०१
विश्वास-प्रस्तुतिः
पर्णकषाय᳘निष्पक्वा ऽएता ऽआ᳘पो भवन्ति॥
स्थेम्ने᳘ न्वेव य᳘द्वेव᳘ पर्णकषाये᳘ण सो᳘मो वै᳘ पर्ण᳘श्चन्द्र᳘मा ऽउ वै सो᳘म ऽएत᳘दु वा ऽए᳘कमग्निरूप᳘मेत᳘स्यै᳘वाग्निरूपस्यो᳘पाप्त्यै॥
मूलम् - श्रीधरादि
पर्णकषाय᳘निष्पक्वा ऽएता ऽआ᳘पो भवन्ति॥
स्थेम्ने᳘ न्वेव य᳘द्वेव᳘ पर्णकषाये᳘ण सो᳘मो वै᳘ पर्ण᳘श्चन्द्र᳘मा ऽउ वै सो᳘म ऽएत᳘दु वा ऽए᳘कमग्निरूप᳘मेत᳘स्यै᳘वाग्निरूपस्यो᳘पाप्त्यै॥
मूलम् - Weber
पर्णकषाय᳘निष्पक्वा 1 एता आ᳘पो भवन्ति॥
स्थेम्नेॗ न्वेव य᳘द्वेव᳘ पर्णकषाये᳘ण सो᳘मो वै᳘ पर्ण᳘श्चन्द्र᳘मा उ वै सो᳘म एत᳘दु वा ए᳘कमग्निरूप᳘मेत᳘स्यैॗवाग्निरूपस्यो᳘पाप्त्यै॥
मूलम् - विस्वरम्
पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेम्ने न्वेव । यद्वेव पर्णकषायेण । सोमो वै पर्णः । चन्द्रमा उ वै सोमः । एतदु वा ऽएकमग्निरूपम् । एतस्यैवाग्निरूपस्योपाप्त्यै ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अत्र कात्यायनः- “आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे”- (का. श्रौ. सू. १६ । ८५) इति । पलाशपर्णक्वथितमुदकं मृत्पिण्डे सिञ्चेत् । तत्र जलानां पर्णक्वथितत्वं विधत्ते- पर्णकषायनिष्पक्वा एता इति । ‘एताः’ मृत्पिण्डे सिच्यमाना आपः ‘पर्णकषायनिष्पक्वाः’ पलाशपर्णक्वथिता भवेयुः । ‘स्थेम्ने’ स्थिरत्वायैव; केवलमृदोखादिकरणे विशरणं स्यात् । पर्णकषायेण पाकं प्रशंसति- यद्वेव पर्णेति । सोमस्य पर्णत्वम्, सर्वौषध्यनुप्रवेशात् । सोमो नाम चन्द्रमाः । स हि ‘एकम् अग्निरूपम्’ । पूर्वं कुमारस्याग्नेरष्टौ रुद्रादिनामान्युक्तानि (श. प. ६ । १ । ३ । ११ । १२) तेषाञ्चाग्न्युदकौषध्यादीनि रूपाण्यप्युक्तानि । तत्र महादेवेति सप्तमनाम्नः चन्द्रमा रूपम्; “चन्द्रमास्तद्रूपमभवत्” (श. प. ६ । १ । ३ । १६ क.) इत्युक्तम् । तादृशस्याग्निरूपस्योपाप्त्यै पर्णकषायपक्वाः कुर्यादित्यर्थः ॥ १ ॥
Eggeling
- That water (used for working the clay) has been boiled by means of resin of the palāśa tree (butea frondosa), just for the sake of firmness. And as to why (it is done) by palāśa resin;–the palāśa tree doubtless is Soma 2, and Soma is the moon, and that (moon) indeed is one of Agni’s
forms: it is for the obtainment of that form of Agni (that palāśa resin is used).
०२
विश्वास-प्रस्तुतिः
ता ऽउ᳘पसृजति॥
(त्या᳘) आ᳘पो हि ष्ठा᳘ मयोभु᳘व ऽइ᳘ति यां वै᳘ देव᳘तामृ᳘गभ्य᳘नूक्ता यां य᳘जुः᳘ सैव᳘ देव᳘ता स᳘ ऽर्क्सो देव᳘ता तद्य᳘जुस्ता᳘ हैता ऽआ᳘प ऽए᳘वैष᳘ त्रिचस्तद्या᳘ ऽअमूरा᳘प ऽए᳘कᳫँ᳭ रूप᳘ᳫँ᳘ सम᳘दृश्यन्त ता᳘ ऽएतास्त᳘दे᳘वैत᳘द्रूपं᳘ करोति॥
मूलम् - श्रीधरादि
ता ऽउ᳘पसृजति॥
(त्या᳘) आ᳘पो हि ष्ठा᳘ मयोभु᳘व ऽइ᳘ति यां वै᳘ देव᳘तामृ᳘गभ्य᳘नूक्ता यां य᳘जुः᳘ सैव᳘ देव᳘ता स᳘ ऽर्क्सो देव᳘ता तद्य᳘जुस्ता᳘ हैता ऽआ᳘प ऽए᳘वैष᳘ त्रिचस्तद्या᳘ ऽअमूरा᳘प ऽए᳘कᳫँ᳭ रूप᳘ᳫँ᳘ सम᳘दृश्यन्त ता᳘ ऽएतास्त᳘दे᳘वैत᳘द्रूपं᳘ करोति॥
मूलम् - Weber
ता उ᳘पसृजति॥
आ᳘पो हि ष्ठा᳘ मयोभुव इ᳘ति यां वै᳘ देव᳘तामृ᳘गभ्य᳘नूक्ता यां य᳘जुःॗ सैव᳘ देव᳘ता सॗ ऽर्क्सो देव᳘ता तद्य᳘जुस्ता᳘ हैता आ᳘प एॗवैष᳘ त्रिचस्तद्या᳘ अमूरा᳘प ए᳘कं रूप᳘ᳫं᳘ सम᳘दृश्यन्त ता᳘ एतास्त᳘देॗवैत᳘द्रूपं᳘ करोति॥
मूलम् - विस्वरम्
ता उपसृजति । “आपो हि ष्ठा मयोभुवः”- (वा० सं० ११ । ५०-५२) इति । यां वै देवता ऋगभ्यनूक्ता, यां यजुः, सैव देवता स ऽर्क् सो देवता तद्यजुः, ता हैता आप एवैष त्रिचः । तद् या अमूराप एकं रूपं समदृश्यन्त- ता एताः । तदेवैतद्रूपं करोति ॥ २ ॥
सायणः
उदकसेचनं समन्त्रं विधत्ते- ता उपसृजत्यापो हि ष्ठेति । अब्देवत्यं तृचं गायत्रम् । तृचस्यायमर्थः- हे ‘आपः !’ आप्यते सर्वं कार्यं प्राणिनां याभिरित्यापः । आप्नोतेः करणे कर्त्तरि वा क्विप्, तत्सम्बोधनम् । ‘मयोभुवः’ “मय इति सुखनाम,” सुखस्य भावयित्र्यः ‘स्थ’ । ‘हि’ यस्मात् ता एवम्भूता यूयं ‘नः’ अस्मान् ‘ऊर्जे’ अन्नाद्याय ‘दधातन’ स्थापयत । “सप्तनप्तनथनाश्च”- (पा. सू. ७ । १ । ४५) इति तस्य तनबादेशः । ‘महे’ महते ‘रणाय’ रमणीयाय ‘चक्षसे’ दर्शनाय, ज्ञानाय धत्तेति ॥
