०१

विश्वास-प्रस्तुतिः

अ᳘थ मृत्पिण्ड᳘मभिमृशति[[!!]]॥
पुरी᳘ष्यो ऽसी᳘ति पश᳘व्यो ऽसी᳘त्येत᳘द्विश्व᳘भरा ऽइ᳘त्येष᳘ हीदᳫँ᳭ स᳘र्व्वं बिभर्त्य᳘थर्व्वा त्वा प्रथमो नि᳘रमन्थदग्न ऽइ᳘ति प्राणो वा ऽअ᳘थर्व्वा प्राणो वा᳘ ऽएतम᳘ग्रे नि᳘रमन्थत्त᳘द्यो ऽसाव᳘ग्रे ऽग्निर᳘सृज्यत᳘ सो ऽसी᳘ति त᳘दाह त᳘मे᳘वैनमेत᳘त्करोति॥

मूलम् - श्रीधरादि

अ᳘थ मृत्पिण्ड᳘मभिमृशति[[!!]]॥
पुरी᳘ष्यो ऽसी᳘ति पश᳘व्यो ऽसी᳘त्येत᳘द्विश्व᳘भरा ऽइ᳘त्येष᳘ हीदᳫँ᳭ स᳘र्व्वं बिभर्त्य᳘थर्व्वा त्वा प्रथमो नि᳘रमन्थदग्न ऽइ᳘ति प्राणो वा ऽअ᳘थर्व्वा प्राणो वा᳘ ऽएतम᳘ग्रे नि᳘रमन्थत्त᳘द्यो ऽसाव᳘ग्रे ऽग्निर᳘सृज्यत᳘ सो ऽसी᳘ति त᳘दाह त᳘मे᳘वैनमेत᳘त्करोति॥

मूलम् - Weber

अ᳘थ मृत्पिण्ड᳘मभि᳘मृशति॥
पुरीॗष्यो ऽसी᳘ति पशॗव्यो ऽसी᳘त्येत᳘द्विश्व᳘भरा इ᳘त्येषॗ हीदᳫं स᳘र्वम् बिभर्त्य᳘थर्वा त्वा प्रथमो नि᳘रमन्थदग्न इ᳘ति प्राणो वा अ᳘थर्वा प्राणो वा᳘ एतम᳘ग्रे नि᳘रमन्थत्तॗद्यो ऽसाव᳘ग्रे ऽग्निर᳘सृज्यतॗ 1 सो ऽसी᳘ति त᳘दाह त᳘मेवैनमेत᳘त्करोति॥

मूलम् - विस्वरम्

अथ मृत्पिण्डमभिमृशति । “पुरीष्यो ऽसि”- इति । पशव्यो ऽसीत्येतत् । “विश्वंभराः”- इति । एष हीदं सर्वं बिभर्ति । “अथर्वा त्वा प्रथमो निरमन्थदग्ने”- (वा० सं० ११ । ३२) इति । प्राणो वा ऽअथर्वा, प्राणो वा ऽएतमग्रे निरमन्थत् । तद् यो ऽसावग्रे ऽग्निरसृज्यत- सो ऽसीति । तदाह । तमेवैनमेतत्करोति ॥ १ ॥

सायणः

कात्यायनः- “पिण्डं पुरीष्यो ऽसीति, पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां, दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्वं सकृद् धृत्वा, पुष्करपर्णे निदधाति”- (का. श्रौ. सू. १६ । ६९ । ७०) “त्वामग्ने”- इत्यादिभिः षड्भिः ऋग्भिः यावदपेक्षितां मृदं ‘सर्वं’ ‘सकृत्’ एकवारमेव गृहीत्वा ‘पुष्करपर्णे’ निदध्यादिति । तदिदं द्वितीयम् । प्रथमतो ‘मृत्पिण्डं’ “पुरीष्यो ऽसि” इति मन्त्रेण आलभते । अथ दक्षिणोत्तराभ्यां ‘पाणिभ्याम्’ ‘एनं’ ‘परिगृह्णाति’ । तत्र ‘दक्षिणः’ हस्तः ‘साभ्रिः’ अभ्रिसहितः, वामस्तु केवलः । अथ तद् ब्राह्मणेन विधीयते- अथ मृत्पिण्डमिति ॥

मृत्पिण्डाभिमर्शनयजुषो ऽयमर्थः- हे ‘अग्ने !’ त्वम् ‘पुरीष्यः’ पशुहितः ‘असि,’ ‘विश्वम्भराः’ भूलोकस्य सर्वस्य धारकश्च; चीयमानाग्नेर्विराड्रूपत्वात् । ‘अथर्वा’ अरणवान्, प्राणः ‘प्रथमः’ पूर्वः ‘त्वा’ त्वां ‘निरमन्यत्’ निर्मथितवान् । पुरीष्यो ऽसीति सिद्धवत्कथनेन यदुक्तम्, तदुपपादयति- पशव्यो ऽसीति । “प्राणो वा अथर्वा”- इत्यर्थवादादस्य सिद्धवदर्थकथनम्- तद् यो ऽसावग्रे ऽग्निरसृज्यत सो ऽसीतीति । पूर्वं यो ऽग्निः सृष्टः, तमेतं पुरीष्यो ऽसीत्यनेनोक्तवान् भवतीत्यर्थः ॥ १ ॥

