०१

विश्वास-प्रस्तुतिः

तं ति᳘ष्ठन्प्र᳘तिमुञ्चते॥
(ते ऽसौ) असौ वा᳘ आदित्य᳘ ऽएष᳘ रुक्मस्ति᳘ष्ठतीव वा᳘ ऽअसा᳘वादित्यो᳘ ऽथो ति᳘ष्ठन्वै᳘ व्वीर्य᳘वत्तर ऽउ᳘दङ्प्राङ्ति᳘ष्ठंस्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

तं ति᳘ष्ठन्प्र᳘तिमुञ्चते॥
(ते ऽसौ) असौ वा᳘ आदित्य᳘ ऽएष᳘ रुक्मस्ति᳘ष्ठतीव वा᳘ ऽअसा᳘वादित्यो᳘ ऽथो ति᳘ष्ठन्वै᳘ व्वीर्य᳘वत्तर ऽउ᳘दङ्प्राङ्ति᳘ष्ठंस्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

तं ति᳘ष्ठन्प्र᳘तिमुञ्चते॥
असौ वा᳘ आदित्य᳘ एष᳘ रुक्भस्ति᳘ष्ठतीव वा᳘ असा᳘वादित्यो᳘ ऽथो ति᳘ष्ठन्वै᳘ वीर्य᳘वत्तर उ᳘दङ् प्राङ् ति᳘ष्ठंस्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

तं तिष्ठन् प्रतिमुञ्चते । असौ वा आदित्य एष रुक्मः । तिष्ठतीव वा ऽअसावादित्यः । अथो तिष्ठन्वै वीर्यवत्तरः । उदङ् प्राङ् तिष्ठन् । तस्योक्तो बन्धुः ॥ १ ॥

सायणः

अथ यदुक्तं सूत्रकृता- “तिष्ठन्नुदप्राङ्रुक्मप्रतिमोचनविष्णुक्रमवात्सप्रेषु च”- (का. श्रौ. सू. १६ । १३१ । १३२) इति । तदिदं विधाय प्रशंसति- तं तिष्ठन् प्रतिमुञ्चते ऽसौ वा आदित्य एष रुक्म इति । रुक्मस्यादित्यत्वं रुक्मस्य सत्यत्वमभिधाय “तद् यत् तत् सत्यमसौ स आदित्यः” (श. प. ६ । ७ । १ । १) इत्यादिनोक्तम् । उपर्युपर्यारोहणात् आदित्यः तिष्ठतीव वर्त्तते । उदङ् प्राङ् तिष्ठन् तस्योक्तो बन्धुरिति । “एषा होभयेषां देवमनुष्याणां दिक्”- इत्यादिनेत्यर्थः- (श. प. ब्रा. ६ । ४ । २ । ३) ॥ १ ॥

Eggeling
  1. Standing he puts on that (gold plate) 1,–for that gold plate is yonder sun, and yonder sun stands, as it were; and moreover, while standing one is stronger. [He does so] standing with his face towards north-east: the significance of this has been explained.

०२

विश्वास-प्रस्तुतिः

(र्दृ) दृशानो᳘ रुक्म᳘ ऽउर्व्या᳘ व्यद्यौदि᳘ति[[!!]]॥
दृश्य᳘मानो᳘ ह्येष᳘ रुक्म᳘ ऽउर्व्या᳘ व्विद्यो᳘तते दुर्म᳘र्षमा᳘युः श्रिये᳘ रुचान ऽइ᳘ति दुर्म᳘रं वा᳘ ऽएतस्या᳘युः श्रि᳘यो ऽएष᳘ रोचते ऽग्नि᳘रमृ᳘तो ऽअभवद्व᳘योभिरि᳘ति स᳘र्व्वैर्वा᳘ ऽएष व्व᳘योभिरमृ᳘तो ऽभवद्य᳘देनं द्यौर᳘जनयदि᳘ति द्यौर्व्वा᳘ ऽएत᳘मजनयत्सुरे᳘ता ऽइ᳘ति सुरे᳘ता᳘ ह्येषा य᳘स्या ऽएष रेतः[[!!]]॥

मूलम् - श्रीधरादि

(र्दृ) दृशानो᳘ रुक्म᳘ ऽउर्व्या᳘ व्यद्यौदि᳘ति[[!!]]॥
दृश्य᳘मानो᳘ ह्येष᳘ रुक्म᳘ ऽउर्व्या᳘ व्विद्यो᳘तते दुर्म᳘र्षमा᳘युः श्रिये᳘ रुचान ऽइ᳘ति दुर्म᳘रं वा᳘ ऽएतस्या᳘युः श्रि᳘यो ऽएष᳘ रोचते ऽग्नि᳘रमृ᳘तो ऽअभवद्व᳘योभिरि᳘ति स᳘र्व्वैर्वा᳘ ऽएष व्व᳘योभिरमृ᳘तो ऽभवद्य᳘देनं द्यौर᳘जनयदि᳘ति द्यौर्व्वा᳘ ऽएत᳘मजनयत्सुरे᳘ता ऽइ᳘ति सुरे᳘ता᳘ ह्येषा य᳘स्या ऽएष रेतः[[!!]]॥

मूलम् - Weber

दृशानो रुक्भ᳘ उर्व्या व्य᳘द्यौदि᳘ति॥
दृश्य᳘मानोॗ ह्येष᳘ रुक्भ᳘ उर्व्या᳘ विद्यो᳘तते दुर्म᳘र्षमा᳘युः श्रिये᳘ रुचान इ᳘ति दुर्म᳘रं वा᳘ एतस्या᳘युः श्रिॗयो एष᳘ रोचते ऽग्नि᳘रमृ᳘तो अभवद्व᳘योभिरि᳘ति स᳘र्वैर्वा᳘ एष व᳘योभिरमृ᳘तो ऽभवद्य᳘देनं द्यौर᳘जनयदि᳘ति द्यौर्वा᳘ एत᳘मजनयत्सुरे᳘ता इ᳘ति सुरे᳘ताॗ ह्येषा य᳘स्या एष रे᳘तः॥

मूलम् - विस्वरम्

“दृशानो रुक्म उर्व्या व्यद्यौद्”- इति । दृश्यमानो ह्येष रुक्म उर्व्या विद्योतते । “दुर्मर्षमायुः श्रिये रुचानः”- इति । दुर्मरं वा एतस्यायुः । श्रियो ऽएष रोचते । “अग्निरमृतो ऽअभवद्वयोभिः”- इति । सर्वैर्वा ऽएष वयोभिरमृतो ऽभवद् । “यदेनं द्यौरजनयद्"- इति । द्यौर्वा ऽएतमजनयत् । “सुरेताः”- (वा. सं. १२ । १) इति । सुरेता ह्येषा- यस्या एष रेतः ॥ २ ॥

सायणः

तत्र मन्त्रं विधाय व्याचष्टे- दृशानो रुक्म उर्व्या व्यद्यौदिति दृश्यमानो ह्येष रुक्म इत्यादिना । आदित्यात्मकः ‘एष रुक्मो’ ‘दृशानः’ दृश्यमानः ‘उर्व्या’ महद्दीप्त्या ‘व्यद्यौत्’ विद्योतते । यस्य रुक्मस्य ‘आयुः’ जीवनोपलक्षितः कालः ‘दुर्मर्षम्’ दुर्भरम्, अविनाश्यमित्यर्थः । यः ‘श्रिये’ जगतः श्रीनिमित्तं ‘रुचानः’ रोचमानः भवति । आदित्ये रोचमाने सति जगत् शोभते इति प्रसिद्धम् । किञ्च ‘अग्निः’ ‘वयोभिः’ अन्नैः सर्वैः अपि ‘अमृतः’ अमरणधर्मा ‘अभवत्’ । ‘यद्’ यस्माद् ‘द्यौः’ एनम्’ अग्निम् ‘अजनयत्’ उदपादयत् । कीदृशी द्यौः ? ‘सुरेताः’ शोभनाग्न्याख्यरेतोयुक्ता । प्रथमपादब्राह्मणं स्पष्टम् । दुर्मर्षमित्येतद् व्याचष्टे- दुर्मरमिति । वयोभिरिति बहुवचनं सार्थकमित्याह- सर्वैर्वा एष वयोभिरमृतो ऽभवदिति । अग्नेः सर्वभक्षत्वात् सर्वमप्यस्यान्नम् । अस्य दिवः सकाशात् उत्पत्तिः प्रसिद्धेति दर्शयति- द्यौर्वा एतमजनयदिति । ‘सुरेताः’- इति द्यु-विशेषणम् । कथं तस्य तथात्वमिति, तत्राह- सुरेता ह्येषा यस्या एष रेत इति ॥ २ ॥

Eggeling
  1. [Vāj. S. XII, 1; R̥k S. X, 45, 8] ‘Looking like 2 a golden disk he hath shone far and wide,’–for that gold plate, being seen, indeed shines far and wide;–‘flashing forth unquenchable 3 life for glory,’–for not easily dying is his (Agni’s) life (vital power); and for glory he does shine;–‘Agni became immortal by his powers, when Dyaus bore him–,’ for Dyaus (the sky) did bear him;–‘she that hath good seed–,’ for good seed indeed she has whose seed he (Agni) is.

