०१

विश्वास-प्रस्तुतिः

अ᳘थ त᳘त्राप᳘ ऽउपनि᳘नयति॥
यद्वा᳘ ऽअस्यै᳘ क्षतं यद्वि᳘लिष्टमद्भिर्व्वै तत्स᳘न्धीयते ऽद्भि᳘रे᳘वास्या ऽएत᳘त्क्षतं व्वि᳘लिष्टᳫँ᳭ स᳘न्तनोति स᳘न्दधाति॥

मूलम् - श्रीधरादि

अ᳘थ त᳘त्राप᳘ ऽउपनि᳘नयति॥
यद्वा᳘ ऽअस्यै᳘ क्षतं यद्वि᳘लिष्टमद्भिर्व्वै तत्स᳘न्धीयते ऽद्भि᳘रे᳘वास्या ऽएत᳘त्क्षतं व्वि᳘लिष्टᳫँ᳭ स᳘न्तनोति स᳘न्दधाति॥

मूलम् - Weber

अ᳘थ त᳘त्राप᳘ उपनि᳘नयति॥
यद्वा᳘ अस्यै᳘ क्षतं यद्वि᳘लिष्टमद्भिर्वै तत्सं᳘धीयते ऽद्भि᳘रेॗवास्या एत᳘त्क्षतं वि᳘लिष्टᳫं सं᳘तनोति सं᳘दधाति॥

मूलम् - विस्वरम्

अथ तत्राप उपनिनयति । यद्वा ऽअस्यै क्षतम्, यद्विलिष्टम्- अद्भिर्वै तत् सन्धीयते । अद्भिरेवास्या ऽएतत् क्षतं विलिष्टं सन्तनोति, सन्दधाति ॥ १ ॥

सायणः

कात्यायन- “अपः श्वोभ्रो ऽवनयत्यपो देवीरिति” (का. श्रौ. सू. १६ । ७१) इति । उदकं निनयेत् । तद्विधत्ते- अथ तत्राप उपनिनयतीति । अनन्तरं ‘तत्र’ ‘अपः’ ‘निनयेत्’ आसिञ्चेत् । तत् प्रशंसति- यद्वा अस्यै क्षतमिति । ‘अस्यै’ षष्ठ्यर्थः । पृथिव्याः यत् ‘क्षतं’ खण्डितम्, ‘यत्’ च ‘विलिष्टम्,’ “लिश अल्पीभावे”- (धा. पा. दि. आ. ७३) अल्पं स्थलम्, ‘तत्’ सर्वं स्थलम् ‘अद्भिः’ ‘सन्धीयते’ जलसन्धाने हि विषमं स्थलं समं भवति । तस्मादापः कुण्डे निधेयाः ॥ १ ॥

Eggeling
  1. He then pours water into it (the hole), for whatever is injured or torn in this earth that is healed by water: by means of the water he thus joins together and heals what is injured and torn in her.

p. 221

०२

विश्वास-प्रस्तुतिः

(त्य) अपो᳘ देवीरु᳘पसृज॥
म᳘धुमतीरयक्ष्मा᳘य प्रजा᳘भ्य ऽइ᳘ति र᳘सो वै म᳘धु र᳘सवतीरयक्ष्मत्वा᳘य प्रजा᳘भ्य ऽइ᳘त्येतत्ता᳘सामास्था᳘नादु᳘ज्जिहतामो᳘षधयः सुपिप्पला ऽइ᳘त्यपां वा᳘ ऽआस्था᳘नादु᳘ज्जिहत ऽओ᳘षधयः सुपिप्पलाः[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अपो᳘ देवीरु᳘पसृज॥
म᳘धुमतीरयक्ष्मा᳘य प्रजा᳘भ्य ऽइ᳘ति र᳘सो वै म᳘धु र᳘सवतीरयक्ष्मत्वा᳘य प्रजा᳘भ्य ऽइ᳘त्येतत्ता᳘सामास्था᳘नादु᳘ज्जिहतामो᳘षधयः सुपिप्पला ऽइ᳘त्यपां वा᳘ ऽआस्था᳘नादु᳘ज्जिहत ऽओ᳘षधयः सुपिप्पलाः[[!!]]॥

मूलम् - Weber

अपो᳘ देवीरु᳘पसृज॥
म᳘धुमतीरयक्ष्मा᳘य प्रजा᳘भ्य इ᳘ति र᳘सो वै म᳘धु र᳘सवतीरयक्ष्मत्वा᳘य प्रजा᳘भ्य इ᳘त्येतत्ता᳘सामास्था᳘नादु᳘ज्जिहतामो᳘षधयः सुपिप्पला इ᳘त्यपां वा᳘ आस्था᳘नादु᳘ज्जिहत ओ᳘षधयः सुपिप्पलाः᳟॥

मूलम् - विस्वरम्

“अपो देवीरूपसृज मधुमतीरयक्ष्माय प्रजाभ्यः”- इति । रसो वै मधु । रसवतीरयक्ष्मत्वाय प्रजाभ्य इत्येतत् । “तासामास्थानादुज्जिहतामोषधयः सुपिप्पलाः”- (वा. सं. ११ । ३८) इति । अपां वा ऽआस्थानादुज्जिहत ऽओषधयः सुपिप्पलाः ॥ २ ॥

सायणः

मन्त्रं विधत्ते- अपो देवीरिति । अत्राग्निः सम्बोध्यते । ‘प्रजाभ्यः’ प्रजानाम् ‘अयक्ष्माय’ यक्ष्मा व्याधिः तदभावाय, ‘मधुमतीः’ रसवतीः ‘देवीः’ द्योतमानाः ‘अपः’ ‘उपसृज’ आसिञ्च । आसां भूमिगतानामपाम् ‘आस्थानात्’ उदकसंसृष्टभूदेशात् ‘सुपिप्पलाः’ पिप्पलं पक्वं फलम्, सुफलाः, ‘ओषधयः’ फलपाकान्ताः शाल्यादयः ‘उज्जिहताम्’ उद्गच्छन्तु, रोहन्तु । “ओहाङ् गतौ” (धा. पा. जु. आ. ७) । ‘अयक्ष्माय’ इति पदं भावत्वेन व्याचष्टे- अयक्ष्मत्वायेति ॥ २ ॥

Eggeling
  1. [Vāj. S. XI, 38] ‘Let flow the divine waters, the honey-sweet, for health, for progeny!’–honey means sap (essence): thus, ’the sapful, for health, for progeny;’–‘from their seed let plants spring forth, full-berried!’ for full-berried plants indeed spring forth from the seat of the waters.

