०१

विश्वास-प्रस्तुतिः

अ᳘थैनमस्यां᳘ खनति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽइमा᳘मे᳘वात्मा᳘नमकुर्व्वन्गु᳘प्त्या ऽआ᳘त्मा ऽऽत्मा᳘नं गोप्स्यती᳘ति॥

मूलम् - श्रीधरादि

अ᳘थैनमस्यां᳘ खनति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽइमा᳘मे᳘वात्मा᳘नमकुर्व्वन्गु᳘प्त्या ऽआ᳘त्मा ऽऽत्मा᳘नं गोप्स्यती᳘ति॥

मूलम् - Weber

अ᳘थैनमस्यां᳘ खनति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा इमा᳘मेॗवात्मा᳘नमकुर्वन्गु᳘प्त्या आॗत्मात्मा᳘नं गोप्स्यती᳘ति॥

मूलम् - विस्वरम्

अथैनमस्यां खनति । एतद्वै देवा अबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा ऽइमामेवात्मानमकुर्वन्- गुप्त्यै । आत्मा ऽऽत्मानं गोप्स्यतीति ॥ १ ॥

सायणः

अथावटखननं विधत्ते- अथैनमस्यां खनतीति । ‘एनम्’ अवटम् ‘अस्यां’ पृथिव्याम् उखास्थापनार्थं खनेत् । अवटखननं पुरावृत्तान्ताभिधानमुखेन प्रशंसति- एतद्वै देवा अबिभयुरिति । ‘एतत्’ एतेन वक्ष्यमाणेन खलु ‘देवाः’ भीताः आसन्, ‘नः’ अस्माकं सम्बन्धिनम् ‘इमम्’ उखेष्टकारूपं पदार्थं ‘नाष्ट्रा’ नाशकारीणि रक्षांसि ‘न हन्युः’ हननं न कुर्युरिति । यदेतदस्ति, ‘एतत्’ एतेनेति पूर्वत्रान्वयः । ‘तस्मै’ अवयवभूताय उखादिपदार्थाय ‘इमां’ पृथिवीम् ‘एव’ ‘आत्मानम्’ अवयविनम् ‘अकुर्वन्’ । एवं कुर्वतामभिप्रायमाह- आत्मानं गोप्स्यतीति । यश्चात्मभूतमङ्गं स्वयं रक्षति, तथा रक्षिष्यतीति तेषामाशयः ॥ १ ॥

Eggeling
  1. He now digs that (hole) 1 in the earth; for the gods now were afraid, thinking, ‘We hope the Rakshas, the fiends, will not smite here this (Agni) of

ours!’ They made this (earth) to be his self (body), for protection, thinking, ‘The self will protect itself.’

०२

विश्वास-प्रस्तुतिः

तां वा ऽअ᳘दित्या खनति॥
(ती) इयं वा ऽअ᳘दिति᳘र्नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै य᳘दन्य᳘या देव᳘तया ख᳘नेद्धिᳫँ᳭स्या᳘द्धैनम्॥

मूलम् - श्रीधरादि

तां वा ऽअ᳘दित्या खनति॥
(ती) इयं वा ऽअ᳘दिति᳘र्नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै य᳘दन्य᳘या देव᳘तया ख᳘नेद्धिᳫँ᳭स्या᳘द्धैनम्॥

मूलम् - Weber

तं वा अ᳘दित्या खनति॥
इयं वा अ᳘दितिॗर्नो वा᳘ आॗत्मात्मा᳘नᳫं हिनस्त्य᳘हिंसायै य᳘दन्य᳘या देव᳘तया ख᳘नेद्धिंस्या᳘द्धैनम्॥

मूलम् - विस्वरम्

तां वा ऽअदित्या खनति । इयं वा ऽअदितिः । नो वा ऽआत्मा ऽऽत्मानं हिनस्त्यहिंसायै । यदन्यया देवतया खनेद्- हिंस्याद्धैनम् ॥ २ ॥

सायणः

खननमनूद्य मन्त्रं विधत्ते- तां वा अदित्या खनतीति । ‘अदित्या’ अदितिदेवतात्मकेन मन्त्रेणेत्यर्थः । अन्वयव्यतिरेकाभ्यामदितिः खनने प्रशस्तेति दर्शयति । इयं वा अदितिरित्यादिना । येयम् ‘अदितिः’ देवता, सा ‘इयं वै’ पृथिवी खलु । आदत्ते सर्वमित्यदितिरिति व्युत्पत्तेः । स्पष्टमन्यत् । यथा पादतललग्नकण्टकाद्युद्धरणादिषु स्वयं चेन्न हिनस्ति, अन्यश्चेत् हिंस्यात्; एवमिति भावः ॥ २ ॥

Eggeling
  1. He digs him out with (the help of) Aditi, in order to guard him from injury; for Aditi is this earth, and one does not injure one’s own self; but were he to dig with (the help of) another deity, he surely would injure him (Agni).

०३

विश्वास-प्रस्तुतिः

(म᳘) अ᳘दितिष्ट्वा देवी᳘ व्विश्व᳘देव्या᳘वती॥
पृथिव्याः[[!!]] सध᳘स्थे ऽअङ्गिरस्व᳘त्खनत्ववटे᳘त्यवटो᳘ हैष᳘ देवत्रा᳘ ऽत्र सा᳘ व्वैणव्य᳘भ्रिरु᳘त्सीदति च᳘तुःस्रक्तिरेष कू᳘पो भवति च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यः᳘ खनत्य᳘थ प᳘चनमवधाया᳘षाढाम᳘वदधाति तूष्णी᳘मेव ताᳫँ᳭ हि पू᳘र्व्वां करोति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘दितिष्ट्वा देवी᳘ व्विश्व᳘देव्या᳘वती॥
पृथिव्याः[[!!]] सध᳘स्थे ऽअङ्गिरस्व᳘त्खनत्ववटे᳘त्यवटो᳘ हैष᳘ देवत्रा᳘ ऽत्र सा᳘ व्वैणव्य᳘भ्रिरु᳘त्सीदति च᳘तुःस्रक्तिरेष कू᳘पो भवति च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यः᳘ खनत्य᳘थ प᳘चनमवधाया᳘षाढाम᳘वदधाति तूष्णी᳘मेव ताᳫँ᳭ हि पू᳘र्व्वां करोति॥

मूलम् - Weber

अ᳘दितिष्ट्वा देवी᳘ विश्व᳘देव्यावती॥
पृथिव्याः᳘ सध᳘स्थे अङ्गिरस्व᳘त्खनत्ववटे᳘त्यवटो᳘ हैष᳘ देवत्रा᳘त्र सा᳘ वैणव्य᳘भ्रिरु᳘त्सीदति च᳘तुःस्रक्तिरेष कू᳘पो भवति च᳘तस्रो वै दि᳘शः स᳘र्वाभ्य ए᳘वैनमेत᳘द्दिग्भ्यः᳘ खनत्य᳘थ प᳘चनमवधाया᳘षाढाम᳘वदधाति तूष्णी᳘मेव ताᳫं हि पू᳘र्वां करोति॥

मूलम् - विस्वरम्

“अदितिष्ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽअङ्गिरस्वत् खनत्ववट”- इति । अवटो हैष देवत्रा । अत्र सा वैणव्यभ्रिरुत्सीदति । चतुःस्रक्तिरेष कूपो भवति । चतस्रो वै दिशः । सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति । अथ पचनमवधायाषाढामवदधाति- तूष्णीमेव । तां हि पूर्वां करोति ॥ ३ ॥

सायणः

मन्त्रं दर्शयति- अदितिष्ट्वा देवीति । अयमर्थः- हे अवट ! ‘त्वा’ ‘अदितिः’ अदीना देवमाता । ‘देवी’ खनतु । कीदृशी ? ‘विश्वदेव्यावती’ विश्वेषां देवानां हितं कर्म विश्वदेव्यम्, तदस्या अस्तीति- (पा. सू. ६ । ४ । १३१) विश्वदेव्यावती । “मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ”- (पा. सू. ५ । २ । ९४) इति दीर्घः । किंवत् ? ‘अङ्गिरस्वत्’ अङ्गिरसो यथा तथा । कुत्र ? ‘पृथिव्याः’ ‘सधस्थे’ सहस्थाने उपरीत्यर्थः । ‘इति’- शब्दो मन्त्रसमाप्त्यर्थ इति ॥