Eggeling
  1. He then touches the lump of clay, with (Vāj. S. XI, 32), ‘Thou art the Purīshya 2,’–that is, ‘Thou art favourable to cattle; all-supporting,’–for he (Agni) indeed supports everything here;–‘Atharvan was the first that kindled thee, O Agni!’–Atharvan doubtless is the breath, and the breath indeed churned him out (produced him) at first: ‘Thou art that Agni who was produced at first,’ this he means to say; and that same (Agni) he thus makes it (the lump) to be.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं प᳘रिगृह्णाति॥
(त्य᳘) अ᳘भ्र्या च दक्षिणतो ह᳘स्तेन च ह᳘स्तेनै᳘वोत्तरतस्त्वा᳘मग्ने पु᳘ष्करादध्य᳘थर्व्वा नि᳘रमन्थतेत्या᳘पो वै पु᳘ष्करं प्राणो᳘ ऽथर्व्वा प्राणो वा᳘ ऽएतम᳘ग्रे ऽद्भ्यो नि᳘रमन्थन्मूर्ध्नो व्वि᳘श्वस्य व्वाघ᳘त ऽइ᳘त्यस्य स᳘र्व्वस्य मूर्ध्न ऽइ᳘त्येतत्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं प᳘रिगृह्णाति॥
(त्य᳘) अ᳘भ्र्या च दक्षिणतो ह᳘स्तेन च ह᳘स्तेनै᳘वोत्तरतस्त्वा᳘मग्ने पु᳘ष्करादध्य᳘थर्व्वा नि᳘रमन्थतेत्या᳘पो वै पु᳘ष्करं प्राणो᳘ ऽथर्व्वा प्राणो वा᳘ ऽएतम᳘ग्रे ऽद्भ्यो नि᳘रमन्थन्मूर्ध्नो व्वि᳘श्वस्य व्वाघ᳘त ऽइ᳘त्यस्य स᳘र्व्वस्य मूर्ध्न ऽइ᳘त्येतत्॥

मूलम् - Weber

अ᳘थैनम् प᳘रिगृह्णाति॥
अ᳘भ्र्या च दक्षिणतो ह᳘स्तेन च ह᳘स्तेनैॗवोत्तरतस्त्वा᳘मग्ने पु᳘ष्करादध्य᳘थर्वा नि᳘रमन्थतेत्या᳘पो वै पु᳘ष्करम् प्राणो᳘ ऽथर्वा प्राणो वा᳘ एतम᳘ग्रे ऽद्भ्यो नि᳘रमन्थन्मूर्ध्नो वि᳘श्वस्य वाघ᳘त इ᳘त्यस्य स᳘र्वस्य मूर्ध्न इ᳘त्येतत्॥

मूलम् - विस्वरम्

अथैनं परिगृह्णाति- अभ्र्या च, दक्षिणतो हस्तेन च । हस्तेनैवोत्तरतः । “त्वामग्ने पुष्करादध्यथर्वा निरमन्थत”- इति । आपो वै पुष्करम्, प्राणो ऽथर्वा । प्राणो वा ऽएतमग्रे ऽद्भ्यो निरमन्थत् । “मूर्ध्ना विश्वस्य वाघतः”- (वा. सं ११ । ३२) इति । अस्य सर्वस्य मूर्ध्न इत्येतत् ॥ २ ॥

सायणः

अथैनमिति । ‘परिगृह्णाति’ मृत्पिण्डं धारयन् प्राङ्मुखस्याध्वर्योः ‘दक्षिणतः’ प्रदेशे वर्तमानः, दक्षिणो हस्तः साभ्रिः, उत्तरतः केवलः, ताभ्यां पाणिभ्यां धारयेत । ग्रहणमन्त्रान् विधत्ते- त्वामग्ने पुष्करादधि- इत्यारभ्य ताः षट् सम्पद्यन्ते- इत्यतः प्राक्तनेन । तत्राद्यास्तिस्रो गायत्र्यः, त्रिष्टुभौ द्वे, षष्ठी बृहती । “त्वामग्ने” इत्यस्यायमर्थः- हे ‘अग्ने’ ‘त्वाम्’ ‘अथर्वा’ अरणशीलः प्राणः, ‘पुष्करात्’ उदकात्, ‘अधि’- शब्दः पञ्चम्यर्थानुवादी, ‘निरमन्थत’ । अग्निं विशिनष्टि- विश्वस्य वाघत इति । ‘मूर्ध्नः’ मूर्द्धानम् । कर्म्मणि षष्ठी । पुष्कराथर्वपदयोरर्थमाह- आपो वै पुष्करं प्राणो ऽथर्वेति ॥ २ ॥

Eggeling
  1. He then takes hold of it with the (right) hand and spade on the right side; and with the (left) hand on the left side, with, ‘From the lotus Atharvan churned thee forth,’–the lotus doubtless means the waters, and Atharvan is the breath; and the breath indeed churned him (Agni, the fire) out of the waters at first;–‘from the head of every offerer 3,’–that is, ‘from the head of this All (universe).’

०३

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘मु त्वा दध्यङ्ङृ᳘षिः॥
पुत्र᳘ ईधे ऽअ᳘थर्व्वण ऽइ᳘ति व्वाग्वै᳘ दध्य᳘ङ्ङाथर्व्वणः स᳘ एनं त᳘त ऽऐन्द्ध व्वृत्रह᳘णं पुरन्दरमि᳘ति पाप्मा वै᳘ व्वृत्रः᳘ पाप्मह᳘नं पुरन्दरमि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘मु त्वा दध्यङ्ङृ᳘षिः॥
पुत्र᳘ ईधे ऽअ᳘थर्व्वण ऽइ᳘ति व्वाग्वै᳘ दध्य᳘ङ्ङाथर्व्वणः स᳘ एनं त᳘त ऽऐन्द्ध व्वृत्रह᳘णं पुरन्दरमि᳘ति पाप्मा वै᳘ व्वृत्रः᳘ पाप्मह᳘नं पुरन्दरमि᳘त्येतत्[[!!]]॥