०३

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थैनां व्वायु᳘ना स᳘न्दधाति॥
यद्वा᳘ ऽअस्यै᳘ क्षतं यद्वि᳘लिष्टं व्वायु᳘ना वै तत्स᳘न्धीयते व्वायु᳘नै᳘वास्या ऽएत᳘त्क्षतं व्वि᳘लिष्टᳫँ᳭ स᳘न्तनोति स᳘न्दधाति॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थैनां व्वायु᳘ना स᳘न्दधाति॥
यद्वा᳘ ऽअस्यै᳘ क्षतं यद्वि᳘लिष्टं व्वायु᳘ना वै तत्स᳘न्धीयते व्वायु᳘नै᳘वास्या ऽएत᳘त्क्षतं व्वि᳘लिष्टᳫँ᳭ स᳘न्तनोति स᳘न्दधाति॥

मूलम् - Weber

अ᳘थैनां वायु᳘ना सं᳘दधाति॥
यद्वा᳘ अस्यै᳘ क्षतं यद्वि᳘लिष्टं वायु᳘ना वै तत्सं᳘धीयते वायु᳘नैॗवास्या एत᳘त्क्षतं वि᳘लिष्टᳫं सं᳘तनोति सं᳘दधाति॥

मूलम् - विस्वरम्

अथैनां वायुना सन्दधाति । यद्वा ऽअस्यै क्षतम्, यद्विलिष्टम्- वायुना वै तत् सन्धीयते । वायुनैवास्या एतत् क्षतं विलिष्टं सन्तनोति सन्दधाति ॥ ३ ॥

सायणः

अत्र सूत्रम्- “सन्त इति वातमपक्षिपति”- (का. श्रौ. सू. १६ । ७२) इति । “सन्ते वायुर्मातरिश्वा”- इति मन्त्रेण वायुमवक्षिपेत्, मन्त्रपाठेनावटे वायुं पूरयेत् । तदिदं विधत्ते- अथैनां वायुना सन्दधातीति । ‘एनां’ खननभूमिम् । सन्धानवाक्यस्यार्थ इदानीमुक्तः । वायुना संधानं प्रशंसति- यद्वा अस्यै क्षतमिति । यथा लोके क्षतं श्वभ्रं निम्नस्थलं वायुना सन्धीयते । वायुसञ्चालितैः पर्णकण्टकादिकैः पूर्यते, एवमत्रापीति मन्तव्यम् ॥ ३ ॥

Eggeling
  1. He then heals her with air 1; for whatever is injured and torn in this earth that is healed by the air: by means of air he thus joins together and heals what is injured and torn in her.

०४

विश्वास-प्रस्तुतिः

स᳘न्ते व्वायु᳘र्मातरि᳘श्वा दधात्वि᳘ति॥
(त्य) अयं वै᳘ व्वायु᳘र्मातरि᳘श्वा᳘ यो ऽयं प᳘वत ऽउत्ताना᳘या हृ᳘दयं यद्वि᳘कस्तमि᳘त्युत्ताना᳘या᳘ ह्यस्या ऽएतद्धृ᳘दयं व्वि᳘कस्तं यो᳘ देवा᳘नां च᳘रसि प्राण᳘थेने᳘त्येष हि स᳘र्व्वेषां देवा᳘नां च᳘रति प्राण᳘थेन क᳘स्मै देव व्वषडस्तु[[!!]] तु᳘भ्यमि᳘ति प्रजा᳘पतिर्व्वै कस्त᳘स्मा ऽए᳘वैत᳘दिमां व्व᳘षट्करोति᳘ नो हैता᳘वत्यन्या᳘ ऽऽहुतिरस्ति य᳘थैषा᳘॥

मूलम् - श्रीधरादि

स᳘न्ते व्वायु᳘र्मातरि᳘श्वा दधात्वि᳘ति॥
(त्य) अयं वै᳘ व्वायु᳘र्मातरि᳘श्वा᳘ यो ऽयं प᳘वत ऽउत्ताना᳘या हृ᳘दयं यद्वि᳘कस्तमि᳘त्युत्ताना᳘या᳘ ह्यस्या ऽएतद्धृ᳘दयं व्वि᳘कस्तं यो᳘ देवा᳘नां च᳘रसि प्राण᳘थेने᳘त्येष हि स᳘र्व्वेषां देवा᳘नां च᳘रति प्राण᳘थेन क᳘स्मै देव व्वषडस्तु[[!!]] तु᳘भ्यमि᳘ति प्रजा᳘पतिर्व्वै कस्त᳘स्मा ऽए᳘वैत᳘दिमां व्व᳘षट्करोति᳘ नो हैता᳘वत्यन्या᳘ ऽऽहुतिरस्ति य᳘थैषा᳘॥

मूलम् - Weber

सं᳘ ते वायु᳘र्मातरि᳘श्वा दधात्वि᳘ति॥
अयं वै᳘ वायु᳘र्मातरि᳘श्वाॗ यो ऽयम् प᳘वत उत्ताना᳘या हृ᳘दयं यद्वि᳘कस्तमि᳘त्युत्ताना᳘या ह्य᳘स्या एतद्धृ᳘दयं वि᳘कस्तं यो᳘ देवा᳘नां च᳘रसि प्राण᳘थेने᳘त्येष हि स᳘र्वेषां देवा᳘नां च᳘रति प्राण᳘थेन क᳘स्मै देव व᳘षडस्तु तु᳘भ्यमि᳘ति प्रजा᳘पतिर्वै कस्त᳘स्मा एॗवैत᳘दिमां व᳘षट्करोतिॗ नो हैता᳘वत्यन्या᳘हुतिरस्ति य᳘थैषा᳟॥

