०१

विश्वास-प्रस्तुतिः

रुक्मं᳘ प्रतिमु᳘च्य बिभर्त्ति॥
सत्य᳘ᳫँ᳘ हैतद्य᳘द्रुक्मः᳘ सत्यं वा᳘ ऽएतं य᳘न्तुमर्हति सत्ये᳘नैतं᳘ देवा᳘ ऽअबिभरुः सत्ये᳘नै᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - श्रीधरादि

रुक्मं᳘ प्रतिमु᳘च्य बिभर्त्ति॥
सत्य᳘ᳫँ᳘ हैतद्य᳘द्रुक्मः᳘ सत्यं वा᳘ ऽएतं य᳘न्तुमर्हति सत्ये᳘नैतं᳘ देवा᳘ ऽअबिभरुः सत्ये᳘नै᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - Weber

रुक्म᳘म् प्रतिमु᳘च्य बिभर्ति॥
सत्य᳘ᳫं᳘ हैतद्य᳘द्रुक्भः᳘ सत्यं वा᳘ एतं य᳘न्तुमर्हति सत्ये᳘नैतं᳘ देवा᳘ अबिभरुः सत्ये᳘नैॗवैनमेत᳘द्बिभर्ति॥

मूलम् - विस्वरम्

रुक्मं प्रतिमुच्य बिभर्त्ति । सत्यं हैतद्- यद्रुक्मः । सत्यं वा ऽएतं यन्तुमर्हति । सत्येनैतं देवा अबिभरुः । सत्येनैवैनमेतद्बिभर्त्ति ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्म्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

यदुक्तं कात्यायनेन- “यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्रकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म इति”- (का. श्रौ. सू. १६ । १४६) इति । तदिदं वक्तुमादौ रुक्मप्रतिमोकं विधत्ते- रुक्मं प्रतिमुच्य बिभर्तीति । यजमानो रुक्मं सुवर्णमयमाभरणं कण्ठे बध्वा उखां धारयेत् । विहितं रुक्मप्रतिमोचनपूर्वकं धारणं प्रशंसति- सत्यं हैतद् यद् रुक्म इति । अत्यन्ताग्निसंयोगे ऽपि नाशादर्शनात् रुक्मस्य सत्यत्वम् । ‘एतम्’ अग्निं ‘यन्तुं’ नियन्तुं ‘सत्यम्’ एव ‘अर्हति’ । ‘देवाः’ ‘सत्येन’ सत्यमाश्रयं कृत्वा ‘अबिभरुः’ भरणमकुर्वन् ॥ १ ॥

Eggeling
  1. He hangs a gold plate (round his neck), and wears it; for that gold plate is the truth, and the truth is able to sustain that (fire 1): by means of the truth the gods carried it, and by means of the truth does he now carry it.

०२

विश्वास-प्रस्तुतिः

तद्यत्त᳘त्सत्य᳘म्॥
(म) असौ स᳘ ऽआदित्यः स᳘ हिरण्म᳘यो भवति ज्यो᳘तिर्वै हि᳘रण्यं ज्यो᳘तिरे᳘षो ऽमृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तमेष᳘ परिमण्डलो᳘ भवति परिमण्डलो᳘ ह्येष ऽए᳘कविᳫँ᳭शतिनिर्बाध एकविᳫँ᳭शो᳘ ह्येष᳘ बहिष्ठान्निर्बाधं बिभर्त्ति रश्म᳘यो वा᳘ ऽएत᳘स्य निर्बाधा᳘ बाह्यत᳘ ऽउ वा᳘ ऽएत᳘स्य रश्म᳘यः॥

मूलम् - श्रीधरादि

तद्यत्त᳘त्सत्य᳘म्॥
(म) असौ स᳘ ऽआदित्यः स᳘ हिरण्म᳘यो भवति ज्यो᳘तिर्वै हि᳘रण्यं ज्यो᳘तिरे᳘षो ऽमृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तमेष᳘ परिमण्डलो᳘ भवति परिमण्डलो᳘ ह्येष ऽए᳘कविᳫँ᳭शतिनिर्बाध एकविᳫँ᳭शो᳘ ह्येष᳘ बहिष्ठान्निर्बाधं बिभर्त्ति रश्म᳘यो वा᳘ ऽएत᳘स्य निर्बाधा᳘ बाह्यत᳘ ऽउ वा᳘ ऽएत᳘स्य रश्म᳘यः॥

मूलम् - Weber

तद्यत्त᳘त्सत्य᳘म्॥
असौ स᳘ आदित्यः स᳘ हिरण्म᳘यो भवति ज्यो᳘तिर्वै हि᳘रण्यं ज्यो᳘तिरेॗषो ऽमृ᳘तᳫं हि᳘रण्यममृ᳘तमेष᳘ परिमण्डलो᳘ भवति परिमण्डलोॗ ह्येष ए᳘कविंशतिनिर्बाध एकविंशोॗ ह्येष᳘ बहिष्टान्निर्बाधम् बिभर्ति रश्म᳘यो वा᳘ एत᳘स्य निर्बाधा᳘ बाह्यत᳘ उ वा᳘ एत᳘स्य रश्म᳘यः॥

मूलम् - विस्वरम्

तद्यत्तत्सत्यम्- असौ स आदित्यः । स हिरण्मयो भवति । ज्योतिर्वै हिरण्यम्- ज्योतिरेषः । अमृतं हिरण्यम्- अमृतमेषः । परिमण्डलो भवति- परिमण्डलो ह्येषः । एकविंशतिनिर्बाधः- एकविंशो ह्येषः । बहिष्ठान्निर्बाधं बिभर्त्ति- रश्मयो वा ऽएतस्य निर्बाधाः । बाह्यत उ वा ऽएतस्य रश्मयः ॥ २ ॥

सायणः

एतत् रुक्माख्यं सत्यम् आदित्यात्मना प्रशंसति- तद्यत्तत्सत्यमसौ स आदित्य इति । रक्मस्य सुवर्णमयतां विधाय प्रशंसति- स हिरण्मयो भवतीति । हिरण्यस्य भास्वररूपत्वात् ज्योतीरूपत्वम्, तदेव ‘अमृतम्’ अविनाशि, ‘एषः’ रुक्मः ‘परिमण्डलः’ वर्तुलः भवति । तत्रोपपत्तिः- परिमण्डलो ह्येष इति । ‘एषः’ आदित्यः । एकविंशतिनिर्बाधः इति । ‘बाधाः’ बिलसहिताः पुलकाः । धारणसमये निर्बाधाः यथा बाह्या भवन्ति, तथा धारयेत् । निर्बाधस्य बहिर्भावं प्रशंसति- रश्मयो वा एतस्य निर्बाधा इति । ‘एतस्य’ आदित्यात्मकस्य रुक्मस्य ॥ २ ॥

Eggeling
  1. Now that truth is the same as yonder sun. It is a gold (plate), for gold is light, and he (the sun) is the light; gold is immortality, and he is immortality. It (the plate) is round, for he (the sun) is round. It has twenty-one knobs, for he is the twenty-first 2. He wears it with the knobs outside, for the knobs are his (the sun’s) rays, and his rays arc outside.

०३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्त्ति॥
(र्त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्मो᳘ नो हैत᳘मग्निं᳘ मनु᳘ष्यो मनुष्यरूपे᳘ण य᳘न्तुमर्हत्येते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्ति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्त्ति॥
(र्त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्मो᳘ नो हैत᳘मग्निं᳘ मनु᳘ष्यो मनुष्यरूपे᳘ण य᳘न्तुमर्हत्येते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्ति॥

मूलम् - Weber

य᳘द्वेव᳘ रुक्भ᳘म् प्रतिमु᳘च्य बिभ᳘र्ति॥
असौ वा᳘ आदित्य᳘ एष᳘ रुक्भोॗ नो हैत᳘मग्नि᳘म् मनुॗष्यो मनुष्यरूपे᳘ण य᳘न्तुमर्हत्येते᳘नैव᳘ रूपे᳘णैत᳘द्रूप᳘म् बिभर्ति॥

मूलम् - विस्वरम्

यद्वेव रुक्मं प्रतिमुच्य बिभर्त्ति । असौ वा ऽआदित्य एष रुक्मः । नो हैनमग्निं मनुष्यो मनुष्यरूपेण यन्तुमर्हति । एतेनैव रूपेणैतद्रूपं बिभर्त्ति ॥ ३ ॥

सायणः

रुक्मधारणं प्रशंसति- यद्वेव रुक्मं प्रतिमुच्येति । मानुषेण रूपेण अग्नेर्धारणस्यानुचितत्वात् ‘एतेन’ रुक्माख्येन आदित्येन ‘रूपेण’ ‘एतत्’ अग्न्यात्मकं ‘रूपं’ बिभर्त्ति ॥ ३ ॥

Eggeling
  1. And as to why he puts on and wears the gold plate;–that plate is yonder sun, and man, in his human form, is unable to sustain that fire: it is only in this (solar or divine) form that he bears that (divine) form.

०४

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्त्ति॥
रे᳘तो वा᳘ ऽइद᳘ᳫँ᳘ सिक्त᳘मय᳘मग्निस्ते᳘जो व्वी᳘र्यᳫँ᳭[[!!]] रु᳘क्मो ऽस्मिंस्तद्रे᳘तसि ते᳘जो व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्त्ति॥
रे᳘तो वा᳘ ऽइद᳘ᳫँ᳘ सिक्त᳘मय᳘मग्निस्ते᳘जो व्वी᳘र्यᳫँ᳭[[!!]] रु᳘क्मो ऽस्मिंस्तद्रे᳘तसि ते᳘जो व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ रुक्भ᳘म् प्रतिमु᳘च्य बिभ᳘र्ति॥
रे᳘तो वा᳘ इद᳘ᳫं᳘ सिक्त᳘मय᳘मग्निस्ते᳘जो वीर्यं᳘ रुॗक्भो ऽस्मिंस्तद्रे᳘तसि ते᳘जो वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेव रुक्मं प्रतिमुच्य बिभर्त्ति । रेतो वा ऽइदं सिक्तम् । अयमग्निः । तेजो वीर्यं रुक्मः । अस्मिंस्तद्रेतसि तेजो वीर्यं दधाति ॥ ४ ॥

सायणः

पुनः प्रकारान्तरेण प्रशंसति- यद्वेव रुक्मं प्रतिमुच्येति । अस्याग्नेः रेतःसेकस्थानीयत्वमुक्तं प्राक्, रुक्मश्च तेजोरूपं वीर्यम् । तथा सति अग्ने रुक्मसंयोजनेन रेतस्यग्न्याख्ये ‘तेजः’ वीर्यमेव स्थापितवान् भवति ॥ ४ ॥

Eggeling
  1. And, again, why he puts on and wears the gold plate;–this fire is seed poured out here; and the gold plate means vital energy (or brilliance) and vigour: he thus lays vital energy and vigour into that seed.