यो व इति । ‘वः’ युष्माकं ‘यः’ ‘शिवतमः’ अतिशयेन सुखकरः ‘रसः’, ‘तस्य’ रसस्य ‘नः’ अस्मान् ‘इह’ लोके ‘भाजयत’ भागिनः कुरुत । ‘उशतीः’ कामयमानाः ‘मातरः इव’ यथा मातरः पुत्रस्य हितं कामयन्ते, एवं यूयमिति ॥
तस्मा अरमिति । ‘वः’ युष्मत्सम्बन्धिने ‘तस्मै’ रसाय ‘अरं’ शीघ्रम्, ‘अलं’ पर्याप्तं वा ‘गमाम’ । “क्रियार्थोपपदस्य”- (पा. सू. २ । ३ । १४) इति चतुर्थी । ‘यस्य’ रसस्य ‘क्षयाय’ अस्मासु निवासार्थं हि स्वयं ‘जिन्वथ’ प्रीणयथ । “जिविः प्रीणनकर्मा" (धा. पा. भ्वा. प. ५९४) । येन रसेन अस्मान् तर्पयथ, तं गच्छेम । हे ‘आपः !’ ‘नः’ अस्मान् ‘जनयथ’ युष्मदीयभोक्तृत्वेनोत्पादयतेति तृचस्य सङ्गृहीतो ऽर्थः ॥
तिस्र ऋचः, तत्प्रतिपाद्यां देवतां च प्रशंसति- यां वै देवतामिति । आपो हि ष्ठेत्यादिका ‘ऋक्’ ‘यां देवताम्’ ‘अभ्यनूक्ता’ अनुवदति, कर्त्तरि क्तप्रत्ययः । ‘यां’ देवतां ‘यजुः’ मन्त्रो ऽपि । यया ऋचा, येन यजुषा च, या देवता अन्यगुणाभिधानपुरस्सरं प्रतिपाद्यते, सैव प्रतिपाद्या देवता, सा च प्रतिपादिका ऋक्; यजुर्मन्त्रपदैरप्रतीयमाना देवता नोत्तमेत्यर्थः । अतः प्रतिपाद्यप्रतिपादकयोरभेदोपचारेण ‘एताः’ आपः ‘एव’ देवताः, ‘एषः’ “आपो हि ष्ठा"- इति ‘त्रिचः’ ‘तत्’ तस्माद् ‘या’ ‘अमूः’ अदःशब्दो विप्रकृष्टप्रदेशवचनः । पूर्वं काण्डादौ अग्निसृष्टेरनन्तरम् अश्वादि पृथिव्यन्तं सृष्टिमुक्त्वा (श. पं. ६ । १ । १ । ११), “सो ऽकामयताभ्यो ऽद्भ्यो ऽधीमां प्रजनयेयम्” इत्युपक्रम्य (श. प. ६ । १ । १ । १२ क.) “तदिदमेकमेव रूपं” (श. प. ६ । १ । १ । १२) कृतवान् भवति । एवमनुसन्धानार्थमुदकफेनमृत्सिकताशर्कराश्मादिसृष्टिरुक्तेति चयनादौ प्रतिपादितम् ॥ २ ॥
Eggeling
- He pours it on (the clay), with (Vāj. S. XI, 50-52; R̥k S. X, 9, 1-3), ‘Refreshing ye are, O waters 3!’ To whatever deity a R̥k-verse, and to whatever deity a Yajus formula applies, that R̥k-verse is that very deity, and that Yajus formula is that very deity: hence this triplet (XI, 50-52) is these waters, and they are those very waters which appeared as one form 4: that form he now makes it.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ फे᳘नं जनयि᳘त्वा ऽन्व᳘वदधाति॥
य᳘देव तत्फे᳘नो द्विती᳘यᳫँ᳭ रूपम᳘सृज्यत त᳘दे᳘वैत᳘द्रूपं᳘ करोत्य᳘थ या᳘मेव त᳘त्र मृ᳘दᳫँ᳭ संयौ᳘ति᳘ सैव मृद्यत्त᳘त्तृती᳘यᳫँ᳭ रूपम᳘सृज्यतैते᳘भ्यो वा᳘ ऽएष᳘ रूपेभ्यो᳘ ऽग्रे ऽसृज्यत ते᳘भ्य ऽए᳘वैनमेत᳘ज्जनयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ फे᳘नं जनयि᳘त्वा ऽन्व᳘वदधाति॥
य᳘देव तत्फे᳘नो द्विती᳘यᳫँ᳭ रूपम᳘सृज्यत त᳘दे᳘वैत᳘द्रूपं᳘ करोत्य᳘थ या᳘मेव त᳘त्र मृ᳘दᳫँ᳭ संयौ᳘ति᳘ सैव मृद्यत्त᳘त्तृती᳘यᳫँ᳭ रूपम᳘सृज्यतैते᳘भ्यो वा᳘ ऽएष᳘ रूपेभ्यो᳘ ऽग्रे ऽसृज्यत ते᳘भ्य ऽए᳘वैनमेत᳘ज्जनयति॥
मूलम् - Weber
अ᳘थ फे᳘नं जनयित्वान्व᳘वदधाति॥
य᳘देव तत्फे᳘नो द्विती᳘यं रूपम᳘सृज्यत त᳘देॗवैत᳘द्रूपं᳘ करोत्य᳘थ या᳘मेव त᳘त्र मृ᳘दᳫं संयौ᳘तिॗ सैव मृद्यत्त᳘त्तती᳘यं रूपम᳘सृज्यतैते᳘भ्यो वा᳘ एष᳘ रूपेभ्यो᳘ ऽग्रे ऽसृज्यत ते᳘भ्य एॗवैनमेत᳘ज्जनयति॥
मूलम् - विस्वरम्
अथ फेनं जनयित्वा ऽन्ववदधाति । यदेव तत् फेनो द्वितीयं रूपमसृज्यत- तदेवैतद्रूपं करोति । अथ यामेव तत्र मृदं संयौति- सैव मृत् । यत्तत् तृतीयं रूपमसृज्यत- एतेभ्यो वा ऽएष रूपेभ्यो ऽग्रे ऽसृज्यत । तेभ्य एवैनमेतज्जनयति ॥ ३ ॥
सायणः