०३

विश्वास-प्रस्तुतिः

(तो᳘ ऽथै) अ᳘थैनमि᳘ण्ड्वाभ्यां प᳘रिगृह्णाति॥
न᳘क्तोषा᳘सा स᳘मनसा व्वि᳘रूपे ऽइ᳘त्यहोरात्रे वै न᳘क्तोषा᳘सा स᳘मनसा व्वि᳘रूपे धाप᳘येते शि᳘शुमे᳘कᳫँ᳭ समीची ऽइ᳘ति यद्वै कि᳘ञ्चाहोरात्र᳘योस्ते᳘नैत᳘मेव᳘ समी᳘ची धापयेते द्या᳘वाक्षा᳘मा रुक्मो᳘ ऽअन्तर्व्वि᳘भाती᳘ति ह᳘रन्नेतद्य᳘जुर्जपतीमे वै द्या᳘वापृथिवी द्या᳘वाक्षा᳘मा ते᳘ ऽएष य᳘न्नन्तरा व्वि᳘भाति त᳘स्मादेतद्ध᳘रन्य᳘जुर्ज्जपति देवा᳘ ऽअग्निं᳘ धारयन्द्रविणोदा ऽइ᳘ति परिगृ᳘ह्य नि᳘दधाति प्राणा वै᳘ देवा᳘ द्रविणोदास्त᳘ ऽएतम᳘ग्र ऽएव᳘मधारयंस्तै᳘रे᳘वैनमेत᳘द्धारयति॥

मूलम् - श्रीधरादि

(तो᳘ ऽथै) अ᳘थैनमि᳘ण्ड्वाभ्यां प᳘रिगृह्णाति॥
न᳘क्तोषा᳘सा स᳘मनसा व्वि᳘रूपे ऽइ᳘त्यहोरात्रे वै न᳘क्तोषा᳘सा स᳘मनसा व्वि᳘रूपे धाप᳘येते शि᳘शुमे᳘कᳫँ᳭ समीची ऽइ᳘ति यद्वै कि᳘ञ्चाहोरात्र᳘योस्ते᳘नैत᳘मेव᳘ समी᳘ची धापयेते द्या᳘वाक्षा᳘मा रुक्मो᳘ ऽअन्तर्व्वि᳘भाती᳘ति ह᳘रन्नेतद्य᳘जुर्जपतीमे वै द्या᳘वापृथिवी द्या᳘वाक्षा᳘मा ते᳘ ऽएष य᳘न्नन्तरा व्वि᳘भाति त᳘स्मादेतद्ध᳘रन्य᳘जुर्ज्जपति देवा᳘ ऽअग्निं᳘ धारयन्द्रविणोदा ऽइ᳘ति परिगृ᳘ह्य नि᳘दधाति प्राणा वै᳘ देवा᳘ द्रविणोदास्त᳘ ऽएतम᳘ग्र ऽएव᳘मधारयंस्तै᳘रे᳘वैनमेत᳘द्धारयति॥

मूलम् - Weber

अ᳘थैनमिॗण्ड्वाभ्याम् प᳘रिगृह्णाति॥
न᳘क्तोषा᳘सा स᳘मनसा वि᳘रूपे इ᳘त्यहोरात्रे वै न᳘क्तोषा᳘सा स᳘मनसा वि᳘रूपे धाप᳘येते शि᳘शुमे᳘कᳫं समीची इ᳘ति यद्वै किं᳘ चाहोरात्र᳘योस्ते᳘नैत᳘मेव᳘ समी᳘ची धापयेते द्या᳘वाक्षा᳘मा रुक्भो᳘ अन्तर्वि᳘भाती᳘ति ह᳘रन्नेतद्य᳘जुर्जपतीमे वै द्या᳘वापृथिवी द्या᳘वाक्षा᳘मा ते᳘ एष य᳘न्नन्तरा वि᳘भाति त᳘स्मादेतद्ध᳘रन्य᳘जुर्जपति देवा᳘ अग्निं᳘ धारयन्द्रविणोदा इ᳘ति परिगृ᳘ह्य नि᳘दधाति प्राणा वै᳘ देवा᳘ द्रविणोदास्त᳘ एतम᳘ग्र एव᳘मधारयंस्तै᳘रेॗवैनमेत᳘द्धारयति॥

मूलम् - विस्वरम्

अथैनमिण्ड्वाभ्यां परिगृह्णाति । “नक्तोषासा समनसा विरूपे"- इति । अहोरात्रे वै नक्तोषासा समनसा विरूपे । “धापयेते शिशुमेकं समीची”- इति । यद्वै किञ्चाहोरात्रयोः- तेनैतमेव समीची धापयेते । “द्यावाक्षामा रुक्मो ऽअन्तर्विभाति”- इति हरन्नेतद्यजुर्जपति । इमे वै द्यावापृथिवी द्यावाक्षामा । ते ऽएष यन्नन्तरा विभाति । तस्मादेतद्धरन् यजुर्जपति । “देवा अग्निं धारयन् द्रविणोदाः”- (वा. सं. १२ । २) इति परिगृह्य निदधाति । प्राणा वै देवा द्रविणोदाः । त ऽएतमग्र ऽएवमधारयन् । तैरेवैनमेतद्धारयति ॥ ३ ॥

सायणः

अस्याग्नेरिण्ड्वाभ्यां परिग्रहणं विधत्ते- अथैनमिण्ड्वाभ्यां परिगृह्णाति नक्तोषासा समनसा विरूपे इति [^१_२१५] । अहोरात्रे वै नक्तोषासेति । कृत्स्राया ऋचो ऽयमर्थः- ‘नक्तोषासा’ उषःशब्देन कुत्स्नमहर्विवक्ष्यते, रात्र्यहनी । ‘समनसा’ समानमनसौ, ‘विरूपे’ विविधरूपे, शुक्लकृष्णभेदेन वैविध्यम्, ‘समीची’ सम्यगञ्चने, यथा लोके ‘एकं शिशुं धापयेते’ हिताचरणेनानुगच्छतः, एवमेकमग्न्याख्यं शिशुं धापयेते, स्वावस्थितैः प्राणिभिः अग्निहोत्रादिकर्मद्वारेणानुगतं शिशुमग्निं परिगृह्णामीति शेषः । किञ्च यौ ‘द्यावाक्षामा’ द्यावापृथिव्यौ ‘अन्तः’ तयोर्मध्ये ‘रुक्मः’ रोचमानः अग्निः ‘विभाति’ दीप्यते, तमाहरामीति शेषः । यम् ‘अग्निं’ ‘द्रविणोदाः’ धनस्य दातारो देवाः ‘धारयन्’ अधारयन् । तं धारयामीति शेषः ॥ अत्र प्रथमभागेनाहोरात्रौ विवक्षिताविति दर्शयति- अहोरात्रे वै नक्तोषासेति । द्वितीयभागेनाहोरात्रकर्तृकं धापनं स्वनिष्ठकृत्स्नप्राणिद्वारेति दर्शयति- यद्वै किञ्चाहोरात्रयोस्तेनैतमेव समीची धापयेते इति । स्पष्टमेतत् । तृतीयभागस्य विनियोगमाह- द्यावाक्षामा रुक्मो अन्तर्विभातीति 4 । एनं मन्त्रं व्याचष्टे- इमे वै द्यावापृथिवी इति । “क्षामा- इति पृथिवीनाम” ‘अन्तरा’- शब्दप्रयोगात् ‘ते’- इति द्वितीया (पा. सू. २ । ३ । ४)। ‘तस्मात्’ उक्तविनियोगानुकूलार्थत्वात् तद्यजुर्हरणकाले जपेत् । ऋचश्चतुर्थांशस्य विनियोगं दर्शयति- देवा अग्निं धारयन् द्रविणोदा इति परिगृह्य दधातीति 5 । आहवनीयस्य पुरस्तात् शिक्यवत्यामासन्द्यां स्थापयेत् । ‘द्रविणोदाः’ द्रविणोदगुणविशेषिता देवा अत्र ‘प्राणाः’ विवक्षिताः । ‘ते’ ‘एतम्’ अग्निम् ‘अग्रे’ ‘एवम्’ ‘अधारयन्’ । एतन्मन्त्रेण धृते सति ‘तैरेव’ ‘एनम्’ अग्निम् ‘धारयति’ यजमानः ॥ ३ ॥

Eggeling
  1. He then takes hold of him by means of the two pads, with (Vāj. S. XII, 2 6), ‘Night and Dawn,

of one mind, unlike in form,’–night and dawn, doubtless, are day and night, (and they are) of one mind 7, and unlike in form;–’nourish one child, combining together,’–whatever belongs to the day and the night, therewith they, combining together, indeed nourish him (Agni);–‘a golden disk, he shineth between heaven and earth,’–whilst taking it (the fire), he mutters this prayer; for heaven and earth are those two, the sky and the earth; and moving between these two he shines: that is why, in taking it, he mutters this prayer;–’the wealth-giving gods kept Agni;’–therewith, having taken hold of it in both hands, he sets it down; for the wealth-giving gods are the vital airs, and they indeed kept up Agni at first: by means of them he now keeps him up.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ शिक्यपाशं प्र᳘तिमुञ्चते॥
व्वि᳘श्वा रूपा᳘णि प्र᳘तिमुञ्चते कविरि᳘त्यसौ[[!!]] वा᳘ ऽआदित्यः᳘ कविर्व्वि᳘श्वा रूपा᳘ शि᳘क्यं[[!!]] प्रा᳘सावीद्भद्रं᳘ द्विप᳘दे च᳘तुष्पद ऽइ᳘त्युद्यन्वा᳘ ऽएष᳘ द्विप᳘दे च᳘तुष्पदे च भद्रं प्र᳘सौति वि ना᳘कमख्यत्सविता व्व᳘रेण्य ऽइ᳘ति स्वर्गो वै᳘ लोको ना᳘कस्त᳘मेष᳘ ऽउद्य᳘न्ने᳘वानुवि᳘पश्यन्य᳘नु प्रया᳘णमुष᳘सो व्वि᳘राजती᳘त्युषा वा ऽअ᳘ग्रे᳘ व्युच्छति त᳘स्या ऽएष᳘ व्युष्टिं व्विरा᳘जन्ननू᳘देति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ शिक्यपाशं प्र᳘तिमुञ्चते॥
व्वि᳘श्वा रूपा᳘णि प्र᳘तिमुञ्चते कविरि᳘त्यसौ[[!!]] वा᳘ ऽआदित्यः᳘ कविर्व्वि᳘श्वा रूपा᳘ शि᳘क्यं[[!!]] प्रा᳘सावीद्भद्रं᳘ द्विप᳘दे च᳘तुष्पद ऽइ᳘त्युद्यन्वा᳘ ऽएष᳘ द्विप᳘दे च᳘तुष्पदे च भद्रं प्र᳘सौति वि ना᳘कमख्यत्सविता व्व᳘रेण्य ऽइ᳘ति स्वर्गो वै᳘ लोको ना᳘कस्त᳘मेष᳘ ऽउद्य᳘न्ने᳘वानुवि᳘पश्यन्य᳘नु प्रया᳘णमुष᳘सो व्वि᳘राजती᳘त्युषा वा ऽअ᳘ग्रे᳘ व्युच्छति त᳘स्या ऽएष᳘ व्युष्टिं व्विरा᳘जन्ननू᳘देति॥

