०१

विश्वास-प्रस्तुतिः

अ᳘थ व्वात्सप्रेणो᳘पतिष्ठते॥
(त ऽ) एतद्वै᳘ प्रजा᳘पतिर्व्विष्णुक्रमैः᳘ प्रजाः᳘ सृष्ट्वा ता᳘भ्यो व्वात्सप्रे᳘णायु᳘ष्यमकरोत्त᳘थै᳘वैतद्य᳘जमानो[[!!]] व्विष्णुक्रमैः᳘ प्रजाः᳘ सृष्ट्वा ता᳘भ्यो व्वात्सप्रे᳘णायु᳘ष्यं[[!!]] करोति॥

मूलम् - श्रीधरादि

अ᳘थ व्वात्सप्रेणो᳘पतिष्ठते॥
(त ऽ) एतद्वै᳘ प्रजा᳘पतिर्व्विष्णुक्रमैः᳘ प्रजाः᳘ सृष्ट्वा ता᳘भ्यो व्वात्सप्रे᳘णायु᳘ष्यमकरोत्त᳘थै᳘वैतद्य᳘जमानो[[!!]] व्विष्णुक्रमैः᳘ प्रजाः᳘ सृष्ट्वा ता᳘भ्यो व्वात्सप्रे᳘णायु᳘ष्यं[[!!]] करोति॥

मूलम् - Weber

अ᳘थ वात्सप्रेणो᳘पतिष्ठते॥
एतद्वै᳘ प्रजा᳘पतिर्विष्णुक्रमैः᳘ प्रजाः᳘ सृष्ट्वा ता᳘भ्यो वात्सप्रे᳘णायुष्य᳘मकरोत्त᳘थैॗवैतद्य᳘जमानो विष्णुक्रमैः᳘ प्रजाः᳘ सृष्ट्वा ता᳘भ्यो वात्सप्रे᳘णायुष्यं᳘ करोति॥

मूलम् - विस्वरम्

अथ वात्सप्रेणोपतिष्ठते । एतद्वै प्रजापतिर्विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यमकरोत् । तथैवैतद्यजमानो विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यं करोति ॥ १ ॥

सायणः

अथ वात्सप्रेणोपतिष्ठत 1 इत्यादि । ‘ताभ्यः’ पृथिव्यन्तरिक्षलोकद्वयव्यापिनीभ्यः सृष्टाभ्यः प्रजाभ्यः ‘वात्सप्रेण आयुष्यम्’ अकरोत्; तस्मिन् सूक्ते ऽग्नेर्लोकत्रयव्याप्तिलक्षणविभूत्याविष्करणस्य विद्यमानत्वात् । आयुषो ऽग्न्यायत्तत्वात् तन्मन्त्रपाठेन तत्रत्यानां प्रजानामायुःस्थापनमित्यभिप्रायः ॥ १ ॥

Eggeling
  1. He then stands by him worshipping with the Vātsapra rite 2, For Prajāpati, having by means of the Vishṇu-strides produced creatures, created vital power for them by means of the Vātsapra rite; and in like manner the Sacrificer, having, by means of the Vishṇu-strides, produced creatures (or, subjects), creates vital power for them by means of the Vātsapra rite.

०२

विश्वास-प्रस्तुतिः

स᳘ हैष᳘ दाक्षायणहस्तः[[!!]]॥
(स्तो) य᳘द्वात्सप्रं त᳘स्माद्यं᳘ जातं᳘ काम᳘येत स᳘र्व्वमा᳘युरियादि᳘ति व्वात्सप्रे᳘णैनमभि᳘मृशेत्त᳘दस्मै जाता᳘यायु᳘ष्यं[[!!]] करोति त᳘थो ह स स᳘र्व्वमा᳘युरेत्य᳘थ यं᳘ काम᳘येत व्वी᳘र्यवान्त्स्यादि᳘ति[[!!]] व्विकृ᳘त्यैनं पुर᳘स्तादभि᳘मन्त्रयेत त᳘थो ह स᳘ व्वी᳘र्य्यवान्भवति॥

मूलम् - श्रीधरादि

स᳘ हैष᳘ दाक्षायणहस्तः[[!!]]॥
(स्तो) य᳘द्वात्सप्रं त᳘स्माद्यं᳘ जातं᳘ काम᳘येत स᳘र्व्वमा᳘युरियादि᳘ति व्वात्सप्रे᳘णैनमभि᳘मृशेत्त᳘दस्मै जाता᳘यायु᳘ष्यं[[!!]] करोति त᳘थो ह स स᳘र्व्वमा᳘युरेत्य᳘थ यं᳘ काम᳘येत व्वी᳘र्यवान्त्स्यादि᳘ति[[!!]] व्विकृ᳘त्यैनं पुर᳘स्तादभि᳘मन्त्रयेत त᳘थो ह स᳘ व्वी᳘र्य्यवान्भवति॥

मूलम् - Weber

स᳘ हैष᳘ दाक्षायणहस्तः᳟॥
य᳘द्वात्सप्रं त᳘स्माद्यं᳘ जातं᳘ काम᳘येत स᳘र्वमा᳘युरियादि᳘ति वात्सप्रे᳘णैनमभि᳘मृशेत्त᳘दस्मै जाता᳘यायुष्यं᳘ करोति त᳘थो ह स स᳘र्वमा᳘युरेत्य᳘थ यं᳘ काम᳘येत वीर्य᳘वान्त्स्यादि᳘ति विकृ᳘त्यैनम् पुर᳘स्तादभि᳘मन्त्रयेत त᳘थो ह स᳘ वीर्य᳘वान्भवति॥

मूलम् - विस्वरम्

स हैष दाक्षायणहस्तः । यद्वात्सप्रम् । तस्माद् यं जातं कामयेत सर्वमायुरियादिति- वात्सप्रेणैनमभिमृशेत् । तदस्मै जातायायुष्यं करोति । तथो ह स सर्वमायुरेति । अथ यं कामयेत- वीर्यवान्त्स्यात् इति । विकृत्यैनं पुरस्तादभिमन्त्रयेत । तथो ह स वीर्यवान् भवति ॥ २ ॥

सायणः

प्रसङ्गात् कञ्चिदयज्ञसंयुक्तं प्रयोगं दर्शयति- स हैष दाक्षायणहस्त इति । ‘दक्षः’ प्राणः, तत्सम्बन्धि आयुष्यं ‘दाक्षम्’, तस्य ‘अयनम्’ प्रापकम्, तादृग्धस्तस्वरूपमिदं ‘वात्सप्रम्’ । तस्मात् उत्पन्नं शिशुम् आयुर्वृद्ध्यर्थं ‘वात्सप्रेण अभिमृशेत्’ ॥

वात्सप्रप्रसङ्गात् प्रागभिहितायाः “सुपर्णो ऽसि” इत्येतस्या विकृत्या यज्ञाद् बहिः प्रयोगं दर्शयति- अथ यं कामयेत वीर्यवान्त्स्यादिति विकृत्यैनं पुरस्तादभिमन्त्रयेतेति । ‘पुरस्तात्’ वात्सप्रेण अभिमर्शनात् पूर्वम् ॥ २ ॥

Eggeling
  1. Now the Vātsapra rite, doubtless, is he, the golden-handed 3 (Agni);–hence whomsoever that is born one may wish to obtain the full (measure of) life, let him touch that one with the Vātsapra rite, and he thereby creates vital power for that newborn one; and accordingly that one obtains the full (measure of) life. And whomsoever one may wish to be vigorous, let him first address that one with the Vikr̥ti (fashioning) formula 4, and that one accordingly becomes vigorous.

०३

विश्वास-प्रस्तुतिः

दिवस्प᳘रि प्रथमं᳘ जज्ञे ऽअग्निरि᳘ति॥
प्राणो वै᳘ दिवः᳘ प्राणा᳘दु वा᳘ ऽएष᳘ प्रथम᳘मजायतास्म᳘द्द्विती᳘यं प᳘रि जात᳘वेदा ऽइ᳘ति य᳘देनमदो᳘ द्विती᳘यं[[!!]] पु᳘रुषविधो᳘ ऽजनयत्तृती᳘यमप्स्वि᳘ति य᳘देनमद᳘स्तृती᳘यमद्भ्यो᳘ ऽजनयन्नृम᳘णा ऽअ᳘जस्रमि᳘ति प्रजा᳘पतिर्वै᳘ नृम᳘णा ऽअग्निर᳘जस्र ऽइ᳘न्धान ऽएनं जरते स्वाधीरि᳘ति यो वा᳘ ऽएनमिन्द्धे स᳘ ऽएनं जनयते स्वाधीः᳘॥

मूलम् - श्रीधरादि

दिवस्प᳘रि प्रथमं᳘ जज्ञे ऽअग्निरि᳘ति॥
प्राणो वै᳘ दिवः᳘ प्राणा᳘दु वा᳘ ऽएष᳘ प्रथम᳘मजायतास्म᳘द्द्विती᳘यं प᳘रि जात᳘वेदा ऽइ᳘ति य᳘देनमदो᳘ द्विती᳘यं[[!!]] पु᳘रुषविधो᳘ ऽजनयत्तृती᳘यमप्स्वि᳘ति य᳘देनमद᳘स्तृती᳘यमद्भ्यो᳘ ऽजनयन्नृम᳘णा ऽअ᳘जस्रमि᳘ति प्रजा᳘पतिर्वै᳘ नृम᳘णा ऽअग्निर᳘जस्र ऽइ᳘न्धान ऽएनं जरते स्वाधीरि᳘ति यो वा᳘ ऽएनमिन्द्धे स᳘ ऽएनं जनयते स्वाधीः᳘॥

मूलम् - Weber

दिवस्प᳘रि प्रथमं᳘ जज्ञे अग्निरि᳘ति॥
प्राणो वै᳘ दिवः᳘ प्राणा᳘दु वा᳘ एष᳘ प्रथम᳘मजायतास्म᳘द्द्विती᳘यम् प᳘रि जात᳘वेदा इ᳘ति य᳘देनमदो᳘ द्वितीय᳘म् पु᳘रुषविधो᳘ ऽजनयत्तृती᳘यमप्स्वि᳘ति य᳘देनमद᳘स्तृती᳘यमद्भ्यो᳘ ऽजनयन्नृम᳘ण अ᳘जस्रमि᳘ति प्रजा᳘पतिर्वै᳘ नृम᳘णा अग्निर᳘जस्र इ᳘न्धान एनं जरते स्वाधीरि᳘ति यो वा एनमिन्द्धे स᳘ एनं जनयते स्वाधीः᳟॥

