०१
विश्वास-प्रस्तुतिः
अ᳘थैनमि᳘ति प्र᳘गृह्णाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअकामयन्त पर्ज᳘न्यो रूप᳘ᳫँ᳘ स्यामे᳘ति त᳘ ऽएते᳘नात्म᳘ना पर्ज᳘न्यो रूप᳘मभवंस्त᳘थै᳘वैतद्य᳘जमान ऽएते᳘नात्म᳘ना पर्ज᳘न्यो रूपं᳘ भवति॥
मूलम् - श्रीधरादि
अ᳘थैनमि᳘ति प्र᳘गृह्णाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअकामयन्त पर्ज᳘न्यो रूप᳘ᳫँ᳘ स्यामे᳘ति त᳘ ऽएते᳘नात्म᳘ना पर्ज᳘न्यो रूप᳘मभवंस्त᳘थै᳘वैतद्य᳘जमान ऽएते᳘नात्म᳘ना पर्ज᳘न्यो रूपं᳘ भवति॥
मूलम् - Weber
अ᳘थैनमि᳘ति प्र᳘गृह्णाति॥
एतद्वै᳘ देवा᳘ अकामयन्त पर्ज᳘न्यो रूप᳘ᳫं᳘ स्यामे᳘ति त᳘ एते᳘नात्म᳘ना पर्ज᳘न्यो रूप᳘मभवंस्त᳘थैॗवैतद्य᳘जमान एते᳘नात्म᳘ना पर्ज᳘न्यो रूप᳘म् भवति॥
मूलम् - विस्वरम्
अथैनमिति प्रगृह्णाति । एतद्वै देवा अकामयन्त- पर्जन्यो रूपं स्यामेति । त ऽएतेना ऽऽत्मना पर्जन्यो रूपमभवन् । तथैवैतद्यजमान एतेनात्मना पर्जन्यो रूपं भवति ॥ १ ॥
सायणः
अथ यदुक्तं विष्णुक्रमेणाग्नेरूर्द्ध्वोद्ग्रभणं तस्य तथैवोर्द्ध्वाबाहुना धारणप्रकारं हस्तेनाभिनीय विधत्ते- अथैनमिति प्रगृह्णातीति । ‘इति’- शब्दविवक्षितो ऽर्थः सूत्रे व्याख्याय दर्शितः- “धारणञ्च पिण्डवत्”- (का. श्रौ. सू. १६ । १५२ । १५३) इति । उखाया उपादानभूतस्य मृत्पिण्डस्य धारणं यथा प्रागुक्तम् (श. प. ६ । ४ । ४ । ६) ऊर्द्ध्वबाहुत्वविशिष्टम्, एतादृगत्रापीत्यर्थः । एतत् प्रशंसति- एतद्वै देवा इति । एतदिति कामनाविषयस्य सङ्ग्रहेण प्रदर्शनम् । एतच्छब्दार्थमाह- पर्जन्यो रूपं स्यामेतीति । यः ‘पर्जन्यः’ मेघो ऽस्ति, तद्रूपं ‘स्याम इति,’ मेघरूपा भवेमेत्यर्थः ॥ १ ॥
Eggeling
- He then holds it (the fire in the pan) up thus (towards north-east). Now the gods at that time were desiring, ‘May we be like Parjanya (the rain-god)!’ By that body (of his 1) they became like Parjanya, and in like manner does the Sacrificer by that body (of his) become like Parjanya.
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘क्रन्ददग्नि᳘ स्तन᳘यन्निव द्यौरि᳘ति॥
क्र᳘न्दतीव हि᳘ पर्ज᳘न्य स्तन᳘यन्क्षा᳘मा रे᳘रिहद्वीरु᳘धः समञ्जन्नि᳘ति क्षमा वै᳘ पर्ज᳘न्यो रेरिह्य᳘माणो व्वीरु᳘धः स᳘मनक्ति सद्यो᳘ जज्ञानो व्वि हीमिद्धो ऽअ᳘ख्यदि᳘ति सद्यो वा᳘ ऽएष᳘ जज्ञान᳘ ऽइदᳫँ᳭ स᳘र्व्वं व्वि᳘ख्यापयत्या रो᳘दसी भानुना[[!!]] भात्यन्तरि᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी ते᳘ ऽएष᳘ भानुना᳘ ऽऽभाति परोबाहु प्र᳘गृह्णाति परोबाहु हि᳘ पर्जन्यः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘क्रन्ददग्नि᳘ स्तन᳘यन्निव द्यौरि᳘ति॥
क्र᳘न्दतीव हि᳘ पर्ज᳘न्य स्तन᳘यन्क्षा᳘मा रे᳘रिहद्वीरु᳘धः समञ्जन्नि᳘ति क्षमा वै᳘ पर्ज᳘न्यो रेरिह्य᳘माणो व्वीरु᳘धः स᳘मनक्ति सद्यो᳘ जज्ञानो व्वि हीमिद्धो ऽअ᳘ख्यदि᳘ति सद्यो वा᳘ ऽएष᳘ जज्ञान᳘ ऽइदᳫँ᳭ स᳘र्व्वं व्वि᳘ख्यापयत्या रो᳘दसी भानुना[[!!]] भात्यन्तरि᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी ते᳘ ऽएष᳘ भानुना᳘ ऽऽभाति परोबाहु प्र᳘गृह्णाति परोबाहु हि᳘ पर्जन्यः[[!!]]॥
मूलम् - Weber
अ᳘क्रन्ददग्नि᳘ स्तन᳘यन्निव द्यौरि᳘ति॥
क्र᳘न्दतीव हि᳘ पर्ज᳘न्य स्तन᳘यन्क्षा᳘मा रे᳘रिहद्वीरु᳘धः समञ्जन्नि᳘ति क्षमा वै᳘ पर्ज᳘न्यो रेरिह्य᳘माणो वीरु᳘धः स᳘मनक्ति सद्यो᳘ जज्ञानो वि हीमिद्धो अ᳘ख्यदि᳘ति सद्यो वा᳘ एष᳘ जज्ञान᳘ इदᳫं स᳘र्वं वि᳘ख्यापयत्या रो᳘दसी भानु᳘ना भात्यन्तरि᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी ते᳘ एष᳘ भानुना᳘भाति परोबाहु प्र᳘गृह्णाति परोबाहु हि᳘ प᳘र्जन्यः॥
मूलम् - विस्वरम्
“अक्रन्ददग्नि स्तनयन्निव द्यौः”- इति । क्रन्दतीव हि पर्जन्यः स्तनयन् । “क्षामा रेरिहद्वीरुधः समञ्जन्”- इति । क्षामा वै पर्जन्यः, रेरिह्यमाणो वीरुधः समनक्ति । “सद्यो जज्ञानो वि हीमिद्धो ऽअख्यत्”- इति । सद्यो वा ऽएष जज्ञान इदं सर्वं विख्यापयति । “आ रोदसी भानुना भात्यन्तः”- (वा० सं० १२ । ६) इति । इमे वै द्यावापृथिवी रोदसी । ते ऽएष भानुना ऽऽभाति । परोबाहु प्रगृह्णाति । परोबाहु हि पर्जन्यः ॥ २ ॥
सायणः
अक्रन्ददग्निः स्तनयन्निवेति । उपमानोपमेयभाव औपचारिकः । ‘क्षामा’ अवर्षणेन सर्वक्षयकारी पर्जन्यात्मा अग्निः ‘रेरिहत्’ भृशं लेहन् ‘वीरुधः’ लतागुल्मादीन् ‘समञ्जन्’ सम्यगार्द्रीकुर्वन् ‘अक्रन्दद्’ इति पूर्वत्रान्वयः । अथवा ब्राह्मणानुसारेण ‘वीरुधः समनक्ति’ इति व्याख्येयम् । पर्जन्यात्मा अग्निः ‘सद्यः’ तदानीमेव ‘जज्ञानः’ जायमानः ‘इद्धः’ समिद्धः सन् ‘इदं सर्वं’ ‘विख्यापयति’ ‘रोदसी’ द्यावापृथिव्यौ ‘अन्तः’ तयोर्मध्ये ‘भानुना’ प्रकाशेन ‘आभाति सर्वतः प्रकाशते ॥
प्रथमपादं व्याचष्टे- ‘पर्जन्यः’ अग्न्याख्यः स्तनयन्, वृष्टिलिङ्गशब्दं कुर्वन् ‘क्रन्दतीव’ आक्रोशतीव वर्त्तते । क्षामशब्देनात्र पर्जन्यो विवक्षित इति व्याचष्टे- जज्ञान इदँ सर्वं विख्यापयतीति । “इमे वै द्यावापृथिवी” इत्यादि चतुर्थपादब्राह्मणं स्पष्टम् । परोबाहु प्रगृह्णातीति । एष सार्थवादः उख्याग्निधारणप्रस्तावे (श. प. ६ । ७ । २ । ९ इत्यत्र) व्याख्यातः ॥ २ ॥
Eggeling
- [Vāj. S. XII, 6; R̥k S. X, 45, 4] ‘Agni roared like the thundering sky,’–for he (Agni) indeed roars like the thundering Parjanya;–‘again and again licking the ground, stroking 2 the plants,’–for Parjanya, whilst licking again and
again the ground, does stroke the plants;–‘scarce born, the kindled shone forth,’–for scarce born he indeed lights up everything here;–‘with his light he shineth between the two worlds,’–the two worlds, doubtless, are the heaven and the earth, and these two he indeed illumes by his light. He holds it (the fire in the pan) up so as to be beyond the reach of his arms, for Parjanya is beyond the reach of (our) arms.
