्धिन्या वाचः असुर्यत्वं कर्णकठिनत्वाद् द्रष्टव्यम् । ‘तां’ वाचम् ‘एतत्’ एतेन अक्रन्ददग्निरिति पाठेन असुर्यत्वमपहाय ‘देवत्रा’ देवेषु करोति ॥ १० ॥
Eggeling
- Whenever the axle creaks, let him mutter that prayer (Vāj. S. XII, 33); for demoniacal is that voice which is in the axle: he thereby appeases that (voice) and makes it as of the gods.
११
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैतद्य᳘जुर्ज᳘पति॥
य᳘स्मिन्वै क᳘स्मिंश्चा᳘हिते᳘ ऽक्ष ऽउत्स᳘र्जति त᳘स्यैव सा व्वा᳘ग्भवति तद्य᳘दग्नावा᳘हिते᳘ ऽक्ष ऽउत्स᳘र्जत्यग्ने᳘रेव सा व्वा᳘ग्भवत्यग्नि᳘मेव त᳘द्देवा ऽउ᳘पास्तुवन्नु᳘पामहयंस्त᳘थै᳘वैनमय᳘मेतदुपस्तौत्यु᳘पमहयत्य᳘क्रन्ददग्नि᳘[[!!]] स्तन᳘यन्निव द्यौरि᳘ति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैतद्य᳘जुर्ज᳘पति॥
य᳘स्मिन्वै क᳘स्मिंश्चा᳘हिते᳘ ऽक्ष ऽउत्स᳘र्जति त᳘स्यैव सा व्वा᳘ग्भवति तद्य᳘दग्नावा᳘हिते᳘ ऽक्ष ऽउत्स᳘र्जत्यग्ने᳘रेव सा व्वा᳘ग्भवत्यग्नि᳘मेव त᳘द्देवा ऽउ᳘पास्तुवन्नु᳘पामहयंस्त᳘थै᳘वैनमय᳘मेतदुपस्तौत्यु᳘पमहयत्य᳘क्रन्ददग्नि᳘[[!!]] स्तन᳘यन्निव द्यौरि᳘ति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
य᳘द्वेॗवैतद्य᳘जुर्ज᳘पति॥
य᳘स्मिन्वै क᳘स्मिंश्चा᳘हिते᳘ ऽक्ष उत्स᳘र्जति त᳘स्यैव सा वा᳘ग्भवति तद्य᳘दग्नावा᳘हिते᳘ ऽक्ष उत्स᳘र्जत्यग्ने᳘रेव सा वा᳘ग्भवत्यग्नि᳘मेव त᳘द्देवा उ᳘पास्तुवन्नु᳘पामहयंस्त᳘थैॗवैनमय᳘मेतदु᳘पस्तौत्यु᳘पमहयत्य᳘क्रन्ददग्नि᳘ स्तन᳘यन्निव द्यौरि᳘ति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
यद्वेवैतद्यजुर्जपति । यस्मिन्वै कस्मिंश्चाहिते ऽक्ष उत्सर्जति- तस्यैव सा वाग् भवति । तद् यदग्नावाहिते ऽक्ष उत्सर्जति- अग्नेरेव सा वाग् भवति । अग्निमेव तद्देवा उपास्तुवन् । उपामहयन् । तथैवैनमयमेतदुपस्तौति, उपमहयति । “अक्रन्ददग्नि स्तनयन्निव द्यौः”- (वा. सं. १२ । ३३) इति । तस्योक्तो बन्धुः ॥ ११ ॥
सायणः
पुनः प्रशंसति- यद्वेवैतद्यजुरिति । ‘यस्मिन् कस्मिंश्चित्’ शकटस्योपरि ‘आहिते’ ‘अक्षः’ उत्सर्जेत् ‘तस्यैव’ आहितस्यैव सम्बन्धिनी भवति ‘सा’ वाक् । अथ ‘अग्नौ’ आहिते सति ‘अग्नेरेव’ ‘सा’ स्यात् । यस्मादेवं तस्मात् ‘तत्’ तेन मन्त्रपाठेन अन्यदीयत्वपरिहाराय ‘अग्निमेव’ ‘देवाः’ ‘उपास्तुवन्,’ ‘उपामहयन्’ पूजितमकुर्वन्; तथैव ‘एनम्’ अग्निम् ‘एतत्’ एतेन ‘उपस्तौति,‘ ‘उपमहयति’ च । अत्र मन्त्रं विधाय तदपेक्षितं ब्राह्मणं पूर्वोक्तमेवेत्यतिदिशति- अक्रन्ददग्निरिति । तस्योक्तो बन्धुरिति । उखाप्रग्रहणप्रस्तावे (श. प. ६ । ७ । ३ । २) “क्रन्दतीव हि पर्जन्यः”- इत्यादिनोक्त इत्यर्थः ॥ ११ ॥
Eggeling
- And, again, why he mutters that prayer;–with whomsoever, mounted (on a chariot), the axle creaks, this is his own voice: hence when the axle creaks while Agni is mounted, this is the voice of Agni himself. It was Agni indeed whom the gods thereby praised and magnified; and in like manner does this (Sacrificer) thereby praise and magnify him: ‘Agni roared like the thundering sky,’–the meaning of this has been explained 7.