मूलम् - विस्वरम्

“सन्ते वायुर्मातरिश्वा दधातु”- इति । अयं वै वायुर्मातरिश्वा- यो ऽयं पवते । “उत्तानाया हृदयं यद्विकस्तम्”- इति । उत्तानाया ह्यस्या एतद्धृदयं विकस्तम् । “यो देवानां चरसि प्राणथेन"- इति । एष हि सर्वेषां देवानां चरति प्राणथेन । “कस्मै देव वषडस्तु तुभ्यम्”- (वा० सं० ११ । ३९) इति । प्रजापतिर्वै कः । तस्मा एवैतदिमां वषट् करोति । नो हैतावत्यन्या ऽऽहुतिरस्ति- यथैषा ॥ ४ ॥

सायणः

मन्त्रं विधत्ते- सन्ते वायुरिति । पूर्वो ऽर्द्धर्चः, पृथिवीदेवत्यः, उत्तरो वायव्यः । ‘उत्तानायाः’ उन्मुखतया विस्तृतायाः ‘ते’ तव पृथिव्याः ‘यत्’ ‘हृदयं’ ‘विकस्तम्’ अवटकरणेन खातम् तत् ‘मातरिश्वा’ मातरि अन्तरिक्षे श्वसिति पवते इति ‘मातरिश्वा’ वायुः, ‘सन्दधातु’ सम्पूरयतु । उत्तरार्द्धे वायुं सम्बोध्योच्यते । ‘यः’ च त्वं ‘देवानाम्’ अग्न्यादीनां वागादिदेवानां वा ‘प्राणथेन’ प्राणत्वेन ‘चरसि’ । वायौ सति वागादीन्द्रियाणि चेष्टन्ते । हे ‘देव’ द्योतमान वायो ! ‘कस्मै’ कः प्रजापतिः तद्रूपाय ‘तुभ्यं’ ‘वषट् अस्तु’ । इयं पृथिवी वषड्भूता भवतु । ‘क’- पदस्यार्थमाह- प्रजापतिर्वै कः- इति । वषट्करणेनाहुतिः कार्येति कृत्वा प्रशंसति- नो हैतावत्यन्या ऽऽहुतिरिति । ‘यथा’ ‘एषा’ आहुतिः सन्धानकरी, एवमन्या नास्तीत्यर्थः ॥ ४ ॥

Eggeling
  1. [Vāj. S. XI, 39] ‘May Vāyu Mātariśvan heal,’–Vāyu Mātariśvan, doubtless, is he (the wind) that blows yonder;–’the broken heart of thee stretched out with upward look!’ for this (hole) is the broken heart of this earth stretched out with upward look;–’thou who goest along by the breath of the gods,’–for he (the wind) indeed goes along by means of the breath of all the gods;–’to thee, Ka, be vashaṭ (success), O god!’–Ka (‘Who?’) doubtless is Prajāpati, for him he makes this earth to be the Vashaṭ, for there is so far no other oblation than that.

०५

विश्वास-प्रस्तुतिः

(षा᳘ ऽथै) अ᳘थैनां दिग्भिः स᳘न्दधाति॥
यद्वा᳘ ऽअस्यै᳘ क्षतं यद्वि᳘लिष्टं दिग्भिर्व्वै तत्स᳘न्धीयते दिग्भि᳘रे᳘वास्या ऽएत᳘त्क्षतं व्वि᳘लिष्टᳫँ᳭ स᳘न्तनोति स᳘न्दधाति स᳘ ऽइमां᳘ चेमां᳘ च दि᳘शौ स᳘न्दधाति त᳘स्मादेते दि᳘शौ स᳘ᳫँ᳘हिते ऽअ᳘थेमां᳘ चेमां᳘ च त᳘स्माद्वे᳘वैते स᳘ᳫँ᳘हिते ऽइत्यग्रे ऽथे᳘ति॥ अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा ऽन᳘या ऽन᳘या वै᳘ भेषजं᳘ क्रियते ऽन᳘यै᳘वैनामेत᳘द्भिषज्यति॥

मूलम् - श्रीधरादि

(षा᳘ ऽथै) अ᳘थैनां दिग्भिः स᳘न्दधाति॥
यद्वा᳘ ऽअस्यै᳘ क्षतं यद्वि᳘लिष्टं दिग्भिर्व्वै तत्स᳘न्धीयते दिग्भि᳘रे᳘वास्या ऽएत᳘त्क्षतं व्वि᳘लिष्टᳫँ᳭ स᳘न्तनोति स᳘न्दधाति स᳘ ऽइमां᳘ चेमां᳘ च दि᳘शौ स᳘न्दधाति त᳘स्मादेते दि᳘शौ स᳘ᳫँ᳘हिते ऽअ᳘थेमां᳘ चेमां᳘ च त᳘स्माद्वे᳘वैते स᳘ᳫँ᳘हिते ऽइत्यग्रे ऽथे᳘ति॥ अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा ऽन᳘या ऽन᳘या वै᳘ भेषजं᳘ क्रियते ऽन᳘यै᳘वैनामेत᳘द्भिषज्यति॥

मूलम् - Weber

अ᳘थैनां दिग्भिः सं᳘दधाति॥
यद्वा᳘ अस्यै᳘ क्षतं यद्वि᳘लिष्टं दिग्भिर्वै तत्सं᳘धीयते दिग्भि᳘रेॗवास्या एत᳘त्क्षतं वि᳘लिष्टᳫं सं᳘तनोति सं᳘दधाति स᳘ इमां᳘ चेमां᳘ च दि᳘शौ सं᳘दधाति त᳘स्मादेते दि᳘शौ स᳘ᳫं᳘हिते अ᳘थेमां᳘ चेमां᳘ च त᳘स्माद्वेॗवैते स᳘ᳫं᳘हिते इत्यग्रे ऽथे᳘ति 2 अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देवॗत्रान᳘यान᳘या वै᳘ भेषजं᳘ क्रियते ऽन᳘यैॗवैनामेत᳘द्भिषज्यति॥