मूलम् - Weber

त᳘मु त्वा दध्यङ्ङृ᳘षिः॥
पुत्र᳘ ईधे अ᳘थर्वण इ᳘ति वाग्वै᳘ दध्य᳘ङ्ङाथर्वणः स᳘ एनं त᳘त ऐन्द्ध वृत्रह᳘णम् पुरंदरमि᳘ति पाप्मा वै᳘ वृत्रः᳘ पाप्मह᳘नम् पुरंदरमि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“तमु त्वा दध्यङ्ङृषिः पुत्र ईधे ऽअथर्वणः”- इति । वाग्वै दध्यङ्ङाथर्वणः । स एनं तत ऐन्द्ध । “वृत्रहणं पुरन्दरम्”- (वा. सं. ११ । ३३) इति । पाप्मा वै वृत्रः । पाप्महनं पुरन्दरमित्येतत् ॥ ३ ॥

सायणः

द्वितीयामृचं विधत्ते- तमु त्वा दध्यङ्ङिति । ‘अथर्वणः पुत्रः’ ‘दध्यङ्’ नाम ऋषिः ‘वृत्रहणं’ वृत्रस्य पाप्मनः हन्तारम्, ‘पुरन्दरं’ असुरपुराणां दारयितारं ‘त्वाम्’ एव ‘ईधे’ दीपयति । “ञिइन्धी दीप्तौ” (धा. पा. रु. आ. ११) । लिटि “इन्धिभवतिभ्याञ्च”- (पा. सू. १ । २ । ६) इति कित्त्वान्नलोपः । दध्यङ्ङाथर्वण इति मधुप्रवचनात् वाक्त्वेन श्रुतिः ॥ ३ ॥

Eggeling
  1. [Vāj. S. XI, 33; R̥k S. VI, 16, 14] ‘Also the sage Dadhyañc, the son of Atharvan, kindled thee;’–Dadhyañc, the Ātharvana, doubtless is speech; and he did kindle him therefrom;–‘as the Vr̥tra-slayer, the breaker of strongholds,’–Vr̥tra is evil, thus: ‘as the slayer of evil, the breaker of strongholds.’

०४

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘मु त्वा पाथ्यो व्वृ᳘षा॥
स᳘मीधे दस्युह᳘न्तममि᳘ति म᳘नो वै᳘ पाथ्यो व्वृ᳘षा स᳘ ऽएनं त᳘त ऽऐन्द्ध धनञ्जयᳫँ᳭ र᳘णेरण ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘मु त्वा पाथ्यो व्वृ᳘षा॥
स᳘मीधे दस्युह᳘न्तममि᳘ति म᳘नो वै᳘ पाथ्यो व्वृ᳘षा स᳘ ऽएनं त᳘त ऽऐन्द्ध धनञ्जयᳫँ᳭ र᳘णेरण ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

त᳘मु त्वा पाथ्यो वृ᳘षा॥
स᳘मीधे दस्युह᳘न्तममि᳘ति म᳘नो वै᳘ पाथ्यो वृ᳘षा स᳘ एनं त᳘त ऐन्द्ध धनंजयं र᳘णे-रण इ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम्”- इति । मनो वै पाथ्यो वृषा, स एनं तत ऐन्द्ध । “धनञ्जयं रणे रणे”- (वा. सं. ११ । ३४) इति । यथैव यजुस्तथा बन्धुः ॥ ४ ॥

सायणः

तृतीयामृचं विधत्ते- तमु त्वा पाथ्य इति । पाथो ऽन्नम्, तत्कार्यत्वात् तत्र भवः ‘पाथ्यः’ । “पाथोनदीभ्यां ड्यण्” (पा. सू. ४ । ४ । १११) बलम् । सर्वेन्द्रियानुग्राहकः । ‘पाथ्यो वृषा’- इति मन उच्यते; “मनो वै पाथ्यो वृषा”- इति श्रुतौ व्याख्यानात् । ‘दस्युहन्तमम्’ शत्रूणामतिशयेन हन्तारम्, ‘रणे’ संग्रामे ‘धनञ्जयं’ धनस्य जेतारं ‘त्वा’ त्वां ‘समीधे’ । तृतीयपादो विस्पष्टार्थत्वाद् व्याख्यातुं नार्हतीत्याह- यथैव यजुः, तथा बन्धुरिति ॥ ४ ॥

Eggeling
  1. [Vāj. S. XI, 34; R̥k S. VI, 16, 15] ‘Also Pāthya, the bull, kindled thee, as the greatest slayer of enemies,’–Pāthya, the bull, doubtless is the Mind, and he did kindle him therefrom;–‘as a winner of wealth in every battle,’–as the text, so its meaning.

०५

विश्वास-प्रस्तुतिः

(र्गा) गायत्री᳘भिः॥
प्राणो᳘ गायत्री᳘ प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति तिसृ᳘भिस्त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति ता᳘सां न᳘व पदा᳘नि न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(र्गा) गायत्री᳘भिः॥
प्राणो᳘ गायत्री᳘ प्राण᳘मे᳘वास्मिन्नेत᳘द्दधाति तिसृ᳘भिस्त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्ता᳘ने᳘वास्मिन्नेत᳘द्दधाति ता᳘सां न᳘व पदा᳘नि न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ ता᳘ने᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

गायत्री᳘भिः॥
प्राणो गायत्री᳘ प्राण᳘मेॗवास्मिन्नेत᳘द्दधाति न्नेत᳘द्दधाति ता᳘सां न᳘व पदा᳘नि न᳘व वै᳘ प्राणाः᳘ सप्त᳘तिसृ᳘भिस्त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदानो᳘ व्यानस्ता᳘नेॗवास्मि शीर्षन्न᳘वाञ्चो द्वौ ता᳘नेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

गायत्रीभिः । प्राणो गायत्री । प्राणमेवास्मिन्नेतद्दधाति । तिसृभिः । त्रयो वै प्राणाः- प्राण उदानो व्यानः । तानेवास्मिन्नेतद्दधाति । तासां नव पदानि । नव वै प्राणाः- सप्त शीर्षन्, अवाञ्चौ द्वौ । तानेवास्मिन्नेतद्दधाति ॥ ५ ॥

