०१

विश्वास-प्रस्तुतिः

ह᳘स्त ऽएष भ᳘वत्य᳘थ पशू᳘नभि᳘मन्त्रयते॥
(त ऽ) एतद्वा᳘ ऽएषु देवाः᳘ सम्भरिष्य᳘न्तः पुर᳘स्ताद्वी᳘र्यमदधुस्त᳘थै᳘वैष्वय᳘मेत᳘त्सम्भरिष्य᳘न्पुर᳘स्ताद्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

ह᳘स्त ऽएष भ᳘वत्य᳘थ पशू᳘नभि᳘मन्त्रयते॥
(त ऽ) एतद्वा᳘ ऽएषु देवाः᳘ सम्भरिष्य᳘न्तः पुर᳘स्ताद्वी᳘र्यमदधुस्त᳘थै᳘वैष्वय᳘मेत᳘त्सम्भरिष्य᳘न्पुर᳘स्ताद्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

ह᳘स्त एष भ᳘वत्य᳘थ पशू᳘नभि᳘मन्त्रयते॥
एतद्वा᳘ एषु देवाः᳘ सम्भरिष्य᳘न्तः पुर᳘स्ताद्वीर्य᳘मदधुस्त᳘थैॗवैष्वय᳘मेत᳘त्सम्भरिष्य᳘न्पुर᳘स्ताद्वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

हस्त ऽएष भवति- अथ पशूनभिमन्त्रयते । एतद्वा ऽएषु देवाः सम्भरिष्यन्तः पुरस्ताद्वीर्यमदधुः । तथैवैष्वयमेतत्सम्भरिष्यन् पुरस्ताद्वीर्यं दधाति ॥ १ ॥

सायणः

अथ मृत्पिण्डसाहित्येन पश्वभिमन्त्रणं विधत्ते- हस्त एष भवतीति । ‘एषः’ मृत्पिण्डः । एतद्वा इत्यादेरयमर्थः- ‘एतद्’ इदानीं पिण्डसम्भरणकाले पश्चभिमन्त्रणेन एषु ‘वीर्यं’ ‘देवाः’ इव ‘अयं’ यजमानो ऽपि ‘दधाति’ निहितवान् भवतीति ॥ १ ॥

Eggeling
  1. That (lump of clay representing Agni) is still in his hand when he addresses the animals; for the gods, being about to equip 1 (Agni), now first laid vigour into them; and in like manner does this (Sacrificer, or priest) now, being about to equip (Agni), first lay vigour into these (cattle).

०२

विश्वास-प्रस्तुतिः

सो᳘ ऽश्वमभि᳘मन्त्रयते॥
स᳘ जातो ग᳘र्भो ऽअसि रो᳘दस्योरि᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी त᳘योरेष᳘ जातो गर्भो᳘ ऽग्ने चा᳘रुर्व्वि᳘भृत ऽओ᳘षधीष्वि᳘ति स᳘र्व्वासु᳘ ह्येष चा᳘रुर्व्वि᳘भृत ऽओ᳘षधिषु चित्रः शि᳘शुः प᳘रि त᳘माᳫँ᳭स्यक्तूनि᳘ति चित्रो वा᳘ ऽएष शि᳘शुः प᳘रेण त᳘माᳫँ᳭स्यक्तून᳘ति रोचते प्र᳘ मातृ᳘भ्यो ऽअ᳘धि क᳘निक्रदद्गा ऽइत्यो᳘षधयो वा᳘ ऽएत᳘स्य मात᳘रस्ता᳘भ्य ऽएष क᳘निक्रदत्प्रै᳘ति तद᳘श्वे व्वी᳘र्यं दधाति॥

मूलम् - श्रीधरादि

सो᳘ ऽश्वमभि᳘मन्त्रयते॥
स᳘ जातो ग᳘र्भो ऽअसि रो᳘दस्योरि᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी त᳘योरेष᳘ जातो गर्भो᳘ ऽग्ने चा᳘रुर्व्वि᳘भृत ऽओ᳘षधीष्वि᳘ति स᳘र्व्वासु᳘ ह्येष चा᳘रुर्व्वि᳘भृत ऽओ᳘षधिषु चित्रः शि᳘शुः प᳘रि त᳘माᳫँ᳭स्यक्तूनि᳘ति चित्रो वा᳘ ऽएष शि᳘शुः प᳘रेण त᳘माᳫँ᳭स्यक्तून᳘ति रोचते प्र᳘ मातृ᳘भ्यो ऽअ᳘धि क᳘निक्रदद्गा ऽइत्यो᳘षधयो वा᳘ ऽएत᳘स्य मात᳘रस्ता᳘भ्य ऽएष क᳘निक्रदत्प्रै᳘ति तद᳘श्वे व्वी᳘र्यं दधाति॥

मूलम् - Weber

सो᳘ ऽश्वमभि᳘मन्त्रयते॥
स᳘ जातो ग᳘र्भो असि रो᳘दस्योरि᳘तीते वै द्या᳘वापृथिवी रो᳘दसी त᳘योरेष᳘ जातो गर्भो᳘ ऽग्ने चा᳘रुर्वि᳘भृत ओ᳘षधीष्वि᳘ति स᳘र्वासुॗ ह्येष चा᳘रुर्वि᳘भृत ओ᳘षधिषु चित्रः शि᳘शुः प᳘रि त᳘मांस्यक्तूनि᳘ति चित्रो वा᳘ एष शि᳘शुः प᳘रेण त᳘मांस्यक्तून᳘तिरोचते प्र᳘ मातृ᳘भ्यो अ᳘धि क᳘निक्रदद्गा इत्यो᳘षधयो वा᳘ एत᳘स्य मात᳘रस्ता᳘भ्य एष क᳘निक्रदत्प्रै᳘ति तद᳘श्वे वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

सो ऽश्वमभिमन्त्रयते- “स जातो गर्भो ऽअसि रोदस्योः”- इति । इमे वै द्यावापृथिवी रोदसी । तयोरेष जातो गर्भः । “अग्ने चारुर्विभृत ओषधीषु”- इति । सर्वासु ह्येष चारुर्विभृत ओषधिषु । “चित्रः शिशुः परि तमाँस्यक्तून्”- इति । चित्रो वा ऽएष शिशुः परेण तमांस्यक्तूनतिरोचते । “प्र मातृभ्यो अधि कनिक्रदद्गाः”- (वा. सं. ११ । ४३) इति । ओषधयो वा ऽएतस्य मातरः । ताभ्य एष कनिक्रदत्प्रैति । तदश्वे वीर्यं दधाति ॥ २ ॥

सायणः

पूर्वमश्वाभिमन्त्रणं विधत्ते- सो ऽश्वमिति 2 । अश्वो ऽग्न्यात्मना स्तूयते- ‘स’ त्वं ‘रोदस्योः’ द्यावापृथिव्योः ‘गर्भः’ इति ‘जातः असि,’ तथा ‘ओषधीषु’ ओषधिवनस्पत्यादिषु विषयेषु ‘चारुः’ ‘विभृतः’ विशेषेण सम्भृतो ऽसि, ‘चित्रः’ चित्रवर्णः, ‘शिशुः,’ ‘अक्तून्’ अक्तुशब्दो रात्रिवचनः, तत्रत्यानि ‘तमांसि’ ‘परि’ योग्यक्रियाध्याहारः, परीत्य, अतिरोचत इति । ‘मातृभ्यः’- इति चतुर्थी । शरीरस्योत्पादकत्वात् ओषधयो ऽत्र मातृशब्दवाच्याः तदर्थम्, तद्भक्षणार्थं ‘कनिक्रदत्’ अत्यर्थं ह्वेषितशब्दं कुर्वन् ‘प्रगाः’ प्रगच्छसि “इणो गा लुङि”- (पा. सू. २ । ४ । ४५) इति गादेशः । मन्त्रं प्रतिपादमनूद्य व्याचष्टे- इमे वै द्यावापृथिवी रोदसी इति ॥ २ ॥

Eggeling
  1. He addresses the horse, with (Vāj. S. XI, 43 R̥k S. X, 1, 2), ‘Thus born, art thou the child of the two worlds;’–the two worlds, doubtless, are these two, heaven and earth; and he (Agni) thus born, is the child of these two;–‘O Agni, the lovely (child), distributed among the plants,’–for he, the lovely one, is indeed distributed among all the plants 3;–‘a brilliant child, through gloom and night,’–for as a brilliant child, he (Agni) indeed shines beyond gloom and night;–‘crying aloud thou didst go forth from the mothers;’–his mothers, doubtless, are the plants, and from them he comes forth crying aloud. He thereby lays vigour into the horse.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ रा᳘सभम्॥
(ᳫँ᳭) स्थिरो᳘ भव व्वी᳘ड्वङ्ग ऽआशु᳘र्भव[[!!]] व्वा᳘ज्यर्व्वन्नि᳘ति[[!!]] स्थिर᳘श्च भ᳘व व्वी᳘ड्वङ्गश्चाशु᳘श्च[[!!]] भ᳘व व्वाजी᳘ चार्व्वन्नि᳘त्येत᳘त्पृथु᳘र्भव[[!!]] सुष᳘दस्त्व᳘मग्नेः᳘ पुरीषवा᳘हण ऽइ᳘ति पृथु᳘र्भव सुशी᳘मस्त्व᳘मग्नेः᳘ पशव्व्यवा᳘हन इ᳘त्येतत्तद्रा᳘सभे व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ रा᳘सभम्॥
(ᳫँ᳭) स्थिरो᳘ भव व्वी᳘ड्वङ्ग ऽआशु᳘र्भव[[!!]] व्वा᳘ज्यर्व्वन्नि᳘ति[[!!]] स्थिर᳘श्च भ᳘व व्वी᳘ड्वङ्गश्चाशु᳘श्च[[!!]] भ᳘व व्वाजी᳘ चार्व्वन्नि᳘त्येत᳘त्पृथु᳘र्भव[[!!]] सुष᳘दस्त्व᳘मग्नेः᳘ पुरीषवा᳘हण ऽइ᳘ति पृथु᳘र्भव सुशी᳘मस्त्व᳘मग्नेः᳘ पशव्व्यवा᳘हन इ᳘त्येतत्तद्रा᳘सभे व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

अ᳘थ रा᳘सभम्॥
स्थिरो᳘ भव वीड्व᳘ङ्ग आशु᳘र्भव वाज्य᳘र्वन्निति स्थिर᳘श्च भ᳘व वीड्व᳘ङ्गश्चाशु᳘श्च भव वाजी᳘ चार्वन्नि᳘त्ये᳘तत्पृथु᳘र्भव सुष᳘दस्त्व᳘मग्नेः᳘ 4 पुरीषवा᳘हण इ᳘ति पृथु᳘र्भव सुशी᳘मस्त्व᳘मग्नेः᳘ पशव्यवा᳘हन इ᳘त्येतत्तद्रा᳘सभे वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