०५

विश्वास-प्रस्तुतिः

य᳘देव᳘ रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्त्ति॥
(र्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएत᳘मन्तिका᳘द्गोप्ता᳘रमकुर्वन्नमुमे᳘वादित्य᳘मसौ[[!!]] वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्मस्त᳘थै᳘वास्मा ऽअय᳘मेत᳘मन्तिका᳘द्गोप्ता᳘रं करोति॥

मूलम् - श्रीधरादि

य᳘देव᳘ रुक्मं᳘ प्रतिमु᳘च्य बिभ᳘र्त्ति॥
(र्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएत᳘मन्तिका᳘द्गोप्ता᳘रमकुर्वन्नमुमे᳘वादित्य᳘मसौ[[!!]] वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्मस्त᳘थै᳘वास्मा ऽअय᳘मेत᳘मन्तिका᳘द्गोप्ता᳘रं करोति॥

मूलम् - Weber

य᳘देव᳘ रुक्भ᳘म् प्रतिमु᳘च्य बिभ᳘र्ति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा एत᳘मन्तिका᳘द्गोप्ता᳘रमकुर्वन्नमु᳘मेॗवादित्य᳘मसौ वा᳘ आदित्य᳘ एष᳘ रुक्भस्त᳘थैॗवास्मा अय᳘मेत᳘मन्तिका᳘द्गोप्ता᳘रं करोति॥

मूलम् - विस्वरम्

यद्वेव रुक्मं प्रतिमुच्य बिभर्त्ति । एतद्वै देवा अबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा एतमन्तिकाद्गोप्तारमकुर्वन्- अमुमेवादित्यम् । असौ वा ऽआदित्य एष रुक्मः । तथैवास्मा अयमेतमन्तिकाद्गोप्तारं करोति ॥ ५ ॥

सायणः

पुनरप्यग्ने रुक्मसंयोगमग्नेर्गोप्तृत्वरूपेण प्रशंसति- यद्वेव रुक्मं प्रतिमुच्य बिभर्तीति । पुरा ‘देवाः’ ‘इमम्’ अग्निम् ‘नाष्ट्रा’ नाशकानि ‘रक्षांसि’ ‘यद्वै’ येनैव प्रकारेण ‘न हन्युः’ ‘एतत्’ एतेन विषयभूतेन ‘अबिभयुः’ । भीतिपरिहारोपायं दर्शयति- तस्मा एतमन्तिकादिति । ‘तस्मै’ अग्नये ‘एतम्’ आदित्यम् । एतच्छब्दार्थमाह- अमुमेवादित्यमिति । तर्हि मानुषैः कथं गोप्तारं कर्तुं शक्यत इति, तत्राह- असौ वा आदित्य एष रुक्म इति ॥ ५ ॥

Eggeling
  1. And, again, why he puts on and wears the gold plate;–the gods now were afraid lest the Rakshas, the fiends, should destroy here that (Agni) of theirs. They made that (plate), yonder sun, to be his (Agni’s) protector (standing) by his side, for the gold plate is yonder sun: and in like manner does this (Sacrificer) now make that (plate) to be his (Agni’s) protector by his side.

०६

विश्वास-प्रस्तुतिः

कृष्णाजिने नि᳘ष्यूतो भवति॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञो वा᳘ ऽएतं य᳘न्तुमर्हति यज्ञे᳘नैतं᳘ देवा᳘ ऽअबिभरुर्यज्ञे᳘नै᳘वैतमेत᳘द्बिभर्ति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दाᳫँ᳭सि वा᳘ ऽएतं य᳘न्तुमर्हन्ति च्छ᳘न्दोभिरेतं᳘ देवा᳘ ऽअबिभरुश्छ᳘न्दोभिरे᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - श्रीधरादि

कृष्णाजिने नि᳘ष्यूतो भवति॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञो वा᳘ ऽएतं य᳘न्तुमर्हति यज्ञे᳘नैतं᳘ देवा᳘ ऽअबिभरुर्यज्ञे᳘नै᳘वैतमेत᳘द्बिभर्ति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दाᳫँ᳭सि वा᳘ ऽएतं य᳘न्तुमर्हन्ति च्छ᳘न्दोभिरेतं᳘ देवा᳘ ऽअबिभरुश्छ᳘न्दोभिरे᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - Weber

कृष्णाजिने नि᳘ष्यूतो भवति॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञो वा᳘ एतं य᳘न्तुमर्हति यज्ञे᳘नैतं᳘ देवा᳘ अबिभरुर्यज्ञे᳘नैॗवैतमेत᳘द्बिभर्ति लोमतश्छ᳘न्दांसि वै लो᳘मानि छ᳘न्दांसि वा᳘ एतं य᳘न्तुमर्हन्ति छ᳘न्दोभिरेतं᳘ देवा᳘ अबिभरुश्छ᳘न्दोभिरेॗवैनमेत᳘द्बिभर्ति॥

मूलम् - विस्वरम्

कृष्णाजिने निष्यूतो भवति । यज्ञो वै कृष्णाजिनम् । यज्ञो वा ऽएतं यन्तुमर्हति । यज्ञेनैतं देवा अबिभरुः । यज्ञेनैवैतमेतद्बिभर्ति । लोमतः । छन्दांसि वै लोभानि । छन्दांसि वा ऽएतं यन्तुमर्हन्ति । छन्दोभिरेतं देवा अबिभरुः । छन्दोभिरेवैनमेतद्बिभर्ति ॥ ६ ॥

सायणः

कृष्णाजिने निष्यूतो भवतीति । नितरां स्यूतः सम्बद्धः भवति । यथा कृष्णाजिनस्योपरि वर्त्तेत, तथा कुर्यादित्यर्थः । यज्ञो वै कृष्णाजिनमिति । यज्ञसाधनहविराधारत्वाद् यज्ञ इत्युच्यते । शिष्टं गतप्रायम् । निषीवनमपि ‘लोमतः’ लोमप्रदेशे कर्त्तव्यम् । कृष्णाजिनस्य यज्ञत्वविधानात् तल्लोम्नां यज्ञावयवच्छन्दोरूपत्वं युक्तम् । गतमन्यत् ॥ ६ ॥

Eggeling
  1. It is sown up in a black antelope’s skin; for the black antelope skin is the sacrifice, and the sacrifice is able to sustain that (Agni): by means of the sacrifice the gods carried him, and by means of the sacrifice he now carries him;–with the hair (inside), for the hair are the metres, and the metres are indeed able to sustain him: by the metres the gods carried him, and by the metres he now carries him.

०७

विश्वास-प्रस्तुतिः

(त्य) अभि᳘ शुक्ला᳘नि च कृष्णा᳘नि च लो᳘मानि नि᳘ष्यूतो भवति॥
(त्यृ) ऋक्साम᳘योर्हैते᳘ रूपे᳘ ऽऋक्सामे वा᳘ ऽएतं य᳘न्तुमर्हत ऽऋक्सामा᳘भ्यामेतं᳘ देवा᳘ ऽअबिभरुर्ऋक्सामा᳘भ्यामे᳘वैनमेत᳘द्बिभर्त्ति शाणो᳘ रुक्मपाश᳘स्त्रिवृत्त᳘स्योक्तो ब᳘न्धुः॥ (शतम् ३८००॥)

मूलम् - श्रीधरादि

(त्य) अभि᳘ शुक्ला᳘नि च कृष्णा᳘नि च लो᳘मानि नि᳘ष्यूतो भवति॥
(त्यृ) ऋक्साम᳘योर्हैते᳘ रूपे᳘ ऽऋक्सामे वा᳘ ऽएतं य᳘न्तुमर्हत ऽऋक्सामा᳘भ्यामेतं᳘ देवा᳘ ऽअबिभरुर्ऋक्सामा᳘भ्यामे᳘वैनमेत᳘द्बिभर्त्ति शाणो᳘ रुक्मपाश᳘स्त्रिवृत्त᳘स्योक्तो ब᳘न्धुः॥ (शतम् ३८००॥)

मूलम् - Weber

अभि᳘ शुक्ला᳘नि च कृष्णा᳘नि च लो᳘मानि नि᳘ष्यूतो भवति॥
ऋक्साम᳘योर्हैते᳘ रूपे᳘ ऋक्सामे वा᳘ एतं य᳘न्तुमर्हत ऋक्सामा᳘भ्यामेतं᳘ देवा᳘ अबिभरुरृक्सामा᳘भ्यामेॗवैनमेत᳘द्बिभर्ति शाणो᳘ रुक्भपाश᳘स्त्रिवृत्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति । ऋक्सामयोर्हैते रूपे । ऋक्सामे वा ऽएतं यन्तुमर्हतः । ऋक्सामाभ्यामेतं देवा अबिभरुः । ऋक्सामाभ्यामेवैनमेतद्बिभर्ति । शाणो रुक्मपाशस्त्रिवृत् । तस्योक्तो बन्धुः ॥ ७ ॥

सायणः

तत्रापि शुक्लकृष्णलोमरेखयोरुपरि निष्यूतेन भक्तिव्यमिति दर्शयति- अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवतीति । उभयविधानां लोम्नाम् ‘अभि’ उपरि । ऋक्सामयोर्हैते रूपे इति । ‘ह’- शब्दः “ऋक्सामयोः शिल्पे"- इत्यादि (वा. सं. ४ । ९) मंन्त्रप्रसिद्धिद्योतनार्थः । गतमन्यत् । शाणो रुक्मपाशस्त्रिवृदिति । रुक्मसम्बन्धनरज्जुः ‘शाणः’ शणतृणनिर्मितः, ‘त्रिवृत्’ त्रिगुणितः । तस्योक्तो बन्धुरिति । शणार्थवादः- “शणकुलायमन्तरं भवति” (श. प. ६ । ६ । १ । २४) इत्यत्रोक्तः । त्रिवृदर्थवादस्तु “त्रिवृदग्निः" इत्यादिनोक्तः (श. प. ६ । १ । १ । १४ ।) ॥ ७ ॥

Eggeling
  1. It is sown into the white and black hair, for these two are forms of the r̥c (hymn-verse) and the sāman (hymn-tune), and the r̥c and sāman are indeed able to sustain him (Agni): by the r̥c and sāman the gods carried him, and by the r̥c and sāman he now carries him. The hempen sling of the gold plate is a triple (cord): the significance of this has been explained.

०८

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘मुपरिनाभि᳘ बिभर्त्ति॥
(र्त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्म᳘ ऽउपरिना᳘भ्यु वा᳘ ऽएषः[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘मुपरिनाभि᳘ बिभर्त्ति॥
(र्त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्म᳘ ऽउपरिना᳘भ्यु वा᳘ ऽएषः[[!!]]॥

मूलम् - Weber

त᳘मुपरिनाभि᳘ बिभर्ति॥
असौ वा᳘ आदित्य᳘ एष᳘ रुक्भ᳘ उपरिनाॗभ्यु वा᳘ एषः᳟॥

मूलम् - विस्वरम्

तमुपरिनाभि बिभर्ति । असौ वा ऽआदित्य एष रुक्मः । उपरिनाभ्यु वा ऽएषः ॥ ८ ॥

सायणः

रुक्मधारणप्रदेशं विधाय प्रशंसति- तमुपरिनाभि बिभर्त्त्यसौ वा आदित्य इति । उपरिनाभ्यु वा एष इति । ‘एष’ आदित्यः ‘उपरिनाभि’ नाभेरुपरि प्रदेशे; तत्र मध्ये ध्येयत्वात्, रक्तवर्णनाभेरुपरि वर्त्तमानत्वाद् वा, जाठरवह्न्यात्मकस्य तस्य नाभेरुपरि वर्त्तमानत्वाद् वा ॥ ८ ॥

Eggeling
  1. He wears it over the navel; for that gold plate is yonder sun, and he (stands) over the navel (of the earth or sky).