०३
विश्वास-प्रस्तुतिः
(न्यो᳘ ऽथै) अ᳘थैनमुपा᳘वहरति॥
(त्ये) एत᳘द्वै᳘ यो ऽस्मिल्ँ᳘लोके र᳘सो य᳘दुपजी᳘वनं ते᳘नैत᳘त्स᳘होर्ध्व᳘ ऽइमाल्ँ᳘लोका᳘न्रोहत्यग्निर्वा᳘ ऽअस्मिल्ँ᳘लोके र᳘सो ऽग्नि᳘रुपजी᳘वनं तद्यत्ता᳘वदेव स्यान्न᳘ हास्मिल्ँ᳘लोके र᳘सो᳘ नोपजी᳘वनᳫँ᳭ स्याद᳘थ य᳘त्प्रत्यवरो᳘हत्यस्मि᳘न्ने᳘वैत᳘ल्लोके र᳘समुपजी᳘वनं दधाति॥
मूलम् - श्रीधरादि
(न्यो᳘ ऽथै) अ᳘थैनमुपा᳘वहरति॥
(त्ये) एत᳘द्वै᳘ यो ऽस्मिल्ँ᳘लोके र᳘सो य᳘दुपजी᳘वनं ते᳘नैत᳘त्स᳘होर्ध्व᳘ ऽइमाल्ँ᳘लोका᳘न्रोहत्यग्निर्वा᳘ ऽअस्मिल्ँ᳘लोके र᳘सो ऽग्नि᳘रुपजी᳘वनं तद्यत्ता᳘वदेव स्यान्न᳘ हास्मिल्ँ᳘लोके र᳘सो᳘ नोपजी᳘वनᳫँ᳭ स्याद᳘थ य᳘त्प्रत्यवरो᳘हत्यस्मि᳘न्ने᳘वैत᳘ल्लोके र᳘समुपजी᳘वनं दधाति॥
मूलम् - Weber
अ᳘थैनमुपा᳘वहरति॥
एत᳘द्वैॗ यो ऽस्मिं᳘लोके र᳘सो य᳘दुपजी᳘वनं ते᳘नैत᳘त्सॗहोर्ध्व᳘ इमां᳘लोका᳘न्रोहत्यग्निर्वा᳘ अस्मिं᳘लोके र᳘सो ऽग्नि᳘रुपजी᳘वनं तद्यत्ता᳘वदेव स्यान्न᳘ हास्मिं᳘लोके र᳘सो नोपजी᳘वनᳫं स्याद᳘थ य᳘त्प्रत्यवरो᳘हत्यस्मि᳘न्नेॗवैत᳘ल्लोके र᳘समुपजी᳘वनं दधाति॥
मूलम् - विस्वरम्
अथैनमुपावहरति । एतद्वै यो ऽस्मिंल्लोके रसो, यदुपजीवनम्- तेनैतत् सहोर्ध्व इमांल्लोकान् रोहति । अग्निर्वा ऽअस्मिंल्लोके रसः, अग्निरुपजीवनम् । तद्यत् तावदेव स्यात्- न हास्मिंल्लोके रसो, नोपजीवनं स्यात् । अथ यत् प्रत्यवरोहति- अस्मिन्नेवैतल्लोके रसमुपजीवनं दधाति ॥ ३ ॥
सायणः
ऊर्द्ध्वं घृतस्याग्नेरवरोहणं सार्थवादं दर्शयति- अथैनमुपावहरत्येतद्वा इति 3 । ‘यः अस्मिन् लोके’ ‘रसः’ सारभूतों ऽशः, ‘यत्’ यच्च सर्वप्राणिनामुपजीवनम्, ‘तत्’ सर्वम् ‘एतद् वै’ अग्निः खलु । यद्वा, ‘एतत्’ इति वक्ष्यमाणार्थस्य सामान्यतः सङ्गृह्याभिधानम् । ‘तेन’ स्वभूतेनोपजीवनेन च ‘सह’ यजमानः ‘एतत्’ एतेन अग्नेरूर्द्ध्वप्रापणप्रकारेण ‘ऊर्द्ध्वम्’ ‘इमाल्ँ लोकान्’ ‘आरोहति’ । यो रसो यदुपजीवनं चोक्तम्, तद् विशिनष्टि- अग्निर्वा इति । अग्ने रसत्वमुपजीवनत्वञ्च दाहपाकाद्युपकारितया सर्वप्रसिद्धम् । ‘तत्’ पूर्वोक्तं ‘यद्’ यदि ‘तावदेव’ ऊर्द्ध्वं घृतमेव ‘स्यात्,’ तर्हि ‘अस्मिन् लोके’ रसोपजीवने न स्तः । ‘अथ’ आरोहणानन्तरं ‘यद्’ यदि ‘प्रत्यवरोहति’ अग्निं पृथिव्याम्, तदुभयं भूलोके पुनः स्थापयति ॥ ३ ॥
Eggeling
- He then lowers it; for whatever sap, whatever sustenance there is in this world, that rises upwards with it through these worlds, for Agni is the sap, Agni is the substance in this world: thus were that always to be so 4, then there would be no sap, no sustenance in this world; but when he lowers (the fire), he bestows sap and sustenance on this world.
०४
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ प्रत्यवरो᳘हति॥
(त्ये) एतद्वा᳘ ऽएत᳘दिमाल्ँ᳘लोका᳘नित᳘ ऽऊर्ध्वो᳘ रोहति स स प᳘राङिव रो᳘ह ऽइय᳘मु वै᳘ प्रतिष्ठा तद्यत्ता᳘वदेव स्यात्प्र᳘ हास्मा᳘ल्लोकाद्य᳘जमानश्च्यवेता᳘थ य᳘त्प्रत्यवरो᳘हतीमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ प्रत्यवरो᳘हति॥
(त्ये) एतद्वा᳘ ऽएत᳘दिमाल्ँ᳘लोका᳘नित᳘ ऽऊर्ध्वो᳘ रोहति स स प᳘राङिव रो᳘ह ऽइय᳘मु वै᳘ प्रतिष्ठा तद्यत्ता᳘वदेव स्यात्प्र᳘ हास्मा᳘ल्लोकाद्य᳘जमानश्च्यवेता᳘थ य᳘त्प्रत्यवरो᳘हतीमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥
मूलम् - Weber
य᳘द्वेव᳘ प्रत्यवरो᳘हति॥
एतद्वा᳘ एत᳘दिमां᳘लोका᳘नित᳘ ऊर्ध्वो᳘ रोहति स स प᳘राङिव रो᳘ह इय᳘मु वै᳘ प्रतिष्ठा तद्यत्ता᳘वदेव स्यात्प्र᳘ हास्मा᳘ल्लोकाद्य᳘जमानश्च्यवेता᳘थ य᳘त्प्रत्यवरो᳘हतीमा᳘मेॗवैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मेॗवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
यद्वेव प्रत्यवरोहति । एतद्वा ऽएतदिमांल्लोकानित ऊर्द्ध्वो रोहति । स स पराङिव रोहः । इयमु वै प्रतिष्ठा । तद्यत्तावदेव स्यात्- प्र हास्माल्लोकाद्यजमानश्च्यवेत । अथ यत् प्रत्यवरोहति- इमामेवैतत् प्रतिष्ठामभिप्रत्यैति । अस्यामेवैतत् प्रतिष्ठाया प्रतितिष्ठति ॥ ४ ॥
सायणः
प्रकारान्तरेण प्रत्यवरोहणं प्रशंसति- यद्वेव प्रत्यवरोहत्येतद्वा इति । पूर्ववत् । इमाल्ँ लोकानिति । ‘ऊर्द्ध्वो रोहति’ विष्णुक्रमव्याजेन । ‘सः’ ‘पराङ्’ प्रतिनिवृत्तः ‘रोहः’ आरोहणम् । एवं लोकानां बहुत्वमपेक्ष्य ‘सः सः’ इति वीप्सा प्रतिरूपे । भूलोकं प्रति प्रत्यारोहणाभावेन प्रच्युतिः स्यात् । ‘ह’ प्रसिद्धौ । अथ यत् प्रत्यवरोहतीत्यादि गतम् ॥ ४ ॥
Eggeling
- And, again, why he lowers it,–he then indeed rises upwards from here through these worlds: that is, as it were, a rising away from here. But this earth is the resting-place; and were that always to be so, the Sacrificer would be removed from this world. But when he lowers (the fire), he thereby comes back to this resting-place, and stands firmly on this resting-place.