मूलम् - विस्वरम्

“दिवस्परि प्रथमं जज्ञे ऽअग्निः”- इति । प्राणो वै दिवः । प्राणादु वा ऽएष प्रथममजायत । “अस्मद्द्वितीयं परि जातवेदाः”- इति । यदेनमदो द्वितीयं पुरुषविधो ऽजनयत् । “तृतीयमप्सु”- इति । यदेनमदस्तृतीयमद्भ्यो ऽजनयत् । “नृमणा अजस्रम्”- इति । प्रजापतिर्वै नृमणाः, अग्निरजस्रः । “इन्धान एनं जरते स्वाधीः”- (वा० सं० १२ । १८) इति । यो वा ऽएनमिन्द्धे- स एनं जनयते स्वाधीः ॥ ३ ॥

सायणः

उपस्थाने मन्त्रं विधाय व्याचष्टे- दिवस्परीत्यादिना । दिव्शब्दस्य विवक्षितमर्थमाह- प्राणो वै दिव इति । ‘दिवः’ दिव्प्रतिपाद्य इत्यर्थः । अथवा दिव इति पञ्चम्यन्तपदेन प्रातिपदिकमात्रं विवक्षित्वोक्तम्; दिव्प्रातिपदिकात् प्राणो विवक्षित इति । तत् कथमिति तत् समर्थयते- प्राणादु वा एष प्रथममजायतेति । प्राणात् उत्पत्तिः प्राक् काण्डादौ- “प्राणा वा ऋषयः”- इत्युपक्रम्य, “सप्त पुरुषानेकं पुरुषं करवामेति त एतान् सप्त पुरुषानेकं पुरुषमकुर्वन्”- (श. प. ६ । १ । १ । ३) इति प्रतिपादिता । सा चात्र ‘वै’- शब्देन प्रसिद्धीक्रियते ॥

“अस्मद् द्वितीयमिति”- अमुं द्वितीयं पादं व्याचष्टे- यदेनमदो द्वितीयं पुरुषविधो ऽजनयदिति । ‘यद्’ यस्मात् ‘एनम्’ अग्निम् ‘अदः’ विप्रकृष्टे काले ‘पुरुषविधः’ यथा पुरुषः तदवयवी सम्पद्यते, तथा इष्टकाभिरजनयदित्यर्थः । अयमर्थो ऽपि तत्रैव प्राक् प्रतिपादितः- “स एव पुरुषः प्रजापतिरभवत् । स यः स पुरुषः प्रजापतिरभवत्, अयमेव स यो ऽयमग्निश्चीयते”- (श. प. ६ । १ । १ । ५) इति । तथाविधचयनसाध्याकारोत्पादनस्य अध्वर्युकर्तृकत्वात् ऋषिराह- अस्मद् द्वितीयमिति ॥

“तृतीयमप्सु’’- इत्येतद् व्याचष्टे- यदेनमदस्तृतीयमद्भ्यो ऽजनयदिति । ‘एनम्’ आहुत्याधाररूपमित्यर्थः । अयमर्थो ऽपि तत्रैवोक्तः- “सो ऽपो ऽसृजत”- इत्युक्त्वा, “सो ऽकामयताभ्यो ऽद्भ्यो ऽधि प्रजायेयेति, सो ऽनया त्रय्या विद्यया सहापः प्राविशत् तत आण्डं समवर्त्तत”- इति, “अथ यो गर्भो ऽन्तरासीत् सो ऽग्निरसृज्यतेति च”- (श. प. ६ । १ । १ । ९-११ कं०) ॥

क उत्पादितवानिति, तदाह- नृमणा इति । नृमणः- शब्दस्य विवक्षितमर्थं दर्शयति- प्रजापतिर्वै नृमणा इति । नृविषयमनोयुक्तः इति तस्यार्थः । अजस्रशब्दं व्याचष्टे- अग्निरजस्र इति । ‘अजस्रम्’ अहिंसितम् अग्निमित्यर्थः । चतुर्थपादस्य तात्पर्यमाह- यो वा एनमिन्धे स एनं जनयत इति । पुनः पुनः समिन्धनमेवाग्नेरुत्पादनम् । अतो यः ‘स्वाधीः’ स्वाधानः इन्धे ‘सः’ ‘जनयते’ जनयति । अर्थात् स्तुत्यर्थं जरत इत्यस्य जनयत इत्यर्थ इति व्याख्यातं भवति । मन्त्रार्थस्तु व्याख्यातप्रायः ॥ ३ ॥

Eggeling
  1. [Vāj. S. XII, 18-20] ‘From the sky Agni was first born;’–the sky, doubtless, is the breath, and from the breath he (Agni) was indeed first born,–‘from us the second time, the knower of beings,’–inasmuch as he, man-like, on that occasion generated him a second time 5;–’the

third time in the waters,’–inasmuch as he there did generate him a third time from the waters;–‘he, the manly-minded, (kindling him) the imperishable,’–the manly-minded, doubtless, is Prajāpati; and the imperishable, Agni 6;–‘kindling him the mindful praises (jar) him,’–for he who kindles him generates him, mindful.

०४

विश्वास-प्रस्तुतिः

(र्व्वि) व्विद्मा᳘ ते ऽअग्ने त्रेधा᳘ त्रयाणी᳘ति॥
(त्य) अग्नि᳘र्व्वायु᳘रादित्य᳘ ऽएता᳘नि हास्य ता᳘नि त्रेधा᳘ त्रया᳘णि व्विद्मा᳘ ते धा᳘म व्वि᳘भृता पुरुत्रे᳘ति य᳘दिदं᳘ बहुधा᳘ व्विह्रिय᳘ते व्विद्मा᳘ ते ना᳘म परमं गु᳘हा यदि᳘ति य᳘विष्ठ ऽइ᳘ति वा᳘ ऽअस्य तन्ना᳘म परमं गु᳘हा व्विद्मा तमु᳘त्सं य᳘त ऽआजगन्थेत्या᳘पो वा ऽउ᳘त्सो ऽद्भ्यो वा ऽएष᳘[[!!]] प्रथममा᳘जगाम॥

मूलम् - श्रीधरादि

(र्व्वि) व्विद्मा᳘ ते ऽअग्ने त्रेधा᳘ त्रयाणी᳘ति॥
(त्य) अग्नि᳘र्व्वायु᳘रादित्य᳘ ऽएता᳘नि हास्य ता᳘नि त्रेधा᳘ त्रया᳘णि व्विद्मा᳘ ते धा᳘म व्वि᳘भृता पुरुत्रे᳘ति य᳘दिदं᳘ बहुधा᳘ व्विह्रिय᳘ते व्विद्मा᳘ ते ना᳘म परमं गु᳘हा यदि᳘ति य᳘विष्ठ ऽइ᳘ति वा᳘ ऽअस्य तन्ना᳘म परमं गु᳘हा व्विद्मा तमु᳘त्सं य᳘त ऽआजगन्थेत्या᳘पो वा ऽउ᳘त्सो ऽद्भ्यो वा ऽएष᳘[[!!]] प्रथममा᳘जगाम॥

मूलम् - Weber

विद्ना᳘ ते अग्ने त्रेधा᳘ त्रयाणी᳘ति॥
अग्नि᳘र्वायु᳘रादित्य᳘ एता᳘नि हास्य ता᳘नि त्रेधा᳘ त्रया᳘णि विद्ना᳘ ते धा᳘म वि᳘भृता पुरुत्रे᳘ति य᳘दिद᳘म् बहुधा᳘ विह्रिय᳘ते विद्ना᳘ ते ना᳘म परमं गु᳘हा यदि᳘ति य᳘विष्ठ इ᳘ति वा᳘ अस्य तन्ना᳘म परमं गु᳘हा विद्ना तमु᳘त्सं य᳘त आजगन्थेत्या᳘पो वा उ᳘त्सो ऽद्भ्यो वा᳘ एष᳘ प्रथममा᳘जगाम समुद्रे᳘ त्वा नुम᳘णा अप्स्व᳘न्तरि᳘ति प्रजा᳘पतिर्वै᳘ नृम᳘णा अप्सु᳘ त्वा प्रजा᳘पतिरि᳘त्येत᳘न्नृच᳘क्षा ईधे दिवो᳘ अग्न ऊ᳘धन्नि᳘ति प्रजा᳘पतिर्वै᳘ नृच᳘क्षा आ᳘पो दिव ऊ᳘धस्तृती᳘ये त्वा र᳘जसि तस्थिवा᳘ᳫं᳘समि᳘ति द्यौर्वै᳘ तृती᳘यं र᳘जो ऽपामुप᳘स्थे महिषा᳘ अवर्धन्नि᳘ति प्राणा वै᳘ महिषा᳘ दिवि᳘ त्वा प्राणा᳘ अवर्धन्नि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“विद्मा ते ऽअग्ने त्रेधा त्रयाणि”- इति । अग्निर्वायुरादित्यः- एतानि हास्य तानि त्रेधा त्रयाणि । “विद्मा ते धाम विभृता पुरुत्रा”- इति । यदिदं बहुधा विह्रियते । “विद्मा ते नाम परमं गुहा यद्”- इति । यविष्ठ इति वा ऽअस्य तन्नाम परमं गुहा । “विद्मा तमुत्सं यत आजगन्थ”- (वा. सं. १२ । १९) इति । आपो वा ऽउत्सः । अद्भ्यो वा ऽएष प्रथममाजगाम ॥ ४ ॥