मूलम् - विस्वरम्

अथैनां दिग्भिः सन्दधाति । यद्वा ऽअस्यै क्षतम्, यद्विलिष्टम्- दिग्भिर्वै तत् सन्धीयते । दिग्भिरेवास्या एतत् क्षतं विलिष्टं सन्तनोति सन्दधाति । स इमां चेमां च दिशौ सन्दधाति । तस्मादेते दिशौ संहिते । अथेमां चेमां च । तस्माद्वेवैते संहिते इत्यग्रे, अथेति, अथेति, अथेति- तद्दक्षिणा ऽऽवृत् । तद्धि देवत्रा । अनया । अनया वै भेषजं क्रियते । अनयैवैनामेतद् भिषज्यति ॥ ५ ॥

सायणः

कात्यायनः- “अनामिकया संवपति पुरस्तात् पश्चाद् दक्षिणत उत्तरतश्च”- (का. श्रौ. सू. १६ । ७३) अनामिकाङ्गुल्या अवटस्य पुरस्तात् प्राच्या दिशः सकाशात् ‘पांसुम्’ अवटे संवपेत् । एवं प्रत्यगादिदिग्भ्यः सकाशात् । तत् विधत्ते- अथैनां दिग्भिः सन्दधातीति । तत्र क्रमं विधत्ते- स इमां चेमां च दिशौ सन्दधातीति । ‘इमामिमाम्’ इत्यभिनयेन प्राक्प्रतीच्या दिशौ विवक्ष्येते । एतयोर्विवक्षायां कारणमाह- ‘एते दिशौ’ ‘संहिते’ । इमामिति लोकप्रसिद्धे प्राक्प्रतीच्याविति युज्यते, पुनः ‘इमाञ्च’- इत्यनेन दक्षिणोदीच्यौ दिशौ विवक्ष्येते । अत्रापि संहितत्वमेव कारणम् । अथ चतुर्द्दिशं सन्धानप्रकारमभिनयेन दर्शयति- इत्यग्रे ऽथेति । ‘इति’ एवम् ‘अग्रे’ प्रथमं प्राचीं दिशमित्यर्थः । इतरदिक्क्रियापेक्षया ‘अथेति’- पदत्रयम् । उत्तरतः समापनं प्रशंसति- तद् दक्षिणा ऽऽवृदिति । ‘तत्’ कर्म दक्षिणमावृदावर्त्तनं समापनं यस्य तद् भवति । ‘तद्’ दक्षिणावर्त्तनं कर्म ‘देवत्रा’ देवेषु तदर्हं भवतीत्यर्थः । तां चात्र करणभूतामङ्गुलिमभिनयेन दर्शयति- अनयेति । ‘अनया’ अनामिकाङ्गुल्या; भैषज्यक्रियासाधनत्वमस्या अङ्गुलेः प्रसिद्धमिति शब्दार्थः ॥ ५ ॥

Eggeling
  1. He then heals her by means of the quarters, for whatever is injured and torn in this earth, that is healed by the quarters: by means of the quarters he thus draws and joins together what is injured and torn in her. He joins together this and this quarter 3, whence these two quarters are joined

p. 222

together; then this one and this one, whence these two also are joined together: first thus, then thus; then thus, then thus. This is moving (from left) to right, for so (it goes) to the gods: with this and this one a means of healing is prepared; with this and this one he heals.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ कृष्णाजिनं᳘ च पुष्करपर्णं᳘ च समु᳘द्गृह्णाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘न्या तद्रे᳘तः सिक्त᳘ᳫँ᳘ समु᳘द्गृह्णाति त᳘स्माद्यो᳘न्या रे᳘तः सिक्त᳘ᳫँ᳘ समु᳘द्गृह्यते सु᳘जातो ज्यो᳘तिषा सह श᳘र्म व्व᳘रूथमा᳘सद᳘त्स्वरि᳘ति[[!!]] सु᳘जातो᳘ ह्येष ज्यो᳘तिषा सह श᳘र्म चैतद्व᳘रूथं च स्वश्चासी᳘दति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ कृष्णाजिनं᳘ च पुष्करपर्णं᳘ च समु᳘द्गृह्णाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘न्या तद्रे᳘तः सिक्त᳘ᳫँ᳘ समु᳘द्गृह्णाति त᳘स्माद्यो᳘न्या रे᳘तः सिक्त᳘ᳫँ᳘ समु᳘द्गृह्यते सु᳘जातो ज्यो᳘तिषा सह श᳘र्म व्व᳘रूथमा᳘सद᳘त्स्वरि᳘ति[[!!]] सु᳘जातो᳘ ह्येष ज्यो᳘तिषा सह श᳘र्म चैतद्व᳘रूथं च स्वश्चासी᳘दति[[!!]]॥

मूलम् - Weber

अ᳘थ कृष्णाजिनं᳘ च पुष्करपर्णं᳘ च समु᳘द्गृह्णाति॥
यो᳘निर्वै᳘ पुष्करपर्णं यो᳘न्या तद्रे᳘तः सिक्त᳘ᳫं᳘ समु᳘द्गृह्णाति त᳘स्माद्यो᳘न्या रे᳘तः सिक्त᳘ᳫं᳘ समु᳘द्गृह्यते सु᳘जातो ज्यो᳘तिषा सह श᳘र्म व᳘रूथमा᳘सदत्स्व᳘रि᳘ति सु᳘जातोॗ ह्येष ज्यो᳘तिषा सह श᳘र्म चैतद्व᳘रूथं च स्व᳘श्चासी᳘दति॥