पिण्डे फेनासेचनं विधत्ते- अथ फेनं जनयित्वेति 5 । कषायोदकेषु हस्तचालनेन फेनमुत्पाद्य पिण्डे तूष्णीमासिञ्चेत् । यदेव तत्फेन इत्यादेरयमर्थः । पूर्वं “सो ऽकामयताभ्यो ऽद्भ्यो ऽधीमां प्रजनयेयम्”- इत्युपक्रम्य, “तदिदमेकमेव रूपं समदृश्यताप एव”- (श. प. ६ । १ । १ । १२ क.) इति उदकलक्षणं रूपमुक्त्वा “सो ऽकामयत भूय एव स्यादिति ०-० तेपानः फेनमसृजत”- (श. प. ६ । १ । २ । १३ क.) इति द्वितीयं फेनात्मकं रूपं सृष्ट्यात्मकम् । अत्र फेनस्य पिण्डे आसेचनेन पूर्वसृष्टफेनात्मकं द्वितीयं रूपमेव मृद्रूपे ऽग्नौ निहितवान् भवति ॥
अथ सिक्ते ऽग्नौ उदकेन मृदः सम्मिश्रणं विधत्ते- अथ यामेव तत्र मृदमिति । तत्र ‘यां मृदं’ ‘संयौति’ जलेन सम्मिश्रयति ‘सा मृत्’ । एतदनन्तरं सृष्टं मृदात्मकं तृतीयं रूपम् । तत्र ह्येवमाम्नातम्- “अथ यो गर्भो ऽन्तरासीत् सो ऽग्निरसृज्यतेति” (श. प. ६ । १ । ११) । “स श्रान्तस्तेपानो मृदं शुष्कापमिति” (श. प. ६ । १ । १ । १३) । तेभ्यो वा एष इति । ‘एषः’ अग्निः ‘तेभ्यः’ उदकफेनमृदादिभ्यः पूर्वं सृष्टः । अतो जलफेनमृदां सम्मिश्रणेन अबादिरूपेभ्यः पूर्वं सृष्टाग्निमेव उत्पादितवान् भवति ॥ ३ ॥
Eggeling
- He then produces foam and puts it thereto: the second form which was created (in the shape of) foam 6, that form he thus makes it. And the clay he now mixes is that very clay which was created as the third form. It was from these forms that he (Agni) was created at the beginning, and from them he now produces him.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाजलोमैः स᳘ᳫँ᳘सृजति॥
स्थेम्ने᳘ न्वेव य᳘द्वे᳘वाजलोमै᳘रेतद्वा᳘ ऽएनं देवाः᳘ पशुभ्यो᳘ ऽधि समभरंस्त᳘थै᳘वैनमय᳘मेत᳘त्पशुभ्यो᳘ ऽधि᳘ स᳘म्भरति तद्य᳘दजलोमै᳘रे᳘वाजे हि स᳘र्व्वेषां पशूना᳘ᳫँ᳘ रूपम᳘थ यल्लो᳘म लो᳘म हि᳘ रूप᳘म्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाजलोमैः स᳘ᳫँ᳘सृजति॥
स्थेम्ने᳘ न्वेव य᳘द्वे᳘वाजलोमै᳘रेतद्वा᳘ ऽएनं देवाः᳘ पशुभ्यो᳘ ऽधि समभरंस्त᳘थै᳘वैनमय᳘मेत᳘त्पशुभ्यो᳘ ऽधि᳘ स᳘म्भरति तद्य᳘दजलोमै᳘रे᳘वाजे हि स᳘र्व्वेषां पशूना᳘ᳫँ᳘ रूपम᳘थ यल्लो᳘म लो᳘म हि᳘ रूप᳘म्॥
मूलम् - Weber
अ᳘थाजलोमैः स᳘ᳫं᳘सृजति॥
स्थेम्नेॗ न्वेव य᳘द्वेॗवाजलोमै᳘रेतद्वा᳘ एनं देवाः᳘ पशुभ्यो᳘ ऽधि समभरंस्त᳘थैॗवैनमय᳘मेत᳘त्पशुभ्यो᳘ ऽधि स᳘म्भरति तद्य᳘दजलोमै᳘रेॗवाजे हि स᳘र्वेषाम् पशूनां᳘ रूपम᳘थ यल्लो᳘म लो᳘म हि᳘ रूप᳘म्॥
मूलम् - विस्वरम्
अथाजलोमैः संसृजति । स्थेम्ने न्वेव । यद्वेवाजलोमैः । एतद्वा ऽएनं देवाः पशुभ्यो ऽधि समभरन् । तथैवैनमयमेतत्पशुभ्यो ऽधि सम्भरति । तद्यदजलोमैरेव । अजे हि सर्वेषां पशूनां रूपम् । अथ यल्लोम । लोम हि रूपम् ॥ ४ ॥
सायणः
अथ तत्राजलोममिश्रणं विधत्ते- अथाजलोमैः संसृजतीति । ‘स्थेम्ने’ स्थिरत्वाय । अजलोमं प्रशंसति- यद्वेवाजलोमैरिति । यथा पूर्वं ‘देवाः’ ‘एनम्’ अष्टरूपात्मना गूढमग्निं पुरुषादिपञ्चपशुभ्यः सकाशात् सम्भृतवन्तः, तथा ‘अयं’ यष्टा पिण्डे ऽजलोमसंसर्गेण पशुभ्य एव सम्भृतवान् भवति । यद्येवं तर्हि केवलाजलोमसंसर्गेण सर्वेभ्यः पुरुषादिभ्यः अग्नेः सम्पादनमित्याशङ्क्य अजपशौ सर्वं पशुरूपमुपपादयति- अजे हि सर्वेषामिति । तथा पुरस्तात् वायव्यैकपशुप्रस्तावे समाम्नातम्- “यद्वेवैतं पशुमालभत एतस्मिन् ह पशौ सर्वेषां पशूनां रूपम्, यत् तूपरो लप्सुदी तत् पुरुषस्य रूपम्”- (श. प. ६ । २ । १ । १५ कं.) इत्यादिना । प्रकारान्तरेण अजे सर्वपशुरूपमाह- अथ यल्लोमेति । लोमानि सर्वेषु पशुषु सन्ति; लोमलक्षणं रूपं सर्वसाधारणमित्यर्थः ॥ ४ ॥
Eggeling
- He then mixes it with the goat’s hair, just for the sake of firmness. And as to why with goat’s hair,–the gods then collected him (Agni) from out of the cattle, and in like manner does this one now collect him from out of the cattle. And as to why with goat’s hair, it is because in the he-goat (is contained) the form of all cattle; and as to its being hair, form is hair 7.
