०१
विश्वास-प्रस्तुतिः
अ᳘थैनम᳘तः ख᳘नत्ये᳘व[[!!]]॥
एतद्वा᳘ ऽएनं देवा᳘ ऽअनुवि᳘द्याखनंस्त᳘थै᳘वैनमय᳘मेत᳘दनुवि᳘द्य खनति देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यां पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरीष्य᳘मङ्गिरस्व᳘त्खनामी᳘ति सवितृ᳘प्रसूत ऽए᳘वैनमेत᳘देता᳘भिर्देव᳘ताभिः पृथिव्या᳘ ऽउप᳘स्थादग्निं᳘ पश᳘व्यमग्निव᳘त्खनति[[!!]]॥
मूलम् - श्रीधरादि
अ᳘थैनम᳘तः ख᳘नत्ये᳘व[[!!]]॥
एतद्वा᳘ ऽएनं देवा᳘ ऽअनुवि᳘द्याखनंस्त᳘थै᳘वैनमय᳘मेत᳘दनुवि᳘द्य खनति देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यां पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरीष्य᳘मङ्गिरस्व᳘त्खनामी᳘ति सवितृ᳘प्रसूत ऽए᳘वैनमेत᳘देता᳘भिर्देव᳘ताभिः पृथिव्या᳘ ऽउप᳘स्थादग्निं᳘ पश᳘व्यमग्निव᳘त्खनति[[!!]]॥
मूलम् - Weber
अ᳘थैनम᳘तः ख᳘नत्येव᳟॥
एतद्वा᳘ एनं देवा᳘ अनुवि᳘द्याखनस्त᳘थैॗवैनमय᳘मेत᳘दनुवि᳘द्य खनति देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्याम् पृथिव्याः᳘ सधस्थादग्नि᳘म् पुरीष्य᳘मङ्गिरस्व᳘त्खनामी᳘ति सवितृ᳘प्रसूत एॗवैनमेत᳘देता᳘भिर्देव᳘ताभिः पृथिव्या᳘ उप᳘स्थादग्नि᳘म् पशव्य᳘मग्निव᳘त्खनति॥
मूलम् - विस्वरम्
अथैनमतः खनत्येव । एतद्वा ऽएनं देवा अनुविद्याखनन् । तथैवैनमयमेतदनुविद्य खनति । “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वत्वनामि”- (वा. सं. ११ । २८) इति । सवितृप्रसूत एवैनमेतदेताभिर्देवताभिः पृथिव्या उपस्थादग्निं पशव्यमग्निवत् खनति ॥ १ ॥
सायणः
यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ खननविधिं स्तुवन् मन्त्रं विधत्ते- अथैनमतः खनति (का. श्रौ. सू. १६ । ६५) इति । ‘अतः’ चतुःस्रक्तेः कूपात् ‘अनुविद्य’ लब्ध्वा । देवस्य त्वेति मन्त्रस्य तात्पर्यमाह- सवितृप्रसूत इति ॥ १ ॥
Eggeling
- He now digs it (the lump of clay) 1 up from that (hole);–for the gods, having found him (Agni), then dug him up; and in like manner this one, after finding him, now digs him up,–with (Vāj. S. XI, 28), ‘At the impulse of the god Savitr̥, by the arms of the Aśvins, by the hands of Pūshan, I dig thee, the Agni Purīshya, from the lap of the earth, Aṅgiras-like;’–impelled by Savitr̥, he thus, by means of those deities, digs him up, the Agni favourable to cattle, as Agni (did).