सायणः

अथ द्वितीयमन्त्रः । विद्मा ते अग्न इति । (का. श्रौ. सू. १६ । १६६) अत्र “त्रेधा त्रयाणि”- इत्येतद् व्याचष्टे- अग्निर्वायुरादित्य एतानि हास्य तानि त्रेधा त्रयाणीति । एकस्यैव त्रेधाभावेन सिद्धानि त्रयाणि रूपाणि ‘विद्म’ जानीमः । द्वितीयपादं व्याचष्टे- विद्मा ते धाम विभृता पुरुत्रेति, यदिदं बहुधा विह्रियत इति । ‘बहुधा’ बहुप्रकारमाहवनीयायतनेषु विह्रियत इति यदिदमस्ति एतदेतेन प्रतिपाद्यत इत्यर्थः । ‘पुरुत्रा’ पुरुषु बहुषु प्रदेशेषु ‘विभृता’ विभृतानि ‘धाम’ धामानि अमुमर्थं ‘विद्म’ जानीमः । तृतीयं पादं व्याचष्टे- विद्मा ते नाम परमं गुहा यदितीति । किं तत् गुह्यं नामेति तद् दर्शयति- यविष्ठ इति वा अस्य तन्नाम परमं गुहेति । चतुर्थपादं व्याचष्टे- विद्मा तमुत्सं यत आजगन्थेतीति । हे अग्ने ! त्वं ‘यतः’ ‘आजगन्थ’ आगतो ऽसि, ‘तम्’ ‘उत्सम्’ उत्स्यन्दते ऽस्मादित्युत्सः तम्, ‘विद्म’ । को ऽसौ उत्सशब्देन विवक्षित इति तं दर्शयति- आपो वा उत्सो ऽद्भ्यो वा एष प्रथममाजगामेति । अद्भ्य उत्पत्तिः पूर्वमन्त्रे “तृतीयमद्भ्यो ऽजनयत्” इत्यत्रोक्ता । ननु तत्राद्भ्यो जन्म तृतीयमित्युक्तम्, कथमत्र “प्रथममाजगाम”- इति ? उच्यते- नैष दोषः; तत्राग्नेः प्रजापत्यात्मकं चित्यात्मकं च रूपमपेक्ष्य तृतीयत्वमुक्तम्, इह तु मथनाद्यपेक्षया प्राथम्यस्य विवक्षितत्वात् ॥ ४ ॥

Eggeling
  1. ‘We know, O Agni, thy threefold three,’–Agni, Vāyu (wind), Āditya (sun), these are his three in three forms;–‘We know thy manifold scattered sites,’–inasmuch as he (Agni) is here distributed many ways;–‘we know thy highest name which is in secret,’–’the youngest,’ that indeed is his highest name in secret;–‘we know that source whence thou art come;’–the source, doubtless, is the (heavenly) waters, for from the waters he first came.

०५

विश्वास-प्रस्तुतिः

समुद्रे᳘ त्वा नृम᳘णा ऽअप्स्वन्तरि᳘ति[[!!]] प्रजा᳘पतिर्वै᳘ नृम᳘णा ऽअप्सु᳘ त्वा प्रजा᳘पतिरि᳘त्येत᳘न्नृच᳘क्षा ऽईधे दिवो᳘ ऽअग्न ऽऊ᳘धन्नि᳘ति प्रजा᳘पतिर्व्वै᳘ नृच᳘क्षा ऽआ᳘पो दिव ऽऊ᳘धस्तृती᳘ये त्वा र᳘जसि तस्थिवा᳘ ᳫँ᳘समि᳘ति द्यौर्व्वै᳘ तृती᳘यᳫँ᳭ र᳘जो ऽपामुप᳘स्थे महिषा᳘ ऽअवर्द्धन्नि᳘ति प्राणा वै᳘ महिषा᳘ दिवि᳘ त्वा प्राणा᳘ ऽअवर्द्धन्नि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

समुद्रे᳘ त्वा नृम᳘णा ऽअप्स्वन्तरि᳘ति[[!!]] प्रजा᳘पतिर्वै᳘ नृम᳘णा ऽअप्सु᳘ त्वा प्रजा᳘पतिरि᳘त्येत᳘न्नृच᳘क्षा ऽईधे दिवो᳘ ऽअग्न ऽऊ᳘धन्नि᳘ति प्रजा᳘पतिर्व्वै᳘ नृच᳘क्षा ऽआ᳘पो दिव ऽऊ᳘धस्तृती᳘ये त्वा र᳘जसि तस्थिवा᳘ ᳫँ᳘समि᳘ति द्यौर्व्वै᳘ तृती᳘यᳫँ᳭ र᳘जो ऽपामुप᳘स्थे महिषा᳘ ऽअवर्द्धन्नि᳘ति प्राणा वै᳘ महिषा᳘ दिवि᳘ त्वा प्राणा᳘ ऽअवर्द्धन्नि᳘त्येतत्[[!!]]॥

मूलम् - Weber

ता᳘ एता ए᳘कव्याख्यानाः॥
एत᳘मेॗवाभि ता᳘ आग्नेय्य᳘स्त्रिष्टु᳘भस्ता य᳘दाग्नेय्य᳘स्ते᳘नाग्निर᳘थ य᳘त्त्रिष्टु᳘भो यदे᳘कादश तेने᳘न्द्र ऐन्द्राग्नो ऽग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदु᳘पतिष्ठत इन्द्राग्नी वै स᳘र्वे देवाः᳘ सर्वदेव᳘त्यो ऽग्निर्या᳘वत्य॥

मूलम् - विस्वरम्

“समुद्रे त्वा नृमणा अप्स्वन्तः”- इति । प्रजापतिर्वै नृमणाः । अप्सु त्वा प्रजापतिरित्येतत् । “नृचक्षा ईधे दिवो ऽअग्न ऽऊधन्”- इति । प्रजापतिर्वै नृचक्षाः, आपो दिव ऊधः । “तृतीये त्वा रजसि तस्थिवांसम्”- इति । द्यौर्वै तृतीयं रजः । “अपामुपस्थे महिषा अवर्द्धन्”- (वा. सं. १२ । २०) इति । प्राणा वै महिषाः । दिवि त्वा प्राणा अवर्द्धन्नित्येतत् ॥ ५ ॥

सायणः

समुद्रे त्वेति । (का. श्रौ. सू. १६ । १६६) तृतीयो मन्त्रः । हे ‘अग्ने !’ ‘त्वा’ त्वां ‘समुद्रे’ तत्रापि ‘अप्स्वन्तः’ ‘नृमणाः’ मनुष्येषु अनुग्रहयुक्तमनाः ‘प्रजापतिः’ ‘ईधे’ अदीपयत् । तथा ‘नृचक्षाः’ सर्वसाक्षित्वेन मनुष्याणां द्रष्टा प्रजापतिः ‘दिवः’ ‘ऊधन्’ ऊधसीत्यर्थः । “लोका रजांस्युच्यन्ते”- (निरु. ४ । ३ । ३) इति निरुक्तम् । ‘तृतीयं रजः’ द्युलोकः, तत्र ‘तस्थिवांसं’ स्थितवन्तं त्वाम् ‘अपाम्’ ‘उपस्थे’ उत्सङ्गे, दिवि ‘महिषाः’ महान्तः प्राणाः, वायुप्राणयोरभेदाद् वायवः ‘अवर्द्धन्’ यद्वा, अप्शब्देन तज्जं पुष्करपर्णमुच्यते, तदेव द्योतमानत्वात् पृथिव्यसंस्पर्शाद् दिवीति व्याख्यातं ब्राह्मणे । तत्र ‘महिषाः’ प्राणाः ऋत्विक्सम्बन्धिनः ‘अवर्द्धन्’ । उक्तो नृमणशब्दार्थः, द्वितीयपादस्थेन ‘नृचक्षः’- शब्देन प्रजापतिर्विवक्षितः, ‘दिव ऊधन्’- इत्यनेन आपो विवक्षिता इति व्याचष्टे- प्रजापतिर्वै नृचक्षा आपो दिव ऊध इति । “तृतीयं रज” इति द्यौर्विवक्षिता, “अपामुपस्थे” इत्यनेन च द्यौर्विवक्षिता । “महिषाः" इति च प्राणा विवक्षिता इति दर्शयति- द्यौर्वै तृतीयं रजः, प्राणा वै महिषाः, दिवि त्वा प्राणा अवर्द्धन्नित्येतदिति ॥ ५ ॥

Eggeling
  1. ‘In the sea the manly-minded (kindled) thee, in the waters,’–the manly-minded is Prajāpati: thus, ‘In the waters Prajāpati (kindled) thee;’–’the man-watcher hath kindled thee, O Agni, in the udder of the sky,’–the man-watcher, doubtless, is Prajāpati, and the udder of the sky is the waters ;–’thee, whilst standing in the third region,’–the third region, doubtless, is the sky;–’the buffaloes made (thee) grow in the lap of the waters ;’–the buffaloes, doubtless, are

the vital airs: thus, ’the vital airs made thee grow in the sky.’

०६

विश्वास-प्रस्तुतिः

(त्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मे᳘वाभि ता᳘ ऽआग्ने᳘य्यस्त्रिष्टु᳘भस्ता[[!!]] य᳘दाग्ने᳘य्यस्ते᳘नाग्निर᳘थ[[!!]] य᳘त्त्रिष्टु᳘भो यदे᳘कादश तेने᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्यावत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पतिष्ठत ऽइन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्यावत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पतिष्ठते ॥

मूलम् - श्रीधरादि

(त्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मे᳘वाभि ता᳘ ऽआग्ने᳘य्यस्त्रिष्टु᳘भस्ता[[!!]] य᳘दाग्ने᳘य्यस्ते᳘नाग्निर᳘थ[[!!]] य᳘त्त्रिष्टु᳘भो यदे᳘कादश तेने᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्यावत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पतिष्ठत ऽइन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्यावत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पतिष्ठते ॥

मूलम् - Weber

य᳘द्वेव᳘ विष्णुक्रमवात्सप्रे भ᳘वतः॥
विष्णुक्रमैर्वै᳘ प्रजास्य मा᳘त्रा ता᳘वतैॗवैनमेतदु᳘पतिष्टते᳘पतिरिमं᳘ लोकम᳘सृजत वात्सप्रे᳘णाग्निं᳘ विष्णुक्रमैर्वै᳘ प्रजा᳘पतिरन्त᳘रिक्षम᳘सृजत वात्सप्रे᳘ण वायं विष्णुक्रमैर्वै᳘ प्रजा᳘पतिर्दि᳘वम᳘सृजत वात्सप्रे᳘णादित्यं᳘ विष्णुक्रमैर्वै᳘ प्रजा᳘पतिर्दिशो᳘ ऽसृजत वात्सप्रे᳘ण चन्द्र᳘मसं विष्णुक्रमैर्वै᳘ प्रजा᳘पतिर्भूतम᳘सृजत वात्सप्रे᳘ण भविष्य᳘द्विष्णुक्रमैर्वै᳘ प्रजा᳘पतिर्वित्तम᳘सृजत वात्सप्रे᳘णाशां᳘ विष्णुक्रमैर्वै᳘ प्रजा᳘पतिर᳘हर᳘सृजत वात्सप्रे᳘ण रा᳘त्रिं विष्णुक्रमैर्वै᳘ प्रजा᳘पतिः पूर्वपक्षानसृ᳘जत वात्सप्रे᳘णापरपक्षा᳘न्विष्णुक्रमैर्वै᳘ प्रजा᳘पतिरर्धमासान᳘सृजत वात्सप्रेण मा᳘सान्विष्णुक्रमैर्वै᳘ प्रजा᳘पतिरृतून᳘सृजत वात्सप्रे᳘ण संवत्सरं तद्य᳘द्विष्णुक्रमवात्सप्रे भ᳘वत एत᳘देव ते᳘न स᳘र्वᳫं सृजते॥