०५
विश्वास-प्रस्तुतिः
(म्मि) मित्रः᳘ सᳫँ᳭सृ᳘ज्य॥
पृथिवीं भू᳘मिञ्च ज्यो᳘तिषा सहे᳘ति प्राणो वै᳘ मित्रः᳘ प्राणो वा᳘ ऽएतद᳘ग्रे क᳘र्माकरोत्सु᳘जातं जात᳘वेदसमयक्ष्मा᳘य त्वा स᳘ᳫँ᳘सृजामि प्रजा᳘भ्य ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥
मूलम् - श्रीधरादि
(म्मि) मित्रः᳘ सᳫँ᳭सृ᳘ज्य॥
पृथिवीं भू᳘मिञ्च ज्यो᳘तिषा सहे᳘ति प्राणो वै᳘ मित्रः᳘ प्राणो वा᳘ ऽएतद᳘ग्रे क᳘र्माकरोत्सु᳘जातं जात᳘वेदसमयक्ष्मा᳘य त्वा स᳘ᳫँ᳘सृजामि प्रजा᳘भ्य ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥
मूलम् - Weber
मित्रः᳘ संसृ᳘ज्य॥
पृथिवीम् भू᳘मिं च ज्यो᳘तिषा सहे᳘ति प्राणो वै᳘ मित्रः᳘ प्राणो वा᳘ एतद᳘ग्रे क᳘र्माकरोत्सु᳘जातं जात᳘वेदसमयक्ष्मा᳘य त्वा स᳘ᳫं᳘सृजामि प्रजा᳘भ्य इ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥
मूलम् - विस्वरम्
“मित्रः संसृज्य पृथिवीं भूमिञ्च ज्योतिषा सह”- इति । प्राणो वै मित्रः । प्राणो वा ऽएतदग्रे कर्माकरोत् । “सुजातं जातवेदसमयक्ष्माय त्वा संसृजामि प्रजाभ्यः”- (वा० सं० ११ । ५३) इति । यथैव यजुस्तथा बन्धुः ॥ ५ ॥
सायणः
लोमसम्मिश्रणं विधत्ते- मित्रः संसृज्येति 8 । ‘मित्रः’ प्राणः आदित्यो वा ‘पृथिवीं भूमिं च’ लोकत्रयस्यापि पृथिवीशब्दवाच्यत्वम् भूमिशब्दवाच्यत्वं च दृश्यते- “तिस्रो भूमीर्धारयन् त्रीरुत द्यून्”- (ऋ. सं. २ । २७ । ८) इति । ‘तिस्रः भूमीः’ तिस्रः पृथिवीः अत्रैतयोरुभयोर्दर्शनात् चकारशब्देनापि त्रीन् लोकानित्यर्थः सिद्धः । ‘ज्योतिषा’ तेजसा । अत्र ज्योतिःशब्दो ऽजलोमवचनः । अजस्याग्नेयत्वादजलोमभिः ‘सह’ ‘सुजातं जातवेदसम्’ सद्रूपमग्निं ‘त्वा’ त्वाम् ‘प्रजाभ्यः’ ‘अयक्ष्माय’ रोगरूपपापापनुत्तये ‘संसृजामि’ सम्मिश्रं करोमि, अहमध्वर्युरिति ॥ ५ ॥
Eggeling
- [Vāj. S. XI, 53] ‘Mitra having mixed the earth and ground with light,’–Mitra doubtless
is the breath, and the breath first did this sacred work;–‘I mix (fashion) thee, the well-born knower of beings, for health to creatures,’–as the text, so its meaning.
०६
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थैत᳘त्त्रयं᳘ पिष्टं᳘ भवति॥
श᳘र्करा᳘ ऽश्मा ऽयोरसस्ते᳘न स᳘ᳫँ᳘सृजति स्थेम्ने᳘ न्वेव य᳘द्वेव ते᳘नैता᳘वती वा᳘ ऽइयम᳘ग्रे ऽसृज्यत तद्या᳘वतीयमग्रे᳘ ऽसृज्यत ता᳘वतीमे᳘वैनामेत᳘त्करोति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थैत᳘त्त्रयं᳘ पिष्टं᳘ भवति॥
श᳘र्करा᳘ ऽश्मा ऽयोरसस्ते᳘न स᳘ᳫँ᳘सृजति स्थेम्ने᳘ न्वेव य᳘द्वेव ते᳘नैता᳘वती वा᳘ ऽइयम᳘ग्रे ऽसृज्यत तद्या᳘वतीयमग्रे᳘ ऽसृज्यत ता᳘वतीमे᳘वैनामेत᳘त्करोति॥
मूलम् - Weber
अ᳘थैत᳘त्त्रय᳘म् पिष्ट᳘म् भवति॥
श᳘र्करा᳘श्मायोरसस्ते᳘न स᳘ᳫं᳘सृजति स्थेम्नेॗ न्वेव य᳘द्वेव ते᳘नैता᳘वती वा᳘ इयम᳘ग्रे ऽसृज्यत तद्या᳘वतीयमग्रे᳘ ऽसृज्यत ता᳘वतीमेॗवैनामेत᳘त्करोति॥
मूलम् - विस्वरम्
अथैतत्त्रयं पिष्टं भवति- शर्करा ऽश्मा ऽयोरसः । तेन संसृजति । स्थेम्ने न्वेव । यद्वेव तेन । एतावती वा ऽयमग्रे ऽसृज्यत । तद्यावतीयमग्रे ऽसृज्यत- तावतीमेवैनामेतत् करोति ॥ ६ ॥
सायणः
अथ शर्कराश्मायोरसचूर्णैः संसर्गं विधत्ते- अथैतत् त्रयं पिष्टमिति 9 । ‘एतद्’ वक्ष्यमाणं शर्करादित्रय चूर्णितं भवेत् । “पिष्ट सञ्चूर्णने”- (धा. पा. रु. प. १५) इत्यस्य निष्ठा । पूर्वं शर्करादीनि त्रीणि रूपाणि सृष्टानि “शर्करामश्मानमयो हिरण्यमोषधिवनस्पत्यसृजत"- इति हि प्रागाम्नातम् (श. प. ६ । १ । १ । १३) । अधुना तेन त्रयेण संसर्गे तैरेव त्रिभी रूपैर्मृदं रूपवतीं कृतवान् भवति ॥ ६ ॥
Eggeling
- Then there are these three kinds of powder (dust)–(sand of) gravel, stone, and iron-rust–therewith he mixes (the clay), just for firmness. And as to why (it is mixed) therewith, it is because thereof this (earth) consisted when it was created in the beginning: thus whatlike this (earth) was created in the beginning, such he now makes it (the earth, or fire-pan).
