०१
विश्वास-प्रस्तुतिः
त᳘स्या ऽएत᳘स्या ऽअ᳘षाढां पू᳘र्व्वां करोति॥
(ती) इयं वा ऽअ᳘षाढेय᳘मु वा᳘ ऽएषां᳘ लोका᳘नां प्रथ᳘मा ऽसृज्यत ता᳘मेत᳘स्या ऽएव᳘ मृदः᳘ करोत्येषा᳘ᳫँ᳘ ह्येव᳘ लोका᳘नामियं म᳘हिषी करोति म᳘हिषी᳘ हीयं त᳘द्यैव᳘ प्रथमा᳘ व्वित्ता सा म᳘हिषी॥
मूलम् - श्रीधरादि
त᳘स्या ऽएत᳘स्या ऽअ᳘षाढां पू᳘र्व्वां करोति॥
(ती) इयं वा ऽअ᳘षाढेय᳘मु वा᳘ ऽएषां᳘ लोका᳘नां प्रथ᳘मा ऽसृज्यत ता᳘मेत᳘स्या ऽएव᳘ मृदः᳘ करोत्येषा᳘ᳫँ᳘ ह्येव᳘ लोका᳘नामियं म᳘हिषी करोति म᳘हिषी᳘ हीयं त᳘द्यैव᳘ प्रथमा᳘ व्वित्ता सा म᳘हिषी॥
मूलम् - Weber
त᳘स्या एत᳘स्या अ᳘षाढाम् पू᳘र्वां करोति॥
इयं वा अ᳘षाढेय᳘मु वा᳘ एषां᳘ लोका᳘नाम् प्रथॗमासृज्यत ता᳘मेत᳘स्या एव᳘ मृदः᳘ करोत्येषाॗᳫंॗ ह्येव᳘ लोका᳘नामियम् म᳘हिषी करोति म᳘हिषीॗ हीयं तॗद्यैव᳘ प्रथमा᳘ वित्ता सा म᳘हिषी॥
मूलम् - विस्वरम्
तस्या एतस्या अषाढां पूर्वां करोति । इयं वा ऽअषाढा । इयमु वा ऽएषां लोकानां प्रथमा ऽसृज्यत । तामेतस्या एव मृदः करोति । एषां ह्येव लोकानामियम् । महिषी करोति । महिषी हीयम् । तद्यैव प्रथमा वित्ता- सा महिषी ॥ १ ॥
सायणः
अथ संस्कृताया मृदः सकाशादुखानिर्माणात् पूर्वमषाढाख्येष्टकाया निर्माणमाह- तस्या एतस्या अषाढां पूर्वां करोतीति 1 । ‘अषाढाम्’ अषाढलिङ्गकमन्त्रोपधेयामिष्टकम् । “तद्वानासामुपधानो मंत्र इतीष्टकासु लुक् च मतोः”- (पा. सू. ४ । ४ । १२५) इति मतोर्लुक् । ‘पूर्वाम्’ उखातः पूर्वभाविनीं कुर्यात् । पूर्वभावित्वमर्थवादमुखेन दर्शयति- इयं वा अषाढेति । ‘अषाढा’- इति या अस्ति, सा ‘इयम् वै’ पृथिवी खलु तद्विकारत्वात् । अस्त्वेवम्, प्राथम्ये किमायातमित्यत आह- इयमु वा एषां लोकांनां प्रथमा ऽसृज्यतेति । पृथिव्या इतरलोकापेक्षया प्राथम्यं प्रसिद्धम् । अस्या मृदन्तरप्रकृतित्वप्रसक्तिं वारयति- तामेतस्या एवेति । ‘एतस्याः’ उक्तसंस्कारोपेताया मृदः सकाशादित्यर्थः । तत्रोपपत्तिमाह- एषां ह्येव लोकानामियमिति । यतः ‘इयम्’ ‘एषां’ प्रसिद्धानां लोकानां सम्बन्धिनी, अत इत्यर्थः । अयमभिप्रायः- उखाया लोकत्रयात्मकत्वेन प्रतिपादनात् तस्या या प्रकृतिभूता मृत्, तदीयाया एवाषाढाया अपि निर्माणे सत्येव तदीयत्वं भवतीति । अस्या उखावद् यजमानकर्तृत्वं प्राप्तमित्याह- महिषी करोतीति । प्रथमोढा स्त्री महिषी, ‘इयम्’ इष्टका ऽपि ‘हि’ यस्मात् ‘महिषी;’ प्रथमतो निर्माणात्, अतो ऽस्यां महिषीकर्त्तव्यता युक्ता । भवत्वेवं यद्येषा महिषी स्यात्, सैव कुत इत्यत आह- तद्यैव प्रथमा वित्ता, सा महिषीति । ‘वित्ता’ लब्धा ॥ १ ॥
Eggeling
- Of that same (clay) she (the queen) forms the first, the ‘invincible’ (brick); for the invincible one (Ashāḍḥā) is this earth, and this earth was created first of these worlds. She forms it of that same clay, for this earth is (one) of these worlds. The (Sacrificer’s) consecrated consort (mahishī) forms it: for this earth is a ‘mahishī’ (female buffalo, a cow). She who is first taken to wife is the consecrated consort.