मूलम् - विस्वरम्

अथ कृष्णाजिनं च पुष्करपर्णं च समुद्गृह्णाति । योनिर्वै पुष्करपर्णम् । योन्या तद् रेतः सिक्तं समुद्गृह्णाति । तस्माद्योन्या रेतः सिक्तं समुद्गृह्यते । “सुजातो ज्योतिषा सह शर्म वरूथमासदत् स्वः"- इति । सुजातो ह्येष ज्योतिषा सह शर्म चैतद्वरूथं च स्वश्चासीदति ॥ ६ ॥

सायणः

अथास्तीर्णयोः कृष्णाजिनपुष्करपर्णयोः अन्तोद्ग्रहणं विधत्ते- अथ कृष्णाजिनं 4 चेति । ‘उद्ग्रहणम्’ ऊर्द्ध्वकरणम् । पुष्करपर्णस्य योनित्वं प्रागुक्तम् । तद् विधते- सुजात इति । ‘ज्योतिषा’ ‘सह’ संयुक्तः सुजातो ऽयमग्निः ‘वरूथं’ वरणीयं, ‘स्वः’ स्वर्गाख्यं, ‘शर्म’ शरणं गृहम् ‘आसदत्’ आसीददिति । सदेर्लुङि च्लेरङि रूपम् ॥ ६ ॥

Eggeling
  1. He then takes up together the black antelope skin and the lotus-leaf; for the lotus-leaf is the womb, and with the womb he takes up that infused seed: whence the infused seed is taken up by the womb. [He does so, with, Vāj. S. XI, 40] ‘Wellborn with splendour, the refuge and shelter, hath he settled down in the light;’ for well-born he is, and he settles down in the refuge, and shelter, and light.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमु᳘पनह्यति॥
यो᳘नौ तद्रे᳘तो युनक्ति त᳘स्माद्यो᳘नौ रे᳘तो युक्तं न नि᳘ष्पद्यते यो᳘क्त्रेण यो᳘क्त्रेण हि यो᳘ग्यं युञ्ज᳘न्ति मौञ्जे᳘न त्रिवृ᳘ता त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमु᳘पनह्यति॥
यो᳘नौ तद्रे᳘तो युनक्ति त᳘स्माद्यो᳘नौ रे᳘तो युक्तं न नि᳘ष्पद्यते यो᳘क्त्रेण यो᳘क्त्रेण हि यो᳘ग्यं युञ्ज᳘न्ति मौञ्जे᳘न त्रिवृ᳘ता त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थैनमु᳘पनह्यति॥
यो᳘नौ तद्रे᳘तो युनक्ति त᳘स्माद्यो᳘नौ रेतो युक्तं न नि᳘ष्पद्यते यो᳘क्त्रेण यो᳘क्त्रेण हि यो᳘ग्यं युञ्ज᳘न्ति मौञ्जे᳘न त्रिवृ᳘ता त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथैनमुपनह्यति । योनौ तद्रेतो युनक्ति । तस्माद्योनौ रेतो युक्तं न निष्पद्यते । योक्त्रेण । योक्त्रेण हि योग्यं युञ्जन्ति । मौञ्जेन त्रिवृता । तस्योक्तो बन्धुः ॥ ७ ॥

सायणः

अथ कृष्णाजिनपुष्करपर्णयोरुद्गृहीतत्वात् त्रिवृता मुञ्जयोक्त्रेण बध्नीयादिति विधत्ते- अथैनमुपनह्यतीति 5 । “णह बन्धने”- (धा. पा. दि. प. ६०) । न निष्पद्यत इति । निष्पततीत्यर्थः । ‘योक्त्रेण’ दाम्ना ‘योग्यं’ योजनीयम्, अश्वाननादिबन्धनं च मौञ्जेन करणीयम् । तत्र “त्रिवृत्”- इत्यत्र पूर्वमुक्तं (श. प. ६ । ३ । १ । २७) ब्राह्मणमतिदिशति- तस्योक्तो बन्धुरिति ॥ ७ ॥

Eggeling
  1. He then ties it (the lump) up: he thereby keeps the seed within the womb; whence the seed kept within the womb does not escape. With a string (he ties it), for with the string they yoke the draught beast;–with a triple one of reed grass: the significance of this has been told 6.

०८

विश्वास-प्रस्तुतिः

(स्त) तत्प᳘र्यस्यति॥
व्वा᳘सो ऽअग्ने व्विश्व᳘रूपᳫँ᳭ सं᳘व्ययस्व व्विभावसवि᳘ति व्वरु᳘ण्या वै᳘ यज्ञे रज्जुर᳘वरुण्य᳘मे᳘वैनदेत᳘त्कृत्वा[[!!]] य᳘था व्वा᳘सः प᳘रिधाप᳘येदेवं प᳘रिधापयति॥

मूलम् - श्रीधरादि

(स्त) तत्प᳘र्यस्यति॥
व्वा᳘सो ऽअग्ने व्विश्व᳘रूपᳫँ᳭ सं᳘व्ययस्व व्विभावसवि᳘ति व्वरु᳘ण्या वै᳘ यज्ञे रज्जुर᳘वरुण्य᳘मे᳘वैनदेत᳘त्कृत्वा[[!!]] य᳘था व्वा᳘सः प᳘रिधाप᳘येदेवं प᳘रिधापयति॥

मूलम् - Weber

तत्प᳘र्यस्यति॥
वा᳘सो अग्ने विश्व᳘रूपᳫं सं᳘व्ययस्व विभावसवि᳘ति वरुॗण्या वै᳘ यज्ञे र᳘ज्जुरवरुण्य᳘मेॗवैनदेत᳘त्कृत्वा य᳘था वा᳘सः परिधाप᳘येदेवम् प᳘रिधापयति॥

मूलम् - विस्वरम्

तत्पर्यस्यति । “वासो ऽअग्ने विश्वरूपं संव्ययस्व विभावसो”- (वा० सं० ११ । ४०) इति । वरुण्या वै यज्ञे रज्जुः । अवरुण्यमेवैनदेतत् कृत्वा यथा वासः परिधापयेद्- एवं परिधापयति ॥ ८ ॥