सायणः

उक्तानां तिसृणामृचां गायत्रीच्छन्दस्त्वमनूद्य प्रशंसति- गायत्रीभिः प्राण इति । गायत्र्याः प्राणरूपत्वमुक्तम् । मन्त्रगतत्रित्वसंख्यां प्राणोदानव्यानात्मना प्रशंसति- तिसृभिस्त्रयो वै प्राणा इति । एकैकस्या गायत्र्या ऋचः त्रयस्त्रयः पादाः । तासां नव पादान् सम्भूय नवप्राणात्मना प्रशंसति- तासां नव पदानि, नव वै प्राणा इति । एतेन मन्त्रत्रयेण मृत्पिण्डस्य परिग्रहे तस्यां मृदि प्राणानेव संहितवान् भवतीत्यर्थः ॥ ५ ॥

Eggeling
  1. With Gāyatrī verses (he performs),–the Gāyatrī is the vital air: he thus lays vital air into him. With three (verses);–there are three vital airs, the out-breathing, the in-breathing, and the through-breathing: these he thus lays into him. These (verses) consist of nine feet, for there are nine vital airs, seven in the head, and two downward ones: these he thus lays into him.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैते᳘ त्रिष्टु᳘भा ऽउ᳘त्तरे भवतः॥
(ऽ) आत्मा वै त्रिष्टु᳘बात्मा᳘नमे᳘वास्यैता᳘भ्याᳫँ᳭ सं᳘स्करोति सी᳘द होतः स्व᳘ ऽउ लोके᳘ चिकित्वानि᳘त्यग्निर्व्वै हो᳘ता त᳘स्यैष स्वो᳘ लोको य᳘त्कृष्णाजिनं᳘ चिकित्वानि᳘ति व्विद्वानि᳘त्येत᳘त्साद᳘या यज्ञ᳘ᳫँ᳘ सुकृत᳘स्य यो᳘नावि᳘ति कृष्णाजिनं वै᳘ सुकृत᳘स्य यो᳘निर्देवावी᳘र्द्देवा᳘न्हवि᳘षा यजासी᳘ति देवः स᳘न्देवान᳘वन्हवि᳘षा यजासी᳘त्येतद᳘ग्ने बृहद्य᳘जमाने व्व᳘यो धा ऽइ᳘ति य᳘जमानायाशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैते᳘ त्रिष्टु᳘भा ऽउ᳘त्तरे भवतः॥
(ऽ) आत्मा वै त्रिष्टु᳘बात्मा᳘नमे᳘वास्यैता᳘भ्याᳫँ᳭ सं᳘स्करोति सी᳘द होतः स्व᳘ ऽउ लोके᳘ चिकित्वानि᳘त्यग्निर्व्वै हो᳘ता त᳘स्यैष स्वो᳘ लोको य᳘त्कृष्णाजिनं᳘ चिकित्वानि᳘ति व्विद्वानि᳘त्येत᳘त्साद᳘या यज्ञ᳘ᳫँ᳘ सुकृत᳘स्य यो᳘नावि᳘ति कृष्णाजिनं वै᳘ सुकृत᳘स्य यो᳘निर्देवावी᳘र्द्देवा᳘न्हवि᳘षा यजासी᳘ति देवः स᳘न्देवान᳘वन्हवि᳘षा यजासी᳘त्येतद᳘ग्ने बृहद्य᳘जमाने व्व᳘यो धा ऽइ᳘ति य᳘जमानायाशि᳘षमा᳘शास्ते॥

मूलम् - Weber

अ᳘थैते᳘ त्रिष्टु᳘भा उ᳘त्तरे भवतः॥
आत्मा वै त्रिष्टु᳘बात्मा᳘नमेवास्यैता᳘भ्याᳫं स᳘ᳫं᳘स्करोति सी᳘द होत स्व᳘ उ लोके᳘ चिकित्वानि᳘त्यग्निर्वै हो᳘ता त᳘स्यैष स्वो᳘ लोको य᳘त्कृष्णाजिनं᳘ चिकित्वानि᳘ति विद्वानि᳘त्येत᳘त्साद᳘या यज्ञ᳘ᳫं᳘ सुकृत᳘स्य यो᳘नावि᳘ति कृष्णाजिनं वै᳘ कुकृत᳘स्य यो᳘निर्देवावी᳘र्देवा᳘न्हवि᳘षा यजासी᳘ति देवः स᳘न्देवान᳘वन्हवि᳘षा᳘ 4 यजासी᳘त्येतद᳘ग्ने बृहद्य᳘जमाने व᳘यो धा इ᳘ति य᳘जमानायाशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

अथैते त्रिष्टुभा ऽउत्तरे भवतः । आत्मा वै त्रिष्टुप् । आत्मानमेवास्यैताभ्यां संस्करोति । “सीद होतः स्व ऽउ लोके चिकित्वान्”- इति । अग्निर्वै होता । तस्यैष स्वो लोको- यत् कृष्णाजिनम् चिकित्वान्- इति । विद्वानित्येतत् । “सादया यज्ञं सुकृतस्य योनौ”- इति । कृष्णाजिनं वै सुकृतस्य योनिः । “देवावीर्द्देवान् हविषा यजासि”- इति । देवः सन् देवानवन् हविषा यजासीत्येतत् । “अग्ने बृहद् यजमाने वयो धाः”- (वा० सं० ११ । ३५) इति । यजमानायाशिषमाशास्ते ॥ ६ ॥

सायणः

धारणमन्त्रेषु त्रिष्टुभावित्युक्तम्, तौ विधातुं तद्गतं छन्दः प्रशंसति- अथैतत्त्रिष्टुभा ऽउत्तरे भवत इति । त्रिष्टुभ आत्मरूपत्वं प्रागुक्तम्, ताभ्यां मन्त्राभ्यां धारणेन मृत्पिण्डस्यात्मानं स्वरूपमेव संस्कृतवान् भवति ॥