अथ रासभम्- “स्थिरो भव वीड्वङ्गः । आशुर्भव । वाज्यर्वन्”- इति । स्थिरश्च भव, वीड्वङ्गश्च, आशुश्च भव, वाजी च, अर्वन् ! इत्येतत् । “पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः"- (वा. सं. ११ । ४४) इति । पृथुर्भव सुशीमः, त्वमग्नेः पशव्यवाहन इत्येतत् । तद्रासभे वीर्यं दधाति ॥ ३ ॥

सायणः

रासभाभिमन्त्रणे मन्त्रं विधत्ते- अथ रासभं स्थिरो भवेति । हे ‘अर्वन्’ अरणवन् ! रासभ ! ‘स्थिरः’ निश्चलः ‘भव’ । ‘वीड्वङ्गः’ दृढाङ्गः, ‘आशुः’ शीघ्रगतिः, ‘वाजी’ वेगवाँश्च भव’ इति । ‘पृथुः’ स्थूलः भव । ‘सुषदः’ शोभनसदनवान् भव । ‘अग्नेः पुरीषवाहणः’ गोमयस्य सैकतस्य वा वाहकत्वात् रासभस्य पुरीषवोढृत्वं प्रसिद्धम् ॥ ३ ॥

Eggeling
  1. Then (he addresses) the ass, with (Vāj. S. XI, 44), ‘Steadfast be thou, firm-limbed, and a swift racer be thou, O steed!’–that is, ‘be thou steadfast, and firm-limbed, and swift, and a racer, O steed!’–‘Ample be thou, and well to sit upon, thou, the bearer of Agni’s supply!’–that is, ‘be

thou ample (broad), well to rest upon, thou, Agni’s provender-bearer 5!’ He thereby lays vigour into the ass.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाज᳘म्॥
(ᳫँ᳘) शिवो᳘ भव प्रजा᳘भ्यो मा᳘नुषीभ्यस्त्व᳘मङ्गिर ऽइत्य᳘ङ्गिरा वा᳘ ऽअग्नि᳘राग्ने᳘यो ऽजः᳘ शम᳘यत्ये᳘वैनमेतद᳘हिᳫँ᳭सायै मा द्या᳘वापृथिवी᳘ ऽअभि᳘शोची᳘र्मा ऽन्त᳘रिक्षं मा व्व᳘नस्प᳘तीनि᳘त्येतत्स᳘र्व्वं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्त᳘दजे᳘ व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाज᳘म्॥
(ᳫँ᳘) शिवो᳘ भव प्रजा᳘भ्यो मा᳘नुषीभ्यस्त्व᳘मङ्गिर ऽइत्य᳘ङ्गिरा वा᳘ ऽअग्नि᳘राग्ने᳘यो ऽजः᳘ शम᳘यत्ये᳘वैनमेतद᳘हिᳫँ᳭सायै मा द्या᳘वापृथिवी᳘ ऽअभि᳘शोची᳘र्मा ऽन्त᳘रिक्षं मा व्व᳘नस्प᳘तीनि᳘त्येतत्स᳘र्व्वं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्त᳘दजे᳘ व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

अ᳘थाज᳘म्॥
शिखा᳘ भव प्रजा᳘भ्यो मा᳘नुषीभ्यस्त्व᳘मङ्गिर इत्य᳘ङ्गिरा वा᳘ अग्नि᳘राग्नेॗयो ऽजः᳘ शम᳘यत्येॗवैनमेतद᳘हिंसायै मा द्या᳘वापृथिवी᳘ अभि᳘शोचीॗर्मान्त᳘रिक्षम् मा व᳘नस्प᳘तीनि᳘त्येतत्स᳘र्वम् मा᳘ हिंसीरि᳘त्येतत्त᳘दजे᳘ वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

अथाजम्- “शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः”- (वा. सं. ११ । ४५) इति । अङ्गिरा वा ऽअग्निः । आग्नेयो ऽजः । शमयत्येवैनमेतदहिंसायै । “मा द्यावापृथिवी ऽअभिशोचीः, मा ऽन्तरिक्षम्, मा वनस्पतीन्”- (वा. सं. ११ । ४५) इति । एतत् सर्वं मा हिंसीरित्येतत् । तदजे वीर्यं दधाति ॥ ४ ॥

सायणः

अजाभिमन्त्रणं विधत्ते- अथाजं शिवो भवेति । अङ्गिरःपदेन अग्निरुच्यते; तद्देवत्यत्वात् । हे ‘अङ्गिरः’ अग्निरूप ! अज ! त्वं ‘मानुषीभ्यः प्रजाभ्यः’ ‘शिवो भव’ । ‘द्यावापृथिवी’ ‘मा अभिशोचीः’ मा हिंसीः । तथा ‘अन्तरिक्षं,’ ‘वनस्पतीन्’ । सर्वत्र ‘मा अभिशोचीः’- इति क्रियापदं सम्बद्धुम् मेति पदं प्रयुक्तम् । मन्त्रस्यार्द्धयोस्तात्पर्यमाह- अङ्गिरा वा अग्निरित्यादिना ॥ ४ ॥

Eggeling
  1. Then the he-goat, with (Vāj. S. XI, 45), ‘Be thou propitious unto human creatures, O Aṅgiras!’–for Agni is Aṅgiras, and the he-goat is sacred to Agni: he thus appeases him with a view to his doing no injury;–‘Scorch not heaven and earth, nor the air, nor the trees!’–that is, ‘do not injure anything!’ He thereby lays vigour into the he-goat.

०५

विश्वास-प्रस्तुतिः

त्रिभि᳘रभि᳘मन्त्रयते॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैष्वेत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

त्रिभि᳘रभि᳘मन्त्रयते॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैष्वेत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

त्रिभि᳘रभि᳘मन्त्रयते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैष्वेत᳘द्वीर्य᳘ दधाति॥

मूलम् - विस्वरम्

त्रिभिरभिमन्त्रयते । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैष्वेतद्वीर्यं दधाति ॥ ५ ॥

सायणः

अश्वादिपशुत्रयाभिमन्त्रणगतसङ्ख्यां प्रशंसति- त्रिभिरभिमन्त्रयत इति । अग्नेस्त्रिवृत्त्वं पुरस्तादुक्तम् ॥ ५ ॥

Eggeling
  1. With three (verses) he addresses (the animals), for threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus lays vigour into them.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमेते᳘षां पशूना᳘मुप᳘रिष्टात्प्र᳘गृह्णाति॥
त᳘देनमेतैः᳘ पशु᳘भिः स᳘म्भरति नो᳘पस्पृशति व्व᳘ज्रो वै᳘ पश᳘वो रे᳘त ऽइदं ने᳘दिदᳫँ᳭ रे᳘तो व्व᳘ज्रेण हिन᳘सानीत्य᳘थो ऽअग्नि᳘रयं᳘ पश᳘व ऽइमे ने᳘दय᳘मग्नि᳘रिमा᳘न्पशू᳘न्हिन᳘सदि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमेते᳘षां पशूना᳘मुप᳘रिष्टात्प्र᳘गृह्णाति॥
त᳘देनमेतैः᳘ पशु᳘भिः स᳘म्भरति नो᳘पस्पृशति व्व᳘ज्रो वै᳘ पश᳘वो रे᳘त ऽइदं ने᳘दिदᳫँ᳭ रे᳘तो व्व᳘ज्रेण हिन᳘सानीत्य᳘थो ऽअग्नि᳘रयं᳘ पश᳘व ऽइमे ने᳘दय᳘मग्नि᳘रिमा᳘न्पशू᳘न्हिन᳘सदि᳘ति॥

मूलम् - Weber

अ᳘थैनमेते᳘षाम् पशूना᳘मुप᳘रिष्टात्प्र᳘गृह्णाति॥
त᳘देनमेतैः᳘ पशु᳘भिः स᳘म्भरति नो᳘पस्पृशति व᳘ज्रो वै᳘ पश᳘वो रे᳘त इदं ने᳘दिदं रे᳘तो व᳘ज्रेण हिन᳘सानीत्य᳘थो अग्नि᳘रय᳘म् पश᳘व इमे ने᳘दय᳘मग्नि᳘रिमा᳘न्पशू᳘न्हिन᳘सदि᳘ति॥

मूलम् - विस्वरम्

अथैनमेतेषां पशूनामुपरिष्टात्प्रगृह्णाति । तदेनमेतैः पशुभिः सम्भरति । नोपस्पृशति । वज्रो वै पशवः । रेत इदम् । नेदिदं रेतो वज्रेण हिनसानीति । अथो ऽअग्निरयम्, पशव इमे । नेदयमग्निरिमान् पशून् हिनसदिति ॥ ६ ॥

सायणः

अत्र सूत्रम्- “धारयत्येषामुपरि पिण्डमनुपस्पृशन्”- (का. श्रौ. सू. १६ । ७९) इति । एषां त्रयाणां पशूनामुपरितनान् पशून् अनुपस्पृशन् पिण्डं धारयेदित्यर्थः । तदिदं विधत्ते- अथैनमेतेषां पशूनामिति । उपस्पर्शनाभावं प्रशंसति- वज्रो वै पशव इति । यतो वज्ररूपाः पशवः, मृत्पिण्डश्च रेतोरूपः, अतो वज्रेण रेतः विच्छिन्नं न करोमीति बुद्ध्या न स्पृशेत् पशून् । अथवा ‘अयं’ मृत्पिण्डो हि ‘अग्निः,’ अग्निः पशून् मा हिंसीदिति बुद्ध्या न स्पृशेत् । ‘हिनसानि’- इति लोटि रूपम्, ‘हिनसत्’- इति पञ्चमलकारे रूपम् ॥ ६ ॥

Eggeling
  1. He then holds it (Agni, the lump of clay) over these animals, whereby he equips him (Agni) with these cattle. He does not touch them, lest he should injure that seed by the thunderbolt, for cattle are a thunderbolt, and this (clay) is seed; or lest that Agni should injure those cattle, for that (lump of clay) is Agni, and these (animals) are cattle.