सायणः

पूर्वमश्वरासभाजान् पशून् प्रस्तुत्य, ते मौञ्जीभिरभिधानीभिरभिहिता भवन्तीत्यादिना त्रिवृतो भवन्तीत्यनेन च रशनाविधानमुक्तम् (श. प. ६ । ३ । १ । २६ । २७) अथ योक्त्रस्य समन्त्रं वेष्टनं विधत्ते- तत् पर्यस्यति वास इति (का. श्रौ. सू. १६ । ७५) । ‘तत्’ योक्त्रं ‘पर्यस्यति’ परिवेष्टयति । हे ‘विभावसो’ दीप्तिभिर्वासयितः, दीप्तिधन ! वा हे ‘अग्ने’ ‘विश्वरूपं’ विचित्ररूपं ‘वासः’ ‘संव्ययस्व’ । “व्येञ् संवरणे” (धा. पा. भ्वा. उ. १०३२) । परिधत्स्व । योक्त्रबन्धने वासः संव्ययस्वेति वस्त्रपरिधापनोक्तेस्तात्पर्यमाह- वरुण्या वै यज्ञ इति । ‘यज्ञे’ हि ‘रज्जुः’ ‘वरुण्या’ वरुणदेवत्या भवति (श. प. १ । ३ । १ । १२ । १३ भाष्ये) । यथा- योक्त्रपरित्यागे- “प्र त्वा मुञ्चामि वरुणस्य पाशात्”- इति मन्त्रः, नैवम्; इह तु एतद् योक्त्रम् ‘अवरुण्यं कृत्वा’ ‘यथा वासः परिधापयेत्’ ‘एवं तत्’ इत्यभिप्रायेण “वासः ०-० संव्ययस्व” इत्युक्तम् । पाशस्यैव हि वरुणो देवता, न वासस इत्यर्थः ॥ ८ ॥

Eggeling
  1. He lays it round (the skin), with, ‘Invest thyself, O lustrous Agni, in the many-coloured garment!’ In the sacrifice the cord is Varuṇic; having thereby made it non-Varuṇic, he makes him put on (the skin) as one would make a garment be put on.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमादायो᳘त्तिष्ठति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ए᳘षो ऽग्नि᳘रमुं त᳘दादित्यमु᳘त्थापयत्यु᳘दु तिष्ठ स्वध्वरे᳘त्यध्वरो वै᳘ यज्ञ ऽउ᳘दु तिष्ठ सुयज्ञिये᳘त्येतद᳘वा नो देव्व्या᳘ धिये᳘ति या᳘ ते दै᳘वी धीस्त᳘या नो ऽवे᳘त्येत᳘द्दृशे᳘ च भासा᳘ बृहता᳘ सुशुक्व᳘निरि᳘ति द᳘र्शनाय च भासा᳘ बृहता[[!!]] सुशुक्व᳘निरि᳘त्येत᳘दा ऽग्ने याहि सुशस्ति᳘भिरि᳘ति ये व्वो᳘ढारस्ते᳘ सुशस्त᳘य᳘ ऽआ ऽग्ने याहि व्वो᳘ढृभिरि᳘त्येतत् [[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमादायो᳘त्तिष्ठति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ए᳘षो ऽग्नि᳘रमुं त᳘दादित्यमु᳘त्थापयत्यु᳘दु तिष्ठ स्वध्वरे᳘त्यध्वरो वै᳘ यज्ञ ऽउ᳘दु तिष्ठ सुयज्ञिये᳘त्येतद᳘वा नो देव्व्या᳘ धिये᳘ति या᳘ ते दै᳘वी धीस्त᳘या नो ऽवे᳘त्येत᳘द्दृशे᳘ च भासा᳘ बृहता᳘ सुशुक्व᳘निरि᳘ति द᳘र्शनाय च भासा᳘ बृहता[[!!]] सुशुक्व᳘निरि᳘त्येत᳘दा ऽग्ने याहि सुशस्ति᳘भिरि᳘ति ये व्वो᳘ढारस्ते᳘ सुशस्त᳘य᳘ ऽआ ऽग्ने याहि व्वो᳘ढृभिरि᳘त्येतत् [[[!!]]॥

मूलम् - Weber

अ᳘थैनमादायो᳘त्तिष्ठति॥
असौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रमु त᳘दादित्यमु᳘त्थापयत्यु᳘दु तिष्ठ स्वध्वरे᳘त्यध्वरो वै᳘ यज्ञ उ᳘दु तिष्ठ सुयज्ञिये᳘त्येतद᳘वा नो देव्या᳘ धिये᳘ति या᳘ ते दै᳘वी धीस्त᳘या नो ऽवे᳘त्येत᳘द्दूशे᳘ च भासा᳘ बृहता᳘ सुशुक्व᳘निरि᳘ति द᳘र्शनाय च भासा᳘ बृहता᳘ सुशुक्व᳘निरि᳘त्येतॗदाग्ने याहि सुशस्ति᳘भिरि᳘ति ये वो᳘ढारस्ते᳘ सुशस्त᳘यॗ आग्ने याहि वो᳘ढृभिरि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथैनमादायोत्तिष्ठति । असौ वा ऽआदित्यः । एषो ऽग्निः । अमुं तदादित्यमुत्थापयति । “उदु तिष्ठ स्वध्वर”- इति । अध्वरो वै यज्ञः । उदु तिष्ठ सुयज्ञियेत्येतत् । “अवा नो देव्या धिया”- इति । या ते दैवी धीः- तया नो ऽवेत्येतत् । “दृशे च भासा बृहता सुशुक्वनिः”- इति । दर्शनाय च भासा बृहता सुशुक्वनिरित्येतत् । “आ ऽग्ने याहि सुशस्तिभिः”- (वा. सं. ११ । ४१) इति । ये वोढारस्ते सुशस्तयः । आ ऽग्ने याहि वोढृभिरित्येतत् ॥ ९ ॥