मूलम् - विस्वरम्

ता एता एकव्याख्याना एतमेवाभि । ता आग्नेय्यः त्रिष्टुभः । ता यदाग्नेय्यः- तेनाग्निः । अथ यत्त्रिष्टुभः । यदेकादश- तेनेन्द्रः । ऐन्द्राग्नो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदुपतिष्ठते । इन्द्राग्नी वै सर्वे देवाः । सर्वदेवत्यो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपतिष्ठते ॥ ६ ॥

सायणः

एवं प्रदर्शनार्थं सूक्तस्यादिमं तृचं व्याख्याय, तद्व्याख्यानमुत्तरास्वृक्षु समानमित्यतिदिशति- ता एता एकव्याख्याना इत्यादिना । एकमेवाग्निं व्याचक्षत इति एकव्याख्यानाः । ‘एतम् एव’ ‘अभि’ प्रवृत्ता इति शेषः । ‘ताः’ सर्वाः ‘आग्न्येय्यः’ अग्निदेवत्याः, तथा ताः ‘त्रिष्टुभः’ । त्रिष्टुभ इति यत् ‘तत्’ एव कथमित्यत आह- यदेकादशेति । तत्पादे अक्षरगतैकादशसङ्ख्या ऽस्ति, तस्मात् त्रिष्टुभ इत्यर्थः । किं तत इत्याह- तेनेन्द्र इति । त्रिष्टुभो हि इन्द्रदेवताकत्वम् । प्रतिपादितप्रकारेण ‘अग्निः ऐन्द्राग्नः’ ॥ . यावानग्निर्यावत्यस्य मात्रेति । ऐन्द्राग्नात्मनो ऽस्याग्नेर्यावती देवताद्वयस्वरूपा मात्रा ऽस्ति । इन्द्राग्नी वै सर्वे देवा इति । इन्द्रस्य सर्वदेवताधिपतित्वात्, अग्नेश्च सर्वदेवता ऽनुप्रवेशाच्च स्वर्वदेवतारूपत्वम् । सर्वदेवत्यो ऽग्निरिति । स्वात्मना इन्द्रात्मना चेत्यर्थः । अत्रापि यावत्यस्य मात्रेति सर्वदेवतारूपा मात्रेत्यर्थः ॥ ६ ॥

Eggeling
  1. These (three verses 7) have one and the same explanation regarding him (Agni): they are Trishṭubh verses relating to Agni. Inasmuch as they relate to Agni, they are Agni; and inasmuch as they are Trishṭubhs, and eleven (syllables), they are Indra;–but Agni consists of Indra and Agni: as great as Agni is, as great as is his measure, with so much he thus stands worshipping by him. And Indra and Agni are all the gods, and Agni includes (or belongs to) all the deities: as great as Agni is, as

great as is his measure, with so much he thus stands worshipping by him.

०७

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्विष्णुक्रमवात्सप्रे भ᳘वतः॥
(तो) व्विष्णुक्रमैर्व्वै᳘ प्रजापतिरिमं᳘ लोकम᳘सृजत व्वात्सप्रे᳘णाग्निं᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिरन्त᳘रिक्षम᳘सृजत व्वात्सप्रे᳘ण व्वायुं᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्द्दि᳘वम᳘सृजत व्वात्सप्रे᳘णादित्यं᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्द्दिशो᳘ ऽसृजत व्वात्सप्रे᳘ण चन्द्र᳘मसं व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्भूतम᳘सृजत व्वात्सप्रे᳘ण भविष्य᳘द्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्व्वित्तम᳘सृजत व्वात्सप्रे᳘णाशां᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर᳘हर᳘सृजत व्वात्सप्रे᳘ण रा᳘त्रिं व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिः पूर्व्वपक्षान᳘सृजत[[!!]] व्वात्सप्रे᳘णापरपक्षा᳘न्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिरर्द्धमासान᳘सृजत व्वात्सप्रे᳘ण मा᳘सान्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्ऋतून᳘सृजत व्वात्सप्रे᳘ण संव्वत्सरं तद्य᳘द्विष्णुक्रमवात्सप्रे भ᳘वत ऽएत᳘देव ते᳘न स᳘र्वᳫँ᳭ सृजते॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्विष्णुक्रमवात्सप्रे भ᳘वतः॥
(तो) व्विष्णुक्रमैर्व्वै᳘ प्रजापतिरिमं᳘ लोकम᳘सृजत व्वात्सप्रे᳘णाग्निं᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिरन्त᳘रिक्षम᳘सृजत व्वात्सप्रे᳘ण व्वायुं᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्द्दि᳘वम᳘सृजत व्वात्सप्रे᳘णादित्यं᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्द्दिशो᳘ ऽसृजत व्वात्सप्रे᳘ण चन्द्र᳘मसं व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्भूतम᳘सृजत व्वात्सप्रे᳘ण भविष्य᳘द्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्व्वित्तम᳘सृजत व्वात्सप्रे᳘णाशां᳘ व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर᳘हर᳘सृजत व्वात्सप्रे᳘ण रा᳘त्रिं व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिः पूर्व्वपक्षान᳘सृजत[[!!]] व्वात्सप्रे᳘णापरपक्षा᳘न्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिरर्द्धमासान᳘सृजत व्वात्सप्रे᳘ण मा᳘सान्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिर्ऋतून᳘सृजत व्वात्सप्रे᳘ण संव्वत्सरं तद्य᳘द्विष्णुक्रमवात्सप्रे भ᳘वत ऽएत᳘देव ते᳘न स᳘र्वᳫँ᳭ सृजते॥

मूलम् - Weber

य᳘द्वेव᳘ विष्णुक्रमवात्सप्रे भ᳘वतः॥
विष्णुक्रमैर्वै᳘ प्रजा᳘पतिः स्वर्गं᳘ लोक᳘मभिप्रा᳘यात्स᳘ एत᳘दवसा᳘नमपश्यद्वात्सप्रं तेना᳘वास्यद᳘प्रदाहाय यद्धि᳘ युक्तं न᳘ विमुच्य᳘ते प्र त᳘द्दह्यते त᳘थैॗवैतद्य᳘जमानो विष्णुक्रमै᳘रेव᳘ स्वर्गं᳘ लोक᳘मभिप्रया᳘ति वात्सप्रेणा᳘वस्यति॥

मूलम् - विस्वरम्

यद्वेव विष्णुक्रमवात्सप्रे भवतः । विष्णुक्रमैर्वै प्रजापतिरिमं लोकमसृजत । वात्सप्रेणाग्निम् (१) । विष्णुक्रमैर्वै प्रजापतिरन्तरिक्षमसृजत । वात्सप्रेण वायुम् (२) । विष्णुक्रमैर्वै प्रजापतिर्द्दिवमसृजत । वात्सप्रेणादित्यम् (३) । विष्णुक्रमैर्वै प्रजापतिर्द्दिशो ऽसृजत । वात्सप्रेण चन्द्रमसम् (४) । विष्णुक्रमैर्वै प्रजापतिर्भूतमसृजत । वात्सप्रेण भविष्यत् (५) । विष्णुक्रमैर्वै प्रजापतिर्वित्तमसृजत । वात्सप्रेणाशाम् (६) । विष्णुक्रमैर्वै प्रजापतिरहरसृजत । वात्सप्रेण रात्रिम् (७) । विष्णुक्रमैर्वै प्रजापतिः पूर्वपक्षानसृजत । वात्सप्रेणापरपक्षान् (८) । विष्णुक्रमैर्वै प्रजापतिरर्द्धमासानसृजत । वात्सप्रेण मासान् (९) । विष्णुक्रमैर्वै प्रजापतिर्ऋतूनसृजत । वात्सप्रेण संवत्सरम् (१०) । तद् यद् विष्णुक्रमवात्सप्रे भवतः- एतदेव तेन सर्वं सृजते ॥ ७ ॥

सायणः

अथ पुनर्विष्णुक्रमवात्सप्रे समुच्चित्य 8 (श. प. ६ । ७ । १ । १ ॥ ६ । ७ । ३ । १६ कं.) लोकतदधिष्ठातृदेवतादिसकलजगदुत्पादकतया स्तौति- विष्णुक्रमवात्सप्रे भवतो विष्णुक्रमैर्वै प्रजापतिरिमं लोकमसृजत वात्सप्रेणाग्निमित्यादिना । ‘वित्तं’ धनम् । ‘आशां’ दिशम् । सर्वं निगदसिद्धम् । उक्तमर्थमुपसंहरति- तद्यद् विष्णुक्रमवात्सप्रे भवत इति । उक्तार्थानुसन्धानेनोभयमवश्यमनुतिष्ठन् यजमानः सर्वं जगत् सृष्टवान् भवति ॥ ७ ॥

Eggeling
  1. And, again, why the Vishṇu-strides and the Vātsapra rite are (performed);–by the Vishṇu-strides Prajāpati created this world, and by the Vātsapra the fire (Agni); by the Vishṇu-strides Prajāpati created the air, and by the Vātsapra the wind (Vāyu); by the Vishṇu-strides Prajāpati created the sky, and by the Vātsapra the sun (Āditya); by the Vishṇu-strides Prajāpati created the regions, and by the Vātsapra the moon; by the Vishṇu-strides Prajāpati created that which has been, and by the Vātsapra that which shall be; by the Vishṇu-strides Prajāpati created possession (wealth), and by the Vātsapra hope; by the Vishṇu-strides Prajāpati created the day, and by the Vātsapra the night; by the Vishṇu-strides Prajāpati created the former (bright) fortnights, and by the Vātsapra the latter (dark) fortnights; by the Vishṇu-strides Prajāpati created the half-months, and by the Vātsapra the months; by the Vishṇu-strides Prajāpati created the seasons, and by the Vātsapra the year: thus the reason why the Vishṇu-strides and Vātsapra are (performed) is that he thereby even now creates everything.