०७

विश्वास-प्रस्तुतिः

तम᳘श्वस्योप᳘रिष्टात्प्र᳘गृह्णाति॥
प्रै᳘तु व्वाजी क᳘निक्रददि᳘ति प्रै᳘तु व्वाजी᳘ कनिक्रद्य᳘मान ऽइ᳘त्येतन्ना᳘नदद्रा᳘सभः पत्वे᳘ति तद᳘श्वस्य य᳘जुषि रा᳘सभं नि᳘राह तद्रा᳘सभे शु᳘चं दधाति भ᳘रन्नग्निं᳘ पुरी᳘ष्यं[[!!]] मा᳘ पाद्या᳘युषः पुरे᳘ति भ᳘रन्नग्निं᳘ पश᳘व्यं᳘ मो ऽअस्मात्क᳘र्मणः पुरा᳘ पादी᳘त्येतत्त᳘देनम᳘श्वेन स᳘म्भरति॥

मूलम् - श्रीधरादि

तम᳘श्वस्योप᳘रिष्टात्प्र᳘गृह्णाति॥
प्रै᳘तु व्वाजी क᳘निक्रददि᳘ति प्रै᳘तु व्वाजी᳘ कनिक्रद्य᳘मान ऽइ᳘त्येतन्ना᳘नदद्रा᳘सभः पत्वे᳘ति तद᳘श्वस्य य᳘जुषि रा᳘सभं नि᳘राह तद्रा᳘सभे शु᳘चं दधाति भ᳘रन्नग्निं᳘ पुरी᳘ष्यं[[!!]] मा᳘ पाद्या᳘युषः पुरे᳘ति भ᳘रन्नग्निं᳘ पश᳘व्यं᳘ मो ऽअस्मात्क᳘र्मणः पुरा᳘ पादी᳘त्येतत्त᳘देनम᳘श्वेन स᳘म्भरति॥

मूलम् - Weber

तम᳘श्वस्योप᳘रिष्टात्प्र᳘गृह्णाति॥
प्रै᳘तु वाजी क᳘निक्रददि᳘ति प्रै᳘तु वाजी᳘ कनिक्रद्य᳘मान इ᳘त्येतन्ना᳘नदद्रा᳘सभः पत्वे᳘ति तद᳘श्वस्य य᳘जुषि रा᳘सभं नि᳘राह तद्रा᳘सभे शु᳘चं दधाति भ᳘रन्नग्नि᳘म् पुरीष्य᳘म् मा᳘ पाद्या᳘युषः पुरे᳘ति भ᳘रन्नग्नि᳘म् पशॗव्य᳘ मो अस्मात्क᳘र्मणः पुरा᳘ पादी᳘त्येतत्त᳘देनम᳘श्वेन स᳘म्भरति॥

मूलम् - विस्वरम्

तमश्वस्योपरिष्टात्प्रगृह्णाति । “प्रैतु वाजी कनिक्रदत्”- इति । प्रैतु वाजी कनिक्रद्यमान इत्येतत् । “नानदद्रासभः पत्वा”- इति । तदश्वस्य यजुषि रासभं निराह । तद्रासभे शुचं दधाति । “भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा”- इति । भरन्नग्निं पशव्यं मो ऽअस्मात्कर्मणः पुरा पादीत्येतत् । तदेनमश्वेन सम्भरति ॥ ७ ॥

सायणः

अथाश्वस्योपरि धारणं समन्त्रं विधत्ते- तमश्वस्योपरिष्टादिति 6 । ‘वाजी’ अन्नवान् अश्वः ‘प्रैतु’ आगच्छतु । तं विशिनष्टि- ‘कनिक्रदत्’ अत्यर्थशब्दं कुर्वन्, ‘नानदत्’ सर्वा दिशो नादयन् ‘रासभः’ उपमाशब्दलोपः, गर्दभः इव ‘पत्वा’ पतनशीलः । पतेः क्वनिपि रूपम् । ‘पुरीष्यं’ पशुहितम् ‘अग्निम्’ ‘भरन्’ धारयन्, ‘आयुषः’ कर्मणो ऽस्मात् ‘पुरा’ ‘मा पादि’ मा विनश्यतु । पदेश्चिणि रूपम् ॥

अश्वस्योपरि धारणमन्त्रे रासभः पत्वेति गर्दभवचनस्य प्रयोजनमाह- तदश्वस्य यजुषि रासभं निराहेति । अश्वमन्त्रे रासभवचने तस्माद्रासभादश्वस्यातिशयितत्वोक्तेः तस्मिन् गर्दभे शोकबलराहित्यमेव निहितं भवतीति । ‘आयुषः’- इतिपदस्यार्थमाह- कर्मणः इति ॥ ७ ॥

Eggeling
  1. In the first place he holds it over the horse, with (Vāj. S. XI, 46), ‘Let the racer start forth neighing lustily,’–that is, ‘Let the racer start forth neighing repeatedly;’–’the running ass, crying aloud!’ He thus mentions the ass in the formula of the horse, and thereby imbues the ass with sorrow 7;–‘bearing Agni Purīshya, may he

not perish before his full measure of time!’–that is, ‘bearing Agni favourable to cattle, may he (the horse) not perish before (the completion of) this sacred work.’ He thereby equips him (Agni) with the horse.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ रा᳘सभस्य॥
व्वृ᳘षा ऽग्निं वृ᳘षणं भ᳘रन्नि᳘ति व्वृ᳘षा वा᳘ ऽअग्निर्व्वृ᳘षा रा᳘सभः स व्वृ᳘षा व्वृ᳘षाणं भरत्यपां ग᳘र्भᳫँ᳭ समुद्रि᳘यमि᳘त्यपा᳘ᳫँ᳘ ह्येष ग᳘र्भः समुद्रि᳘यस्त᳘देनᳫँ᳭ रा᳘सभेन स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ रा᳘सभस्य॥
व्वृ᳘षा ऽग्निं वृ᳘षणं भ᳘रन्नि᳘ति व्वृ᳘षा वा᳘ ऽअग्निर्व्वृ᳘षा रा᳘सभः स व्वृ᳘षा व्वृ᳘षाणं भरत्यपां ग᳘र्भᳫँ᳭ समुद्रि᳘यमि᳘त्यपा᳘ᳫँ᳘ ह्येष ग᳘र्भः समुद्रि᳘यस्त᳘देनᳫँ᳭ रा᳘सभेन स᳘म्भरति॥

मूलम् - Weber

अ᳘थ रा᳘सभस्य॥
वृ᳘षाग्निं वृ᳘षणम् भ᳘रन्नि᳘ति वृ᳘षा वा᳘ अग्निर्वृ᳘षा रा᳘सभः स वृ᳘षा वृ᳘षाणम् भरत्यपां ग᳘र्भᳫं समुद्रि᳘यमि᳘त्यपाॗᳫंॗ ह्येष ग᳘र्भः समुद्रि᳘यस्त᳘देनं रा᳘सभेन स᳘म्भरति॥

मूलम् - विस्वरम्

अथ रासभस्य- “वृषा ऽग्निं वृषणं भरन्”- इति । वृषा वा ऽअग्निः । वृषा रासभः । स वृषा वृषाणं भरति । “अपाङ्गर्भं समुद्रियम्”- इति । अपां ह्येष गर्भः समुद्रियः । तदेनं रासभेन सम्भरति ॥ ८ ॥

सायणः

अथोत्तरा ऋक्, संहितायामेवमाम्नायते- “वृषा ऽग्निं वृषणं भरन्नपाङ्गर्भं समुद्रियम्- अग्न आयाहि वीतये । ऋतं सत्यमृतं सत्यमग्निम्पुरीष्यमङ्गिरस्वद् भरामः”- इति । महाबृहतीयम्; “चत्वारो ऽष्टकाः पादा जागतश्च महाबृहती”- इति । तस्य विभज्य विनियोगो विधीयते । तत्र तस्याः पूर्वार्द्धे तु रासभस्योपरि धारणम्, तृतीयपादेनाजस्योपरि धारणाय रासभ-मृत्पिण्डहरणम्, चतुर्थेनाजस्योपरि धारणम्, पञ्चमेनानद्धापुरुषेक्षणम् । तदाह सूत्रकृत् “प्रैतु वाजी वृषा ऽग्निमित्यश्वखरयोः, अग्न आयाहीत्याहृत्य खराच्छागस्यर्तं सत्यमित्यानिधानात्, आयन्त्यावर्त्य पशूनजः पुरस्ताद्रासभो मध्ये” स्वस्थानस्थितानामेवावृत्तिः 6 “अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति”- (का. श्रौ. सू. १६ । ८२ ।) इति । तदिदं सर्वं विधत्ते- अथ रासभस्य वृषा ऽग्निं वृषणमित्यादिना ॥

मन्त्रस्यायमर्थः- ‘वृषणं’ वर्षकं मृद्रूपम् ‘अग्निं’ भरन् ‘अपाङ्गर्भं’ गर्भभूतं, समुद्रे अन्तरिक्षे भवं ‘समुद्रियं’ ‘भरन्’ ‘अग्निं’ मृद्रूपं ‘वृष’ सिञ्च । वृषतेर्लोटि रूपम् । अत्रार्द्धे रासभः सम्बोध्यः ॥

ब्राह्मणे, वृषेति कन्प्रत्ययान्तं पदमिति व्याख्यातं- वृषा वा अग्निरिति । तत्रायमर्थः- ‘वृषा’ रेतसः सेक्ता ‘रासभः’ ‘वृषणम्’ अग्निं ‘भरन्,’ तिष्ठतीति क्रियाध्याहारः । तृतीयपादे अग्निः सम्बोध्यः । हे ‘अग्ने’ मृद्रूप ! ‘वीतये’ तर्पणाय ‘आयाहि’ रासभादागच्छ । ‘ऋतम्’ अग्निः, ‘सत्यम्’ आदित्यः; यद्वा, ‘ऋतम्’ आदित्यः, ‘सत्यम्’ अग्निः, उभयरूपमग्निम्, आहरिष्यामीति शेषः । ‘पुरीष्यं’ पशुहितमग्निम्, ‘अङ्गिरस्वद्’ अग्निवत् ‘भरामः’ सम्भराम इति ॥

मन्त्रगतानि पदानि व्याचष्टे- वृषा वा अग्निरिति । तदेनं रासभेनेति । मन्त्रस्य पूर्वार्द्धेन रासभस्योपरि मृत्पिण्डधारणेन तस्मिन् मृदं सम्भृतवान् भवति ॥ ८ ॥

Eggeling
  1. Then (over) the ass, with, ‘The male carrying Agni, the male,’–for Agni is a male, and the he-ass is a male: that male carries the male;–’the sea-born child of the waters,’–for he (Agni) is the sea-born child of the waters. He thereby equips him with the ass.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थापा᳘दत्ते॥
(त्ते᳘ ऽग्न) अ᳘ग्न ऽआ᳘याहि व्वीत᳘य ऽइत्य᳘वितव ऽइ᳘त्येतत्त᳘देनं ब्र᳘ह्मणा य᳘जुषैत᳘स्माच्छौ᳘द्राद्व᳘र्णादपा᳘दत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थापा᳘दत्ते॥
(त्ते᳘ ऽग्न) अ᳘ग्न ऽआ᳘याहि व्वीत᳘य ऽइत्य᳘वितव ऽइ᳘त्येतत्त᳘देनं ब्र᳘ह्मणा य᳘जुषैत᳘स्माच्छौ᳘द्राद्व᳘र्णादपा᳘दत्ते॥

मूलम् - Weber

अ᳘थापा᳘दत्ते॥
अ᳘ग्न आ᳘याहि वीत᳘य इत्य᳘वितव इ᳘त्येतत्त᳘देनम् ब्र᳘ह्मणा य᳘जुषैत᳘स्माछौ᳘द्राद्व᳘र्णादपा᳘दत्ते॥