त्रिष्टुभौ विधत्ते- सीद होतरिति । हे ‘होतः !’ देवानामाह्वातः ! मृद्रूपाग्ने ! ‘स्वे’ स्वकीये कृष्णाजिने ‘सीद’ निषीद । ‘चिकित्वान्’ विद्वान्, अस्मदीयं कर्म जानन्, तथा ‘सुकृतस्य’ सुष्ठु क्रियमाणस्य कर्मणो ‘योनौ’ स्थाने ‘यज्ञं’ ‘सादय’ । कृष्णाजिने विस्तीर्यमाणे व्रीह्यवघातः पेषणं सोमनिधानादिकं च भवतीति ‘देवावीः’ । “अवितॄस्तृतन्त्रिभ्य ईः" (उ. ३ पा. १५८ सू.) । देवान् त्वं सपर्यन् ‘हविषा’ ‘अवन्’ ‘यजासि’ यजतेः पञ्चमे लकारे रूपम् । हे ‘अग्ने’ ! ‘यजमाने’ ‘बृहत्’ प्रभुतं ‘वयः’ धनं ‘धाः’ धेहि ॥ ६ ॥

Eggeling
  1. And these two following ones are Trishṭubhs,–(Vāj. S. XI, 35, 36; R̥k S. III, 29, 8; II, 9, 1). Now, the Trishṭubh is the body (self): it is his (Agni’s) body he makes up by means of these two

(verses). ‘Seat thee, O Hotr̥, in thine own place, thou, the mindful,’–the Hotr̥, doubtless, is Agni; and this, the black antelope skin, is indeed his own place; ’the mindful,’ that is, ’the wise one;’–’establish the sacrifice in the seat of the good work!’–the seat of the good work doubtless is the black antelope skin;–‘god-gladdening, thou shalt worship the gods with offering!’–that is, ‘being a god, gratifying the gods, thou shalt worship (them) with offering;’–‘Bestow, O Agni, great vigour upon the Sacrificer!’–thereby he implores a blessing upon the Sacrificer.

०७

विश्वास-प्रस्तुतिः

नि हो᳘ता होतृष᳘दने व्वि᳘दान ऽइ᳘ति॥
(त्य) अग्निर्व्वै हो᳘ता कृष्णाजिन᳘ᳫँ᳘ होतृष᳘दनं व्वि᳘दान ऽइ᳘ति व्विद्वानि᳘त्येत᳘त्त्वेषो᳘ दीदिवा᳘ २ँ॥ ऽअसदत्सुद᳘क्ष ऽइ᳘ति त्वे᳘षो दी᳘प्यमानो ऽसदत्सु᳘दक्ष ऽइ᳘त्येतद᳘दन्धव्व्रतप्रमतिर्व्व᳘सिष्ठ ऽइत्य᳘दब्धव्रतप्रमति᳘र्ह्येष व्व᳘सिष्ठः सहस्रम्भरः शु᳘चिजिह्वो ऽअग्निरि᳘ति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ सर्व्वम्भरः शु᳘चिजिह्वो ऽग्निरि᳘त्येतद्द्वा᳘भ्यामाग्नेयी᳘भ्यां त्रिष्टु᳘ब्भ्यां त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

नि हो᳘ता होतृष᳘दने व्वि᳘दान ऽइ᳘ति॥
(त्य) अग्निर्व्वै हो᳘ता कृष्णाजिन᳘ᳫँ᳘ होतृष᳘दनं व्वि᳘दान ऽइ᳘ति व्विद्वानि᳘त्येत᳘त्त्वेषो᳘ दीदिवा᳘ २ँ॥ ऽअसदत्सुद᳘क्ष ऽइ᳘ति त्वे᳘षो दी᳘प्यमानो ऽसदत्सु᳘दक्ष ऽइ᳘त्येतद᳘दन्धव्व्रतप्रमतिर्व्व᳘सिष्ठ ऽइत्य᳘दब्धव्रतप्रमति᳘र्ह्येष व्व᳘सिष्ठः सहस्रम्भरः शु᳘चिजिह्वो ऽअग्निरि᳘ति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ सर्व्वम्भरः शु᳘चिजिह्वो ऽग्निरि᳘त्येतद्द्वा᳘भ्यामाग्नेयी᳘भ्यां त्रिष्टु᳘ब्भ्यां त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

नि हो᳘ता होतृष᳘दने वि᳘दान इ᳘ति॥
अग्निर्वै हो᳘ता कृष्णाजिन᳘ᳫं᳘ होतृष᳘दनं विदान इ᳘ति विद्वानि᳘त्येत᳘त्त्वेषो᳘ दीदिवां᳘ असदत्सुद᳘क्ष इ᳘ति त्वेषो दी᳘प्यमानो ऽसदत्सु᳘दक्ष इ᳘त्येतद᳘दब्धव्रतप्रमतिर्व᳘सिष्ठ इत्य᳘दब्धव्रतप्रमतिॗर्ह्येष व᳘सिष्ठः सहस्रम्भरः शु᳘चिज्थ्वो अग्निरि᳘ति सर्वं वै᳘ सह᳘स्रᳫं सर्वम्भरः शु᳘चिजिह्वो ऽग्निरि᳘त्येतद्द्वा᳘भ्यामाग्नेयी᳘भ्यां त्रिष्टु᳘ब्भ्यां त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“नि होता होतृषदने विदानः”- इति । अग्निर्वै होता । कृष्णाजिनं होतृषदनम् । विदान इति- विद्वानित्येतत् । “त्वेषो दीदिवान् असदत् सुदक्षः”- इति । त्वेषो दीप्यमानो ऽसदत्सुदक्षः- इत्येतत् । “अदब्धव्रतप्रमतिर्वसिष्ठः”- इति । अदब्धव्रतप्रमतिर्ह्येष वसिष्ठः । “सहस्रम्भरः शुचिजिह्वो ऽअग्निः”- (वा. सं. ११ । ३६) इति । सर्वं वै सहस्रम् । सर्वम्भरः शुचिजिह्वो ऽग्निरित्येतत् । द्वाभ्यामाग्नेयीभ्यां त्रिष्टुब्भ्याम् । तस्योक्तो बन्धुः ॥ ७ ॥