मूलम् - Weber

अ᳘थ शिक्यपाशम् प्र᳘तिमुञ्चते॥
वि᳘श्वा रूपा᳘णि प्र᳘तिमुञ्चतेकविरि᳘त्यसौ᳘ वा᳘ आदित्यः᳘ कविर्वि᳘श्वा रूपा᳘ शिक्य᳘म् प्रा᳘सावीद्भद्रं᳘ द्विप᳘दे च᳘तुष्पद इ᳘त्युद्यन्वा᳘ एष᳘ द्विप᳘दे च᳘तुष्पदे च भद्रम् प्र᳘सौति वि ना᳘कमख्यत्सविता व᳘रेण्य इ᳘ति स्वर्गो वै᳘ लोको ना᳘कस्त᳘मेष᳘ उद्य᳘न्नेॗवानुवि᳘पश्यन्य᳘नु प्रया᳘णमुष᳘सो वि᳘राजती᳘त्युषा वा अ᳘ग्रेॗ व्युछति त᳘स्या एषॗ व्युष्टिं विरा᳘जन्ननू᳘देति॥

मूलम् - विस्वरम्

अथ शिक्यपाशं प्रतिमुञ्चते । “विश्वा रूपाणि प्रतिमुञ्चते कविः”- इति । असौ वा ऽआदित्यः कविः । विश्वा रूपा शिक्यम् । “प्रासावीद्भद्रं द्विपदे चतुष्पदे"- इति । उद्यन्वा ऽएष द्विपदे चतुष्पदे च भद्रं प्रसौति । “वि नाकमख्यत् सविता वरेण्यः”- इति । स्वर्गो वै लोको नाकः । तमेष उद्यन्नेवानुविपश्यति । “अनु प्रयाणमुषसो विराजति”- (वा. सं. १२ । ३) इति । उषा वा अग्रे व्युच्छति । तस्या ऽएष व्युष्टिं विराजन्ननूदेति ॥ ४ ॥

सायणः

यदुक्तं सूत्रे “शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति” (का. श्रौ. सू. १३ । १५१) तदेतद् दर्शयति- अथ शिक्यपाशमिति । तत्र विश्वा रूपाणीति मन्त्रः । तस्यायमर्थः- ‘कविः’ क्रान्तप्रज्ञः, उख्याग्निः ‘विश्वा’ विश्वानि रूपाणि प्रतिमुञ्चते । शिक्याख्यस्य रूपस्य बहुदामोपेतत्वाद् बहुवचनम् । स च ‘द्विपदे’ मनुष्यादिकाय, ‘चतुष्पदे’ गवादिकाय च ‘भद्रं’ कल्याणं ‘प्रासावीत्’ प्रायच्छत्, ‘सविता’ सर्वस्य प्रेरयिता ‘वरेण्यः’ सर्वैर्वरणीयः, सः ‘नाकं’ नास्मिन् अकं दुःखमस्तीति नाकं स्वर्गम् ‘व्यख्यत्’ प्रकाशयति, अन्तरिक्षे धृतत्वात् । तादृशो ऽग्निः ‘उषसः’ ‘प्रयाणम्’ ‘अनु विराजति’ प्रत्यहं दीप्यत इत्यर्थः ॥

अयमर्थो ब्राह्मणेन अग्नेः सवितुश्च अभेदं विवक्षित्वा स्पष्टं व्याख्यातः- असौ वा आदित्यः कविर्विश्वा रूपेति । ऊर्ध्वाधोदिग्भिरुपेताश्चतस्रो दिशः ‘शिक्यम्’ इत्यभिप्रायः । कृत्स्नस्य प्राणिनो भद्रप्रसवः उषोदयेन भवतीति प्रसिद्धमिति दर्शयति- उषा वा अग्रे व्युच्छति, तस्या एष व्युष्टिं विराजन्ननूदेतीति । ‘विराजन्नेष व्युष्टिमनूदेति’ इति सम्बन्धः ॥ ४ ॥

Eggeling
  1. He then puts round his (neck) the sling of the netting, with (Vāj. S. XII, 3; R̥k S. V, 81, 2), ‘The wise putteth on all forms,’–the wise one, doubtless, is yonder sun, and the netting is all forms;–‘he hath brought forth what is good for the two-footed and four-footed,’–for in rising he does bring forth what is good for the two-footed and four-footed;–’the adorable Savitr̥ hath glanced over the firmament,’–the firmament, doubtless, is the heaven, and even in rising he looks along it;–‘he flasheth forth after the starting 8 of the Dawn,’–for the Dawn shines forth first, and after her shining forth he (the sun) follows, flashing forth.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनम᳘तो व्वि᳘कृत्या व्वि᳘करोति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तं व्वि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तं व्वि᳘क्रियते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनम᳘तो व्वि᳘कृत्या व्वि᳘करोति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तं व्वि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तं व्वि᳘क्रियते॥

मूलम् - Weber

अ᳘थैनम᳘तो वि᳘कृत्या वि᳘करोति॥
इद᳘मेॗवैतद्रे᳘तः सिक्तं वि᳘करोति त᳘स्माद्यौ᳘नौ रे᳘तः सिक्तं वि᳘क्रियते॥

मूलम् - विस्वरम्

अथैनमतो विकृत्या विकरोति । इदमेवैतद्रेतः सिक्तं विकरोति । तस्माद्योनौ रेतः सिक्तं विक्रियते ॥ ५ ॥

सायणः

अथैनमतो विकृत्या 9 विकरोतीति । “सुपर्णो ऽसीत्ययं” मन्त्रो विकृतिरुच्यते, अग्नेः पक्षपुच्छादिमत्सुपर्णरूपेण तत्र विकारप्रतिपादनात् । ‘एनम्’ अग्निम् ‘अतः’ अस्मात् पूर्वावस्थितात् सन्निवेशात् । विकारप्रतिपादकमन्त्रेणाभिमन्त्रणमेवात्र विकरणम् । तेनेदमेवोखायां सिक्तमग्न्याख्यं रेतो विकारयुक्तं कृतवान् भवति । उक्तमर्थमिदानीन्तनरेतोविकारप्रसिद्ध्या द्रढयति- तस्माद् योनाविति ॥ ५ ॥

Eggeling
  1. By means of the fashioning (formula) he then fashions him out of that (matter): he thereby

fashions that infused seed, whence the seed infused into the womb is fashioned.

०६

विश्वास-प्रस्तुतिः

सुप᳘र्णो ऽसि गरु᳘त्मानि᳘ति॥
व्वी᳘र्यं[[!!]] वै᳘ सुपर्णो᳘ गरु᳘त्मान्वीर्य᳘मे᳘वैनमेत᳘दभिसं᳘स्करोति त्रिव्वृ᳘त्ते शि᳘र ऽइ᳘ति त्रिव्वृ᳘तमस्य स्तो᳘मᳫँ᳭ शि᳘रः करोति गायत्रं च᳘क्षुरि᳘ति गायत्रं च᳘क्षुः करोति बृहद्रथन्तरे᳘ पक्षावि᳘ति बृहद्रथन्तरे᳘ पक्षौ᳘ क᳘रोति स्तो᳘म ऽआत्मे᳘ति स्तो᳘ममात्मा᳘नं करोति पञ्चविᳫँ᳭शं छ᳘न्दाᳫँ᳭स्य᳘ङ्गानी᳘ति च्छ᳘न्दाᳫँ᳭सि वा᳘ ऽएतस्या᳘ङ्गानि य᳘जूᳫँ᳭षि नामे᳘ति य᳘देनमग्निरि᳘त्याच᳘क्षते त᳘दस्य य᳘जूᳫँ᳭षि ना᳘म सा᳘म ते तनू᳘र्व्वामदेव्यमि᳘त्यात्मा वै᳘ तनू᳘रात्मा᳘ ते तनू᳘र्व्वामदेव्यमि᳘त्येत᳘द्यज्ञायज्ञि᳘यं पु᳘च्छमि᳘ति यज्ञायज्ञि᳘यं पु᳘च्छं करोति धि᳘ष्ण्याः शफा ऽइ᳘ति धि᳘ष्ण्यैर्व्वा᳘ ऽए᳘षो ऽस्मिल्ँ᳘लोके प्र᳘तिष्ठितः सुप᳘र्णो ऽसि गरु᳘त्मान्दि᳘वं गच्छ᳘ स्वः[[!!]] पते᳘ति त᳘देनᳫँ᳭ सुपर्णं᳘ गरु᳘त्मन्तं कृ᳘त्वा ऽऽह देवा᳘न्गच्छ स्वर्गं᳘ लोकं᳘ पते᳘ति॥