०२
विश्वास-प्रस्तुतिः
ज्यो᳘तिष्मन्तं त्वा ऽग्ने सुप्र᳘तीकमि᳘ति॥
ज्यो᳘तिष्मान्वा᳘ ऽअय᳘मग्निः᳘ सुप्र᳘तीको᳘ ऽजस्रेण भानु᳘ना दी᳘द्यतमित्य᳘जस्रेणार्चि᳘षा दी᳘प्यमानमि᳘त्येत᳘च्छिवं᳘ प्रजाभ्यो᳘ ऽहिᳫँ᳭सन्तं पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरी᳘ष्यमङ्गिरस्व᳘त्खनाम ऽइ᳘ति[[!!]] शिवं᳘ प्रजाभ्यो᳘ ऽहिᳫँ᳭सन्तं पृथिव्या᳘ ऽउप᳘स्थादग्निं᳘ पश᳘व्यमग्निव᳘त्खनाम ऽइ᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
ज्यो᳘तिष्मन्तं त्वा ऽग्ने सुप्र᳘तीकमि᳘ति॥
ज्यो᳘तिष्मान्वा᳘ ऽअय᳘मग्निः᳘ सुप्र᳘तीको᳘ ऽजस्रेण भानु᳘ना दी᳘द्यतमित्य᳘जस्रेणार्चि᳘षा दी᳘प्यमानमि᳘त्येत᳘च्छिवं᳘ प्रजाभ्यो᳘ ऽहिᳫँ᳭सन्तं पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरी᳘ष्यमङ्गिरस्व᳘त्खनाम ऽइ᳘ति[[!!]] शिवं᳘ प्रजाभ्यो᳘ ऽहिᳫँ᳭सन्तं पृथिव्या᳘ ऽउप᳘स्थादग्निं᳘ पश᳘व्यमग्निव᳘त्खनाम ऽइ᳘त्येतत्[[!!]]॥
मूलम् - Weber
ज्यो᳘तिष्मन्तं त्वाग्ने सुप्र᳘तीकमि᳘ति॥
ज्यो᳘तिष्मान्वा᳘ अय᳘मग्निः᳘ सुप्र᳘तीको᳘ ऽजस्रेण भानु᳘ना दी᳘द्यतमित्य᳘जस्रेणार्चि᳘षा दी᳘प्यमानमि᳘त्येत᳘छिव᳘म् प्रजाभ्यो᳘ ऽहिंसन्तम् पृथिव्याः᳘ सध᳘स्थादग्नि᳘म् पुरीष्य᳘मङ्गिरस्व᳘त्खनाम इ᳘ति शिव᳘म् प्रजाभ्यो᳘ ऽहिंसन्त पृथिव्या᳘ उप᳘स्थादग्नि᳘म् पशव्य᳘मग्निव᳘त्खनाम इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“ज्योतिष्मन्तं त्वा ऽग्ने सुप्रतीकम्”- इति । ज्योतिष्मान्वा ऽअयमग्निः सुप्रतीकः । “अजस्रेण भानुना दीद्यतम्”- इति । अजस्रेणार्चिषा दीप्यमानमित्येतत् । “शिवं प्रजाभ्यो ऽहिंसन्तं पृथिव्याः सदस्थादग्निं पुरीष्यमङ्गिरस्वत्खनामः”- (वा. सं. ११ । २८) इति । शिवं प्रजाभ्यो ऽहिंसन्तं पृथिव्या उपस्थादग्निं पशव्यमग्निवत् खनाम इत्येतत् ॥ २ ॥
सायणः
खनने द्वितीयं मन्त्रं विधत्ते- ज्योतिष्मन्तं त्वा ऽग्न इति । अयमर्थः- हे ‘अग्ने’ ‘ज्योतिष्मन्तं’ ज्योतिर्युक्तं सुप्रतीकं सुमुखावयवम्, अजस्रेण अनवच्छिन्नेन भानुना तेजसा ‘दीद्यतं’ व्यत्ययेन शतृप्रत्ययः, दीप्यमानम्; ‘शिवं’ शान्तम् ‘प्रजाभ्यः’ प्रजार्थं शिवमिति सम्बन्धः; ‘अहिंसन्तं’ प्राणिनां हिंसामकुर्वाणम्, पृथिव्यादि व्याख्यातम् । तादृशमग्निं भूप्रदेशादग्निवत् खनामः अध्वर्यव इति ॥ २ ॥
Eggeling
- ‘Thee, O Agni, the bright, the fair-faced,’–for this Agni is indeed bright and fair-faced;–‘glowing with perpetual sheen,’–that is, ‘shining with perpetual light;’–’thee, kind to creatures, and never harming, the Agni Purīshya we dig up from the lap of the earth, Aṅgiras-like;’–that is, thee, kind to creatures, and never harming, the cattle-loving Agni we dig up from the lap of the earth, as Agni (did).’