सायणः

नि होतेति । मन्त्रं प्रतिपादमनूद्य व्याचष्टे- अग्निर्वै होतेति । ‘नि’- इत्युपसर्गः ‘असदद्’- इति क्रियया सम्बध्यते, निषीदति । ‘होता’ आह्वाता यो ऽग्निः, ‘होतृषदने’ अग्नेः सदने कृष्णाजिने ‘विदानः’ कर्म जानन्, ‘त्वेषः’ “त्विष दीप्तौ”- (धा. पा. भ्वा. उ. १००१) दीप्यमानः, ‘दीदिवान्,’ ‘सुदक्षः’ सुबलः, साधु क्षिप्रकारी वा ‘अदब्धव्रतप्रमतिः’ अनुपहतकर्मविषयप्रकृष्टमतिः ‘वसिष्ठः’ वसुमत्तरः, ‘सहस्रम्भरः’ सर्वस्य भर्त्ता, यद्वा “ह्वग्रहोर्भः”- (पा. सू. ८ । २ । ३२ वा.) सहस्रधा विह्रियमाणः । तथा चैतरेयब्राह्मणम्- “एष ह वा अस्य सहस्रंभरता यदेनमेकं सन्तं बहुधा विहरन्ति” इति । अनयोर्ऋचोर्द्वित्वसङ्ख्या ऽऽग्नेयत्रिष्टुप्स्तावकं ब्राह्मणमतिदिशति- तस्योक्तो बन्धुरिति । “आ त्वां जिघर्मि” इत्येताभ्यां व्यतिषक्ताभ्यामाहुतिद्वयं कार्यमित्यत्र प्रकरणे “द्वाभ्यामभिजुहोति- द्विपाद् यजमानः” (श. प. ६ । ३ । १ । २१) इत्यादिना ॥ ७ ॥

Eggeling
  1. ‘The Hotr̥, in the Hotr̥’s seat, the knowing,’–the Hotr̥, doubtless, is Agni; the Hotr̥’s seat is the black antelope skin; and the knowing 5 means the wise one;–’the impetuous and glowing one, of great power, hath sat down,’–that is, the impetuous and shining one, of great power, has sat down;–’the guardian of undisturbed rites, the most wealthy,’–for he indeed is the guardian of undisturbed rites, and the most wealthy;–’the bearer of thousands, the brilliant-tongued Agni,’–a thousand means all, thus, ’the all-bearer, the brilliant-tongued Agni.’ With two Trishṭubh (verses) relating to Agni (he performs): the meaning of this has been told.

०८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थैषा᳘ बृह᳘त्युत्तमा᳘ भवति॥
बृहतीं वा᳘ ऽएष स᳘ञ्चितो ऽभिस᳘म्पद्यते यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्य᳘देताम᳘त्र बृहतीं᳘ करो᳘ति त᳘स्मादेष स᳘ञ्चितो बृहती᳘मभिस᳘म्पद्यते॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थैषा᳘ बृह᳘त्युत्तमा᳘ भवति॥
बृहतीं वा᳘ ऽएष स᳘ञ्चितो ऽभिस᳘म्पद्यते यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्य᳘देताम᳘त्र बृहतीं᳘ करो᳘ति त᳘स्मादेष स᳘ञ्चितो बृहती᳘मभिस᳘म्पद्यते॥

मूलम् - Weber

अ᳘थैषा᳘ बृह᳘त्युत्तमा᳘ भवति॥
बृहतीं वा᳘ एष सं᳘चितो ऽभिस᳘म्पद्यते यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्य᳘देताम᳘त्र बृहतीं᳘ करो᳘ति त᳘स्मादेष सं᳘चितो बृहती᳘मभिस᳘म्पद्यते॥

मूलम् - विस्वरम्

अथैषा बृहत्युत्तमा भवति । बृहतीं वा ऽएष सञ्चितो ऽभिसम्पद्यते । यादृग्वै योनौ रेतः सिच्यते- तादृग् जायते । तद्यदेतामत्र बृहतीं करोति- तस्मादेष सञ्चितो बृहतीमभिसम्पद्यते ॥ ८ ॥

सायणः

षष्ठीमृचं विधातुं तद्गतं बृहतीच्छन्दः प्रशंसति- अथैषा बृहतीति । एषा वक्ष्यमाणा । बृहतीं वा एष इति । ‘सञ्चितः’ अग्निः ‘बृहतीम्’ ‘अभिसम्पद्यते’ सम्पत्त्यक्षरसङ्ख्याको भवति; अथाप्युत्तरत्र बृहतीसम्पत्तिराम्नास्यते । सामान्येनायं सम्पत्तिप्रकारः, संवत्सररूपो ऽग्निरिति प्रागुक्तम् । तत्र संवत्सरे द्वादश पौर्णमास्यः, द्वादश कृष्णाष्टम्यः, द्वादशामावास्याः, ताः षट्त्रिंशत् संवत्सरे धार्यमाणे ऽग्नौ सम्पद्यन्ते, बृहत्यपि षटूत्रिंशदक्षरेति तत्साम्यम् ।

एवं तर्हि अग्निचयनकर्मान्ते सम्पत्तिर्वक्तव्येति चेत्, तत्राह- यादृग्वै योनाविति । ‘योनौ यादृग् रेतः सिच्यते,’ ‘तादृग्’ एवोत्तरं ‘जायते’ । अत इदानीं बीजभूतमृद्रूपाग्नेः बृहत्या धारणे बृहत्यात्मकत्वमेव तस्य सम्पादितवान् भवति ॥ ८ ॥

Eggeling
  1. Then there is this last Br̥hatī verse, for this (fire-altar) when completely built up becomes like the Br̥hatī (the great) metre: whatlike seed is infused into the womb, suchlike is (the child) born; and because he now makes this verse a Br̥hatī,

therefore this (altar) when completely built up becomes like the Br̥hatī.