०८

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्विष्णुक्रमवात्सप्रे भ᳘वतः॥
(तो) व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिः स्वर्गं᳘ लोक᳘मभिप्रा᳘यात्स᳘ ऽएत᳘दवसा᳘नमपश्यद्वात्सप्रं तेना᳘वास्यद᳘प्रदाहाय यद्धि᳘ युक्तं न᳘ विमुच्य᳘ते प्र त᳘द्दह्यते त᳘थै᳘वैतद्य᳘जमानो व्विष्णुक्रमै᳘रेव᳘ स्वर्गं᳘ लोक᳘मभिप्रया᳘ति व्वात्सप्रेणा᳘वस्यति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्विष्णुक्रमवात्सप्रे भ᳘वतः॥
(तो) व्विष्णुक्रमैर्व्वै᳘ प्रजा᳘पतिः स्वर्गं᳘ लोक᳘मभिप्रा᳘यात्स᳘ ऽएत᳘दवसा᳘नमपश्यद्वात्सप्रं तेना᳘वास्यद᳘प्रदाहाय यद्धि᳘ युक्तं न᳘ विमुच्य᳘ते प्र त᳘द्दह्यते त᳘थै᳘वैतद्य᳘जमानो व्विष्णुक्रमै᳘रेव᳘ स्वर्गं᳘ लोक᳘मभिप्रया᳘ति व्वात्सप्रेणा᳘वस्यति॥

मूलम् - Weber

स वै᳘ विष्णुक्रमा᳘न्क्रान्त्वा᳟॥
अ᳘थ तदा᳘नीमेव᳘ वात्सप्रेणो᳘पतिष्ठते य᳘था प्रयाया᳘थ त᳘दानीमे᳘व विमुञ्चे᳘त्तादृक्त᳘द्देवा᳘नां वै᳘ विधाम᳘नु मनुॗष्यास्त᳘स्मादु हेद᳘मुत᳘ मानुषो ग्रा᳘मः प्रयाया᳘थ तदा᳘नीमेवा᳘वस्यति॥

मूलम् - विस्वरम्

यद्वेव विष्णुक्रमवात्सप्रे भवतः । विष्णुक्रमैर्वै प्रजापतिः स्वर्गं लोकमभिप्रायात् । स एतदवसानमपश्यद्- वात्सप्रम् । तेनावास्यद्- अप्रदाहाय । यद्धि युक्तं न विमुच्यते- प्र तद्दह्यते । तथैवैतद्यजमानो विष्णुक्रमैरेव स्वर्गं लोकमभिप्रयाति । वात्सप्रेणावस्यति ॥ ८ ॥

सायणः

अथ पुनर्विष्णुक्रमं स्वर्गप्राप्तिसाधनात्मना वात्सप्रं तदवसानात्मना च प्रशसति- यद्वेव विष्णुक्रमवात्सप्रे इति । ‘विष्णुक्रमै’ साधनैः स्वर्गं लोकमभिलक्ष्य प्राप्तवान् प्रजापतिः, तस्य गमनस्य अवसानस्थानीयं वात्सप्रमपश्यत् । अत्रावसानं विमोचनम् । “स्यतिरुपसृष्टो विमोचने"- (निरु. १ । ६ । १) इति हि यास्कः । यजमानस्य तु अग्निना सह तन्मन्त्रेण आक्रमणमेव स्वर्गप्राप्तिः । वात्सप्रमन्त्रेणोपस्थानस्यानन्तरभावित्वात् तेनोपस्थानमेव स्वर्गगत्यवसानम् । यदि केवलं विष्णुक्रमानेव कृत्वा वात्सप्रं न कुर्यात् तदा ऽग्नेः उपरि त्यागात् प्रदहेत् । यद्धि युक्तमिति । लोकमर्यादाप्रदर्शनम् । यथा रथे युक्तमश्वादिकं कदाचिदपि विमोकाभावे रथभारश्रमेण दह्यते, तथैवैतदित्यादि पूर्ववत् ॥ ८ ॥

Eggeling
  1. And, again, why the Vishṇu-strides and the Vātsapra rite are (performed). By the Vishṇu-strides Prajāpati drove up to heaven. He saw that unyoking-place, the Vātsapra, and unyoked thereat to prevent chafing; for when the yoked (beast) is not unloosed, it is chafed. In like manner the Sacrificer drives up to heaven by the Vishṇu-strides; and unyokes by means of the Vātsapra.

०९

विश्वास-प्रस्तुतिः

स वै᳘ व्विष्णुक्रमा᳘न्क्रान्त्वा[[!!]]॥
(न्त्वा᳘ ऽथ) अ᳘थ तदा᳘नीमेव᳘ व्वात्सप्रेणो᳘पतिष्ठते य᳘था प्रयाया᳘थ त᳘दानीमे᳘व व्विमुञ्चे᳘त्तादृक्त᳘द्देवा᳘नां वै᳘ व्विधाम᳘नु मनु᳘ष्यास्त᳘स्मादु हेद᳘मुत᳘ मानुषो ग्रा᳘मः प्रया᳘याथ[[!!]] तदा᳘नीमेवा᳘वस्यति॥

मूलम् - श्रीधरादि

स वै᳘ व्विष्णुक्रमा᳘न्क्रान्त्वा[[!!]]॥
(न्त्वा᳘ ऽथ) अ᳘थ तदा᳘नीमेव᳘ व्वात्सप्रेणो᳘पतिष्ठते य᳘था प्रयाया᳘थ त᳘दानीमे᳘व व्विमुञ्चे᳘त्तादृक्त᳘द्देवा᳘नां वै᳘ व्विधाम᳘नु मनु᳘ष्यास्त᳘स्मादु हेद᳘मुत᳘ मानुषो ग्रा᳘मः प्रया᳘याथ[[!!]] तदा᳘नीमेवा᳘वस्यति॥

मूलम् - Weber

तद्वा᳘ अहोरात्रे᳘ एव᳘ विष्णुक्रमा भ᳘वन्ति॥
अहोरात्रे᳘ वात्सप्र᳘महोरात्रे᳘ एव तद्या᳘त्यहोरात्रे᳘ क्षेम्यो᳘ भवति त᳘स्मादु हेद᳘मुत᳘ मानुषो ग्रा᳘मो ऽहोरात्रे᳘ याॗत्वाहोरात्रे᳘ क्षेम्यो᳘ भवति॥

मूलम् - विस्वरम्

स वै विष्णुक्रमान् क्रान्त्वा- अथ तदानीमेव वात्सप्रेणोपतिष्ठते । यथा प्रयाय- अथ तदानीमेव विमुञ्चेत् । तादृक् तद् । देवानां वै विधामनु मनुष्याः । तस्मादु हेदमुत मानुषो ग्रामः प्रयाय- अथ तदानीमेवावस्यति ॥ ९ ॥

सायणः

दीक्षाप्रथमदिवसे विष्णुक्रमवात्सप्रयोः समसनं विधत्ते- स वै विष्णुक्रमानिति । प्रजापतिना यथा कृतम्, तथैव यजमानेनापि कर्त्तव्यमिति को नियम इति, तत्राह- देवानां वै विधामनु मनुष्या इति । ‘तस्मादु ह’ तस्मादेव खलु कारणात् ‘इदं’ वक्ष्यमाणं ‘मानुषो ग्रामः’ मनुष्यसमूहो ऽपि ‘प्रयाय’ गन्तव्यम् प्राप्य, तदानीमेव ‘अवस्यति’ अश्वादि गमनसाधनं विमुञ्चति । अनेन तस्य भूतार्थवादता समर्थिता भवति ॥ ९ ॥

Eggeling
  1. Having stridden the Vishṇu-strides, he then

forthwith stands by the fire worshipping it with the Vātsapra, just as one who has journeyed would forthwith unyoke. Men (proceed) after the manner of the gods: hence even now, when a troop of men have journeyed they forthwith unyoke.

१०

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽअहोरात्रे᳘ ऽएव᳘ व्विष्णुक्रमा भ᳘वन्ति॥
(न्त्य) अहोरात्रे᳘ व्वात्सप्र᳘महोरात्रे᳘ ऽएव तद्या᳘त्यहोरात्रे᳘ क्षेम्यो᳘ भवति त᳘स्मादु हेद᳘मुत᳘ मानुषो ग्रा᳘मो ऽहोरात्रे᳘ या᳘त्वा ऽहोरात्रे᳘ क्षेम्यो᳘ भवति॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽअहोरात्रे᳘ ऽएव᳘ व्विष्णुक्रमा भ᳘वन्ति॥
(न्त्य) अहोरात्रे᳘ व्वात्सप्र᳘महोरात्रे᳘ ऽएव तद्या᳘त्यहोरात्रे᳘ क्षेम्यो᳘ भवति त᳘स्मादु हेद᳘मुत᳘ मानुषो ग्रा᳘मो ऽहोरात्रे᳘ या᳘त्वा ऽहोरात्रे᳘ क्षेम्यो᳘ भवति॥

मूलम् - Weber

स वा᳘ अर्ध᳘मेव᳘ संवत्सर᳘स्य विष्णुक्रमान्क्र᳘मते॥
अर्धं᳘ वात्सप्रेणो᳘पतिष्ठते म᳘ध्ये ह संवत्सर᳘स्य स्वर्गो᳘ लोकः स यत्क᳘नीयो ऽर्धात्क्र᳘मेत न᳘ हैत᳘ᳫं᳘ स्वर्गं᳘ लोक᳘मभिप्रा᳘प्नुयादथ यद्भू᳘यो ऽर्धात्प᳘राङ् हैत᳘ᳫं᳘ स्वर्गं᳘ लोक᳘मतिप्र᳘णश्येद᳘थ य᳘दर्धं क्र᳘मते ऽर्ध᳘मुपति᳘ष्ठते त᳘त्सम्प्रति᳘ स्वर्गं᳘ लोक᳘माप्त्वा वि᳘मुञ्चते॥

मूलम् - विस्वरम्

तद्वा ऽअहोरात्रे ऽएवं विष्णुक्रमा भवन्ति । अहोरात्रे वात्सप्रम् । अहोरात्रे ऽएव तद्याति । अहोरात्रे क्षेम्यो भवति । तस्मादु हेदमुत मानुषो ग्रामो ऽहोरात्रे यात्वा, अहोरात्रे क्षेम्यो भवति ॥ १० ॥

सायणः

विहिते विष्णुक्रमवात्सप्रे, एकस्मिन् दिने विष्णुक्रमाः, अपरस्मिंस्तु वात्सप्रमित्येव क्रमेण कर्त्तव्यमिति सार्थवादं दर्शयति- तद्वा अहोरात्रे एव विष्णुक्रमा भवन्ति, अहोरात्रे वात्सप्रमिति । ‘अहोरात्रे’ एकस्मिन् दिवसे इत्यर्थः । तथा च कात्यायनः- “विष्णुक्रमवात्सप्रे चाहर्व्यत्यासम्”- (का. श्रौ. सू. १६ । १७४) इति । ‘तत्’ तेन गमनरूपं विष्णुक्रमम् एकस्मिन् दिवसे करोति, अपरस्मिंश्च तदवसानरूपं वात्सप्रं कृतवान् भवति । ‘तस्मात्’ ‘मानुषो ग्रामः’ अपि इदानीमपि एकस्मिन् दिवसे अध्वानं गत्वा, अन्यस्मिन् दिवसे ‘क्षेम्यः’ क्षेमार्हो भवति, सुखमास्त इत्यर्थः ॥ १० ॥

Eggeling
  1. Now, the Vishṇu-strides indeed are the day and the night, and the Vātsapra is the day and the night: he thus journeys for a day and a night, and takes rest for a day and a night: and hence even now when a troop of men have journeyed for a day and a night they take rest for a day and a night.