अवटो हैष देवत्रेति । ‘एषः अवटः’ ‘देवत्रा’ देवम् अग्निं प्रति साधुः, इष्टकोखारक्षकत्वात् । अवटखननसाधनम्, उखार्थमृत्खननार्थं प्रागाहृता वैणव्यभ्रिरेवेत्याह- अथ सा वैणव्यभ्रिरुत्सीदतीति । ‘अत्र’ अवटखनने सा यैव पूर्वमुपयुक्ता ‘वैणवी’ वेणुविकारभूता ‘अभ्रिः’ ‘सा’ ‘उत्सीदति’ विनश्यति, कृतप्रयोजना भवतीत्यर्थः। अत्र खननार्थमाहृतायाः प्रतिपत्तिर्भवतीत्यर्थः । अवटस्य प्रकारविशेषमाह- चतुःस्रक्तिरेष कूपो भवतीति । स्रक्तयो ऽश्रयः प्रक्षेप्तव्यबहुत्वादवटबहुत्वप्रसक्तावुच्यते- एष कूप इति । ‘चतस्रो वै दिशः’ इत्यर्थवादः स्पष्टः “अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति”- (का. श्रौ. सू. १६ । १०८) इति कात्यायनः ॥

अथ यदुक्तं सूत्रकृता- “श्रपणमास्तीर्य यथाकृतमवदधाति, देवानां त्वेत्युखां न्युब्जाम्”- (का. श्रौ. सू. १६ । ११० । १११) इति, तदिदं विधत्ते- अथ पचनमिति । पच्यते ऽनेनेति पचनं तृणादिकम्, तत् ‘अवधाय’ अवटे आस्तीर्य, तूष्णीमेवादौ निष्पादितत्वात् प्रथमम् ‘अषाढाम् एव’ तूष्णीं स्थापयेत् ॥ ३ ॥

Eggeling
  1. [Vā, . S. XI, 61] ‘May the divine Aditi, clear to all the gods, dig thee, Aṅgiras-like, O hole, in the lap of the earth!’–for this hole (is dug) among the gods. That bamboo spade now disappears. This hole is four-cornered, for there are four quarters: he thus digs it from all the quarters 2. Having then laid down fuel in it, he silently puts the ‘invincible’ (brick) thereon, for that is made first.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोखाम᳘वदधाति॥
देवा᳘नां त्वा प᳘त्नीर्देवी᳘र्व्विश्व᳘देव्या᳘वतीः पृथिव्याः[[!!]] सध᳘स्थे ऽअङ्गिरस्व᳘द्दधतूख ऽइ᳘ति देवा᳘नाᳫँ᳭ हैताम᳘ग्रे प᳘त्नीर्देवी᳘र्व्विश्व᳘देव्व्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘द्दधुस्ता᳘भिरे᳘वैनामेत᳘द्दधाति ता᳘ ह ता ऽओ᳘षधय ऽएवौ᳘षधयो वै᳘ देवा᳘नां प᳘त्न्य ऽओ᳘षधिभि᳘र्हीदᳫँ᳭ स᳘र्व्वᳫँ᳭ हितमो᳘षधिभिरे᳘वैनामेत᳘द्दधात्य᳘थ व्विश्व᳘ज्योतिषो᳘ ऽवदधाति तूष्णी᳘मेवा᳘थ प᳘चनमवधा᳘या᳘भीन्द्धे॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोखाम᳘वदधाति॥
देवा᳘नां त्वा प᳘त्नीर्देवी᳘र्व्विश्व᳘देव्या᳘वतीः पृथिव्याः[[!!]] सध᳘स्थे ऽअङ्गिरस्व᳘द्दधतूख ऽइ᳘ति देवा᳘नाᳫँ᳭ हैताम᳘ग्रे प᳘त्नीर्देवी᳘र्व्विश्व᳘देव्व्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘द्दधुस्ता᳘भिरे᳘वैनामेत᳘द्दधाति ता᳘ ह ता ऽओ᳘षधय ऽएवौ᳘षधयो वै᳘ देवा᳘नां प᳘त्न्य ऽओ᳘षधिभि᳘र्हीदᳫँ᳭ स᳘र्व्वᳫँ᳭ हितमो᳘षधिभिरे᳘वैनामेत᳘द्दधात्य᳘थ व्विश्व᳘ज्योतिषो᳘ ऽवदधाति तूष्णी᳘मेवा᳘थ प᳘चनमवधा᳘या᳘भीन्द्धे॥

मूलम् - Weber

अ᳘थोखाम᳘वदधाति॥
देवा᳘नां त्वा प᳘त्नीर्देवी᳘र्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे अङ्गिरस्व᳘द्दधतूख इ᳘ति देवा᳘नाᳫं हैताम᳘ग्रे प᳘त्नीर्देवी᳘र्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘द्दधुस्ता᳘भिरेॗवैनामेत᳘द्दधाति ता᳘ ह ता ओ᳘षधय एवौ᳘षधयो वै᳘ देवा᳘नाम् प᳘त्न्य ओ᳘षधिभिॗर्हीदᳫं स᳘र्वᳫं हितमो᳘षधिभिरेॗवैनामेत᳘द्दधात्य᳘थ विश्व᳘ज्योतिषो᳘ ऽवदधाति तूष्णी᳘मेवा᳘थ प᳘चनमवधा᳘याॗभीन्द्धे॥

मूलम् - विस्वरम्

अथोखामवदधाति । “देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वद्दधतूखे”- इति । देवानां हैतामग्रे पत्नीर्द्देवीविश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद्दधुः- ताभिरेवैनामेतद्दधाति । ता ह ता ओषधय एव । ओषधयो वै देवानां पत्न्यः । ओषधिभिर्हीदं सर्वं हितम् । ओषधिभिरेवैनामेतद्दधाति । अथ विश्वज्योतिषो ऽवदधाति- तूष्णीमेव । अथ पचनमवधायाभीन्द्धे ॥ ४ ॥

सायणः

अथोखामवदधातीति । पश्चादुखां “देवानां त्वा पत्नीः”- इति मन्त्रेण अवाङ्मुखामवदध्यात् । ‘देवीः’- ‘विश्वदेव्यावतीः’- इत्युभयत्र “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इति पूर्णसवर्णदीर्घः ॥ मन्त्रं व्याचष्टे- देवानां हैतामग्र इति । या देवपत्न्यः- इन्द्राणी, अग्नायी, आश्विनी, राट् इत्याद्याः (निरु. १२ । ४ । १२) पुरा उखामवटे स्थापितवत्यः । अतः अनेन मन्त्रेण ताभिरवस्थापितवान् भवतीत्यर्थः । ‘देवपत्नी’- शब्दस्य ओषधयो ऽर्थ इति सोपपत्तिकं वदन् तेन मन्त्रेणोपधानं प्रशंसति- ता ह ता ओषधय एवेति । ‘ता ह’ ताः खलु देवपत्न्यः, ‘ताः’ ‘ओषधय एव;’ न त्वन्या इति मन्तव्यमित्योषध्यात्मना देवपत्नीस्तुतिः । तर्ह्योषधीनां निधानशक्तिः कुत इत्यत आह- ओषधीभिर्हीदं सर्वं हितमिति । व्रीहियवादिरूपाणामोषधीनाम् अस्य कृत्स्नस्य जगतो धारकत्वं प्रसिद्धम् । निर्माणक्रमप्राप्तानां विश्वज्योतिषामवधानं विधत्ते- अथ पचनमित्यादिना । दीपनं दक्षिणाग्निनैव । “दक्षिणाग्न्यग्निना दीपयति धिषणास्त्वेति”- (का. श्रौ. सू. १६ । ११२) इति सूत्रम् ॥ ४ ॥

Eggeling
  1. He then sets down the fire-pan (with the bottom part upwards), with, ‘May the divine wives of the gods, dear to all the gods, place thee, Aṅgiras-like, O fire-pan, in the lap of the earth!’ for of old the divine wives of the gods, dear to all the gods, indeed, like Aṅgiras, placed that (fire-pan) into the lap of the earth, and by (the help of) them he now places it. But, surely, these are the plants,–the wives of the gods are indeed the plants; for by the plants everything here is supported: by means of the plants he thus supports this (fire-pan). He then lays down silently the all-light’ (bricks). Having then placed fuel thereon he kindles it.