०७
विश्वास-प्रस्तुतिः
रुद्राः᳘ सᳫँ᳭सृ᳘ज्य॥
पृथिवीं᳘ ब्बृहज्ज्यो᳘तिः स᳘मीधिर ऽइ᳘त्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रेतद्वै त᳘द्रुद्राः᳘ सᳫँ᳭सृ᳘ज्य पृथिवीं᳘ बृहज्ज्यो᳘तिः स᳘मीधिरे ते᳘षां भानुर᳘जस्र ऽइ᳘च्छुक्रो᳘ देवे᳘षु रोचत ऽइ᳘त्येष वा᳘ ऽएषां भानुर᳘जस्रः शुक्रो᳘ देवे᳘षु रोचते॥
मूलम् - श्रीधरादि
रुद्राः᳘ सᳫँ᳭सृ᳘ज्य॥
पृथिवीं᳘ ब्बृहज्ज्यो᳘तिः स᳘मीधिर ऽइ᳘त्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रेतद्वै त᳘द्रुद्राः᳘ सᳫँ᳭सृ᳘ज्य पृथिवीं᳘ बृहज्ज्यो᳘तिः स᳘मीधिरे ते᳘षां भानुर᳘जस्र ऽइ᳘च्छुक्रो᳘ देवे᳘षु रोचत ऽइ᳘त्येष वा᳘ ऽएषां भानुर᳘जस्रः शुक्रो᳘ देवे᳘षु रोचते॥
मूलम् - Weber
रुद्राः᳘ संसृ᳘ज्य॥
पृथिवी᳘म् बृहज्ज्यो᳘तिः स᳘मीधिर इ᳘त्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रेतद्वै त᳘द्रुद्राः᳘ संसृ᳘ज्य पृथिवी᳘म् बृहज्ज्यो᳘तिः स᳘मीधिरे ते᳘षाम् भानुर᳘जस्र इ᳘छुक्रो᳘ देवे᳘षु रोचत इ᳘त्येष वा᳘ एषाम् भानुर᳘जस्रः शुक्रो᳘ देवे᳘षु रोचते॥
मूलम् - विस्वरम्
“रुद्राः संसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे”- इति । असौ वा ऽआदित्यः, एषो ऽग्निः । एतद्वै तद्रुद्राः संसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे । “तेषां भानुरजस्र इच्छुक्रो देवेषु रोचते”- (वा. सं. ११ । ५४) इति । एष वा ऽएषां भानुरजस्रः शुक्रो देवेषु रोचते ॥ ७ ॥
सायणः
मन्त्रं विधत्ते- रुद्राः संसृज्येति । ‘रुद्राः’ ‘पृथिवीं’ पार्थिवं ‘बृहज्ज्योतिः’ अग्निलक्षणं पार्थिवं पिण्डं शर्कराश्मायोरसैः ‘संसृज्य’ ‘समीधिरे’ उखायां दीपितवन्तः । रुद्राः उखायामग्निं संवत्सरं धारितवन्तः । तेषां फलमाह- तेषामिति । ‘तेषां’ रुद्राणाम् ‘भानुः’ दीप्तिः ‘अजस्र इत्’ अनुपक्षीणैव ‘देवेषु’ मध्ये ‘शुक्रः’ शुक्रवर्णो ‘रोचते’ दीप्यते ॥ ७ ॥
Eggeling
- [Vāj. S. XI, 54] ‘The Rudras, having mixed the earth, kindled the great light;’–for this Agni is yonder sun: thus it is that great light which the Rudras, having mixed the earth, did kindle;–‘yea, never-failing and brilliant, their light shineth among the gods;’–for that never-failing and brilliant light of theirs does indeed shine among the gods.
०८
विश्वास-प्रस्तुतिः
द्वा᳘भ्याᳫँ᳭ स᳘ᳫँ᳘सृजति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘ᳫँ᳘सृजति॥
मूलम् - श्रीधरादि
द्वा᳘भ्याᳫँ᳭ स᳘ᳫँ᳘सृजति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘ᳫँ᳘सृजति॥
मूलम् - Weber
द्वा᳘भ्याᳫं स᳘ᳫं᳘सृजति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘ᳫं᳘सृजति॥
मूलम् - विस्वरम्
द्वाभ्यां संसृजति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्संसृजति ॥ ८ ॥
सायणः
द्वाभ्यां सँसृजतीति । पूर्वमजलोमैः संसर्गे एको मन्त्रः, शर्करादिसंसर्गे द्वितीयः, तावुभौ मिलित्वा प्रशंसति- द्विपाद्यजमान इति ॥ ८ ॥
Eggeling
- With two (verses) he mixes (the clay),–two-footed is the Sacrificer, and the Sacrificer is Agni as great as Agni is, as great as is his measure, so great he thus mixes (fashions) him.
