०१

विश्वास-प्रस्तुतिः

अ᳘थ मृत्पिण्ड᳘मपा᳘दत्ते॥
या᳘वन्तं निधये᳘ ऽलं म᳘न्यते मख᳘स्य शि᳘रो ऽसी᳘ति यज्ञो वै᳘ मखस्त᳘स्यैतच्छि᳘र ऽआहवनी᳘यो वै᳘ यज्ञ᳘स्य शि᳘र ऽआहवनी᳘यमु वा᳘ ऽएतं᳘ चेष्य᳘न्भवति त᳘स्मादाह मख᳘स्य शि᳘रो ऽसी᳘ति॥

मूलम् - श्रीधरादि

अ᳘थ मृत्पिण्ड᳘मपा᳘दत्ते॥
या᳘वन्तं निधये᳘ ऽलं म᳘न्यते मख᳘स्य शि᳘रो ऽसी᳘ति यज्ञो वै᳘ मखस्त᳘स्यैतच्छि᳘र ऽआहवनी᳘यो वै᳘ यज्ञ᳘स्य शि᳘र ऽआहवनी᳘यमु वा᳘ ऽएतं᳘ चेष्य᳘न्भवति त᳘स्मादाह मख᳘स्य शि᳘रो ऽसी᳘ति॥

मूलम् - Weber

अ᳘थ मृत्पिण्ड᳘मपा᳘दत्ते॥
या᳘वन्तं निधये᳘ ऽलम् मख᳘स्य शि᳘रो ऽसी᳘ति यज्ञो वै मखस्त᳘स्यैतछि᳘र आहवनी᳘यो वै᳘ यज्ञ᳘स्य शि᳘र आहवनी᳘यमु वा᳘ एतं᳘ चेष्य᳘न्भवति त᳘स्मादाह मख᳘स्य शि᳘रो ऽसी᳘ति॥

मूलम् - विस्वरम्

अथ मृत्पिण्डमपादत्ते । यावन्तं निधये ऽलं मन्यते- “मखस्य शिरो ऽसि”- (वा. सं. ११ । ५७) इति । यज्ञो वै मखः । तस्यैतच्छिरः । आहवनीयो वै यज्ञस्य शिरः । आहवनीयमु वा ऽएतं चेष्यन् भवति । तस्मादाह- मखस्य शिरो ऽसीति ॥ १ ॥

सायणः

अथोखाया अधस्तलपर्याप्तमृत्पिण्डादानं विधत्ते- अथ मृत्पिण्डमिति । ‘निधिः’ नाम उखाया अधस्तलम्, तस्मै; ‘यावन्तं’ पर्याप्तं ‘मन्यते’ यजमानः, तावन्तम् आददीत । उखाकरणे यजमानः कर्त्ता । तथा च कात्यायनः- “यजमान उखां करोति मृदमादाय मखस्य शिर इति"- (का. श्रौ. सू. १६ । ९२) इति । आदाने मन्त्रं विधत्ते- मखस्य शिरो ऽसीतीति । हे मृत्पिण्ड ! त्वं ‘मखस्य शिरो ऽसि’ । एतद् यजुर्व्याचष्टे- यज्ञो वै मख इति । यथा आहवनीयो यज्ञस्य शिरः, अग्न्याधारत्वात्; एवं मृत्पिण्डो ऽपि वह्न्याधारत्वादाहवनीयस्य चीयमानत्वाच्च लक्षणया यज्ञशिर इत्युच्यते ॥ १ ॥

Eggeling
  1. He then takes a lump of clay, as much as he thinks sufficient for the bottom part, with, ‘Makha’s head thou art!’–Makha, doubtless, is the sacrifice, and this is its head; for the Āhavanīya fire is the head of the sacrifice, and that Āhavanīya (fire-altar) he is now about to build: hence he says, ‘Makha’s head thou art!’

०२

विश्वास-प्रस्तुतिः

य᳘द्वेवा᳘ह मख᳘स्य शि᳘रो ऽसी᳘ति॥
जा᳘यत ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते शीर्षतो वै᳘ मुखतो जा᳘यमानो जायते शीर्षतो᳘ मुखतो जा᳘यमानो जायाता ऽइ᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वेवा᳘ह मख᳘स्य शि᳘रो ऽसी᳘ति॥
जा᳘यत ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते शीर्षतो वै᳘ मुखतो जा᳘यमानो जायते शीर्षतो᳘ मुखतो जा᳘यमानो जायाता ऽइ᳘ति॥

मूलम् - Weber

य᳘द्वेवा᳘ह मख᳘स्य शि᳘रो ऽसी᳘ति॥
जा᳘यत एष᳘ एतद्य᳘च्चीय᳘ते शीर्षतो वै᳘ मुखतो जा᳘यमानो जायते शीषतो᳘ मुखतो जा᳘यमानो जायाता इ᳘ति॥

मूलम् - विस्वरम्

यद्वेवाह- मखस्य शिरो ऽसीति । जायत ऽएष एतद्- यच्चीयते । शीर्षतो वै मुखतो जायमानो जायते । शीर्षतो मुखतो जायमानो जायाता ऽइति ॥ २ ॥

सायणः

प्रकारान्तरेण स्तोतुमनुवदति- यद्वेवाह मखस्येति । इष्टकाभिश्चीयते इति यत्, तत् एषो ऽग्निर्जायते । चयनं नाम जन्मेत्यर्थः । लोके ह्युत्पद्यमानः पुरुषः प्रथमं ‘शीर्षतः’ शिरःप्रभृतिक एव ‘चीयते’ जायते । एवमग्निः शीर्षतो जायतामित्यभिप्रायेण “यज्ञस्य शिरो ऽसि”- इत्युक्तम् । ‘जायातै’- इति जनेः पञ्चमलकारे रूपम् ॥ २ ॥

Eggeling
  1. And, again, as to why he says, ‘Makha’s head thou art!’–when he (Agni) is built up, then he is born, and it is by the head (issuing first), by the top, that he who is born is born: ‘when he is born, may he be born by the head, by the top!’ so he thinks.

०३

विश्वास-प्रस्तुतिः

तं᳘ प्रथयति॥
व्व᳘सवस्त्वा कृण्वन्तु गायत्रे᳘ण च्छ᳘न्दसा ऽङ्गिरस्वदि᳘त्यय᳘ᳫँ᳘ हैष᳘ लोको᳘ निधिस्त᳘मेतद्व᳘सवो[[!!]] गायत्रे᳘ण च्छ᳘न्दसा ऽकुर्व्वंस्त᳘थै᳘वैनमय᳘मेत᳘द्गायत्रे᳘ण च्छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति पृथि᳘व्यसी᳘ति[[!!]] पृथिवी᳘ ह्येष᳘ निधि᳘र्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳘ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वै व्व᳘सव ऽइमं᳘ लोकं᳘ कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमान ऽइमं᳘ लोकं᳘ कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शास्ते तां᳘ प्रादेशमात्रीं᳘ कृत्वा᳘ ऽथास्यै सर्व्व᳘तस्ती᳘रमु᳘न्नयति॥

मूलम् - श्रीधरादि

तं᳘ प्रथयति॥
व्व᳘सवस्त्वा कृण्वन्तु गायत्रे᳘ण च्छ᳘न्दसा ऽङ्गिरस्वदि᳘त्यय᳘ᳫँ᳘ हैष᳘ लोको᳘ निधिस्त᳘मेतद्व᳘सवो[[!!]] गायत्रे᳘ण च्छ᳘न्दसा ऽकुर्व्वंस्त᳘थै᳘वैनमय᳘मेत᳘द्गायत्रे᳘ण च्छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति पृथि᳘व्यसी᳘ति[[!!]] पृथिवी᳘ ह्येष᳘ निधि᳘र्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳘ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वै व्व᳘सव ऽइमं᳘ लोकं᳘ कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमान ऽइमं᳘ लोकं᳘ कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शास्ते तां᳘ प्रादेशमात्रीं᳘ कृत्वा᳘ ऽथास्यै सर्व्व᳘तस्ती᳘रमु᳘न्नयति॥

मूलम् - Weber

त᳘म् प्रथयति॥
व᳘सवस्त्वा कृण्वन्तु गायत्रे᳘ण छ᳘न्दसाङ्गिरस्वदि᳘त्यय᳘ᳫं᳘ हैष᳘ लोको᳘ निधिस्त᳘मेत᳘द्व᳘सवो गायत्रे᳘ण छ᳘न्दसाकुर्वंस्त᳘थैॗवैनमय᳘मेत᳘द्गायत्रे᳘ण छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा अ᳘ङ्गिरा ध्रुॗवासी᳘ति स्थिॗरासी᳘त्येतद᳘थो प्र᳘तिष्ठितासी᳘ति पृथिव्य᳘सी᳘ति पृथिवीॗ ह्येष᳘ निधि᳘र्धार᳘या म᳘यि प्रजां᳘ रायस्पो᳘षं गौपत्य᳘ᳫं᳘ सुवी᳘र्यᳫं सजातान्य᳘जमानाये᳘त्येतद्वै व᳘सव इमं᳘ लोकं᳘ कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शासत त᳘थैॗवैतद्य᳘जमान इमं᳘ लोकं᳘ कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शास्ते ता᳘म् प्रादेशमात्रीं᳘ कृत्वा᳘थास्यै सर्व᳘तस्ती᳘रमु᳘न्नयति॥

मूलम् - विस्वरम्

तं प्रथयति । “वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसा ऽङ्गिरस्वद्”- इति । अयं हैष लोको निधिः । तमेतद्वसवो गायत्रेण च्छन्दसा ऽकुर्वन् । तथैवैनमयमेतद् गायत्रेण च्छन्दसा करोति । अङ्गिरस्वदिति । प्राणो वा ऽअङ्गिराः । “ध्रुवा ऽसि”- इति स्थिरा ऽसीत्येतत् । अथो प्रतिष्ठिता ऽसीति । “पृथिव्यसि”-इति । पृथिवी ह्येष निधिः । “धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानाय"- इति । एतद्वै वसव इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशासत । तथैवैतद्यजमान इमं लोकं कृत्वा तस्मिन्नेतामाशिषमाशास्ते । तां प्रादेशमात्रीं कृत्वा । अथास्यै सर्वतस्तीरमुन्नयति ॥ ३ ॥