०९

विश्वास-प्रस्तुतिः

(ष य᳘) य᳘द्वे᳘वोपरिनाभि[[!!]]॥
(भ्य᳘) अ᳘वाग्वै ना᳘भे रे᳘तःप्र᳘जापतिस्ते᳘जो व्वी᳘र्यᳫँ᳭[[!!]] रुक्मो ने᳘न्मे रे᳘तःप्र᳘जातिं ते᳘जो व्वी᳘र्यᳫँ᳭[[!!]] रुक्मः᳘ प्रद᳘हादि᳘ति॥

मूलम् - श्रीधरादि

(ष य᳘) य᳘द्वे᳘वोपरिनाभि[[!!]]॥
(भ्य᳘) अ᳘वाग्वै ना᳘भे रे᳘तःप्र᳘जापतिस्ते᳘जो व्वी᳘र्यᳫँ᳭[[!!]] रुक्मो ने᳘न्मे रे᳘तःप्र᳘जातिं ते᳘जो व्वी᳘र्यᳫँ᳭[[!!]] रुक्मः᳘ प्रद᳘हादि᳘ति॥

मूलम् - Weber

य᳘द्बेॗवोपरिनाभि᳟॥
अ᳘वाग्वै ना᳘भे रे᳘तः प्र᳘जापतिस्ते᳘जो वीर्यं᳘ रुक्भो ने᳘न्मे रे᳘तः प्र᳘जातिं ते᳘जो वीर्यं᳘ रुक्भः᳘ प्रद᳘हादि᳘ति॥

मूलम् - विस्वरम्

यद्वेवोपरिनाभि । अवाग्वै नाभेः रेतःप्रजातिः तेजो वीर्यं रुक्मः । नेन्मे रेतःप्रजातिं तेजो वीर्यं रुक्मः प्रदहादिति ॥ ९ ॥

सायणः

उक्तमुपरिनाभित्वं बहुधा प्रशंसति- यद्वेवोपरिनाभ्यवाग् वै नाभेरित्यादिना । रेतसः ‘प्रजातिः’ उत्पत्तिः नाभेरवाक् प्रदेशे खलु, अतः ‘तेजोवीर्यरूपः रुक्मः’ तां ‘प्रजातिं’ प्रदहेत्, ततः ‘नेत्’ नैवेष्टम् । “नेत्येष इदित्यनेन सम्प्रयुज्यते परिभये" इति (या. नि. १ । ३ । ५) निरुक्तम् ॥ ९ ॥

Eggeling
  1. And, again, why over the navel,–below the navel is the seed, the power of procreation, and the gold plate represents vital energy and vigour: (he does so, thinking,) ‘Lest the gold plate burn up my seed, my power of procreation, my vital energy and vigour.’

१०

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वोपरिना᳘भि॥
(भ्ये) एतद्वै᳘ पशोर्मे᳘ध्यतरं य᳘दुपरिनाभि पु᳘रीषसᳫँ᳭ हिततरं यद᳘वाङ्ना᳘भेस्तद्य᳘देव᳘ पशोर्मे᳘ध्यतरं ते᳘नैनमेत᳘द्बिभर्त्ति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वोपरिना᳘भि॥
(भ्ये) एतद्वै᳘ पशोर्मे᳘ध्यतरं य᳘दुपरिनाभि पु᳘रीषसᳫँ᳭ हिततरं यद᳘वाङ्ना᳘भेस्तद्य᳘देव᳘ पशोर्मे᳘ध्यतरं ते᳘नैनमेत᳘द्बिभर्त्ति॥

मूलम् - Weber

य᳘द्वेवोपरिनाॗभि॥
एतद्वै᳘ पशोर्मे᳘ध्यतरं य᳘दुपरिनाभि पु᳘रीषसंहिततरं यद᳘वाङ्ना᳘भेस्तद्य᳘देव᳘ पशोर्मे᳘ध्यतरं ते᳘नैनमेत᳘द्बिभर्ति॥

मूलम् - विस्वरम्

यद्वेवोपरिनाभि । एतद्वै पशोर्मेध्यतरम्- यदुपरिनाभि । पुरीषसंहिततरम्- यदवाङ्नाभेः । तद् यदेव पशोर्मेध्यतरं तेनैनमेतद्बिभर्ति ॥ १० ॥

सायणः

प्रकारान्तरेण प्रशंसति- यद्वेवोपरिनाभीति । ‘एतद्वै पशोर्मेध्यतरं’ यन्नाभेरुपरिष्टाद् वर्त्तमानं हृदयादिकम् ‘नाभेः’ ‘अवाग्’ अर्वाग्देशे ‘यत्’ अङ्गम्, ‘तत्’ ‘पुरीषसंहिततरम्’ अत्यन्तं पुरीषेण सहितम् । तद्यदेवेत्यादि, स्पष्टम् ॥ १० ॥

Eggeling
  1. And, again, why over the navel;–sacrificially purer is that part of the animal (victim) which is above the navel, and more in contact with ordure is that which is below the navel: he thus carries it (the plate) by means of that part of the animal which is sacrificially purer.

११

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वोपरिनाभि[[!!]]॥
यद्वै᳘ प्राण᳘स्यामृ᳘तमूर्द्धं तन्ना᳘भेरूर्ध्वैः᳘ प्राणैरु᳘च्चरत्य᳘थ यन्म᳘र्त्यं प᳘राक्तन्ना᳘भिम᳘त्येति तद्य᳘देव᳘ प्राण᳘स्यामृ᳘तं त᳘देनमेत᳘दभि स᳘म्पादयति ते᳘नैनमेत᳘द्बिभर्त्ति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वोपरिनाभि[[!!]]॥
यद्वै᳘ प्राण᳘स्यामृ᳘तमूर्द्धं तन्ना᳘भेरूर्ध्वैः᳘ प्राणैरु᳘च्चरत्य᳘थ यन्म᳘र्त्यं प᳘राक्तन्ना᳘भिम᳘त्येति तद्य᳘देव᳘ प्राण᳘स्यामृ᳘तं त᳘देनमेत᳘दभि स᳘म्पादयति ते᳘नैनमेत᳘द्बिभर्त्ति॥

मूलम् - Weber

य᳘द्वेॗवोपरिनाभि᳟॥
यद्वै᳘ प्राण᳘स्यामृ᳘तमूर्ध्वं तन्ना᳘भेरूर्ध्वैः प्राणैरु᳘च्चरत्य᳘थ यन्म᳘र्त्यम् प᳘राक्तन्ना᳘भिम᳘त्येति तद्य᳘देव᳘ प्राण᳘स्यामृ᳘तं त᳘देनमेत᳘दभिस᳘म्पादयति ते᳘नैनमेत᳘द्बिभर्ति॥

मूलम् - विस्वरम्

यद्वेवोपरिनाभि । यद्वै प्राणस्यामृतम् । ऊर्ध्वं तत् नाभेरूर्ध्वैः प्राणैरुच्चरति । अथ यन्मर्त्यम् । पराक्तन्नाभिमत्येति । तद् यदेव प्राणस्यामृतम्- तदेनमेतदभि सम्पादयति । तैनेनमेतद्बिभर्त्ति ॥ ११ ॥

सायणः

उपरिधारणममृतस्योपरिधारणतया प्रशंसन् गतिभेदेन मृतामृतविभागमाह- यद्वेवोपरिनाभि यद्वै प्राणस्येति । प्राणस्य द्वावंशौ, अमृतांशो मृतांशश्च, तत्रामृताख्यो यों ऽशो ऽस्ति नाभेरूर्ध्वप्रदेशे, सः ‘ऊर्ध्वैः प्राणैः’ ‘उच्चरति’ उद्गच्छति; यः मर्त्यों ऽशः स नाभेः ‘पराक्’ अर्वाङ्मुखः सन् ‘नाभिम्’ ‘अत्येति’ अतिगच्छति । विभागप्रदर्शनप्रयोजनमाह- तद् यदेवेति । ‘तत्’ ‘प्राणस्य’ ‘अमृतम्’ अंशम् ‘एनम् अभि’ आयुष्याग्नेरुपरि ‘सम्पादयति’ । ‘एतत्’ एतेन, नाभेरुपरि सम्पादनेन ‘एनम्’ अग्निम् ‘तेन’ अमृतेन ‘बिभर्ति’ ॥ ११ ॥

Eggeling
  1. And, again, why over the navel,–that part of the vital air which is immortal is above the navel, and streams out by upward breathings; but that which is mortal passes by and away from the navel: he thus makes him (the Sacrificer) obtain the part of the vital air which is immortal, and by that he then carries it (the fire).

१२

विश्वास-प्रस्तुतिः

(र्त्य᳘) अ᳘थैनमासन्द्या᳘ बिभर्त्ति॥
(र्त्ती) इयं वा᳘ ऽआस᳘न्द्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वमा᳘सन्नमियं वा᳘ ऽएतं य᳘न्तुमर्हत्यन᳘यैतं᳘ देवा᳘ ऽअबिभरुरन᳘यै᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - श्रीधरादि

(र्त्य᳘) अ᳘थैनमासन्द्या᳘ बिभर्त्ति॥
(र्त्ती) इयं वा᳘ ऽआस᳘न्द्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वमा᳘सन्नमियं वा᳘ ऽएतं य᳘न्तुमर्हत्यन᳘यैतं᳘ देवा᳘ ऽअबिभरुरन᳘यै᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - Weber

अ᳘थैनमासन्द्या᳘ बिभर्ति॥
इयं वा᳘ आसन्द्य᳘स्याॗᳫंॗ हीदᳫं स᳘र्वमा᳘सन्नमियं वा᳘ एतं य᳘न्तुमर्हत्यन᳘यैतं᳘ देवा᳘ अबिभरुरन᳘यैॗवैनमेत᳘द्बिभर्ति॥

मूलम् - विस्वरम्

अथैनमासन्द्या बिभर्ति । इयं वा ऽआसन्दी । अस्यां हीदं सर्वमासन्नम् । इयं वा ऽएतं यन्तुमर्हति । अनयैतं देवा अबिभरुः । अनयैवैनमेतद्बिभर्ति ॥ १२ ॥

सायणः

उखाग्ने रुक्मस्योपरि धारणं विधाय तत्राप्यासन्द्यां धारणं कर्त्तव्यमित्याह- अथैनमासन्द्यामिति 3 । आसन्दीप्रवृत्तिनिमित्तं पृथिव्यां सम्पादयन् तदात्मकत्वसम्पादनद्वारेण प्रशंसति- इयं वा आसन्दीति । आसीदत्यत्राग्निरित्यासन्दी, इयं पृथिव्यपि सर्वस्यापि पदार्थस्यासदनयोग्यत्वात् आसन्दी; तथा च सति अस्यामेव भृतवान् भवतीत्यर्थः । इयं वा एतं यन्तुमित्यादि पूर्ववत् ॥ १२ ॥

Eggeling
  1. Now, he carries that (fire in the pan) on a seat;–the seat (āsandī) doubtless is this earth, for on her everything here is settled (āsanna); and she indeed is able to sustain him (Agni): it was thereby that the gods carried him, and thereby he now carries him.