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्र᳘यौति॥
स᳘ᳫँ᳘सृष्टां व्व᳘सुभी रुद्रैरि᳘ति स᳘ᳫँ᳘सृष्टा᳘ ह्येषा व्व᳘सुभिश्च भ᳘वति य᳘न्मित्रे᳘ण तद्व᳘सुभिर्य᳘द्रुद्रैस्त᳘त्तद्रुद्रैर्धी᳘रैः कर्म᳘ण्यां मृ᳘दमि᳘ति धी᳘रा हि ते᳘ कर्म᳘ण्यो ऽइयं मृद्ध᳘स्ताभ्यां मृद्वीं᳘ कृत्वा᳘ सिनीवाली᳘ कृणोतु तामि᳘ति व्वाग्वै᳘ सिनीवाली᳘ सैमाᳫँ᳭ ह᳘स्ताभ्यां मृद्वीं᳘ कृत्वा᳘ करोत्वि᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्र᳘यौति॥
स᳘ᳫँ᳘सृष्टां व्व᳘सुभी रुद्रैरि᳘ति स᳘ᳫँ᳘सृष्टा᳘ ह्येषा व्व᳘सुभिश्च भ᳘वति य᳘न्मित्रे᳘ण तद्व᳘सुभिर्य᳘द्रुद्रैस्त᳘त्तद्रुद्रैर्धी᳘रैः कर्म᳘ण्यां मृ᳘दमि᳘ति धी᳘रा हि ते᳘ कर्म᳘ण्यो ऽइयं मृद्ध᳘स्ताभ्यां मृद्वीं᳘ कृत्वा᳘ सिनीवाली᳘ कृणोतु तामि᳘ति व्वाग्वै᳘ सिनीवाली᳘ सैमाᳫँ᳭ ह᳘स्ताभ्यां मृद्वीं᳘ कृत्वा᳘ करोत्वि᳘त्येत᳘त्॥
मूलम् - Weber
अ᳘थ प्र᳘यौति॥
स᳘ᳫं᳘सृष्टां व᳘सुभि रुद्रैरि᳘ति स᳘ᳫं᳘सृष्टाॗ ह्येषा व᳘सुभिश्च भ᳘वति य᳘न्मित्रे᳘ण तद्व᳘सुभिर्य᳘द्रुद्रैस्त᳘द्रुद्रैर्धी᳘रैः कर्मॗण्याम् मृ᳘दमि᳘ति धी᳘रा हि ते᳘ कर्मॗण्यो इयम् मृद्ध᳘स्ताभ्याम् मृद्वीं᳘ कृत्वा᳘ सिनीवाली᳘ कृणोतु तामि᳘ति वाग्वै᳘ सिनीवालीॗ सैनाᳫं ह᳘स्ताभ्याम् मृद्वीं᳘ कृत्वा᳘ करोत्वि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथ प्रयौति- “संसृष्टां वसुभी रुद्रैः”- इति । संसृष्टा ह्येषा वसुभिश्च रुद्रैश्च भवति । यन्मित्रेण- तद्वसुभिः । यद्रुद्रैः- तत्तद्रुद्रैः । “धीरैः कर्मण्यां मृदम्"- इति । धीरा हि ते । कर्मण्या- उ इयं मृत् । “हस्ताभ्यां मुद्वीं कृत्वा सिनीवाली कृणोतु ताम्”- (वा. सं. ११ । ५५) इति । वाग्वै सिनीवाली । सैनां हस्ताभ्यां मृद्वीं कृत्वा करोत्वित्येतत् ॥ ९ ॥
सायणः
अथ मृदः सम्मिश्रणं समन्त्रं विधत्ते- अथ प्रयौतीति 10 । तिसृभिर्ऋग्भिः । मृदं प्रकर्षेण ‘यौति’ पिण्डे सम्मिश्रयेत् । ‘धीरैः’ धारयद्भिः, ‘वसुभिः’ देवैः ‘रुद्रैः’ च ‘संसृष्टाम्’ । वसुपदेनात्राजलोमसंसर्गमन्त्रो “मित्रः संसृज्य”- इति विवक्षितः । रुद्रपदेन शर्करादिसंसर्गमन्त्रो “रुद्राः संसृज्य”- इति विवक्षितः । तन्मन्त्रद्वयप्रतिपाद्यैः वसुभिः रुद्रैश्च संयोजितां कर्मण्यां कर्मणे सम्पादितां ‘मृदं’ मृत्तिकां ‘सिनीवाली’ दृष्टेन्दुः, तदभिमानिदेवता ‘हस्ताभ्यां’ ‘मुद्वीं’ मृदुरूपां ‘कृत्वा,’ ‘तां’ कर्मार्हां ‘कृणोतु’ करोतु ॥ वसुरुद्रपदाभ्यां “मित्रः संसृज्य,” “रुद्राः संसृज्य”- इति मन्त्रौ विवक्षितावित्याह- यन्मित्रेण तद्वसुभिर्यद्रुद्रैरिति ॥ ९ ॥
Eggeling
- He then kneads it, with(Vāj. S. XI, 55), ‘Mixed by the Vasus, the Rudras,’–for this (clay) has indeed been mixed both by the Vasus and the Rudras: by the Vasus, because by Mitra and by the Rudras, because by the Rudras;–‘by the wise, the clay suitable for the work;’–for wise those (gods) are, and suitable for the (sacred) work is this clay;–‘making it soft with her hands, may Sinīvalī fashion it!’–Sinīvalī doubtless is speech: thus, ‘May she, having made it soft with her hands, fashion it!’