०९

विश्वास-प्रस्तुतिः

स᳘ᳫँ᳘सीदस्व महा᳘ २ँ॥ ऽअसी᳘ति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तᳫँ᳭ स᳘ᳫँ᳘सादयति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तᳫँ᳭ स᳘ᳫँ᳘सीदति शो᳘चस्व देववी᳘तम ऽइ᳘ति दी᳘प्यस्व देववी᳘तम ऽइ᳘त्येतद्वि᳘ धूमम᳘ग्ने ऽअरुषं᳘[[!!]] मियेध्य सृज᳘ प्रशस्त दर्शतमि᳘ति यदा वा᳘ ऽएष᳘ समिध्यते᳘ ऽथैष᳘ धूम᳘मरुषं व्वि᳘सृजते दर्शतमि᳘ति ददृश᳘ ऽइव᳘ ह्येषः᳘॥

मूलम् - श्रीधरादि

स᳘ᳫँ᳘सीदस्व महा᳘ २ँ॥ ऽअसी᳘ति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तᳫँ᳭ स᳘ᳫँ᳘सादयति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तᳫँ᳭ स᳘ᳫँ᳘सीदति शो᳘चस्व देववी᳘तम ऽइ᳘ति दी᳘प्यस्व देववी᳘तम ऽइ᳘त्येतद्वि᳘ धूमम᳘ग्ने ऽअरुषं᳘[[!!]] मियेध्य सृज᳘ प्रशस्त दर्शतमि᳘ति यदा वा᳘ ऽएष᳘ समिध्यते᳘ ऽथैष᳘ धूम᳘मरुषं व्वि᳘सृजते दर्शतमि᳘ति ददृश᳘ ऽइव᳘ ह्येषः᳘॥

मूलम् - Weber

स᳘ᳫं᳘सीदस्व महां᳘ असी᳘ति॥
इद᳘मेॗवैतद्रे᳘तः सिक्तᳫं स᳘ᳫं᳘सादयति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तᳫं स᳘ᳫं᳘सीदति शो᳘चस्व देववी᳘तम इ᳘ति दी᳘प्यस्व देववी᳘तम इ᳘त्येतद्वि᳘ धूम᳘मग्ने अरुष᳘म् मियेध्य सृज प्रशस्त दर्शतमि᳘ति यदा वा᳘ एष᳘ समिध्यते᳘ ऽथैष᳘ धूम᳘मरुषं वि᳘सृजते दर्शतमि᳘ति ददृश᳘ इवॗ ह्येषः᳟॥

मूलम् - विस्वरम्

“संसीदस्व महान् असि”- इति । इदमेवैतद् रेतः सिक्तं संसादयति । तस्माद्योनौ रेतः सिक्तं संसीदति । “शोचस्व देववीत्तमः"- इति । दीप्यस्व देववीतमः- इत्येतत् । “वि धूममग्ने ऽअरुषम्मियेध्य सृज प्रशस्त दर्शतम्”- (वा. सं. ११ । ३७) इति । यदा वा ऽएष समिध्यते- अथैष धूममरुषं विसृजते । दर्शतमिति । ददृश ऽइव ह्येषः ॥ ९ ॥

सायणः

तामृचं विधत्ते- संसीदस्व महानिति । हे ‘अग्ने’ ! मृद्रूप ! ‘संसीदस्व’ सम्यग् बीजात्मना ऽवतिष्ठस्व, यतो ‘महान्’ त्वम् ‘असि’ ‘देववीतमः’ अतिशयेन हविषा देवानां तर्पयितृतमः, त्वं ‘शोचस्व’ दीप्यस्व । हे ‘मियेध्य’ मेधो यज्ञस्तदर्हतीति हे ‘प्रशस्त’ प्रकर्षेण स्तुत ! अग्ने ! ‘दर्शतम्’ दर्शनीयम्, ‘अरुषम्’ अरोचमानं धूमं ‘विसृज’ ॥

मन्त्रं व्याचष्टे- इदमेवैतदिति । उत्पत्स्यमानाग्ने रेतोरूपत्वात् मृत्पिण्डस्य बाहुभ्यां धारणं नाम योनौ सिक्तस्य रेतसः संसादनमित्यर्थः । ‘धूमं विसृज’- इति यदुक्तम्, तदुपपादयति- यदा वा एष समिध्यत इति ॥ ९ ॥

Eggeling
  1. [Vāj. S. XI, 37; R̥k S. I, 36, 9] ‘Seat thee, thou art great,’–he now causes the infused seed to establish itself, whence the seed infused into the womb establishes itself;–‘burn thou, best gladdener of the gods!’–that is, ‘shine thou, best gladdener of the gods; send forth, O Agni, worthy partaker of the offering, thy showy, ruddy smoke!’ for when he (Agni) is kindled, he sends forth his ruddy smoke,–the showy, for it, as it were, shows itself.