०३
विश्वास-प्रस्तुतिः
(द्द्वा᳘) द्वा᳘भ्यां खनति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘त्खनत्य᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं मृच्चा᳘पश्च॥
मूलम् - श्रीधरादि
(द्द्वा᳘) द्वा᳘भ्यां खनति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘त्खनत्य᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं मृच्चा᳘पश्च॥
मूलम् - Weber
द्वा᳘भ्यां खनति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘त्खनत्य᳘थो द्वॗयᳫं ह्येॗवैत᳘द्रूपम् मृच्चा᳘पश्च॥
मूलम् - विस्वरम्
द्वाभ्यां खनति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्खनति । अथो द्वयं ह्येवैतद्रूपम्- मृच्चापश्च ॥ ३ ॥
सायणः
खननमन्त्रगतां द्वित्वसङ्ख्यां यजमानरूपाग्न्यात्मना प्रशंसति- द्वाभ्यां खनति द्विपादिति । प्रकारान्तरेण स्तौति- अथो द्वयमिति । मृत्तिका, उदकानि चेति द्वयमित्यर्थः ॥ ३ ॥
Eggeling
- With two (formulas) he digs,–two-footed is the Sacrificer, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, with so much he thus digs him up. And twofold also is that form of his, (consisting as it does of) clay and water.
०४
विश्वास-प्रस्तुतिः
स वै᳘ खनामि खनाम ऽइ᳘ति खनति॥
खनामी᳘ति वा᳘ ऽएतं᳘ प्रजा᳘पतिर᳘खनत्खनाम ऽइ᳘ति देवास्त᳘स्मात्खनामि खनाम ऽइ᳘ति॥
मूलम् - श्रीधरादि
स वै᳘ खनामि खनाम ऽइ᳘ति खनति॥
खनामी᳘ति वा᳘ ऽएतं᳘ प्रजा᳘पतिर᳘खनत्खनाम ऽइ᳘ति देवास्त᳘स्मात्खनामि खनाम ऽइ᳘ति॥
मूलम् - Weber
स वै᳘ खनामि खनाम इ᳘ति खनति॥
खनामी᳘ति वा᳘ एत᳘ प्रजा᳘पतिर᳘खनत्खनाम इ᳘ति देवास्त᳘स्मात्खनामि खनाम इति॥
मूलम् - विस्वरम्
स वै खनामि खनाम- इति खनति । खनाम इति वा ऽएतं प्रजापतिरखनत्, खनाम इति देवाः । तस्मात् खनामि खनाम इति ॥ ४ ॥
सायणः
यत् “देवस्य त्वा”- इति पूर्वमन्त्रः, तत्र खनामीत्येकवचनम्, ज्योतिष्मन्तमिति द्वितीयमन्त्रे खनाम इति बहुवचनम् । तस्योभयस्य निर्वाहमाह- स वै खनामीति । प्रजापतिविवक्षया एकवचनम्, देवविवक्षया बहुवचनम् । ते च अग्निकर्मान्वतिष्ठन् ॥ ४ ॥
Eggeling
- He digs, with, ‘I dig,’–‘we dig;’ for with, ‘I
dig,’ Prajāpati dug for him (Agni); and with, ‘we dig,’ the gods dug for him, therefore (he digs), with, ‘I dig,’–‘we dig.’