मूलम् - विस्वरम्

अथापादत्ते- “अग्न ऽआयाहि वीतये”- (वा. सं. ११ । ४६) इति । अवितव ऽइत्येतत् । तदेनं ब्रह्मणा यजुषैतस्माच्छौद्राद्वर्णादपादत्ते ॥ ९ ॥

सायणः

खरात् सकाशात् मृदाहरणं समन्त्रं विधत्ते- अथापादत्त इति । “अग्न आयाहीति” तृतीयः पादः । ‘वीतये’- इत्यस्यार्थमाह- अवितव इतीति । तर्पणार्थाद् वेतेः (धा. पा. अ. प. ३७६) “मन्त्रे वृषेष"- (पा. सू. ३ । ३ । ९६) इति क्तिन्, चोदात्तः । अपादानं प्रशंसति- तदेनं ब्रह्मणेति । ‘एनं’ मृत्पिण्डं ‘ब्रह्मणा’ ब्रह्मरूपेण ‘यजुषा’ “अग्न आयाहि”- इति पादेन ‘एतस्मात्’ ‘शौद्रात्’ वर्णात् अपादत्तवान् भवति । रासभस्य वैश्यशूद्रजातिसम्बन्धो वक्ष्यते- “वैश्यं च शूद्रं चानु रासभः” (१२ कं) इति ॥ ९ ॥

Eggeling
  1. He then takes it off, with, ‘O Agni, come hither to the feast!’–that is, ‘in order to rejoice.’ By means of the brahman, the yajus (formula), he thus removes him (Agni) from the Śūdra caste.

१०

विश्वास-प्रस्तुतिः

(त्ते᳘ ऽथा) अ᳘थाज᳘स्य॥
(ऽ) ऋत᳘ᳫँ᳘ सत्य᳘मृत᳘ᳫँ᳘ सत्यमि᳘त्ययं वा᳘ ऽअग्नि᳘र्ऋत᳘मसा᳘वादित्यः᳘ सत्यं य᳘दि वा ऽसा᳘वृत᳘मय᳘ᳫँ᳘ सत्य᳘मुभ᳘यम्वेत᳘दय᳘मग्निस्त᳘स्मादाह ऽर्त᳘ᳫँ᳘ सत्य᳘मृत᳘ᳫँ᳘ सत्यमि᳘ति त᳘देनमजे᳘न स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्ते᳘ ऽथा) अ᳘थाज᳘स्य॥
(ऽ) ऋत᳘ᳫँ᳘ सत्य᳘मृत᳘ᳫँ᳘ सत्यमि᳘त्ययं वा᳘ ऽअग्नि᳘र्ऋत᳘मसा᳘वादित्यः᳘ सत्यं य᳘दि वा ऽसा᳘वृत᳘मय᳘ᳫँ᳘ सत्य᳘मुभ᳘यम्वेत᳘दय᳘मग्निस्त᳘स्मादाह ऽर्त᳘ᳫँ᳘ सत्य᳘मृत᳘ᳫँ᳘ सत्यमि᳘ति त᳘देनमजे᳘न स᳘म्भरति॥

मूलम् - Weber

अथाज᳘स्य॥
ऋत᳘ᳫं᳘ सत्य᳘मृत᳘ᳫं᳘ सत्यमि᳘त्ययं वा᳘ अग्नि᳘रृत᳘मसा᳘वादित्यः᳘ सत्यं य᳘दि वासा᳘वृत᳘मय᳘ᳫं᳘ सत्य᳘मुभ᳘यम्वेत᳘दय᳘मग्निस्त᳘स्मादाह ऽर्त᳘ᳫं᳘ सत्य᳘मृत᳘ᳫं᳘ सत्यमि᳘ति त᳘देनमजे᳘न स᳘म्भरति॥

मूलम् - विस्वरम्

अथाजस्य । “ऋतं सत्यमृतं सत्यम्”- इति । अयं वा ऽअग्निर्ऋतम्, असावादित्यः सत्यम् । यदि वा ऽसावृतमयं सत्यम् । उभयम्वेतदयमग्निः । तस्मादाह- ऋतं सत्यमृतं सत्यमिति । तदेनमजेन सम्भरति ॥ १० ॥

सायणः

अजस्योपरि धारणमन्त्रं विधत्ते- अथाजस्यर्त्तमिति । ऋतं सत्यमिति द्विवारं पठ्यते, तत्र प्रथमर्त्तसत्यपदयोरर्थमाह- अयं वा अग्निर्ऋतमिति । यदि वेति द्वितीयर्त्तसत्यपदयोरर्थवचनम् ! ‘असौ’ विप्रकृष्टः ‘आदित्यः’ ‘ऋतम्,’ ‘अयमग्निः सत्यम्;’ उभयरूपो ऽयमग्निर्मृदूपः ॥ १० ॥

Eggeling
  1. Then (he holds it over) the he-goat, with (Vāj. S XI, 47), ‘The law–the truth, the law–the truth!–the (divine) law doubtless is this Agni; and the truth is yonder sun; or, rather, the law is yonder (sun), and the truth is this (Agni); but, indeed, this Agni is both the one and the other: hence he says, ’the law–the truth, the law–the truth.’ He thereby equips him with the he-goat

११

विश्वास-प्रस्तुतिः

त्रिभिः स᳘म्भरति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘म्भरति त्रिभिः᳘ पुर᳘स्तादभि᳘मन्त्रयते तत्षट् त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

त्रिभिः स᳘म्भरति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘म्भरति त्रिभिः᳘ पुर᳘स्तादभि᳘मन्त्रयते तत्षट् त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

त्रिभिः स᳘म्भरति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘म्भरति त्रिभिः᳘ पुर᳘स्तादभि᳘मन्त्रयते तत्षट् त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

त्रिभिः सम्भरति । त्रिवृदग्निः । यावानग्निर्यावित्यस्य मात्रा- तावतैवैनमेतत्सम्भरति । त्रिभिः पुरस्तादभिमन्त्रयते । तत्- षट् । तस्योक्तो बन्धुः ॥ ११ ॥

सायणः

अग्निम्पुरीष्यमिति मन्त्रशेषस्य विनियोग उत्तरत्र वक्ष्यते । इदानीमश्वादीनामुपरिधारणे विनियुक्तमन्त्रगतसङ्ख्यां त्रिवृदग्न्यात्मना स्तौति- त्रिभिरिति । “प्रैतु वाजी”- इति एको मन्त्रः, “वृषा ऽग्निम्"- इति महाबृहत्यामपरः; रासभाजयोरुपरि धारणे विनियुक्तौ द्वौ मन्त्रौ । मन्त्रस्य लक्षणं याज्ञिकसमाख्यानमिति प्रागुक्तम् । अत एकस्यामप्यृचि विभज्य विनियोगान्मन्त्रा बहवः सम्पद्यन्त इत्यविरोधः ॥

पूर्वमश्वाद्यभिमन्त्रणे विनियुक्तमन्त्रसंख्यां मिलित्वा प्रशंसति- त्रिभिः पुरस्तादिति । अभिमन्त्रणमन्त्रास्त्रयः, धारणमन्त्रास्त्रयः; ते षट् सम्पद्यन्ते; तस्य स्तावकं ब्राह्मणमतिदिशति- तस्योक्तो बन्धुरिति । पिण्डपरिग्रहमन्त्रसंख्याप्रस्तावे- “ताः षट् सम्पद्यन्ते, षड्वा ऋतवः”- (श. प. ६ । ४ । २ । १०) इत्यादिना ॥ ११ ॥

Eggeling
  1. With three (beasts) he equips (Agni),–three fold is Agni: as great as Agni is, as great as is his measure, with so much he thus equips him. With three (verses) he previously addresses (the beasts),–that mikes six: the significance of this (number) has been explained.

१२

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थैता᳘न्पशूना᳘वर्तयन्ति॥
ते᳘षामजः᳘ प्रथम᳘ ऽएत्य᳘थ रा᳘सभो ऽथाश्वो᳘ ऽथेतो᳘ यताम᳘श्वः प्रथम᳘ ऽएत्य᳘थ रा᳘सभो᳘ ऽथाजः᳘ क्षत्रं वा ऽअन्व᳘श्वो व्वै᳘श्यं च शूद्रं चा᳘नु रा᳘सभो ब्राह्मण᳘मजः[[!!]]]॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थैता᳘न्पशूना᳘वर्तयन्ति॥
ते᳘षामजः᳘ प्रथम᳘ ऽएत्य᳘थ रा᳘सभो ऽथाश्वो᳘ ऽथेतो᳘ यताम᳘श्वः प्रथम᳘ ऽएत्य᳘थ रा᳘सभो᳘ ऽथाजः᳘ क्षत्रं वा ऽअन्व᳘श्वो व्वै᳘श्यं च शूद्रं चा᳘नु रा᳘सभो ब्राह्मण᳘मजः[[!!]]]॥

मूलम् - Weber

अ᳘थैता᳘न्पशूना᳘वर्तयन्ति॥
ते᳘षामजः᳘ प्रथम एत्य᳘थ रा᳘सभो ऽथाश्वो᳘ ऽथेतो᳘ यताम᳘श्वः प्रथम᳘ एत्य᳘थ रा᳘सभो᳘ ऽथजः᳘ क्षत्रं वा अन्व᳘श्वो वै᳘श्यं च शूद्रं चा᳘नु रा᳘सभो ब्राह्मण᳘मजः᳟॥

मूलम् - विस्वरम्

अथैतान् पशूनावर्तयन्ति । तेषामजः प्रथम एति, अथ रासभः, अथाश्वः । अथेतो यतामश्वः प्रथम एति, अथ रासभः, अथाजः । क्षत्रं वा अन्वश्वो, वैश्यं च शूद्रञ्चानु रासभो, ब्राह्मणमजः ॥ १२ ॥

सायणः

अथैतेषां पशूनामावर्त्तनं विधते- अथैतान् पशूनिति । स्वस्थानावस्थितानामेवावर्त्तनम् । तत्रागन्तॄणां पशूनां क्रमं विधत्ते- तेषामजः प्रथम इति 8 । पूर्वम् ‘इतः’ मृदाहरणार्थं ‘यतां’ गन्तॄणां ‘पशूनां’ मध्ये ‘अश्वः’ प्रथमो गतः, ‘रासभः’ मध्ये, पश्चात् ‘अजः’ अधुना ‘अजः’ प्रथमः, ‘रासभः’ मध्ये, पश्चात् ‘अश्वः’ । गमनागमनयोरुभयोरपि रासभस्य मध्ये ऽवस्थानम्, अश्वाजयोरेव पौर्वापर्यम् । क्षत्रं वा अन्वश्वः- इत्यादेरयमर्थः- अश्वादिपशुत्रयस्य क्षत्रियजातिसम्बन्धः, क्षत्रियस्य राज्ञ इतरेभ्यस्त्रिभ्यो वैश्यशूद्रब्राह्मणेभ्यः पुरस्ताद् गमनं लोके दृष्टमिति । तत्र यथा पूर्वं गमनसमये अश्वस्य प्राथम्यम्, तथा ब्राह्मणस्यानूचानस्य स्वव्यतिरिक्तवर्णत्रयात् प्रथमगमनं च दृश्यत इति अधुना अजस्य प्राथम्यम्, वैश्यशूद्रयोः क्षत्रियाद् ब्राह्मणाद्वा पुरस्ताद्गमनं नास्तीति मृदाहरणसमये पुनरागमनसमये च रासभस्य न प्राथम्यम् । तस्मात् कारणादेवम्- यान्ति अश्वपूर्वाः प्रथमे अधुना ऽजपूर्वा आगच्छन्ति ‘अपापवस्यसाय’ पापपरिहाराय । ब्राह्मणेन क्षत्रियेण च ‘एतौ’ वैश्यशूद्रौ ‘अभितः’ मध्ये परिगृहीते, ‘अनपक्रमिणौ’ अनपक्रान्तौ कुरुते ॥ १२ ॥ १३ ॥

Eggeling
  1. They then make the beasts return (to the Āhavanīya): the he-goat goes first of them, then the ass, then the horse. Now, in going away from this

(Āhavanīya 9), the horse goes first, then the ass, then the he-goat,–for the horse corresponds to the Kshatra (nobility), the ass to the Vaiśya and Śūdra, the he-goat to the Brāhmaṇa.