सायणः

तत्र प्रथनं समन्त्रं विधत्ते- तं प्रथयतीति 1 । ‘प्रथयति’ विस्तारयति । उखा नाम लोकत्रयात्मिकेति स्तुता, तत्र ‘निधिः’ भूलोकः; उत्तरत्र “द्यौर्येष उद्धिर्धारय” इति श्रवणात् उत्तरोत्तरमृत्पिण्डप्रक्षेपौ अन्तरिक्षद्युलोकात्मकौ; अतो मन्त्रत्रये ऽपि लोकत्रयवाचकानि पदानि विद्यन्ते । यथा, निधिप्रथनमन्त्र एवमाम्नायते- “वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसा ऽङ्गिरस्वद् ध्रुवा ऽसि पृथिव्यसि धारया मयि प्रजाँ रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानाय”- (वा. सं. ११ । ५८) इति । अयमर्थः,- ‘वसवः’ नाम भूलोकरक्षका देवाः ‘त्वा’ त्वाम् उखां भूलोकात्मिकां ‘कृण्वन्तु’ कुर्वन्तु ‘गायत्रेण च्छन्दसा’ सह ‘अङ्गिरस्वत्’ प्राणवत्, हे उखे ! ‘ध्रुवा असि’ स्थिरा असि, ‘पृथिवी’ च ‘असि’ भूलोकात्मिका च भवसि । “धारया मयि"- इति यजुःशेषेण यजमाने आशिषमाशास्ते; यजमानाय मयीति सप्तमीनिर्देशात् ‘यजमानाय’- इति सप्तम्यर्थे चतुर्थी । ‘प्रजां’ ‘धारय’ स्थापय । ‘रायस्पोषं’ धनपुष्टिम्, ‘गौपत्यं’ गवां पतित्वम् ‘सुवीर्यं’ सुवीराणां कर्म, अथ ‘सजातान्’ समानोदरे जातान् भ्रातॄनपि धारयेति सर्वत्र सम्बन्धः । मन्त्रं व्याचष्टे- अयं हैष लोको निधिरिति । ‘एषः’ भूलोकः ‘निधिः’ उखाया अधस्तलम् । तदेतद् यथा ‘वसवो ऽकुर्वन्,’ एवं यष्टापि वसव इति पाठेन भूलोकमेव कृतवान् भवति । ध्रुवा ऽसीत्यस्य व्याख्यानं स्थिरा ऽसीति, तस्य व्याख्यानं- प्रतिष्ठिता ऽसीति । पृथिव्यसीत्यस्य व्याख्यानं- पृथिवी ह्येष निधिरिति । निधिर्नामोखाया अधस्तलमिति प्रागुक्तम् । धारया मयीत्यादिना यजमानस्य स्वाशीराशासनम् ॥

उत्तरत्रोखाया ऊर्द्ध्वपरिमाणं वक्ष्यते । अत्र निधेस्तिर्यग्विस्तारस्य परिमाणं विधत्ते- तां प्रादेशमात्रीमिति । ‘तां’ निधिपर्याप्तां मृदं तिर्यक् ‘प्रादेशमात्रीं कृत्वा’ ‘अथ’ अनन्तरम् ‘अस्यै’ अस्याः विस्तारिताया निधेर्मृदः ‘सर्वतः’ ‘तीरम्’ अन्तम् ‘उन्नयति’ ऊर्द्ध्वं कुर्यात् । तथा च सूत्रम्- “वसवस्त्वेति प्रथयत्यन्तानुन्नीय सर्वतः”- (का. श्रौ. सू. १६ । ९५) इति ॥ ३ ॥

Eggeling
  1. He spreads it out, with (Vāj. S. XI, 58), ‘May the Vasus, Aṅgiras-like, fashion thee by the Gāyatrī metre!’–for the bottom part is this (terrestrial) world, and this the Vasus fashioned by means of the Gāyatrī metre; and in like manner does this one now fashion it by means of the Gāyatrī metre;–‘Aṅgiras-like,’ he says, for Aṅgiras is the breath. ‘Thou art steadfast!’–that is, ’thou art firm,’ or, ’thou art fixed;’–‘Thou art the earth!’–for this bottom part is indeed the earth;–‘Establish in me offspring, increase of wealth, lordship of cattle, manhood, clansmen for the Sacrificer!’ For the Vasus, having fashioned this (terrestrial) world, invoked this blessing thereon; and in like manner does the Sacrificer, having fashioned this world, now invoke this blessing thereon. Having made it of the measure of a span (in each direction), he then turns up its edge on each side.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पू᳘र्व्वमुद्धिमा᳘दधाति॥
रुद्रा᳘स्त्वा कृण्वन्तु त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘त्यन्त᳘रिक्षᳫँ᳭ हैष᳘ ऽउद्धिस्त᳘मेत᳘द्रुद्रास्त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽकुर्व्वंस्त᳘थै᳘वैनमय᳘मेतत्त्रै᳘ष्टुभेन च्छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘त्यन्त᳘रिक्षमसी᳘त्यन्त᳘रिक्ष᳘ᳫँ᳘[[!!]] ह्येष᳘ ऽउद्धि᳘र्द्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳘ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वै᳘ रुद्रा᳘ ऽअन्त᳘रिक्षं कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमानो ऽन्त᳘रिक्षं कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शास्ते ता᳘ᳫँ᳘ संलि᳘प्य सᳫँ᳭श्ल᳘क्ष्ण्य॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पू᳘र्व्वमुद्धिमा᳘दधाति॥
रुद्रा᳘स्त्वा कृण्वन्तु त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘त्यन्त᳘रिक्षᳫँ᳭ हैष᳘ ऽउद्धिस्त᳘मेत᳘द्रुद्रास्त्रै᳘ष्टुभेन च्छ᳘न्दसा ऽकुर्व्वंस्त᳘थै᳘वैनमय᳘मेतत्त्रै᳘ष्टुभेन च्छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘त्यन्त᳘रिक्षमसी᳘त्यन्त᳘रिक्ष᳘ᳫँ᳘[[!!]] ह्येष᳘ ऽउद्धि᳘र्द्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳘ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वै᳘ रुद्रा᳘ ऽअन्त᳘रिक्षं कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमानो ऽन्त᳘रिक्षं कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शास्ते ता᳘ᳫँ᳘ संलि᳘प्य सᳫँ᳭श्ल᳘क्ष्ण्य॥

मूलम् - Weber

अ᳘थ पू᳘र्वमुद्धिमा᳘दधाति॥
रुद्रा᳘स्त्वा कृण्वन्तु त्रै᳘ष्टुभेन छ᳘न्दसाङ्गिरस्वदि᳘त्यन्त᳘रिक्षᳫं हैष᳘ उद्धिस्त᳘मेत᳘द्रुद्रास्त्रै᳘ष्टुभेन छ᳘न्दसाकुर्वंस्त᳘थैॗवैनमय᳘मेतत्त्रै᳘ष्टुभेन छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा अ᳘ङ्गिरा ध्रुॗवासी᳘ति स्थिॗरासी᳘त्येतद᳘थो प्र᳘तिष्ठितासी᳘त्यन्त᳘रिक्षमसी᳘त्यन्त᳘रिॗक्षᳫं ह्येष᳘ उद्धि᳘र्धार᳘या म᳘यि प्रजां᳘ रायस्पो᳘षं गौपत्य᳘ᳫं᳘ सुवी᳘र्यᳫं सजातान्य᳘जमानाये᳘त्येतद्वै᳘ रुद्रा᳘ अन्त᳘रिक्षं कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शासत त᳘थैॗवैतद्य᳘जमानो ऽन्त᳘रिक्षं कृत्वा त᳘स्मिन्नेता᳘माशि᳘षमा᳘शास्ते ता᳘ᳫं᳘ संलि᳘प्य संश्ल᳘क्ष्ण्य॥

मूलम् - विस्वरम्

अथ पूर्वमुद्धिमादधाति । “रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन च्छन्दसा ऽङ्गिरस्वद्” - इति । अन्तरिक्षं हैष उद्धिः । तमेतद् रुद्रास्त्रैष्टुभेन च्छन्दसा ऽकुर्वन् । तथैवैनमयमेतत् त्रैष्टुभेन च्छन्दसा करोति । अरिस्वादिति । प्राणो वा ऽअङ्गिराः । “ध्रुवा ऽसि”- इति । स्थिरा ऽसीत्येतद् । अथो प्रतिष्ठितासीति । “अन्तरिक्षमसि”- इति । अन्तरिक्षं ह्येष उद्धिः । “धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानाय”- इति । एतद्वै रुद्रा अन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशासत । तथैवैतद्यजमानो ऽन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशास्ते । तां संलिप्य संश्लक्ष्ण्य ॥ ४ ॥

सायणः

अथ तिर्यक् प्रादेशमात्रं विस्तारिताया निधिमृदः उपरि मृत्पिण्डप्रक्षेपं समन्त्रं विधत्ते- अथ पूर्वमुद्धिमादधातीति । ‘पूर्वं’ प्रथमम् । ‘उद्धि’- शब्दो मृत्पिण्डप्रदेशवाची । अत एव कात्यायनः- “प्रथमं धातुमादधाति”- (का. श्रौ. सू. १६ । ९६) इत्युक्तवान् । धातुशब्द उत्तरोत्तरक्रमेणावस्थानमाह; “त्रिधात्वलाबुपात्रम्”- इत्यादिप्रयोगदर्शनात् । अथ द्वितीयमन्त्र एवमाम्नायते- “रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन च्छन्दसा ऽङ्गिरस्वद् ध्रुवास्यन्तरिक्षमसि धारया मयि प्रजाँ रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानाय”- इति । मन्त्रस्यायमर्थः- हे उखे ! त्वां ‘रुद्राः’ अन्तरिक्षाभिमानिनः ‘कृण्वन्तु’ । अत्र मन्त्रे ‘त्रैष्टुभेन छन्दसा’- इति, ‘अन्तरिक्षमसि’- इति च विशेषः । शेषं पूर्ववत् । निधेर्भूलोकात्मकत्वादुपरिनिहितमृत्पिण्डस्यान्तरिक्षलोकात्मकत्वम् । मन्त्रव्याख्यापकं ब्राह्मणमपि पूर्ववत् । तां संलिप्येति । तां निधेरुपरि निहितां मृदं ‘संलिप्य’ सम्मार्ज्य ‘संश्लक्ष्ण्य’ श्लक्ष्णां स्निग्धां कुर्यादित्यर्थः 2 ॥ ४ ॥

Eggeling
  1. He then lays thereon the first (lower) side-part,

with, ‘May the Rudras, Aṅgiras-like, fashion thee by the Trishṭubh metre!’–for this side-part is the air, and this the Rudras fashioned by means of the Trishṭubh metre; and in like manner does this one now fashion it by means of the Trishṭubh metre;–‘Aṅgiras-like,’ he says, for Aṅgiras is the breath;–‘Thou art steadfast!’–that is, ’thou art firm,’ or ’thou art fixed;’–‘Thou art the air!’ for this side-part is indeed the air;–‘Establish in me offspring, increase of wealth, lordship of cattle, manhood, clansmen for the Sacrificer!’ For the Rudras, having fashioned the air, invoked this blessing thereon; and in like manner does this Sacrificer, having fashioned the air, now invoke this blessing thereon. Having stroked and smoothed it all over–