०५
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ प्रत्यवरो᳘हति॥
(त्ये) एतद्वा᳘ ऽएत᳘दिमाल्ँ लोका᳘नित᳘ ऽऊर्द्धो᳘ जयति स स प᳘राङिव जयो यो वै प᳘राङेव ज᳘यत्यन्ये वै त᳘स्य जित᳘मन्व᳘वस्यन्त्य᳘थ य᳘ ऽउभय᳘था ज᳘यति त᳘स्य त᳘त्र कामचरणं᳘ भवति तद्य᳘त्प्रत्यवरो᳘हतीमा᳘ने᳘वैत᳘ल्लोका᳘नित᳘श्चोर्द्ध्वा᳘नमु᳘तश्चार्व्वा᳘चो जयति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ प्रत्यवरो᳘हति॥
(त्ये) एतद्वा᳘ ऽएत᳘दिमाल्ँ लोका᳘नित᳘ ऽऊर्द्धो᳘ जयति स स प᳘राङिव जयो यो वै प᳘राङेव ज᳘यत्यन्ये वै त᳘स्य जित᳘मन्व᳘वस्यन्त्य᳘थ य᳘ ऽउभय᳘था ज᳘यति त᳘स्य त᳘त्र कामचरणं᳘ भवति तद्य᳘त्प्रत्यवरो᳘हतीमा᳘ने᳘वैत᳘ल्लोका᳘नित᳘श्चोर्द्ध्वा᳘नमु᳘तश्चार्व्वा᳘चो जयति॥
मूलम् - Weber
य᳘देव᳘म् प्रत्यवरो᳘हति॥
एतद्वा᳘ एत᳘दिमांलोका᳘नित᳘ ऊर्ध्वो᳘ जयति स स प᳘राङिव जयो यो वै प᳘राङेव ज᳘यत्यन्ये वै त᳘स्य जित᳘मन्व᳘वस्यन्त्य᳘थ य᳘ उभय᳘था ज᳘यति त᳘स्य त᳘त्र कामचरण᳘म् भवति तद्य᳘त्प्रत्यवरो᳘हतीमा᳘नेॗवैत᳘ल्लोका᳘नित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चो जयति॥
मूलम् - विस्वरम्
यद्वेव प्रत्यवरोहति । एतद्वा ऽएतदिमांल्लोकानित ऊर्द्ध्वो जयति । स स पराङिव जयः । यो वै पराङेव जयति- अन्ये वै तस्य जितमन्ववस्यन्ति । अथ य उभयथा जयति- तस्य तत्र कामचरणं भवति । तद्यत् प्रत्यवरोहति- इमानेवैतल्लोकानितश्चोर्द्ध्वान्, अमुतश्चार्वाचो जयति ॥ ५ ॥
सायणः
पुनस्तदेव प्रकारान्तरेण प्रशंसति- यद्वेव प्रत्यवरोहतीत्यादिना । ‘रोहति’ इत्यस्य स्थाने ‘जयति’ इत्येतद् विशेषः। शिष्टं पूर्ववत् । अस्तु पराजयः तस्य को बाध इत्यत आह- अन्ये वै तस्य जितमन्ववस्यन्तीति । ‘अन्ये’ शत्रवः ‘तस्य’ ‘जितं’ स्थानम् ‘अन्ववस्यन्ति’ अनुक्रमेण क्रमन्ते । अथोक्तवैपरीत्येन यदि ‘उभयथा जयति,’ पराजितं पुनः प्रत्यङ् गमयतीत्यर्थः, ‘तस्य’ उभयथा जयवतः ‘तत्र’ जितप्रदेशे ‘कामचरणं भवति;’ अन्यैरप्रतिबद्धत्वात् । उभयथा जयप्रकारमाह- तद्यत्प्रत्यवरोहतीति । ‘इतश्च ऊर्द्ध्वान्’ अस्माद्भूलोकादुपर्युपर्यवस्थितान् पराङ् प्रापणेन जयति, ‘अमुतश्च अर्वाचः’ अमुष्माद् द्युलोकात् अधोवर्त्तिनो लोकान् प्रत्यक्चरणेन ‘जयति’ ॥ ५ ॥
Eggeling
- And, again, why he lowers it,–there, indeed, in rising upwards, he conquers these worlds from here: that is, as it were, a conquering in a forward direction. Now the conquest of him who conquers only in a forward direction is completed by others; but for him who conquers both ways there is free scope: thus, when he lowers (the fire) he conquers
these worlds both from here upwards and from thence backwards.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ग्ने ऽभ्यावर्त्तिन्॥
(न्न) अभि᳘ मा नि᳘वर्तस्वा᳘ग्ने ऽअङ्गिरः पु᳘नरूर्जा᳘ सह᳘ रय्ये᳘त्येते᳘न मा स᳘र्व्वेणाभिनि᳘वर्त्तस्वे᳘त्येत᳘च्चतुष्कृ᳘त्वः प्रत्य᳘वरोहति चतुर्हि कृ᳘त्व ऽऊर्द्ध्वो रो᳘हति तद्या᳘वत्कृ᳘त्व ऽऊर्ध्वो रो᳘हति ता᳘वत्कृ᳘त्वः प्रत्य᳘वरोहति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘ग्ने ऽभ्यावर्त्तिन्॥
(न्न) अभि᳘ मा नि᳘वर्तस्वा᳘ग्ने ऽअङ्गिरः पु᳘नरूर्जा᳘ सह᳘ रय्ये᳘त्येते᳘न मा स᳘र्व्वेणाभिनि᳘वर्त्तस्वे᳘त्येत᳘च्चतुष्कृ᳘त्वः प्रत्य᳘वरोहति चतुर्हि कृ᳘त्व ऽऊर्द्ध्वो रो᳘हति तद्या᳘वत्कृ᳘त्व ऽऊर्ध्वो रो᳘हति ता᳘वत्कृ᳘त्वः प्रत्य᳘वरोहति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
अ᳘ग्ने ऽभ्यावर्तिन्॥
अभि᳘ मा नि᳘वर्तस्वा᳘ग्ने अङ्गिरः पु᳘नरूर्जा᳘ सह᳘ रय्ये᳘त्येते᳘न मा स᳘र्वेणाभिनि᳘वर्तस्वे᳘त्येत᳘च्चतुष्कृ᳘त्वः प्रत्य᳘वरोहति चतुर्हि कृ᳘त्व ऊर्ध्वो रो᳘हति तद्या᳘वत्कृ᳘त्व ऊर्ध्वो रो᳘हति ता᳘वत्कृ᳘त्वः प्रत्य᳘वरोहति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“अग्ने ऽभ्यावर्तिन्नभि मा निवर्तस्व”- (वा. सं. १२ । ७) “अग्ने ऽअङ्गिरः”- (वा. सं. १२ । ८) “पुनरूर्जा”- (वा. सं. १२ । ९) “सह रय्या”- (वा. सं. १२ । १०) इति । एतेन मा सर्वेणाभिनिवर्त्तस्वेत्येतत् । चतुष्कृत्वः प्रत्यवरोहति । चतुर्हि कृत्व ऊर्ध्वो रोहति । तद्यावत्कृत्व ऊर्ध्वो रोहति- तावत्कृत्वः प्रत्यवरोहति । तमुपावहृत्योपरिनाभि धारयति । तस्योक्तो बन्धुः ॥ ६ ॥
सायणः
आरोहणस्य यथा आरोह्यस्थानभेदेन मन्त्रचतुष्टयं “विष्णोः क्रमो ऽसि"- इत्यादिकमुक्तम्, एवमवरोहणीयानामपि दिक्सहितानां लोकानां चतुष्ट्वादेवावरोहणस्यापि मन्त्रचतुष्टयस्य प्रतीकमुपादाय सङ्गृह्य तात्पर्यमाह- अग्ने ऽभ्यावर्त्तिन्नित्यादिना । “अग्ने अङ्गिरः शतं ते सन्त्वावृतः”- इति द्वितीयः । “पुनरूर्जा निवर्त्तस्व”- इति तृतीयः । “सह रय्या निवर्त्तस्व”- इति चतुर्थः । ‘एतेन’ सर्वेण मन्त्रेण यावन्तः आयुर्वर्च्चःप्रभृतय उक्ताः, तेन ‘सर्वेण’ अपि सहितो ‘निवर्त्तस्व’ ‘इति’ ‘एतत्’ सर्वमन्त्रेषु प्रतिपादितम्; न ततो ऽधिकमित्यर्थः ॥
स्थानभेदेनैव यत् सिद्धं चतुष्कृत्वः प्रत्यवरोहणम्, तदनूद्य प्रशंसति- चतुष्कृत्वः प्रत्यवरोहतीति । तत्रोपपत्तिमाह- चतुर्हि कृत्व इति । फलितमर्थं दर्शयति- तद् यावत्कृत्व ऊर्द्ध्व इति । ‘तमुपावहृत्य’ पूर्वं यस्मिन् नाभिप्रदेशे धृतम्, तत्रैव धारयेत् । उक्तमुपरिनाभिधारणार्थवादमतिदिशति- तस्योक्तो बन्धुरिति । रुक्मधारणप्रस्तावे (श. प. ६ । ७ । १ । ६-११) उक्त इत्यर्थः ॥ ६ ॥
Eggeling
- [Vāj. S. XII, 7-10] ‘Ever returning Agni, turn thou back unto me, with life, with vigour, with offspring, with riches; with gain, with wisdom, with wealth, with prosperity!–O Agni, Aṅgiras! may thine be a hundred courses, and a thousand returns: with increase of increase bring back what was lost by us, and bring us again riches!–Return again with sustenance, again, O Agni, with food and life, guard us again from trouble!–With wealth return, O Agni, overflow with the all-feeding stream on every side!’–that is, ‘with all this return thou to me!’ Four times he lowers (the fire further and further), for four times it rises upwards: thus as often as it rises upwards, so often he lowers it; and having lowered it (completely), he holds it above his navel: the significance of this has been explained 5.