१३

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘दितो᳘ यताम्[[!!]]॥
(म᳘) अ᳘श्वः प्रथम ऽए᳘ति त᳘स्मात्क्षत्रि᳘यं प्रथमं य᳘न्तमि᳘तरे त्र᳘यो व्व᳘र्णाः पश्चाद᳘नुयन्त्य᳘थ य᳘दमु᳘त ऽआयता᳘मजः᳘ प्रथम ऽए᳘ति त᳘स्माद्ब्राह्मणं᳘ प्रथमं य᳘न्तमि᳘तरे त्र᳘यो व्व᳘र्णाः पश्चाद᳘नुयन्त्य᳘थ य᳘न्नै᳘वेतो᳘ यतां᳘ नामु᳘तो रा᳘सभः प्रथम ऽए᳘ति त᳘स्मान्न᳘ कदा᳘चन᳘ ब्राह्मण᳘श्च क्षत्रि᳘यश्च व्वै᳘श्यं च शूद्रं᳘ च पश्चाद᳘न्वितस्त᳘स्मादेवं᳘ यन्त्य᳘पापवस्यसाया᳘थो ब्र᳘ह्मणा चै᳘वैत᳘त्क्षत्रे᳘ण चैतौ व्व᳘र्णावभि᳘तः प᳘रिगृह्णीते᳘ ऽनपक्रमिणौ कुरुते॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘दितो᳘ यताम्[[!!]]॥
(म᳘) अ᳘श्वः प्रथम ऽए᳘ति त᳘स्मात्क्षत्रि᳘यं प्रथमं य᳘न्तमि᳘तरे त्र᳘यो व्व᳘र्णाः पश्चाद᳘नुयन्त्य᳘थ य᳘दमु᳘त ऽआयता᳘मजः᳘ प्रथम ऽए᳘ति त᳘स्माद्ब्राह्मणं᳘ प्रथमं य᳘न्तमि᳘तरे त्र᳘यो व्व᳘र्णाः पश्चाद᳘नुयन्त्य᳘थ य᳘न्नै᳘वेतो᳘ यतां᳘ नामु᳘तो रा᳘सभः प्रथम ऽए᳘ति त᳘स्मान्न᳘ कदा᳘चन᳘ ब्राह्मण᳘श्च क्षत्रि᳘यश्च व्वै᳘श्यं च शूद्रं᳘ च पश्चाद᳘न्वितस्त᳘स्मादेवं᳘ यन्त्य᳘पापवस्यसाया᳘थो ब्र᳘ह्मणा चै᳘वैत᳘त्क्षत्रे᳘ण चैतौ व्व᳘र्णावभि᳘तः प᳘रिगृह्णीते᳘ ऽनपक्रमिणौ कुरुते॥

मूलम् - Weber

तद्य᳘दितो᳘ यता᳘म्॥
अ᳘श्वः प्रथम ए᳘ति त᳘स्माक्षत्रि᳘यम् प्रथमं य᳘न्तमि᳘तरे त्र᳘यो व᳘र्णाः पश्चाद᳘नुयन्त्य᳘थ य᳘दमु᳘त आयता᳘मजः᳘ प्रथम ए᳘ति त᳘स्माद्ब्राह्मण᳘म् प्रथमं य᳘न्तमि᳘तरे त्र᳘यो व᳘र्णाः पश्चाद᳘नुयन्त्य᳘थ यॗन्नैॗवेतो᳘ यतांॗ नामु᳘तो रा᳘सभः प्रथम ए᳘ति त᳘स्मान्न᳘ कदा᳘ चन᳘ ब्राह्मण᳘श्च क्षत्रि᳘या वैश्यं च शूद्रं᳘ च पश्चाद᳘न्वितस्त᳘स्मादेवं यन्त्य᳘पापवस्यसाया᳘थो ब्र᳘ह्मणा चैॗवैत᳘त्क्षत्रे᳘ण चैतौ व᳘र्णावभि᳘तः प᳘रिगृह्णीते᳘ ऽनपगृह्णीते कुरुते॥

मूलम् - विस्वरम्

अथैतेषां पशूनामावर्त्तनं विधते- अथैतान् पशूनिति । स्वस्थानावस्थितानामेवावर्त्तनम् । तत्रागन्तॄणां पशूनां क्रमं विधत्ते- तेषामजः प्रथम इति 8 । पूर्वम् ‘इतः’ मृदाहरणार्थं ‘यतां’ गन्तॄणां ‘पशूनां’ मध्ये ‘अश्वः’ प्रथमो गतः, ‘रासभः’ मध्ये, पश्चात् ‘अजः’ अधुना ‘अजः’ प्रथमः, ‘रासभः’ मध्ये, पश्चात् ‘अश्वः’ । गमनागमनयोरुभयोरपि रासभस्य मध्ये ऽवस्थानम्, अश्वाजयोरेव पौर्वापर्यम् । क्षत्रं वा अन्वश्वः- इत्यादेरयमर्थः- अश्वादिपशुत्रयस्य क्षत्रियजातिसम्बन्धः, क्षत्रियस्य राज्ञ इतरेभ्यस्त्रिभ्यो वैश्यशूद्रब्राह्मणेभ्यः पुरस्ताद् गमनं लोके दृष्टमिति । तत्र यथा पूर्वं गमनसमये अश्वस्य प्राथम्यम्, तथा ब्राह्मणस्यानूचानस्य स्वव्यतिरिक्तवर्णत्रयात् प्रथमगमनं च दृश्यत इति अधुना अजस्य प्राथम्यम्, वैश्यशूद्रयोः क्षत्रियाद् ब्राह्मणाद्वा पुरस्ताद्गमनं नास्तीति मृदाहरणसमये पुनरागमनसमये च रासभस्य न प्राथम्यम् । तस्मात् कारणादेवम्- यान्ति अश्वपूर्वाः प्रथमे अधुना ऽजपूर्वा आगच्छन्ति ‘अपापवस्यसाय’ पापपरिहाराय । ब्राह्मणेन क्षत्रियेण च ‘एतौ’ वैश्यशूद्रौ ‘अभितः’ मध्ये परिगृहीते, ‘अनपक्रमिणौ’ अनपक्रान्तौ कुरुते ॥ १२ ॥ १३ ॥

सायणः

[व्याख्यानं द्वादशे]

Eggeling
  1. And inasmuch as, in going from here, the horse goes first, therefore the Kshatriya, going first, is followed by the three other castes; and inasmuch as, in returning from there, the he-goat goes first, therefore the Brāhmaṇa, going first, is followed by the three other castes. And inasmuch as the ass does not go first, either in going from here, or in coming back from there, therefore the Brāhmaṇa and Kshatriya never go behind the Vaiśya and Śūdra hence they walk thus in order to avoid a confusion between good and bad. And, moreover, he thus encloses those two castes (the Vaiśya and Śūdra) on both sides by the priesthood and the nobility, and makes them submissive.

१४

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थानद्धापुरुष᳘मीक्षते॥
(ते ऽग्निं᳘) अग्निं᳘ पुरी᳘ष्यमङ्गिरस्व᳘द्भराम ऽइ᳘त्यग्निं᳘[[!!]] पश᳘व्यमग्निव᳘द्भराम ऽइ᳘त्येतत्त᳘देनमनद्धापुरुषे᳘ण[[!!]] स᳘म्भरति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थानद्धापुरुष᳘मीक्षते॥
(ते ऽग्निं᳘) अग्निं᳘ पुरी᳘ष्यमङ्गिरस्व᳘द्भराम ऽइ᳘त्यग्निं᳘[[!!]] पश᳘व्यमग्निव᳘द्भराम ऽइ᳘त्येतत्त᳘देनमनद्धापुरुषे᳘ण[[!!]] स᳘म्भरति॥

मूलम् - Weber

अ᳘थानद्धापुरुष᳘मीक्षते॥
अग्नि᳘म् पुरीष्य᳘मङ्गिरस्व᳘द्भराम इ᳘त्यग्नि᳘म् पशव्य᳘मग्निवद्भराम इ᳘त्येतत्त᳘देनमनद्धापुरुषे᳘ण स᳘म्भरति॥

मूलम् - विस्वरम्

अथानद्धापुरुषमीक्षते । “अग्निं पुरीष्यमङ्गिरस्वद्भरामः”- इति । अग्निं पशव्यमग्निवद्भराम इत्येतत् । तदेनमनद्धापुरुषेण सम्भरति ॥ १४ ॥

सायणः

विधत्ते- अथानद्धापुरुषमिति 10 । तत्र पुरुषमिति पञ्चमम् । अग्निं पुरीष्यमिति । तदीक्षणेन तेनापि ‘अनद्धापुरुषेण’ पुरुषपशुप्रतिनिधिना मृदं सम्भृतवान् भवति ॥ १४ ॥

Eggeling
  1. He then looks at the sham-man, with, ‘Agni Purīshya we bear, Aṅgiras-like;’–that is, ‘Agni, favourable to cattle, we bear, like Agni.’ He thereby equips him with the sham-man.