०५

विश्वास-प्रस्तुतिः

धिष᳘णास्त्वा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘द᳘भीन्धतामुख ऽइ᳘ति धिष᳘णा हैताम᳘ग्रे देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘द᳘भीधिरे ता᳘भिरे᳘वैनामेत᳘द᳘भीन्द्धे सा᳘ ह सा व्वा᳘गेव व्वाग्वै᳘ धिष᳘णा व्वाचा᳘ हीदᳫँ᳭ स᳘र्व्वमिद्धं᳘ व्वा᳘चै᳘वैनामेत᳘द᳘भीन्द्धे᳘ ऽथैता᳘नि त्री᳘णि य᳘जूᳫँ᳭षी᳘क्षमाण ऽएव᳘ जपति॥

मूलम् - श्रीधरादि

धिष᳘णास्त्वा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘द᳘भीन्धतामुख ऽइ᳘ति धिष᳘णा हैताम᳘ग्रे देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘द᳘भीधिरे ता᳘भिरे᳘वैनामेत᳘द᳘भीन्द्धे सा᳘ ह सा व्वा᳘गेव व्वाग्वै᳘ धिष᳘णा व्वाचा᳘ हीदᳫँ᳭ स᳘र्व्वमिद्धं᳘ व्वा᳘चै᳘वैनामेत᳘द᳘भीन्द्धे᳘ ऽथैता᳘नि त्री᳘णि य᳘जूᳫँ᳭षी᳘क्षमाण ऽएव᳘ जपति॥

मूलम् - Weber

धिष᳘णास्त्वा देवीः᳟॥
विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे अङ्गिरस्व᳘दॗभीन्धतामुख इ᳘ति धिष᳘णा हैताम᳘ग्रे देवी᳘र्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘दॗभीधिरे ता᳘भिरेॗवैनामेत᳘दॗभीन्द्धे सा᳘ ह सा वा᳘गेव वाग्वै᳘ धिष᳘णा वाचाॗ हीदᳫं स᳘र्वमिद्धं᳘ वाॗचैॗवैनामेत᳘दॗभीन्द्धे᳘ ऽथैता᳘नि त्री᳘णि य᳘जूंषी᳘क्षमाण एव᳘ जपति॥

मूलम् - विस्वरम्

“धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वदभीन्धतामुखे”- इति । धिषणा हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वदभीधिरे- ताभिरेवैनामेतदभीन्द्धे । सा ह सा वागेव । वाग्वै धिषणा । वाचा हीदं सर्वमिद्धम् । वाचैवैनामेतदभीन्द्धे । अथैतानि त्रीणि यजूंषीक्षमाण एव जपति ॥ ५ ॥

सायणः

धिषणास्त्वेति । मन्त्रस्तु पूर्ववद्व्याख्येयः । धिषणा हैतामित्यादि- ब्राह्मणमपि पूर्ववत् । ‘अभीधिरे’ अभितो ऽदीपयन् । धिषणाशब्दस्य विवक्षितमर्थं ब्रुवन् तस्याः प्रकृतकर्मयोग्यतासमर्थनाय समिन्धनप्रसिद्धिमाह- सा ह सा वागेवेति । या सा खलु धिषणा, ‘सा’ प्रसिद्धा ‘वागेव’ नान्या; वाचा व्यवहाराभावे कस्यापि वस्तुनो ऽभिव्यक्तेरभावात् वाचा हीदं सर्वमिद्धमित्युक्तम् । ‘इद्धम्’ दीपितं प्रकाशितमित्यर्थः ॥ यदुक्तं सूत्रकृता- “वरूत्रीष्ट्वेतीक्षमाणो जपति”- (का. श्रौ. सू. १६ । ११४) इति, तदिदं विधत्ते- अथैतानि त्रीणि यजूंषीक्षमाण एव जपतीति । “वरूत्रीष्ट्वा,” “ग्नास्त्वा,” “जनयस्त्वा”- इति त्रीणि। ‘वरूत्रीः’ वरूत्रयः (पा. सू. ७ । २ । ३४) । अर्थवादे बहुवचनान्तत्वेन निर्देशात् एकेन श्रपणं द्वाभ्यां पचनं यद्यपि वर्ण्यते, तथापि पाकश्रपणयोरग्निकर्त्तव्यत्वेन स्वस्यानुकूलप्रयत्नमन्तरेण स्वकर्त्तव्याभावात् ईक्षणपूर्वको जप एव कर्त्तव्य इत्येवकारस्याभिप्रायः ॥ ५ ॥

Eggeling
  1. ‘May the divine Dhishaṇās, dear to all the gods, kindle thee, Aṅgiras-like, O fire-pan, in the lap of the earth!’ for of old the divine

Dhishaṇās, dear to all the gods, indeed kindled it, like Aṅgiras, in the lap of the earth, and with their help he now kindles it. But, surely, this is Vāc (speech),–the Dhishaṇās are indeed speech 3, for by speech everything is kindled here: by means of speech he thus kindles this (fire-pan). Whilst looking at it, he then mutters these three formulas:

०६

विश्वास-प्रस्तुतिः

व्व᳘रूत्रीष्ट्वा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘च्छ्रपयन्तूख ऽइ᳘ति व्व᳘रूत्रीर्हैताम᳘ग्रे देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘च्छ्रपयाञ्चक्रुस्ता᳘भिरे᳘वैनामेत᳘च्छ्रपयति ता᳘नि ह ता᳘न्यहोरात्रा᳘ण्ये᳘वाहोरात्रा᳘णि वै व्व᳘रूत्रयो ऽहोरात्रै᳘र्हीदᳫँ᳭ स᳘र्व्वं वृत᳘महोरात्रै᳘रे᳘वैनामेत᳘च्छ्रपयति॥

मूलम् - श्रीधरादि

व्व᳘रूत्रीष्ट्वा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘च्छ्रपयन्तूख ऽइ᳘ति व्व᳘रूत्रीर्हैताम᳘ग्रे देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘च्छ्रपयाञ्चक्रुस्ता᳘भिरे᳘वैनामेत᳘च्छ्रपयति ता᳘नि ह ता᳘न्यहोरात्रा᳘ण्ये᳘वाहोरात्रा᳘णि वै व्व᳘रूत्रयो ऽहोरात्रै᳘र्हीदᳫँ᳭ स᳘र्व्वं वृत᳘महोरात्रै᳘रे᳘वैनामेत᳘च्छ्रपयति॥

मूलम् - Weber

व᳘रूत्रीष्ट्वा देवीः᳟॥
विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थ अङ्गिरस्व᳘छ्रपयन्तूख इ᳘ति व᳘रूत्रीर्हैताम᳘ग्रे देवी᳘र्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘छ्रपयां᳘ चक्रुस्ता᳘भिरेॗवैनामेत᳘छ्रपयति ता᳘नि ह ता᳘न्यहोरात्रा᳘ण्येॗवाहोरात्रा᳘णि वै व᳘रूत्रयो ऽहोरात्रैॗर्हीदᳫं स᳘र्वं वृत᳘महोरात्रै᳘रेॗवैनामेत᳘छ्रपयति॥

मूलम् - विस्वरम्

“वरूत्रीष्ट्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वच्छ्रपयन्तूखे”- इति । वरूत्रीर्हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वच्छ्रपयाञ्चक्रुः- ताभिरेवैनामेतच्छ्रपयति । तानि ह तान्यहोरात्राण्येव । अहोरात्राणि वै वरूत्रयः । अहोरात्रैर्हीदं सर्वं वृतम् । अहोरात्रैरेवैनामेतच्छ्रपयति ॥ ६ ॥

सायणः

प्रथमं यजुरभिधाय व्याचष्टे- वरूत्रीष्ट्वा देवीरिति । वरूत्रिशब्दस्याभिप्रेतमर्थमाह- तानि हेति । ‘तानि’ एतानि ‘अहोरात्राणि’ । प्रतिनिर्द्देश्यमानाहोरात्रापेक्षया तानीति । वरूत्रीणामहोरात्रनिर्देशात् नपुंसकता, अथवा सामान्यविवक्षया नपुंसकत्वं द्रष्टव्यम्; तानि वरूत्र्याख्यानि कृत्स्नं जगत् श्रपयन्त्विति । वरूत्रय इति यो ऽयं वरूत्रिशब्दस्यावयवार्थः, तस्येतरस्याहोरात्रेषु सद्भावं दर्शयत्युक्तार्थसमर्थनाय- अहोरात्रैर्हीदं सर्वं वृतमिति । ‘अहोरात्रैरेव’ ‘एनाम्’ उखां श्रपयति, यः ‘एतत्’ एतेन अहोरात्रवाचकवरूत्रिशब्दयुक्तेन यजुषा श्रपयति ॥ ६ ॥

Eggeling
  1. ‘May the divine protectresses, dear to all the gods, heat thee, O fire-pan, Aṅgiras-like, in the lap of the earth!’ for of old the divine protectresses, dear to all the gods, indeed, like Aṅgiras, heated it in the lap of the earth; and by them he now heats it. But, surely, these are the days and nights,–the protectresses are indeed the days and nights; for by days and nights everything is covered here: by means of the days and nights he thus heats it.