०७
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थैनमभि᳘मन्त्रयते॥
(त ऽ) आ᳘युर्व्वा᳘ ऽअग्निरा᳘युरे᳘वैत᳘दात्म᳘न्धत्त ऽआ᳘ त्वा ऽहार्षमित्या᳘ ह्येनᳫँ᳭ ह᳘रन्त्यन्त᳘रभूरित्या᳘युरे᳘वैत᳘दन्त᳘रात्म᳘न्धत्ते ध्रुव᳘स्तिष्ठा᳘विचाचलिरित्या᳘युरे᳘वैत᳘द्ध्रुव᳘मन्त᳘रात्म᳘न्धत्ते व्वि᳘शस्त्वा स᳘र्व्वा व्वाञ्छन्त्वित्य᳘न्नं वै व्विशो᳘ ऽन्नं त्वा स᳘र्व्वं व्वाञ्छत्वि᳘त्येतन्मा त्व᳘द्राष्ट्रम᳘धिभ्रशदि᳘ति श्रीर्व्वै᳘ राष्ट्रं मा त्वच्छ्रीर᳘धिभ्रशदि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थैनमभि᳘मन्त्रयते॥
(त ऽ) आ᳘युर्व्वा᳘ ऽअग्निरा᳘युरे᳘वैत᳘दात्म᳘न्धत्त ऽआ᳘ त्वा ऽहार्षमित्या᳘ ह्येनᳫँ᳭ ह᳘रन्त्यन्त᳘रभूरित्या᳘युरे᳘वैत᳘दन्त᳘रात्म᳘न्धत्ते ध्रुव᳘स्तिष्ठा᳘विचाचलिरित्या᳘युरे᳘वैत᳘द्ध्रुव᳘मन्त᳘रात्म᳘न्धत्ते व्वि᳘शस्त्वा स᳘र्व्वा व्वाञ्छन्त्वित्य᳘न्नं वै व्विशो᳘ ऽन्नं त्वा स᳘र्व्वं व्वाञ्छत्वि᳘त्येतन्मा त्व᳘द्राष्ट्रम᳘धिभ्रशदि᳘ति श्रीर्व्वै᳘ राष्ट्रं मा त्वच्छ्रीर᳘धिभ्रशदि᳘त्येतत्[[!!]]॥
मूलम् - Weber
अ᳘थैनमभि᳘मन्त्रयते॥
आ᳘युर्वा᳘ अग्निरा᳘युरेॗवैत᳘दात्म᳘न्धत्त आ᳘ त्वाहार्षमित्याॗ ह्येनᳫं ह᳘रन्त्यन्त᳘रभूरित्या᳘युरेॗवैत᳘दात्म᳘न्धत्ते ध्रुव᳘स्तिष्ठा᳘विचाचलिरित्या᳘युरेॗवैत᳘द्ध्रुव᳘मन्त᳘रात्म᳘न्धत्ते वि᳘शस्त्वा स᳘र्वा वाञ्छन्त्वित्य᳘न्नं वै विशो᳘ ऽन्नं त्वा स᳘र्वं वाञ्चत्वि᳘त्येतन्मा त्व᳘द्राष्ट्रम᳘धिभ्रशदि᳘ति श्रीर्वै᳘ राष्ट्रम् मा त्वछ्रीर᳘धिभ्रशदि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथैनमभिमन्त्रयते- आयुर्वा ऽअग्निः, आयुरेवैतदात्मन्धत्ते । “आ त्वा ऽहार्षम्”- (वा. सं. १२ । ११) इति । आ ह्येनं हरन्ति । “अन्तरभूः”- इति । आयुरेवैतदन्तरात्मन्धत्ते । “ध्रुवस्ति ष्ठाविचाचलिः”- इति । आयुरेवैतद्ध्रुवमन्तरात्मन् धत्ते । “विशस्त्वा सर्वा वाञ्छन्तु”- इति । अन्नं वै विशः । अन्नं त्वा सर्वं वाञ्छत्वित्येतत् । “मा त्वद्राष्ट्रमधिभ्रशत्”- (वा० सं० १२ । ११) इति । श्रीर्वै राष्ट्रम् । मा त्वच्छ्रीरधिभ्रशदित्येतत् ॥ ७ ॥
सायणः
यदुक्तं सूत्रकृता- “उपरिनाभि धारयन्ना त्वा ऽहार्षमित्यभिमन्त्रयते”- (का. श्रौ. सू. १६ । १६१) इति । तदेतद् विधत्ते- अथैनमभिमन्त्रयत इति । ‘अथ’ नाभ्युपरिधारणानन्तरम् । आयुर्वा अग्निरिति । यावन्तं कालं जठराग्निर्जठरे ऽस्ति, तावत्पर्यन्तमायुषो ऽवस्थानात् आयुषो ऽग्निनिमित्तत्वात् “आयुर्वा अग्निः”- इत्युच्यते ॥
तत्र मन्त्रं विधाय व्याचष्टे- आ त्वा ऽहार्षमिति । अयमर्थः,- हे अग्ने ! ‘त्वा’ त्वाम् ‘आहार्षम्’ आहृतवानस्मि मध्यदेशं प्रति, त्वं च देहस्य ‘अन्तः’ मध्ये नाभिदेशे ‘अभूः’ अस्थाः । तदनन्तरम् अन्यैरचालितः ‘अविचाचलिः’ ‘ध्रुवः तिष्ठ’ त्वां ‘सर्वा विशः’ प्रजाः ‘वाञ्छन्तु’ इच्छन्तु, अन्नकारणत्वात्; अन्नं सर्वदा अस्मासु तिष्ठतु इति हि वाञ्छन्ति । ‘त्वत्’ त्वत्तः सकाशात् ‘राष्ट्रं’ राज्यम् ‘मा अधिभ्रशत्’ अधिकं भ्रंशं मा प्राप्नुयात् । आ ह्येनं हरन्तीति आ त्वा ऽहार्षमित्यस्य मन्त्रभागस्याभिप्रायः । “अन्तरभूः"- इत्येतस्य तात्पर्यकथनम्- आयुरेवैतदन्तरात्मन् धत्त इति । द्वितीयपादेन तस्यायुषो ध्रुवत्वप्रार्थनम् । अन्नदातृत्वात् अन्नोपजीवित्वाद्वा विशः अन्नमिति “अन्नं वै विशः”- इत्युक्तम् । अतो विशामन्नरूपत्वात् ‘सर्वा विशः’ इत्यस्य ‘अन्नं सर्वं वाञ्छतु’- इत्येतदेव व्याख्यानम् । राष्ट्रवृद्धिभावाभावस्य श्रियो ऽन्वयव्यतिरेकायत्तत्वात् ‘श्रीर्वै राष्ट्रम्’- इत्युपचारेणाह ॥ ७ ॥
Eggeling
- He then addresses him (Agni); for Agni is vital power: he thus lays vital power into his self: [Vāj. S. XII, 11] ‘Hither have I brought thee,’–for they do indeed bring him hither;–’thou hast entered,’–he then lays vital power into his self;–‘stand thou firm, never staggering!’–he thus lays the vital power firmly into his self;–‘may all the people long for thee!’–the people are food: thus, ‘may all food long for thee!’–‘may thy rule not fall away from thee!’–rule means glory: thus, ‘may thy glory not fall away from thee!’