१३

विश्वास-प्रस्तुतिः

(र्त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन बिभर्त्त्य᳘थो स᳘र्व्व ऽएते व्व᳘नस्प᳘तयो य᳘दुदुम्ब᳘रः स᳘र्व्वे वा᳘ ऽएतं व्व᳘नस्प᳘तयो य᳘न्तुमर्हन्ति स᳘र्व्वैरेतं व्वनस्प᳘तिभिर्द्देवा᳘ ऽअबिभरुः[[!!]] स᳘र्वैरे᳘वैनमेतद्व᳘नस्प᳘तिभिर्बिभर्त्ति॥

मूलम् - श्रीधरादि

(र्त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन बिभर्त्त्य᳘थो स᳘र्व्व ऽएते व्व᳘नस्प᳘तयो य᳘दुदुम्ब᳘रः स᳘र्व्वे वा᳘ ऽएतं व्व᳘नस्प᳘तयो य᳘न्तुमर्हन्ति स᳘र्व्वैरेतं व्वनस्प᳘तिभिर्द्देवा᳘ ऽअबिभरुः[[!!]] स᳘र्वैरे᳘वैनमेतद्व᳘नस्प᳘तिभिर्बिभर्त्ति॥

मूलम् - Weber

औ᳘दुम्बरी भवति॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊॗर्जैॗवैनमेतद्र᳘सेन बिभर्त्य᳘थो स᳘र्व एते व᳘नस्प᳘तयो य᳘दुदुम्ब᳘रः स᳘र्वे वा᳘ एतं व᳘नस्प᳘तयो य᳘न्तुमर्हन्ति स᳘र्वैरेतं व᳘नस्प᳘तिभिर्देवा᳘ अबिभरुः स᳘र्वैरेॗवैनमेतद्व᳘नस्प᳘तिभिर्बिभर्ति॥

मूलम् - विस्वरम्

औदुम्बरी भवति । ऊर्ग्वै रस उदुम्बरः । ऊर्जैवैनमेतद्रसेन बिभर्ति । अथ सर्व ऽएते वनस्पतयः- यदुदुम्बरः । सर्वे वा ऽएतं वनस्पतयो यन्तुमर्हन्ति । सर्वैरेतं वनस्पतिभिर्देवा अबिभरुः । सर्वैरेवैनमेतद्वनस्पतिभिर्बिभर्ति ॥ १३ ॥

सायणः

आसन्द्या औदुम्बरत्वं विधाय प्रशंसति- औदुम्बरी भवति, ऊर्ग्वै रस इति । ऊर्ग्रूपत्वं सर्ववनस्पत्यात्मकत्वं च उख्यसमिदाधानप्रस्तावे प्रागुक्तम् (श. प. ६ । ६ । ३ । २) । सर्वे वा इत्यादि, पूर्ववत् ॥ १३ ॥

Eggeling
  1. It is made of udumbara wood (ficus glomerata), for the Udumbara tree is sustenance (sustaining strength), life-sap: by means of sustenance, life-sap, he thus carries him. Moreover, that Udumbara represents all the trees here (on earth), and all the trees (together) are capable of sustaining that (fire):

by means of all the trees the gods bore (or, maintained) it, and by means of all the trees does he now bear it.

१४

विश्वास-प्रस्तुतिः

प्रादेशमा᳘त्र्यूर्ध्वा᳘ भवति॥
प्रादेशमात्रो वै ग᳘र्भो व्वि᳘ष्णुर्यो᳘निरेषा ग᳘र्भसम्मितां तद्यो᳘निं करोत्यरत्निमात्री᳘ तिर᳘श्ची बाहुर्वा᳘ ऽअरत्नि᳘र्बाहु᳘नो वै᳘ व्वी᳘र्यं[[!!]] क्रियते व्वीर्य᳘सम्मितैव त᳘द्भवति व्वी᳘र्यं[[!!]] वा᳘ ऽएतं य᳘न्तुमर्हति व्वी᳘र्येणैतं᳘ देवा᳘ ऽअबिभरुर्व्वीर्येणै᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - श्रीधरादि

प्रादेशमा᳘त्र्यूर्ध्वा᳘ भवति॥
प्रादेशमात्रो वै ग᳘र्भो व्वि᳘ष्णुर्यो᳘निरेषा ग᳘र्भसम्मितां तद्यो᳘निं करोत्यरत्निमात्री᳘ तिर᳘श्ची बाहुर्वा᳘ ऽअरत्नि᳘र्बाहु᳘नो वै᳘ व्वी᳘र्यं[[!!]] क्रियते व्वीर्य᳘सम्मितैव त᳘द्भवति व्वी᳘र्यं[[!!]] वा᳘ ऽएतं य᳘न्तुमर्हति व्वी᳘र्येणैतं᳘ देवा᳘ ऽअबिभरुर्व्वीर्येणै᳘वैनमेत᳘द्बिभर्त्ति॥

मूलम् - Weber

प्रादेशमाॗत्र्यूर्ध्वा᳘ भवति॥
प्रादेशमात्रो वै ग᳘र्भो वि᳘ष्णुर्यो᳘निरेषा ग᳘र्भसम्मितां तद्यो᳘निं करोत्यरत्निमात्री᳘ तिर᳘श्ची बाहुर्वा᳘ अरत्नि᳘र्बाहु᳘नो वै᳘ वीर्यं᳘ क्रियते वीर्य᳘सम्मितैव त᳘द्भवति वीर्यं᳘ वा᳘ एतं य᳘न्तुमर्हति वी᳘र्येणैतं᳘ देवा᳘ अबिभरुर्वीॗर्येणैॗवैनमेत᳘द्बिभर्ति॥

मूलम् - विस्वरम्

प्रादेशमात्र्यूर्ध्वा भवति । प्रादेशमात्रो वै गर्भो विष्णुः । योनिरेषा । गर्भसम्मितां तद् योनिं करोति । अरत्निमात्री तिरश्ची । बाहुर्वा ऽअरत्निः । बाहुनो वै वीर्यं क्रियते । वीर्यसम्मितैव तद्भवति । वीर्यं वा ऽएतं यन्तुमर्हति । वीर्येणैतं देवा अबिभरुः । वीर्येणैवैनमेतद् बिभर्त्ति ॥ १४ ॥

सायणः

ऊर्ध्वप्रमाणं विधाय स्तौति- प्रादेशमात्रीति । गर्भरूपिणो यज्ञस्य विष्णोरेषा आसन्दी अपि तदाधारभूता, अतः प्रादेशप्रमाणां ‘योनिं’ ‘गर्भसंम्मितां’ गर्भसमपरिमाणां ‘करोति’ । तिर्यक् प्रमाणमाह- अरत्निमात्रीति । तिरश्चीति । द्विप्रादेशो ऽरत्निः, द्वयोररत्न्योर्बाहुः । किं ततः इत्याह- बाहुनो वै वीर्यं क्रियत इति । ‘बाहुना उ’ बाहुनैव । ‘तत्’ तस्मात् ‘वीर्यसम्मिता’ ‘भवति’ प्रहारसमये तथा दर्शनात् ॥ १४ ॥

Eggeling
  1. It (the seat) is a span high; for Vishṇu, as an embryo, was a span high: he thus makes the womb equal in size to the embryo. It is a cubit across; for the cubit is (the length of) the (fore-)arm, and strength is exerted by the arm. It thus is made equal to strength, and strength is indeed capable of sustaining him (Agni): by means of strength the gods did bear him, and by means of strength does he now bear him.

१५

विश्वास-प्रस्तुतिः

च᳘तुःस्रक्तयः पा᳘दा भ᳘वन्ति॥
च᳘तुःस्रक्तीन्यनू᳘च्यानि च᳘तस्रो वै दि᳘शो दि᳘शो वा᳘ ऽएतं य᳘न्तुमर्हन्ति दिग्भि᳘रेतं᳘ देवा᳘ ऽअबिभरुर्द्दिग्भि᳘रे᳘वैनमेत᳘द्बिभर्त्ति मौञ्जी᳘भी र᳘ज्जुभि᳘र्व्युता भवति त्रिवृ᳘द्भिस्त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धा त᳘स्यो ऽए᳘वोक्तो᳘ ऽथो ऽअ᳘नतिदाहाय॥

मूलम् - श्रीधरादि

च᳘तुःस्रक्तयः पा᳘दा भ᳘वन्ति॥
च᳘तुःस्रक्तीन्यनू᳘च्यानि च᳘तस्रो वै दि᳘शो दि᳘शो वा᳘ ऽएतं य᳘न्तुमर्हन्ति दिग्भि᳘रेतं᳘ देवा᳘ ऽअबिभरुर्द्दिग्भि᳘रे᳘वैनमेत᳘द्बिभर्त्ति मौञ्जी᳘भी र᳘ज्जुभि᳘र्व्युता भवति त्रिवृ᳘द्भिस्त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धा त᳘स्यो ऽए᳘वोक्तो᳘ ऽथो ऽअ᳘नतिदाहाय॥

मूलम् - Weber

च᳘तुःस्रक्तयः पा᳘दा ब᳘वन्ति॥
च᳘तुःस्रक्तीन्यनूॗच्यानि च᳘तस्रो वै दि᳘शो दि᳘शो वा᳘ एतं य᳘न्तुमर्हन्ति दिग्भि᳘रेतं᳘ देवा᳘ अबिभरुर्दिग्भि᳘रेॗवैनमेत᳘द्बिभर्ति मौञ्जी᳘भी र᳘ज्जुभिॗर्व्युता भवति त्रिवृ᳘द्भिस्त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धा त᳘स्यो एॗवोक्तो᳘ ऽथो अ᳘नतिदाहाय॥

मूलम् - विस्वरम्

चतुःस्रक्तयः पादा भवन्ति । चतुःस्रक्तीन्यनूच्यानि । चतस्रो वै दिशः । दिशो वा ऽएतं यन्तुमर्हन्ति । दिग्भिरेतं देवा अबिभरुः । दिग्भिरेवैनमेतद्बिभर्ति । मौञ्जीभी रज्जुभिर्व्युता भवति त्रिवृद्भिः । तस्योक्तो बन्धुः । मृदा दिग्धा । तस्यो ऽएवोक्तः । अथो ऽअनतिदाहाय ॥ १५ ॥

सायणः

चतुःस्रक्तय इति । ‘पादाः’ चत्वारो ऽपि ‘चतुःस्रक्तयः’ स्रक्तिचतुष्टयोपेताः स्युः, ‘अनूच्यानि’ अपि चतुर्द्वाराणि स्युः । पादाङ्गेषु आयततिर्यक्काष्ठानि अनूच्यानीत्युच्यन्ते । स्पष्टमन्यत् । ‘त्रिवृद्भिः’ त्रिगुणाभिः मुञ्जतृणनिष्पादिताभिः ‘रज्जुभिः’ ‘व्युता’ विविधं सन्तता । “व्येञ् तन्तुसन्ताने” (धा. पा. भ्वा. उ. १३३१) । तस्योक्तो बन्धुरिति । मौञ्ज्यर्थवादः मृदाहरणस्यादौ तदाहरणार्थं पशुत्रयबन्धनरज्जुप्रस्तावे “ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति, अग्निर्देवेभ्य उदक्रामत् स मुञ्जं प्राविशत्” (श. प. ६ । ३ । १ । २६) इत्यादिनोक्तः; त्रिवृत्त्वं तु “त्रिवृदग्निः” इत्यत्र- “सैवाग्नेस्तिवृत्ता” (श. प. ६ । १ । ३ । १८) इत्युक्तम् । आसन्दी ‘मृदा दिग्धा’ आलिप्ता स्यात्, ‘तस्यो’ तस्या अपि ‘बन्धुः’ मृत्स्तावको ऽर्थवाद उक्तः । (श. प. ६ । ३ । ३ । १) । इष्टप्रयोजनं च दर्शयति- अथो अनतिदाहायेति ॥ १५ ॥

Eggeling
  1. The feet and boards 4 are four-cornered; for there are four regions, and the regions are able to sustain him: by means of the regions the gods bore him, and by the regions does he now bear him. It is interwoven with cords of reed-grass, triple ones,–the significance of this has been explained;–and smeared over with clay,–(the significance) of this also has been explained; but it also serves to keep them from taking fire 5.