०७

विश्वास-प्रस्तुतिः

ग्ना᳘स्त्वा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘त्पचन्तूख ऽइ᳘ति ग्ना᳘ हैताम᳘ग्रे देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘त्पेचुस्ता᳘भिरे᳘वैनामेत᳘त्पचति ता᳘नि ह ता᳘नि च्छ᳘न्दाᳫँ᳭स्येव च्छ᳘न्दाᳫँ᳭सि वै ग्नाश्छ᳘न्दोभिर्हि᳘ स्वर्गं᳘ लोकं ग᳘च्छन्ति च्छ᳘न्दोभिरे᳘वैनामेत᳘त्पचति॥

मूलम् - श्रीधरादि

ग्ना᳘स्त्वा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘त्पचन्तूख ऽइ᳘ति ग्ना᳘ हैताम᳘ग्रे देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘त्पेचुस्ता᳘भिरे᳘वैनामेत᳘त्पचति ता᳘नि ह ता᳘नि च्छ᳘न्दाᳫँ᳭स्येव च्छ᳘न्दाᳫँ᳭सि वै ग्नाश्छ᳘न्दोभिर्हि᳘ स्वर्गं᳘ लोकं ग᳘च्छन्ति च्छ᳘न्दोभिरे᳘वैनामेत᳘त्पचति॥

मूलम् - Weber

ग्ना᳘स्त्वा देवीः᳟॥
विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे अङ्गिरस्व᳘त्पचन्तूख इ᳘ति ग्ना᳘ हैताम᳘ग्रे देवी᳘र्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽङ्गिरस्व᳘त्पेचुस्ता᳘भिरॗवैनामेत᳘त्पचति ता᳘नि ह ता᳘नि छ᳘न्दांस्येव छ᳘न्दांसि वै ग्नाश्छ᳘न्दोभिर्हि᳘ स्वर्गं᳘ लोकं ग᳘छन्ति छ᳘न्दोभिरेॗवैनामेत᳘त्पचति॥

मूलम् - विस्वरम्

“ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वत्पचन्तूखे”- इति । ग्ना हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत् पेचुः- ताभिरेवैनामेतत् पचति । तानि ह तानि च्छन्दांस्येव । छन्दांसि वै ग्नाः । छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति । छन्दोभिरेवैनामेतत् पचति ॥ ७ ॥

सायणः

अथ द्वितीयं यजुरनूद्य व्याचष्टे- ग्नास्त्वा देवीरित्यादिना । यदुक्तं “छन्दांसि वै ग्नाः” इति, तदुपपादयति- छन्दोभिर्हि स्वर्गं लोकं गच्छन्तीति । गच्छन्त्याभिर्यजमानाः स्वर्गमिति व्युत्पत्तेः छन्दःस्वपि सम्भवादित्यर्थः । “ग्नाः गच्छन्त्येनाः” इति निरुक्तम् (निरु. ३ । ४ । ४) ॥ ७ ॥

Eggeling
  1. ‘May the divine ladies, dear to all the gods, bake thee, Aṅgiras-like, O fire-pan, in the lap of the earth!’ for of old the divine ladies, dear to all the gods, did, like Aṅgiras, bake it in the lap of the earth, and with their help he now bakes it. But, surely, these are the metres,–the ladies (gnā) are indeed the metres (scripture texts), for by means of these men go (gam) to the celestial world: by means of the metres he thus bakes it.

०८

विश्वास-प्रस्तुतिः

ज᳘नयस्त्वा᳘ च्छिन्नपत्रा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘त्पचन्तूख ऽइ᳘ति ज᳘नयो हैतामग्रे᳘ ऽच्छिन्नपत्रा देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘त्पेचुस्ता᳘भिरे᳘वैनामेत᳘त्पचति ता᳘नि ह ता᳘नि न᳘क्षत्राण्येव न᳘क्षत्राणि वै ज᳘नयो ये हि ज᳘नाः पुण्यकृ᳘तः स्वर्गं᳘ लोकं य᳘न्ति ते᳘षामेता᳘नि ज्यो᳘तीᳫँ᳭षि न᳘क्षत्रैरे᳘वैनामेत᳘त्पचति॥

मूलम् - श्रीधरादि

ज᳘नयस्त्वा᳘ च्छिन्नपत्रा देवीः᳘॥
(र्व्वि) व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘त्पचन्तूख ऽइ᳘ति ज᳘नयो हैतामग्रे᳘ ऽच्छिन्नपत्रा देवी᳘र्व्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे ऽअङ्गिरस्व᳘त्पेचुस्ता᳘भिरे᳘वैनामेत᳘त्पचति ता᳘नि ह ता᳘नि न᳘क्षत्राण्येव न᳘क्षत्राणि वै ज᳘नयो ये हि ज᳘नाः पुण्यकृ᳘तः स्वर्गं᳘ लोकं य᳘न्ति ते᳘षामेता᳘नि ज्यो᳘तीᳫँ᳭षि न᳘क्षत्रैरे᳘वैनामेत᳘त्पचति॥

मूलम् - Weber

ज᳘नयस्त्वा᳘छिन्नपत्रा देवीः᳟॥
विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे अङ्गिरस्व᳘त्पचन्तूख इ᳘ति ज᳘नयो हैतामग्रे᳘ ऽछिन्नपत्रा देवी᳘र्विश्व᳘देव्यावतीः पृथिव्याः᳘ सध᳘स्थे अङ्गिरस्व᳘त्पेचुस्ता᳘भिरेॗवैनामेत᳘त्पचति ता᳘नि ह ता᳘नि न᳘क्षत्राण्येव न᳘क्षत्राणि वै ज᳘नयो ये हि ज᳘नाः पुण्यकृ᳘तः स्वर्गं᳘ लोकं य᳘न्ति ते᳘षामेता᳘नि ज्यो᳘तींषि न᳘क्षत्रैरेॗवैनामेत᳘त्पचति॥

मूलम् - विस्वरम्

“जनयस्त्वा ऽच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽअङ्गिरस्वत् पचन्तूखे”- (वा. सं. ११ । ६१) इति । जनयो हैतामग्रे ऽच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत् पेचुः- ताभिरेवैनामेतत् पचति । तानि ह तानि नक्षत्राण्येव । नक्षत्राणि वै जनयः । ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति- तेषामेतानि ज्योतींषि । नक्षत्रैरेवैनामेतत् पचति ॥ ८ ॥

सायणः

तृतीयं यजुरनूद्य व्याचष्टे- जनयस्त्वा ऽच्छिन्नपत्रा इति । जायन्ते जनाः पुण्यकृतो नक्षत्ररूपेणेति ‘जनयः’ नक्षत्राणि, तानि च ‘अच्छिन्नपत्राः’ अच्छिन्नपतनसाधनपक्षयुक्तानीत्यर्थः; न हि तानि सुकृतक्षयादर्वाक् पतन्ति । जनिशब्दार्थमाह- तानि ह तानि नक्षत्राण्येवेति । नक्ष्यन्ते प्राप्यन्ते सुकृतिभिरिति नक्षत्राणि । उक्तं निर्देशिनां नपुंसकत्वम् । “नक्षत्राणि नक्षतेर्गतिकर्मणः”- (निरु. ३ । ४ । ३) इति नैरुक्तम् । नक्षत्राणां जनित्वप्रसिद्धिं दर्शयति- ये हि जनाः पुण्यकृत इति । ‘तेषां’ स्वर्गं यतां यानि ‘एतानि ज्योतींषि’, तानि नक्षत्राणि । ‘श्रपयन्तूखे’, ‘पचन्तूखे’, इत्यनयोः श्रपणं पाकक्रियासामान्यम्, पचनं पाकनिर्वृत्तिरिति विवेकः ॥ ८ ॥

Eggeling
  1. ‘May the divine women, with unclipped wings, dear to all the gods, bake thee, Aṅgiras-like, O fire-pan, in the lap of the earth!’ for

of old the divine women, with unclipped wings, dear to all the gods, did bake it, like Aṅgiras, in the lap of the earth; and with their help he now bakes it. But, surely, these are the stars,–the women (jani) are indeed the stars, for these are the lights of those righteous men (jana) who go to the celestial world: it is by means of the stars that he thus bakes it.

०९

विश्वास-प्रस्तुतिः

स वै ख᳘नत्ये᳘केन॥
(ना᳘) अ᳘वदधात्ये᳘केना᳘भीन्द्ध ऽए᳘केन श्रप᳘यत्ये᳘केन द्वा᳘भ्यां पचति त᳘स्माद्द्विः᳘ संव्वत्सरस्या᳘न्नं पच्यते ता᳘नि षट् स᳘म्पद्यन्ते ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

स वै ख᳘नत्ये᳘केन॥
(ना᳘) अ᳘वदधात्ये᳘केना᳘भीन्द्ध ऽए᳘केन श्रप᳘यत्ये᳘केन द्वा᳘भ्यां पचति त᳘स्माद्द्विः᳘ संव्वत्सरस्या᳘न्नं पच्यते ता᳘नि षट् स᳘म्पद्यन्ते ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

स वै ख᳘नत्ये᳘केन॥
अ᳘वदधात्ये᳘केनाॗभीन्द्ध ए᳘केन श्रप᳘यत्ये᳘केन द्वा᳘भ्याम् पचति त᳘स्माद्द्विः᳘ संवत्सरस्या᳘न्नम् पच्यते ता᳘नि षट् स᳘म्पद्यन्ते ष᳘दृत᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

स वै खनत्येकेन, अवदधात्येकेन, अभीन्द्ध एकेन, श्रपयत्येकेन, द्वाभ्यां पचति । तस्माद् द्विः सम्वत्सरस्यान्नं पच्यते । तानि षट् सम्पद्यन्ते । षडृतवः सम्वत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ ९ ॥