मूलम् - श्रीधरादि

सुप᳘र्णो ऽसि गरु᳘त्मानि᳘ति॥
व्वी᳘र्यं[[!!]] वै᳘ सुपर्णो᳘ गरु᳘त्मान्वीर्य᳘मे᳘वैनमेत᳘दभिसं᳘स्करोति त्रिव्वृ᳘त्ते शि᳘र ऽइ᳘ति त्रिव्वृ᳘तमस्य स्तो᳘मᳫँ᳭ शि᳘रः करोति गायत्रं च᳘क्षुरि᳘ति गायत्रं च᳘क्षुः करोति बृहद्रथन्तरे᳘ पक्षावि᳘ति बृहद्रथन्तरे᳘ पक्षौ᳘ क᳘रोति स्तो᳘म ऽआत्मे᳘ति स्तो᳘ममात्मा᳘नं करोति पञ्चविᳫँ᳭शं छ᳘न्दाᳫँ᳭स्य᳘ङ्गानी᳘ति च्छ᳘न्दाᳫँ᳭सि वा᳘ ऽएतस्या᳘ङ्गानि य᳘जूᳫँ᳭षि नामे᳘ति य᳘देनमग्निरि᳘त्याच᳘क्षते त᳘दस्य य᳘जूᳫँ᳭षि ना᳘म सा᳘म ते तनू᳘र्व्वामदेव्यमि᳘त्यात्मा वै᳘ तनू᳘रात्मा᳘ ते तनू᳘र्व्वामदेव्यमि᳘त्येत᳘द्यज्ञायज्ञि᳘यं पु᳘च्छमि᳘ति यज्ञायज्ञि᳘यं पु᳘च्छं करोति धि᳘ष्ण्याः शफा ऽइ᳘ति धि᳘ष्ण्यैर्व्वा᳘ ऽए᳘षो ऽस्मिल्ँ᳘लोके प्र᳘तिष्ठितः सुप᳘र्णो ऽसि गरु᳘त्मान्दि᳘वं गच्छ᳘ स्वः[[!!]] पते᳘ति त᳘देनᳫँ᳭ सुपर्णं᳘ गरु᳘त्मन्तं कृ᳘त्वा ऽऽह देवा᳘न्गच्छ स्वर्गं᳘ लोकं᳘ पते᳘ति॥

मूलम् - Weber

सुप᳘र्णो ऽसि गरु᳘त्मानि᳘ति॥
वीर्यं᳘ वै᳘ सुपर्णो᳘ गरु᳘त्मान्वीर्य᳘मेॗवैनमेत᳘दभिस᳘ᳫं᳘स्करोति त्रिवृ᳘त्ते शि᳘र इ᳘ति त्रिवृ᳘तमस्य स्तो᳘मं शिरः करोति गायत्रं च᳘क्षुरि᳘ति गायत्रं च᳘क्षुः करोति बृहद्रथन्तरे᳘ पक्षावि᳘ति बृहद्रथन्तरे᳘ पक्षौ᳘ करोति स्तो᳘म आत्मे᳘ति स्तो᳘ममात्मा᳘नं करोति पञ्चविंशं छ᳘न्दांस्य᳘ङ्गानी᳘ति छ᳘न्दांसि वा᳘ एतस्या᳘ङ्गानि य᳘जूंषि नामे᳘ति य᳘देनमग्निरि᳘त्याच᳘क्षते त᳘दस्य य᳘जूंषि ना᳘म सा᳘म ते तनू᳘र्वामदेव्यमि᳘त्यात्मा वै᳘ तनू᳘रात्मा᳘ ते तनू᳘र्वामदेव्यमि᳘त्येत᳘द्यज्ञायज्ञि᳘यम् पु᳘छमि᳘ति यज्ञायज्ञि᳘यम् पु᳘छं करोति धि᳘ष्ण्याः शफा इ᳘ति धि᳘ष्णयिर्वा᳘ एॗषो ऽस्मिं᳘लोके प्र᳘तिष्ठितः सुपॗर्णो ऽसि गरु᳘त्मान्दि᳘वं गछ स्वः᳘ पते᳘ति त᳘देनᳫं सुपर्णं᳘ गरु᳘त्मन्तं कृॗत्वाह देवा᳘न्गछ स्वर्गं᳘ लोक᳘म् पते᳘ति॥

मूलम् - विस्वरम्

“सुपर्णो ऽसि गरुत्मान्”- इति । वीर्यं वै सुपर्णो गरुत्मान् वीर्यमेवैनमेतदभिसंस्करोति । “त्रिवृत्ते शिरः”- इति । त्रिवृतमस्य स्तोमं शिरः करोति । “गायत्रं चक्षुः”- इति । गायत्रं चक्षुः करोति । “बृहद्रथन्तरे पक्षी”- इति । बृहद्रथन्तरे पक्षौ करोति । “स्तोम आत्मा”- इति । स्तोममात्मानं करोति पञ्चविंशम् । “छन्दांस्यङ्गानि”- इति । छन्दांसि वा ऽएतस्याङ्गानि । “यजूंषि नाम”- इति । यदेनमग्निरित्याचक्षते तदस्य यजूंषि नाम । “साम ते तनूर्वामदेव्यम्”- इति । आत्मा वै तनूः । आत्मा ते तनूर्वामदेव्यमित्येतत् । “यज्ञायज्ञियं पुच्छम्”- इति । यज्ञायज्ञियं पुच्छं करोति । “धिष्ण्याः शफः”- इति । धिष्ण्यैर्वा ऽएषो ऽस्मिंल्लोके प्रतिष्ठितः । “सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत"- (वा. सं. १२ । ४) इति । तदेनं सुपर्णं गरुत्मन्तं कृत्वा ऽऽह- देवान् गच्छ, स्वर्गं लोकं पतेति ॥ ६ ॥

सायणः

विकारमन्त्रमुक्त्वा विभज्य व्याचष्टे- सुपर्णो ऽसि गरुत्मानिति वीर्यं वै सुपर्णो गरुत्मानित्यादिना । मन्त्रस्यायमर्थः- हे अग्ने ! त्वं गरुत्मान् प्रबलपक्षोपेतः सुपर्णाख्यः पक्षी असि । यज्ञ एव पक्ष्यात्मनोच्यते । तथाभूतस्य ‘ते’ ‘त्रिवृत्’ स्तोमः ‘शिरः’ मस्तकम्; आदौ स्तूयमानत्वेन मुख्यत्वात् । गायत्र्या शंसितं ‘ते’ ‘चक्षुः’ । ‘बृहद्रथन्तरे’ बृहद्रथन्तराख्ये (सा. छ. ३ । १ । ५ । १ ऋ. आ. २१ । २१ सा. र.) सामनी ‘ते’ ‘पक्षौ’ सकलयागनिर्वाहकत्वात् तयोः । महाव्रतस्तोत्रवदस्यापि पञ्चविंशः ‘स्तोमः’ (तै. ब्रा. १ । ३ । ६ सा. भा.) ‘आत्मा’ । ‘छन्दांसि’ गायत्र्यादीनि ‘ते’ ‘अङ्गानि’ । ‘यजूंषि’ शुक्लकृष्णाख्यानि, प्रश्लिष्टवाक्यानि, तत्रत्यः अग्निशब्दः ‘ते’ ‘नाम’ आख्या । ‘वामदेव्यम्’ “कया नश्चित्र आ भुवत्” इत्यस्यामुत्पन्नं ‘साम’ (सा. छ. २ । २ । ३ । ५ ऋ. सं. ५ । १ । २५ । साम. वा. सं. २७ । ३९-४१) ‘तनूः’ शरीरम् । ‘यज्ञायज्ञियम्’ “यज्ञायज्ञा वो अग्नये”- इत्यस्यामुत्पन्नं ‘साम’ (सा. छ. १ । १ । ४ । १ । ऋ. गे. १ । २ । २५ साम. वा. सं. २७ । ४२-४४) ‘ते’ ‘पुच्छम्’ अन्त्यत्वसाम्यात् । ‘धिष्ण्याः’ तत्तदायतनस्था अग्नयः ‘शफाः’ प्रतिष्ठासाधनावयवाः । एवंविधः सुपर्णः सुपतनः गरुत्मान् असि । अतस्त्वं ‘दिवं गच्छ’ द्युलोकं गच्छ । तदेव विशिनष्टि- ‘स्वः पत’ इति ॥

सुपर्णो ऽसीति मन्त्रभागपाठस्य प्रयोजनमाह- वीर्यमेवैनमिति । सुपर्णात्मना भावनया तस्य वीर्यमेवाभिसंस्कृतवान् भवति । त्रिवृदादयः शब्दा मन्त्रव्याख्यानावसरे एव व्याख्याताः । सुगममन्यत् ॥

यजुषां कथमग्नेर्नामधेयत्वमित्याशङ्क्य तद् व्याचष्टे- यजूंषि नामेति । यदेनमग्निरित्याचक्षत इति । यः सर्वैरुध्यमानो ऽग्निरिति शब्दो ऽस्ति, तस्यापि यजुरन्तःपातित्वाद् यजुष्ट्वम् । ‘तत्’ तत एव । नाम्न एकस्यापि बहुषु प्रदेशेषु आम्नानाद् यजूंषीति बहुवचनम् । दिवमित्यनेन तत्रस्था देवा विवक्षिता इति व्याचष्टे- देवान् गच्छेति । तद् एनं सुपर्णं गरुत्मन्तं कृत्वा आहेति मन्त्रशेषः । किमाह ? देवान् गच्छेत्याद्यर्थमाहेति । अथवा मन्त्रोच्चारयिता सुपर्णो ऽसीत्यादिना ‘एनम्’ अग्निं ‘सुपर्णं गरुत्मन्तं कृत्वा’ ‘आह’ ब्रूते । किमिति ? ‘देवान् गच्छ’ इति ॥ ६ ॥

Eggeling
  1. [Vāj. S. XII, 4] ‘A well-winged bird thou art!’–the well-winged bird means vigour: he thus forms him so as to be (endowed with) vigour;–’the Trivr̥t is thy head,’–he thus makes the Trivr̥t stoma (nine-versed hymn) his head;–’the Gāyatra thine eye,’–he thus makes the Gāyatrī metre his eye;–’the Br̥hat and Rathantara thy wings,’–he thus makes the Br̥hat and Rathantara (hymn-tunes) his wings;–’the hymn is the self,’–the Pañcaviṁśa stoma (twenty-five-versed hymn) he makes the self (soul, or body);–’the metres the limbs,’–for the metres are indeed his (Agni’s) limbs;–’the prayers his name,’–the prayers (yajus) are his name ‘Agni’ by which they call him,–’the Vāmadevya sāman is thy body,’–the body, doubtless, is the self: thus ’the Vāmadevya (hymn-tune) is thy body, thy self; ’the Yajñāyajñiya thy tail,’–he thus makes the Yajñāyajñiya 10 his tail;–’the hearths thy hoofs,’–by means of the hearths he (Agni) is indeed established in this world;–’thou art a well-winged bird: go to the heaven! fly to the light!’–thus having made him a well-winged 11, bird he says, ‘Go to the gods! fly to the heavenly world!