१२
विश्वास-प्रस्तुतिः
स य᳘दि पुरा᳘ व्वसत्यै᳘ व्विमुञ्चेत[[!!]]॥
(ता᳘) अ᳘नस्ये᳘वाग्निः᳘ स्याद᳘थ यदा᳘ वसत्यै᳘ व्विमुञ्चे᳘त प्राग᳘न ऽउपस्था᳘प्योत्तरत᳘ ऽउद्धत्या᳘वोक्षति य᳘त्रैनमुपावह᳘रति तं᳘ दक्षिणत ऽउ᳘दञ्चमुपा᳘वहरति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
स य᳘दि पुरा᳘ व्वसत्यै᳘ व्विमुञ्चेत[[!!]]॥
(ता᳘) अ᳘नस्ये᳘वाग्निः᳘ स्याद᳘थ यदा᳘ वसत्यै᳘ व्विमुञ्चे᳘त प्राग᳘न ऽउपस्था᳘प्योत्तरत᳘ ऽउद्धत्या᳘वोक्षति य᳘त्रैनमुपावह᳘रति तं᳘ दक्षिणत ऽउ᳘दञ्चमुपा᳘वहरति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
स य᳘दि पुरा᳘ वसत्यै᳘ विमुञ्चे᳘त॥
अ᳘नस्येॗवाग्निः᳘ स्याद᳘थ यदा᳘ वसत्यै᳘ विमुञ्चे᳘त प्राग᳘न उपस्था᳘प्योत्तरत᳘ उद्धत्या᳘वोक्षति य᳘त्रैनमुपावह᳘रति तं᳘ दक्षिणत उ᳘दञ्चमुपा᳘वहरति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
स यदि पुरा वसत्यै विमुञ्चेत- अनस्येवाग्निः स्यात् । अथ यदा वसत्यै विमुञ्चेत- प्रागन उपस्थाप्योत्तरत उद्धत्यावोक्षति- यत्रैनमुपावहरति । तं दक्षिणत उदञ्चमुपावहरति । तस्योक्तो बन्धुः ॥ १२ ॥
सायणः
स यदि पुरा वसत्यै विमुञ्चेतेति । ‘वसत्यै’ वसत्याः, अग्निचयनस्थानात् ‘पुरा’ अर्वाङ् मध्येमार्गं ‘विमुञ्चेत’ शकटम्, तदा सो ऽग्निः ‘अनस्येव’ अवस्थितः ‘स्यात्’ ‘अथ’ उक्तवैलक्षण्येन वसतिं प्राप्य ‘विमुञ्चेत,’ तदा ‘प्रागनः’ अनसः प्राग्देशे ‘उपस्थाप्य,’ ‘उत्तरतः’ तदुत्तरतः भूमिम् ‘उद्धत्यावोक्षति’ । ‘यत्र’ ‘एनम्’ अग्निम् ‘उपावहरति’ अधः स्थापयति, ‘तं’ दक्षिणतः ‘उदञ्चम्’ ‘उपावहरति’ । तस्योक्तो बन्धुरिति । दक्षिणत उदगर्थवाद उखार्थे मृत्पिण्डपरिग्रहप्रकरणे “दक्षिणतो वा उदग् योनौ रेतः सिच्यते” (श. प. ६ । ४ । २ । १०) इत्युक्त इत्यर्थः ॥ १२ ॥
Eggeling
- If he unyokes before (reaching) his dwelling, let the fire remain on the chariot itself; but when he unyokes for (staying at) his dwelling, he stops the chariot (with the pole) to the east; and north of it he raises and sprinkles (a place) where he takes it (the fire) down. He takes it down from south to north: the meaning of this has been explained.