०८
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ शिक्यपाशं᳘ च रुक्मपाशं चो᳘न्मुञ्चते॥
व्वारुणो वै पा᳘शो वरुणपाशा᳘देव तत्प्र᳘मुच्यते व्वारुण्य᳘ ऽर्चा स्वे᳘नैव त᳘दात्म᳘ना स्व᳘या देव᳘तया व्वरुणपाशात्प्र᳘मुच्यत ऽउ᳘दुत्तमं᳘ व्वरुण पा᳘शमस्मद᳘वाधमं व्वि᳘ मध्यम᳘ᳫँ᳘ श्रथाये᳘ति य᳘थैव य᳘जुस्त᳘था बन्धुर᳘था व्वय᳘मादित्य व्व्रते तवा᳘नागसो ऽअ᳘दितये स्यामे᳘तीयं वा ऽअ᳘दितिरनाग᳘सस्तुभ्यं[[!!]] चास्यै᳘ स्यामे᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ शिक्यपाशं᳘ च रुक्मपाशं चो᳘न्मुञ्चते॥
व्वारुणो वै पा᳘शो वरुणपाशा᳘देव तत्प्र᳘मुच्यते व्वारुण्य᳘ ऽर्चा स्वे᳘नैव त᳘दात्म᳘ना स्व᳘या देव᳘तया व्वरुणपाशात्प्र᳘मुच्यत ऽउ᳘दुत्तमं᳘ व्वरुण पा᳘शमस्मद᳘वाधमं व्वि᳘ मध्यम᳘ᳫँ᳘ श्रथाये᳘ति य᳘थैव य᳘जुस्त᳘था बन्धुर᳘था व्वय᳘मादित्य व्व्रते तवा᳘नागसो ऽअ᳘दितये स्यामे᳘तीयं वा ऽअ᳘दितिरनाग᳘सस्तुभ्यं[[!!]] चास्यै᳘ स्यामे᳘त्येतत्[[!!]]॥
मूलम् - Weber
अ᳘थ शिक्यपाशं᳘ च रुक्भपाशं चो᳘न्मुञ्चते॥
वारुणो वै पा᳘शो वरुणपाशा᳘देव तत्प्र᳘मुच्यते वारुण्य᳘ ऽर्चा स्वे᳘नैव त᳘दात्म᳘ना स्व᳘या देव᳘तया वरुणपाशात्प्र᳘मुच्यत उ᳘दुत्तमं᳘ वरुण पा᳘शमस्मद᳘वाधमं वि᳘ मध्यमं᳘ श्रथाये᳘ति य᳘थैव य᳘जुस्त᳘था बन्धुर᳘था वय᳘मादित्य व्रते तवा᳘नागसो अ᳘दितये स्यामे᳘तीयं वा अ᳘दितिरनाग᳘सस्तु᳘भ्यं चास्यै᳘ स्यामे᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथ शिक्यपाशं च रुक्मपाशं चोन्मुञ्चते । वारुणो वै पाशः, वरुणपाशादेव तत् प्रमुच्यते । वारुण्यर्चा । स्वेनैव तदात्मना स्वया देवतया वरुणपाशात्प्रमुच्यते । “उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय”- इति । यथैव यजुस्तथा बन्धुः । “अथा वयमादित्य व्रते तवानागसो ऽअदितये स्याम”- (वा० सं० १२ । १२) इति । इयं वा ऽअदितिः । अनागसस्तुभ्यं चास्यै च स्यामेत्येतत् ॥ ८ ॥
सायणः
अथ शिक्यपाशमित्यादि 6 । ‘अथ’ उपस्थानानन्तरम्, शिक्यरुक्मयोः कण्ठसम्बद्धं पाशम् ‘उन्मुञ्चते’ ऊर्द्ध्वं विस्रंसयेत् । कृत्स्नस्यापि बन्धनसाधनस्य पाशस्य वरुणदेवताकत्वप्रसिद्धिः “वारुणो वै पाशः"- इत्यत्र ‘वै’- शब्देन द्योत्यते । पाशोन्मोके वरुणदेवताकामृचं विधाय प्रशंसति- वारुण्यर्च्चेति । ‘तत्’ तेन वारुण्यर्चा पाशविमोकेन ‘स्वेनैव आत्मना’ पाशस्य वास्तवेन रूपेण ‘स्वया’ स्वकीयया पाशाभिमानिन्या ‘देवतया’ ‘वरुणपाशात् प्रमुच्यते’ यजमानः ॥
तामृचं दर्शयति- उदुत्तममिति । पूर्वार्द्धस्य स्पष्टार्थतामाह- यथैव यजुस्तथा बन्धुरिति । यजुःशब्देन मन्त्रो विवक्षितः । मन्त्रो यादृशमर्थं प्रकाशयति, ‘बन्धुः’ तद्ब्राह्मणमपि तादृगर्थप्रकाशकमेव; नात्र व्याख्यातव्यो गूढो ऽर्थो ऽस्तीत्यर्थः । मन्त्रभागे उत्तमादिभेदभिन्नस्य त्रिविधस्य पाशविश्रथनस्य स्पष्टं प्रतिपादनादित्यभिप्रायः ॥
उत्तरार्द्धस्य तात्पर्यमाह- अथा वयमादित्य व्रत इत्यादिना । खातायाः पृथिव्याः अचिरादेव पूर्तिदर्शनात् अखण्डनरूपस्य स्वार्थस्य पृथिव्यां विद्यमानत्वात् “इयं वा अदितिः”- इत्याह । अनागसः तुभ्यञ्च अस्यै च स्यामेत्येतदिति । ‘तुभ्यम्’ आदित्याय, ‘अस्यै च’ अदितये ‘अनागसः’ अपापाः ‘स्याम’ ‘इत्येतत्,’ मन्त्रेणोक्तमिति शेषः । मन्त्रार्थः स्पष्ट एव ॥ ८ ॥
Eggeling
- He then unties the sling of the netting, and the sling of the gold plate; for the sling belongs to
Varuṇa: he thus frees himself from Varuṇa’s noose. He does so with a verse to Varuṇa: he thus frees himself from Varuṇa’s noose by its own self, by its own deity. [Vāj. S. XII, 12; R̥k S. I, 24, 15] ‘Take off from us, O Varuṇa, the uppermost cord, down (take) the lowest, away the middle one!’–as the text, so the meaning;–‘and so, O Āditya, may we be sinless in thy service for safety (Aditi)!’–Aditi is this earth: thus, ‘Sinless may we belong to thee and to her (the earth)!’
०९
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थैनमि᳘ति प्र᳘गृह्णाति॥
(त्ये) एतद्वा᳘ ऽएनमदो व्वि᳘कृत्येत᳘ ऽऊर्ध्वं प्रा᳘ञ्चं प्र᳘गृह्णाति तं त᳘त ऽइ᳘ति प्र᳘गृह्णाति तद्यत्ता᳘वदेवा᳘भविष्यद᳘त्र है᳘वैष व्य᳘रᳫँ᳭स्यता᳘थ य᳘देनमि᳘ति प्रगृह्णा᳘ति त᳘स्मादेष ऽइ᳘तीत्वा ऽथे᳘ति[[!!]] पु᳘नरैति[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थैनमि᳘ति प्र᳘गृह्णाति॥
(त्ये) एतद्वा᳘ ऽएनमदो व्वि᳘कृत्येत᳘ ऽऊर्ध्वं प्रा᳘ञ्चं प्र᳘गृह्णाति तं त᳘त ऽइ᳘ति प्र᳘गृह्णाति तद्यत्ता᳘वदेवा᳘भविष्यद᳘त्र है᳘वैष व्य᳘रᳫँ᳭स्यता᳘थ य᳘देनमि᳘ति प्रगृह्णा᳘ति त᳘स्मादेष ऽइ᳘तीत्वा ऽथे᳘ति[[!!]] पु᳘नरैति[[!!]]॥
मूलम् - Weber
अ᳘थैनमि᳘ति प्र᳘गृह्णाति॥
एतद्वा᳘ एनमदो वि᳘कृत्येत᳘ ऊर्ध्वम् प्रा᳘ञ्चम् प्र᳘गृह्णाति तं त᳘त इ᳘ति प्र᳘गृह्णाति तद्यत्ता᳘वदेवा᳘भविष्यद᳘त्र हैॗवैष व्य᳘रंस्यता᳘थ य᳘देनमि᳘ति प्रगृह्णा᳘ति त᳘स्मादेष᳘ इ᳘तीत्वाथे᳘ति पु᳘नरै᳘ति॥
मूलम् - विस्वरम्
अथैनमिति प्रगृह्णाति । एतद्वा ऽएनमदो विकृत्येत ऊर्द्ध्वं प्राञ्चं प्रगृह्णाति । तं तत इति प्रगृह्णाति । तत् यत्तावदेवाभविष्यद्- अत्र हैवैष व्यरंस्यत । अथ यदेनमिति प्रगृह्णाति- तस्मादेष इतीत्वा, अथेति पुनरैति ॥ ९ ॥
सायणः
यदुक्तं सूत्रकृता- “पिण्डवत् प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति”- (का. श्रौ. सू. १६ । १६२) इति, तदेतद् विधाय प्रशंसति- अथैनमिति प्रगृह्णात्येतद्वा एनमित्यादिना । इतीति अग्नेरवरूढस्य ग्रहणप्रकारं हस्तेनाभिनीय दर्शयति; स च प्रकारः सूत्रे दर्शितः- पिण्डवत् प्रागित्यादिना । ‘इतः’ अस्मात् स्थानात् ‘अदः’ पक्षिरूपेण ‘विकृत्या’ पूर्वम् ‘ऊर्द्ध्वम्’ प्रगृहीतवान् । अतः कारणात् ‘तं’ तथागृहीतम् अग्निम् ‘ततः’ देशात् अवरुह्य ‘इति’ उक्तप्रकारेण प्रगृह्णीयात् । को ऽयं नियम इत्यत्राह- तद् यत् तावदेवाभविष्यदिति । ‘तावदेव’ ऊर्द्ध्वप्रग्रहणमेव स्यात्, ‘अत्र ह एव’ ऊर्द्ध्वलोके एव ‘एषः’ ‘व्यरंस्यत’ विरमेत् । ‘अथ’ उक्तवैलक्षण्येन ‘यत्’ यस्मात् ‘एनम् इति’ प्रगृह्णीयात्, ‘तस्मात्’ ‘एषः’ अग्निः ‘इति’ ‘इत्वा’ ऊर्द्ध्वं गत्वा, ‘अथ इति’ एवम् अवरोहणेन ‘पुनः’ ‘ऐति’ स्वस्थानम् ॥ ९ ॥
Eggeling
- He then holds him (Agni) up thus (towards south-east); for on that former occasion he raises him upwards from here towards the east with the fashioning formula 7; and he then holds him up thus (towards north-east 8). Now were that alone to take place, he (the sun), surely, would stop even there (in the north); but inasmuch as he now holds him up thus (towards south-east), he (the sun) having gone thus (in a northerly direction), then comes back again thus (in a southerly direction).