१६

विश्वास-प्रस्तुतिः

(या᳘) अ᳘थैनᳫँ᳭ शि᳘क्येन बिभर्त्ति॥
(र्त्ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्निर्द्दि᳘शः शि᳘क्यं[[!!]] दिग्भि᳘र्हीमे᳘ लोकाः᳘ शक्नुव᳘न्ति स्था᳘तुं य᳘च्छक्नुव᳘न्ति त᳘स्माच्छि᳘क्यं[[!!]] दिग्भि᳘रे᳘वैनमेत᳘द्बिभर्त्ति ष᳘डुद्यामं भवति षड्ढि दि᳘शो मौञ्जं᳘ त्रिवृत्त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धं त᳘स्यो ऽए᳘वोक्तो᳘ ऽथो᳘ ऽअ᳘नतिदाहाय॥

मूलम् - श्रीधरादि

(या᳘) अ᳘थैनᳫँ᳭ शि᳘क्येन बिभर्त्ति॥
(र्त्ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्निर्द्दि᳘शः शि᳘क्यं[[!!]] दिग्भि᳘र्हीमे᳘ लोकाः᳘ शक्नुव᳘न्ति स्था᳘तुं य᳘च्छक्नुव᳘न्ति त᳘स्माच्छि᳘क्यं[[!!]] दिग्भि᳘रे᳘वैनमेत᳘द्बिभर्त्ति ष᳘डुद्यामं भवति षड्ढि दि᳘शो मौञ्जं᳘ त्रिवृत्त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धं त᳘स्यो ऽए᳘वोक्तो᳘ ऽथो᳘ ऽअ᳘नतिदाहाय॥

मूलम् - Weber

अ᳘थैनं शिॗक्येन बिभर्ति॥
इमे वै᳘ लोका᳘ एॗषो ऽग्निर्दि᳘शः शिक्यं᳘ दिग्भिॗर्हीमे᳘ लोकाः᳘ शक्नुव᳘न्ति स्था᳘तुं य᳘छक्नुव᳘न्ति त᳘स्माछिक्यं᳘ दिग्भि᳘रेॗवैनमेत᳘द्बिभर्ति ष᳘डुद्यामम् भवति षड्ढि दि᳘शो मौञ्जं᳘ त्रिवृत्त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धं त᳘स्यो एॗवोक्तो᳘ ऽथो अ᳘नतिदाहाय॥

मूलम् - विस्वरम्

अथैनं शिक्येन बिभर्ति । इमे वै लोका एषो ऽग्निः दिशः शिक्यम् । दिग्भिर्हीमे लोकाः शक्नुवन्ति स्थातुम् । यच्छक्नुवन्ति- तस्माच्छिक्यम् । दिग्भिरेवैनमेतद्बिभर्ति । षडुद्यामं भवति । षड्ढि दिशः । मौञ्जं त्रिवृत् । तस्योक्तो बन्धुः । मृदा दिग्धम् । तस्यो ऽएवोक्तः । अथो ऽअनतिदाहाय ॥ १६ ॥

सायणः

अथैनमिति । ‘एनम्’ उख्याग्निम् । ‘शिक्येन बिभर्ति’ शिक्यवत्यामासन्द्याम् उखां बिभर्त्तीत्यर्थः 6 । उक्तमर्थमधिदेवताध्यात्मभेदेन प्रशंसति- इमे वै लोका एषो ऽग्निरित्यादिना । उख्याग्नेर्लोकत्रयात्मकत्वमुखाद्वारा (श. प. ६ कां ५ अ. २ ब्रा. २२ कं०) उखायाश्च लोकत्रयात्मकता “यो वा एष निधिः प्रथमो ऽयं स लोकः”- (श. प. ६ कां. ५अ. २ ब्रा. २२ कं.) इत्यादिना प्रागुक्तः । तस्या दिशः शिक्यम् । किं तत इत्यत आह- दिग्भिर्हीमे लोकाः शक्नुवन्ति स्थातुमिति । तस्माच्छिक्येन भरणं युक्तम् । प्रसङ्गाच्छिक्यशब्दनिर्वचनं दर्शयति- यच्छक्नुवन्ति तस्माच्छिक्यमिति । स्वाधिष्ठितवस्तुधारणसमर्थत्वात् । शिक्यरूपकल्पनायाः प्रयोजनं दर्शयति- दिग्भिरेवैनमिति । षडुद्यामं भवतीति । ऊर्ध्वाधोविवक्षया दिशां षट्त्वम् । उद्गतानि यामानि उद्यामानि, तेषां षट्त्वेनोपेतं कर्त्तव्यम्; सूत्रे षडुद्याममिति पठितत्वात् 7 । यद्वा, उद्यमनसाधनत्वात् उद्यामशब्देन शिक्यदामान्युच्यन्ते (श. प. ६ । ३ । १ । १८ कं.) ॥

पाशानां मौञ्जत्रिवृत्तार्थवादः प्रागुक्तः (श. प. ६ । १ । ३ । २६ कं०) उद्यमनानां मृद्दिग्धत्वार्थवादो ऽपि प्रागुक्तः (श. प. ६ । ७ । १ । १५ कं०) इत्यतिदिशति- तस्यो एवेति । ‘तस्य’ मृदालेपनस्यापीति ॥ १६ ॥

Eggeling
  1. Now he carries him (Agni, the fire) by means of a netting 8–he, Agni, is these worlds, and the netting is the regions, for by means of the regions these worlds are able to stand; and inasmuch as they are so able (śak), it is called a netting (śikya): he thus carries him by means of the regions. It is furnished with six strings,–for there are six

regions;–made of reed-grass, triply wound–the significance of this has been explained;–and smeared with clay–(the significance) of this also has been explained; but it also serves to keep them from taking fire.

१७

विश्वास-प्रस्तुतिः

तस्या᳘प ऽएव᳘ प्रति᳘ष्ठा॥
(ष्ठा ऽप्सु᳘) अप्सु᳘ हीमे᳘ लोकाः᳘ प्र᳘तिष्ठिता ऽआदित्य᳘ ऽआस᳘ञ्जनमादित्ये᳘ हीमे᳘ लोका᳘ दिग्भिरा᳘सक्ताः स यो᳘ हैत᳘देवं व्वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्त्ति॥

मूलम् - श्रीधरादि

तस्या᳘प ऽएव᳘ प्रति᳘ष्ठा॥
(ष्ठा ऽप्सु᳘) अप्सु᳘ हीमे᳘ लोकाः᳘ प्र᳘तिष्ठिता ऽआदित्य᳘ ऽआस᳘ञ्जनमादित्ये᳘ हीमे᳘ लोका᳘ दिग्भिरा᳘सक्ताः स यो᳘ हैत᳘देवं व्वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्त्ति॥

मूलम् - Weber

तस्या᳘प एव᳘ प्रतिॗष्ठा॥
अप्सुॗ हीमे᳘ लोकाः᳘ प्र᳘तिष्ठिता आदित्य᳘ आस᳘ञ्जनमादित्येॗ हीमे᳘ लोका᳘ दिग्भिरा᳘सक्ताः स यो᳘ हैत᳘देवं वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूप᳘म् बिभर्ति॥

मूलम् - विस्वरम्

तस्याप एव प्रतिष्ठा । अप्सु हीमे लोकाः प्रतिष्ठिताः । आदित्य आसञ्जनम् । आदित्ये हीमे लोका दिग्भिरासक्ताः । स यो हैतदेवं वेद- एतेनैव रूपेणैतद्रूपं बिभर्ति ॥ १७ ॥

सायणः

तस्याप एव प्रतिष्ठेति । ‘तस्य’ शिक्यस्य ‘आपः’ उदकान्येव ‘प्रतिष्ठा’ आस्पदम्; लोकसृष्टेः प्राक् उदकस्य सृष्टत्वात् । शिक्यस्याधस्ताद्वर्ती उद्यामाधारः पाशरचितो ऽवयवविशेषः, स एवात्र ‘प्रतिष्ठा’ शब्देनोक्तः । आदित्य आसञ्जनमिति । आसज्यते बध्यते शिक्यमत्रेति ‘आसञ्जनम्’ शिक्याधारः काष्ठविशेषः । यद्वा, आसज्यत इत्यासञ्जनम्,शिक्यस्योर्ध्वावयवः आदित्यो ऽत्र तत्स्थानीयः । उक्तार्थज्ञं प्रशंसति- स यो हैतदेवं वेदेति ॥ १७ ॥

Eggeling
  1. The waters are his (Agni’s) foundation, for on the waters these worlds are founded. The sun is the connecting link 9, for to the sun these worlds are linked by means of the quarters: whosoever thus knows this, carries suchlike a one by suchlike a one 10.

१८

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनᳫँ᳭ शि᳘क्येन बिभ᳘र्त्ति॥
संवत्सर᳘ ऽए᳘षो ऽग्नि᳘र्ऋत᳘वः शि᳘क्यमृतु᳘भिर्हि᳘[[!!]] संव्वत्सरः᳘ शक्नो᳘ति स्था᳘तुं य᳘च्छक्नो᳘ति त᳘स्माच्छि᳘क्यमृतु᳘भिरे᳘वैनमेत᳘द्बिभर्त्ति[[!!]] ष᳘डुद्यामं भवति षड्ढ्यृत᳘वः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनᳫँ᳭ शि᳘क्येन बिभ᳘र्त्ति॥
संवत्सर᳘ ऽए᳘षो ऽग्नि᳘र्ऋत᳘वः शि᳘क्यमृतु᳘भिर्हि᳘[[!!]] संव्वत्सरः᳘ शक्नो᳘ति स्था᳘तुं य᳘च्छक्नो᳘ति त᳘स्माच्छि᳘क्यमृतु᳘भिरे᳘वैनमेत᳘द्बिभर्त्ति[[!!]] ष᳘डुद्यामं भवति षड्ढ्यृत᳘वः॥

मूलम् - Weber

य᳘द्वेॗवैनं शिॗक्येन बिभ᳘र्ति॥
संवत्सर᳘ एॗषो ऽग्नि᳘रृत᳘वः शिक्य᳘मृतु᳘भिर्हि᳘ संवत्सरः᳘ शक्नो᳘ति स्था᳘तुं य᳘छक्नो᳘ति त᳘स्माछिक्य᳘मृतु᳘भिरेॗवैनमेत᳘द्बिभर्ति ष᳘डुद्यामम् भवति षड्ढ्यृत᳘वः॥

मूलम् - विस्वरम्

यद्वेवैनं शिक्येन बिभर्ति । संवत्सर एषो ऽग्निः । ऋतवः शिक्यम् । ऋतुभिर्हि संवत्सरः शक्नोति स्थातुम् । यच्छक्नोति- तस्माच्छिक्यम् । ऋतुभिरेवैनमेतद्बिभर्त्ति । षडुद्यामं भवतिः । षड्ढ्यृतवः ॥ १८ ॥

सायणः

प्रकारान्तरेण प्रशंसति- यद्वेवैनं शिक्येन बिभर्त्तीति । एतत् पूर्वकण्डिकावद् व्याख्येयम् । अग्नेः संवत्सररूपत्वं संवत्सरभरणात्, शिक्यस्य स्वाश्रिताधारकत्वनियमात् संवत्सरस्याग्निरूपत्वेन ऋतूनां संवत्सराधारत्वात् तेषां शिक्यत्वं युक्तम् ॥ १८ ॥

Eggeling
  1. And, again, why he carries him by means of a netting,–he, Agni, is the year, and the netting is the seasons; for by means of the seasons the year is able to exist, and inasmuch as it is so able (śak), therefore (the netting is called) ‘śikya:’ he thus carries him by the seasons. It is furnished with six strings, for there are six seasons.