०५

विश्वास-प्रस्तुतिः

(क्ष्ण्या) अथो᳘त्तरमुद्धिमा᳘दधाति॥
(त्या) आदित्या᳘स्त्वा कृण्वन्तु जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति द्यौ᳘र्हैष᳘ ऽउद्धिस्त᳘मेत᳘दादित्या जा᳘गतेन च्छ᳘न्दसा ऽकुर्व्वंस्त᳘थै᳘वैनमय᳘मेतज्जा᳘गतेन च्छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति द्यौरसी᳘ति द्यौ᳘र्ह्येष᳘ ऽउद्धि᳘र्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳘ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वा᳘ ऽआदित्या᳘ दि᳘वं कृत्वा त᳘स्यामेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमानो दि᳘वं कृत्वा त᳘स्यामेता᳘माशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

(क्ष्ण्या) अथो᳘त्तरमुद्धिमा᳘दधाति॥
(त्या) आदित्या᳘स्त्वा कृण्वन्तु जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति द्यौ᳘र्हैष᳘ ऽउद्धिस्त᳘मेत᳘दादित्या जा᳘गतेन च्छ᳘न्दसा ऽकुर्व्वंस्त᳘थै᳘वैनमय᳘मेतज्जा᳘गतेन च्छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति द्यौरसी᳘ति द्यौ᳘र्ह्येष᳘ ऽउद्धि᳘र्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳘ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वा᳘ ऽआदित्या᳘ दि᳘वं कृत्वा त᳘स्यामेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमानो दि᳘वं कृत्वा त᳘स्यामेता᳘माशि᳘षमा᳘शास्ते॥

मूलम् - Weber

अथो᳘त्तरमुद्धिमा᳘दधाति॥
आदित्या᳘स्त्वा कृण्वन्तु जा᳘गतेन छ᳘न्दसाङ्गिरस्वदि᳘ति द्यौ᳘र्हैष᳘ 3 उद्धिस्त᳘मेत᳘दादित्या जा᳘गतेन छ᳘न्दसाकुर्वंस्त᳘थैॗवैनमय᳘मेतज्जा᳘गतेन छ᳘न्दसा करोत्यङ्गिरस्वदि᳘ति प्राणो वा अ᳘ङ्गिरा ध्रुॗवासी᳘ति स्थिॗरासी᳘त्येतद᳘थो प्र᳘तिष्ठितासी᳘ति द्यौरसी᳘ति द्यौॗर्ह्येष᳘ उद्धि᳘र्धार᳘या म᳘यि प्रजां᳘ रायस्पो᳘षं गौपत्य᳘ᳫं᳘ सुवी᳘र्यᳫं सजातान्य᳘जमानाये᳘त्येतद्वा᳘ आदित्या दिवं कृत्वा त᳘स्यामेता᳘माशि᳘षमा᳘शासत त᳘थैॗवैतद्य᳘जमानो दि᳘वं कृत्वा त᳘स्यामेता᳘माशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

अथोत्तरमुद्धिमादधाति । “आदित्यास्त्वा कृण्वन्तु जागतेन च्छन्दसा ऽङ्गिरस्वद्”- इति । द्यौर्हैष उद्धिः । तमेतदादित्या जागतेन च्छन्दसा ऽकुर्वन् । तथैवैनमयमेतज्जागतेन च्छन्दसा करोति । अङ्गिरस्वदिति । प्राणो वा अङ्गिराः । “ध्रुवा ऽसि"- इति । स्थिरा ऽसीत्येतत्, अथो प्रतिष्ठिता ऽसीति । “द्यौरसि”- इति । द्यौर्ह्येष उद्धिः । “धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानाय”- इति । एतद्वा ऽआदित्या दिवं कृत्वा तस्यामेतामाशिषमाशासत । तथैवैतद् यजमानो दिवं कृत्वा तस्यामेतामाशिषमाशास्ते ॥ ५ ॥

सायणः

अथ प्रथमोद्धेरुपरि अन्यमृत्पिण्डप्रक्षेपं समन्त्रं विधत्ते- अथोत्तरमुद्धिमादधातीति । अथ तृतीयमन्त्र एवमाम्नायते- “आदित्यास्त्वा कृण्वन्तु जागतेन च्छन्दसा ऽङ्गिरस्वद् ध्रुवा ऽसि द्यौरसि धारया मयि प्रजाँ रायस्पोषं गौपत्यँ सुवीर्यँ सजातान् यजमानाय"- इति ॥

अत्र आदित्या द्युलोकाभिमानिन्यो देवताः त्वामुखां कुर्वन्तु । अत्र मन्त्रे ‘जागतेन छन्दसा’- इति, ‘द्यौरसि’- इति च विशेषः । शेषं पूर्ववत् । प्रथमोद्धेरन्तरिक्षात्मकत्वात् तस्योपरि निहितमृत्पिण्डस्य द्युलोकात्मकत्वम् ॥ ५ ॥

Eggeling
  1. He lays on the upper side-part, with, ‘May the Ādityas, Aṅgiras-like, fashion thee by the Jagatī metre!’ for this side-part is yonder sky, and this the Ādityas fashioned by means of the Jagatī metre; and in like manner does this one now fashion it by means of the Jagatī metre;–‘Aṅgiras-like,’ he says, for Aṅgiras is the breath;–‘Thou art steadfast!’–that is, ’thou art firm,’ or ’thou art fixed;’–‘Thou art the sky!’ for that side-part is indeed the sky;–‘Establish in me offspring, increase of wealth, lordship of cattle, manhood, clansmen for the Sacrificer!’ For the Ādityas, having fashioned the sky, invoked this blessing thereon; and in like manner the Sacrificer, having fashioned the sky, now invokes this blessing thereon.

०६

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथै) अ᳘थैते᳘न चतुर्थे᳘न य᳘जुषा करोति॥
व्वि᳘श्वे त्वा देवा᳘ व्वैश्वानराः᳘ कृण्वन्त्वा᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति दि᳘शो हैतद्य᳘जुरेतद्वै व्वि᳘श्वे देवा᳘ व्वैश्वानरा᳘ ऽएषु᳘ लोके᳘षूखा᳘यामेते᳘न चतुर्थे᳘न य᳘जुषा दि᳘शो ऽदधुस्त᳘थै᳘वैतद्य᳘जमान ऽएषु[[!!]] लोके᳘षूखा᳘यामेते᳘न चतुर्थे᳘न य᳘जुषा दि᳘शो दधात्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति दि᳘शो ऽसी᳘ति दि᳘शो᳘ ह्येतद्य᳘जुर्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳭ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वै व्वि᳘श्वे देवा᳘ व्वैश्वानरा दि᳘शः कृत्वा ता᳘स्वेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमानो दि᳘शः कृत्वा ता᳘स्वेता᳘माशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथै) अ᳘थैते᳘न चतुर्थे᳘न य᳘जुषा करोति॥
व्वि᳘श्वे त्वा देवा᳘ व्वैश्वानराः᳘ कृण्वन्त्वा᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति दि᳘शो हैतद्य᳘जुरेतद्वै व्वि᳘श्वे देवा᳘ व्वैश्वानरा᳘ ऽएषु᳘ लोके᳘षूखा᳘यामेते᳘न चतुर्थे᳘न य᳘जुषा दि᳘शो ऽदधुस्त᳘थै᳘वैतद्य᳘जमान ऽएषु[[!!]] लोके᳘षूखा᳘यामेते᳘न चतुर्थे᳘न य᳘जुषा दि᳘शो दधात्यङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति दि᳘शो ऽसी᳘ति दि᳘शो᳘ ह्येतद्य᳘जुर्धार᳘या म᳘यि प्रजा᳘ᳫँ᳘ रायस्पो᳘षं गौपत्य᳘ᳫँ᳭ सुवी᳘र्यᳫँ᳭ सजातान्य᳘जमानाये᳘त्येतद्वै व्वि᳘श्वे देवा᳘ व्वैश्वानरा दि᳘शः कृत्वा ता᳘स्वेता᳘माशि᳘षमा᳘शासत त᳘थै᳘वैतद्य᳘जमानो दि᳘शः कृत्वा ता᳘स्वेता᳘माशि᳘षमा᳘शास्ते॥

मूलम् - Weber

अ᳘थैते᳘न चतुर्थे᳘न य᳘जुषा करोति॥
वि᳘श्वे त्वा देवा᳘ वैश्वानराः᳘ कृण्वन्त्वा᳘नुष्टुभेन छ᳘न्दसाङ्गिरस्वदि᳘ति दि᳘शो हैतद्य᳘जुरेतद्वै वि᳘श्वे देवा᳘ वैश्वानरा᳘ एषु᳘ लोके᳘षूखा᳘यामेते᳘न चतुर्थे᳘न य᳘जुषा दि᳘शो ऽदधुस्त᳘थैॗवैतद्य᳘जमान एषु᳘ लोके᳘षूखा᳘यामेते᳘न चतुर्थे᳘न य᳘जुषा दि᳘शो दधात्यङ्गिरस्वदि᳘ति प्राणो वा अ᳘ङ्गिरा ध्रुॗवासी᳘ति स्थिॗरासी᳘त्येतद᳘थो प्र᳘तिष्ठितासी᳘ति दि᳘शो ऽसी᳘ति दि᳘शोॗ ह्येतद्य᳘जुर्धार᳘य: म᳘यि प्रजां᳘ रायस्पो᳘षं गौपत्य᳘ᳫं᳘ सुवी᳘र्यᳫं सजातान्य᳘जमानाये᳘त्येतद्वै वि᳘श्वे देवा᳘ वैश्वानरा दि᳘शः कृत्वा ता᳘स्वेता᳘माशि᳘षमा᳘शासत त᳘थैॗवैतद्य᳘जमानो दि᳘शः कृत्वा ता᳘स्वेता᳘माशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

अथैतेन चतुर्थेन यजुषा करोति- “विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन च्छन्दसा ऽङ्गिरस्वद्”- इति । दिशो हैतद्यजुः । एतद्वै विश्वे देवाः । वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो ऽदधुः । तथैवैतद्यजमान एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो दधाति । अङ्गिरस्वदिति । प्राणो वा ऽअङ्गिराः । “ध्रुवा ऽसि”- इति । स्थिरा ऽसीत्येतद् । अथो प्रतिष्ठिता ऽसीति । “दिशो ऽसि”- इति । दिशो ह्येतद्यजुः । “धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानाय”- (वा० सं० ११ । ५८) इति । एतद्वै विश्वे देवाः । वैश्वानरा दिशः कृत्वा तास्वेतामाशिषमाशासत । तथैवैतद्यजमानो दिशः कृत्वा तास्वेतामाशिषमाशास्ते ॥ ६ ॥