१५

विश्वास-प्रस्तुतिः

त᳘मज᳘स्योप᳘रिष्टात्प्रगृह्णन्नै᳘ति॥
(त्या) आग्नेयो वा᳘ ऽअजः स्वे᳘नै᳘वैनमेत᳘दात्म᳘ना स्व᳘या देव᳘तया स᳘म्भरत्य᳘थो ब्र᳘ह्म वा᳘ ऽअजो ब्र᳘ह्मणै᳘वैनमेतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

त᳘मज᳘स्योप᳘रिष्टात्प्रगृह्णन्नै᳘ति॥
(त्या) आग्नेयो वा᳘ ऽअजः स्वे᳘नै᳘वैनमेत᳘दात्म᳘ना स्व᳘या देव᳘तया स᳘म्भरत्य᳘थो ब्र᳘ह्म वा᳘ ऽअजो ब्र᳘ह्मणै᳘वैनमेतत्स᳘म्भरति॥

मूलम् - Weber

त᳘मज᳘स्योप᳘रिष्टात्प्रगृह्णन्नै᳘ति॥
आग्नेयो वा᳘ अजः स्वे᳘नैॗवैनमेत᳘दात्म᳘ना स्व᳘या देव᳘तया स᳘म्भरत्य᳘थो ब्र᳘ह्म वा᳘ अजो ब्र᳘ह्मणैॗवैनमेतत्स᳘म्भरति॥

मूलम् - विस्वरम्

तमजस्योपरिष्टात्प्रगृह्णन्नैति । आग्नेयो वा ऽअजः । स्वेनैवैनमेतदात्मना स्वया देवतया सम्भरति । अथो ब्रह्म वा ऽअजः । ब्रह्मणैवैनमेतत्सम्भरति ॥ १५ ॥

सायणः

विधत्ते- तमजस्योपरिष्टादिति । अजस्योपरि मृत्पिण्डं धारयन्नेव ‘ऐति’ आगच्छेदध्वर्युः । तथाविधं गमनमुभयथा प्रशंसति- आग्नेयो वा अज इति । ‘अजः’ अग्निदेवत्यः, मृदप्यग्निः; अतो ऽजस्योपरि धारणात् स्वेन रूपेण स्वदेवत्यं च सम्भृतवान् भवति । अपि अजो ब्राह्मणजातीयः; ततो ब्राह्मणेनाप्येनं मृत्पिण्डं सम्भृतवान् भवति ॥ १५ ॥

Eggeling
  1. He (the Adhvaryu) arrives (near the fire) while holding (the lump of clay) over the he-goat; for the he-goat is sacred to Agni: he thus equips him (Agni) with his own self, with his own godhead. And, moreover, the he-goat is the Brahman (priesthood): with the Brahman he thus equips him.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमुपा᳘वहरति॥
(त्यो᳘) ओ᳘षधयः प्र᳘तिमोदध्वमग्नि᳘मेत᳘ᳫँ᳘ शिव᳘माय᳘न्तमभ्य᳘त्र युष्मा ऽइ᳘त्येत᳘द्धैत᳘स्मादायत ऽओ᳘षधयो बिभ्यति यद्वै᳘ नो ऽयं न᳘ हिᳫँ᳭स्यादि᳘ति ता᳘भ्य ऽए᳘वैनमेत᳘च्छमयति प्र᳘त्येनं मोदध्वᳫँ᳭ शिवो᳘ वो ऽभ्यै᳘ति न᳘ वो हिᳫँ᳭सिष्यती᳘ति व्य᳘स्यन्वि᳘श्वा ऽअ᳘निरा ऽअ᳘मीवा निषी᳘दन्नो ऽअ᳘प दुर्म्मतिं᳘ जही᳘ति व्य᳘स्यन्वि᳘श्वा अ᳘निराश्चा᳘मीवाश्च निषी᳘दन्नो᳘ ऽप स᳘र्व्वं पाप्मा᳘नं जही᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमुपा᳘वहरति॥
(त्यो᳘) ओ᳘षधयः प्र᳘तिमोदध्वमग्नि᳘मेत᳘ᳫँ᳘ शिव᳘माय᳘न्तमभ्य᳘त्र युष्मा ऽइ᳘त्येत᳘द्धैत᳘स्मादायत ऽओ᳘षधयो बिभ्यति यद्वै᳘ नो ऽयं न᳘ हिᳫँ᳭स्यादि᳘ति ता᳘भ्य ऽए᳘वैनमेत᳘च्छमयति प्र᳘त्येनं मोदध्वᳫँ᳭ शिवो᳘ वो ऽभ्यै᳘ति न᳘ वो हिᳫँ᳭सिष्यती᳘ति व्य᳘स्यन्वि᳘श्वा ऽअ᳘निरा ऽअ᳘मीवा निषी᳘दन्नो ऽअ᳘प दुर्म्मतिं᳘ जही᳘ति व्य᳘स्यन्वि᳘श्वा अ᳘निराश्चा᳘मीवाश्च निषी᳘दन्नो᳘ ऽप स᳘र्व्वं पाप्मा᳘नं जही᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थैनमुपा᳘वहरति॥
ओ᳘षधयः प्र᳘तिमोदध्वमग्नि᳘मेतं᳘ शिव᳘माय᳘न्तमभ्य᳘त्र युष्मा इ᳘त्येत᳘द्धैत᳘स्मादायत ओ᳘षधयो बिभ्यति यद्वै᳘ नो ऽयं न᳘ हिंस्यादि᳘ति ता᳘भ्य ए᳘वैनमेत᳘छमयति प्र᳘त्येनम् मोदध्वं शिवो᳘ वो ऽभ्यै᳘ति न᳘ वो हिंसिष्यती᳘ति व्य᳘स्यन्वि᳘श्वा अ᳘निरा अ᳘मीवा निषी᳘दन्नो अ᳘प दुर्मतिं᳘ जही᳘ति व्य᳘स्यन्वि᳘श्वा अ᳘निराश्चा᳘मीवाश्च निषी᳘दन्नो ऽप स᳘र्वम् पाप्मा᳘नं जही᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथैनमुपावहरति । “ओषधयः प्रतिमोदध्वमग्निमेतं शिवमायन्तमभ्यत्र युष्माः"- इति । एतद्वैतस्मादायत ओषधयो बिभ्यति । यद्वै नो ऽयं न हिंस्यादिति । ताभ्य एवैनमेतच्छमयति । प्रत्येनं मोदध्वम्, शिवो वो ऽभ्यैति, न वो हिंसिष्यतीति । “व्यस्यश्विन्वा अनिरा अमीवा निषीदन्, नो अप दुर्मतिं जहि"- (वा० सं० ११ । ४७) इति । व्यस्यन्विश्वा अनिराश्चामीवाश्च निषीदन्; नो ऽप सर्वं पाप्मानं जहीत्येतत् ॥ १६ ॥

सायणः

अथाजसकाशान्मृत्पिण्डस्यावरोहणं समन्त्रं विधत्ते- अथैनमुपावहरतीति । हे ‘ओषधयः’ ‘युष्माः’ अत्र शसः सकारस्य “तस्माच्छसो नः”- (पा. सू. ६ । १ । १०३) इति नत्वं रुत्वं विसर्जनीयः, युष्मानभिलक्ष्य ‘आयन्तम्’ आगच्छन्तं ‘शिवम्’ ‘एतं’ पुरोवर्तिनम् ‘अग्निं’ ‘प्रतिमोदध्वम्’ प्रतिमोदस्य भयराहित्यमर्थ । उत्तरार्द्धे मृद्रूपो ऽग्निः सम्बोध्यः । ‘विश्वाः’ ‘अनिराः’ ‘इरा’ इत्यन्ननाम (निघ. २ । ७ । १३ ।) अन्नप्रतिबन्धहेतून् अनावृष्ट्यादीन्, ‘अमीवाः’ रोगांश्च ‘व्यस्यन्’ विक्षिपन्, हेतौ शतृप्रत्ययः । रोगादिविक्षेपाद्धेतोः ‘निषीदन्’ उपविशन्, ‘नः’ अस्माकं ‘दुर्मतिं’ दुष्टुतिमयीं मतिम् ‘अपजहि’ अपनयेति ॥

प्रतिमोदध्वमिति यदोषधीः प्रत्युक्तम्, तस्याभिप्रायमाह- एतद्धैतस्मादायत ओषधय इति । ‘आयतः’ अग्नेः सकाशात् ‘ओषधयो बिभ्यति’ स्वस्यात्मानं भक्षयिष्यति किलेति । तत्परिहाराय प्रतिमोदध्वमिति । यतो ऽग्निः शान्तः, ओषधयो यूयमेनं प्रतिमोदध्वम्, ‘शिवः’ सुखकर एव सन् ‘वः’ युष्मान् ‘अभ्यैति’ अभिगच्छति; न वो हिंसिष्यतीति तात्पर्यार्थः । उत्तरार्द्धगतं दुर्मतिपदं व्याचष्टे- सर्वं पाप्मानं जहीति ॥ १६ ॥

Eggeling
  1. He then takes it down, with, ‘O plants, welcome ye with joy this propitious Agni coming hitherwards!’ for the plants are afraid lest he (Agni) should injure them: it is for them that he

now appeases him, saying, ‘Welcome ye him with joy, propitious he comes to you; he will not injure you!’–‘Removing all infirmities, afflictions; settling down, drive off from us evil intention!’ that is, ‘removing all infirmities and afflictions, settling down, drive off from us all evil!’

१७

विश्वास-प्रस्तुतिः

(दो᳘) ओ᳘षधयः प्र᳘तिगृभ्णीत॥
पु᳘ष्पवतीः सुपिप्पला ऽइ᳘त्येत᳘द्धैता᳘साᳫँ᳭ स᳘मृद्धᳫँ᳭ रूपं यत्पु᳘ष्पवत्यः सुपिप्पलाः स᳘मृद्धा ऽएनं प्र᳘तिगृभ्णीते᳘त्येत᳘दयं᳘ वो ग᳘र्भ ऽऋत्वि᳘यः प्रत्न᳘ᳫँ᳘ सध᳘स्थमा᳘सददि᳘त्ययं᳘ वो ग᳘र्भ ऽऋत᳘व्यः सनात᳘नᳫँ᳭ सध᳘स्थमा᳘सददि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(दो᳘) ओ᳘षधयः प्र᳘तिगृभ्णीत॥
पु᳘ष्पवतीः सुपिप्पला ऽइ᳘त्येत᳘द्धैता᳘साᳫँ᳭ स᳘मृद्धᳫँ᳭ रूपं यत्पु᳘ष्पवत्यः सुपिप्पलाः स᳘मृद्धा ऽएनं प्र᳘तिगृभ्णीते᳘त्येत᳘दयं᳘ वो ग᳘र्भ ऽऋत्वि᳘यः प्रत्न᳘ᳫँ᳘ सध᳘स्थमा᳘सददि᳘त्ययं᳘ वो ग᳘र्भ ऽऋत᳘व्यः सनात᳘नᳫँ᳭ सध᳘स्थमा᳘सददि᳘त्येतत्[[!!]]॥