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ग्रे बृह᳘न्नुष᳘सामूर्ध्वो᳘ ऽअस्थादि᳘ति॥
(त्य᳘) अ᳘ग्रे᳘ ह्येष᳘ बृह᳘न्नुष᳘सामूर्ध्वस्ति᳘ष्ठति निर्ज्जगन्वान्त᳘मसो ज्यो᳘तिषा᳘ ऽऽगादि᳘ति निर्ज्जगन्वान्वा᳘ ऽएष रा᳘त्र्यै त᳘मसो᳘ ऽह्ना ज्यो᳘तिषै᳘त्यग्नि᳘र्भानु᳘ना रु᳘शता स्व᳘ङ्ग ऽइ᳘त्यग्निर्व्वा᳘ ऽएष᳘ भानु᳘ना रु᳘शता स्व᳘ङ्ग ऽआ᳘ जातो व्वि᳘श्वा स᳘द्मान्यप्रा ऽइ᳘तीमे वै᳘ लोका व्वि᳘श्वा स᳘द्मानि ता᳘नेष᳘ जात ऽआ᳘पूरयति परोबाहु प्र᳘गृह्णाति परोबाहु᳘ ह्येष᳘ ऽइतो᳘ ऽथैनमुपा᳘वहरतीमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति ज᳘गत्या ज᳘गति हेमाल्ँ᳘लोका᳘नमु᳘तो ऽर्व्वा᳘चो᳘ व्यश्नुते[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘ग्रे बृह᳘न्नुष᳘सामूर्ध्वो᳘ ऽअस्थादि᳘ति॥
(त्य᳘) अ᳘ग्रे᳘ ह्येष᳘ बृह᳘न्नुष᳘सामूर्ध्वस्ति᳘ष्ठति निर्ज्जगन्वान्त᳘मसो ज्यो᳘तिषा᳘ ऽऽगादि᳘ति निर्ज्जगन्वान्वा᳘ ऽएष रा᳘त्र्यै त᳘मसो᳘ ऽह्ना ज्यो᳘तिषै᳘त्यग्नि᳘र्भानु᳘ना रु᳘शता स्व᳘ङ्ग ऽइ᳘त्यग्निर्व्वा᳘ ऽएष᳘ भानु᳘ना रु᳘शता स्व᳘ङ्ग ऽआ᳘ जातो व्वि᳘श्वा स᳘द्मान्यप्रा ऽइ᳘तीमे वै᳘ लोका व्वि᳘श्वा स᳘द्मानि ता᳘नेष᳘ जात ऽआ᳘पूरयति परोबाहु प्र᳘गृह्णाति परोबाहु᳘ ह्येष᳘ ऽइतो᳘ ऽथैनमुपा᳘वहरतीमा᳘मे᳘वैत᳘त्प्रतिष्ठा᳘मभिप्रत्यै᳘त्यस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति ज᳘गत्या ज᳘गति हेमाल्ँ᳘लोका᳘नमु᳘तो ऽर्व्वा᳘चो᳘ व्यश्नुते[[!!]]॥
मूलम् - Weber
अ᳘ग्रे बृह᳘न्नुष᳘सामूर्ध्वो᳘ अस्थादि᳘ति॥
अ᳘ग्रेॗ ह्येष᳘ बृह᳘न्नुष᳘सामूर्ध्वस्ति᳘ष्ठति निर्जगन्वान्त᳘मसो ज्यो᳘तिषा᳘गादि᳘ति निर्जगन्वान्वा᳘ 9 एष रा᳘त्र्यै तमसो᳘ ऽह्ना ज्यो᳘तिषै᳘त्यग्नि᳘र्भानु᳘ना रु᳘शता स्व᳘ङ्ग इ᳘त्यग्निर्वा᳘ एष᳘ भानु᳘ना रु᳘शता स्व᳘ङ्ग आ᳘ जातो वि᳘श्वा स᳘द्नान्यप्रा इ᳘तीमे वै᳘ लोका वि᳘श्वा स᳘द्नानि ता᳘नेष᳘ जात आ᳘पूरयति परोबाहु प्र᳘गृह्णाति परोबाहुॗ ह्येष᳘ इतो᳘ ऽथैनमुपा᳘वहरतीमा᳘मेॗवैत᳘त्प्रतिष्ठा᳘म्मभिप्रत्यै᳘त्यस्या᳘मेॗवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति ज᳘गत्या ज᳘गति हेमां᳘लोका᳘नमु᳘तो ऽर्वा᳘चो व्य᳘श्नुते॥
मूलम् - विस्वरम्
“अग्रे बृहन्नुषसामूर्ध्वो ऽअस्थात्”- इति । अग्रे ह्येष बृहन् उषसामूर्ध्वस्तिष्ठति । “निर्ज्जगन्वान्तमसो ज्योतिषा ऽऽगात्”- इति । निर्ज्जगन्वान् वा ऽएष रात्र्यै तमसो ऽह्ना ज्योतिषैति । “अग्निर्भानुना रुशता स्वङ्गः”- इति । अग्निर्वा ऽएष भानुना रुशता स्वङ्गः । “आ जातो विश्वा सद्मान्यप्राः”- (वा. सं. १२ । १३) इति । इमे वै लोका विश्वा सद्मानि । तानेष जात आपूरयति । परोबाहु प्रगृह्णाति । परोबाहु ह्येष इतः । अथैनमुपावहरति । इमामेवैतत्प्रतिष्ठामभिप्रत्यैति । अस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठति । जगत्या । जगती हेमांल्लोकानमुतो ऽर्वाचो व्यश्नुते ॥ १० ॥
सायणः
तत्र मन्त्रं विधाय व्याचष्टे- अग्रे बृहन्नित्यादिना । अयम् अग्निः ‘उषसाम्’ ‘अग्रे’ ‘बृहन्’ भूत्वा ‘ऊर्ध्वः’ सन् निर्गतः सन् ‘अस्थात्’ तिष्ठति । ‘तमसः’ नैशात् सकाशात् ‘निर्जगन्वान्’ निर्गतः सन् ‘ज्योतिषा’ सह ‘आगात्’ आगच्छति । अग्न्यादित्ययोरूर्ध्वगमनप्रत्यागमनसाम्यात् आदित्यरूपत्वाय इदमभिधानम् । किञ्च ‘अग्निः’ ‘रुशता’ प्रकाशमानेन ‘भानुना’ दीप्तिविशेषेण ‘स्वङ्गः’ शोभनाङ्गो भवति । हे अग्ने ! ‘जातः’ जातमात्रः सन् ‘विश्वा सद्मानि’ सर्वान् लोकान् आहवनीयादिस्थानानि वा ‘आप्राः’ सर्वतः पूरितवानसि ॥
पूर्वार्द्धस्य ब्राह्मणं मन्त्रव्याख्यानेनैव व्याख्यातम् । क्षित्यादिषु स्थानेष्वप्यग्नेरवस्थितिसम्भवात् त्रयो लोका अग्नेः स्थानानीत्यभिप्रेत्योक्तम्- इमे वै लोका विश्वा सद्मानीति । अवतीर्णस्य प्रग्रहणमुक्तम् । तस्य प्रकारमाह- परोबाहु प्रगृह्णातीति । बाह्वोः परस्तादुपरीत्यर्थः । व्याख्यातमिदं प्रत्यवरोहार्थवादे । जगत्येति । उपावहरतीति शेषः । सत्स्वपीतरेषु जगत्येति को ऽयं नियम इत्यत आह- जगती हेति । “इमान् लोकान् अमुतः अर्वाचः व्यश्नुते”- इति । गायत्रीत्रिष्टुब्जगतीनां क्षित्यादिलोकत्रयाक्रमणस्य विष्णुक्रममन्त्रेषु उक्तत्वात् जगती द्युलोकव्यापिनी, अधिकाक्षरायां तस्यां न्यूनाक्षरयोश्छन्दसोरप्यन्तर्भावात् ॥ १०-१६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे सप्तमा ऽध्याये तृतीयं ब्राह्मणम् ॥ (६-७-३) ॥
Eggeling
- [Vāj. S. XII, 13; R̥k S. X, 1, 1] ‘The great hath stood up erect before the Dawns,’–for before the dawn the great one (Agni) indeed stands up erect;–’emerged from the gloom he hath come with light,’–for emerged from the gloom, the night, he indeed comes with light, with the day;–‘well-shapen with white light,’–for he, Agni, is indeed well-shapen with white light;’–‘when born, he hath filled all homesteads;’–all homesteads, doubtless, means these worlds, and these he indeed fills, when born. He holds him up so as to be beyond the reach of the arms, for he (the
sun) is beyond the reach of arms from here. He then lowers him: he thereby comes back to this resting-place, and stands firmly on this resting-place. [He does so] with a jagatī verse 10, for the Jagatī gains these worlds from above hitherwards.