०७

विश्वास-प्रस्तुतिः

तं वा᳘ ऽएतम्[[!!]]॥
(म᳘) अ᳘त्र पक्षपुच्छ᳘वन्तं व्वि᳘करोति यादृग्वै यो᳘नौ रे᳘तो व्विक्रिय᳘ते तादृ᳘ग्जायते तद्य᳘देतम᳘त्र पक्षपुच्छ᳘वन्तं व्विकरो᳘ति त᳘स्मादे᳘षो ऽमु᳘त्र पक्षपुच्छ᳘वाञ्जयते॥

मूलम् - श्रीधरादि

तं वा᳘ ऽएतम्[[!!]]॥
(म᳘) अ᳘त्र पक्षपुच्छ᳘वन्तं व्वि᳘करोति यादृग्वै यो᳘नौ रे᳘तो व्विक्रिय᳘ते तादृ᳘ग्जायते तद्य᳘देतम᳘त्र पक्षपुच्छ᳘वन्तं व्विकरो᳘ति त᳘स्मादे᳘षो ऽमु᳘त्र पक्षपुच्छ᳘वाञ्जयते॥

मूलम् - Weber

तं वा᳘ एत᳘म्॥
अ᳘त्र पक्षपुछ᳘वन्तं वि᳘करोति यादृग्वै यो᳘नौ रे᳘तो विक्रिय᳘ते तादृ᳘ग्जायते तद्य᳘देतम᳘त्र पक्षपुछ᳘वन्तं विकरो᳘ति त᳘स्मादेॗषो ऽमु᳘त्र पक्षपुछ᳘वान्जायते॥

मूलम् - विस्वरम्

तं वा ऽएतमत्र पक्षपुच्छवन्तं विकरोति । यादृग् वै योनौ रेतो विक्रियते- तादृग् जायते । तद् यदेतमत्र पक्षपुच्छवन्तं विकरोति- तस्मादेषो ऽमुत्र पक्षपुच्छवान् जायते ॥ ७ ॥

सायणः

उक्तं विकारं पक्षपुच्छाद्यात्मकं भाविनो ऽग्निजननस्य उपयोगितया प्रशंसितुमनुवदति- तं वा एतमिति । वक्ष्यमाणोपयोगिनं लोकन्यायं दर्शयति- यादृग् वै योनाविति । यादृग्विधं सिच्यते, तादृग् जायते इति लोकमर्यादा । ‘यद्’ यस्मात् ‘पक्षपुच्छवन्तं’ विकरोति ‘अत्र’ उखाधारणसमये । ‘तस्मात्’ ‘एषः’ अग्निः ‘अमुत्र’ आहवनीयदेशे चयनानन्तरं तादृगेव ‘जायते’ चयनेन सुपर्णाकार एव जायत इत्यर्थः । अनेनाभिमन्त्रणचयनयोर्वैसादृश्याभाव उक्तः ॥ ७ ॥

Eggeling
  1. He fashions him here (in the pan or womb) into (a bird) with wings and tail; for whatlike the seed is fashioned in the womb, suchlike it is born; and because he here fashions him as (a bird) with

wings and tail, therefore he is hereafter born with wings and tail.

०८

विश्वास-प्रस्तुतिः

तᳫँ᳭ है᳘के॥
(क ऽ) एत᳘या व्वि᳘कृत्या ऽभिम᳘न्त्र्यान्यां चि᳘तिं चिन्वन्ति द्रोणचि᳘तं वा रथचक्रचि᳘तं वा कङ्कचि᳘तं वा प्रउगचि᳘तं वोभय᳘तःप्र᳘उगं वा समु᳘ह्यपुरीषं वा न त᳘था कुर्याद्य᳘था पक्षपुच्छ᳘वन्तं ग᳘र्भं परिवृश्चे᳘त्तादृक्तत्त᳘स्मादेनᳫँ᳭ सुपर्णचि᳘तमेव᳘ चिनुयात्॥

मूलम् - श्रीधरादि

तᳫँ᳭ है᳘के॥
(क ऽ) एत᳘या व्वि᳘कृत्या ऽभिम᳘न्त्र्यान्यां चि᳘तिं चिन्वन्ति द्रोणचि᳘तं वा रथचक्रचि᳘तं वा कङ्कचि᳘तं वा प्रउगचि᳘तं वोभय᳘तःप्र᳘उगं वा समु᳘ह्यपुरीषं वा न त᳘था कुर्याद्य᳘था पक्षपुच्छ᳘वन्तं ग᳘र्भं परिवृश्चे᳘त्तादृक्तत्त᳘स्मादेनᳫँ᳭ सुपर्णचि᳘तमेव᳘ चिनुयात्॥

मूलम् - Weber

तᳫं है᳘के॥
एत᳘या वि᳘कृत्याभिम᳘न्त्र्यान्यां चि᳘तिं चिन्वन्ति द्रोणचि᳘तं वा रथचक्रचि᳘तं वा कङ्कचि᳘तं वा प्रौगचि᳘तं वोभय᳘तः प्र᳘उगं 12 वा समु᳘ह्यपुरीषं वा न त᳘था कुर्याद्य᳘था पक्षपुछ᳘वन्तं ग᳘र्भम् परिवृश्चे᳘त्तादृक्तत्त᳘स्मादेनᳫं सुपर्णचि᳘तमेव᳘ चिनुयात्॥

मूलम् - विस्वरम्

तं हैके एतया विकृत्या ऽभिमन्त्र्यान्यां चितिं चिन्वन्ति- द्रोणाचितं वा, रथचक्रचितं वा, कङ्कचितं वा, प्रउगचितं वा, उभयतःप्रउगं वा, समुह्यपुरीषं वा । न तथा कुर्यात् । यथा पक्षपुच्छवन्तं गर्भं परिवृश्चेत्- तादृक्तत् । तस्मादेनं सुपर्णचितमेव चिनुयात् ॥ ८ ॥

सायणः

प्रसङ्गात् केषाञ्चित् पक्षमुदाहृत्य निराचष्टे- तं हैक एतया विकृत्या ऽभिमन्त्र्यान्यां चितिमित्यादिना । ‘एतया’ सुपर्णो ऽसीत्याद्युक्तरूपया । ‘अन्याम्’ इत्यस्य विवरणम्- “द्रोणचितम्” 13 इत्यादिकम् । द्रोणादयो ऽग्नेरेवाकाराः । समुह्यपुरीषं वेति । प्रतिदिशं पुरीषमाहृत्याहृत्य, तेनैव चयनं ‘समुह्यपुरीषाख्या’ चितिः । इतराः स्पष्टाः । निषेधोपयोगसिद्धये निषेध्यस्य प्रतिकूलतामाह- यथा पक्षपुच्छवन्तं गर्भं परिवृश्चेत्, तादृक् तदिति । स्वपक्षमुपसंहरति- तस्मादेनं सुपर्णचितमेवेति ॥ ८ ॥

Eggeling
  1. Now some, after addressing him by that fashioning (formula), build a different altar (than of an eagle’s shape), either one constructed in the form of a trough 14, or like a chariot-wheel, or like a kite, or like the front part of a thill, or like a thill on both sides, or one consisting of a heap of loose soil 15. Let him not do so, (but) in such wise as one might carve a young one with wings and tail: let him therefore build it (the fire-altar) in the form of an eagle.

०९

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘मेत᳘या व्वि᳘कृत्या॥
(त्ये) इत᳘ ऽऊर्ध्वं प्रा᳘ञ्चं प्र᳘गृह्णात्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ ऽइत᳘ ऽऊर्ध्वः प्रा᳘ङ् धीयते परोबाहु प्र᳘गृह्णाति परोबाहु᳘ ह्येष᳘ ऽइतो᳘ ऽथैनमुपा᳘वहरति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘मेत᳘या व्वि᳘कृत्या॥
(त्ये) इत᳘ ऽऊर्ध्वं प्रा᳘ञ्चं प्र᳘गृह्णात्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ ऽइत᳘ ऽऊर्ध्वः प्रा᳘ङ् धीयते परोबाहु प्र᳘गृह्णाति परोबाहु᳘ ह्येष᳘ ऽइतो᳘ ऽथैनमुपा᳘वहरति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

त᳘मेत᳘या वि᳘कृत्या॥
इत᳘ ऊर्ध्वम् प्रा᳘ञ्चम् प्र᳘गृह्णात्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऊर्ध्वम् प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य इत᳘ ऊर्ध्वः प्रा᳘ङ् धीयते परोबाहु प्र᳘गृह्णाति परोबाहुॗ ह्येष᳘ इतो᳘ ऽथैनमुपा᳘वहरति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

तमेतया विकृत्या, इत ऊर्द्ध्वं प्राञ्चं प्रगृह्णाति । असौ वा ऽआदित्य एषो ऽग्निः । अमुं तदादित्यमित ऊर्द्ध्वं प्राञ्चं दधाति । तस्मादसावादित्य इत ऊर्द्ध्वः प्राङ् धीयते । परोबाहु प्रगृह्णाति । परोबाहु ह्येष इतः । अथैनमुपावहरति । तमुपावहृत्योपरिनाभि धारयति । तस्योक्तो बन्धुः ॥ ९ ॥