सायणः

अथ निधेरुद्धिद्वयस्य च समीकरणं समन्त्रं विधत्ते- अथैतेन चतुर्थेनेति 4 । उक्तमन्त्रत्रयापेक्षया एतस्य यजुषश्चतुर्थत्वम् । वैश्वानराः विश्वनरसम्बन्धिनो ‘विश्वे देवाः त्वाम् आनुष्टुभेन च्छन्दसा’ कुर्वन्त्विति । दिशो हैतद्यजुरित्यादेरयमर्थः,- उखाया लोकत्रयात्मकत्वात् ‘एतेन’ ‘यजुषा’ समीकरणेन तस्यां दिश एव निहितवन्तो भवन्ति ॥

सो ऽयं चतुर्थो मन्त्रः- “विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन च्छन्दसा ऽङ्गिरस्वद् ध्रुवा ऽसि दिशो ऽसि धारया मयि प्रजाँ रायस्पोषं गौपत्यँ सुवीर्य‍ँ सजातान् यजमानाय”- इति । अत्र मन्त्रे ‘आनुष्टुभेन च्छन्दसा’- इति, ‘दिशो ऽसि’- इति च विशेषः ॥ ६ ॥

Eggeling
  1. He then makes it (complete), with this fourth prayer, ‘May the All-gods, the friends of all

men, fashion thee, Aṅgiras-like, by the Anushṭubh metre!’–this prayer, doubtless, is the (four) quarters, and the All-gods, the friends of all men, did then, by means of this prayer, put the quarters into these worlds, (that is) into the fire-pan; and in like manner does the Sacrificer, by means of this prayer, now put the quarters into these worlds, into the fire-pan;–‘Aṅgiras-like,’ he says, because Aṅgiras is the breath;–‘Thou art steadfast!’–that is, ’thou art firm,’ or ’thou art fixed;’–‘Thou art the quarters!’ for this prayer indeed is the quarters;–‘Establish in me offspring, increase of wealth, lordship of cattle, manhood, clansmen for the Sacrificer!’ For the All-gods, the friends of all men, having fashioned the quarters, invoked this blessing on them; and in like manner the Sacrificer, having fashioned the quarters, now invokes this blessing on them.

०७

विश्वास-प्रस्तुतिः

ते᳘नैते᳘नान्तरत᳘श्च बाह्यत᳘श्च करोति॥
त᳘स्मादेषां᳘ लोका᳘नामन्त᳘रत᳘श्च[[!!]] बाह्यतश्च[[!!]] दिशो᳘ ऽपरिमितमेते᳘न करोत्य᳘परिमिता हि दि᳘शः॥

मूलम् - श्रीधरादि

ते᳘नैते᳘नान्तरत᳘श्च बाह्यत᳘श्च करोति॥
त᳘स्मादेषां᳘ लोका᳘नामन्त᳘रत᳘श्च[[!!]] बाह्यतश्च[[!!]] दिशो᳘ ऽपरिमितमेते᳘न करोत्य᳘परिमिता हि दि᳘शः॥

मूलम् - Weber

ते᳘नैते᳘नान्तरत᳘श्च बाह्यत᳘श्च करोति॥
त᳘स्मादेषां᳘ लोका᳘नामन्तरत᳘श्च बाह्यत᳘श्च दिशा᳘ ऽपरिमितमेते᳘न करोत्य᳘परिमिता हि दि᳘शः॥

मूलम् - विस्वरम्

तेनैतेनान्तरतश्च बाह्यतश्च करोति । तस्मादेषां लोकानामन्तरतश्च बाह्यतश्च दिशो ऽपरिमितमेतेन करोति । अपरिमिता हि दिशः ॥ ७ ॥

सायणः

पूर्वम् “अथैतेन चतुर्थेन यजुषा करोति" इति क्रियासामान्यमुक्तम्, तद् विशिनष्टि- तेनैतेनान्तरतश्च बाह्यतश्चेति । ‘अन्तरतः’ उद्धिद्वयस्य मध्यप्रदेशे अपरिमितं छिद्रं कुर्यात्, ‘बाह्यतः’ अपि निम्नोन्नतत्वपरिहारेण सर्वतः समं कुर्यात् । एतस्य यजुषो दिगात्मकत्वात् उखायाश्च लोकत्रयात्मकत्वात् ‘एतेन’ अनेन अन्तरतो बाह्यतश्च समीकरणेन लोकत्रयस्य मध्ये बहिश्च ‘अपरिमिता दिशः’ निहितवान् भवति ॥ ७ ॥

Eggeling
  1. With that same formula he fashions it both inside and outside, whence the quarters are both inside and outside these worlds. He therewith fashions it without restriction (to any part of the pan), for unrestricted are the quarters.

०८

विश्वास-प्रस्तुतिः

(स्तां᳘) तां᳘ प्रादेशमात्री᳘मे᳘वोर्ध्वां᳘ करो᳘ति॥
प्रादेशमात्रीं᳘ तिर᳘श्चीं प्रादेशमात्रो वै ग᳘र्भो व्वि᳘ष्णुर्यो᳘निरेषा ग᳘र्भसम्मितां तद्यो᳘निं करोति॥

मूलम् - श्रीधरादि

(स्तां᳘) तां᳘ प्रादेशमात्री᳘मे᳘वोर्ध्वां᳘ करो᳘ति॥
प्रादेशमात्रीं᳘ तिर᳘श्चीं प्रादेशमात्रो वै ग᳘र्भो व्वि᳘ष्णुर्यो᳘निरेषा ग᳘र्भसम्मितां तद्यो᳘निं करोति॥

मूलम् - Weber

ता᳘म् प्रादेशमात्री᳘मेॗवोर्ध्वां᳘ करो᳘ति॥
प्रादेशमात्रीं᳘ तिर᳘श्चीम् प्रादेशमात्रो वै ग᳘र्भो वि᳘ष्णुर्यो᳘निरेषा ग᳘र्भसम्मितां तद्यो᳘निं करोति॥

मूलम् - विस्वरम्

तां प्रादेशमात्रीमेवोर्ध्वां करोति । प्रादेशमात्रीं तिरश्चीम् । प्रादेशमात्रो वै गर्भो विष्णुः । योनिरेषा । गर्भसम्मितां तद्योनिं करोति ॥ ८ ॥

सायणः

उखाया ऊर्द्ध्वपरिमाणं विधत्ते- तां प्रादेशमात्रीमिति । एवकारेण परिमाणान्तरनिवृत्तिः । ऊर्द्ध्वा यथा प्रादेशमात्री, तिरश्चीना ऽपि प्रादेशमात्री 5 । तिर्यक्प्रादेशमात्रीति निधिप्रथनसमये प्रागुक्तम् । ऊर्द्ध्वा तिर्यक् च समा कार्येत्यर्थः ॥

तत्परिमाणं प्रशंसति- प्रादेशेति । ‘योनिं’ गर्भसदृशीं कृतवान् भवति । उखाया योनित्वम् अग्न्याधारत्वात्, अग्नेश्च गर्भत्वम् तन्मध्ये संवत्सरमवस्थानात् ॥ ८ ॥

Eggeling
  1. He makes it just a span high, and a span sideways; for Vishṇu, when an embryo, was a span long, and this (fire-pan) is the womb: he thus makes the womb of equal size with the embryo 6.

०९

विश्वास-प्रस्तुतिः

सा य᳘दि व्व᳘र्षीयसी प्रादेशात्स्या᳘त्॥
(दे) एते᳘न य᳘जुषा ह्र᳘सीयसीं कुर्याद्य᳘दि ह्र᳘सीयस्येते᳘न व्व᳘र्षीयसीम्॥

मूलम् - श्रीधरादि

सा य᳘दि व्व᳘र्षीयसी प्रादेशात्स्या᳘त्॥
(दे) एते᳘न य᳘जुषा ह्र᳘सीयसीं कुर्याद्य᳘दि ह्र᳘सीयस्येते᳘न व्व᳘र्षीयसीम्॥

मूलम् - Weber

सा य᳘दि व᳘र्षीयसी प्रादेशात्स्या᳘त्॥
एते᳘न य᳘जुषा ह्र᳘सीयसीं कुर्याद्य᳘दि ह्र᳘सीयस्येते᳘न व᳘र्षीयसीम्॥

मूलम् - विस्वरम्

सा यदि वर्षीयसी प्रादेशात् स्यात्- एतेन यजुषा ह्रसीयसीं कुर्यात् । यदि ह्रसीयसी- एतेन वर्षीयसीम् ॥ ९ ॥

सायणः

सर्वथोखा प्रादेशमात्री कर्त्तव्येत्याह- सा यदीति । ‘यदि’ ‘सा’ उखा ‘प्रादेशाद्’ ‘वर्षीयसी’ अधिकपरिमाणा ‘स्यात्,’ तर्हि ‘एतेन’ “विश्वे त्वा देवाः”- इति ‘यजुषा’ ‘ह्रसीयसीम्’ अधिकांशं परिहृत्य प्रादेशमात्रीमेव कुर्यात् । ‘यदि’ उखा ‘ह्रसीयसी’ स्यात्, ‘एतेन’ यजुषा तिर्यक् प्रादेश सम्मितामेव कुर्यात् ॥ ९ ॥

Eggeling
  1. Were it larger than a span, he would make it smaller by that prayer; and were it smaller, (he would make it) larger thereby 7.

१०

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स यद्ये᳘कः पशुः स्यात्[[!!]]॥
(दे᳘) ए᳘कप्रादेशां कुर्याद᳘थ य᳘दि प᳘ञ्च पश᳘वः स्युः प᳘ञ्चप्रादेशां कुर्यादिषुमात्रीं᳘ वा व्वी᳘र्यं[[!!]] वा ऽइ᳘षुर्व्वी᳘र्यसम्मितैव[[!!]] त᳘द्भवति प᳘ञ्चप्रादेशा ह स्म᳘ त्वेव᳘ पुरे᳘षुर्भवति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स यद्ये᳘कः पशुः स्यात्[[!!]]॥
(दे᳘) ए᳘कप्रादेशां कुर्याद᳘थ य᳘दि प᳘ञ्च पश᳘वः स्युः प᳘ञ्चप्रादेशां कुर्यादिषुमात्रीं᳘ वा व्वी᳘र्यं[[!!]] वा ऽइ᳘षुर्व्वी᳘र्यसम्मितैव[[!!]] त᳘द्भवति प᳘ञ्चप्रादेशा ह स्म᳘ त्वेव᳘ पुरे᳘षुर्भवति॥

मूलम् - Weber

स यद्ये᳘कः पशुः स्या᳘त्॥
ए᳘कप्रादेशां कुर्याद᳘थ य᳘दि प᳘ञ्च पश᳘वः स्युः प᳘ञ्चप्रादेशां कुर्यादिषुमात्रीं᳘ वा वीर्यं᳘ वा इ᳘षुवीर्य᳘ᳫं᳘सम्मितैव त᳘द्भवति प᳘ञ्चप्रादेशा ह स्मॗ त्वेव᳘ पुरे᳘षुर्भवति॥