०२
विश्वास-प्रस्तुतिः
पादमात्री᳘ भवति॥
प्रतिष्ठा वै पा᳘द ऽइय᳘मु वै᳘ प्रतिष्ठा᳘ त्र्यालिखिता᳘ भवति त्रिवृ᳘द्धीयम्[[!!]]॥
मूलम् - श्रीधरादि
पादमात्री᳘ भवति॥
प्रतिष्ठा वै पा᳘द ऽइय᳘मु वै᳘ प्रतिष्ठा᳘ त्र्यालिखिता᳘ भवति त्रिवृ᳘द्धीयम्[[!!]]॥
मूलम् - Weber
पादमात्री᳘ भवति॥
प्रतिष्ठा वै पा᳘द इय᳘मु वै᳘ प्रतिष्ठा᳘ त्र्यालिखिता᳘ भवति त्रिवृॗद्धीय᳘म्॥
मूलम् - विस्वरम्
पादमात्री भवति । प्रतिष्ठा वै पादः । इयमु वै प्रतिष्ठा । त्र्यालिखिता भवति । त्रिवृद्धीयम् ॥ २ ॥
सायणः
तस्या इयत्तामाह- पादमात्री भवतीति । अत्र महिषीशब्दस्य कर्तृत्वेन सम्बन्धात् तत्पादमात्रीति न मन्तव्यम्; सूत्रकारेण यजमानपादमात्रीति विशेषितत्वात् (का. श्रौ. सू. १६ । ९१) । उक्तं प्रमाणं प्रशंसति- प्रतिष्ठा वै पाद इयमु वै प्रतिष्ठेति । पादाभावे पतनदर्शनात् पादस्य प्रतिष्ठात्वम् । इयं पृथिवी सर्वाधारत्वात् प्रतिष्ठा, अतस्तद्विकारभूताया अपीष्टकायाः प्रतिष्ठात्मकपादप्रमाणत्वं युक्तमित्यर्थः । अस्याश्चिह्नत्वेन लेखात्रयं कर्त्तव्यमिति विधत्ते- त्र्यालिखिता भवति त्रिवृद्धीयमिति । अर्द्धचन्द्राकाराभिः तिसृभिः रेखाभिर्युक्ता भवेत् । ‘हि’ शब्देन- “त्रयो वा इमे त्रिवृतो लोकाः” (ऐ. ब्रा. ४ । २ । ३) इत्यादिश्रुत्यन्तरप्रसिद्धिर्द्योतिता । अस्यास्त्रिवृत्त्वं पृथिव्यप्तेजोभिस्त्रिवृत्करणाद्वा, सिकतामृत्तिकापाषाणैस्त्रिभिः संहतरूपत्वाद्वा द्रष्टव्यम् । अत्र सूत्रम्- “अषाढां करोति महिषी प्रथमवित्ता तदाख्या, यजमानपादमात्रीं त्र्यालिखिताम्” (का. श्रौ. सू. १६ । ९० । ९१) इति ॥ २ ॥
Eggeling
- It measures a foot (in length and breadth), for the foot is a foundation, and this earth also is a foundation. It is marked with three lines, for this earth is threefold 2.
०३
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थोखां᳘ करोति॥
(ती) इमांस्त᳘ल्लोका᳘न्करोत्य᳘थ व्विश्व᳘ज्योतिषः करोत्येता᳘ देव᳘ता ऽअग्निं᳘ व्वायु᳘मादित्य᳘मेता᳘[[!!]] ह्येव᳘ देव᳘ता व्वि᳘श्वं ज्यो᳘तिस्ता᳘ ऽएत᳘स्या ऽएव᳘ मृदः᳘ करोत्येभ्यस्त᳘ल्लोके᳘भ्य ऽएता᳘न्देवान्नि᳘र्म्मिमीते य᳘जमानः करोति त्र्यालिखिता᳘ भवन्ति त्रिवृ᳘तो᳘ ह्येते᳘ देवा ऽइ᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थोखां᳘ करोति॥
(ती) इमांस्त᳘ल्लोका᳘न्करोत्य᳘थ व्विश्व᳘ज्योतिषः करोत्येता᳘ देव᳘ता ऽअग्निं᳘ व्वायु᳘मादित्य᳘मेता᳘[[!!]] ह्येव᳘ देव᳘ता व्वि᳘श्वं ज्यो᳘तिस्ता᳘ ऽएत᳘स्या ऽएव᳘ मृदः᳘ करोत्येभ्यस्त᳘ल्लोके᳘भ्य ऽएता᳘न्देवान्नि᳘र्म्मिमीते य᳘जमानः करोति त्र्यालिखिता᳘ भवन्ति त्रिवृ᳘तो᳘ ह्येते᳘ देवा ऽइ᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
अ᳘थोखां᳘ करोति॥
इमांस्त᳘ल्लोका᳘न्करोत्य᳘थ विश्व᳘ज्योतिषः करोत्येता᳘ देव᳘ता अग्निं᳘ वायु᳘मादि᳘त्यमेताॗ ह्येव᳘ देव᳘ता वि᳘श्वं ज्यो᳘तिस्ता᳘ एत᳘स्या एव᳘ मृदः᳘ करोत्येभ्यस्त᳘ल्लोके᳘भ्य एता᳘न्देवान्नि᳘र्मिमीते य᳘जमानः करोति त्र्यलिखिता᳘ भवन्ति त्रिवृ᳘तोॗ ह्येते᳘ देवा इ᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
अथोखां करोति । इमाँस्तल्लोकान् करोति । अथ विश्वज्योतिषः करोति- एता देवताः- अग्निम्, वायुम्, आदित्यम् । एता ह्येव देवता विश्वं ज्योतिः । ता एतस्या एव मृदः करोति । एभ्यस्तल्लोकेभ्य एतान् देवान्निर्म्मिमीते । यजमानः करोति । त्र्यालिखिता भवन्ति । त्रिवृतो ह्येते देवाः । इत्यधिदेवतम् ॥ ३ ॥
सायणः
उखाया अषाढानन्तरकर्तव्यतामाह- अथोखामिति । ‘अथ’ अषाढानन्तरम् ‘उखां’ प्रागुक्तलक्षणां स्थालीं पश्चात् कुर्यात् । तत्रोखाकरणेनेमांस्त्रींल्लोकान् कृतवान् भवति “अथ यजमान उखां करोति मृदमादाय” इत्यादि (का. श्रौ. सू. १६ । ९२) सूत्रम् ॥
अथ विश्वज्योतिर्नामधेयानां तिसृणामिष्टकानामुखानन्तरकर्त्तव्यतां विधत्ते- अथ विश्वज्योतिषः करोतीति । पूर्ववदेतल्लिङ्गकैर्मन्त्रैरुपधेयत्वात् विश्वज्योतिर्नाम आसां द्रष्टव्यम् । एतासां निर्माणमेवाग्निवाय्वादित्यानां निर्माणमित्याह- एता देवता अग्निं वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिरिति । एता देवताः इत्यस्य व्याख्यानम्- ‘अग्निम्’, ‘वायुम्’, ‘आदित्यम्’- इति । विश्वद्योतकत्वमग्न्यादीनां प्रसिद्धमिति ‘हि’ शब्दो द्योतयति । पूर्ववदासामप्युखार्थं संस्कृतमृत्तिकैव करणमित्याह- ता एतस्या एव मृदुः करोतीति । एतत् प्रशंसति- एभ्यस्तल्लोकेभ्य एतान् देवान् निर्मिमीत इति । उखाया लोकत्रयात्मकत्वस्योक्तत्वात् तदनन्तरं तदीयमृदा आसां निर्माणमेव तदधिष्ठातृदेवतानिर्मितिरित्यर्थः । यजमानः करोतीति त्र्यालिखिता भवन्तीति वाक्यद्वयं स्पष्टम् ॥