सायणः

यदुक्तं सूत्रकृता- “सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णो ऽसीति पिण्डवद् धारणं चेति"- (का. श्रौ. सू. १६ । १५२ । १५३) इति । च- शब्दो ऽवधारणमिति पिण्डवदेव; उखार्थं मृत्पिण्डधारणं यद्वत्, तद्वदित्यर्थः । तदिदं विधत्ते- तमेतया विकृत्येत ऊर्द्ध्वं प्राञ्चं प्रगृह्णातीति । ‘इतः’ अस्मात् धृतप्रदेशात् ‘प्राञ्चं’ प्राङ्मुखं सूर्यस्याग्नेश्च यथा मध्ये व्यवधानं न भवति, तथेत्यर्थः । एतत् प्रशंसति- असौ वा आदित्य एषो ऽग्निरिति । अग्नेरादित्यात्मकत्वं प्रागुक्तम् । आदित्यस्य प्रागूर्द्ध्वगतिप्रसिद्ध्या उक्तार्थमुपोद्बलयति- तस्मादसावादित्य इति । प्रग्रहणे प्रकारविशेषमाह- परोबाहु प्रगृह्णातीति । बाह्वोः ‘परः’ ऊर्द्ध्ववर्त्ती यथा भवति तथेत्यर्थः । ‘एषः’ आदित्यः ‘इतः’ अस्मात् भूस्थानात् ‘परोबाहु’; सर्वेषां बाहोरूर्ध्वप्रदेशवर्तित्वात् तदभिन्नस्याप्यस्य तथा ग्रहणं युक्तमित्यर्थः । बाह्वोरुपरिघृतस्याग्नेः प्रत्यवरोहणम्, तदनन्तरम् नाभेरुपरि प्रदेशे धारणं च विधत्ते- अथैनमुपावहरतीति । तस्योक्तो बन्धुरिति । उपरिनाभिधारणार्थवाद उक्तो रुक्मधारणप्रस्तावे (श. प. ६ । ७ । १ कं. ११) इत्यर्थः ॥ ९ ॥

Eggeling
  1. With that fashioning (formula) he holds him high up from thence towards east 16; for he, Agni, is yonder sun: he thus places yonder sun high up from here in the east; and hence yonder sun is placed high up from here in the east. He holds him up so as to be beyond the reach of the arms, for he (the sun) is beyond the reach of the arms from here. He then lowers him, and, having lowered him, he holds him above the navel: the significance of this has been explained 17.

१०

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ व्विष्णुक्रमा᳘न्क्रमते॥
(त ऽ) एतद्वै᳘ देवा व्वि᳘ष्णुर्भू᳘त्वेमाल्ँ᳘लोका᳘नक्रमन्त यद्वि᳘ष्णुर्भूत्वा᳘ ऽक्रमन्त त᳘स्माद्विष्णुक्रमास्त᳘थै᳘वैतद्य᳘जमानो व्वि᳘ष्णुर्भू᳘त्वेमाल्ँ᳘लोका᳘न्क्रमते॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ व्विष्णुक्रमा᳘न्क्रमते॥
(त ऽ) एतद्वै᳘ देवा व्वि᳘ष्णुर्भू᳘त्वेमाल्ँ᳘लोका᳘नक्रमन्त यद्वि᳘ष्णुर्भूत्वा᳘ ऽक्रमन्त त᳘स्माद्विष्णुक्रमास्त᳘थै᳘वैतद्य᳘जमानो व्वि᳘ष्णुर्भू᳘त्वेमाल्ँ᳘लोका᳘न्क्रमते॥

मूलम् - Weber

अ᳘थ विष्णुक्रमा᳘न्क्रमते॥
एतद्वै᳘ देवा वि᳘ष्णुर्भूॗत्वेमां᳘लोका᳘नक्रमन्त यद्वि᳘ष्णुर्भूत्वा᳘क्रमन्त त᳘स्माद्विष्णुक्रमास्त᳘थैॗवैतद्य᳘जमानो वि᳘ष्णुर्भूॗत्वेमां᳘लोका᳘न्क्रमते॥

मूलम् - विस्वरम्

अथ विष्णुक्रमान् क्रमते । एतद्वै देवा विष्णुर्भूत्वेमाल्ँ लोकानक्रमन्त । यद्विष्णुर्भूत्वा ऽक्रमन्त- तस्माद् विष्णुक्रमाः । तथैवैतद्यजमानो विष्णुर्भूत्वेमांल्लोकान् क्रमते ॥ १० ॥

सायणः

अथ विष्णुक्रमक्रमणं विधाय, तन्निर्वचनद्वारेण प्रशंसति- अथ विष्णुक्रमानिति 18 । विष्णुभूतैर्देवैः क्रान्तत्वाद् विष्णुक्रम इति नाम सम्पन्नम् । यथा देवैस्तथैव ‘एतत्’ एतेन समन्त्रकपादाक्रमणेन ‘इमान् लोकान्’ विष्णुर्भूत्वा क्रान्तवान् भवति यजमानः ॥ १० ॥

Eggeling
  1. He then strides the Vishṇu-strides 19. For the gods, in the form of Vishṇu (the sun), then strode through these worlds; and inasmuch as, in the form of Vishṇu, they thus strode, they are called the Vishṇu-strides: in like manner does the Sacrificer,

in the form of Vishṇu, now stride through these worlds.

११

विश्वास-प्रस्तुतिः

स यः स व्वि᳘ष्णुर्यज्ञः सः[[!!]]॥
स यः स᳘ य᳘ज्ञो ऽय᳘मेव स᳘ यो ऽय᳘मग्नि᳘रुखा᳘यामेत᳘मेव त᳘द्देवा᳘ ऽआत्मा᳘नं कृ᳘त्वेमाल्ँ᳘लोका᳘नक्रमन्त त᳘थै᳘वैतद्य᳘जमान ऽएत᳘मे᳘वात्मा᳘नं कृ᳘त्वेमाल्ँ᳘लोका᳘न्क्रमते॥

मूलम् - श्रीधरादि

स यः स व्वि᳘ष्णुर्यज्ञः सः[[!!]]॥
स यः स᳘ य᳘ज्ञो ऽय᳘मेव स᳘ यो ऽय᳘मग्नि᳘रुखा᳘यामेत᳘मेव त᳘द्देवा᳘ ऽआत्मा᳘नं कृ᳘त्वेमाल्ँ᳘लोका᳘नक्रमन्त त᳘थै᳘वैतद्य᳘जमान ऽएत᳘मे᳘वात्मा᳘नं कृ᳘त्वेमाल्ँ᳘लोका᳘न्क्रमते॥

मूलम् - Weber

स यः स वि᳘ष्णुर्यज्ञः सः᳟॥
स यः स᳘ यॗज्ञो ऽय᳘मेव सॗ यो ऽय᳘मग्नि᳘रुखा᳘यामेत᳘मेव त᳘द्देवा᳘ आत्मा᳘नं कृॗत्वेमां᳘लोका᳘नक्रमन्त त᳘थैॗवैतद्य᳘जमान एत᳘मेॗवात्मा᳘नं कृॗत्वेमां᳘लोका᳘न्क्रमते॥

मूलम् - विस्वरम्

स यः स विष्णुः यज्ञः सः । स यः स यज्ञः- अयमेव सः- यो ऽयमग्निरुखायाम् । एतमेव तद् देवा आत्मानं कृत्वेमांल्लोकानक्रमन्त । तथैवैतद्यजमान एतमेवात्मानं कृत्वेमांल्लोकान्क्रमते ॥ ११ ॥

सायणः

ननु मनुष्यस्य यजमानस्य कथं विष्णुभावेन आक्रमणं सङ्गच्छत इत्याशङ्क्याह- स य इति । ‘सः’ ‘यः’ प्रसिद्धः ‘विष्णुः’ अस्ति, सः यज्ञः । पुनश्च ‘सः’ ‘यः’ प्रसिद्धो ‘यज्ञः’ अस्ति, ‘अयम् अग्निरेव’ । अयमिति कः ? यः ‘उखायां’ वर्त्तते, सो ऽग्निरेव विष्णुरित्यर्थः । प्रतिपादितस्य विष्णोः स्वरूपप्राप्तिं देवानां दर्शयति- एतमेव तद्देवा इति । तथैवैतद्यजमान इत्यादिकं स्पष्टम् । उखाग्निं धृत्वा क्रमणमेव विष्णुकमणमित्युक्तं भवति ॥ ११ ॥

Eggeling
  1. Now he who is Vishṇu is this sacrifice; and he who is this sacrifice is that same Agni in the ukhā (fire-pan): into that same (Agni) the gods changed themselves, and strode through these worlds; and in like manner the Sacrificer, having changed himself into that same (Agni), strides through these worlds.

१२

विश्वास-प्रस्तुतिः

(त ऽ) उ᳘दङ् प्राङ् ति᳘ष्ठन्॥
(न्ने) एतद्वै त᳘त्प्रजा᳘पतिर्व्विष्णुक्रमैरु᳘दङ् प्राङ् ति᳘ष्ठन्प्रजा᳘ ऽअसृजत त᳘थैवैतद्य᳘जमानो व्विष्णुक्रमैरु᳘दङ्प्राङ्ति᳘ष्ठन् प्रजाः᳘ सृजते॥

मूलम् - श्रीधरादि

(त ऽ) उ᳘दङ् प्राङ् ति᳘ष्ठन्॥
(न्ने) एतद्वै त᳘त्प्रजा᳘पतिर्व्विष्णुक्रमैरु᳘दङ् प्राङ् ति᳘ष्ठन्प्रजा᳘ ऽअसृजत त᳘थैवैतद्य᳘जमानो व्विष्णुक्रमैरु᳘दङ्प्राङ्ति᳘ष्ठन् प्रजाः᳘ सृजते॥

मूलम् - Weber

उ᳘दङ् प्राङ् ति᳘ष्ठन्॥
एतद्वै त᳘त्प्रजा᳘पतिर्विष्णुक्रमैरु᳘दङ् प्राङ् ति᳘ष्ठन्प्रजा᳘ असृजत त᳘थैवैतद्य᳘जमानो विष्णुक्रमैरु᳘दङ् ति᳘ष्ठन्प्रजाः᳘ सृजते॥

मूलम् - विस्वरम्

उदङ् प्राङ् तिष्ठन् । एतद्वै तत् प्रजापतिर्विष्णुक्रमैरुदङ् प्राङ्तिष्ठन् प्रजा असृजत । तथैवैतद्यजमानो विष्णुक्रमैरुदङ्प्राङ् तिष्ठन् प्रजाः सृजते ॥ १२ ॥

सायणः

क्रमणप्रकारं विधाय प्रशंसति- उदङ्प्राङित्यादिना 20 । अत्र लोकत्रयप्रतिनिधित्वेन त्रिवाराक्रमणम्, तस्य यो मन्त्राः, दिशो विक्रमार्थं 21 पादाक्रमणाभावे ऽपि एको मन्त्रः 22 ॥ १२ ॥

Eggeling
  1. Standing with his face towards north-east (he strides); for standing towards north-east Prajāpati created offspring by means of the Vishṇu-strides: in like manner does the Sacrificer now, standing towards north-east, create offspring by means of the Vishṇu-strides.