मूलम् - विस्वरम्

स यद्येकः पशुः स्यात्- एकप्रादेशां कुर्यात् । अथ यदि पञ्च पशवः स्युः । पञ्चप्रादेशां कुर्यात् । इषुमात्रीं वा । वीर्यं वा ऽइषुः । वीर्यसम्मितैव तद्भवति । पञ्चप्रादेशा ह स्म त्वेव पुरेषुर्भवति ॥ १० ॥

सायणः

उखायाः परिमाणं पश्वनुष्ठानापेक्षया विकल्पितमिति दर्शयति- स यद्येकः पशुः स्यादिति । एकपशुपक्षे एव प्रादेशमात्री उखा कर्त्तव्या; पञ्चपशुपक्षे पञ्चप्रादेशपरिमाणा, इषुमात्री वा कर्त्तव्या । एतत् परिमाणद्वयं तिर्यगपेक्षया; ऊर्द्ध्वपरिमाणं त्वत्रापि एकप्रादेशमात्रीति । तथा च कात्यायनेन सूत्रितम्- “प्रादेशमात्रीं तिर्यगूर्ध्वाञ्च, पञ्चप्रादेशामिषुमात्रीं वा तिर्यक् पञ्चपशौ”- (का. श्रौ. सू. १६ । ९३ । ९४) इति । तिर्यगेव पञ्चपशुपक्षे परिमाणद्वयम्, ऊर्द्ध्वन्तु एकप्रादेशैवेत्यर्थः ॥ १० ॥

Eggeling
  1. If there be one victim, let him make it (the pan) one span wide; and if there be five victims, let him make it five spans wide, or an arrow’s width; for the arrow means strength: he thus makes it to be composed of strength. But, indeed, an arrow formerly used to be five spans long 8.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ तिर᳘श्चीᳫँ᳭ रा᳘स्नां प᳘र्यस्यति॥
दि᳘शो हैव᳘ सैतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिर᳘दृᳫँ᳭हन्दिग्भिः प᳘र्यतन्वंस्त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिर्दृ᳘ᳫँ᳘हति दिग्भिः प᳘रितनोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ तिर᳘श्चीᳫँ᳭ रा᳘स्नां प᳘र्यस्यति॥
दि᳘शो हैव᳘ सैतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिर᳘दृᳫँ᳭हन्दिग्भिः प᳘र्यतन्वंस्त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिर्दृ᳘ᳫँ᳘हति दिग्भिः प᳘रितनोति॥

मूलम् - Weber

अ᳘थ तिर᳘श्चीं रा᳘स्नाम् प᳘र्यस्यति॥
दि᳘शो हैवॗ सैतद्वै᳘ देवा᳘ इमां᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिर᳘दृंहन्दिग्भिः प᳘र्यतन्वंस्त᳘थैॗवैतद्य᳘जमान इमां᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिदृ᳘ᳫं᳘हति दिग्भिः प᳘रितनोति॥

मूलम् - विस्वरम्

अथ तिरश्चीं रास्नां पर्यस्यति । दिशो हैव सा । एतद्वै देवा इमाल्ँ लोकानुखां कृत्वा दिग्भिरदृंहन्, दिग्भिः पर्यतन्वन् । तथैवैतद्यजमान इमाल्ँ लोकानुखां कृत्वा दिग्भिर्दृंहति, दिग्भिः परितनोति ॥ ११ ॥

सायणः

अथोखाया उत्तरभागे वर्तिकरणं विधत्ते- अथ तिरश्चीमिति (का. श्रौ. सू. १६ । ८९) । ‘पर्यस्यति’ परितः सर्वतः कुर्यात् । तां रास्नां दिगात्मना स्तौति- एतद्वै देवा इत्यादिना । पूर्वं ‘देवाः’ यथा ‘उखां कृत्वा’ ‘दिग्भिः’ दृढामकुर्वन्, एवं यष्टा वर्त्तिकरणेन दिग्भिरेव विततां दृढाञ्च कृतवान् भवति ॥ ११ ॥

Eggeling
  1. He then lays round the horizontal belt (or rim);–that is the quarters; for the gods, having made these worlds, the fire-pan, strengthened and encircled them by the quarters; and in like manner the Sacrificer, having made these worlds, the fire-pan, thus strengthens and encircles them by the quarters.

१२

विश्वास-प्रस्तुतिः

तामु᳘त्तरे व्वितृतीये प᳘र्यस्यति॥
(त्य᳘) अ᳘त्र हैषां᳘ लोका᳘नाम᳘न्ताः समा᳘यन्ति त᳘दे᳘वैनांस्त᳘द्दृᳫँ᳭हति॥

मूलम् - श्रीधरादि

तामु᳘त्तरे व्वितृतीये प᳘र्यस्यति॥
(त्य᳘) अ᳘त्र हैषां᳘ लोका᳘नाम᳘न्ताः समा᳘यन्ति त᳘दे᳘वैनांस्त᳘द्दृᳫँ᳭हति॥

मूलम् - Weber

तामु᳘त्तरे वितृतीये प᳘र्यस्यति॥
अ᳘त्र हैषां᳘ लोका᳘नाम᳘न्ताः समा᳘यन्ति त᳘देॗवैनांस्त᳘द्दूंहति॥

मूलम् - विस्वरम्

तामुत्तरे वितृतीये पर्यस्यति । अत्र हैषां लोकानामन्ताः समायन्ति- तदेवैनांस्तद्दृंहति ॥ १२ ॥

सायणः

रास्नाकरणस्य स्थानं विधत्ते- तामुत्तरे वितृतीय इति 9 । उखां त्रिधा विभज्य ‘उत्तरे’ अर्द्धे ‘वितृतीये’ तृतीयभागादप्यदूरे प्रदेशे उखाकण्ठप्रदेशे वर्तिं सर्वतः तिरश्चीनां कुर्यादित्यर्थः ॥ १२ ॥

Eggeling
  1. He lays this (rim) on the upper third (of the side), for it is there the ends of these worlds meet, and he thus makes them firm thereby.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘दित्यै रा᳘स्ना ऽसी᳘ति॥
व्वरु᳘ण्या वै᳘ यज्ञे र᳘ज्जुरवरुण्या᳘मे᳘वैनामेतद्रा᳘स्नां कृत्वा प᳘र्यस्यति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘दित्यै रा᳘स्ना ऽसी᳘ति॥
व्वरु᳘ण्या वै᳘ यज्ञे र᳘ज्जुरवरुण्या᳘मे᳘वैनामेतद्रा᳘स्नां कृत्वा प᳘र्यस्यति॥

मूलम् - Weber

अ᳘दित्यै रा᳘स्नासी᳘ति॥
वरुॗण्या वै᳘ यज्ञे र᳘ज्जुरवरुण्या᳘मेॗवैनामेतद्रा᳘स्नां कृत्वा प᳘र्यस्यति॥

मूलम् - विस्वरम्

“अदित्यै रास्ना ऽसि”- इति । वरुण्या वै यज्ञे रज्जुः । अवरुण्यामेवैनामेतद्रास्नां कृत्वा पर्यस्यति ॥ १३ ॥

सायणः

मन्त्रं विधत्ते- अदित्यै रास्ना ऽसीति । हे वर्ते ! ‘अदित्यै’ अदीनाया देवमातुः ‘रास्ना’ रसना ‘असि’ ‘इति’ । रास्नापदस्याभिप्रायमाह- वरुण्या वै यज्ञ इति । पाशस्य वरुणो देवतेति प्रागुक्तम्, रास्ना ‘अवरुण्या’ अपाशत्वात् ॥ १३ ॥

Eggeling
  1. [He does so, with Vāj. S. XI, 59] ‘Thou art Aditi’s girdle!’–in the sacrifice the string relates to Varuṇa: he thus lays this belt round after (expressly) making it one not relating to Varuṇa.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ च᳘तस्र ऽऊर्द्ध्वाः᳘ करोति॥
तूष्णी᳘मेव दि᳘शो हैव ता᳘ ऽएतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिः᳘ सर्व्व᳘तो ऽदृᳫँ᳭हंस्त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिः᳘ सर्व्व᳘तो दृᳫँ᳭हति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ च᳘तस्र ऽऊर्द्ध्वाः᳘ करोति॥
तूष्णी᳘मेव दि᳘शो हैव ता᳘ ऽएतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिः᳘ सर्व्व᳘तो ऽदृᳫँ᳭हंस्त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिः᳘ सर्व्व᳘तो दृᳫँ᳭हति॥

मूलम् - Weber

अ᳘थ च᳘तस्र ऊर्ध्वाः᳘ करोति॥
तूष्णी᳘मेव दि᳘शो हैव ता᳘ एतद्वै᳘ देवा᳘ इमां᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिः᳘ सर्व᳘तो ऽदृंहंस्त᳘थैॗवैतद्य᳘जमान इमां᳘लोका᳘नुखां᳘ कृत्वा᳘ दिग्भिः सर्व᳘तो दृंहति॥

मूलम् - विस्वरम्

अथ चतस्र ऊर्द्ध्वाः करोति- तूष्णीमेव । दिशो हैव ताः । एतद्वै देवा इमाल्ँ लोकानुखां कृत्वा दिग्भिः सर्वतो ऽदृंहन् । तथैवैतद्यजमान इमाल्ँ लोकानुखां कृत्वा दिग्भिः सर्वतो दृंहति ॥ १४ ॥

सायणः

अन्याश्चतस्रो वर्त्तीर्विधत्ते- अथ चतस्र ऊर्द्ध्वा इति । ‘तूष्णीम्’ इति मन्त्रप्रतिषेधः । एताः वर्त्तयः उखायाश्चतुर्दिशं कार्याः । तथा च सूत्रम्- “ऊर्द्ध्वास्तूष्णीं प्रतिदिशं चतस्रो ऽपरा वर्त्तीः प्राप्ताः”- (का. श्रौ. सू. १६ । १००) इति । कण्ठगतवर्त्तिपर्यन्तं प्रतिदिशं चतस्रः तूष्णीं कार्या इत्यर्थः । रास्नाचतुष्टयं दिगात्मना स्तूयते- दिशो हैव ता इत्यादिना । ‘सर्वतः’ ऊर्द्ध्वानां चतसृणां तृतीयोत्तरकृतरास्नापर्यन्तम् ॥ १४ ॥

Eggeling
  1. He then silently makes four upright (bands), for these are the quarters;–for the gods, having made these worlds, the fire-pan, made them firm on all sides by means of the quarters 10; and in like manner the Sacrificer, having made these worlds, the fire-pan, now makes them firm on all sides by means of the quarters.