देवानां त्रिवृत्त्वं द्युभूम्यन्तरिक्षस्थानभेदेन, “इष्टकास्तु तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः” (का. श्रौ. सू. १६ । १०६) इति सूत्रम् । पृथग्लक्षणाभिधानम् द्वितीयतृतीयानां क्रमपरिज्ञानार्थम्; तेन क्रमेणोपधानं यथा स्यादिति । इत्यधिदेवतमिति । ‘इति’ शब्दः प्रतिपादितप्रकारवचनः । ‘अधिदेवतम्’ देवता अधिकृत्य प्रवृत्तम्, उक्तमित्यर्थः ॥ ३ ॥
Eggeling
- Now he (the Sacrificer) makes the fire-pan: he thereby makes these worlds. He then makes the (three) ‘all-light’ (bricks), that is these deities, Agni, Vāyu, Āditya, for those deities indeed are all the light. He makes them from that same clay (as the fire-pan): he thus produces these gods from these worlds. The Sacrificer makes them. They are marked with three lines, for threefold are these gods 3. Thus as regards the deities.
०४
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्म᳘म्॥
(मा᳘) आ᳘त्मै᳘वोखा व्वाग᳘षाढा तां पू᳘र्व्वां करोति पुर᳘स्ता᳘द्धीय᳘मात्म᳘नो व्वाक्ता᳘मेत᳘स्या ऽएव᳘ मृदः᳘ करोत्यात्म᳘नो᳘ ह्ये᳘वेयं व्वाङ्म᳘हिषि करोति म᳘हिषी हि व्वा᳘क्त्र्यालिखिता᳘ भवति त्रेधाविहिता हि वागृ᳘चो य᳘जूᳫँ᳭षि सा᳘मान्य᳘थो य᳘दिदं᳘ त्रयं᳘ व्वाचो᳘ रूप᳘मुपाᳫँ᳭शु᳘ व्यन्तरा᳘मुच्चैः[[!!]]॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
(मा᳘) आ᳘त्मै᳘वोखा व्वाग᳘षाढा तां पू᳘र्व्वां करोति पुर᳘स्ता᳘द्धीय᳘मात्म᳘नो व्वाक्ता᳘मेत᳘स्या ऽएव᳘ मृदः᳘ करोत्यात्म᳘नो᳘ ह्ये᳘वेयं व्वाङ्म᳘हिषि करोति म᳘हिषी हि व्वा᳘क्त्र्यालिखिता᳘ भवति त्रेधाविहिता हि वागृ᳘चो य᳘जूᳫँ᳭षि सा᳘मान्य᳘थो य᳘दिदं᳘ त्रयं᳘ व्वाचो᳘ रूप᳘मुपाᳫँ᳭शु᳘ व्यन्तरा᳘मुच्चैः[[!!]]॥
मूलम् - Weber
अॗथाध्यात्म᳘म्॥
आॗत्मैॗवोखा वाग᳘षाढा ताम् पू᳘र्वा करोति पुर᳘स्ताॗद्धीय᳘मात्म᳘नो वाक्ता᳘मेत᳘स्या एव᳘ मृदः᳘ करोत्यात्म᳘नोॗ ह्येॗवेयं वाङ्न᳘हिषि करोति म᳘हिषी हि वा᳘क्त्र्यालिखिता᳘ भवति त्रेधाविहिता हि वागृ᳘चो य᳘जूंषि सा᳘मान्य᳘थो य᳘दिदं᳘ त्रयं᳘ वाचो᳘ रूप᳘मुपांशु᳘ व्यन्तरा᳘मुच्चैः᳟॥
मूलम् - विस्वरम्
अथाध्यात्मम् । आत्मैवोखा । वागषाढा । तां पूर्वां करोति । पुरस्ताद्धीयमात्मनो वाक् । तामेतस्या एव मृदः करोति । आत्मनो ह्येवेयं वाक् । महिषी करोति । महिषी हि वाक् । त्र्यालिखिता भवति । त्रेधाविहिता हि वाक्- ऋचो, यजूंषि, सामानि । अथो यदिदं त्रयं वाचो रूपम् उपांशु व्यन्तरामुच्चैः ॥ ४ ॥
सायणः
‘अथ’ वक्ष्यमाणम् ‘अध्यात्मम्’ आत्मानमधिकृत्य प्रवर्त्यमानम् । ‘वक्ष्यते’ इति शेषः । प्रतिज्ञातमर्थं दर्शपति- आत्मैवोखा वागषाढेति । उखायाः प्राधान्यादात्मत्वम् आह्वानादिषु आत्मनो ऽपि पूर्वं वाचः स्वरूपमस्ति; ‘पुरस्तात्’ प्रवृत्तेः प्रसिद्धिमाह ‘हि’ शब्दः । न केवलं वैदिक्या एव वाचस्त्रैविध्यम्, अपि च ‘यदिदं’ सर्वैरुच्चार्यमाणं ‘वाचः’ ‘रूपं’ स्वरूपमस्ति, तत् ‘त्रयं’ त्रिविधम् । उपांशु व्यन्तरामुच्चैरिति । व्यन्तरामिति, उपांशूच्चैःस्वरमध्यवर्तिनीं वाचं वदन्ति प्राणिनः, तदेकं रूपमित्यर्थः । सुगममन्यत् ॥ ४ ॥
Eggeling
- Now as regards the self (or body): the fire-pan, indeed, is the self (of Agni). The ‘invincible’ (brick) is speech: that she (the wife) makes first, for this speech is foremost in the body. She makes it from that same clay, for this speech is of the body. The (Sacrificer’s) consecrated consort makes it, for speech is a ‘mahishī.’ It is marked with three lines, for speech is divided into three kinds, R̥k-verses, Yajus-formulas, and Sāman-tunes; and because of this threefold form of speech, low-voiced, half-loud, and loud.