सायणः

खननादिमन्त्रगतां सङ्ख्यामनूद्य प्रशंसति- स वै खनत्येकेनेत्यादिना 4 । खननादिक्रिया त्वेकैकेनैव मन्त्रेण, पाकस्य तु मन्त्रद्वयसाध्यत्वं विहितम्, तस्यार्थवादः- तस्माद् द्विः संवत्सरस्यान्नमिति । शाल्यादिपरिपाकः संवत्सरस्य द्विर्भवतीति प्रसिद्धम् । षडृतवो मिलित्वा संवत्सरो भवति, स संवत्सरो ऽग्निः । प्रजापतिना संवत्सरो ध्रियमाणो भवति । अस्तु संवत्सरो ऽग्निः प्रजापतिना धृतः, तथा च किमायातमित्यत आह- यावानग्निर्यावत्यस्य मात्रेति । यावानिति स्वरूपस्येयत्ता, यावतीत्यवयवस्य । तावत्तद् भवतीति । नैमित्तिकचित्या सह चितीनामप्यवयवानां षट्त्वात् सा मन्त्रगता सङ्ख्या ऋतुसङ्ख्याद्वारेणाग्नेर्मात्रया समा भवति । चित्यात्मकस्याग्नेः स्वरूपस्यैकत्वात् ऋतुषट्सङ्ख्यावतो ऽवयविनः संवत्सरस्याप्येकत्वाच्च सा मन्त्रगता सङ्ख्या संवत्सरद्वारेण अग्निर्यावान् तावती भवतीत्यर्थः ॥ ९॥

Eggeling
  1. Now he digs with one (formula), he sets down (the fire-pan) with one, he kindles with one, he heats with one, he bakes (pac) with two, whence twice in the year food is ripened (pac); these amount to six,–six seasons are a year, and Agni is the year: as great as Agni is, as great as is his measure, so great does this become.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मित्र᳘स्य चर्षणीधृ᳘त ऽइ᳘ति॥
मैत्रे᳘ण य᳘जुषोपन्या᳘चरति या᳘वत्कि᳘यच्चोपन्याच᳘रति न वै᳘ मित्रं क᳘ञ्चन᳘ हिनस्ति न᳘ मित्रं क᳘श्चन᳘ हिनस्ति त᳘थो हैष᳘ ऽएतां न᳘ हिन᳘स्ति᳘ नो ऽएत᳘मेषा तां दि᳘वै᳘वोपव᳘पेद्दिवो᳘द्वपेद᳘ह᳘र्ह्याग्नेयम्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मित्र᳘स्य चर्षणीधृ᳘त ऽइ᳘ति॥
मैत्रे᳘ण य᳘जुषोपन्या᳘चरति या᳘वत्कि᳘यच्चोपन्याच᳘रति न वै᳘ मित्रं क᳘ञ्चन᳘ हिनस्ति न᳘ मित्रं क᳘श्चन᳘ हिनस्ति त᳘थो हैष᳘ ऽएतां न᳘ हिन᳘स्ति᳘ नो ऽएत᳘मेषा तां दि᳘वै᳘वोपव᳘पेद्दिवो᳘द्वपेद᳘ह᳘र्ह्याग्नेयम्[[!!]]॥

मूलम् - Weber

अ᳘थ मित्र᳘स्य चर्षणीधृ᳘त इ᳘ति॥
मैत्रे᳘ण य᳘जुषोपन्या᳘चरति या᳘वत्कि᳘यच्चोपन्याच᳘रति न वै᳘ मित्रं कं᳘ चन᳘ हिनस्ति न᳘ मित्रं क᳘श्चन᳘ हिनस्ति त᳘थो हैष᳘ एतां न᳘ हिन᳘स्तिॗ नो एत᳘मेषा तां दि᳘वैॗवोपव᳘पेद्दिवो᳘द्वपेद᳘हॗर्ह्याग्नेय᳘म्॥

मूलम् - विस्वरम्

अथ “मित्रस्य चर्षणीधृतः”- (वा. सं. ११ । ६२) इति मैत्रेण यजुषोपन्याचरति । यावत् कियच्चोपन्याचरति । न वै मित्रं कञ्चन हिनस्ति, न मित्रं कश्चन हिनस्ति । तथो हैष एतां न हिनस्ति । नो ऽएतमेषा । तां दिवैवोपवपेत्, दिवोद्वपेद् । अहर्ह्याग्नेयम् ॥ १० ॥

सायणः

उखायाः समन्त्रकमुपावहरणं विधाय प्रशंसति- अथ 5 मित्रस्य चर्षणीधृत इति मैत्रेण यजुषोपन्याचरतीति । लोके ‘मित्रं’ मित्रभूतः पुमान् ‘न’ ‘कञ्चन’ ‘हिनस्ति’ मित्रत्वादेव; ‘मित्रम्’ अपि ‘न’ ‘कश्चन’ मित्रत्वादेव । ‘तथो’ तथा च सति मैत्रेण मन्त्रेण नितरामुपचरणीयस्य पुनस्तृणप्रक्षेपाद्युपचारे सति ‘एषः’ यजमानः ‘एताम्’ उखां मित्रत्वादेव ‘न हिनस्ति’ । ‘नो’ नैव ‘एतम्’ उपचरन्तं यजमानम् ‘एषा’ उखा, मामयं दहतीति क्रुद्धा सती न हिनस्ति । तस्याः प्रक्षेपोत्क्षेपणयोः कालनियममाह- तां दिवैवोपवपेद्, दिवोद्वपेदिति । उपवापो ऽवटे प्रक्षेपः, उद्वापस्तत ऊर्द्ध्वं नयनम् । अहर्ह्याग्नेयमिति अग्नेः सूर्यस्य तेजस एकत्वाभिभावकत्वाभिप्रायेण ॥ १० ॥

Eggeling
  1. And as often as he attends to (the fire by adding fresh fuel) 6 he attends to it with the prayer relating to Mitra, ‘[The protection] of Mitra, the preserver of men 7 . . .;’ for a friend (mitra) does not injure any one, nor does any one injure his friend; and in like manner does this one not injure that (fire-pan), nor does it (injure) him. By day he should put (fuel) on it, by day he should clear it (of the ashes).

११

विश्वास-प्रस्तुतिः

ता᳘ᳫँ᳘ सावित्रे᳘ण य᳘जुष्वो᳘द्वपति॥
सविता वै᳘ प्रसविता᳘ सवितृ᳘प्रसूत ऽए᳘वैनामेतदु᳘द्वपति देव᳘स्त्वा सवितो᳘द्वपतु सुपाणिः᳘ स्वंगुरिः᳘ सुबाहु᳘रुत शक्त्ये᳘ति स᳘र्व्वमु᳘ ह्येत᳘त्सविता[[!!]]॥

मूलम् - श्रीधरादि

ता᳘ᳫँ᳘ सावित्रे᳘ण य᳘जुष्वो᳘द्वपति॥
सविता वै᳘ प्रसविता᳘ सवितृ᳘प्रसूत ऽए᳘वैनामेतदु᳘द्वपति देव᳘स्त्वा सवितो᳘द्वपतु सुपाणिः᳘ स्वंगुरिः᳘ सुबाहु᳘रुत शक्त्ये᳘ति स᳘र्व्वमु᳘ ह्येत᳘त्सविता[[!!]]॥

मूलम् - Weber

ता᳘ᳫं᳘ सावित्रे᳘ण य᳘जुष्वो᳘दपति॥
सविता वै᳘ प्रसविता᳘ सवितृ᳘प्रसूत एॗवैनामेतदु᳘द्वपति देव᳘स्त्वा सवितो᳘द्वपतु सुपाणिः᳘ स्वङ्गुरिः᳘ सुबाहु᳘रुत शक्त्ये᳘ति स᳘र्वमुॗ ह्येत᳘त्सविता᳟॥

मूलम् - विस्वरम्

तां सावित्रेण यजुषोद्वपति । सविता वै प्रसविता । सवितृप्रसूत एवैनामेतदुद्वपति । “देवस्त्वा सवितोद्वपतु, सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्या”- इति । सर्वमु ह्येतत् सविता ॥ ११ ॥

सायणः

उद्वापे मन्त्रं विधास्यन् सावित्रमाह- तां सावित्रेण यजुषोद्वपतीति 5 । यजुषो ऽयमर्थः- हे उखे ! ‘त्वा’ त्वां ‘सविता’ सर्वस्य प्रेरको देवः उद्वपतु । कीदृश ? ‘सुपाणिः’ ‘पाणिः’ पानादिसाधनप्रदेशः, शोभनेन तेन युक्तः । ‘स्वङ्गुरिः’ शोभनाङ्गुलिकः । “बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यत इति वक्तव्यम्”- (पा. सू. ८ । २ । १८ वा. २) इति विकल्पेन रत्वम् । बाहुर्भुजदण्डः । ‘उत’ अपि च शक्त्या महत्या युक्त इति शेषः । सर्वमु ह्येतत् सवितेति । एतत् ‘सर्वं’ सुपाण्यादिकं ‘सविता’ एव, न देवतान्तरमित्यर्थः । उक्त उद्वपनार्थः ॥ ११ ॥

Eggeling
  1. He clears it (of the ashes) with a prayer relating to Savitr̥,–for Savitr̥ is the impeller: impelled

by Savitr̥, he thus clears it–[Vāj. S. XI, 63] ‘May the divine Savitr̥, the well-handed, well-fingered, and well-armed, clear thee by his might!’–for Savitr̥ is all that.