१३

विश्वास-प्रस्तुतिः

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि भूत्वा क्र᳘मते सपत्नहे᳘ति सप᳘त्नान्हा᳘त्र हन्ति गायत्रं छ᳘न्द ऽआ᳘रोहे᳘ति गायत्रं छ᳘न्द ऽआ᳘रोहति पृथिवीम᳘नु व्वि᳘क्रमस्वे᳘ति पृथिवीम᳘नु व्वि᳘क्रमते प्र᳘हरति पा᳘दं क्रमत ऽऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - श्रीधरादि

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि भूत्वा क्र᳘मते सपत्नहे᳘ति सप᳘त्नान्हा᳘त्र हन्ति गायत्रं छ᳘न्द ऽआ᳘रोहे᳘ति गायत्रं छ᳘न्द ऽआ᳘रोहति पृथिवीम᳘नु व्वि᳘क्रमस्वे᳘ति पृथिवीम᳘नु व्वि᳘क्रमते प्र᳘हरति पा᳘दं क्रमत ऽऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - Weber

वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
वि᳘ष्णुर्हि भूत्वा क्र᳘मते सपत्नहे᳘ति सप᳘त्नान्हा᳘त्र हन्ति गायत्रं छ᳘न्द आ᳘रोहे᳘ति गायत्रं छ᳘न्द आ᳘रोहति पृथिवीम᳘नु वि᳘क्रमस्वे᳘ति पृथिवीम᳘नु वि᳘क्रमते प्र᳘हरति पा᳘दं क्रमत ऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - विस्वरम्

“विष्णोः क्रमो ऽसि”- इति । विष्णुर्हि भूत्वा क्रमते । “सपत्नहा”- इति । सपत्नान् हात्र हन्ति । “गायत्रं छन्द आरोह”- इति । गायत्रं छन्द आरोहति । “पृथिवीमनु विक्रमस्व”- इति । पृथिवीमनु विक्रमते । प्रहरति पादं क्रमते, ऊर्द्ध्वम् अग्निमुद्गृह्णाति । ऊर्द्ध्वो हि रोहति ॥ १३ ॥

सायणः

तदेवं मन्त्रचतुष्टयं क्रमेण विधाय व्याचष्टे- विष्णोः क्रमो ऽसीति विष्णुर्हि भूत्वा क्रमत इत्यादिना । प्रथममन्त्रस्यायमर्थः- हे आक्रम्यमाण ! पादनिधानस्थान ! त्वं ‘विष्णोः क्रमो ऽसि’ मनुष्यस्य मम कीदृशस्त्वं ‘सपत्नेहा’ सपत्नानां हन्ता तथाविधस्त्वं गायत्रं छन्द आरोह आरूढः सन् ‘पृथिवीं’ भूलोकं सकलं ‘विक्रमस्व’ आक्रमणं कुरु । “विष्णोः क्रमो ऽसि” ‘इति’ एतत् प्रसिद्धमेवेति तद् दर्शयति- विष्णुर्हि भूत्वेति । ‘अत्र’ आक्रमणकाले ‘सपत्नान्’ शत्रून् ‘हन्ति’ हिनस्ति खलु; अतः ‘सपत्नहा’ इति विशेषणं युक्तम् । ‘गायत्रं छन्दः’- ‘पृथिवीमनु’- इत्येतयोर्ब्राह्मणं स्पष्टम् । क्रमणप्रकारमाह- प्रहरति पादमिति । पादं पुरोदेशं प्रति नयेत्, नीत्वा च ‘क्रमते’ पादं प्रक्षिपेत् । तदनन्तरम् ‘अग्निम्’ ‘ऊर्द्ध्वं’ नाभेरुपरिदेशं प्रति उद्गृह्णीयात्, ऊर्ध्वमुखं गृह्णीयात् । ‘हि’ यस्मात् ‘ऊर्द्ध्वः’ भूलोकादुपरि देशं प्रति ‘रोहति’ विष्णुक्रमणेन, अतो ऽग्नेरप्यूर्द्ध्वदेशप्रापणं युक्तमित्यर्थः ॥ १३ ॥

Eggeling
  1. [Vāj. S. XII, 5] ‘Thou art Vishṇu’s stride,’–for in the form of Vishṇu he strides; ’the slayer of foes;’–for he now slays his foes;–‘mount thou the Gāyatrī metre,’–the Gāyatrī metre he does mount,–‘stride along the earth!’–along the earth he indeed strides. He stretches forward his (right) foot and strides: he raises the fire upwards, for upwards he ascends.

१४

विश्वास-प्रस्तुतिः

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि भूत्वा क्र᳘मते ऽभिमातिहेत्यभि᳘मातीर्हा᳘त्र हन्ति त्रै᳘ष्टुभं छ᳘न्द ऽआ᳘रोहे᳘ति त्रै᳘ष्टुभं छ᳘न्द ऽआ᳘रोहत्यन्त᳘रिक्षम᳘नु व्वि᳘क्रमस्वे᳘त्यन्त᳘रिक्षम᳘नु व्वि᳘क्रमते प्र᳘हरति पा᳘दं क्रमत ऽऊर्ध्व᳘मग्निमुद्गृह्णात्यूर्ध्वो[[!!]] हि रो᳘हति॥

मूलम् - श्रीधरादि

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि भूत्वा क्र᳘मते ऽभिमातिहेत्यभि᳘मातीर्हा᳘त्र हन्ति त्रै᳘ष्टुभं छ᳘न्द ऽआ᳘रोहे᳘ति त्रै᳘ष्टुभं छ᳘न्द ऽआ᳘रोहत्यन्त᳘रिक्षम᳘नु व्वि᳘क्रमस्वे᳘त्यन्त᳘रिक्षम᳘नु व्वि᳘क्रमते प्र᳘हरति पा᳘दं क्रमत ऽऊर्ध्व᳘मग्निमुद्गृह्णात्यूर्ध्वो[[!!]] हि रो᳘हति॥

मूलम् - Weber

वि᳘ष्णोः॥
क्र᳘मो ऽसी᳘ति वि᳘ष्णुर्हि भूत्वा क्र᳘मते ऽभिमातिहेत्यभि᳘मातीर्हा᳘त्र हन्ति त्रै᳘ष्टुभं छ᳘न्द आ᳘रोहे᳘ति त्रै᳘ष्टुभं छ᳘न्द आ᳘रोहत्यन्त᳘रिक्षम᳘नु वि᳘क्रमस्वे᳘त्यन्त᳘रिक्षम᳘नु वि᳘क्रमत प्र᳘हरति पा᳘दं क्रमत ऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - विस्वरम्

“विष्णोः क्रमो ऽसि"- इति । विष्णुर्हि भूत्वा क्रमते । “अभिमातिहा”- इति । अभिमातीर्हात्र हन्ति । “त्रैष्टुभं छन्द आरोह”- इति । त्रैष्टुभं छन्द आरोहति । “अन्तरिक्षमनु विक्रमस्व”- इति । अन्तरिक्षमनु विक्रमते । प्रहरति पादं क्रमते, ऊर्द्ध्वम् अग्निमुद्गृह्णाति । ऊर्द्ध्वो हि रोहति ॥ १४ ॥

सायणः

एवमुपरितनं मन्त्रब्राह्मणमपि व्याख्येयम् । ‘सपत्नहा’- इत्यस्य स्थाने क्रमेण ‘अभिमातिहा’- ‘अरातीयतो हन्ता-’ ‘शत्रूयतो हन्ता’ इति विशेषः । तथा गायत्रमित्यस्य स्थाने क्रमेण ‘त्रैष्टुभम्,’ ‘जागतम्,’ ‘आनुष्टुभम्’ इति विशेषः । एवम् ‘अन्तरिक्षं,’ ‘दिवं’ ‘दिशः’- इति च । इतरत् समानम् ॥ १४ ॥ १५ ॥

Eggeling
  1. ‘Thou art Vishṇu’s stride,’–for in the form of Vishṇu he strides;–’the slayer of plotters,’–for he now does slay the plotters;–‘mount thou the Trishṭubh metre!’–the Trishṭubh metre he does mount;–‘stride along the air!’–along the air he indeed strides. He stretches forward his foot and strides: he raises the fire (yet further) upwards, for upwards he ascends.