१३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थास्मिन्त्समि᳘धमा᳘दधाति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽईयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्नेत᳘या समि᳘धा त᳘थै᳘वैनमय᳘मेत᳘दीयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेन प्रीणात्येत᳘या समि᳘धा॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थास्मिन्त्समि᳘धमा᳘दधाति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽईयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्नेत᳘या समि᳘धा त᳘थै᳘वैनमय᳘मेत᳘दीयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेन प्रीणात्येत᳘या समि᳘धा॥
मूलम् - Weber
अ᳘थास्मिन्त्समि᳘धमा᳘दधाति॥
एतद्वा᳘ एनं देवा᳘ ईयिवा᳘ᳫं᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्नेत᳘या समि᳘धा त᳘थैॗवैनमय᳘मेत᳘दीयिवा᳘ᳫं᳘समुप᳘रिष्टाद᳘न्नेन प्रीणात्येत᳘या समि᳘धा॥
मूलम् - विस्वरम्
अथास्मिन्त्समिधमादधाति । एतद्वा ऽएनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्- एतया समिधा । तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणाति- एतया समिधा ॥ १३ ॥
सायणः
यथा अग्निप्रणयनकाले तस्यान्नत्वेन समिदाधानमुक्तम् (अस्मिन्नेव ब्राह्मणे ४ कण्डिकायाम्) एवमेव आसन्नस्याप्यन्नत्वेन समिदाधानं कर्त्तव्यमित्याह- अथास्मिन् समिधमादधातीति । एतत् प्रशंसति- एतद्वा एनं देवा ईयिवांसमिति । ‘ईयिवांसं’ चयनप्रदेशं गतवन्तम्, गमनप्राक्कालमपेक्ष्य ‘उपरिष्टात्’ इत्युक्तम् । ‘अन्नेन’- इत्यस्य व्याख्यानम् ‘एतया समिधा’ इति । तथैवैनमित्यादिकमुक्तप्रायम् । अस्य सर्वस्यापि सूत्रं चात्रोदाहरति- “वासे ऽवहरति- उद्धतावोक्षित उत्तरतः समिदाधानं प्रप्रेति”- (का. श्रौ. सू. १६ । १८०) इति ॥ १३ ॥
Eggeling
- He then puts a kindling-stick thereon; for on that occasion the gods regaled him (Agni) with food, with that kindling-stick, after he had travelled: in like manner does this (Sacrificer) now regale him, after he has travelled, with food, with that kindling-stick.
१४
विश्वास-प्रस्तुतिः
प्र᳘प्राय᳘मग्नि᳘र्भरत᳘स्य शृण्व ऽइ᳘ति॥
प्रजा᳘पतिर्व्वै᳘ भरतः स᳘ हीदᳫँ᳭ स᳘र्व्वं बिभ᳘र्ति व्वि यत्सू᳘र्यो न रो᳘चते बृहद्भा ऽइ᳘ति व्वि यत्सू᳘र्य ऽइव रो᳘चते बृहद्भा ऽइ᳘त्येत᳘दभि यः᳘ पूरुं पृ᳘तनासु तस्थावि᳘ति पूरु᳘र्ह ना᳘मासुररक्षस᳘मास त᳘मग्निः पृ᳘तनास्वभि᳘तष्ठौ दीदा᳘य दै᳘व्यो ऽअतिथिः शिवो᳘ न ऽइ᳘ति दी᳘प्यमानो दैवो᳘ ऽतिथिः शिवो᳘ न ऽइ᳘त्येत᳘त्स्थित᳘वत्या व्वसत्यै᳘ ह्येनं त᳘त्स्थाप᳘यति॥
मूलम् - श्रीधरादि
प्र᳘प्राय᳘मग्नि᳘र्भरत᳘स्य शृण्व ऽइ᳘ति॥
प्रजा᳘पतिर्व्वै᳘ भरतः स᳘ हीदᳫँ᳭ स᳘र्व्वं बिभ᳘र्ति व्वि यत्सू᳘र्यो न रो᳘चते बृहद्भा ऽइ᳘ति व्वि यत्सू᳘र्य ऽइव रो᳘चते बृहद्भा ऽइ᳘त्येत᳘दभि यः᳘ पूरुं पृ᳘तनासु तस्थावि᳘ति पूरु᳘र्ह ना᳘मासुररक्षस᳘मास त᳘मग्निः पृ᳘तनास्वभि᳘तष्ठौ दीदा᳘य दै᳘व्यो ऽअतिथिः शिवो᳘ न ऽइ᳘ति दी᳘प्यमानो दैवो᳘ ऽतिथिः शिवो᳘ न ऽइ᳘त्येत᳘त्स्थित᳘वत्या व्वसत्यै᳘ ह्येनं त᳘त्स्थाप᳘यति॥