१२

विश्वास-प्रस्तुतिः

(ता᳘ ऽथै) अ᳘थैनां प᳘र्यावर्त्तयति॥
(त्य᳘) अ᳘व्यथमाना पृथिव्यामा᳘शा दि᳘श ऽआ᳘पृणेत्य᳘व्यथमाना त्वं᳘ पृथिव्यामा᳘शा दि᳘शो र᳘सेना᳘पूरये᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(ता᳘ ऽथै) अ᳘थैनां प᳘र्यावर्त्तयति॥
(त्य᳘) अ᳘व्यथमाना पृथिव्यामा᳘शा दि᳘श ऽआ᳘पृणेत्य᳘व्यथमाना त्वं᳘ पृथिव्यामा᳘शा दि᳘शो र᳘सेना᳘पूरये᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थैनाम् प᳘र्यावर्तयति॥
अ᳘व्यथमाना पृथिव्यामा᳘शा दि᳘श आ᳘पृणेत्य᳘व्यथमाना त्व᳘म् पृथिव्यामा᳘शा दि᳘शो र᳘सेना᳘पूरये᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथैनां पर्यावर्तयति । “अव्यथमाना पृथिव्यामाशा दिश आपृण”- (वा० सं० ११ । ६३) इति । अव्यथमाना त्वं पृथिव्यामाशा दिशो रसेनापूरयेतत् ॥ १२ ॥

सायणः

यदुक्तं सूत्रकृता- “उखामुत्तानां करोति अव्यथमानेति”- (का. श्रौ. सू. १६ । ११९ । १२०) इति, तदिदं समन्त्रकं पर्यावर्त्तनं विधत्ते- अथैनां पर्यावर्त्तयत्यव्यथमानेति । पर्यावर्त्तनमूर्द्ध्वाभिमुखीकरणम् । हे उखे ! ‘अव्यथमाना’ व्यथामप्राप्नुवन्तो, ‘पृथिव्याम्’ अवस्थिता त्वम्, इमाः परिव्याप्ताः ‘आशाः’ प्राच्यादयः, ‘दिशः’ आग्नेय्यादिविदिशश्च ‘आ’ सर्वतः ‘पृण’ पूरय । आपृणेत्यस्याप्यर्थमाह- आपूरयेति । ‘एतत्’ एव आपृण, इत्यस्य यद् वाच्यमस्ति, तदेतदेव, न त्वितो ऽधिकमित्यर्थः ॥ १२ ॥

Eggeling
  1. He then turns it (the fire-pan) round, with. ‘Not tottering upon the earth, fill the regions, the quarters!’–that is, ’not tottering, fill thou with sap the regions and quarters on earth!’

१३

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थैनामु᳘द्यच्छति॥
(त्यु) उत्था᳘य बृहती᳘ भवे᳘त्युत्था᳘य᳘ हीमे᳘ लोका᳘ बृह᳘न्त ऽउ᳘दु तिष्ठ ध्रुवा त्वमित्यु᳘दु तिष्ठ स्थिरा त्वं प्र᳘तिष्ठिते᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थैनामु᳘द्यच्छति॥
(त्यु) उत्था᳘य बृहती᳘ भवे᳘त्युत्था᳘य᳘ हीमे᳘ लोका᳘ बृह᳘न्त ऽउ᳘दु तिष्ठ ध्रुवा त्वमित्यु᳘दु तिष्ठ स्थिरा त्वं प्र᳘तिष्ठिते᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थैनामु᳘द्यछति॥
उत्था᳘य बृहती᳘ भवे᳘त्युत्था᳘यॗ हीमे᳘ लोका᳘ बृह᳘न्त उ᳘दु तिष्ठ ध्रुवा त्वमित्यु᳘दु तिष्ठ स्थिरा त्वम् प्र᳘तिष्ठिते᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथैनामुद्यच्छति- “उत्थाय बृहती भव”- इति । उत्थाय हीमे लोका बृहन्तः । “उदु तिष्ठ ध्रुवा त्वम्”- इति । उदु तिष्ठ स्थिरा त्वं प्रतिष्ठितेत्येतत् ॥ १३ ॥

सायणः

तस्या गर्त्तादुद्धरणं समन्त्रकं विधत्ते- अथैनामुद्यच्छत्युत्थाय बृहती भवेतीति 8 । उद्यमनमूर्द्ध्वधारणम् । हे उखे ! उद्गत्य प्रथिता उत्थिता भव; न ह्यनुत्थितायाः प्रथनमुपपद्यते । एतन्मन्त्रभागं व्याचष्टे- उत्थाय हीमे लोका बृहन्त इति । उखाया लोकत्रयात्मकत्वेन प्रागुक्तत्वात् ‘उत्थाय’ ऊर्द्ध्वमवस्थिताय, बहिरिमे त्रयो लोका ‘बृहन्तः’ अधिकपरिमाणा दृश्यन्त इत्यभिप्रायः । उदु तिष्ठेति द्वितीयभागे ध्रुवशब्दस्य स्थैर्यं प्रतिष्ठितत्वम् अर्थ इति व्याचष्टे- उदु तिष्ठ स्थिरा त्वं प्रतिष्ठितेतीति । ‘एतत्’ उपरि स्थापितायाः ॥ १३ ॥

Eggeling
  1. He then takes it up, with [Vāj. S. XI, 641 ‘Having risen, do thou become great,’–for these worlds, having risen, are great;–‘and stand up steadfast!’ that is, ‘stand thou up firm and fixed!’

१४

विश्वास-प्रस्तुतिः

(त्तां᳘) तां᳘ परिगृ᳘ह्य नि᳘दधाति॥
मि᳘त्रैतां᳘ त ऽउखां प᳘रिददाम्य᳘भित्त्या ऽएषा मा᳘ भेदि᳘त्ययं वै᳘ व्वायु᳘र्मित्रो᳘ यो ऽयं प᳘वते त᳘स्मा ऽए᳘वैनामेतत्प᳘रिददाति गु᳘प्त्यै ते᳘ हेमे᳘ लोका᳘ मित्र᳘गुप्तास्त᳘स्मादेषां᳘ लोका᳘नां न कि᳘ञ्चन᳘ मीयते॥

मूलम् - श्रीधरादि

(त्तां᳘) तां᳘ परिगृ᳘ह्य नि᳘दधाति॥
मि᳘त्रैतां᳘ त ऽउखां प᳘रिददाम्य᳘भित्त्या ऽएषा मा᳘ भेदि᳘त्ययं वै᳘ व्वायु᳘र्मित्रो᳘ यो ऽयं प᳘वते त᳘स्मा ऽए᳘वैनामेतत्प᳘रिददाति गु᳘प्त्यै ते᳘ हेमे᳘ लोका᳘ मित्र᳘गुप्तास्त᳘स्मादेषां᳘ लोका᳘नां न कि᳘ञ्चन᳘ मीयते॥

मूलम् - Weber

ता᳘म् परिगृ᳘ह्य नि᳘दधाति॥
मि᳘त्रैतां᳘ त उखा प᳘रिददाम्य᳘भित्त्या एषा मा᳘ भेदि᳘त्ययं वै᳘ वायु᳘र्मित्रोॗ यो ऽयम् प᳘वते त᳘स्मा एॗवैनामेतत्प᳘रिददाति गु᳘प्त्यै ते᳘ हेमे᳘ लोका मित्र᳘गुप्तास्त᳘स्मादेषां᳘ लोका᳘नां न किं᳘ चन᳘ मीयते॥

मूलम् - विस्वरम्

तां परिगृह्य निदधाति- “मित्रैतां त ऽउखां परिददाम्यभित्त्या ऽएषा मा भेदि”- (वा० सं० ११ । ६४) इति । अयं वै वायुर्मित्रो- यो ऽयं पवते । तस्मा ऽएवैनामेतत् परिददाति- गुप्त्यै । ते हेमे लोका मित्रगुप्ताः । तस्मादेषां लोकानां न किञ्चन मीयते ॥ १४ ॥