मूलम् - Weber

ओ᳘षधयः प्र᳘तिगृभ्णीत॥
पुष्पवतीः सुपिप्पला इ᳘त्येत᳘द्धैता᳘साᳫं स᳘मृद्धं रूपं यत्पु᳘ष्पवत्यः सुपिप्पलाः स᳘मृद्धा एनम् प्र᳘तिगृह्णीते᳘त्येत᳘दयं᳘ वो ग᳘र्भ ऋत्वि᳘यः प्रत्न᳘ᳫं᳘ सध᳘स्थमा᳘सददि᳘त्ययं᳘ वो ग᳘र्भ ऋत᳘व्यः सनात᳘नᳫं सध᳘स्थमा᳘सददि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“ओषधयः प्रतिगृभ्णीत पुष्पवतीः सुपिप्पलाः”- इति । एतद्धैतासां समृद्धं रूपम्- यत् पुष्पवत्यः सुपिप्पलाः । समृद्धा एनं प्रतिगृभ्णीतेत्येतत् । “अयं वो गर्भ ऋत्वियः प्रत्नं सधस्थमासदत्”- (वा. सं. ११ । ४८) इति । अयं वो गर्भ ऋतव्यः सनातनं सधस्थमासददित्येतत् ॥ १७ ॥

सायणः

द्वितीयं मन्त्रं विधत्ते- ओषधयः प्रतिगृभ्णीतेति । हे ‘ओषधयः’ ! ‘एनम्’ अग्निम् ‘प्रतिगृभ्णीत’ । ता विशिनष्टि- ‘पुष्पवतीः’ पुष्पवत्यः, पुष्पसम्पन्नाः, ‘सुपिप्पलाः’ शोभनफलवत्यः ‘अयम्’ अग्निर्वै ‘युष्माकमोषधीनां ‘गर्भः’ ‘ऋत्वियः’ ऋतुषु भवः प्राप्तकालः ‘प्रन्नं’ पुरातनम्, ‘सधस्थं’ सहस्थानम् ‘आसदत्’ आगमत् । सदेर्लुङि च्लेरङि रूपम् ॥

मन्त्रं व्याचष्टे- एतद्धैतासां समृद्धमिति । पुष्पफलवत्त्वमेव समृद्धं रूपमित्यर्थः ॥ १७ ॥

Eggeling
  1. [Vāj. S. XI, 48] ‘O plants, receive him joyfully, ye blossoming, full-berried ones!’ for that is their perfect form when they are blossoming and full-berried: thus, ‘Being perfect, receive ye him joyfully!’–’this timely child of yours hath settled down in his old seat;’ that is, ’this seasonable child of yours has settled down in his eternal seat.’

१८

विश्वास-प्रस्तुतिः

(द्द्वा᳘) द्वा᳘भ्यामुपा᳘वहरति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘दुपा᳘वहरति तं᳘ दक्षिणत ऽउ᳘दञ्चमुपा᳘वहरति त᳘स्योक्तो ब᳘न्धुरु᳘द्धतम᳘वोक्षितं भवति य᳘त्रैनमुपावह᳘रत्यु᳘द्धते वा ऽअ᳘वोक्षिते ऽग्निमा᳘दधति सि᳘कता ऽउ᳘पकीर्णा भवन्ति ता᳘सामुप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द्द्वा᳘) द्वा᳘भ्यामुपा᳘वहरति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘दुपा᳘वहरति तं᳘ दक्षिणत ऽउ᳘दञ्चमुपा᳘वहरति त᳘स्योक्तो ब᳘न्धुरु᳘द्धतम᳘वोक्षितं भवति य᳘त्रैनमुपावह᳘रत्यु᳘द्धते वा ऽअ᳘वोक्षिते ऽग्निमा᳘दधति सि᳘कता ऽउ᳘पकीर्णा भवन्ति ता᳘सामुप᳘रि ब᳘न्धुः॥

मूलम् - Weber

द्वा᳘भ्यामुपा᳘वहरति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘दुपा᳘वहरति तं᳘ दक्षिणत उ᳘दञ्चमुपा᳘वहरति त᳘स्योक्तो ब᳘न्धुरु᳘द्धतम᳘वोक्षितम् भवति य᳘त्रैनमुपावह᳘रत्यु᳘द्धते वा अ᳘वोक्षिते ऽग्निमा᳘दधति सि᳘कता उ᳘पकीर्णा भवन्ति ता᳘सामुप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

द्वाभ्यामुपावहरति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदुपावहरति । तं दक्षिणत उदञ्चमुपावहरति । तस्योक्तो बन्धुः । उद्धतमवोक्षितं भवति । यत्रैनमुपावहरति । उद्धते वा ऽअवोक्षिते ऽग्निमादधति । सिकता उपकीर्णा भवन्ति । तासामुपरि बन्धुः ॥ १८ ॥

सायणः

उपावहरणमन्त्रगतसंख्यां प्रशंसति- द्वाभ्यामुपावहरति द्विपाद् यजमान इति । उक्तो ऽर्थः (श. प. ६ । ३ । ३ । ३१ भा.) । पिण्डनिधानप्रदेशं कात्यायनः सूत्रयामास- “उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे पिण्डं निदधात्योषधय इति” (का. श्रौ. सू. १६ । ८३) इति । तदिदं विधत्ते- तं दक्षिणत उदञ्चमित्यादिना, तिर इवैव चिचरिषति इत्यन्तेन । तं पिण्डं ‘दक्षिणतः’ प्रदेशात् ‘उदञ्चम्’ उदङ्मुखम् ‘उपावहरेत्’ निदध्यात् । दक्षिणत उदगागमनस्य स्तावकं ब्राह्मणमतिदिशति- तस्योक्तो बन्धुरिति । पिण्डहरणसमये “तं दक्षिणत उदञ्चमाहरति दक्षिणतो वा उदग् योनौ रेतः सिच्यते” (श. प. ६ । ४ । २ । १०) इति ॥

‘यत्र’ स्थाने ‘एनं’ पिण्डं निदध्यात्, तत् स्थानम् ‘उद्धतम्’ उद्धननसंस्कृतम्, ‘अवोक्षितम्’ उदकसिक्तं भवेत् । पिण्डस्याग्नित्वात् तत्समानप्रदेशकरणं युक्तमित्याह- उद्धते वा अवोक्षिते ऽग्निमिति । गार्हपत्यादिधिष्ण्यम् इत्यर्थः । तस्मिन् प्रदेशे सिकताश्च विकीर्णा भवन्ति । तत्स्तावकं ब्राह्मणमुत्तरत्र सप्तमकाण्डादौ गार्हपत्यचयनप्रस्तावे वक्ष्यते (श. प. ७ । ५ । १ । ९ । १०) इत्याह- तासामुपरि बन्धुरिति ॥ १८ ॥

Eggeling
  1. With two (verses) he takes it down,–two-footed is the Sacrificer, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, with so much he thus takes it down. He takes it down from the right (south) to the left (north) side: the significance of this has been explained. Raised and sprinkled is (the place) where he takes it down, for on a (mound), raised and sprinkled, the (sacrificial) fire is laid down. Gravel is strewed thereon: the significance of this (will be explained) hereafter 11.

१९

विश्वास-प्रस्तुतिः

प᳘रिश्रितं भवति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतां पुरं[[!!]] प᳘र्यश्रयंस्त᳘थै᳘वास्मा ऽअय᳘मेतां पु᳘रं प᳘रिश्रयत्य᳘थो यो᳘निर्व्वा᳘ ऽइयᳫँ᳭ रे᳘त इदं᳘ तिर᳘ इव वै यो᳘नौ रे᳘तः सिच्यते योनिरूप᳘मेत᳘त्क्रियते त᳘स्माद᳘पि स्व᳘या जाय᳘या तिर᳘ इवैव᳘ चिचरिषति॥

मूलम् - श्रीधरादि

प᳘रिश्रितं भवति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतां पुरं[[!!]] प᳘र्यश्रयंस्त᳘थै᳘वास्मा ऽअय᳘मेतां पु᳘रं प᳘रिश्रयत्य᳘थो यो᳘निर्व्वा᳘ ऽइयᳫँ᳭ रे᳘त इदं᳘ तिर᳘ इव वै यो᳘नौ रे᳘तः सिच्यते योनिरूप᳘मेत᳘त्क्रियते त᳘स्माद᳘पि स्व᳘या जाय᳘या तिर᳘ इवैव᳘ चिचरिषति॥

मूलम् - Weber

प᳘रिश्रितम् भवति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा एताम् पु᳘रम् प᳘र्यश्रयंस्तथैॗवास्मा अय᳘मेताम् पु᳘रम् प᳘रिश्रयत्य᳘थो यो᳘निर्वा᳘ इयं रे᳘त इदं᳘ तिर᳘ इव वै यो᳘नौ रे᳘तः सिच्यते योनिरूप᳘मेत᳘त्क्रियते त᳘स्माद᳘पि स्व᳘या जाय᳘या तिर᳘ इवैव᳘ चिचरिषति॥

मूलम् - विस्वरम्

परिश्रितं भवति । एतद्वै देवा अबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा ऽएतां पुरं पर्यश्रयन् । तथैवास्मा ऽअयमेतां पुरं परिश्रयति । अथो योनिर्वा ऽइयम्, रेत इदम्, तिर इव वै योनौ रेतः सिच्यते । योनिरूपमेतत्क्रियते । तस्मादपि स्वया जायया तिर इवैव चिचरिषति ॥ १९ ॥

सायणः

परिश्रितं भवतीति । तासां विकीर्णानां परिश्रितमिव परिवृतं भवेत् । परिश्रितकरणं नाम रक्षोभीत्या पुरस्य करणमित्यर्थः । प्रकारान्तरेण स्तौति- अथो योनिर्वा इयमिति । इदं परिश्रितं स्थानं योनिरूपम्, ‘इदं’ पिण्डरूपं ‘रेतः’ यतश्च योनौ ‘तिरः’ तिरोहितम् अप्रकाशं ‘सिच्यते’ । उक्तमर्थं लोकप्रसिद्ध्या द्रढयति- तस्मादिति । ‘तस्मात्’ खलु लोके सर्वो जनः ‘स्वया जायया अपि’ परिवृतस्थाने ‘तिर इवैव’ ‘चिचरिषति’ चरितुमिच्छति ॥ १९ ॥

Eggeling
  1. It is enclosed on all sides 12; for at that time the gods were afraid, thinking, ‘We hope the Rakshas, the fiends, will not smite here this (Agni) of ours!’ They enclosed him with this stronghold; and in like manner does this one now enclose him with this stronghold. And, again, this is a womb;

and this (clay) is seed; and in secret, as it were, the seed is infused into the womb: it is thus made of the form of the womb; and hence it is only in secret that one would have intercourse even with his own wife.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं व्वि᳘ष्यति॥
तद्य᳘दे᳘वास्यात्रो᳘पनद्धस्य सᳫँ᳭शु᳘च्यति ता᳘मे᳘वास्मादेतच्छु᳘चं बहिर्धा᳘ दधात्य᳘थो ऽएत᳘स्या ऽए᳘वैनमेतद्यो᳘नेः प्र᳘जनयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं व्वि᳘ष्यति॥
तद्य᳘दे᳘वास्यात्रो᳘पनद्धस्य सᳫँ᳭शु᳘च्यति ता᳘मे᳘वास्मादेतच्छु᳘चं बहिर्धा᳘ दधात्य᳘थो ऽएत᳘स्या ऽए᳘वैनमेतद्यो᳘नेः प्र᳘जनयति॥