०५
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थोखां᳘ करोति॥
(त्या) आत्मा᳘नं त᳘त्करोत्य᳘थ व्विश्व᳘ज्योतिषः करोति प्रजा वै᳘ विश्व᳘ज्योतिः प्रजा᳘ ह्येव वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैत᳘त्करोति ता᳘ ऽएत᳘स्या ऽएव᳘ मृदः᳘ करोत्यात्म᳘नस्त᳘त्प्रजां नि᳘र्मिमीते य᳘जमानः करोति य᳘जमानस्त᳘दात्म᳘नः प्रजां᳘ करोत्य᳘नन्तर्हिताः करोत्य᳘नन्त᳘र्हितां त᳘दात्म᳘नः प्रजां᳘ करोत्यु᳘त्तराः करोत्यु᳘त्तरां त᳘दात्म᳘नः प्रजां᳘ करोति त्र्यालिखिता᳘ भवन्ति त्रिवृद्धि प्र᳘जातिः पिता᳘ माता᳘ पुत्रो᳘ ऽथो ग᳘र्भ ऽउ᳘ल्बं जरा᳘यु॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थोखां᳘ करोति॥
(त्या) आत्मा᳘नं त᳘त्करोत्य᳘थ व्विश्व᳘ज्योतिषः करोति प्रजा वै᳘ विश्व᳘ज्योतिः प्रजा᳘ ह्येव वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैत᳘त्करोति ता᳘ ऽएत᳘स्या ऽएव᳘ मृदः᳘ करोत्यात्म᳘नस्त᳘त्प्रजां नि᳘र्मिमीते य᳘जमानः करोति य᳘जमानस्त᳘दात्म᳘नः प्रजां᳘ करोत्य᳘नन्तर्हिताः करोत्य᳘नन्त᳘र्हितां त᳘दात्म᳘नः प्रजां᳘ करोत्यु᳘त्तराः करोत्यु᳘त्तरां त᳘दात्म᳘नः प्रजां᳘ करोति त्र्यालिखिता᳘ भवन्ति त्रिवृद्धि प्र᳘जातिः पिता᳘ माता᳘ पुत्रो᳘ ऽथो ग᳘र्भ ऽउ᳘ल्बं जरा᳘यु॥
मूलम् - Weber
अ᳘थोखां᳘ करोति॥
आत्मा᳘नं त᳘त्करोत्य᳘थ विश्व᳘ज्योतिषः करोति प्रजा वै᳘ विश्व᳘ज्योतिः प्रजाॗ ह्येव वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमेॗवैत᳘त्करोति ता᳘ एत᳘स्या एव᳘ मृदः᳘ करोत्यात्म᳘नस्त᳘त्प्रजां नि᳘र्मिमीते य᳘जमानः करोति य᳘जमानस्त᳘दात्म᳘नः प्रजां᳘ करोत्य᳘नन्तर्हिताः करोत्य᳘ नन्तर्हितां त᳘दात्म᳘नः प्रजां᳘ करोत्यु᳘त्तराः करोत्यु᳘त्तरां त᳘दात्म᳘नः प्रजां᳘ करोति त्र्यालिखिता᳘ भवन्ति त्रिवृद्धि प्र᳘जातिः पिता᳘ माता᳘ पुत्रो᳘ ऽथो ग᳘र्भ उ᳘ल्बं जरा᳘यु॥
मूलम् - विस्वरम्
अथोखां करोति । आत्मानं तत् करोति । अथ विश्वज्योतिषः करोति । प्रजा वै विश्वज्योतिः । प्रजा ह्येव विश्वं ज्योतिः । प्रजननमेवैतत्करोति । ता एतस्या एव मृदः करोति । आत्मनस्तत्प्रजां निर्मिमीते । यजमानः करोति । यजमानस्तदात्मनः प्रजां करोति । उत्तराः करोति । उत्तरां तदात्मनः प्रजां करोति । त्र्यालिखिता भवन्ति । त्रिवृद्धि प्रजातिः- पिता, माता, पुत्रः । अथो गर्भः, उल्बम्, जरायु ॥ ५ ॥
सायणः
अथोखां करोतीत्यादिकम्, अधिदैवतवद् व्याख्येयम् । उखाया आत्मरूपत्वात् तदनन्तरं तस्या एव मृदो विश्वज्योतिषामुत्पादने प्रजोत्पादनमित्यर्थः । ‘प्रजननं’ प्रकृष्टं जननं जन्म यस्मात् प्रजननम्, प्रजामित्यर्थः । ‘अनन्तर्हिताः’ व्यापारान्तरेणाव्यवहिताः कुर्यात् । उखाया विश्वज्योतिषाञ्च मध्ये व्यवधानं न कुर्यादिति भावः । तच्चानन्तर्हितत्वमुखातः प्राङ् निष्पादने ऽपि सम्भवतीत्यत आह- उत्तराः करोतीति । ‘उत्तराः’ उखाया उत्तरभाविनीः कुर्यात् । ‘अथो गर्भ उल्बं’ गर्भस्यान्तरवेष्टनम्, ‘जरायु’ बहिर्वेष्टनम् ॥ ५ ॥
Eggeling
- He makes the fire-pan: thereby he makes (Agni’s) self. He then makes the ‘all-light’ (bricks),–the ‘all-light’ (brick) is offspring, for offspring indeed is all the light: he thus causes generation to take place. He makes them of the same clay (as the fire-pan): he thus produces offspring from the self. The Sacrificer makes them: the Sacrificer thus
produces offspring from his own self. He makes them without interruption: he thus produces uninterrupted offspring from his own self. He makes them subsequently (to the fire-pan): he thus produces the offspring subsequently to his own self. They are marked with three lines, for generation is threefold, father, mother, and son; or, the embryo, and the inner and outer membrane.