१०
विश्वास-प्रस्तुतिः
(त्सि) सिनीवाली᳘ सुकपर्द्दा᳘ सुकुरीरा᳘ स्वौपशे᳘ति॥
यो᳘षा वै᳘ सिनीवा᳘ल्येत᳘दु वै यो᳘षायै स᳘मृद्धᳫँ᳭ रूपं य᳘त्सुकपर्द्दा᳘ सुकुरीरा᳘ स्वौपशा स᳘मर्द्धयत्ये᳘वैनामेत᳘त्सा तु᳘भ्यमदिते म᳘ह्योखां᳘ दधातु ह᳘स्तयोरि᳘तीयं वा ऽअ᳘दितिर्मह्यस्यै[[!!]] त᳘दाह॥
मूलम् - श्रीधरादि
(त्सि) सिनीवाली᳘ सुकपर्द्दा᳘ सुकुरीरा᳘ स्वौपशे᳘ति॥
यो᳘षा वै᳘ सिनीवा᳘ल्येत᳘दु वै यो᳘षायै स᳘मृद्धᳫँ᳭ रूपं य᳘त्सुकपर्द्दा᳘ सुकुरीरा᳘ स्वौपशा स᳘मर्द्धयत्ये᳘वैनामेत᳘त्सा तु᳘भ्यमदिते म᳘ह्योखां᳘ दधातु ह᳘स्तयोरि᳘तीयं वा ऽअ᳘दितिर्मह्यस्यै[[!!]] त᳘दाह॥
मूलम् - Weber
सिनीवाली᳘ सुकपर्दा᳘ सुकुरीरा᳘ स्वौपशे᳘ति॥
यो᳘षा वै᳘ सिनीवाॗल्येत᳘दु वै यो᳘षायै स᳘मृद्धं रूपं य᳘त्सुकपर्दा᳘ सुकुरीरा᳘ स्वौपशा स᳘मर्धयत्येॗवैनामेत᳘त्सा तु᳘भ्यमदिते मॗह्योखां᳘ दधातु ह᳘स्तयोरि᳘तीयं वा अ᳘दितिर्मह्य᳘स्यै त᳘दाह॥
मूलम् - विस्वरम्
“सिनीवाली सुकपर्द्दा सुकुरीरा स्वौपशा”- इति । योषा वै सिनीवाली । एतदु वै योषायै समृद्धं रूपम्- यत्सुकपर्दा सुकुरीरा स्वौपशा । समर्द्धयत्येवैनामेतत् । “सा तुभ्यमदिते मह्योखां दधातु हस्तयो”- (वा. सं. ११ । ५६) इति । इयं वा ऽअदितिर्मही । अस्यै तदाह ॥ १० ॥
सायणः
सिनीवालीति । एष द्वितीयो मन्त्रः । तस्यायमर्थः- सिनीवाल्या योषात्वात् तदुचिता धर्मा उच्यन्ते- सुकपर्देत्यादि । ‘सुकपर्दा’ कपर्दः केशसंयमनवेणि; साधुवेणियुक्ता । ‘सुकुरीरा’ कुरीरो मुकुटः, तद्वती । “स्वौपशा” औपशो नाम जघनभागः, सुजघना । यद्वा, उपशेते शयनं करोति यैरवयवविशेषैः ते सर्वे ऽप्युपशाः, तेषां समूहः औपशः, शोभनः शयनविदग्धो विलासचतुरः औपशो ऽवयवसमूहः यस्याः सा स्वौपशा । या एवंविधा सिनीवाली सा । हे ‘अदिते !’ हे ‘महि !’ महीरूपे ! ‘तुभ्यं’ ‘हस्तयोः’ ‘उखां’ ‘दधातु’ स्थापयतु । “योषा वै सिनीवाली”- इत्यादिना योषात्वसमर्थनम् ॥ १० ॥
Eggeling
- [Vāj. S. XI, 56] ‘Sinīvalī, the fair-knotted, fair-braided, fair-locked,’–for Sinīvalī is a woman, and that is indeed the perfect form of woman, to wit, the fair-knotted, fair-braided, fair-locked: he thus makes her perfect;–‘may she place the fire-pan into thy hands, O great Aditi!’–the great Aditi doubtless is this earth: it is to this earth that he says this.
११
विश्वास-प्रस्तुतिः
(हो᳘) उखां᳘ कृणोतु॥
श᳘क्त्या बाहु᳘भ्याम᳘दितिर्द्धिये᳘ति श᳘क्त्या च हि᳘ करो᳘ति बाहु᳘भ्यां च धिया᳘ च माता᳘ पुत्रं य᳘थोप᳘स्थे᳘ सा ऽग्निं᳘ बिभर्तु ग᳘र्भ ऽए᳘ति य᳘था माता᳘ पुत्र᳘मुप᳘स्थे बिभृया᳘देव᳘मग्निं ग᳘र्भे बिभर्त्वि᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
(हो᳘) उखां᳘ कृणोतु॥
श᳘क्त्या बाहु᳘भ्याम᳘दितिर्द्धिये᳘ति श᳘क्त्या च हि᳘ करो᳘ति बाहु᳘भ्यां च धिया᳘ च माता᳘ पुत्रं य᳘थोप᳘स्थे᳘ सा ऽग्निं᳘ बिभर्तु ग᳘र्भ ऽए᳘ति य᳘था माता᳘ पुत्र᳘मुप᳘स्थे बिभृया᳘देव᳘मग्निं ग᳘र्भे बिभर्त्वि᳘त्येत᳘त्॥
मूलम् - Weber
उखां᳘ कृणोतु॥
श᳘क्त्या बाहु᳘भ्याम᳘दितिर्धिये᳘ति श᳘क्त्या च हि᳘ करो᳘ति बाहु᳘भ्यां च धिया᳘ च माता᳘ पुत्रं य᳘थोप᳘स्थेॗ साग्नि᳘म् बिभर्तु ग᳘र्भ ए᳘ति य᳘था माता᳘ पुत्र᳘मुप᳘स्थे बिभृया᳘देव᳘मग्निं ग᳘र्भे बिभर्त्वि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“उखां कृणोतु शक्त्या बाहुभ्यामदितिर्द्धिया”- इति । शक्त्या च हि करोति बाहुभ्यां च धिया च । “माता पुत्रं यथोपस्थे सा ऽग्निं बिभर्तु गर्भ आ”- (वा. सं. ११ । ५७) इति । यथा माता पुत्रमुपस्थे बिभृयाद्- एवमग्निं गर्भे बिभर्त्वित्येतत् ॥ ११ ॥
सायणः
उखां कृणोत्विति । अयं तृतीयो मन्त्रः । तस्यायमर्थः,- ‘अदितिः’ अखण्डनीया, एतन्नामधेयदेवता ‘बाहुभ्यां’ ‘शक्त्या’ सामर्थ्येन ‘धिया’ बुद्ध्या च ‘उखां’ ‘कृणोतु’ करोतु । ‘यथा माता पुत्रम्’ ‘उपस्थे’ स्वोत्सङ्गे ‘बिभर्त्ति,’ एवं सा अदितिः ‘गर्भे’ उखाभ्यन्तरे ‘अग्निम्’ ‘आबिभर्त्तु’ सर्वतो धारयतु ‘इति’ ॥ ११ ॥
Eggeling
- [Vāj. S. XI, 57] ‘Let Aditi fashion the fire-pan, by her skill, her arms, her wisdom!’–for by her skill, by her arms, and by her wisdom she does indeed fashion it;–‘may she bear Agni in her womb, even as a mother (bears) her son in her lap!’–that is, ‘as a mother would bear her son in her lap, so may she (Aditi) bear Agni in her womb!’