१५

विश्वास-प्रस्तुतिः

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि᳘ भूत्वा क्र᳘मते ऽरातीयतो᳘ हन्ते᳘त्यरातीयतो हा᳘त्र हन्ति जा᳘गतं छ᳘न्द ऽआ᳘रोहे᳘ति जा᳘गतं छ᳘न्द ऽआ᳘रोहति दि᳘वम᳘नु व्वि᳘क्रमस्वे᳘ति दि᳘वम᳘नु व्वि᳘क्रमते प्र᳘हरति पा᳘दं क्र᳘मत ऽऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - श्रीधरादि

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि᳘ भूत्वा क्र᳘मते ऽरातीयतो᳘ हन्ते᳘त्यरातीयतो हा᳘त्र हन्ति जा᳘गतं छ᳘न्द ऽआ᳘रोहे᳘ति जा᳘गतं छ᳘न्द ऽआ᳘रोहति दि᳘वम᳘नु व्वि᳘क्रमस्वे᳘ति दि᳘वम᳘नु व्वि᳘क्रमते प्र᳘हरति पा᳘दं क्र᳘मत ऽऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - Weber

वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
वि᳘ष्णुर्हि᳘ भूत्वा क्र᳘मते ऽरातीयतो᳘ हन्ते᳘त्यरातीयतो हा᳘त्र हन्ति जा᳘गतं छ᳘न्द आ᳘रोहे᳘ति जा᳘गतं छ᳘न्द आ᳘रोहति दि᳘वम᳘नु वि᳘क्रमस्वे᳘ति दि᳘वम᳘नु वि᳘क्रमते प्र᳘हरति पा᳘दं क्र᳘मत ऊर्ध्व᳘मग्निमु᳘द्गृह्णात्यूर्ध्वो हि रो᳘हति॥

मूलम् - विस्वरम्

“विष्णोः क्रमो ऽसि"- इति । विष्णुर्हि भूत्वा क्रमते । “अरातीयतो हन्ता”- इति । अरातीयतो हात्र हन्ति । “जागतं छन्द आरोह”- इति । जागतं छन्द आरोहति । “दिवमनु विक्रमस्व”- इति । दिवमनु विक्रमते । प्रहरति पादं क्रमते, ऊर्द्ध्वम् अग्निमुद्गृह्णाति । ऊर्द्ध्वो हि रोहति ॥ १५ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘Thou art Vishṇu’s stride,’–for in the form of Vishṇu he strides;–’the slayer of the evil-minded,’–for he now does slay the evil-minded;–

‘Mount the Jagatī metre!’–for the Jagatī metre he does mount;–‘stride along the sky!’–along the sky he indeed strides. He stretches his foot forward and strides: he raises the fire (yet further) upwards, for upwards he ascends.

१६

विश्वास-प्रस्तुतिः

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि᳘ भूत्वा क्र᳘मते शत्रूयतो᳘ हन्ते᳘ति शत्रूयतो हा᳘त्र हन्त्या᳘नुष्टुभं छ᳘न्द ऽआ᳘रोहेत्या᳘नुष्टुभं छ᳘न्द ऽआ᳘रोहति दिशो᳘ ऽनु व्वि᳘क्रमस्वे᳘ति स᳘र्व्वा दिशो᳘ ऽनु[[!!]] वीक्षते न प्र᳘हरति पा᳘दं ने᳘दिमाल्ँ᳘लोका᳘नतिप्रण᳘श्यानी᳘त्यूर्ध्व᳘मे᳘वाग्निमु᳘द्गृह्णाति[[!!]] स᳘ᳫँ᳘ ह्यारो᳘हति॥

मूलम् - श्रीधरादि

व्वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
व्वि᳘ष्णुर्हि᳘ भूत्वा क्र᳘मते शत्रूयतो᳘ हन्ते᳘ति शत्रूयतो हा᳘त्र हन्त्या᳘नुष्टुभं छ᳘न्द ऽआ᳘रोहेत्या᳘नुष्टुभं छ᳘न्द ऽआ᳘रोहति दिशो᳘ ऽनु व्वि᳘क्रमस्वे᳘ति स᳘र्व्वा दिशो᳘ ऽनु[[!!]] वीक्षते न प्र᳘हरति पा᳘दं ने᳘दिमाल्ँ᳘लोका᳘नतिप्रण᳘श्यानी᳘त्यूर्ध्व᳘मे᳘वाग्निमु᳘द्गृह्णाति[[!!]] स᳘ᳫँ᳘ ह्यारो᳘हति॥

मूलम् - Weber

वि᳘ष्णोः क्र᳘मो ऽसी᳘ति॥
वि᳘ष्णुर्हि᳘ भूत्वा क्र᳘मते शत्रूयतो᳘ हन्ते᳘ति शत्रुयतो हा᳘त्र हन्त्या᳘नुष्टुभं छ᳘न्द आ᳘रोहेत्या᳘नुष्टुभं छ᳘न्द आ᳘रोहति दिशो᳘ ऽनु वि᳘क्रमस्वे᳘ति स᳘र्वा दिशो᳘ ऽनुॗ वीक्षते न प्र᳘हरति पा᳘दं ने᳘दिमां᳘लोका᳘नतिप्रण᳘श्यानी᳘त्यूर्ध्व᳘मेॗवाग्निमु᳘द्गृह्णातिॗ सᳫं ह्यारो᳘हति॥

मूलम् - विस्वरम्

“विष्णोः क्रमो ऽसि”- इति । विष्णुर्हि भूत्वा क्रमते । “शत्रूयतो हन्ता”- इति । शत्रूयतो हात्र हन्ति । “आनुष्टुभं छन्द आरोह”- इति । आनुष्टुभं छन्द आरोहति । “दिशो ऽनु विक्रमस्व”- (वा. सं. १२ । ५) इति । सर्वा दिशो ऽनुवीक्षते । न प्रहरति पादम् । नेदिमांल्लोकानतिप्रणश्यानीति । ऊर्द्ध्वमेवाग्निमुद्गृह्णाति । सं ह्यारोहति ॥ १६ ॥

सायणः

दिग्विक्रमणे विशेषमाह- दिशो ऽनु विक्रमस्वेति । सर्वा दिशो ऽनुवीक्ष्य पादं न प्रहरेत् । पादप्रक्षेपाकरणस्य प्रयोजनमाह- नेदिमानिति । ‘नेत्’- इति परिभये; एतेषां त्रयाणां लोकानामतिक्रमः परिभयम्; अतस्त्वकर्त्तव्यमिति तस्याभिप्रायः । पादप्रहारवत् अग्नेरुद्ग्रहणस्यापि निवृत्तिप्रसक्तावाह- ऊर्द्ध्वमेवाग्निमिति । ‘एव’ शब्दो भिन्नक्रमः; उद्गृह्णात्येव । तत्र प्रयोजनं दर्शयति- सं ह्यारोहतीति । समारोहणसम्भवात् तत्प्रयोज्यमप्युद्ग्रहणं कर्त्तव्यमेवेत्यर्थः ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे सप्तमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-७-२) ॥

Eggeling
  1. ‘Thou art Vishṇu’s stride,’–for in the form of Vishṇu he strides;–’the slayer of the hostile,’–for he now does slay the hostile;–‘mount thou the Anushṭubh metre!’–the Anushṭubh metre he does mount;–‘stride along the quarters!’–he looks along the (four) quarters; he does not stretch forward his foot, thinking, ‘Lest I lose these worlds!’–He raises the fire right up, for he ascends completely (to the top).

  1. 272:1 The author now proceeds to give further particulars regarding the ceremonial details treated of in the preceding chapter (VI, 7, 1, 1 seq.). ↩︎

  2. 272:2 Literally, ‘seen’ or appearing (like).’ ↩︎

  3. 272:3 Rather ‘irresistible, difficult to bear (against);’ but the author connects ‘durmarsha’ with ‘mar,’ to die. ↩︎

  4. हरति द्यावाक्षामेति । का० श्रौ० सू० १६ । १४९ । ↩︎

  5. आहवनीयस्य पुरस्तादुद्गात्रा ऽऽसंदीवदासंद्यां चतुरस्रांग्याँ शिक्यवत्यां निदधाति देवा अग्निमिति । का० श्रौ ० सू० १६ । १५० । ↩︎

  6. 272:4 R̥k S. I, 96, 5, slightly different. ↩︎

  7. 273:1 That is to say, they are allied. ↩︎

  8. 273:2 Or, perhaps, after the precedence (example) of the Dawn. ↩︎

  9. सशिक्यं प्रांचं प्रगृह्णाति सुपर्णो ऽसीति पिण्डवत् । का. श्रौ. सू. । १६ । १५२ । ↩︎

  10. 274:1 The ordinary hymn-tune of the Agnishṭoma-sāman, the last and characteristic stotra of the simplest, or Agnishṭoma Soma-sacrifice. ↩︎

  11. 274:2 Or, the bird (or eagle, suparṇa) Garutmat. ↩︎

  12. उभय᳘तः प्र᳘उगं is double-accented! ↩︎

  13. एतया व्विकृत्या ऽभिमंत्र्यैके ऽन्यचितिं चिन्वंति द्रोणचिद्रथचक्रचित्कंकचित्प्रउगचिदुभयतःप्रउगः समुह्यपुरीष्य इति । का. श्रौ. सू. । १६ । १५४ । ↩︎

  14. 275:1 Sāyaṇa seems to make this a round vessel,–droṇaḥ parimaṇḍalanāma-(? lamāna)rūpaṁ droṇam iva cīyate dronacit. ↩︎

  15. 275:2 Samuhya samuhya purīshaṁ tenaiva kevalena ciyata iti samuhyapurīshaḥ, Sāy. ↩︎

  16. 275:3 As in the case of the lump of clay, VI, 4, 3, 10. ↩︎

  17. 275:4 VI, 7, 1, 8 seq. ↩︎

  18. विष्णुक्रमान् क्रमते व्विष्णोरिति प्रतिमंत्रमग्न्युद्ग्रभणं च तस्मिन् । का. श्रौ. सू. १६ । १५६ । ↩︎

  19. 275:5 Or the Vishṇu-steps, as the term, for a special reason, was translated at V, 4, 2, 6. ↩︎

  20. पिंडवत्प्रागुदंचं प्रगृह्णात्यक्रंददग्निरिति । का. श्रौ. सू. १६ । १५९ । ↩︎

  21. दिशो व्वीक्षते दिशो ऽनु विक्रमस्वेति । का० श्रौ० सू० १६ । १५८ । ↩︎

  22. अक्रमश्चतुर्थे । का० श्रौ०. सू० १६ । १५७ । ↩︎