११
विश्वास-प्रस्तुतिः
हᳫँ᳭सः᳘ शुचिषदि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ हᳫँ᳭सः᳘ शुचिषद्व᳘सुरन्तरिक्षसदि᳘ति व्वायुर्वै व्व᳘सुरन्तरिक्षसद्धो᳘ता व्वेदिषदि᳘त्यग्निर्वै हो᳘ता व्वेदिषद᳘तिथिरि᳘ति स᳘र्व्वेषां वा᳘ ऽएष᳘ भूता᳘नाम᳘तिथिर्दुरोणसदि᳘ति व्विषमसदि᳘त्येत᳘न्नृषदि᳘ति प्राणो वै नृष᳘न्मनु᳘ष्या न᳘रस्त᳘द्यो ऽयं᳘ मनु᳘ष्येषु प्रा᳘णो ऽग्निस्त᳘मेत᳘दाह व्वरसदि᳘ति स᳘र्व्वेषु᳘ ह्येष व्व᳘रेषु सन्न᳘ ऽऋतसदि᳘ति सत्यसदि᳘त्येत᳘द्व्योमसदि᳘ति स᳘र्व्वेषु᳘ ह्येष᳘ व्योमसु स᳘न्नो ऽब्जा᳘ गोजा ऽइ᳘त्यब्जाश्च᳘[[!!]] ह्येष᳘ गोजा᳘श्च ऽर्त्तजा ऽइ᳘ति सत्यजा ऽइ᳘त्येत᳘दद्रिजा ऽइ᳘त्यद्रिजा᳘ ह्येष᳘ ऽऋतमि᳘ति सत्यमि᳘त्येत᳘द्बृहदि᳘ति नि᳘दधाति बृह᳘द्ध्येष तद्य᳘देष त᳘देनमेत᳘त्कृत्वा नि᳘दधाति॥
मूलम् - श्रीधरादि
हᳫँ᳭सः᳘ शुचिषदि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ हᳫँ᳭सः᳘ शुचिषद्व᳘सुरन्तरिक्षसदि᳘ति व्वायुर्वै व्व᳘सुरन्तरिक्षसद्धो᳘ता व्वेदिषदि᳘त्यग्निर्वै हो᳘ता व्वेदिषद᳘तिथिरि᳘ति स᳘र्व्वेषां वा᳘ ऽएष᳘ भूता᳘नाम᳘तिथिर्दुरोणसदि᳘ति व्विषमसदि᳘त्येत᳘न्नृषदि᳘ति प्राणो वै नृष᳘न्मनु᳘ष्या न᳘रस्त᳘द्यो ऽयं᳘ मनु᳘ष्येषु प्रा᳘णो ऽग्निस्त᳘मेत᳘दाह व्वरसदि᳘ति स᳘र्व्वेषु᳘ ह्येष व्व᳘रेषु सन्न᳘ ऽऋतसदि᳘ति सत्यसदि᳘त्येत᳘द्व्योमसदि᳘ति स᳘र्व्वेषु᳘ ह्येष᳘ व्योमसु स᳘न्नो ऽब्जा᳘ गोजा ऽइ᳘त्यब्जाश्च᳘[[!!]] ह्येष᳘ गोजा᳘श्च ऽर्त्तजा ऽइ᳘ति सत्यजा ऽइ᳘त्येत᳘दद्रिजा ऽइ᳘त्यद्रिजा᳘ ह्येष᳘ ऽऋतमि᳘ति सत्यमि᳘त्येत᳘द्बृहदि᳘ति नि᳘दधाति बृह᳘द्ध्येष तद्य᳘देष त᳘देनमेत᳘त्कृत्वा नि᳘दधाति॥
मूलम् - Weber
हंसः᳘ शुचिषदि᳘ति॥
असौ वा᳘ आदित्यो᳘ हंसः᳘ शुचिषद्व᳘सुरन्तरिक्षसदि᳘ति वायुर्वै व᳘सुरन्तरिक्षसद्धो᳘ता वेदिषदि᳘त्यग्निर्वै हो᳘ता वेदिषद᳘तिथिरि᳘ति स᳘र्वेषां वा᳘ एष᳘ भूता᳘नाम᳘तिथिर्दुरोणसदि᳘ति विषमसदि᳘त्येत᳘न्नृषदि᳘ति प्राणो वै नृष᳘न्मनुॗष्या न᳘रस्तॗद्यो ऽय᳘म् मनुॗष्येषु प्राॗणो ऽग्निस्त᳘मेत᳘दाह वरसदि᳘ति स᳘र्वेषुॗ ह्येष व᳘रेषु सन्न᳘ ऋतसदि᳘ति सत्यसदि᳘त्येत᳘द्व्योमसदि᳘ति स᳘र्वेषुॗ ह्येषॗ व्योमसु सॗन्नो ऽब्जा᳘ गोजा इ᳘त्यब्जा᳘श्चॗ ह्येष᳘ गोजा᳘श्च ऽर्तजा इ᳘ति सत्यजा इ᳘त्येत᳘दद्रिजा इ᳘त्यद्रिजाॗ ह्येष᳘ ऋतमि᳘ति सत्यमि᳘त्येत᳘द्बृहदि᳘ति नि᳘दधाति बृहॗद्ध्येष तद्य᳘देष त᳘देनमेत᳘त्कृत्वा नि᳘दधाति॥
मूलम् - विस्वरम्
“हंसः शुचिषत्”- इति । असौ वा ऽआदित्यो हंसः शुचिषत् । “वसुरन्तरिक्षसद्”- इति । वायुर्वै वसुरन्तरिक्षसत् । “होता वेदिषद्”- इति । अग्निर्वै होता वेदिषत् । “अतिथिः”- इति । सर्वेषां वा ऽएष भूतानामतिथिः । “दुरोणसद्”- इति । विषमसद्- इत्येतत् । “नृषद्”- इति । प्राणो वै नृषत् । मनुष्या नरः । तद्यो ऽयं मनुष्येषु प्राणो ऽग्निः- तमेतदाह । “वरसद्"- इति । सर्वेषु ह्येष वरेषु सन्नः । “ऋतसद्”- इति । सत्यसदित्येतत् । “व्योमसद्”- इति । सर्वेषु ह्येष व्योमसु सन्नः । “अब्जा गोजाः”- इति । अब्जाश्च ह्येष गोजाश्च । “ऋतजाः”- इति । सत्यजा इत्येतत् । “अद्विजाः”- इति । अद्रिजा ह्येषः । “ऋतम्”- इति । सत्यमित्येतत् । “बृहत्” (वा. सं. १२ । १४) इति निदधाति । बृहद्ध्येषः । तद्यदेषः- तदेनमेतत् कृत्वा निदधाति ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- [Vāj. S. XII, 14; R̥k S. IV, 40, 5] ‘The swan dwelling in the light,’–the swan dwelling in the light, doubtless, is yonder sun;–’the Vasu dwelling in the air,’–the Vasu dwelling in the air, doubtless, is the wind;–’the priest seated on the altar,’–the priest seated on the altar, doubtless, is Agni;–’the guest,’–for he (Agni) is indeed the guest of all beings;–‘dwelling in the retreat 11,’–that is, ‘dwelling in rugged places;’–’the man-dwelling,’–the man-dwelling, doubtless, is the vital air; and men are human beings: he thus means that vital air, that fire, which (burns) in human beings;–’the space-dwelling,’–for he (Agni) indeed is seated in all spaces;–’the law-seated,’–that is, ’the truth-seated;’–’the sphere-dwelling,’–for he is indeed seated in all spheres;–’the water-born, cow-born’–for he is indeed both water-born and cow-born;–’law-born,’–that is, ’truth-born;’–‘rock-born,’–for he is born from the rock;–’the law,’–that is, ’the truth.’ With ’the Great!’ he deposits it (the fire); for he (Agni) is indeed the great (truth): he thus deposits him (on the seat) after making him what he is.