१५

विश्वास-प्रस्तुतिः

ता᳘ ऽएता᳘ ऽऐत᳘स्यै भवन्ति॥
(न्त्ये) एतद्वा᳘ ऽएता᳘ ऽएता᳘मस्तभ्नुवंस्त᳘थै᳘वैनामेत᳘त्स्तभ्नुवन्ति तद्यद᳘त ऽऊर्ध्वं त᳘देत᳘या तिर᳘श्च्या दृढम᳘थ यद᳘तो ऽर्व्वाक्त᳘देता᳘भिः॥

मूलम् - श्रीधरादि

ता᳘ ऽएता᳘ ऽऐत᳘स्यै भवन्ति॥
(न्त्ये) एतद्वा᳘ ऽएता᳘ ऽएता᳘मस्तभ्नुवंस्त᳘थै᳘वैनामेत᳘त्स्तभ्नुवन्ति तद्यद᳘त ऽऊर्ध्वं त᳘देत᳘या तिर᳘श्च्या दृढम᳘थ यद᳘तो ऽर्व्वाक्त᳘देता᳘भिः॥

मूलम् - Weber

ता᳘ एताॗ ऐत᳘स्यै भवन्ति॥
एतद्वा᳘ एता᳘ एता᳘मस्तभ्नुवस्त᳘थैॗवैनामेत᳘त्स्तभ्नुवन्ति तद्यद᳘त ऊर्ध्वं त᳘देत᳘या तिर᳘श्च्या दृढम᳘थ यद᳘तो ऽर्वाक्त᳘देता᳘भिः॥

मूलम् - विस्वरम्

ता एता ऐतस्यै भवन्ति । एतद्वा ऽएता एतामस्तभ्नुवन् । तथैवैनामेतत् स्तभ्नुवन्ति । तद्यदत ऊर्द्ध्वम्- तदेतया तिरश्च्या दृढम् । अथ यदतो ऽर्वाक्- तदेताभिः ॥ १५ ॥

सायणः

तां विधत्ते- ता एता ऐतस्यै भवन्तीति । तद्यदत ऊर्द्ध्वमिति । उत्तरवर्तिकरणेन अतो लोकात् ऊर्द्ध्वस्थितं सर्वं दृढं भवति । उखाया लोकत्रयात्मकत्वाद् दाढ्र्यार्थं वर्त्तयः कर्त्तव्या इति तात्पर्यम् ॥ १५ ॥

Eggeling
  1. These (vertical bands) run up to (the rim of) it, for they did then support it, and so do they now support it: thus that upper part of it becomes firm

by means of the horizontal belt, and that lower part of it by means of these (vertical bands).

१६

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘साम᳘ग्रेषु स्त᳘नानु᳘न्नयन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वैतै[[!!]] स्त᳘नैः स᳘र्व्वान्का᳘मानदुहत त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृ᳘त्वैतै स्त᳘नैः स᳘र्व्वान् का᳘मान् दुहै᳘॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘साम᳘ग्रेषु स्त᳘नानु᳘न्नयन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृत्वैतै[[!!]] स्त᳘नैः स᳘र्व्वान्का᳘मानदुहत त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोका᳘नुखां᳘ कृ᳘त्वैतै स्त᳘नैः स᳘र्व्वान् का᳘मान् दुहै᳘॥

मूलम् - Weber

ता᳘साम᳘ग्रेषु स्त᳘नानु᳘न्नयन्ति॥
एतद्वै᳘ देवा᳘ इमां᳘लोका᳘नुखां᳘ कृॗत्वैतै स्त᳘नैः स᳘र्वान्का᳘मानदुहत त᳘थैॗवैतद्य᳘जमान इमां᳘लोका᳘नुखां᳘ कृॗत्वैतै स्त᳘नैः स᳘र्वान्का᳘मान्दुहै॥

मूलम् - विस्वरम्

तासामग्रेषु स्तनानुन्नयन्ति । एतद्वै देवा इमाल्ँ लोकानुखां कृत्वैतै स्तनैः सर्वान् कामानदुहत । तथैवैतद्यजमान इमाल्ँ लोकानुखां कृत्वैतै स्तनैः सर्वान् कामान् दुहे ॥ १६ ॥

सायणः

अथोर्द्ध्ववर्त्तीनामन्ते स्तनोन्नयनं विधत्ते- तासामग्रेषु स्तनानिति 11 । स्तना इव ‘स्तनाः’, तदाकाराः कुर्यादित्यर्थः । एतद्वै देवा इत्यादेः कण्डिकात्रयस्यायमर्थः- पूर्वं देवा लोकत्रयात्मिकां गोरूपामुखां कृत्वा तस्याः ऊधःस्थानीयायाः वितृतीयभागे कृतायास्तिरश्चीनाया रास्नायाः समीपे वर्त्तिरास्नाग्रेषु चतुरः स्तनान् कृत्वा, तेभ्यः सर्वान् कामान् दुग्धवन्तः, तथा ऽयं यष्टा ऽपि स्वाभिलषितान् कामान् दोग्धुं चतुरः स्तनान् कुर्यादिति । गोरूधो ऽपि वितृतीये भागे भवति, सा ऽपि गौश्चतुस्तनीति तत्साम्यम् ॥ १६-१८ ॥

Eggeling
  1. At their tops they form nipples; for the gods, having made these worlds, the fire-pan, drew forth for themselves from these nipples all (objects of) their desires; and in like manner the Sacrificer, having made these worlds, the fire-pan, draws forth from these nipples all his desires.

१७

विश्वास-प्रस्तुतिः

सैषा गौ᳘रे᳘व[[!!]]॥
(वे) इमे वै᳘ लोका᳘ ऽउ᳘खेमे᳘ लोका गौस्त᳘स्या ऽएतदू᳘धो᳘ यैषा᳘ तिर᳘श्ची रा᳘स्ना सा᳘ व्वितृतीये᳘ भवति व्वितृतीये हि गोरू᳘धः॥

मूलम् - श्रीधरादि

सैषा गौ᳘रे᳘व[[!!]]॥
(वे) इमे वै᳘ लोका᳘ ऽउ᳘खेमे᳘ लोका गौस्त᳘स्या ऽएतदू᳘धो᳘ यैषा᳘ तिर᳘श्ची रा᳘स्ना सा᳘ व्वितृतीये᳘ भवति व्वितृतीये हि गोरू᳘धः॥

मूलम् - Weber

सैषा गौ᳘रेव᳟॥
इमे वै᳘ लोका᳘ उॗखेमे᳘ लोका गौस्त᳘स्या एतदू᳘धोॗ यैषा᳘ तिर᳘श्ची रा᳘स्ना सा᳘ वितृतीये᳘ भवति वितृतीये हि गोरू᳘धः॥

मूलम् - विस्वरम्

सैषा गौरेव । इमे वै लोका उखा । इमे लोका गौः । तस्या ऽएतदूधो- यैषा तिरश्ची रास्ना । सा वितृतीये भवति । वितृतीये हि गोरूधः ॥ १७ ॥

सायणः

[व्याख्यानं षोडशे]

Eggeling
  1. This (fire-pan) indeed is a cow, for the fire-pan is these worlds, and these worlds are a cow: that horizontal belt is its udder; it is in the (upper) third of it, for the udder is in one-third of the cow.

१८

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्यै स्त᳘नानु᳘न्नयति॥
(त्यू᳘) ऊ᳘धसस्त᳘त्स्तनानु᳘न्नयति[[!!]] सा च᳘तुस्तना भवति च᳘तुस्तना हि गौः[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्यै स्त᳘नानु᳘न्नयति॥
(त्यू᳘) ऊ᳘धसस्त᳘त्स्तनानु᳘न्नयति[[!!]] सा च᳘तुस्तना भवति च᳘तुस्तना हि गौः[[!!]]॥

मूलम् - Weber

त᳘स्यै स्त᳘नानु᳘न्नयति॥
ऊ᳘धसस्तत्स्त᳘नानु᳘न्नयति सा च᳘तुस्तना भवति च᳘तुस्तना हि गौः᳟॥

मूलम् - विस्वरम्

तस्यै स्तनानुन्नयति । ऊधसस्तत् स्तनानुन्नयति । चतुःस्तना भवति । चतुःस्तना हि गौः ॥ १८ ॥

सायणः

[व्याख्यानं षोडशे]

Eggeling
  1. He forms nipples to it, whereby he forms the nipples of the udder: it has four nipples, for the cow has four nipples.

१९

विश्वास-प्रस्तुतिः

(स्ता) ताᳫँ᳭ है᳘के द्वि᳘स्तनां कुर्व्वन्ति॥
(न्त्य᳘) अ᳘थो ऽअष्ट᳘स्तनां न त᳘था कुर्याद्ये वै गोः क᳘नीयस्तनाः पश᳘वो ये भू᳘यस्तना ऽअनुपजीवनीय᳘तरा वा᳘ ऽअस्यै᳘ते ऽनुपजीवनीय᳘तराᳫँ᳭ हैनां ते᳘ कुर्व्वते᳘ ऽथो ह ते न गां᳘ कुर्व्वते शुनीं वा᳘ ऽविं वा व्व᳘डवां वा त᳘स्मात्त᳘था न᳘ कुर्यात्॥

मूलम् - श्रीधरादि

(स्ता) ताᳫँ᳭ है᳘के द्वि᳘स्तनां कुर्व्वन्ति॥
(न्त्य᳘) अ᳘थो ऽअष्ट᳘स्तनां न त᳘था कुर्याद्ये वै गोः क᳘नीयस्तनाः पश᳘वो ये भू᳘यस्तना ऽअनुपजीवनीय᳘तरा वा᳘ ऽअस्यै᳘ते ऽनुपजीवनीय᳘तराᳫँ᳭ हैनां ते᳘ कुर्व्वते᳘ ऽथो ह ते न गां᳘ कुर्व्वते शुनीं वा᳘ ऽविं वा व्व᳘डवां वा त᳘स्मात्त᳘था न᳘ कुर्यात्॥

मूलम् - Weber

ताᳫं है᳘के द्वि᳘स्तनां कुर्वन्ति॥
अ᳘थो अष्ट᳘स्तनां न त᳘था कुर्याद्ये वै गोः क᳘नीयस्तनाः पश᳘वो ये भू᳘यस्तना अनुपजीवनीय᳘तरा वा अस्यैॗते ऽनुपजीवनीयतराᳫं हैनां ते᳘ कुर्वते᳘ ऽथो ह ते न गां᳘ कुर्वते शुनीं वा᳘विं वा व᳘डबां वा त᳘स्मात्त᳘था न᳘ कुर्यात्॥

मूलम् - विस्वरम्

तां हैके द्विस्तनां कुर्वन्ति, अथो ऽअष्टस्तनाम् । न तथा कुर्यात् । ये वै गोः कनीयस्तनाः पशवः, ये भूयस्तनाः- अनुपजीवनीयतरा वा ऽअस्यैते । अनुपजीवनीयतरां हैनां ते कुर्वते । अथो ह ते न गां कुर्वते- शुनीं वा, अविं वा, वडवां वा । तस्मात्तथा न कुर्यात् ॥ १९ ॥