१०

विश्वास-प्रस्तुतिः

(ष᳘ ताः) ताः षट् स᳘म्पद्यन्ते॥
ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति य᳘द्वेव᳘ संव्वत्सर᳘मभिसम्प᳘द्यते त᳘द्बृहती᳘मभिस᳘म्पद्यते बृहती हि᳘ संव्वत्सरो द्वा᳘दश पौर्णमा᳘स्यो द्वा᳘दशा᳘ष्टका द्वा᳘दशामावा᳘स्यास्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा बृहती तं᳘ दक्षिणत ऽउ᳘दञ्चमा᳘हरति दक्षिणतो वा ऽउ᳘दग्यो᳘नौ रे᳘तः सिच्यत ऽए᳘षो ऽअस्यैत᳘र्हि यो᳘निर᳘विच्छेदमा᳘हरति रे᳘तसो᳘ ऽविच्छेदाय॥

मूलम् - श्रीधरादि

(ष᳘ ताः) ताः षट् स᳘म्पद्यन्ते॥
ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति य᳘द्वेव᳘ संव्वत्सर᳘मभिसम्प᳘द्यते त᳘द्बृहती᳘मभिस᳘म्पद्यते बृहती हि᳘ संव्वत्सरो द्वा᳘दश पौर्णमा᳘स्यो द्वा᳘दशा᳘ष्टका द्वा᳘दशामावा᳘स्यास्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा बृहती तं᳘ दक्षिणत ऽउ᳘दञ्चमा᳘हरति दक्षिणतो वा ऽउ᳘दग्यो᳘नौ रे᳘तः सिच्यत ऽए᳘षो ऽअस्यैत᳘र्हि यो᳘निर᳘विच्छेदमा᳘हरति रे᳘तसो᳘ ऽविच्छेदाय॥

मूलम् - Weber

ताः षट् स᳘म्पद्यन्ते॥
ष᳘दृत᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मात्रा ता᳘वत्त᳘द्भवति य᳘द्वेव᳘ संवत्सर᳘मभिसम्प᳘द्यते त᳘द्बृहती᳘मभिस᳘म्पद्यते बृहती हि᳘ संवत्सरो द्वा᳘दश पौर्णमास्यो द्वा᳘दशा᳘ष्टका द्वा᳘दशामावास्यास्तत्ष᳘ट्त्रिंशत्ष᳘ट्त्रिंशदक्षरा बृहती तं᳘ दक्षिणत उ᳘दञ्चमा᳘हरति दक्षिणतो वा उ᳘दग्यो᳘नौ रे᳘तः सिच्यत ए᳘षो अस्यैत᳘र्हि यो᳘निर᳘विछेदमा᳘हरति रे᳘तसो᳘ ऽविछेदाय॥

मूलम् - विस्वरम्

ताः षट् सम्पद्यन्ते । षडृतवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद् भवति । यद्वेव संवत्सरमभिसम्पद्यते- तद्बृहतीमभिसम्पद्यते । बृहती हि संवत्सरः । द्वादश पौर्णमास्यो, द्वादशाष्टकाः, द्वादशामावास्याः । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती । तं दक्षिणत उदञ्चमाहरति । दक्षिणतो वा उदग्योनौ रेतः सिच्यते । एषो ऽअस्यैतर्हि योनिरविच्छेदमाह- रति- रेतसो ऽविच्छेदाय ॥ १० ॥

सायणः

परिग्रहणे विनियुक्तानां मन्त्राणां संख्यां सम्भूय संवत्सराग्न्यात्मना प्रशंसति- ताः षट् सम्पद्यन्त इति । प्रकारान्तरेण स्तोतुमनुवदति- यद्वेव संवत्सरमिति । संवत्सरे तावद्द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामावास्याः; एवं षट्त्रिंशत्संख्या सम्पद्यते, बृहत्या अपि षट्त्रिंशदक्षरत्वात् संवत्सरसञ्चितो ऽग्निः बृहत्यात्मना सम्पद्यत इत्यर्थः ॥

विधत्ते- तं दक्षिणत उदञ्चमिति । ‘तं’ मृत्पिण्डं ‘दक्षिणतः’ प्रदेशात् ‘उदञ्चम्’ उदङ्मुखम् आहरेत् । तत् प्रशंसति- दक्षिणतो वा इति । यतो लोके दक्षिणतः स्थितेन पुरुषेण, वामभागे स्थितायाः स्त्रियाः ‘योनौ रेतः सिच्यते’ ‘एतर्हि’ इदानीं मध्ये धार्यमाणस्याग्नेः एषः मृत्पिण्डो ‘योनिः’ ‘अविच्छेदं’ विच्छेदराहित्येन मृत्पिण्डाहरणं कर्त्तव्यम्; ‘रेतसः’ रेतोभूतस्याग्नेः ‘अविच्छेदाय’ इति ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठकाण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-४-२) ॥

Eggeling
  1. These (verses) amount to six,–six seasons are a year, and Agni is the year: as great as Agni is, as great as is his measure, so great does this become. And what comes to be like the year, comes to be like the Br̥hatī; for the year is the Br̥hatī,–twelve full moons, twelve eighth days 6 (of the fortnight of waning moon), twelve new moons, that makes thirty-six, and the Br̥hatī consists of thirty-six syllables. He takes it (the lump of clay) from the right (south) to the left (north) side (of the hole), for from the right side seed is infused into the womb; and this (hole) now is his (Agni’s) womb. He takes it thither without stopping, so as not to stop the seed.

  1. ग्रेऽग्रिर᳘सृज्यत᳘ AB. C second hand. ↩︎

  2. 217:1 See p. 201, note 1. ↩︎

  3. 217:2 ? Or, of every priest (viśvasya vāghataḥ). There is nothing to show how the author of this part of the Brāhmaṇa interprets ‘vāghat.’ Cf. VI, 4, 3, 10.–Professor Ludwig (R̥k S. VI, 16, 13) translates, ‘from the head of the priest Viśva.’ Mahīdhara offers several interpretations, according to which ‘vāghataḥ’ may either be taken as nom. plur., the verb being again supplied in the plural,–’the priests churned thee out from the head of the universe,’ or ’the priests of the universe (or all priests) churned thee out,’–or ‘vāghataḥ’ may be ablative sing., like ‘mūrdhnaḥ,’ qualifying ‘pushkarāt,’–from the lotus, the head, the leader (or, starter, vāhakāt) of the universe. ↩︎

  4. देवः सं᳘ देवा ABC. ↩︎

  5. 219:1 Thus the author evidently interprets ‘vídānaḥ,’ instead of being found,’ ‘se trouvant,’ as is its real meaning. ↩︎

  6. 220:1 See VI, 2, 2, 23. ↩︎