मूलम् - Weber
प्र᳘ प्राय᳘मग्नि᳘र्भरत᳘स्य शृण्व इ᳘ति॥
प्रजा᳘पतिर्वै᳘ भरतः सॗ हीदᳫं स᳘र्वम् बिभ᳘र्ति वि यत्सू᳘र्यो न रो᳘चते बृहद्भा इ᳘ति वि यत्सू᳘र्य इव रो᳘चते बृहद्भा इ᳘त्येत᳘दभि यः᳘ पूरुम् पृ᳘तनासु तस्थावि᳘ति पूरु᳘र्ह ना᳘मासुररक्षस᳘मास त᳘मग्निः पृ᳘तनास्वभि᳘तष्ठौ दीदा᳘य दै᳘व्यो अतिथिः शिवो᳘ न इ᳘ति दी᳘प्यमानो दैवो᳘ ऽतिथिः शिवो᳘ न इ᳘त्येत᳘त्स्थित᳘वत्या वसत्यैॗ ह्येनं त᳘त्स्थाप᳘यति॥
मूलम् - विस्वरम्
“प्रप्रायमग्निर्भरतस्य शृण्वे”- इति । प्रजापतिर्वै भरतः । स हीदं सर्वं बिभर्ति । “वि यत् सूर्यो न रोचते बृहद्भाः"- इति । वि यत् सूर्य इव रोचते बृहद्भा इत्येतत् । “अभि यः पूरुं पृतनासु तस्थौ”- इति । पूरुर्ह नामासुररक्षसमास । तमग्निः पृतनास्वभितष्ठौ । “दीदाय दैव्यो ऽअतिथिः शिवो नः"- (वा. सं. १२ । ३४) इति । दीप्यमानो दैवो ऽतिथिः शिवो न इत्येतत् । स्थितवत्या । वसत्यै ह्येनं तत् स्थापयति ॥ १४ ॥
सायणः
समिदाधानमन्त्रं विदधत् विभज्य व्याचष्टे- प्रप्रायमित्यादिना । अयमर्थः- ‘अयम्’ ‘अग्निः’ ‘भरतस्य’ प्रजापतेः वचनं ‘प्रशृण्वे’ प्रकर्षेण शृणोति, ‘सूर्यो न’ सूर्य इव, ‘बृहत्’ महद् ‘भाः’ भासमानः ‘विरोचते’ दीप्यते च । यद्वा, ‘भाः’ भासा ‘बृहत्’ महान् ‘यः’ अग्निः ‘पूरुं’ ‘पृतनासु’ सङ्ग्रामेषु ‘अभितष्ठौ’ ‘पराबभूव,’ स ‘दैव्यः’ देवसम्बन्धी, ‘अतिथिः’ अतिथिरूपः, ‘नः’ ‘शिवः’ सन् ‘दीदाय’ दीप्यते । भरतशब्दं व्याचष्टे- प्रजापतिर्वै भरत इति । तदुपपादयति- स हीदमिति । ‘सूर्यो न’ इत्यत्र ‘न’- शब्द उपमार्थ इति व्याचष्टे- वि यत् सूर्य इव रोचते बृहद्भा इत्येतदिति । तृतीयपादं व्याचष्टे- पूरुर्ह नामासुररक्षसमासेति । सुरविरोधि रक्षो ऽभूत् । “अनसन्तान्नपुंसकाच्छन्दसि”- (पा. सू. ५ । ४ । १०३) इति समासान्तः । स्पष्टमन्यत् । अस्मिन् मन्त्रे ‘पृतनासु तस्थौ’- इत्यत्र स्थितिः श्रूयते, तन्मुखेन मन्त्रं प्रशंसति- स्थितवत्येति ॥ १४ ॥
Eggeling
- [He puts it on, with Vāj. S. XII, 34; R̥k S. VII, 8, 4] ‘Far, far famed is this Agni of the Bharata (tribe),’–the Bharata 8, doubtless, is Prajāpati, for he sustains (bhar) this entire (universe);–’that his great light shineth brightly, as the sun,’–that is, ’that, like the sun, his great light shines brightly;’–‘he who overthrew Pūru in battles,’–Pūru, by name, was an Āsura-Rakshas: him Agni overthrew (abhi-sthā) in battles;–‘blazed up hath the divine guest, gracious unto us;’–that is, ‘being kindled, the divine guest is gracious to us.’ With a (verse) containing (the verb) ‘sthā’ (he performs), for he thereby makes him stop (sthā) for (staying at) his home.