सायणः

विधत्ते- अथैनमादायोत्तिष्ठतीति 7 । ‘एनं’ मृत्पिण्डमादाय ऊर्द्ध्वस्तिष्ठेत् । तत् प्रशंसति- असौ वा आदित्य इति । “त्रेधा ऽऽत्मानं विकरोति,- अग्निं तृतीयं, वायुं तृतीयम्, आदित्यं तृतीयम्”- (तै. ब्रा. १ । ७। १। २) इति श्रुतेः । मृत्पिण्डो ऽग्निरिति चोक्तम् । मृदमादायोत्थानेन अमुमादित्यमेवोत्थापितवान् भवतीति ॥

मन्त्रं विधत्ते- उदु तिष्ठ स्वध्वरेतीति । हे ‘स्वध्वर’ सुयज्ञ ! ‘उत्तिष्ठ’ ‘उ’- शब्दो ऽप्यर्थः । अपि च ‘देव्या’ देवसम्बन्धिन्या ‘धिया’ बुद्ध्या ‘नः’ अस्मान् ‘अव’ पालय । ‘दृशे’ दर्शनाय ‘बृहता भासा’ प्रौढेन तेजसा ‘सुशुक्वनिः’ अत्यन्तं दीप्यमानः ‘सुशस्तिभिः’ शोभनशिक्षितैः ‘वोढृभिः’ अश्वैः ‘आयाहि’ आगच्छ ‘अग्ने !’ मृद्रूप इति । सुशस्तिभिरितिपदस्यार्थमाह- ये वोढारस्ते सुशस्तय इति ॥ ९ ॥

Eggeling
  1. He then takes it and rises;–that Agni being yonder sun, he thus causes yonder sun to rise;–with (Vāj. S. XI, 41) 8, ‘Rise, thou of good rites,’–the sacrifice doubtless is a rite: thus, ‘rise thou, well

p. 223

worthy of sacrifice;’–‘Guard us with godly wisdom!’–that is, ‘whatever divine wisdom is thine, therewith guard us!’–‘Most brilliant to see with great light,’–that is, ‘in order to be seen most brilliant with great light;’–‘hither, O Agni, come thou with praises!’–the praises 9 are the steeds: thus, ‘hither, O Agni, come with the steeds.’

१०

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थैनमित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं प्र᳘गृह्णाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ए᳘षो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ ऽइत᳘ ऽऊर्ध्वः प्रा᳘ङ् धीयत ऽऊर्ध्व᳘ ऽऊ षु᳘ ण ऽऊत᳘ये ति᳘ष्ठा देवो न᳘ सविते᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरूर्ध्वो व्वा᳘जस्य स᳘निते᳘त्यूर्ध्वो वा᳘ ऽएष ति᳘ष्ठन्वा᳘जम᳘न्नᳫँ᳭ सनोति य᳘दञ्जि᳘भिर्व्वाघ᳘द्भिर्व्विह्व᳘यामह ऽइ᳘ति रश्म᳘यो वा᳘ ऽएत᳘स्याञ्ज᳘यो व्वाघ᳘तस्ता᳘नेत᳘दाह परोबाहु प्र᳘गृह्णाति परोबाहु᳘ ह्येष᳘ ऽइतो᳘ ऽथैनमुपा᳘वहरति त᳘मुपावहृ᳘त्योपरि नाभि᳘ धारयति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थैनमित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं प्र᳘गृह्णाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ए᳘षो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ ऽइत᳘ ऽऊर्ध्वः प्रा᳘ङ् धीयत ऽऊर्ध्व᳘ ऽऊ षु᳘ ण ऽऊत᳘ये ति᳘ष्ठा देवो न᳘ सविते᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरूर्ध्वो व्वा᳘जस्य स᳘निते᳘त्यूर्ध्वो वा᳘ ऽएष ति᳘ष्ठन्वा᳘जम᳘न्नᳫँ᳭ सनोति य᳘दञ्जि᳘भिर्व्वाघ᳘द्भिर्व्विह्व᳘यामह ऽइ᳘ति रश्म᳘यो वा᳘ ऽएत᳘स्याञ्ज᳘यो व्वाघ᳘तस्ता᳘नेत᳘दाह परोबाहु प्र᳘गृह्णाति परोबाहु᳘ ह्येष᳘ ऽइतो᳘ ऽथैनमुपा᳘वहरति त᳘मुपावहृ᳘त्योपरि नाभि᳘ धारयति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

अ᳘थैनमित᳘ ऊर्ध्वम् प्रा᳘ञ्चम् प्र᳘गृह्णाति॥
असौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऊर्ध्वम् प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ इत᳘ ऊर्ध्वः प्रा᳘ङ् धीयत ऊर्ध्व᳘ ऊ षु᳘ ण ऊत᳘ये ति᳘ष्ठा देवो न᳘ सविते᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरूर्ध्वो वा᳘जस्य स᳘निते᳘त्यूर्ध्वो वा᳘ एष ति᳘ष्ठन्वा᳘जम᳘न्नᳫं सनोति य᳘दञ्जिभिर्वाघ᳘द्भिर्विह्व᳘यामह इ᳘ति रश्म᳘यो वा᳘ एत᳘स्याञ्ज᳘यो वाघ᳘तस्ता᳘नेत᳘दाह परोबाहु प्र᳘गृह्णाति परोबाहुॗ ह्येष᳘ इतो᳘ ऽथैनमुपा᳘वहरति त᳘मुपावहृ᳘त्योपरिनाभि᳘ धारयति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