सायणः

क्षीरासेचनार्थं पात्रे स्थापनं विधत्ते- तां परिगृह्येति । ‘निदधाति’ स्थापयेत्, ‘पात्रे’- इति शेषः । तथा च कात्यायनः- “परिगृह्य पात्रे करोति मित्रैतां त इति” (का. श्रौ. सू. १६ । १२२) इति ॥ हे ‘मित्र !’ देव ! वायो ! ‘एताम्’ उखां ‘ते’ तुभ्यम् ‘परिददामि’ । परिदानं रक्षणार्थं दानम् । ‘अभित्त्यै’ अभेदनाय ‘एषा’ उखा ‘मा भेदि’ भिन्ना मा भूत् इति । मित्रशब्दस्यात्र समीहितमर्थमाह- अयं वै वायुर्मित्र इति । ‘यो ऽयं पवते’ सततं वाति । “पवतिर्गतिकर्मा”- (निघ. २ । १४ । ९) । ते हेमे लोका मित्रगुप्ता इति । लोकत्रयात्मकोखापरिदानेनेदानीमपि त्रयो लोका वायुना गुप्ता धृता अविचलिता वर्त्तन्ते । ‘तस्मात्’ ‘एषां लोकानां’ मध्ये ‘न किञ्चन’ ‘मीयते’ हिंस्यते ॥ १४ ॥

Eggeling
  1. Having taken it in both hands, he sets it down, with, ‘O Mitra, unto thee I consign this fire-pan for safety: may it not break!’ for Mitra is that wind which blows yonder: it is to him he thus consigns it for .protection; for these worlds are protected by Mitra (or by a friend), whence nothing whatever is harmed in these worlds.

१५

विश्वास-प्रस्तुतिः

(ते᳘ ऽथै) अ᳘थैनामा᳘च्छृणत्ति॥
स्थेम्ने᳘ न्वेवा᳘थो क᳘र्मणः प्रकृत᳘तायै᳘ य᳘द्वे᳘वाच्छृण᳘त्ति शि᳘र ऽएत᳘द्यज्ञ᳘स्य य᳘दुखा᳘ प्राणः प᳘यः शीर्षंस्त᳘त्प्राणं᳘ दधात्य᳘थो यो᳘षा वा᳘ ऽउखा यो᳘षायां तत्प᳘यो दधाति त᳘स्माद्यो᳘षायां प᳘यः॥

मूलम् - श्रीधरादि

(ते᳘ ऽथै) अ᳘थैनामा᳘च्छृणत्ति॥
स्थेम्ने᳘ न्वेवा᳘थो क᳘र्मणः प्रकृत᳘तायै᳘ य᳘द्वे᳘वाच्छृण᳘त्ति शि᳘र ऽएत᳘द्यज्ञ᳘स्य य᳘दुखा᳘ प्राणः प᳘यः शीर्षंस्त᳘त्प्राणं᳘ दधात्य᳘थो यो᳘षा वा᳘ ऽउखा यो᳘षायां तत्प᳘यो दधाति त᳘स्माद्यो᳘षायां प᳘यः॥

मूलम् - Weber

अ᳘थैनामा᳘छृणत्ति॥
स्थेम्नेॗ न्वेवा᳘थो क᳘र्मणः प्रकृत᳘तायै य᳘द्वेॗवाछूण᳘त्ति शि᳘र एत᳘द्यज्ञ᳘स्य य᳘दुखा᳘ प्राणः प᳘यः शीर्पस्त᳘त्प्राणं᳘ दधात्य᳘थो यो᳘षा वा᳘ उखा यो᳘षायां तत्प᳘यो दधाति त᳘स्माद्यो᳘षायाम् प᳘यः॥

मूलम् - विस्वरम्

अथैनामाच्छृणत्ति- स्थेम्ने न्वेव । अयो कर्मणः प्रकृततायै । यद्वेवाच्छृणत्ति- शिर एतद्यज्ञस्य- यदुखा, प्राणः पयः । शीर्षंस्तत् प्राणं दधाति । अथो योषा वा ऽउखा । योषायां तत् पयो दधाति । तस्माद्योषायां पयः ॥ १५ ॥

सायणः

अथ तस्यामुखायां पयआसेचनं विधाय स्तौति- अथैनामाच्छृणत्ति स्थेम्ने त्वा इत्यादिना । एनाम् उखाम् ‘आच्छृणत्ति’ आसिञ्चति । गतमन्यत् । प्रकारान्तरेण प्रशंसति- यद्वेवाच्छृणत्ति, शिर एतद् यज्ञस्य यदुखेति । प्राधान्याद् उखायाः शिरस्त्वव्यवहारः । पयसो बलकरत्वात् प्राणत्वव्यपदेशः । पयोयोग्यत्वमिदानीन्तनप्रसिद्ध्या समर्थयते- अथो योषा वा उखेति । स्त्रीलिङ्गत्वादुखाया योषात्वम् । पयसः रेतोवर्द्धकत्वाद्रेतस्त्वं प्रसिद्धम् ॥ १५ ॥

Eggeling
  1. He then pours (milk) into it,–just for strength, or to (mark) the progress of the work. And, again, why he pours (milk) into it,–that fire-pan is the head of the sacrifice, and milk is breath: he thus lays breath into the head. Moreover, the fire-pan (ukhā, f.) is a female: he thus lays milk into the female, whence there is milk in the female.

१६

विश्वास-प्रस्तुतिः

(यो ऽजा᳘) अजा᳘यै प᳘यसा᳘ ऽच्छृणत्ति॥
प्रजा᳘पतेर्व्वै शो᳘कादजाः स᳘मभवन्प्रजा᳘पतिरग्नि᳘र्नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै य᳘द्वे᳘वाजा᳘या ऽअजा᳘ ह स᳘र्व्वा ऽओ᳘षधीरत्ति स᳘र्व्वासामे᳘वैनामेतदो᳘षधीनाᳫँ᳭ र᳘सेना᳘च्छृणत्ति॥

मूलम् - श्रीधरादि

(यो ऽजा᳘) अजा᳘यै प᳘यसा᳘ ऽच्छृणत्ति॥
प्रजा᳘पतेर्व्वै शो᳘कादजाः स᳘मभवन्प्रजा᳘पतिरग्नि᳘र्नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै य᳘द्वे᳘वाजा᳘या ऽअजा᳘ ह स᳘र्व्वा ऽओ᳘षधीरत्ति स᳘र्व्वासामे᳘वैनामेतदो᳘षधीनाᳫँ᳭ र᳘सेना᳘च्छृणत्ति॥

मूलम् - Weber

अजा᳘यै प᳘यसा᳘छृणत्ति॥
प्रजा᳘पतेर्वै शो᳘कादजा स᳘मभवन्प्रजा᳘पतिरग्निॗर्नो वा᳘ आॗत्मात्मा᳘नᳫं हिनस्त्य᳘हिंसायै य᳘द्वेॗवाजा᳘या अजा᳘ ह स᳘र्वा ओ᳘षधीरत्ति स᳘र्वासामे᳘वैनामेतदो᳘षधीनां र᳘सेना᳘छृणत्ति॥

मूलम् - विस्वरम्

अजायै पयसा ऽऽच्छृणत्ति । प्रजापतेर्वै शोकादजाः समभवन् । प्रजापतिरग्निः । नो वा ऽआत्मा ऽऽत्मानं हिनस्ति- अहिंसायै । यद्वेवाजायाः । अजा ह सर्वा ओषधीरत्ति । सर्वासामेवैनामेतदोषधीनां रसेना ऽऽच्छृणत्ति ॥ १६ ॥

सायणः

पयस आजत्वं विधाय स्तौति- अजायै पयसा ऽऽच्छृणत्तीति । प्रजापतेः शोकादजासम्भूतिराख्यानान्तराच्च द्रष्टव्या; चीयमानस्याग्नेः प्रजापत्यात्मकत्वं प्रागुक्तम् । प्रजापतिरग्निः । प्रकारान्तरेण स्तौति- यद्वेवाजाया इति । ‘यत्’ ‘उ’ अपि च ‘अजायाः’, पयो भवतीति शेषः । स्पष्टमन्यत् ॥ १६ ॥

Eggeling
  1. He pours goat’s milk into it to avoid injury 9; for the goat sprang from Prajāpati’s head, and Prajāpati is Agni; and one does not injure one’s own self. And as to why it is goat’s (milk),–the goat eats all (kinds of) herbs: he thus pours into it (the pan) the sap of all (kinds of) herbs.