०६
विश्वास-प्रस्तुतिः
ता᳘ ऽएता य᳘जुष्कृतायै करोति॥
(त्य᳘) अ᳘यजुष्कृताया ऽइ᳘तरा नि᳘रुक्ता ऽएता भ᳘वन्त्य᳘निरुक्ता ऽइ᳘तराः प᳘रिमिता ऽएता भ᳘वन्त्य᳘परिमिता ऽइ᳘तराः॥
मूलम् - श्रीधरादि
ता᳘ ऽएता य᳘जुष्कृतायै करोति॥
(त्य᳘) अ᳘यजुष्कृताया ऽइ᳘तरा नि᳘रुक्ता ऽएता भ᳘वन्त्य᳘निरुक्ता ऽइ᳘तराः प᳘रिमिता ऽएता भ᳘वन्त्य᳘परिमिता ऽइ᳘तराः॥
मूलम् - Weber
ता᳘ एता य᳘जुष्कृतायै करोति॥
अ᳘यजुष्कृताया इ᳘तरा नि᳘रुक्ता एआ भ᳘वन्त्य᳘निरुक्ता इ᳘तराः प᳘रिमिता एता भ᳘वन्त्य᳘परिमिता इ᳘तराः॥
मूलम् - विस्वरम्
ता एता यजुष्कृतायै करोति, अयजुष्कृताया ऽइतराः । निरुक्ता एता भवन्ति, अनिरुक्ता इतराः । परिमिता एता भवन्ति, अपरिमिता इतराः ॥ ६ ॥
सायणः
यदेतासां मन्त्राहृतमृदोत्पन्नत्वम्, यच्चाषाढादिनामवत्त्वम्, यदपि पादमात्रादिपरिमाणवत्त्वम्, तदेतत् सर्वमितरेष्टकानां वैलक्षण्येनानूद्य स्तौति- ता एता यजुष्कृतायै करोतीत्यादिना । ‘यजुः’ मन्त्रः तेन कृता निष्पादिता ‘यजुष्कृता’ षष्ठ्यर्थे चतुर्थी, तस्या इत्यर्थः । ‘अयजुष्कृतायै’ अतथाभूताया मृदः ‘इतराः’ अषाढादिव्यतिरिक्ताः, कुर्यात्, ‘एताः अनिरुक्ताः’ अषाढाः विश्वज्योतिषो निर्वचनम् प्राप्ताः (तै. सं. ४ । ४ । ६ सा. भा.) ॥ ६ ॥
Eggeling
- He makes these from (clay) prepared with prayer, the others from (clay) prepared without prayer; for these are defined, the others undefined; these are limited (in number), the others unlimited.
०७
विश्वास-प्रस्तुतिः
प्रजा᳘पतिरे᳘षो ऽग्निः᳘॥
(रु) उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्या य᳘जुष्कृतायै करो᳘ति य᳘दे᳘वास्य नि᳘रुक्तं प᳘रिमितᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोत्य᳘थ या ऽअ᳘यजुष्कृतायै य᳘दे᳘वास्या᳘निरुक्तमपरिमित᳘ᳫँ᳘ रूपं तदस्य[[!!]] ते᳘न सं᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ व्विद्वा᳘नेत᳘देवं᳘ करोत्य᳘थोपशया᳘यै पि᳘ण्डं प᳘रिशिनष्टि प्रा᳘यश्चित्तिभ्यः॥ (शतम् ३७००)॥
मूलम् - श्रीधरादि
प्रजा᳘पतिरे᳘षो ऽग्निः᳘॥
(रु) उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्या य᳘जुष्कृतायै करो᳘ति य᳘दे᳘वास्य नि᳘रुक्तं प᳘रिमितᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोत्य᳘थ या ऽअ᳘यजुष्कृतायै य᳘दे᳘वास्या᳘निरुक्तमपरिमित᳘ᳫँ᳘ रूपं तदस्य[[!!]] ते᳘न सं᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ व्विद्वा᳘नेत᳘देवं᳘ करोत्य᳘थोपशया᳘यै पि᳘ण्डं प᳘रिशिनष्टि प्रा᳘यश्चित्तिभ्यः॥ (शतम् ३७००)॥
मूलम् - Weber
प्रजा᳘पतिरेॗषो ऽग्निः᳟॥
उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्या य᳘जुष्कृतायै करो᳘ति य᳘देॗवास्य नि᳘रुक्तम् प᳘रिमितं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्करोत्य᳘थ या अ᳘यजुष्कृतायै य᳘देॗवास्या᳘निरुक्तमपरिमितं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्करोति स᳘ ह वा᳘ एतᳫं स᳘र्वं कृत्स्न᳘म् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति य᳘ एवं᳘ विद्वा᳘नेत᳘देवं᳘ करोत्य᳘थोपशया᳘यै पि᳘ण्डम् प᳘रिशिनष्टि प्रा᳘यश्चित्तिभ्यः॥
मूलम् - विस्वरम्
प्रजापतिरेषो ऽग्निः । उभयम्वेतत् प्रजापतिः- निरुक्तश्चानिरुक्तश्च, परिमितश्चापरिमितश्च । तद् या यजुष्कृतायै करोति- यदेवास्य निरुक्तं परिमितं रूपम्, तदस्य तेन संस्करोति । अथ या अयजुष्कृतायै- यदेवास्यानिरुक्तम् अपरिमितं रूपम्- तदस्य तेन संस्करोति । स ह वा ऽएतं सर्वं कृत्स्नं प्रजापतिं संस्करोति- य एवं विद्वानेतदेवं करोति । अथोपशयायै पिण्डं परिशिनष्टि- प्रायश्चित्तिभ्यः ॥ ७ ॥