सायणः

चतुस्तनपक्षं सिद्धान्तयितुं शाखान्तरानुसारणं पक्षान्तरमनुवदति- तां हैक इति 12 । तथा च तैत्तिरीयाः- “द्विस्तनां करोति द्यावापृथिव्योर्दोहाय, चतुःस्तनां करोति पशूनां दोहाय, अष्टास्तनां करोति च्छन्दसां दोहाय”- (तै. सं. ५ । १ । ६ । ४) इति । द्विस्तनपक्षे एकस्मिन्नेव वर्त्त्यग्रे क्रियते स्तनद्वयम्, अष्टस्तनपक्षे एकैकस्मिन् वर्त्त्यग्रे द्वौ द्वाविति । तत्पक्षद्वयं दूषयति- न तथा कुर्यादिति । ‘ये’ पशवो ‘गोः’ पशोरपेक्षया ‘कनीयस्तनाः’ अल्पस्तनाः, ‘ये’ च ‘भूयस्तनाः;’ अल्पभूयस्त्वे गवापेक्षयेति वक्तुं गोरित्युक्तम् । सा हि चतुस्तना । स्तनचतुष्टयादर्वाक्स्तना भूयस्तना वा ये पशवः, ते ‘अनुपजीवनीयाः’ अभोग्या भवन्ति । यदि ‘एनाम्’ उखां द्विस्तनामष्टस्तनां वा कुर्यात्, तर्हि अनुपजीवनीयां भोगानर्हामेव कुर्युः न तु गां भोग्याम् । अभोग्यामेव दर्शयति- शुनीमिति । अष्टस्तनकरणे ‘शुनीं’ शुनः स्त्रियम्, द्विस्तनकरणे ‘अविं वडवां वा’ कृतवन्तो भवन्ति । ता यथा भोग्या न भवन्ति, एवं द्विस्तना अष्टस्तना वा उखा न भोगार्हेति तथाकरणमयुक्तमित्यर्थः ॥ १९ ॥

Eggeling
  1. Some, indeed, make it with two nipples, or also with eight nipples; but let him not do so, for those cattle which have fewer nipples than a cow, and those which have more nipples, are less fit to yield him a livelihood: hence they make this (fire-pan) less fit to yield a livelihood; and, indeed, they do not make it (like) a cow, but (like) a bitch, or a ewe, or a mare; hence let him not do so.

२०

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थास्यै बि᳘लमभि᳘पद्यते॥
(ते᳘ ऽदि) अ᳘दितिष्टे बि᳘लं गृभ्णात्वि᳘ति व्वाग्वा ऽअ᳘दितिरेतद्वा᳘ ऽएनां देवाः᳘ कृत्वा᳘ व्वाचा᳘ ऽदित्या नि᳘रष्ठापयंस्त᳘थै᳘वैनामय᳘मेत᳘त्कृत्वा᳘ व्वाचा᳘ ऽदित्या नि᳘ष्ठापयति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थास्यै बि᳘लमभि᳘पद्यते॥
(ते᳘ ऽदि) अ᳘दितिष्टे बि᳘लं गृभ्णात्वि᳘ति व्वाग्वा ऽअ᳘दितिरेतद्वा᳘ ऽएनां देवाः᳘ कृत्वा᳘ व्वाचा᳘ ऽदित्या नि᳘रष्ठापयंस्त᳘थै᳘वैनामय᳘मेत᳘त्कृत्वा᳘ व्वाचा᳘ ऽदित्या नि᳘ष्ठापयति॥

मूलम् - Weber

अ᳘थास्यै बि᳘लमभि᳘पद्यते॥
अ᳘दितिष्टे बि᳘लं गृभ्णात्वि᳘ति वाग्वा अ᳘दितिरेतद्वा᳘ एनां देवाः᳘ कृत्वा᳘ वाचा᳘दित्या नि᳘रष्ठापयंस्त᳘थैॗवैनामय᳘मेत᳘त्कृत्वा᳘ वाचा᳘दित्या नि᳘ष्ठापयति॥

मूलम् - विस्वरम्

अथास्यै बिलमभिपद्यते । “अदितिष्टे बिलं गृभ्णातु"- इति । वाग्वा ऽअदितिः । एतद्वा ऽएनां देवाः कृत्वा वाचा ऽदित्या निरष्ठापयन् । तथैवैनामयमेतत्कृत्वा वाचा ऽदित्या निष्ठापयति ॥ २० ॥

सायणः

विधत्ते- अथास्यै बिलमिति 12 । ‘बिलं’ कण्ठविवरम्, ‘अभिपद्यते’ गृह्णाति । मन्त्रं विधत्ते- अदितिष्ट इति । हे उखे ! ‘ते’ ‘बिलम्’ अदितिः गृभ्णातु । “हृग्रहोर्भः” (पा. सू. ८ । २ । ३२ वा.) । अदितिर्वाग्रूपत्वेन स्तूयते- वाग्वा अदितिरिति । निष्ठापयतीति । निष्ठितां परिसमाप्तां करोति ॥ २० ॥

Eggeling
  1. He then takes hold of its bowl, with, ‘May Aditi seize thy bowl!’ Aditi, doubtless, is Speech; and the gods, having then fashioned it, perfected it by means of Aditi, speech; and in like manner this one, having fashioned it, now perfects it by means of Aditi, speech.

२१

विश्वास-प्रस्तुतिः

तां᳘ परिगृ᳘ह्य नि᳘दधाति॥
कृत्वा᳘य सा᳘ मही᳘मुखामि᳘ति कृत्वा᳘य सा᳘ महती᳘मुखामि᳘त्येत᳘न्मृन्म᳘यीं यो᳘निमग्न᳘य ऽइ᳘ति मृन्म᳘यी᳘ ह्येषा यो᳘निरग्नेः᳘ पुत्रे᳘भ्यः प्रायच्छद᳘दितिः श्रप᳘यानि᳘त्येतद्वा᳘ ऽएनाम᳘दितिः कृत्वा᳘ देवे᳘भ्यः पुत्रे᳘भ्यः श्र᳘पणाय प्रा᳘यच्छत्त᳘थै᳘वैनामय᳘मेत᳘त्कृत्वा᳘ देवे᳘भ्यः श्र᳘पणाय प्र᳘यच्छति॥

मूलम् - श्रीधरादि

तां᳘ परिगृ᳘ह्य नि᳘दधाति॥
कृत्वा᳘य सा᳘ मही᳘मुखामि᳘ति कृत्वा᳘य सा᳘ महती᳘मुखामि᳘त्येत᳘न्मृन्म᳘यीं यो᳘निमग्न᳘य ऽइ᳘ति मृन्म᳘यी᳘ ह्येषा यो᳘निरग्नेः᳘ पुत्रे᳘भ्यः प्रायच्छद᳘दितिः श्रप᳘यानि᳘त्येतद्वा᳘ ऽएनाम᳘दितिः कृत्वा᳘ देवे᳘भ्यः पुत्रे᳘भ्यः श्र᳘पणाय प्रा᳘यच्छत्त᳘थै᳘वैनामय᳘मेत᳘त्कृत्वा᳘ देवे᳘भ्यः श्र᳘पणाय प्र᳘यच्छति॥

मूलम् - Weber

ता᳘म् परिगृ᳘ह्य नि᳘दधाति॥
कृत्वा᳘य सा᳘ मही᳘मुखामि᳘ति कृत्वा᳘य सा᳘ महती᳘मुखामि᳘त्येत᳘न्मृन्म᳘यीं यो᳘निमग्न᳘य इ᳘ति मृन्म᳘यीॗ ह्येषा यो᳘निरग्नेः᳘ पुत्रे᳘भ्यः प्रायछद᳘दितिः श्रप᳘यानि᳘त्येतद्वा᳘ एनाम᳘दितिः कृत्वा᳘ देवे᳘भ्यः पुत्रे᳘भ्यः श्र᳘पणाय प्रा᳘यछत्त᳘थैॗवैनामय᳘मेत᳘त्कृत्वा᳘ देवे᳘भ्यः श्र᳘पणाय प्र᳘यछति॥

मूलम् - विस्वरम्

तां परिगृह्य निदधाति- “कृत्वाय सा महीमुखाम्”- इति । कृत्वाय सा महतीमुखामित्येतत् । “मृन्मयीं योनिमग्नये”- इति । मृन्मयी ह्येषा योनिरग्नेः । “पुत्रेभ्यः प्रायच्छददितिः श्रपयानिति”- (वा. सं. ११ । ५९) । एतद्वा ऽएनामदितिः कृत्वा देवेभ्यः पुत्रेभ्यः श्रपणाय प्रायच्छत् । तथैवैनामयमेतत्कृत्वा देवेभ्यः श्रपणाय प्रयच्छति ॥ २१ ॥

सायणः

उखानिधानं समन्त्रं विधत्ते- तां परिगृह्येति 12 । ‘परिगृह्य’ दृढां गृहीत्वा निदध्यात् ‘ताम्’ उखाम् ॥ मन्त्रस्यायमर्थः,- ‘सा’ अदितिः ‘महीं’ भूरूपां महतीं वा ‘मृन्मयीं’ मृद्विकारभूताम् ‘अग्नये’ अग्न्यर्थं ‘योनिं’ स्थानम् उखां ‘कृत्वाय’ “क्त्वो यक्”- (पा. सू. ७ । १ । ४७ ।) कृत्वा ‘पुत्रेभ्यः’ ‘श्रपयान्’ श्रपयन्तु, पक्वां कुर्वन्तु इति । अतो हेतोः ‘अदितिः’ स्वपुत्रेभ्यो देवेभ्यः प्रायच्छदिति सम्बन्धः । श्रपयतेः पञ्चमलकारे रूपम् । मन्त्रं प्रतिपादमनूद्य व्याचष्टे- कृत्वाय सा महीमुखामिति ॥ २१ ॥

Eggeling
  1. Having grasped it with both hands, he sets it down, with, ‘She, having fashioned the great (mahīm) fire-pan,’–that is, ‘she, having fashioned the great (mahatīm) fire-pan;’–’the earthen womb for Agni;’–for this is indeed Agni’s

earthen womb;–‘Aditi offered it unto her sons, thinking, They shall bake it!’–for Aditi, indeed, having fashioned it, offered it to the gods, her sons, to bake it; and in like manner does this one now, after fashioning it, offer it to the gods to bake it.