१२
विश्वास-प्रस्तुतिः
द्वा᳘भ्यामक्ष᳘राभ्याम्॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतन्नि᳘दधाति॥
मूलम् - श्रीधरादि
द्वा᳘भ्यामक्ष᳘राभ्याम्॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतन्नि᳘दधाति॥
मूलम् - Weber
द्वा᳘भ्यामक्ष᳘राभ्याम्॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘क्त्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतन्नि᳘दधाति॥
मूलम् - विस्वरम्
द्वाभ्यामक्षराभ्याम् । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतन्निदधाति ॥ १२ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- [He does so] with two syllables (‘br̥hat’),–the Sacrificer is two-footed, and the Sacrificer is
Agni: as great as Agni is, as great as is his measure, with so much he thus deposits him.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमु᳘पतिष्ठते॥
(त ऽ) एतद्वा᳘ ऽएनमेत᳘ल्लघूय᳘तीव य᳘देनेन सहे᳘ति चे᳘ति चेमाल्ँ᳘लोकान्क्र᳘मते त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭सायै॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमु᳘पतिष्ठते॥
(त ऽ) एतद्वा᳘ ऽएनमेत᳘ल्लघूय᳘तीव य᳘देनेन सहे᳘ति चे᳘ति चेमाल्ँ᳘लोकान्क्र᳘मते त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭सायै॥
मूलम् - Weber
अ᳘थैनमु᳘पतिष्ठते॥
एतद्वा᳘ एनमेत᳘ल्लघूय᳘तीव य᳘देनेन सहे᳘ति चे᳘ति चेमां᳘लोकान्क्र᳘मते त᳘स्मा ए᳘वैतन्नि᳘ह्नुते᳘ ऽहिंसायै॥
मूलम् - विस्वरम्
अथैनमुपतिष्ठते । एतद्वा ऽएनमेतल्लघूयतीव- यदेनेन सह- इति चेति चेमांल्लोकान्क्रमते । तस्मा ऽएवैतन्निह्नुते ऽहिंसायै ॥ १३ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- He then stands worshipping by him; for he makes, as it were, light of him, when he strides with him through these worlds both thus (upwards), and thus (downwards): he now makes amends to him, so that he (Agni) may not hurt him.
१४
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वोपति᳘ष्ठते॥
(त ऽ) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ नो ऽय᳘मिमाल्ँ᳘लोका᳘नन्तिकान्न᳘ हिᳫँ᳭स्यादि᳘ति त᳘देभ्य᳘ ऽए᳘वैनमेत᳘ल्लोके᳘भ्यो ऽशमयंस्त᳘थै᳘वैनमय᳘मेत᳘देभ्यो᳘ लोके᳘भ्यः शमयति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वोपति᳘ष्ठते॥
(त ऽ) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ नो ऽय᳘मिमाल्ँ᳘लोका᳘नन्तिकान्न᳘ हिᳫँ᳭स्यादि᳘ति त᳘देभ्य᳘ ऽए᳘वैनमेत᳘ल्लोके᳘भ्यो ऽशमयंस्त᳘थै᳘वैनमय᳘मेत᳘देभ्यो᳘ लोके᳘भ्यः शमयति॥
मूलम् - Weber
य᳘द्वेॗवोपति᳘ष्ठते॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ नो ऽय᳘मिमां᳘लोका᳘नन्तिकान्न᳘ हिंस्यादि᳘ति त᳘देभ्य᳘ एॗवैनमेत᳘ल्लोके᳘भ्यो ऽशमयंस्त᳘थैॗवैनमय᳘मेत᳘देभ्यो᳘ लोके᳘भ्यः शमयति॥
मूलम् - विस्वरम्
यद्वेवोपतिष्ठते । एतद्वै देवा अबिभयुः- यद्वै नो ऽयमिमांल्लोकानन्तिकान्न हिंस्यादिति । तदेभ्य एवैनमेतल्लोकेभ्यो ऽशमयन् । तथैवैनमयमेतदेभ्यो लोकेभ्यः शमयति ॥ १४ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- And, again, why he stands by him;–the gods at that time were afraid, lest he should injure these worlds of theirs from anigh: they thereby appeased him towards these worlds; and in like manner does he (the Sacrificer) now appease him towards these worlds.
१५
विश्वास-प्रस्तुतिः
सी᳘द त्वं᳘ मातुः᳘॥
(र) अस्या᳘ ऽउप᳘स्थे ऽन्त᳘रग्ने रुचा त्व᳘ᳫँ᳘ शिवो᳘ भूत्वा म᳘ह्यमग्ने ऽअ᳘थो सीद शिवस्त्वमि᳘ति शिवः᳘-शिव ऽइ᳘ति शम᳘यत्ये᳘वैनमेतद᳘हिᳫँ᳭सायै त᳘थो हैष᳘ ऽइमाल्ँ᳘लोका᳘ञ्छान्तो न᳘ हिनस्ति॥
मूलम् - श्रीधरादि
सी᳘द त्वं᳘ मातुः᳘॥
(र) अस्या᳘ ऽउप᳘स्थे ऽन्त᳘रग्ने रुचा त्व᳘ᳫँ᳘ शिवो᳘ भूत्वा म᳘ह्यमग्ने ऽअ᳘थो सीद शिवस्त्वमि᳘ति शिवः᳘-शिव ऽइ᳘ति शम᳘यत्ये᳘वैनमेतद᳘हिᳫँ᳭सायै त᳘थो हैष᳘ ऽइमाल्ँ᳘लोका᳘ञ्छान्तो न᳘ हिनस्ति॥
मूलम् - Weber
सी᳘द त्व᳘म् मातुः᳟॥
अस्या᳘ उप᳘स्थे ऽन्त᳘रग्ने रुचा त्वं᳘ शिवो᳘ भूत्वा म᳘ह्यमग्ने अ᳘थो सीद शिवस्त्वमि᳘ति शिवः᳘-शिव इ᳘ति शम᳘यत्येॗवैनमेतद᳘हिंसायै त᳘थो हैष᳘ इमां᳘लोका᳘ञ्छान्तोन᳘ हिनस्ति॥
मूलम् - विस्वरम्
“सीद त्वं मातुरस्या उपस्थे”- (वा. सं. १२ । १५) “अन्तरग्ने रुचा त्वम्”- (वा. सं. १२ । १६) “शिवो भूत्वा मह्यमग्ने अथो सीद शिवस्त्वम्”- (वा. सं. १२ । १७) इति । शिवः शिव इति । शमयत्येवैनमेतद्- अहिंसायै । तथो हैष इमांल्लोकाञ्छान्तो न हिनस्ति ॥ १५ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- [Vāj. S. XII, 15-17] ‘Seat thee in this thy mother’s lap, thou, O Agni, knowing all ordinances! burn her not with thy heat, thy flame! shine in her with a brilliant light!–Glowing with light and heat within thine own seat, be thou gracious unto this Ukhā, O knower of beings!–Being gracious unto me, O Agni, now seat thee graciously! seat thee here in thine own seat, having made happy all the regions!’–by saying ‘Gracious–Gracious,’ he appeases him, so that he may not injure any one, and thus he, being appeased, does not injure these worlds.
१६
विश्वास-प्रस्तुतिः
त्रिभिरु᳘पतिष्ठते॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मा ऽएतन्नि᳘ह्नुते᳘ ऽथो ता᳘वतै᳘वैनमेत᳘देभ्यो᳘ लोके᳘भ्यः शमयति॥
मूलम् - श्रीधरादि
त्रिभिरु᳘पतिष्ठते॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मा ऽएतन्नि᳘ह्नुते᳘ ऽथो ता᳘वतै᳘वैनमेत᳘देभ्यो᳘ लोके᳘भ्यः शमयति॥
मूलम् - Weber
त्रिभिरु᳘पतिष्ठते॥
त्र᳘य इमे᳘ लोका अ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मा एतन्नि᳘ह्नुते᳘ ऽथो ता᳘वतैॗवैनमेत᳘देभ्यो᳘ लोके᳘भ्यः शमयति॥
मूलम् - विस्वरम्
त्रिभिरुपतिष्ठते त्रय इमे लोकाः । अथो त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मा ऽएतन्निह्नुते । अथो तावतैवैनमेतदेभ्यो लोकेभ्यः शमयति ॥ १६ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- With three (verses) he stands by worshipping;–three in number are these worlds, and threefold is Agni: as great as Agni is, as great as is his measure, with so much he thereby makes amends to him, and with so much does he thereby appease him towards these worlds.
-
277:1 Viz. by the Agni who is now being held up, and of whom Parjanya is said to be another form, at VI, 1, 3, 15. It is probably the smoke rising from the fire-pan that suggests the idea of the Jupiter pluvius sending forth his flashes of light from the dark cloud. ↩︎
-
277:2 Literally, anointing (? either furbishing, or impregnating). ↩︎
-
अवहरत्यग्ने ऽभ्वावर्तिन्निति । का. श्रौ. सू. १६ । १६० । ↩︎
-
278:1 Literally, were that to be so much only (i.e. were the fire always to be held up there). ↩︎
-
279:1 VI, 7, 1, 8 seq. ↩︎
-
पाशा उन्मुच्योदुत्तममिति । का. श्रौ. सू. १६ । १६२ । ↩︎
-
280:1 VI, 7, 2, 9. ↩︎
-
280:2 VI, 7, 3, 1. ↩︎
-
गन्वां त᳘ ABC. ↩︎
-
281:1 It is rather a trishṭubh verse. ↩︎
-
281:2 Rather, (the guest) dwelling in the house (duroṇa-sad), but the author evidently derives ‘duroṇa’ from ‘dus’ (bad), making it a synonym of ‘durga.’ ↩︎