१२
विश्वास-प्रस्तुतिः
(त्त्रि) त्रिभिः प्र᳘यौति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्प्र᳘यौति द्वा᳘भ्याᳫँ᳭ स᳘ᳫँ᳘सृजति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति त्रि᳘भिरप ऽउ᳘पसृजति त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवत्य᳘थो ऽअष्टा᳘क्षरा वा᳘ ऽइयम᳘ग्रे ऽसृज्यत तद्या᳘वतीयमग्रे᳘ ऽसृज्यत ता᳘वतीमे᳘वैनामेत᳘त्करोति॥
मूलम् - श्रीधरादि
(त्त्रि) त्रिभिः प्र᳘यौति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्प्र᳘यौति द्वा᳘भ्याᳫँ᳭ स᳘ᳫँ᳘सृजति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति त्रि᳘भिरप ऽउ᳘पसृजति त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवत्य᳘थो ऽअष्टा᳘क्षरा वा᳘ ऽइयम᳘ग्रे ऽसृज्यत तद्या᳘वतीयमग्रे᳘ ऽसृज्यत ता᳘वतीमे᳘वैनामेत᳘त्करोति॥
मूलम् - Weber
त्रिभिः प्र᳘यौति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्प्र᳘यौति द्वा᳘भ्याᳫं स᳘ᳫं᳘सृजति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति त्रि᳘भिरप उ᳘पसृजति त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवत्य᳘थो अष्टा᳘क्षरा वा᳘ इयम᳘ग्रे ऽसृज्यत तद्या᳘वतीयमग्रे᳘ ऽसृज्यत ता᳘वतीमेॗवैनामेत᳘त्करोति॥
मूलम् - विस्वरम्
त्रिभिः प्रयौति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्प्रयौति । द्वाभ्यां संसृजति । तत् पञ्च । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति । त्रिभिरप उपसृजति । तदष्टौ । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति । अथो ऽअष्टाक्षरा वा ऽइयमग्रे ऽसृज्यत । तद्यावतीयमग्रे ऽसृज्यत । तावतीमेवैनामेतत्करोति ॥ १२ ॥
सायणः
सम्मिश्रणमन्त्रगतत्रित्वसङ्ख्यां त्रिवृदग्न्यात्मना स्तौति- त्रिभिः प्रयौति त्रिवृदिति । पूर्वमजलोमशर्करादि- संसर्गे मन्त्रौ द्वौ, ताभ्यां सहोक्तसङ्ख्यां प्रशंसति- द्वाभ्यां संसृजति, तत् पञ्च पञ्चचितिको ऽग्निरिति । पञ्चर्तव इति । “हेमन्तशिशिरयोः समासेन”- (ऐ. ब्रा. १ । १ । १) इत्युक्तम् । अग्नेः संवत्सरात्मकत्वात्, अग्नेश्च पञ्चसङ्ख्ययां तद्रूपां मृदं सम्पादितवान् भवति, अथोदकसेचने “आपो हि ष्ठा” इत्याद्यास्तिस्रः, ताभिः सहैतां पञ्चसङ्ख्यां प्रशंसति- त्रिभिरप उपसृजति तदष्टाविति । अग्नेर्गायत्रत्वं सङ्ख्यासामान्यात् । तथा चान्यत्राम्नातम्- “यद्वेवाष्टावग्निरूपाणि, अष्टाक्षरा गायत्री, तस्मादाहुर्गायत्रो ऽग्निरिति” (श. प. ६ । १ । ३ । १९) इति । प्रकारान्तरेणाष्टसङ्ख्यां प्रशंसति- अथो अष्टाक्षरेति । पूर्वं प्रथमाध्याये तृतीयब्राह्मणे प्रजापतिरेक एव सन् अस्यां पृथिव्यां बहुधा प्रजायेयेति विचार्य उदकफेनमृत्सिकताशर्कराश्मायोहिरण्यान्यष्टौ सृष्ट्वा ऽक्षरत्- “तद् यदसृज्यताक्षरत् तद्यदक्षरत् तस्मादक्षरम्, अष्टौ कृत्वो ऽक्षरत् सैवाष्टाक्षरा गायत्र्यभवत्”- (श. प. ६ । १ । ३ । ६ ।) इति । यथा ‘यावती’ अष्टाक्षरा ‘अग्रे’ पूर्वम् ‘असृज्यत,’ तया अग्निः “आपो हि ष्ठा”- इत्यादिभिर्मन्त्रैर्मृत्पिण्डे उदकसेचनाजलोमशर्करादित्रयसंसर्गमिश्रणैः ‘तावतीम्’ तावत्सङ्ख्याम् ‘एनां’ मृदं कृतवान् भवतीति ॥ १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे पञ्चमे ऽध्याये प्रथमं ब्राह्मणम् ॥ ६ । ५ । १ ॥
Eggeling
- With three (formulas) he kneads (the clay),–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus kneads him. With two (verses) he mixes,–that makes five;–of five layers consists the fire-altar (Agni); five seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become. With three (formulas) he pours water thereto,–that makes eight;–of eight syllables the Gāyatrī metre consists, and Agni is Gāyatra: as great as Agni is, as great as is his measure, so great does this become. And, moreover, as one of eight syllables 11 this (earth) was created in the beginning: thus as great as this (earth) was created in the beginning, so great he thus makes this (fire-pan representing the earth).
-
पर्णकखा A. ↩︎
-
229:1 See part i, p. 183. ↩︎
-
230:1 The whole triplet runs thus: ‘Refreshing ye are, O waters; lead us to strength, to see great joy!–whatever is your most benign sap, therein let us share, like loving mothers!–For you we will readily go to him, to whose abode ye urge us, O waters, and quicken us.’ ↩︎
-
230:2 See VI, 1, 1, 12. ↩︎
-
फेनं च तूष्णीं ततः कृत्वा । का० श्रौ० सू० १६ । ८६ ॥ ↩︎
-
230:3 VI, 1, 1, 13. ↩︎
-
230:4 That is, the hair of cattle is the most obvious characteristic of their outward appearance. ↩︎
-
अजलोमभिः सँ सृजति मित्रः सँसृज्येति का. श्रौ. सू. १६ । ८७ । ↩︎
-
शर्करायोरसाश्मचूर्णैश्च रुद्राः सँसृज्येति । का. श्रौ. सू. १६ । ८८ । ↩︎
-
सँसृष्टामिति संयौति का० श्रौ० सू० १६ । ८९ ↩︎
-
232:1 See VI, 1, 2, 6-7. ↩︎