११

विश्वास-प्रस्तुतिः

स वा᳘ ऽअर्द्ध᳘मेव᳘ संव्वत्सर᳘स्य व्विष्णुक्रमान्क्र᳘मते॥
(ते ऽर्द्धं᳘) अर्द्धं᳘ व्वात्सप्रेणो᳘पतिष्ठते म᳘ध्ये ह संव्वत्सर᳘स्य स्वर्गो᳘ लोकः स यत्क᳘नीयो ऽर्द्धात्क्र᳘मेत न᳘ हैत᳘ᳫँ᳘ स्वर्गं᳘ लोक᳘मभिप्रा᳘प्नुयाद᳘थ यद्भू᳘यो ऽर्द्धात्प᳘राङ्हैत᳘ᳫँ᳘ स्वर्गं᳘ लोक᳘मतिप्र᳘णश्येद᳘थ य᳘दर्द्धं क्र᳘मते ऽर्द्ध᳘मुपति᳘ष्ठते त᳘त्सम्प्रति᳘ स्वर्गं᳘ लोक᳘माप्त्वा व्वि᳘मुञ्चते॥

मूलम् - श्रीधरादि

स वा᳘ ऽअर्द्ध᳘मेव᳘ संव्वत्सर᳘स्य व्विष्णुक्रमान्क्र᳘मते॥
(ते ऽर्द्धं᳘) अर्द्धं᳘ व्वात्सप्रेणो᳘पतिष्ठते म᳘ध्ये ह संव्वत्सर᳘स्य स्वर्गो᳘ लोकः स यत्क᳘नीयो ऽर्द्धात्क्र᳘मेत न᳘ हैत᳘ᳫँ᳘ स्वर्गं᳘ लोक᳘मभिप्रा᳘प्नुयाद᳘थ यद्भू᳘यो ऽर्द्धात्प᳘राङ्हैत᳘ᳫँ᳘ स्वर्गं᳘ लोक᳘मतिप्र᳘णश्येद᳘थ य᳘दर्द्धं क्र᳘मते ऽर्द्ध᳘मुपति᳘ष्ठते त᳘त्सम्प्रति᳘ स्वर्गं᳘ लोक᳘माप्त्वा व्वि᳘मुञ्चते॥

मूलम् - Weber

ता᳘भ्यां वै᳘ विपर्या᳘समेति॥
य᳘था महा᳘न्तम᳘ध्वानं विमो᳘कᳫं समश्नुवीत᳘ तादृक्तत्स वै᳘ पुर᳘स्ताच्चोप᳘रिष्टाच्चोभे᳘ विष्णुक्रमवात्सप्रे स᳘मस्यत्य᳘हर्वै᳘ विष्णुक्रमा रा᳘त्रिर्वात्सप्र᳘मेमेतद्वा᳘ इदᳫं स᳘र्वम् प्रजा᳘पतिः प्रजनयिष्यं᳘श्च प्रजनयित्वा᳘ चाहोरात्रा᳘भ्यामुभय᳘तः प᳘रिगृह्णाति॥

मूलम् - विस्वरम्

स वा ऽअर्द्धमेव संवत्सरस्य विष्णुक्रमान् क्रमते- अर्द्धं वात्सप्रेणोपतिष्ठते । मध्ये ह संवत्सरस्य स्वर्गो लोकः । स यत् कनीयो ऽर्द्धात् क्रमेत- न हैतं स्वर्गं लोकमभिप्राप्नुयात् । अथ यद्भूयो ऽर्द्धात्- पराङ् हैतं स्वर्गं लोकमतिप्रणश्येत् । अथ यदर्द्धं क्रमते- अर्द्धमुपतिष्ठते- तत् सम्प्रति स्वर्गं लोकमाप्त्वा विमुञ्चते ॥ ११ ॥

सायणः

उक्तप्रकारेण संवत्सरपर्यन्तमनुष्ठितवतः फलितं दर्शयति-** स वा अर्द्धमेव संवत्सरस्ये**ति 9 । एवं सति संवत्सरार्द्धं विष्णुक्रमाः कृता भवन्ति, अतश्च संवत्सरमध्यदिवसात्मकः स्वर्गलोकः प्राप्तो भवति । उक्तवैपरीत्ये अर्द्धसंवत्सरादर्वागेकस्मिन्नप्यहनि अहर्व्यत्यासनियमभङ्गेन विष्णुक्रममकृत्वा वात्सप्रं कुर्यात्, तदानीं संवत्सरमध्यात्मकं स्वर्गं न प्राप्नुयात् । अथार्द्धसंवत्सरादुपर्यपि अहर्व्यत्यासभङ्गेन यदि विष्णुक्रममेव कुर्यात्, तदानीं संवत्सरमध्यलक्षणं स्वर्गमतिक्रामेत्; अतो न्यूनाधिकमकृत्वोपक्रमेणाहर्व्यत्यासेनार्द्धसंवत्सरं विष्णुक्रमं कृत्वा अर्द्धसंवत्सरं वात्सप्रोपस्थाने सति अप्राप्त्यतिक्रमणलक्षणदोषद्वयाभावेनैव ‘स्वर्गं लोकम् आप्त्वा विमुञ्चते’ प्राप्तिसाधनमग्निम् ॥ ११ ॥

Eggeling
  1. Only for one half of the year he strides the Vishṇu-strides, and for one half he worships the fire with the Vātsapra; for the world of heaven is in the midst of the year: thus were he to stride for less than half (a year), he would not reach that world of heaven; and were he to do so for more than half (a year), he would pass beyond that world of heaven and lose it; but when he strides for one half, and worships the fire for one half, he unyokes forthwith after reaching the world of heaven.

१२

विश्वास-प्रस्तुतिः

ता᳘भ्यां वै᳘ व्विपर्या᳘समेति॥
य᳘था महा᳘न्तम᳘ध्वानं व्विमो᳘कᳫँ᳭ समश्नुवीत᳘ तादृक्तस्य वै᳘ पुर᳘स्ताच्चोप᳘रिष्टाच्चोभे᳘ व्विष्णुक्रमवात्सप्रे स᳘मस्यत्य᳘हर्व्वै᳘ व्विष्णुक्रमा रा᳘त्रिर्व्वात्सप्र᳘मेतद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं प्रजा᳘पतिः प्रजनयिष्यं᳘श्च प्रजनयित्वा᳘ चाहोरात्रा᳘भ्यामुभय᳘तः प᳘र्यगृह्णात्त᳘थै᳘वैतद्य᳘जमान ऽइदᳫँ᳭ स᳘र्व्वं प्रजनयिष्यं᳘श्च प्रजनयित्वा᳘ चाहोरात्रा᳘भ्यामुभय᳘तः प᳘रिगृह्णाति॥

मूलम् - श्रीधरादि

ता᳘भ्यां वै᳘ व्विपर्या᳘समेति॥
य᳘था महा᳘न्तम᳘ध्वानं व्विमो᳘कᳫँ᳭ समश्नुवीत᳘ तादृक्तस्य वै᳘ पुर᳘स्ताच्चोप᳘रिष्टाच्चोभे᳘ व्विष्णुक्रमवात्सप्रे स᳘मस्यत्य᳘हर्व्वै᳘ व्विष्णुक्रमा रा᳘त्रिर्व्वात्सप्र᳘मेतद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं प्रजा᳘पतिः प्रजनयिष्यं᳘श्च प्रजनयित्वा᳘ चाहोरात्रा᳘भ्यामुभय᳘तः प᳘र्यगृह्णात्त᳘थै᳘वैतद्य᳘जमान ऽइदᳫँ᳭ स᳘र्व्वं प्रजनयिष्यं᳘श्च प्रजनयित्वा᳘ चाहोरात्रा᳘भ्यामुभय᳘तः प᳘रिगृह्णाति॥

मूलम् - Weber

त᳘दाहुः॥
यद᳘हर्विष्णुक्रमा रा᳘त्रिर्वात्सप्रम᳘थोभे᳘ एवा᳘हन्भ᳘वतो न रा᳘त्र्यां कथ᳘मस्या᳘पि रा᳘त्र्यां कृते᳘ भवत इ᳘त्येतद्वा᳘ एने अदो दी᳘क्षमाणः पुर᳘स्तादपराह्ण᳘ उभे स᳘मस्यति रा᳘त्रिर्हैतद्य᳘दपराह्णो᳘ ऽथैने एत᳘त्संनिवष्स्य᳘न्नुप᳘रिष्टात्पूर्वाह्ण᳘ उभे स᳘मस्यत्य᳘हर्हैतद्य᳘त्पूर्वाह्ण᳘ एव᳘मु हास्योभे᳘ एवा᳘हन्कृते भ᳘वत उभे रा᳘त्र्याम्॥