१९

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्याहोरात्रे᳘ ऽएव᳘ प्रति᳘ष्ठा॥
(ष्ठा ऽहो) अहोरात्र᳘योर्ह्यय᳘ᳫँ᳘[[!!]] संव्वत्सरः प्र᳘तिष्ठितश्चन्द्र᳘मा ऽआस᳘ञ्जनं चन्द्र᳘मसि᳘ ह्यय᳘ᳫँ᳘ संव्वत्सर᳘ ऽऋतु᳘भिरा᳘सक्तः स यो᳘ हैत᳘देवं व्वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्त्ति त᳘स्य ह वा᳘ ऽएष᳘ संव्वत्सर᳘भृतो भवति य᳘ ऽएवं व्वे᳘द संव्वत्सरो᳘पासितो हैव त᳘स्य भवति य᳘ ऽएवं न व्वेदे᳘त्यधिदेवतम्[[!!]]॥ (शतपथस्यार्धम् ॥ कण्डिकाः ३८९२)

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्याहोरात्रे᳘ ऽएव᳘ प्रति᳘ष्ठा॥
(ष्ठा ऽहो) अहोरात्र᳘योर्ह्यय᳘ᳫँ᳘[[!!]] संव्वत्सरः प्र᳘तिष्ठितश्चन्द्र᳘मा ऽआस᳘ञ्जनं चन्द्र᳘मसि᳘ ह्यय᳘ᳫँ᳘ संव्वत्सर᳘ ऽऋतु᳘भिरा᳘सक्तः स यो᳘ हैत᳘देवं व्वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्त्ति त᳘स्य ह वा᳘ ऽएष᳘ संव्वत्सर᳘भृतो भवति य᳘ ऽएवं व्वे᳘द संव्वत्सरो᳘पासितो हैव त᳘स्य भवति य᳘ ऽएवं न व्वेदे᳘त्यधिदेवतम्[[!!]]॥ (शतपथस्यार्धम् ॥ कण्डिकाः ३८९२)

मूलम् - Weber

त᳘स्याहोरात्रे᳘ एव᳘ प्रतिॗष्ठा॥
अहोरात्र᳘योर्ह्य᳘य᳘ᳫं᳘ संवत्सरः प्र᳘तिष्ठितश्चन्द्र᳘मा आस᳘ञ्जनं चन्द्र᳘मसि ह्य᳘य᳘ᳫं᳘ संवत्सर᳘ ऋतु᳘भिरा᳘सक्तः स यो᳘ हैत᳘देवं वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूप᳘म् बिभर्ति त᳘स्य ह वा᳘ एष᳘ संवत्सर᳘भृतो भवति य᳘ एवं वे᳘द संवत्सरो᳘पासितो हैव त᳘स्य भवति य᳘ एवं न वेदे᳘त्यधिदेवत᳘म्॥

मूलम् - विस्वरम्

तस्याहोरात्रे ऽएव प्रतिष्ठा । अहोरात्रयोर्ह्ययं संवत्सरः प्रतिष्ठितः । चन्द्रमा आसञ्जनम् । चन्द्रमसि ह्ययं सम्वत्सर ऋतुभिरासक्तः । स यो हैतदेवं वेद । एतेनैव रूपेणैतद्रूपं बिभर्ति । तस्य ह वा ऽएष संवत्सरभृतो भवति- य एवं वेद । संवत्सरोपासितो हैव तस्य भवति- य एवं न वेद । इत्यधिदेवतम् ॥ १९ ॥

सायणः

तस्याहोरात्रे एव प्रतिष्ठेति । चन्द्रमा आसञ्जनमिति । चन्द्रह्रासवृद्ध्युपध्यायतत्वात् संवत्सरस्य चन्द्रासञ्जनरूपत्वम् । संवत्सरात्मकत्वप्रयुक्तमर्थवादमाह- तस्य ह वा एष संवत्सरभृत इति । ‘यः’ ‘एवम्’ अग्नेः संवत्सरात्मकत्वम्, शिक्यस्य ऋत्वात्मकतां च ‘वेद’ जानीयात्, ‘तस्य’ ‘एषः’ उख्यो ऽग्निः ‘संवत्सरभृतः’ संवत्सरादर्वाचीनकाले धारणे ऽपि कृत्स्नं संवत्सरं भृतवान् भवति । उक्तविज्ञानप्रशंसार्थमविज्ञातुरुक्तफलाभावं दर्शयति- संवत्सरोपासितो हैवेति । संवत्सरमुपासित एव भवति, परं न तूक्तरूपेण भृतः । उक्तवक्ष्यमाणयोः साङ्कर्यपरिहाराय उक्तस्याधिदेवतपरतां व्यवस्थापयति- इत्यधिदेवतमिति ॥ १९ ॥

Eggeling
  1. Day and night are his foundation, for on day and night this year is founded. The moon is the connecting link, for to the moon this year is linked by means of the seasons: whosoever thus knows this, carries suchlike a one by suchlike a one. And verily by him who so knows this, he (Agni) is carried for a year; and by him who does not so know it, he is attended to for a year 11. Thus as to the deities,–

२०

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाध्यात्म᳘म्॥
(मा᳘) आ᳘त्मै᳘वाग्निः᳘ प्राणाः᳘ शि᳘क्यं[[!!]] प्राणै᳘र्ह्यय᳘मात्मा᳘[[!!]] शक्नो᳘ति स्था᳘तुं य᳘च्छक्नो᳘ति त᳘स्माच्छि᳘क्यं[[!!]] प्राणै᳘रे᳘वैनमेत᳘द्बिभर्त्ति ष᳘डुद्यामं भवति षड्ढि᳘ प्राणाः[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाध्यात्म᳘म्॥
(मा᳘) आ᳘त्मै᳘वाग्निः᳘ प्राणाः᳘ शि᳘क्यं[[!!]] प्राणै᳘र्ह्यय᳘मात्मा᳘[[!!]] शक्नो᳘ति स्था᳘तुं य᳘च्छक्नो᳘ति त᳘स्माच्छि᳘क्यं[[!!]] प्राणै᳘रे᳘वैनमेत᳘द्बिभर्त्ति ष᳘डुद्यामं भवति षड्ढि᳘ प्राणाः[[!!]]॥

मूलम् - Weber

अ᳘थाध्यात्म᳘म्॥
आॗत्मैॗवाग्निः᳘ प्राणाः᳘ शिक्य᳘म् प्राणैर्ह्य᳘य᳘मात्मा᳘ शक्नो᳘ति स्थ᳘तुं य᳘छक्नो᳘ति त᳘स्माछिक्य᳘म् प्राणै᳘रेॗवैनमेत᳘द्बिभर्ति ष᳘डुद्यामम् भवति षड्ढि᳘ प्राणाः᳟॥

मूलम् - विस्वरम्

अथाध्यात्मम् । आत्मैवाग्निः प्राणाः शिक्मम् । प्राणैर्ह्ययमात्मा शक्नोति स्थातुम् । यच्छक्नोति, तस्माच्छिक्यम् । प्राणैरेवैनमेतद्बिभर्ति । षडुद्यामं भवति । षड्ढि प्राणाः ॥ २० ॥

सायणः

अथाध्यात्ममिति । प्रदर्श्यत इति शेषः । आत्मैवाग्निरिति । आत्मा ऽत्र देहव्यतिरिक्तो मनउपाधिकः । ‘प्राणाः’ शीर्षण्याः ‘शिक्यम्’ । ननु निरवयवमात्मानं प्रति धारकत्वेन कथं प्राणानां शिक्यत्वयोग्यतेति ? तत्राह- प्राणैर्ह्ययमात्मा शक्नोति स्थातुमिति । “प्राणाधिपः सञ्चरति स्वकर्मभिः”- (श्वेत. उप. ५ । ७ ।) इत्यादिश्रुतेः प्राणोपाधिकत्वेन देहाख्यगृहे ऽवस्थानसम्भवात् । अतः शक्नोत्यनेन अवस्थातुमिति वर्णव्यापत्त्या शिक्यशब्दो निष्पन्नः । ‘प्राणानां’ चक्षुःश्रोत्रनासारन्ध्रवर्त्तिनां षट्सङ्ख्यायोगात् “षड्ढि प्राणाः”- इत्युक्तम् ॥ २० ॥

Eggeling
  1. Now as to the self (or body of Agni). Agni doubtless is the self, and the netting is the vital airs, for by means of the vital airs that self is able to exist; and inasmuch as it is so able (śak) therefore (the netting is called) ‘śikya:’ he thus carries (sustains) him by means of the vital airs; and it is furnished with six strings, because there are six vital airs.

२१

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्य म᳘न ऽएव᳘ प्रतिष्ठा[[!!]]॥
म᳘नसि᳘ ह्यय᳘मात्मा[[!!]] प्र᳘तिष्ठितो᳘ ऽन्नमास᳘ञ्जनम᳘न्ने᳘ ह्यय᳘मात्मा᳘[[!!]] प्राणैरा᳘सक्तः स यो᳘ हैत᳘देवं व्वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्त्ति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्य म᳘न ऽएव᳘ प्रतिष्ठा[[!!]]॥
म᳘नसि᳘ ह्यय᳘मात्मा[[!!]] प्र᳘तिष्ठितो᳘ ऽन्नमास᳘ञ्जनम᳘न्ने᳘ ह्यय᳘मात्मा᳘[[!!]] प्राणैरा᳘सक्तः स यो᳘ हैत᳘देवं व्वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूपं᳘ बिभर्त्ति॥

मूलम् - Weber

त᳘स्य म᳘न एव᳘ प्रतिष्ठा᳟॥
म᳘नसि ह्य᳘य᳘मात्मा प्र᳘तिष्ठितो᳘ ऽन्नमास᳘ञ्जनम᳘न्ने ह्य᳘य᳘मात्मा᳘ प्राणैरा᳘सक्तः स यो᳘ हैत᳘देवं वे᳘दैते᳘नैव᳘ रूपे᳘णैत᳘द्रूप᳘म् बिभर्ति॥

मूलम् - विस्वरम्

तस्य मन एव प्रतिष्ठा । मनसि ह्ययमात्मा प्रतिष्ठितः । अन्नमासञ्जनम् । अन्ने ह्ययमात्मा प्राणैरासक्तः । स यो हैतदेवं वेद एतेनैव- रूपेणैतद्रूपं बिभर्ति ॥ २१ ॥

सायणः

शिक्यस्याधस्ताद्वर्तिनमवयवं दर्शयति- तस्य मन एव प्रतिष्ठेति । एतत् समर्थयते- मनसि ह्ययमात्मा प्रतिष्ठित इति । मनसा परिच्छेद्यत्वात् मनसि प्रतिष्ठितत्वम् । शिक्यस्योपर्यवयवं दर्शयति- अन्नमासञ्जनमन्ने ह्ययमात्मा प्राणैरासक्त इति । अन्नाभावे सोपाधिकस्यात्मतो भोगाभावात् प्राणद्वारेणान्नासक्तो भवति । आत्मरूपो ऽग्निर्मनस्सम्बद्धैः प्राणाख्यैरिन्द्रियैरन्नं भुञ्जानो वर्त्तत इत्यभिप्रायः । स यो हैतदिति । ‘एतत्’ अग्निशक्त्यात्मकं वस्तु ‘एवम्’ उक्तप्रकारेण अग्नेरात्मत्वम् प्राणानां शिक्यत्वाद्यात्मकतां च ‘वेद’ सः, एतेनेत्यादि, व्याख्यातम् ॥ २१ ॥

Eggeling
  1. The mind is his foundation, for on the mind this body is founded,–and food is the connecting link, for to food this body is linked by means of the vital airs: whosoever thus knows this, carries suchlike (Agni) by suchlike means.