१५
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तः सम्प᳘देव᳘॥
समि᳘धं प्रथमेना᳘दधात्यु᳘द्यच्छत्ये᳘केन प्र᳘यात्ये᳘केना᳘क्षमे᳘केना᳘नुमन्त्रयते समि᳘धमेव᳘ पञ्चमेना᳘दधाति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तः सम्प᳘देव᳘॥
समि᳘धं प्रथमेना᳘दधात्यु᳘द्यच्छत्ये᳘केन प्र᳘यात्ये᳘केना᳘क्षमे᳘केना᳘नुमन्त्रयते समि᳘धमेव᳘ पञ्चमेना᳘दधाति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - Weber
अथा᳘तः सम्प᳘देव᳟॥
समि᳘धम् प्रथमेना᳘दधात्यु᳘द्यछत्ये᳘केन प्र᳘यात्ये᳘केना᳘क्षमे᳘केना᳘नुमन्त्रयते समि᳘धमेव᳘ पञएमेना᳘दधाति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - विस्वरम्
अथातः सम्पदेव । समिधं प्रथमेनादधाति, उद्यच्छत्येकेन, प्रयात्येकेन, अक्षमेकेनानुमन्त्रयते, समिधमेव पञ्चमेनादधाति । तत् पञ्च । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ १५ ॥
सायणः
अथातः सम्पदेवेति । ‘अथ’ ‘अतः’ उपरिष्टात् ‘सम्पदेव’ उक्तानां मन्त्राणां सम्पत्तिरेव, न त्वनुष्ठेयं किञ्चिदुच्यत इत्यर्थः । तां सम्पत्तिं दर्शयति- प्रथमेनादधातीत्यादिना । प्रथमेन “समिधा ऽग्निं दुवस्यत”- (वा. सं. १२ । ३०) इत्येतेन । उद्यच्छत्येकेनेति । “उदु त्वा विश्वे देवाः”- (वा. सं. १२ । ३१) इत्येतेन । प्रयात्येकेनेति । “प्रेदग्ने ज्योतिष्मान्”- (वा. सं. १२ । ३२) इत्येतेन । अक्षमेकेनेति । “अक्रन्ददग्निः” (वा. सं. १२ । ३३) इत्येतेन । समिधमेव पञ्चमेनेति । “प्र प्रायमग्निः”- (वा. सं. १२ । ३४) इत्येतेन । “पञ्चचितिको ऽग्निः”- इत्यादि, गतम् ॥ १५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे अष्टमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (६-८-१) ॥
Eggeling
- Now, then, the (symbolic) correspondence,–with the first (formula) he puts on a kindling-stick, with one he lifts him up, with one he starts, with one he addresses the axle, with the fifth he puts on a
kindling-stick, that makes five,–of five layers consists the fire-altar, five seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.
-
वनीवाहनमेतद्दीक्षासु यदीच्छेत् । का० श्रौ० सू० १६ । १९१ ॥ ↩︎
-
289:1 Sāyaṇa says, ‘vīrasiddheḥ,’ ‘by the heroes’ success.’ ↩︎
-
289:2 See I, 1, 2, 5. ↩︎
-
289:3 Sāyaṇa refers to Vāj. S. XII, 31, ‘upwards may the All-gods bear thee . . .’ (paragraph 9) below, as a passage in point. ↩︎
-
अनड्वाहौ युक्त्वा प्रेदग्ने इति प्राङ् यात्वा यथार्थम् । का० श्रौ० सू० १६ । १८७ ॥ ↩︎
-
‘ऋच स्तुतो’ धा. तु. प. २२ इति । धातूनामनेकार्थत्वात् । ↩︎ ↩︎
-
291:1 See above, VI, 7, 3, 2. ↩︎
-
292:1 Mahīdhara, in accordance with Nigh. III, 18 (priest), explains ‘bharata’ as the one who brings (blear) offerings; and, with Sāyaṇa, identifies the Bharata with the Sacrificer. ↩︎