मूलम् - विस्वरम्

ताभ्यां वै विपर्यासमेति । यथा महान्तमध्वानं विमोकं समश्नुवीत- तादृक् । तस्य वै पुरस्ताच्चोपरिष्टाच्चोभे विष्णुक्रमवात्सप्रे समस्यति । अहर्वै विष्णुक्रमाः, रात्रिर्वात्सप्रम् । एतद्वा ऽइदं सर्वं प्रजापतिः प्रजनयिष्यंश्च प्रजनयित्वा च, अहोरात्राभ्यामुभयतः पर्यगृह्णात् । तथैवैतद्यजमान इदं सर्वं प्रजनयिष्यंश्च प्रजनयित्वा चाहोरात्राभ्यामुभयतः परिगृह्णाति ॥ १२ ॥

सायणः

ताभ्यां वै विपर्यासमेतीति । संवत्सरमनुष्ठेयत्वात् महाध्वगमनस्थानीयं चयनकर्म, तत्राहर्विपर्यासमनुष्ठानश्रमपरिहाराय एकैकस्मिन् दिने यात्राविच्छेदं महाध्वगमनप्राप्तिस्थानीयं कृतवान् भवति । आद्यन्तयोरह्नोरुभयोर्विष्णुक्रमवात्सप्रस्थानीयत्वम्, तयोः समुच्चित्यानुष्ठानं विधाय स्तौति- तस्य वै पुरस्ताच्चोपरिष्टाच्चेत्यादिना । अहश्च रात्रिश्च क्रमेण विष्णुक्रमवात्सप्रस्थानीयम् । तथा सति ‘एतद्वै’ । किमेतदिति स्पष्टयति- इदं सर्वं प्रजापतिः प्रजनयिष्यंश्चेति । एतस्य सर्वस्य सृष्ट्यादौ तदन्ते वा अहोरात्राभ्यां सृष्टं सर्वं पर्यगृह्णात्, स्वाधीनं कृतवान् । तथैवैतदिति । पूर्ववत् । यजमानस्य सर्वजगत्सृष्टिर्नाम संवत्सरपर्यन्तमहर्व्यत्यासानुष्ठानम्, सृष्टस्याहोरात्राभ्यामुभयतः परिग्रह उभयत्रोभयोः समुच्चित्यानुष्ठानम् ॥ १२ ॥

Eggeling
  1. He proceeds with these two alternately 10, even as one would accomplish a long way by (repeatedly) unyoking. Both before and after (the Dīkshā), he combines both, the Vishṇu-strides and the Vātsapra; for the Vishṇu-strides are the day, and the Vātsapra the night; and Prajāpati, both when he was about to generate and when he had generated this universe, enclosed it on both sides by day and night: in like

manner the Sacrificer now, both when he is about to generate and when he has generated this universe, encloses it on both sides by day and night.

१३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य) यद᳘हर्व्विष्णुक्रमा रा᳘त्रिर्व्वात्सप्रम᳘थोभे᳘ ऽएवा᳘हन्भ᳘वतो न रा᳘त्र्यां कथ᳘मस्या᳘पि रा᳘त्र्यां कृते᳘ भवत ऽइ᳘त्येतद्वा᳘ ऽएने ऽअदो दी᳘क्षमाणः पुर᳘स्तादपराह्ण᳘ ऽउभे स᳘मस्यति रा᳘त्रिर्हैतद्य᳘दपराह्णो᳘ ऽथैने ऽएत᳘त्सन्निवप्स्य᳘न्नुप᳘रिष्टात्पूर्वाह्ण᳘ ऽउभे स᳘मस्यत्य᳘हर्हैतद्य᳘त्पूर्वाह्ण᳘ ऽएव᳘मु हास्योभे᳘ ऽएवा᳘हन् कृते भ᳘वत ऽउभे रा᳘त्र्याम्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य) यद᳘हर्व्विष्णुक्रमा रा᳘त्रिर्व्वात्सप्रम᳘थोभे᳘ ऽएवा᳘हन्भ᳘वतो न रा᳘त्र्यां कथ᳘मस्या᳘पि रा᳘त्र्यां कृते᳘ भवत ऽइ᳘त्येतद्वा᳘ ऽएने ऽअदो दी᳘क्षमाणः पुर᳘स्तादपराह्ण᳘ ऽउभे स᳘मस्यति रा᳘त्रिर्हैतद्य᳘दपराह्णो᳘ ऽथैने ऽएत᳘त्सन्निवप्स्य᳘न्नुप᳘रिष्टात्पूर्वाह्ण᳘ ऽउभे स᳘मस्यत्य᳘हर्हैतद्य᳘त्पूर्वाह्ण᳘ ऽएव᳘मु हास्योभे᳘ ऽएवा᳘हन् कृते भ᳘वत ऽउभे रा᳘त्र्याम्॥

मूलम् - Weber

स यद᳘हः संनिवप्स्यन्त्स्या᳘त् तद᳘हः प्रातरु᳘दित आदित्ये भ᳘स्मैव᳘ प्रथममु᳘द्वपति भ᳘स्मोदु᳘प्य वा᳘चं वि᳘सृजते वा᳘चं विसृ᳘ज्य समि᳘धमा᳘दधाति समि᳘धमाधा᳘य भस्माॗपो ऽभ्य᳘वहरति य᳘थैव त᳘स्याभ्यवह᳘रणं त᳘थापादा᳘य भ᳘स्मनः प्रत्ये᳘त्योखा᳘यामोप्यो᳘पतिष्ठते᳘ ऽथ प्रा᳘यश्चित्ती करोति॥

मूलम् - विस्वरम्

तदाहुः- यदहर्विष्णुक्रमाः, रात्रिर्वात्सप्रम्- अथोभे ऽएवाहन्भवतो, न रात्र्याम् । कथमस्यापि रात्र्यां कृते भवत इति । एतद्वा ऽएने ऽअदो दीक्षमाणः पुरस्तादपराह्ण ऽउभे समस्यति । रात्रिर्हैतद्- यदपराह्णः । अथैने ऽएतत् सन्निवप्स्यन्नुपरिष्टात् पूर्वाह्ण ऽउभे समस्यति । अहर्हैतद्- यत् पूर्वाह्णः । एवमु हास्योभे ऽएवाहन् कृते भवतः- उभे रात्र्याम् ॥ १३ ॥

सायणः

“अहर्वै विष्णुक्रमो रात्रिर्वात्सप्रम्” इत्यत्र काचिच्छङ्का समुन्मिषति, तामनूद्य समाधत्ते- तदाहुर्यदहरिति । ‘उभे एव’ ‘अहन्’ अहनि निर्वर्त्ये ‘भवतः,’ ‘न रात्र्याम्;’ ‘कथम्’ ‘अस्य’ यजमानस्य ‘रात्र्याम्’ अपि ‘कृते भवत’ । अस्योत्तरम्- एतद्वा इति । ‘एने’ उभे विष्णुक्रमवात्सप्रे ‘अदः’ विप्रकृष्टे दीक्षावसरे ‘दीक्षमाणः’ ‘पुरस्तात्’ संवत्सरस्य ‘अपराह्णे’ ‘समस्यति’ अव्यवधानेनानुतिष्ठति । अस्तु, रात्रेः कथं प्राप्तिरिति, तत्राह- रात्रिर्हैतद् यदपराह्ण इति । इत्थमादौ समासकारणमुक्त्वा अन्ते ऽपि दर्शयति- अथैने एतत् सन्निवप्स्यन्निति । ‘उपरिष्टात्’ संवत्सरावसाने । शिष्टं पूर्ववत् । ‘एवम्’ आद्यन्तयोः समस्यानुष्ठानेन ‘उभे’ अपि सर्वस्मिन्नहनि समस्य कृते भवतः । तथा सर्वस्यामपि ‘रात्र्याम्’ ‘उभे’ अपि समस्य ‘कृते भवतः’ ॥ १३ ॥

Eggeling
  1. As to this they say, ‘If the Vishṇu-strides are the day, and the Vātsapra the night, and both of them are (performed) during the day, not during the night, how then are they both performed for (or by) him also during the night?’ Well, on that (first) occasion, when he is being initiated, he, at the outset, combines both (performances) in the afternoon; for the afternoon is the same thing as the night. Then throwing them thus together, he at the end combines them both in the forenoon; for the forenoon is the same thing as the day; and in this way they are both performed during the day, and both during the night.

१४

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स यद᳘हः सन्निवप्स्यन्त्स्यात्[[!!]]॥ (त्त) तद᳘हः प्रातरु᳘दित ऽआदित्ये भ᳘स्मैव᳘ प्रथममु᳘द्वपति भ᳘स्मोदु᳘प्य व्वा᳘चं व्वि᳘सृजते व्वा᳘चं व्विसृ᳘ज्य समि᳘धमा᳘दधाति समि᳘धमाधा᳘य भ᳘स्मा᳘पो ऽभ्य᳘वहरति य᳘थैव त᳘स्याभ्यवह᳘रणं त᳘था ऽपादा᳘य भ᳘स्मनः प्रत्ये᳘त्योखा᳘यामोप्यो᳘पतिष्ठते᳘ ऽथ प्रा᳘यश्चित्ती करोति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स यद᳘हः सन्निवप्स्यन्त्स्यात्[[!!]]॥ (त्त) तद᳘हः प्रातरु᳘दित ऽआदित्ये भ᳘स्मैव᳘ प्रथममु᳘द्वपति भ᳘स्मोदु᳘प्य व्वा᳘चं व्वि᳘सृजते व्वा᳘चं व्विसृ᳘ज्य समि᳘धमा᳘दधाति समि᳘धमाधा᳘य भ᳘स्मा᳘पो ऽभ्य᳘वहरति य᳘थैव त᳘स्याभ्यवह᳘रणं त᳘था ऽपादा᳘य भ᳘स्मनः प्रत्ये᳘त्योखा᳘यामोप्यो᳘पतिष्ठते᳘ ऽथ प्रा᳘यश्चित्ती करोति॥

मूलम् - Weber

स य᳘दि विष्णुक्रमी᳘यम᳘हः स्या᳘त्॥
विष्णुक्रमा᳘न्क्रान्त्वा᳘ वात्सप्रेणो᳘पतिष्ठेता᳘थ य᳘दि वात्सप्री᳘यं वात्सप्रे᳘णोपस्था᳘य विष्णुक्रमा᳘न्क्रान्त्वा᳘ वात्सप्र᳘मन्ततः᳘ कुर्यान्न᳘ विष्णुक्रमा᳘नन्ततः᳘ कुर्याद्य᳘था प्रया᳘य न᳘ विमुञ्चे᳘त्तादृक्तद᳘थ य᳘द्वात्सप्र᳘मन्ततः᳘ करो᳘ति प्रतिष्ठा वै᳘ वात्सप्रं य᳘था प्रतिष्ठाप᳘येदवसाय᳘येत्तादृक्तत्त᳘स्मादु वात्सप्रे᳘मेॗवान्ततः᳘ कुर्यात्॥