२२

विश्वास-प्रस्तुतिः

(र्त्य᳘) अ᳘थैनमुख᳘या बिभर्त्ति॥
(र्त्ती) इमे वै᳘ लोका᳘ ऽउ᳘खेमे वा᳘ ऽएतं᳘ लोका य᳘न्तुमर्हन्त्येभि᳘रेतं᳘ लोकै᳘र्द्देवा᳘ ऽअबिभरुरेभि᳘रे᳘वैनमेत᳘ल्लोकै᳘र्बिभर्त्ति॥

मूलम् - श्रीधरादि

(र्त्य᳘) अ᳘थैनमुख᳘या बिभर्त्ति॥
(र्त्ती) इमे वै᳘ लोका᳘ ऽउ᳘खेमे वा᳘ ऽएतं᳘ लोका य᳘न्तुमर्हन्त्येभि᳘रेतं᳘ लोकै᳘र्द्देवा᳘ ऽअबिभरुरेभि᳘रे᳘वैनमेत᳘ल्लोकै᳘र्बिभर्त्ति॥

मूलम् - Weber

अ᳘थैनमुख᳘या बिभर्ति॥
इमे वै᳘ लोका᳘ उॗखेमे वा᳘ एतं᳘ लोका य᳘न्तुमर्हन्त्येभि᳘रेतं᳘ लोकै᳘र्देवा᳘ अबिभरुरेभि᳘रेॗवैनमेत᳘ल्लोकै᳘र्बिभर्ति॥

मूलम् - विस्वरम्

अथैनमुखया बिभर्ति । इमे वै लोका उखा । इमे वा ऽएतं लोका यन्तुमर्हन्ति । एभिरेतं लोकैर्देवा अबिभरुः । एभिरेवैनमेतल्लोकैर्बिभर्ति ॥ २२ ॥

सायणः

उखयैव धारणं प्रशंसति- अथैनमुखयेति । ‘एनम्’ अग्निम् ‘इमे लोकाः’ ‘यन्तुं’ धारयितुम् अर्हन्ति ॥ २२ ॥

Eggeling
  1. Now he carries him by means of the fire-pan; for the pan is these worlds, and these worlds are indeed able to hold him: by means of these worlds the gods carried him, and by means of them he (the Sacrificer) now carries him.

२३

विश्वास-प्रस्तुतिः

सा य᳘दुखा ना᳘म॥
(मै) एतद्वै᳘ देवा᳘ ऽएते᳘न क᳘र्मणैत᳘या ऽऽवृ᳘तेमाल्ँ᳘लोकानु᳘दखनन्य᳘दुद᳘खनंस्त᳘स्मादु᳘त्खोत्खा᳘ ह वै ता᳘मुखेत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवाः[[!!]]॥

मूलम् - श्रीधरादि

सा य᳘दुखा ना᳘म॥
(मै) एतद्वै᳘ देवा᳘ ऽएते᳘न क᳘र्मणैत᳘या ऽऽवृ᳘तेमाल्ँ᳘लोकानु᳘दखनन्य᳘दुद᳘खनंस्त᳘स्मादु᳘त्खोत्खा᳘ ह वै ता᳘मुखेत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवाः[[!!]]॥

मूलम् - Weber

सा य᳘दुखा ना᳘म॥
एतद्वै᳘ देवा᳘ एते᳘न क᳘र्मणैत᳘यावृ᳘तेमां᳘लोकानु᳘दखनन्य᳘दुद᳘खनंस्त᳘स्मादुॗत्खीत्खा᳘ ह वै ता᳘मुखेत्या᳘चखते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवाः᳟॥

मूलम् - विस्वरम्

सा यदुखा नाम । एतद्वै देवा एतेन कर्मणैतया ऽऽवृतेमांल्लोकानुदखनन् । यदुदखनन्- तस्मादुत्खा । उत्खा ह वै तामुखेत्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः ॥ २३ ॥

सायणः

उखां स्वशब्दप्रवृत्तिनिमित्तप्रदर्शनद्वारा प्रशंसति- सा यदुखा नामेत्यादिना । ‘सा’ स्थाली ‘यद्’ यस्मात् उखानाम धृतवती, तदभिधीयत इति शेषः । एतद्वै देवाः उदखनन्- इति सम्बन्धः । तत्प्रकारमभिनीय दर्शयति- एतेन कर्मणेति । ‘एतेन’ परिदृश्यमानप्रकारेण । तद् विशिनष्टि- एतयैवावृतेति । ‘आवृत्’ प्रकारविशेषः । उद्धिमत्या उखाया लोकत्रयात्मकत्वस्योक्तत्वात् (श. प. ६ का. ५ अ. २ ब्रा. ४ क.) उखोत्खननमेव लोकत्रयोत्खननमित्यर्थः । खननमत्र निर्माणमभिप्रेतम् । उत्खन्यमानत्वात् ‘उखा’ । स्पष्टमन्यत् ॥ २३ ॥

Eggeling
  1. And as to why it is called ‘Ukhā;’–by means of this sacred performance and this process the gods at that time dug out these worlds; and inasmuch as they so dug out (ut-khan), it (the pan representing the worlds) is called ‘utkhā,’–‘utkhā’ being what they mysteriously (esoterically) call ‘ukhā,’ for the gods love the mysterious.

२४

विश्वास-प्रस्तुतिः

(स्त) तद्वा᳘ ऽउखे᳘ति द्वे᳘ ऽअक्ष᳘रे॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्बिभर्त्ति᳘ सो ऽएव᳘ कुम्भी सा᳘ स्थाली तत्षट् ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(स्त) तद्वा᳘ ऽउखे᳘ति द्वे᳘ ऽअक्ष᳘रे॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्बिभर्त्ति᳘ सो ऽएव᳘ कुम्भी सा᳘ स्थाली तत्षट् ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

तद्वा᳘ उखे᳘ति द्वे᳘ अक्ष᳘रे॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘द्बिभर्तिॗ सो एव᳘ कुम्भी सा᳘ स्थाली तत्षट् ष᳘डृत᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

तद्वा ऽउखेति द्वे ऽअक्षरे । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद् बिभर्ति । सो ऽएव कुम्भी, सा स्थाली । तत् षट् । षडृतवः संवत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद् भवति ॥ २४ ॥

सायणः

भरणीयामुखां तद्गताक्षरसंख्यया प्रशंसति- तद्वा उखेति द्वे अक्षरे इत्यादिना । यजमानस्य चीयमानाग्न्यात्मना संस्कर्त्तव्यत्वात् ‘यजमानो ऽग्निः’ इत्युच्यते । यावानग्निरिति । द्वित्वपरिमाणवान् । ‘अस्य’ यजमानाभिन्नस्याग्नेः ‘यावती मात्रा’ अवयवः पादगतसंख्यया, ‘तावता’ कृत्स्नेनापि ‘एनम्’ ‘एतेन’ प्रकारेण ‘बिभर्ति’ धृतवान् भवति यजमानः । एवमन्यत्रापि यावानग्निरित्येतद् व्याख्येयम् ॥

पर्यायान्तरं समुच्चित्य तद्गतसंख्याद्वारेणोखाभरणं स्तौति- सो एव कुम्भी सा स्थाली तत् षडित्यादिना । ‘सो एवं’ उखा, सैव, ‘उ’ शब्दो ऽनर्थकः । ‘कुम्भी’ कुम्भीत्यपि व्यवह्रियते, ‘सा’ एव ‘स्थाली’ अत्र ‘तत्’ सर्वाणि मिलित्वा ’ षट्’ गतमन्यत् ॥ २४ ॥

Eggeling
  1. Now ‘ukhā’ (consists of) two syllables,–the Sacrificer is two-footed, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, by so much he thus carries him. And that same (pan) is a pot (kumbhī), it is a cauldron (sthālī) 12; this

makes six (syllables),–six seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमि᳘ण्ड्वाभ्यां प᳘रिगृह्णाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रहोरात्रे᳘ ऽइ᳘ण्ड्वे ऽअमुं त᳘दादित्य᳘महोरात्रा᳘भ्यां प᳘रिगृह्णाति त᳘स्मादे᳘षो ऽहोरात्रा᳘भ्यां प᳘रिगृहीतः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमि᳘ण्ड्वाभ्यां प᳘रिगृह्णाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रहोरात्रे᳘ ऽइ᳘ण्ड्वे ऽअमुं त᳘दादित्य᳘महोरात्रा᳘भ्यां प᳘रिगृह्णाति त᳘स्मादे᳘षो ऽहोरात्रा᳘भ्यां प᳘रिगृहीतः॥

मूलम् - Weber

अ᳘थैनमिॗण्ड्वा प᳘रिगृह्णाति॥
असौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रहोरात्रे᳘ इण्ड्वे अमुं त᳘दादित्य᳘महोरात्रा᳘भ्याम् प᳘रिगृह्णाति त᳘स्मादेॗषो ऽहोरात्रा᳘भ्याम् प᳘रिगृहीतः॥

मूलम् - विस्वरम्

अथैनमिण्ड्वाभ्यां परिगृह्णाति । असौ वा ऽआदित्य एषो ऽग्निः । अहोरात्रे ऽइण्ड्वे । अमुं तदादित्यमहोरात्राभ्यां परिगृह्णाति । तस्मादेषो ऽहोरात्राभ्यां परिगृहीतः ॥ २५ ॥

सायणः

उख्याग्नेरिण्ड्वाभ्यां परिग्रहं प्रशंसति- अथैनमिण्ड्वाभ्यामिति (का. श्रौ. सू. १६ । १४८), ‘इण्ड्वे’ इति तप्तोखाधारणसाधनभूतौ परिमण्डलौ पदार्थविशेषौ; ताभ्याम् ‘एनम्’ उखाग्निं परिगृह्णाति । एकस्यैव तेजसः क्षित्यादिष्वग्न्याद्यात्मना ऽवस्थानात् “त्रेधा ऽऽत्मानं व्यकुरुत”- इत्यादिश्रुतेः (श. प. १० । ६ । ५ । ३) । एषो ऽग्निरेव असौ आदित्यः । परिभ्रमतः आदित्यस्य पुरस्तात् पश्चाच्चावस्थिते ‘अहोरात्रे’ एव इण्ड्वस्थानीये, अत इण्ड्वाभ्यामग्निपरिग्रहेणैव अहोरात्राभ्याम् अमुम् आदित्यं परिगृहीतवान् भवति । उक्तमर्थं लोकप्रसिद्ध्या द्रढयति- तस्मादेष इति ॥ २५ ॥

Eggeling
  1. He now takes hold of him (Agni 13) by means of two (straw) pads 14; for he, Agni, is yonder sun, and the two pads are day and night he thus takes hold of yonder sun by means of the day and the night, and hence that (sun) 15 is encompassed by day and night.