मूलम् - Weber

अ᳘थैनं वि᳘ष्यति॥
तद्य᳘देॗवास्यात्रो᳘पनद्धस्य संशु᳘च्यति ता᳘मेॗवास्मादेतछु᳘चम् बहिर्धा᳘ दधात्य᳘थो एत᳘स्या एॗवैनमेतद्यो᳘नेः प्र᳘जनयति॥

मूलम् - विस्वरम्

अथैनं विष्यति । तद्यदेवास्यात्रोपनद्धस्य संशुच्यति- तामेवास्मादेतच्छुचं बहिर्धा दधाति । अथो ऽएतस्या एवैनमेतद्योनेः प्रजनयति ॥ २० ॥

सायणः

अथैनं विष्यतीति 13 । ‘विष्यति’ प्रमुञ्चेत् । पूर्वं कृष्णाजिनपुष्करपर्णयोर्मध्ये पिण्डं निधाय, अन्तान् उद्गृह्य, योक्त्रेण बन्धनं कृतम्; तद्योक्त्रमन्तोद्ग्रहणञ्च मुञ्चेदित्यर्थः । विमोकं स्तौति- तद्यदेवास्येति । पूर्वमन्तोपनद्धस्य बद्धस्य पिण्डस्य शोको जातः, ‘तां’ बन्धनजातां ‘शुचं’ तद्विमोकेन ‘बहिर्द्धा’ निहितवान् भवति । किञ्च पुष्करपर्णं च योनिरूपमित्युक्तम् (श. प. ६ । ४ । १ । ७) अतो बन्धनरूपयोक्त्रविमोकात् ‘योनेरेव’ पिण्डं मुखाद्यात्मना जायतामित्यभिप्रायेण तद्विमोक इत्यर्थः ॥ २० ॥

Eggeling
  1. He then unties it (the lump of clay): whatever part of his (body) pains him (Agni) when tied up, that pain he now puts outside of him; and, moreover, he causes him to be born from that womb (the antelope skin).

२१

विश्वास-प्रस्तुतिः

व्वि पा᳘जसा पृथु᳘ना शो᳘शुचान ऽइ᳘ति॥
व्वि पा᳘जसा पृथु᳘ना दी᳘प्यमान ऽइ᳘त्येतद्बा᳘धस्व द्विषो᳘ रक्ष᳘सो ऽअ᳘मीवा ऽइ᳘ति बा᳘धस्व स᳘र्व्वान्पाप्म᳘न ऽइ᳘त्येत᳘त्सुश᳘र्म्मणो बृह᳘तः श᳘र्मणि स्यामग्ने᳘रह᳘ᳫँ᳘ सह᳘वस्य प्र᳘णीतावि᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

व्वि पा᳘जसा पृथु᳘ना शो᳘शुचान ऽइ᳘ति॥
व्वि पा᳘जसा पृथु᳘ना दी᳘प्यमान ऽइ᳘त्येतद्बा᳘धस्व द्विषो᳘ रक्ष᳘सो ऽअ᳘मीवा ऽइ᳘ति बा᳘धस्व स᳘र्व्वान्पाप्म᳘न ऽइ᳘त्येत᳘त्सुश᳘र्म्मणो बृह᳘तः श᳘र्मणि स्यामग्ने᳘रह᳘ᳫँ᳘ सह᳘वस्य प्र᳘णीतावि᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - Weber

वि पा᳘जसा पृथु᳘ना शो᳘शुचान इ᳘ति॥
वि पा᳘जसा पृथु᳘ना दी᳘प्यमान इ᳘त्येतद्बा᳘धस्व द्विषो᳘ रक्ष᳘सो अ᳘मीवा इ᳘ति बा᳘धस्व स᳘र्वान्पाप्म᳘न इ᳘त्येत᳘त्सुश᳘र्मणो बृह᳘तः श᳘र्मणि स्यामग्ने᳘रह᳘ᳫं᳘ सह᳘वस्य प्र᳘णीतावि᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

“वि पाजसा पृथुना शोशुचानः”- इति । वि पाजसा पृथुना दीप्यमान इत्येतत् । “बाधस्व द्विषो रक्षसो ऽअमीवाः”- इति । बाधस्व सर्वान् पाप्मन इत्येतत् । “सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ”- (वा. सं. ११ । ४९) इत्याशिषमाशास्ते ॥ २१ ॥

सायणः

मन्त्रं विधत्ते- वि पाजसा पृथुनेति । “पाज इति बलनाम” (निघ. २ । ९ । १) ‘पृथुना’ बलेन ‘शोशुचानः’ दीप्यमानो ऽग्निस्त्वं ‘द्विषः’ द्वेष्यान् ‘रक्षसः’ राक्षसांश्च ‘अमीवाः’ रोगांश्च ‘विबाधस्व’ । एवं प्रत्यक्षतो याचित्वा, इदानीमग्निं परोक्षीकृत्य स्वयमाशिष्यमाणः ते ‘सुशर्मणः’ साधुशरणस्य, ‘बृहतः,’ ‘सुहवस्य’ शोभनाह्वानस्य ‘अग्नेः’ ‘प्रणीतौ’ प्रकृष्टनीतौ ‘शर्मणि’ शरणे अहं ‘स्याम्’ भवेयमित्यर्थः । मन्त्रस्यार्द्धयोस्तात्पर्यमाह- बाधस्व सर्वान् पाप्मन इति । आशिषमाशास्ते इति च ॥ २१ ॥

Eggeling
  1. [He unties it, with Vāj. S. XI, 49; R̥k S. III, 15, 1] ‘Blazing forth with wide glare,’–that is, ‘Shining brightly with wide glare;’–‘chase away the terrors of the hating demons!’–that is, ‘chase away all evils!’–‘May I be in the protection of the great, the good protector, in the guidance of Agni, ready to our call!’ thereby he invokes a blessing.

२२

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथा) अ᳘थाजलोमा᳘न्याच्छिद्य[[!!]]॥
(द्यो᳘) उ᳘दीचः प्रा᳘चः पशून्प्र᳘सृजत्येषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘च्येत᳘स्यां त᳘द्दिशि᳘ पशू᳘न्दधाति त᳘स्मादुभ᳘ये देवमनुष्याः᳘ पशूनु᳘पजीवन्ति॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथा) अ᳘थाजलोमा᳘न्याच्छिद्य[[!!]]॥
(द्यो᳘) उ᳘दीचः प्रा᳘चः पशून्प्र᳘सृजत्येषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘च्येत᳘स्यां त᳘द्दिशि᳘ पशू᳘न्दधाति त᳘स्मादुभ᳘ये देवमनुष्याः᳘ पशूनु᳘पजीवन्ति॥

मूलम् - Weber

अ᳘थाजलोमा᳘न्याछि᳘द्य॥
उ᳘दीचः प्रा᳘चः पशून्प्र᳘सृजत्येषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘च्येत᳘स्यां त᳘द्दिशि᳘ पशू᳘न्दधाति त᳘स्मादुभ᳘ये देवमनुष्याः᳘ पशूनु᳘पजीवन्ति॥

मूलम् - विस्वरम्

अथाजलोमान्याच्छिद्य, उदीचः प्राचः पशून् प्रसृजति । एषा होभयेषां देवमनुष्याणां दिक्- यदुदीची प्राची । एतस्यां तद्दिशि पशून्दधाति । तस्मादुभये देवमनुष्याः पशूनुपजीवन्ति ॥ २२ ॥

सायणः

अत्र सूत्रम्- “अजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति”**- (का. श्रौ. सू. १६ । ८४ ।) इति । तद् विधत्ते- अथाजलोमानीति । ‘उदीचः प्राचः’ ईशानदिगभिमुखान् ‘प्रसृजति’ विसृजेत् । तां दिशं प्रशंसति- एषा होभयेषामिति । गतमन्यत् ॥ २२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (६-४-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठे काण्डे चतुर्थो ऽध्यायः समाप्तः ॥ ६-४ ॥

Eggeling
  1. He then cuts off some goat’s hair, and lets loose the animals towards the north-east; for this, the north-east, is the region of both gods and men: he thus bestows cattle on that region, and hence both gods and men subsist on cattle.

  1. 224:1 For the ceremony of ’equipping’ Agni, see part i, p. 276, note 1. ↩︎

  2. अश्वप्रभृतीनभिमंत्रयते स जात स्थिरो भव शिवो भवेति । का. श्रौ. सू. १६ । ७८ ↩︎

  3. 224:2 Viz. inasmuch as fire may be elicited from dry wood. See also I, 6, 4, 5, where Soma, frequently identified with Agni (see VI, 5, 1, 1), is said at new moon to come down to the earth, and enter the waters and plants in order to be born anew from them. ↩︎

  4. सुख᳘दस्त्व᳘ A first hand. ↩︎

  5. 225:1 Literally, Agni’s bearer of what is suitable for the cattle, or perhaps, be thou, for Agni, the bearer of (himself) favourable to cattle;–‘paśavya’ being here as elsewhere used (see p. 201, note 1) to explain ‘purīsha,’ that which fills, the mould or soil used as mortar for the layers of bricks, in building up the fire-altar. ↩︎

  6. धारयत्येषामुपरि पिंडमनुपस्पृशन्प्रैतु व्वाजी व्वृषा ऽग्निमित्यश्वखरयोः । का० श्रौ० सू० १६ । ७९ । ↩︎ ↩︎

  7. 225:2 On account of his being compared with the horse, Sāy. The author probably alludes to the dejected, spiritless look of the ass, as compared with that of the horse. The word ‘śuc’ might, however, perhaps also be taken in the sense of ‘fervour, fire.’ ↩︎

  8. आयन्त्यावर्त्य पशूनजः पुरस्ताद्रासभो मध्ये । का. श्रौ. सू. १६ । ८१ । ↩︎ ↩︎

  9. 227:1 See VI, 3, 2, 6 seq. ↩︎

  10. अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति । का. श्रौ. सू. १६ । ८२ । ↩︎

  11. 228:1 See VII, 1, 1, 9. ↩︎

  12. 228:2 The lump of clay is deposited on a raised mound (or perhaps rather on a cut-out piece of ground, uddhata), in an enclosed shed, (with a door on the east side) north of the Āhavanīya. ↩︎

  13. व्विपाजसेति प्रमुच्यैनम् का. श्रौ. सू. १६ । ८४ । ↩︎