१७

विश्वास-प्रस्तुतिः

व्व᳘सवस्त्वा᳘ ऽऽच्छृन्दन्तु॥
गायत्रे᳘ण च्छ᳘न्दसा ऽङ्गिरस्व᳘द्रुद्रास्त्वा᳘ ऽऽच्छृन्दन्तु त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्व᳘दादित्यास्त्वा᳘ ऽऽच्छृन्दन्तु जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वद्वि᳘श्वे त्वा देवा᳘ व्वैश्वानरा ऽआ᳘च्छृन्दन्त्वा᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘त्येता᳘भिरे᳘वैनामेत᳘द्देव᳘ताभिरा᳘च्छृणत्ति स वै या᳘भिरेव᳘ देव᳘ताभिः करो᳘ति ता᳘भिर्धूपयति ता᳘भिरा᳘च्छृणत्ति यो व्वाव क᳘र्म करो᳘ति स᳘ ऽएव त᳘स्योपचारं᳘ व्वेद त᳘स्माद्या᳘भिरेव᳘ देव᳘ताभिः करो᳘ति ता᳘भिर्धूपयति ता᳘भिरा᳘च्छृणत्ति॥

मूलम् - श्रीधरादि

व्व᳘सवस्त्वा᳘ ऽऽच्छृन्दन्तु॥
गायत्रे᳘ण च्छ᳘न्दसा ऽङ्गिरस्व᳘द्रुद्रास्त्वा᳘ ऽऽच्छृन्दन्तु त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्व᳘दादित्यास्त्वा᳘ ऽऽच्छृन्दन्तु जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वद्वि᳘श्वे त्वा देवा᳘ व्वैश्वानरा ऽआ᳘च्छृन्दन्त्वा᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘त्येता᳘भिरे᳘वैनामेत᳘द्देव᳘ताभिरा᳘च्छृणत्ति स वै या᳘भिरेव᳘ देव᳘ताभिः करो᳘ति ता᳘भिर्धूपयति ता᳘भिरा᳘च्छृणत्ति यो व्वाव क᳘र्म करो᳘ति स᳘ ऽएव त᳘स्योपचारं᳘ व्वेद त᳘स्माद्या᳘भिरेव᳘ देव᳘ताभिः करो᳘ति ता᳘भिर्धूपयति ता᳘भिरा᳘च्छृणत्ति॥

मूलम् - Weber

व᳘सवस्त्वा᳘छून्दन्तु॥
गायत्रे᳘ण छ᳘न्दसाङ्गिरस्व᳘द्रुद्रास्त्वा᳘छृन्दन्तु त्रै᳘ष्टुभेन छ᳘न्दसाङ्गिरस्व᳘दादित्यास्त्वा᳘छृन्दन्तु जा᳘गतेन छ᳘न्दसाङ्गिरस्वद्वि᳘श्वे त्वा देवा᳘ वैश्वानरा आ᳘छृन्दन्त्वा᳘नुष्टुभेन छ᳘न्दसाङ्गिरस्वदि᳘त्येता᳘भिरेॗवैनामेत᳘द्देव᳘ताभिरा᳘छृणत्ति स वै या᳘भिरेव᳘ देव᳘ताभिः करो᳘ति ता᳘भिर्धूपयति ता᳘भिरा᳘छृणत्ति यो वाव क᳘र्म करो᳘ति स᳘ एवं त᳘स्योपचारं᳘ वेद त᳘स्माद्या᳘भिरेव᳘ देव᳘ताभिः करो᳘ति ता᳘भिर्धूपयति ता᳘भिरा᳘छृणत्ति॥

मूलम् - विस्वरम्

“वसवस्त्वा ऽऽच्छृन्दन्तु गायत्रेण च्छन्दसा ऽङ्गिरस्वत् (१) रुद्रास्त्वा ऽऽच्छृन्दन्तु त्रैष्टुभेन च्छन्दसा ऽङ्गिरस्वत् (२) आदित्यास्त्वा ऽऽच्छृन्दन्तु जागतेन च्छन्दसा ऽङ्गिरस्वत् (३) । विश्वे त्वा देवा वैश्वानरा आच्छृन्दन्त्वानुष्टुभेन च्छन्दसा ऽङ्गिरस्वत्”- (वा. सं. ११ । ६५) इति । एताभिरेवैनामेतद्देवताभिराच्छृणत्ति । स वै याभिरेव देवताभिः करोति- ताभिर्धूपयति- ताभिराच्छृणत्ति । यो वाव कर्म करोति- स एव तस्योपचारं वेद । तस्माद्याभिरेव देवताभिः करोति- ताभिर्धूपयति । ताभिराच्छृणत्ति ॥ १७ ॥

सायणः

तत्र मन्त्रानाह- वसवस्त्वाच्छृन्दन्तु गायत्रेण च्छन्दसा ऽङ्गिरस्वदित्यादिना । हे उखे ! त्वां ‘वसवः’ देवा अष्टसङ्ख्याकाः, ‘अङ्गिरस्वद्’ अङ्गिरस इव ‘आच्छृन्दन्तु’ आसिञ्चन्तु । कीदृशाः ? ‘गायत्रेण च्छन्दसा’ सहिताः; अष्टसङ्ख्या वसूनां गायत्रच्छन्दस्सम्बन्धे द्वारः । एवमुत्तरत्र मन्त्रा अपि व्याख्येयाः । विश्वेषां नराणां हिता ‘वैश्वानराः’ ते सर्वे देवाः । “अजापयसा ऽवसिञ्चति वसवस्त्वेति प्रतिमन्त्रम्”- (का. श्रौ. सू. १६ । १२३) इति हि सूत्रम् । अत्रासेचनमन्त्रेषु वस्वादयः प्रतिपाद्याः, निर्माणमन्त्रेषु, धूपनमन्त्रेषु च । अतो यद् देवतैक्यं तत् प्रशंसति- स वै याभिरेव देवताभिः 10 करोति, ताभिर्धूपयति, ताभिराच्छृणत्तीति । यो वाव कर्म करोति, स एव तस्योपचारं वेदेति । यथा लोके तक्षादिः प्रासादनिर्माणादि ‘कर्म करोति,’ ‘स एव’ तदार्ढ्यार्थम् ‘उपचारं’ शङ्कुं प्रति दार्वादिस्थापनलक्षणमुपचारजातं जानाति; अतो युक्तम्, यैरेव कृतम्, तैरेव धूपनासेचनोपचरणमित्यर्थः ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे पञ्चमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (६-५-४)

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठे काण्डे पञ्चमो ऽध्यायः समाप्तः ॥ ६-५ ॥

Eggeling
  1. [Vāj. S. XI, 65] ‘May the Vasus fill thee with the Gāyatrī metre, Aṅgiras-like!–May the Rudras fill thee with the Trishṭubh metre, Aṅgiras-like!–May the Ādityas fill thee with the Jagatī metre, Aṅgiras-like!–May the All-gods, dear to all men, fill thee with the Anushṭubh metre, Aṅgiras-like!’–by these deities he thus moistens it: by whatever deities he fashions it, by them he fumigates it, and by them he moistens it. For he who performs a work, knows the practice of it: hence by whatever deities he fashions it, by them he fumigates and moistens it.

  1. 241:3 One might take ‘athainam asyāṁ khanati’ to mean, ‘he now digs for him (Agni) in the earth,’ or ‘digs him into the earth.’ Cf. VI, 4, 1, 1, ‘athainam ataḥ khanati.’ Sāyaṇa, however (in accordance with the formula in paragraph 3), supplies ‘avaṭam,’ ‘a hole.’ ↩︎

  2. 242:1 Sarvābhyo digbhya enam avaṭaṁ khanati taṁ ca sarvāsu dikshu nāshṭrā na hiṁsanti, Sāy. ↩︎

  3. 243:1 Whether ‘Dhishaṇā’ (the name of certain female divinities who have the power of bestowing prosperity and granting wishes) is here connected with ‘dhishṇya,’ fire-hearth; or whether it is taken by the author in some such primary sense as ‘intelligence’ or ‘inspiration,’ it were difficult to decide. Sāyaṇa connects it with ‘dhī,’–vāg vai dhishaṇā, sā hi dhiyaṁ karma jñāvāsani (?) sambhajate. ↩︎

  4. अभ्र्या श्वभ्रं चतुरस्रं खनत्यदितिष्टवेति । का. श्रौ. सू. १६ । १०९ । ↩︎

  5. आचरति मित्रस्येति का. श्रौ. सू. १६ । ११५ । ↩︎ ↩︎

  6. 244:1 The St. Petersburg dictionary seems to take ‘yāvat kiyac copanyācarati’ in the sense of ‘as much (or, as deep) as he enters (into the pan).’ But see III, 2, 2, 29, where ‘yāvat kiyacca . . . upaspr̥śet’ has likewise the meaning ‘as often as he touches.’ Cf. also Kāty. Sr. XVI, 4, 15, He keeps up (the fire by adding fuel), with ‘Mitrasya . . .;’ 16, [He repeats the formula] as often (or long) as he keeps it up (or, adds fuel). ↩︎

  7. 244:2 Vāj. S. XI, 62; R̥k S. III, 59, 6, ‘The gainful protection of the God Mitra, the preserver of men, is glorious and of most wonderful renown.’ ↩︎

  8. उद्यच्छत्युत्थायेति । का० श्रौ० सू० १६ । १२१ ॥ ↩︎

  9. 245:1 The construction of this, and similar previous passages, is the same as that referred to in part ii, p. 15, note 3. ↩︎

  10. यावद्धाचरेत् । का० श्रौ० सू० १६ । ११६ । ↩︎