२६

विश्वास-प्रस्तुतिः

(तो) य᳘द्वे᳘वैनमि᳘ण्ड्वाभ्यां परिगृह्णा᳘ति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रिमा᳘ ऽउ लोका᳘वि᳘ण्ड्वे ऽअमुं त᳘दादित्य᳘माभ्यां᳘ लोका᳘भ्यां प᳘रिगृह्णाति त᳘स्मादेष᳘ ऽआभ्यां᳘ लोका᳘भ्यां प᳘रिगृहीतः परिमण्डले᳘ भवतः परिमण्डलौ᳘ हीमौ᳘ लोकौ᳘ मौञ्जे᳘ त्रिवृ᳘ती त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धे त᳘स्यो ऽए᳘वोक्तो᳘ ऽथो ऽअ᳘नतिदाहाय[[!!]]॥

मूलम् - श्रीधरादि

(तो) य᳘द्वे᳘वैनमि᳘ण्ड्वाभ्यां परिगृह्णा᳘ति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रिमा᳘ ऽउ लोका᳘वि᳘ण्ड्वे ऽअमुं त᳘दादित्य᳘माभ्यां᳘ लोका᳘भ्यां प᳘रिगृह्णाति त᳘स्मादेष᳘ ऽआभ्यां᳘ लोका᳘भ्यां प᳘रिगृहीतः परिमण्डले᳘ भवतः परिमण्डलौ᳘ हीमौ᳘ लोकौ᳘ मौञ्जे᳘ त्रिवृ᳘ती त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धे त᳘स्यो ऽए᳘वोक्तो᳘ ऽथो ऽअ᳘नतिदाहाय[[!!]]॥

मूलम् - Weber

य᳘द्वेॗवैननमि᳘ण्ड्वाभ्याम् परिगृह्णा᳘ति॥
असौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रिमा᳘ उ लोका᳘विॗण्ड्वे अमुम् त᳘दादित्य᳘माभ्यां᳘ लोका᳘भ्याम् प᳘रिगृह्णाति त᳘स्मादेष᳘ आभ्यां᳘ लोका᳘भ्याम् प᳘रिगृहीतः परिमण्डले᳘ भवतः परिमण्डलौॗ हीमौ᳘ लोकौ᳘ मौञ्जे᳘ त्रिवृ᳘ती त᳘स्योक्तो ब᳘न्धुर्मृदा᳘ दिग्धे त᳘स्योॗ एवोक्तो᳘ ऽथो अ᳘नतिदाहाय॥

मूलम् - विस्वरम्

यद्वेवैनमिण्ड्वाभ्यां परिगृह्णाति । असौ वा ऽआदित्य एषो ऽग्निः । इमा ऽउ लोकाविण्ड्वे । अमुं तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति । तस्मादेष आभ्यां लोकाभ्यां परिगृहीतः । परिमण्डले भवतः । परिमण्डलौ हीमौ लोकौ । मौञ्जे त्रिवृती । तस्योक्तो बन्धुः । मृदा दिग्धे । तस्यो ऽएवोक्तः । अथो ऽअनतिदाहाय ॥ २६ ॥

सायणः

इत्थमिण्ड्वे अहोरात्रात्मना प्रशस्य द्युपृथिव्याख्यलोकद्वयात्मना ऽपि प्रशंसति- यद्वेवैनमिति । तयोर्वर्तुलत्वं प्रशंसति- परिमण्डले भवतः परिमण्डलौ हीमौ लोकाविति । इण्ड्वयोर्मुञ्जविधृतित्वं त्रिवृत्त्वं च विधाय तदर्थवादमुक्तमतिदिशति- मौञ्जे त्रिवृती तस्योक्तो बन्धुरिति । “त्रिवृदग्निः" इत्यादिनेत्यर्थः (श. प. ६ । ३ । १ । २७ कं.) । तयोर्बहिर्दाहपरिहाराय मृद्दिग्धत्वं विधाय तद्वाक्यशेषमप्यतिदिशति- मृदा दिग्धे तस्यो एवोक्त इति (श. प. ६ । ७ । १ । १५) । अत्र सूत्रम्- “इण्ड्वशिक्यासन्दीषु मुञ्जरज्जवस्त्रिवृतो मृद्दिग्धाः, परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति” (का. श्रौ. सू. १६ । १४७ । १४८) इति ॥ २६ ॥

Eggeling
  1. And, again, why he takes hold of him by means of two pads,–he, Agni, is yonder sun, and the two pads are these two worlds: he thus encompasses yonder sun by these two worlds, and hence he is encompassed by these two worlds. They are round, for these two worlds are round; of reed-grass, triply wound,–the significance of this has been told;–and smeared with clay,–(the significance) of this also has been told, but it also serves to keep them from taking fire.

२७

विश्वास-प्रस्तुतिः

(या) अथा᳘तः सम्प᳘देव᳘॥
(वा) आसन्दी᳘ चोखा᳘ च शि᳘क्यञ्च रुक्मपाश᳘श्चाग्नि᳘श्च रुक्म᳘श्च तत्षट् ष᳘डृत᳘वः संव्वत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवती᳘ण्ड्वे त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(या) अथा᳘तः सम्प᳘देव᳘॥
(वा) आसन्दी᳘ चोखा᳘ च शि᳘क्यञ्च रुक्मपाश᳘श्चाग्नि᳘श्च रुक्म᳘श्च तत्षट् ष᳘डृत᳘वः संव्वत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवती᳘ण्ड्वे त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

अथा᳘तः सम्प᳘देव᳟॥
आसन्दो᳘ चोखा᳘ च शिक्यं᳘ च रुक्भपाश᳘श्चाग्नि᳘श्च रुक्भ᳘श्च तत्षट् ष᳘डृत᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवतीॗण्ड्वे त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

अथातः सम्पदेव । आसन्दी च, उखा च, शिक्यञ्च, रुक्मपाशश्च, अग्निश्च, रुक्मश्च- तत् षट् । षडृतवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति । इण्ड्वे, तदष्टौ । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ २७ ॥

सायणः

धर्त्तव्यस्याग्नेर्यावन्तः साधनपदार्थाः प्रागुक्ताः, तेषां या सङ्ख्या ऽस्ति, तां सङ्ख्यां प्रशंसति- अथातः सम्पदेवासन्दी चोखा चेत्यादिना । इतः ‘परं सम्पत्’ सम्पत्तिरेवोच्यते, न तु नूतनः कश्चित् पदार्थो ऽभिधीयत इत्यर्थः । शिक्यादयः षट्, ऋतवो ऽपि षट्, तदात्मकः संवत्सरो ऽग्निः, ‘अतः’ उक्तार्थसम्पादनेनैक एवाग्निः संवत्सरसम्मितो भवतीति ‘सम्पत्’ । उक्तपदार्थसङ्ख्यया इण्ड्वसङ्ख्यामपि समुच्चित्य सम्पत्त्यन्तरं दर्शयति- इण्ड्वे तदष्टाविति । अग्नेर्गायत्र्याश्च प्रजापतिमुखात् सहोत्पन्नत्वोपाधिनैकत्वम् (तै. सं. ७ । १ । १ । ४) ॥ २७ ॥

Eggeling
  1. Now then the (mystic) correspondence (of the number of objects to the nature of Agni),–the seat, the fire-pan, the sling of the gold plate, the fire, and the gold plate,–these amount to six;–six seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become. Two pads, that makes eight,–the Gāyatrī has eight syllables, and Agni is Gāyatra as great as Agni is, as great as is his measure, so great does this become.

२८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सर्व्वसम्प᳘त्॥
(च्च) चत्वा᳘रः पा᳘दाश्चत्वा᳘र्यनू᳘च्यानि शि᳘क्यं[[!!]] च रुक्मपाश᳘श्च य᳘दु कि᳘ञ्च रज्ज᳘व्यᳫँ᳭[[!!]] शि᳘क्यं[[!!]] तद᳘नू᳘खा ऽग्नी᳘ रुक्मस्तत्त्र᳘योदश त्र᳘योदश मा᳘साः संवत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सर्व्वसम्प᳘त्॥
(च्च) चत्वा᳘रः पा᳘दाश्चत्वा᳘र्यनू᳘च्यानि शि᳘क्यं[[!!]] च रुक्मपाश᳘श्च य᳘दु कि᳘ञ्च रज्ज᳘व्यᳫँ᳭[[!!]] शि᳘क्यं[[!!]] तद᳘नू᳘खा ऽग्नी᳘ रुक्मस्तत्त्र᳘योदश त्र᳘योदश मा᳘साः संवत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

अ᳘थ सर्वसम्प᳘त्॥
चत्वा᳘रः पा᳘दाश्चत्वा᳘र्यनूॗच्यानि शिक्यं᳘ च रुक्भपाश᳘श्च य᳘दु किं᳘ च रज्जव्यं᳘ शिक्यं᳘ तद᳘नूॗखाग्नी᳘ रुक्भस्तत्त्र᳘योदश त्र᳘योदश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

अथ सर्वसम्पत् । चत्वारः पादाः, चत्वार्यनूच्यानि, शिक्यं च, रुक्मपाशश्च, यदु किञ्चरज्जव्यं- शिक्यम् । तदनूखा ऽग्नी रुक्मः । तत् त्रयोदश । त्रयोदश मासाः संवत्सरः । सम्वत्सरो ऽग्निः, यावानग्निर्यावत्यस्य मात्रा; तावत्तद् भवति ॥ २८ ॥

सायणः

इत्थं प्रधानपदार्थगतसंख्यासम्पत्तिमुक्त्वा ऽथ सर्वविषयां सम्पदं दर्शयति- अथ सर्वसम्पदिति । उच्यत इति शेषः । ‘चत्वारः पादाः’ आसन्द्यां सन्ति, तस्याश्चतुर्दिक्ष्ववस्थितानि ‘चत्वारि अनूच्यानि’, तन्मिलित्वा ऽष्टौ । शिक्यं रुक्मपाशो द्वौ । ननु शिक्यावयवा बहवः सन्ति, कथं न गण्यन्त इत्यत आह- यदु किञ्च रज्जव्यं शिक्यमिति । ‘तदनु’ शिक्यमनु ‘उखा’ भवति, सैका अग्निरुक्माभ्यां सह ‘त्रयोदश’ । त्रयोदश मासाः संवत्सर इत्यादि, स्पष्टम् ॥ २८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे सप्तमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (६-७-१) ॥

Eggeling
  1. Now the total correspondence,–four feet and four boards (of the seat), the netting, and the sling of the gold plate, or any other corded netting; after that the pan and fire, and the gold plate,–that makes thirteen;–thirteen months are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.

  1. 265:1 That is, the Ukhya Agni, or fire in the pan, which the Sacrificer will have to carry about during his time of initiation; and which, moreover, is here taken to, be the Sacrificer’s divine body (VI, 6, 4. 5). ↩︎

  2. 265:2 See I, 3, 5, 12,–twelve months of the year, five seasons, and three worlds: this makes twenty; and he that burns yonder is the twenty-first. See also Ait. Br. IV, is, where the sun is identified with the Ekaviṁśa or Vishuvat day, the central day of the year, by which the gods raised the sun up to the heavens. ↩︎

  3. इण्ड्वशिक्यासंदीषु मुंजरज्जवस्त्रिव्वृतो मृद्विग्धाः । का.श्रौ. सू १६ । १४७ । ↩︎

  4. 268:1 That is, the boards forming the seat itself; and being a cubit long. ↩︎

  5. 268:2 Lit. ‘from (the fire in the pan) burning over (or through the clay);’ or ‘from (their) being burnt over.’ ↩︎

  6. इण्ड्वशिक्यासंदीषु मुंजरज्जवस्त्रिव्वृतो मृद्दिग्धाः का० श्रौ० सू० १६ । १४७ । ↩︎

  7. शिक्यपाशं प्रतिमुंचते षड्यामं व्विश्वा रुपाणीति का० श्रौ० सू० १६ । १५१ । ↩︎

  8. 268:3 Apparently a round netted mat, on which the fire-pan is to be placed, and which is fastened to a cord by means of six strings, thus somewhat resembling the scale of a balance. ↩︎

  9. 269:1 Or, the central point, the hinge or hook, to which the worlds are attached. ↩︎

  10. 269:2 Lit. carries that form by that form,–that is to say, he sustains, by means of the sun, the whole world in the form of Agni. ↩︎

  11. 269:3 That is to say, he who desires to derive the full benefit from the initiation ceremony, and the Agnicayana generally, must not only keep up the Ukhya Agni (or pan-fire) during the year of the initiation, but must also carry him at least for a time every day during that period. ↩︎

  12. 270:1 These words, according to Sāyaṇa, are merely intended as synonymous (paryāya) for ‘ukhā,’ or fire-pan, not as different vessels (such as the pot used temporarily when the pan is broken) as one might suppose. ↩︎

  13. 271:1 That is, of the pan containing the fire. ↩︎

  14. 271:2 Sāyaṇa (on VII, 2, 1, 15) explains them as two balls of straw. The comparison in 26 rather points to their being round mats. ↩︎

  15. 271:3 Thus Sāyaṇa. If, on the other hand, Agni be intended here, this might be taken as an illusion to the regular worship of the fire at the morning and evening twilights (cf. VI, 7, 2, 3). ↩︎