अथैनमित ऊर्ध्वं प्राञ्चं प्रगृह्णाति । असौ वा ऽआदित्यः । एषो ऽग्निः । अमुं तदादित्यमित ऊर्द्ध्वं प्राञ्चं दधाति । तस्मादसावादित्य इत ऊर्द्ध्वः प्राङ् धीयते । “ऊर्द्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता”- इति । यथैव यजुस्तथा बन्धुः । “ऊर्द्ध्वो वाजस्य सनिता”- इति । ऊर्द्ध्वो वा ऽएष तिष्ठन् वाजमन्नं सनोति । “यदञ्जिभिर्वाघद्भिर्विह्वयामहे”- (वा० सं० ११ । ४२) इति । रश्मयो वा ऽएतस्याञ्जयो वाघतः । तानेतदाह । परोबाहु प्रगृह्णाति । परोबाहु ह्येष इतः । अथैनमुपावहरति । तमुपावहृत्योपरि नाभि धारयति । तस्योपरि बन्धुः ॥ १० ॥

सायणः

अत्र सूत्रम्,- “ऊर्द्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्द्ध्व ऊ षु ण इति । अवहृत्योपरिनाभि धारयन्” (का. श्रौ. सू. १६ । ७७ । ७८) इति । तदूर्द्ध्वधारणं विधत्ते- अथैनमित ऊर्द्ध्वमिति । ‘इतः’ भूमेः सकाशात् ‘ऊर्द्ध्वम्’ प्राङ्मुखं प्रगृह्णीयात् । असौ वा आदित्य इत्यादि पूर्ववद् व्याख्येयम् । मन्त्रं विधत्ते- इत ऊर्द्ध्वः प्राङ् धीयत ऊर्ध्व इति । ‘नः’ अस्माकम् ‘ऊतये’ तर्पणाय सुष्ठु ‘ऊर्द्ध्वः’ ‘तिष्ठ’ । तत्रोपमामाह- देव इति । ‘न’ शब्द उपमार्थः । यथा सविता देवः ‘वाजस्य’ अन्नस्य ‘सनिता’ सम्भक्ता ‘ऊर्द्ध्वः’ तिष्ठति ‘यद्’ यस्मात् ‘अञ्जिभिः’ अभिव्यञ्जकैः ‘वाघद्भिः’ रश्मिभिः उपलक्षितं त्वां ‘विह्वयामहे’ बहुविधमाह्वयामः । अत्र मन्त्रे पूर्वार्द्धं निगदव्याख्यातमिति दर्शयति- यथैव यजुः, तथा बन्धुरिति । उत्तरार्द्धे ‘वाजस्य’- इत्यादेरर्थमाह- ** ऊर्द्ध्वो वा एष तिष्ठन्नि**त्यादिना । पूर्वमित ऊर्द्ध्वमिति सामान्येनोक्तम्, तद् विशिनष्टि- परोबाहु प्रगृह्णातीति । बाह्वोः परस्तात् अनूर्द्ध्वो बाहुः, प्राञ्चमित्युद्गृह्णीते । मृत्पिण्डस्याधोनयनं विधत्ते- अथैनमुपावहरतीति । उपावहरणस्य अवधिं दर्शयति- तमुपावहृत्येति । उपरिनाभि धारणस्य स्तावकं ब्राह्मणमित्यतिदिशति-तस्योपरि बन्धुरिति । रुक्मधारणप्रस्तावे “यद्वेवोपरिनाभि अवाग् के नामे रेतः प्रजातिरिति ०-० एतद्वै पशोर्मेध्यतरं यदुपरिनाभि” (श. प. ६ । ७ । १ । ९ । १० कं.) इति च ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे चतुर्थे ऽध्याये तृतीयं ब्राह्मणम् ॥ (६-४-३)॥

Eggeling
  1. He then lifts it upwards from there towards the east; for this Agni is yonder sun: he thus places yonder sun upwards from here in the east, and hence yonder sun is placed upwards from here in the east. [He does so, with, Vāj. S. XI, 42; R̥k S. I, 36, 13] ‘Upright for our protection, stand thou like the god Savitr̥!’–as the text, so its meaning;–‘upright, as a bestower 10 of strength,’–for standing upright he (the sun) indeed bestows 10 strength, food;–‘when we utter our call with the shining offerers’–the shining offerers 11, doubtless, are his (the sun’s) rays: it is these he means. He lifts it up beyond the reach of his arms, for beyond the reach of his arms is that (sun) from here. He then lowers it; and having lowered it, he holds it above the navel: the meaning of this (will be explained) hereafter 12.

  1. 221:1 Viz. by fanning air into the hole with the hand. ↩︎

  2. ऽथे᳘ति । अथे॰ A. ऽथे᳘ति अथे BC. ↩︎

  3. 221:2 With his ’nameless’ (or little) finger, he pushes some of the loose soil into the hole, first from the front (east) and back (west) . sides, and then from the right (south) and left (north) sides. Thus, according to Kāty. XVI, 3, 4, the sunwise movement is p. 222 obtained by the hand moving from east (along the south) to west, and then from south (along the west) to north. ↩︎

  4. आस्तीर्णयोरंतानुद्गृह्णाति सुजात इति । का. श्रौ. सू. १६ । ७४ । ↩︎

  5. त्रिवृता मुञ्जयोक्त्रेणोपनयति व्वासो ऽअग्न इति । का. श्रौ. सू० १६ । ७५ ॥ ↩︎

  6. 222:1 See VI, 3 1, 27. ↩︎

  7. उत्तिष्ठति पिण्डमादायोदु तिष्ठेति । का. श्रौ. सू. १६ । ७६ । ↩︎

  8. 222:2 See R̥k S. VIII, 23, 5, differing considerably. ↩︎

  9. 223:1 The author might seem to connect ‘śasti’ (in suśasti) with ‘śās,’ to rule, control, instead of with ‘śams,’ to praise; Sāyaṇa, however, takes ‘suśasti’ as a bahuvrīhi, ‘with the praiseworthy,’ i.e. with the steeds deserving praise, because they draw well (śobhanā śastir eshām . . . sādhu vahanty aśvāḥ). It is indeed not improbable that this was the author’s intention. ↩︎

  10. 223:2 Or, a winner–wins. ↩︎ ↩︎

  11. 223:3 Añjayo vāghataḥ. See p. 217, note 2. ↩︎

  12. 223:4 See VI, 7, 1, 8 seq. ↩︎