सायणः
प्रजापतिरेषो ऽग्निरिति । ‘एषः’ चयनलक्षणः ‘अग्निः’ ‘प्रजापतिः’ सर्वभूतात्मको विराट् । ‘निरुक्तं’ कार्यात्मना स्थितम्, ‘अनिरुक्तं’ कारणात्मना वर्तमानमिति विवेकः । यन्निरुक्तानिरुक्ताद्यात्मकत्वम् ‘उभयम्’ अस्ति, तद् द्वयं प्रजापतिरेव । ‘तत्’ तथा सति यजुष्कृतोत्पन्नानि प्रजापतेः ‘यत्’ निरुक्तं रूपम् तत् कार्यात्मकं ‘परिमितम्,’ तत् संस्कृतवान् भवति । अतथाभूताभिरिष्टकाभिरतथाभूतं प्रजापतेः रूपं संस्करोति । ‘एवं विद्वान्’ निरुक्तानिरुक्तमुभयं जानन् संस्कर्ता भवति । अवशिष्टाया मृदो विनियोगमाह- अथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्य इति । उखां कृत्वा यजमान इति शेषः । उपशेते इति ‘उपशया’ मृदुच्यते 4 । तस्याः प्रयोजनमुच्यते- ‘प्रायश्चित्तिभ्यः’ प्रायश्चित्तयः उखाभेदपरिहारोपायाः, तदर्थमित्यर्थः ॥ ७ ॥
Eggeling
- That Agni is Prajāpati; but Prajāpati is both of this, defined and undefined, limited and unlimited: thus when he makes (bricks) from (clay) prepared with prayer, he thereby makes up that form of his (Prajāpati’s) which is defined and limited; and when he makes them from (clay) prepared without prayer, he thereby makes up that form of his which is undefined and unlimited. Verily, then, whosoever knowing this does it on this wise, makes up the whole and complete Agni. From the (clay) lying ready prepared, he leaves over a lump for expiations 5.
०८
विश्वास-प्रस्तुतिः
(भ्यो᳘ ऽथै) अ᳘थैनां धूपयति॥
स्थेम्ने᳘ न्वेवा᳘थो क᳘र्मणः प्रकृत᳘तायै य᳘द्वेव᳘ धूप᳘यति शि᳘र ऽएत᳘द्यज्ञ᳘स्य य᳘दुखा᳘ प्राणो᳘ धूमः᳘ शीर्षंस्त᳘त्प्राणं᳘ दधाति॥
मूलम् - श्रीधरादि
(भ्यो᳘ ऽथै) अ᳘थैनां धूपयति॥
स्थेम्ने᳘ न्वेवा᳘थो क᳘र्मणः प्रकृत᳘तायै य᳘द्वेव᳘ धूप᳘यति शि᳘र ऽएत᳘द्यज्ञ᳘स्य य᳘दुखा᳘ प्राणो᳘ धूमः᳘ शीर्षंस्त᳘त्प्राणं᳘ दधाति॥
मूलम् - Weber
अ᳘थैनां धूपयति॥
स्थेम्नेॗ न्वेवा᳘थो क᳘र्मणः प्रकृत᳘तायै य᳘द्वेव᳘ धूपयति शि᳘र एत᳘द्यज्ञ᳘स्य य᳘दुखा᳘ प्राणो᳘ धूमः᳘ शीर्षंस्त᳘त्प्राणं᳘ दधाति॥
मूलम् - विस्वरम्
अथैनां धूपयति- स्थेम्ने न्वेव । अथो कर्मणः प्रकृततायै । यद्वेव धूपयति । शिर एतद्यज्ञस्य- यदुखा । प्राणो धूमः । शीर्षंस्तत् प्राणं दधाति ॥ ८ ॥
सायणः
यदुक्तं सूत्रकृता- “सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति प्रतिमन्त्रम्” (का. श्रौ. सू. १६ । १०८) इति, तदिदं विधाय प्रशंसति- अथैनां धूपयति स्थेम्ने न्वेवेत्यादिना । ‘स्थेम्ने न्वेव’ स्थिरत्वायैव, न केवलं दृष्टार्थम् । ‘अथो’ अपि च ‘कर्मणः’ उख्यधारणलक्षणस्य चयनस्य वा ‘प्रकृततायै’ संस्कृतत्वसिद्धये । यद्वेवेत्यादिः धूपनार्थवादः, उखायाः प्राधान्यात् शिरस्त्वाभिधानम् । नासारन्ध्रेण प्राणस्य सञ्चारावसरे धूमस्य तत्सञ्चारदर्शनात् प्राणत्वोपचारः ॥ ८ ॥
Eggeling
- He (the Adhvaryu) now fumigates it (the fire-pan)–just for the sake of strength, or to (mark) the progress of the work. And, again, as to why he fumigates,–that fire-pan is the head of the sacrifice, and the smoke its breath: he thus puts breath into the head.