२२

विश्वास-प्रस्तुतिः

ता है᳘के तिस्रः᳘ कुर्व्वन्ति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽइमे᳘ लोका᳘ ऽउखा ऽइ᳘ति व्व᳘दन्तो᳘ ऽथो ऽअ᳘न्यो ऽन्य᳘स्यै प्रा᳘यश्चित्त्यै यदी᳘तरा भेत्स्यते ऽथे᳘तरस्यां भरिष्यामो यदी᳘तरा ऽथे᳘तरस्यामि᳘ति न त᳘था कुर्याद्यो वा᳘ ऽएष᳘ निधिः᳘ प्रथ᳘मो ऽयᳫँ᳭ स᳘ लोको यः पू᳘र्व्व ऽउद्धि᳘रन्तरिक्षं[[!!]] त᳘द्य ऽउ᳘त्तरो द्यौः सा᳘ ऽथ य᳘देत᳘च्चतुर्थं य᳘जुर्दि᳘शो हैव त᳘देता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं या᳘वदिमे᳘ च लोका[[!!]] दि᳘शश्च स यद᳘त्रोपाह᳘रेद᳘ति त᳘द्रेचयेद्य᳘दु वै᳘ यज्ञे᳘ ऽतिरिक्तं क्रियते य᳘जमानस्य त᳘द्द्विष᳘न्तं भ्रा᳘तृव्यमभ्य᳘तिरिच्यते य᳘दु भिन्ना᳘यै प्रा᳘यश्चित्तिरु᳘त्तरस्मिंस्त᳘दन्वाख्या᳘ने॥

मूलम् - श्रीधरादि

ता है᳘के तिस्रः᳘ कुर्व्वन्ति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽइमे᳘ लोका᳘ ऽउखा ऽइ᳘ति व्व᳘दन्तो᳘ ऽथो ऽअ᳘न्यो ऽन्य᳘स्यै प्रा᳘यश्चित्त्यै यदी᳘तरा भेत्स्यते ऽथे᳘तरस्यां भरिष्यामो यदी᳘तरा ऽथे᳘तरस्यामि᳘ति न त᳘था कुर्याद्यो वा᳘ ऽएष᳘ निधिः᳘ प्रथ᳘मो ऽयᳫँ᳭ स᳘ लोको यः पू᳘र्व्व ऽउद्धि᳘रन्तरिक्षं[[!!]] त᳘द्य ऽउ᳘त्तरो द्यौः सा᳘ ऽथ य᳘देत᳘च्चतुर्थं य᳘जुर्दि᳘शो हैव त᳘देता᳘वद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं या᳘वदिमे᳘ च लोका[[!!]] दि᳘शश्च स यद᳘त्रोपाह᳘रेद᳘ति त᳘द्रेचयेद्य᳘दु वै᳘ यज्ञे᳘ ऽतिरिक्तं क्रियते य᳘जमानस्य त᳘द्द्विष᳘न्तं भ्रा᳘तृव्यमभ्य᳘तिरिच्यते य᳘दु भिन्ना᳘यै प्रा᳘यश्चित्तिरु᳘त्तरस्मिंस्त᳘दन्वाख्या᳘ने॥

मूलम् - Weber

ता है᳘के तिस्रः᳘ कुर्वन्ति॥
त्र᳘यो वा᳘ इमे᳘ लोका᳘ इमे᳘ लोका᳘ उखा इ᳘ति व᳘दन्तो᳘ ऽथो अॗन्यो ऽन्य᳘स्यै प्रा᳘यश्चित्यै यदी᳘तरा भेत्स्यते ऽथे᳘तरस्याम् भरिष्यामो यदी᳘तराथे᳘तरस्यामि᳘ति न त᳘था कुर्याद्यो वा᳘ एष᳘ निधिः᳘ प्रथॗमो ऽयᳫं स᳘ लोको यः पू᳘र्व उद्धि᳘रन्त᳘रिक्षं तद्य उ᳘त्तरो द्यौः सा᳘थ य᳘देत᳘च्चतुर्थं य᳘जुर्दि᳘शो हैव त᳘देता᳘वद्वा᳘ इदᳫं स᳘र्व या᳘वदिमे᳘ च लोका᳘ दि᳘शश्च स यद᳘त्रोपाह᳘रेद᳘ति त᳘द्रेचयेद्य᳘दु वै᳘ यज्ञे᳘ऽतिरिक्तं क्रियते य᳘जमानस्य त᳘द्द्विष᳘न्तम् भ्रा᳘तृव्यमभ्य᳘तिरिच्यते य᳘दु भिन्ना᳘यै प्रा᳘यश्चित्तिरु᳘त्तरस्मिंस्त᳘दन्वाख्या᳘ने॥

मूलम् - विस्वरम्

ता हैके तिस्रः कुर्वन्ति । त्रयो वा ऽइमे लोकाः, इमे लोका उखा- इति वदन्तः । अथो अन्यो ऽन्यस्यै प्रायश्चित्त्यै । यदीतरा भेत्स्यते- अथेतरस्यां भरिष्यामो- यदीतरा- अथेतरस्यामिति । न तथा कुर्यात् । यो वा ऽएष निधिः प्रथमः- अयं स लोकः । यः पूर्व उद्धिः- अन्तरिक्षं तद् । य उत्तरो- द्यौः सा । अथ यदेतच्चतुर्थं यजुः- दिशो हैव तत् । एतावद्वा ऽइदं सर्वं- यावदिमे च लोकाः, दिशश्च । स यदत्रोपाहरेद्- अति तद्रेचयेत् । यदु वै यज्ञे ऽतिरिक्तं क्रियते-यजमानस्य तद् द्विषन्तं भ्रातृव्यमभ्यतिरिच्यते । यदु भिन्नायै प्रायश्चित्तिः- उत्तरस्मिंस्तदन्वाख्याने ॥ २२ ॥

सायणः

उखा एकैव करणीयेति सिद्धान्तयितुं केषाञ्चित् पक्षं सोपपत्तिकमनुवदति-ता हैके तिस्रः कुर्वन्तीति 13 । ‘ताः’ उखाः, ‘एके’ आचार्याः ‘तिस्रः’ कुर्वन्ति । तत्र युक्तिः- त्रयो वा इमे लोका इति । उखाः खलु लोकात्मिकाः, ‘लोकाः’ च ‘त्रयः;’ अतो लोकसङ्ख्यया उखाः कर्त्तव्याः ‘इति’ ‘वदन्तः’ एके तिस्रः कुर्वन्तीति सम्बन्धः । युक्त्यन्तरमाह- अथो अन्यो ऽन्यस्या इति । यदि एका भिद्येत, तर्हि अन्यस्यामग्निं भरिष्यामः । यदीतरा ऽथेतरस्यामिति । अतो ऽन्यो ऽन्यस्यै प्रायश्चित्त्यर्थं तिस्र उखाः कर्त्तव्या इत्यर्थः ॥

तं पक्षं दूषयति- यो वा एष निधिरित्यादिना । निधिरेकः, उद्धिद्वयञ्च, भूलोकादित्रयम्; यदेतत्समीकरणार्थं यजुः तद्दिगात्मकम्; एतावदेव लोकत्रयम् । दिशश्च सर्वं जगत्; न ततो ऽतिरिक्तमस्ति । अतो लोकत्रयात्मिकायामेकस्यामुखायां कृतायाम्, (श. प. १ । ७ । १ । ११) ‘यद्’ यदि अन्यदुखाद्वयम् ‘उपाहरेत्’ सम्पादयेत्, तर्हि ‘तत्’ लोकादिकम् अति-‘रेचयेत्’; ‘यद् यज्ञे ऽतिरक्तं क्रियते,’ ‘तत्’ अतिरिक्तं कर्म ‘यजमानस्य’ द्विषन्तम् एवातिरेचितवत् भवति । यतो न्यूनमतिरिक्तंच कर्म दोषावहमेव; अतो न्यूनाधिकदोषौ परिहार्यौ । तस्माल्लोकत्रयाद् दिग्भिश्चातिरिक्तस्य वस्तुनः करणं न युक्तमिति तात्पर्यम् ॥

यद्युखैका स्यात्, सा यदि भिद्येत, तर्हि किमन्यकरणं तूष्णीं वा ऽवस्थानम्, अकरणे च कथमुख्याग्निधारणम्, असत्वग्निधारणे कथं चयनाख्यं कर्म सेत्स्यतीत्याशङ्क्य, तस्य सर्वस्योत्तरं ब्राह्मणे वक्ष्यत इत्याह- यदु भिन्नायै प्रायश्चित्तिः, उत्तरस्मिन् तदन्वाख्यान इति । ‘अन्वाख्याने’ ब्राह्मणे तत्र, वक्ष्यत इति । तत्र ह्येवम्- “यद्येषोखा भिद्येत, या ऽभिन्ना नवा स्थाल्युरुबिली स्यात्, तस्यामेनं पर्यावपेत्”- (श. प. ६ । ६ । ४ । ८) इत्यादि ॥ २२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे पञ्चमा ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-५-२) ॥

Eggeling
  1. Now some make three (fire-pans), saying, ‘Three (in number) are these worlds, and the fire-pans are these worlds;’ and also for mutual expiation, thinking, ‘If the one will break, we shall carry (Agni) in the other, and if the other (breaks), then in the other (or third).’ Let him not do so; for that first bottom part is this world; and that first (lower) side-part is the air; and the upper one is the sky; and that fourth, the prayer, doubtless is the quarters; and just as much as these worlds and the quarters are, so much is this whole (universe). But were he to add anything thereto, he would make it to be redundant, and whatever redundant (act) is done in the sacrifice is left over for the Sacrificer’s spiteful rival. And as to the expiation in case of the (fire-pan being) broken, that (will be told) in a subsequent chapter 14.

  1. व्वसवस्त्वेति प्रथयति । का. श्रौ. सू. १६ । ९५ । ↩︎

  2. संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति । का० श्रौ० सू० १६ । ९७ ॥ ↩︎

  3. द्यौ᳘र्ह्येष᳘ C first hand. ↩︎

  4. विश्वे त्वेति समीकरोति । का. श्रौ. सू. । १६ । ९८ । ↩︎

  5. प्रादेशमात्रीं तिर्यगूर्ध्वां च । का. श्रौ. सू. १६ । ९३ । चशब्दादूर्ध्वामपि प्रादेशमात्रीमेव । ↩︎

  6. 235:1 Vishṇu is identical with Agni, inasmuch as both are the sacrifice. ↩︎

  7. 235:2 That is to say, if the pan, thus fashioned, is not quite of the exact measure, the formula is supposed to set this right. ↩︎

  8. 236:1 Yasmin kāle dhanurvedānusāreṇa dharmataḥ kshatriyā yudhyante tasmin kāle pañcaprādeśeshur āsīt, adhunā tv iyam aniyataparimāṇā vartante, Sāy. ↩︎

  9. व्वितृतीय उत्तरे व्वर्ति सर्वतः करोत्यदित्यै रास्नेति । का. श्रौ. सू. १६ । ९९ ॥ ↩︎

  10. 236:2 Viz. by means of the mountains, according to Sāyaṇa. ↩︎

  11. स्तनानिवाग्रेषून्नयति । का. श्रौ. सू. १६ । १०१ । ↩︎

  12. द्विस्तनामष्टस्तनामेके । का. श्रौ. सू. १६ । १०२ । ↩︎ ↩︎ ↩︎

  13. तिस्र एके । का० श्रौ० सू० १६ । १०५ । ↩︎

  14. 238:1 VI, 6, 4, 8. ↩︎