मूलम् - विस्वरम्

स यदहः सन्निवप्स्यन्त्स्यात्- तदहः प्रातरुदित ऽआदित्ये भस्मैव प्रथममुद्रपति । भस्मोदुप्य वाचं विसृजते । वाचं विसृज्य समिधमादधाति । समिधमाधाय भस्मापो ऽभ्यवहरति । यथैव तस्याभ्यवहरणं- तथा ऽपादाय भस्मनः प्रत्येत्योखायामोप्योपतिष्ठते । अथ प्रायश्चित्ती करोति ॥ १४ ॥

सायणः

चरमदिवसकर्त्तव्यमाह- स यदहरिति । ‘यदहः’ यस्मिन्नहनि । सन्निवापो नाम चिते ऽग्नौ उख्याग्नेर्निर्वापः, तं करिष्यन् ‘स्यात्,’ ‘तदहः प्राप्तः उदिते आदित्ये’- इत्यादिना प्रयोगः प्रदर्श्यते । भस्मैव प्रथममिति 11 । नेतरत् कर्म प्रथमं कुर्यात् । यथैव तस्याभ्यवहरणमिति । ‘तस्य’ भस्मनः उदके प्रक्षेपो ‘यथा,’ तथा ‘एव’ । क्षिप्तस्य ‘भस्मनः’ सकाशात् अपादाय पुनस्तद्देशात् ‘प्रति’ निवृत्तः सन् ‘उखायाम् ओप्य उपतिष्ठते’ । भस्माभ्यवहरणादेरनुष्ठानप्रकारः समन्त्रक उपरिष्टात् “अथातो भस्मन एव” इत्यादिना (श. प. ६ । ८ । २ । १) प्रतिपादयिष्यते, अत्र तु अनुष्ठेयपदार्थोद्देशमात्रमेव । अथ प्रायश्चित्ती करोतीति । एतदुखाप्रकरणे व्याख्यातम् (श. प. ६ । ६ । ४ । ११-१५) ॥ १४ ॥

Eggeling
  1. Now early on the day on which he may intend to combine them, when the sun has risen, he first throws out the ashes (from the pan); having thrown out the ashes, he releases his speech; having released his speech, he puts on a kindling-stick; having put on a kindling-stick, he takes the ashes down to (and throws them into) the water. In the same way as he takes them down he returns after taking some of the ashes; and having thrown it into the pan he stands reverentially by the fire. He then performs two expiations.

१५

विश्वास-प्रस्तुतिः

स य᳘दि विष्णुक्रमी᳘यम᳘हः स्या᳘त्॥
(द्वि) विष्णुक्रमा᳘न्क्रान्त्वा᳘ व्वात्सप्रेणो᳘पतिष्ठेता᳘थ य᳘दि व्वात्सप्री᳘यं व्वात्सप्रे᳘णोपस्था᳘य व्विष्णुक्रमा᳘न्क्रान्त्वा᳘ व्वात्सप्र᳘मन्ततः᳘ कुर्यान्न᳘ व्विष्णुक्रमा᳘नन्ततः᳘ कुर्याद्य᳘था प्रया᳘य न᳘ विमुञ्चे᳘त्तादृक्तद᳘थ य᳘द्वात्सप्र᳘मन्ततः᳘ करो᳘ति प्रतिष्ठा वै᳘ व्वात्सप्रं य᳘था प्रतिष्ठाप᳘येदवसाय᳘येत्तादृक्तत्त᳘स्मादु वात्सप्रे᳘मे᳘वान्ततः᳘ कुर्यात्॥

मूलम् - श्रीधरादि

स य᳘दि विष्णुक्रमी᳘यम᳘हः स्या᳘त्॥
(द्वि) विष्णुक्रमा᳘न्क्रान्त्वा᳘ व्वात्सप्रेणो᳘पतिष्ठेता᳘थ य᳘दि व्वात्सप्री᳘यं व्वात्सप्रे᳘णोपस्था᳘य व्विष्णुक्रमा᳘न्क्रान्त्वा᳘ व्वात्सप्र᳘मन्ततः᳘ कुर्यान्न᳘ व्विष्णुक्रमा᳘नन्ततः᳘ कुर्याद्य᳘था प्रया᳘य न᳘ विमुञ्चे᳘त्तादृक्तद᳘थ य᳘द्वात्सप्र᳘मन्ततः᳘ करो᳘ति प्रतिष्ठा वै᳘ व्वात्सप्रं य᳘था प्रतिष्ठाप᳘येदवसाय᳘येत्तादृक्तत्त᳘स्मादु वात्सप्रे᳘मे᳘वान्ततः᳘ कुर्यात्॥

मूलम् - Weber
मूलम् - विस्वरम्

स यदि विष्णुक्रमीयमहः स्याद्- विष्णुक्रमान्क्रान्त्वा वात्सप्रेणोपतिष्ठेत । अथ यदि वात्सप्रीयम्- वात्सप्रेणोपस्थाय विष्णुक्रमान्क्रान्त्वा वात्सप्रमन्ततः कुर्यात् । न विष्णुक्रमानन्ततः कुर्यात् । यथा प्रयाय न विमुञ्चेत्- तादृक्तत् । अथ यद्वात्सप्रमन्ततः करोति- प्रतिष्ठा वै वात्सप्रम्- यथा प्रतिष्ठापयेत्; अवसाययेत्- तादृक् तत् । तस्मादु वात्सप्रमेवान्ततः कुर्यात् ॥ १५ ॥

सायणः

दीक्षान्त्यदिवसस्य पक्षे विष्णुक्रमीयत्वम्, पक्षे वात्सप्रीयत्वं च भवति, तदा कथमनुष्ठानप्रकार इति, तद् विभज्य दर्शयति- स यदि विष्णुक्रमीयमहः स्यादिति । विष्णुक्रमानन्तरं वात्सप्रोपस्थानमिति यथाक्रममेव । यदि वात्सप्रसम्बन्धि स्यात् चरममहः, तदा वात्सप्रोपस्थानानन्तरं ‘विष्णुक्रमान् क्रान्त्वा’ पुनर्वात्सप्रोपस्थानं कर्त्तव्यम् । पुनर्वात्सप्रोपस्थानमकृत्वा, केवलेन विष्णुक्रमेणैव यदि समाप्येत, तदा गमनसाधनाश्वादिस्थानीयस्याग्नेर्न विमोक्षः स्यात् । इत्थं विष्णुक्रमेणैवानुष्ठानावसाने दोषमुक्त्वा, पुनः वात्सप्रेणाहस्समाप्तौ गुणं दर्शयति- अथ यद् वात्सप्रमन्ततः करोति, प्रतिष्ठा वै वात्सप्रमिति । वात्सप्रस्य स्वर्गगमनावसानरूपत्वमुक्तं प्राक्; (अस्मिन्नेव ब्राह्मणे ११ कण्डिकायाम्) तस्मात् प्रतिष्ठात्मकत्वम् । स्पष्टमन्यत् (का. श्रौ. सू. १६ । १७५) ॥ १५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठे काण्डे सप्तमे ऽध्याये चतुर्थं ब्राह्मणम् । (६-७-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठकाण्डे सप्तमो ऽध्यायः समाप्तः ॥ ६-७ ॥

Eggeling
  1. And if the day should be one for the Vishṇu-strides, let him, after striding the Vishṇu-strides, worship the fire with the Vātsapra; and if it be one for the Vātsapra, let him, after worshipping with the Vātsapra, and striding the Vishṇu-strides, finally perform the Vātsapra. Let him not conclude by performing the Vishṇu-strides, for that would be as if

after going for a drive he were not to unyoke; but when he concludes by performing the Vātsapra–the Vātsapra being a halting-place–(it is) as if he made a halt and unloosed (the team): let him therefore conclude by performing the Vātsapra.


  1. व्वात्सप्रेण च दिवस्परीत्येकादशभिः । का. श्रौ. सू. १६ । १६६ । ↩︎

  2. 283:1 That is, the recitation of Vāj. S. XII, 18-28 or 29 (R̥k S. X, 45), ascribed to the poet Vatsaprī Bhālandana. The Brāhmaṇa, however, comments only on the first three verses, and perhaps these alone were used for the purpose at the time when the Brāhmaṇa was composed. ↩︎

  3. 283:2 This is a somewhat doubtful meaning of ‘dākshāyaṇa-hasta.’ The synonyms (if correct), hiraṇyapāṇi and hiraṇyahasta, always refer to Savitr̥, the sun. ↩︎

  4. 283:3 See VI, 7, 2, 5-6. ↩︎

  5. 283:4 ? Or, as a second; see above, VI, 1, 1, 11. ↩︎

  6. 284:1 The construction of the text here favoured by the author is very doubtful. It has probably to be construed,–’the third time (he, Agni, was born) in the waters, he, the manly-minded (or, friendly to men). Kindling him, the imperishable (Agni), the heedful (? or pious) one praises him,’–or perhaps, ‘While kindling him, the considerate one praises him unceasingly.’ A point which favours the author’s construction is that, in verse 3, ’nr̥maṇaas’ certainly refers not to Agni, but to him who generated him. ↩︎

  7. 285:1 The remaining verses (XII, 21-29) are as follows:– ↩︎

  8. स्रक्मप्रतिमोचनादि प्राग्वात्प्राद्विष्णुक्रमाः । का० श्रौ० सू० १६ । १७५ । ↩︎

  9. संवत्सरँ सोष्यतः । संवत्सराहिताग्नेः । जातस्य च । षण्मास्यमंत्यम् । का. श्रौ. सू. १६ । १७९-१८२ । ↩︎

  10. 287:1 That is, whilst on the first day of the Dīkshā, as well as on the day after its completion, both the Vishṇu-strides and the Vātsapra are performed, during the intermediate period of one year they are performed on alternate days,–the Vishṇu-strides on even, and the Vātsapra on uneven days. ↩︎

  11. उखाया भस्मोद्वपनमस्तमिते पात्रे । का. श्रौ. सू. १६ । १७० । ↩︎