०९
विश्वास-प्रस्तुतिः
(त्य) अश्वशकै᳘र्धूपयति॥
प्राजापत्यो वा ऽअ᳘श्वः प्रजा᳘पतिरग्नि᳘र्नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै तद्वै᳘ श᳘क्नैव तद्धि᳘ जग्धं᳘ यात᳘याम त᳘थो ह᳘ नैवा᳘श्वᳫँ᳭ हिन᳘स्ति ने᳘तरान्पशून्[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अश्वशकै᳘र्धूपयति॥
प्राजापत्यो वा ऽअ᳘श्वः प्रजा᳘पतिरग्नि᳘र्नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै तद्वै᳘ श᳘क्नैव तद्धि᳘ जग्धं᳘ यात᳘याम त᳘थो ह᳘ नैवा᳘श्वᳫँ᳭ हिन᳘स्ति ने᳘तरान्पशून्[[!!]]॥
मूलम् - Weber
अश्वशकै᳘र्धूपयति॥
प्राजापत्यो वा अ᳘श्वः प्रजा᳘पतिरग्निॗर्नो वा᳘ आॗत्मात्मा᳘नᳫं हिनस्त्य᳘हिंसायै तद्वै᳘ शॗक्नैव तद्धि᳘ जग्घं᳘ यात᳘याम त᳘थो हॗ नैवा᳘श्वᳫं हिन᳘स्ति ने᳘तरान्पशू᳘न्॥
मूलम् - विस्वरम्
अश्वशकैर्धूपयति । प्राजापत्यो वा ऽअश्वः । प्रजापतिरग्निः । नो वा ऽआत्मा ऽऽत्मानं हिनस्ति- अहिंसायै । तद्वै शक्नैव । तद्धि जग्धं यातयाम । तथो ह नैवाश्वं हिनस्ति, नेतरान्पशून् ॥ ९ ॥
सायणः
अश्वशकैर्धूपयतीति । धूपनकर्म चाश्वशकृद्भिरेव भवितव्यमिति नियमे कारणमाह- प्राजापत्यो वा अश्व इत्यादिना । “प्रजापतेरक्ष्यश्वयत्तत् परापतत् तदश्वो ऽभवत्, यदश्वयत् तदश्वस्याश्वत्वम्”- (तै. सं. ५ । ३ । १२ । १)- इति श्रुतेः प्रजापतेरवयवत्वेन सम्बन्धादश्वस्य प्राजापत्यत्वम् । चीयमानस्याग्नेः विराडात्मकत्वं प्राक् प्रतिपादनात्,- “संवत्सरः प्रजापतिरिति” इति श्रुतेः संवत्सरमुख्याग्नेर्द्धार्यमाणत्वाद्वा अग्निः प्रजापतिः । अश्वशकृद्द्वारा धूपनं प्रशंसति- तद्वै शक्नैवेत्यादिना । ‘शक्ना’ इति पदे “पद्दन्नः”- (पा. सू. ६ । १ । ६३) इत्यादिना शकन्नादेशः । ‘जग्धम्’ भक्षितम् अदेर्जग्ध्यादेशः (पा. सू. २ । ६ । ३६ वा.) । ‘यातयाम’ कालान्तरगमनम्, गतसारमित्यर्थः । यत एवम्भूतम् अतः स्वसम्बन्धिनम् ‘अश्वम्’ अपि न ‘हिनस्ति’ अश्वसम्बन्धित्वेन एतेषां पशूनां सम्बन्धाभावादेव हिंसाप्रसङ्गः । अतो ऽश्वशकैर्धूपनं प्रशस्तम् ॥ ९ ॥
Eggeling
- He fumigates it with horse-dung, to insure it against injury; for the horse is sacred to Prajāpati,
and Prajāpati is Agni, and one does not injure one’s own self. And with dung (he does it) because that is what was eaten (by the horse) and is useless; and thus he does not injure the horse itself, nor the other cattle.
१०
विश्वास-प्रस्तुतिः
(न्व᳘) व्व᳘सवस्त्वा धूपयन्तु॥
गायत्रे᳘ण च्छ᳘न्दसा ऽङ्गिरस्व᳘द्रुद्रा᳘स्त्वा धूपयन्तु त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्व᳘दादित्या᳘स्त्वा धूपयन्तु जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वद्वि᳘श्वे त्वा देवा᳘ व्वैश्वानरा᳘ धूपयन्त्वा᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘न्द्रस्त्वा धूपयतु व्व᳘रु᳘णस्त्वा धूपयतु व्वि᳘ष्णुस्त्वा धूपयत्वि᳘त्येता᳘भिरे᳘वैनामेत᳘द्देव᳘ताभिर्धूपयति॥
मूलम् - श्रीधरादि
(न्व᳘) व्व᳘सवस्त्वा धूपयन्तु॥
गायत्रे᳘ण च्छ᳘न्दसा ऽङ्गिरस्व᳘द्रुद्रा᳘स्त्वा धूपयन्तु त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्व᳘दादित्या᳘स्त्वा धूपयन्तु जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वद्वि᳘श्वे त्वा देवा᳘ व्वैश्वानरा᳘ धूपयन्त्वा᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘न्द्रस्त्वा धूपयतु व्व᳘रु᳘णस्त्वा धूपयतु व्वि᳘ष्णुस्त्वा धूपयत्वि᳘त्येता᳘भिरे᳘वैनामेत᳘द्देव᳘ताभिर्धूपयति॥
मूलम् - Weber
व᳘सवस्त्वा धूपयन्तु॥
गायत्रे᳘ण छ᳘न्दसाङ्गिरस्व᳘द्रुद्रा᳘स्त्वा धूपयन्तु त्रै᳘ष्टुभेन छ᳘न्दसाङ्गिरस्व᳘दादित्या᳘स्त्वा धूपयन्तु जा᳘गतेन छ᳘न्दसाङ्गिरस्वद्वि᳘श्वे त्वा देवा᳘ वैश्वानरा᳘ धूपयन्त्वा᳘नुष्टुभेन छ᳘न्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु व᳘रुणस्त्वा धूपयतु वि᳘ष्णुस्त्वा धूपयत्वि᳘त्येता᳘भिरेॗवैनामेत᳘द्देव᳘ताभिर्धूपयति॥
मूलम् - विस्वरम्
**“वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसा ऽङ्गिरस्वत् (१) रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन च्छन्दसा ऽङ्गिरस्वत् (२) आदित्यास्त्वा धूपयन्तु जागतेन च्छन्दसा ऽङ्गिरस्वत् (३) विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन च्छन्दसा ऽङ्गिरस्वत् (४) इन्द्रस्त्वा धूपयतु (५) वरुणस्त्वा धूपयतु (६) विष्णुस्त्वा धूपयतु (७)” **- (वा. सं. ११ । ६०) इति । एताभिरेवैनामेतद्देवताभिर्धूपयति ॥ १० ॥
सायणः
अथ प्रथमशक्ना धूपने मन्त्रमाह- वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसा ऽङ्गिरस्वदिति । हे उखे ! त्वां ‘वसवः’ अष्टसङ्ख्याकाः ‘धूपयन्तु’ अश्वशकधूपनेन संस्कुर्वन्तु । कीदृशा वसवः गायत्र्याख्येन छन्दसा सहिताः ‘अङ्गिरस्वत्’ अङ्गिरसो यथा स्वकीये चयने ‘अधूपयन्’ एवमित्यर्थः । वसूनां गायत्रच्छन्दसश्च सम्बन्धे अष्टसङ्ख्यासादृश्यं निमित्तम्; अष्टौ हि वसवः, अष्टाक्षरा च गायत्री ॥
एवं “रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन”- (वा. सं. ११ । ६०) इत्यादयो ऽप्यक्षरसंख्याद्वारेण व्याख्येयाः । “विश्वे त्वा देवा वैश्वानरा” इति चतुर्थमन्त्रे विश्वेषां देवानां सर्वदेवात्मकत्वादनुष्टुभश्च सर्वच्छन्दोरूपत्वात् परस्परसम्बन्धः । विश्वे च ते नराश्च ‘विश्वेनराः’, तेषां हितकारित्वेन सम्बन्धिनो “वैश्वानराः” इन्द्रवरुणविष्णूनां प्रतिनियतच्छन्दस्सम्बन्धाभावात् केवला एवाम्नाताः । एताभिरेवैनामेतद्देवताभिर्धूपयतीति । ‘एतत्’ एतेन, वस्वादिमन्त्रधूपनेन ‘एताभिः’ सप्तदेवताभिः एवं धूपनं कारितवान् भवति ॥ १० ॥
Eggeling
- [Vāj. S. XI, 60] ‘May the Vasus make thee fragrant by the Gāyatrī measure, Aṅgiras-like!–May the Rudras make thee fragrant by the Trishṭubh metre, Aṅgiras-like!–May the Ādityas make thee fragrant by the Jagatī metre, Aṅgiras-like!–May the All-gods, the friends of all men, make thee fragrant by the Anushṭubh metre, Aṅgiras-like!–May Indra make thee fragrant!–May Varuṇa make thee fragrant!–May Vishṇu make thee fragrant!’–he thus fumigates it by means of the deities.
११
विश्वास-प्रस्तुतिः
स᳘प्ताश्वशका᳘नि भ᳘वन्ति॥
सप्त य᳘जूᳫँ᳭षि सप्त᳘तय्य ऽएता᳘ देव᳘ताः सप्त᳘ शीर्ष᳘न्प्राणा य᳘दु वा ऽअ᳘पि बहुकृ᳘त्वः सप्त᳘सप्त स᳘प्तैव त᳘च्छीर्ष᳘ण्येव त᳘त्सप्त᳘ प्राणा᳘न्दधाति॥
मूलम् - श्रीधरादि
स᳘प्ताश्वशका᳘नि भ᳘वन्ति॥
सप्त य᳘जूᳫँ᳭षि सप्त᳘तय्य ऽएता᳘ देव᳘ताः सप्त᳘ शीर्ष᳘न्प्राणा य᳘दु वा ऽअ᳘पि बहुकृ᳘त्वः सप्त᳘सप्त स᳘प्तैव त᳘च्छीर्ष᳘ण्येव त᳘त्सप्त᳘ प्राणा᳘न्दधाति॥
मूलम् - Weber
स᳘प्ताश्वशका᳘नि भ᳘वन्ति॥
स्प्त य᳘जूंषि सप्त᳘तय्य एता᳘ देव᳘ताः सप्त᳘ शीर्ष᳘न्प्राणा य᳘दु वा अ᳘पि बहुकृ᳘त्वः सप्त᳘-सप्त सॗप्तैव त᳘छीर्ष᳘ण्येव त᳘त्सप्त᳘ प्राणा᳘न्दधाति॥
मूलम् - विस्वरम्
सप्ताश्वशकानि भवन्ति, सप्त यजूंषि, सप्ततय्य एता देवताः । सप्त शीर्षन् प्राणाः । यदु वा ऽअपि बहुकृत्वः सप्तसप्त सप्तैव तत् । शीर्षण्येव तत् सप्त प्राणान् दधाति ॥ ११ ॥
सायणः
शकृन्मन्त्रदेवतानां यत् सप्तसङ्ख्यासाम्यम्, तत् प्रशंसति- सप्ताश्वशकानि भवन्तीत्यादिना । सङ्ख्यागतसप्तत्वस्य त्रित्वं प्रशंसति- यदु वा अपि बहुकृत्वः सप्त-सप्तेति । ‘उ’ अपि च, यदपि तत्र शकृद्गतमेकं सप्तकम्, मन्त्रगतञ्चापरम्, देवतागतं चान्यत् । एवं ‘बहुकृत्वः’ सप्तसंख्यायामावृत्तायामपि सप्तसंख्यानतिरेकात् त्रिभिः सप्तभिः ‘शीर्षण्येव’ उखाख्ये यज्ञशिरस्येव ‘सप्त प्राणान्’ ‘दधाति’ स्थापयति ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे पञ्चमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (६-५-३) ॥
Eggeling
-
अषाढां करोति महिषी प्रथमवित्ता तदाख्या । का० श्रौ० सू० १६ । ९० । ↩︎
-
239:1 See VI, 1, 1, 14. ↩︎
-
239:2 Viz. those of the sky, the air, and the earth. See VI, 1, 2, 10. ↩︎
-
मृदमुपशयां निदधाति । का. श्रौ. सू. । १६ । १०७ । ↩︎
-
240:1 That is, in case the fire-pan were to break. See VI, 6, 4, 8 seq. ↩︎
-
241:1 ? Or, divided into groups of seven each, as, for instance, the Mantis, see II, 5, 1, 13. ↩︎
-
241:2 Comp. the Germ. ‘seine sieben Sachen (or, Siebensachen) packen,’ to pack one’s traps. ↩︎