०५
विश्वास-प्रस्तुतिः
स वा ऽअ᳘भ्र्या ख᳘नन्॥
(न्वा) व्वाचा᳘ खनामि खनाम ऽइ᳘त्याह व्वाग्वा ऽअ᳘भ्रिरारम्भा᳘यै᳘वेयं᳘ व्वैणवी᳘ क्रियते व्वाचा वा᳘ ऽएतम᳘भ्र्या देवा᳘ ऽअखनंस्त᳘थै᳘वैनमय᳘मेत᳘द्वा᳘चैवा᳘भ्र्या खनति॥
मूलम् - श्रीधरादि
स वा ऽअ᳘भ्र्या ख᳘नन्॥
(न्वा) व्वाचा᳘ खनामि खनाम ऽइ᳘त्याह व्वाग्वा ऽअ᳘भ्रिरारम्भा᳘यै᳘वेयं᳘ व्वैणवी᳘ क्रियते व्वाचा वा᳘ ऽएतम᳘भ्र्या देवा᳘ ऽअखनंस्त᳘थै᳘वैनमय᳘मेत᳘द्वा᳘चैवा᳘भ्र्या खनति॥
मूलम् - Weber
स वा अ᳘भ्र्या ख᳘नन्॥
वाचा᳘ खनामि खनाम इ᳘त्याह वाग्वा अ᳘भ्रिरारम्भा᳘यैॗवेयं᳘ वैणवी᳘ क्रियते वाचा वा᳘ एतम᳘भ्र्या देवा᳘ अखनंस्त᳘थैॗवैनमय᳘मेत᳘द्वाॗचैवा᳘भ्र्या खनति॥
मूलम् - विस्वरम्
स वा ऽअभ्र्या खनन्वाचा- ‘खनामि खनाम’ इत्याह । वाग्वा ऽअभ्रिः । आरम्भायैवेयं वैणवी क्रियते । वाचा वा ऽएतमभ्र्या देवा अखनन् । तथैवैनमयमेतद्वाचैवाभ्र्या खनति ॥ ५ ॥
सायणः
प्रागुक्तं खननसाधनं विदधत् तस्य वाग्रूपतामाह- स वा अभ्र्या खनन्निति । यदि वाग्भिस्तर्हि वाचैव खननं युक्तम्, किमभ्रिकरणेनेति, तत्राह- आरम्भायेति । ‘आरम्भाय’ आलम्भनायैव इयं वेणुमयी अभ्रिः । क्रियते (श. प. ६ । ३ । १ । ३२ । भा.) ॥ ५ ॥
Eggeling
- Now while digging with the spade, he says with speech ‘I dig,’ ‘we dig,’ for the spade is speech. It is for his undertaking that this bamboo (spade) is made; and with speech for a spade, the gods dug him up; and in like manner does this one now dig him up with speech for a spade (or, with the speech-spade).
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनं कृष्णाजिने स᳘म्भरति॥
यज्ञा वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेतत्स᳘म्भरति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेतत्स᳘म्भरति त᳘त्तूष्णीमु᳘पस्तृणाति यज्ञो वै᳘ कृष्णाजिनं᳘ प्रजा᳘पतिर्व्वै᳘ यज्ञो᳘ ऽनिरुक्तो वै᳘ प्रजा᳘पतिरुत्तरतस्त᳘स्योप᳘रि ब᳘न्धुः प्राची᳘नग्रीवे तद्धि᳘ देवत्रा[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनं कृष्णाजिने स᳘म्भरति॥
यज्ञा वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेतत्स᳘म्भरति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेतत्स᳘म्भरति त᳘त्तूष्णीमु᳘पस्तृणाति यज्ञो वै᳘ कृष्णाजिनं᳘ प्रजा᳘पतिर्व्वै᳘ यज्ञो᳘ ऽनिरुक्तो वै᳘ प्रजा᳘पतिरुत्तरतस्त᳘स्योप᳘रि ब᳘न्धुः प्राची᳘नग्रीवे तद्धि᳘ देवत्रा[[!!]]॥
मूलम् - Weber
अ᳘थैनं कृष्णाजिने स᳘म्भरति॥
यज्ञा वै᳘ कृष्णाजिनं᳘ यज्ञ᳘एॗवैनमेतत्स᳘म्भरति लोमतश्छ᳘न्दांसि वै लो᳘मानि छ᳘न्दःस्वेॗवैनमेतत्स᳘म्भरति त᳘त्तूष्णीमु᳘पस्तृणाति यज्ञो वै᳘ कृष्णाजिन᳘म् प्रजा᳘पतिर्वै᳘ यज्ञो᳘ ऽनिरुक्तो वै᳘ प्रजा᳘पतिरुत्तरतस्त᳘स्योप᳘रि ब᳘न्धुः प्राची᳘नग्रीवे तद्धि᳘ देवत्रा᳟॥
मूलम् - विस्वरम्
अथैनं कृष्णाजिने सम्भरति । यज्ञो वै कृष्णाजिनम् । यज्ञ ऽएवैनमेतत् सम्भरति । लोमतः । छन्दांसि वै लोमानि । छन्दःस्वेवैनमेतत् सम्भरति । तत् तुष्णीमुपस्तृणाति । यज्ञो वै कृष्णाजिनम् । प्रजापतिर्वै यज्ञः । अनिरुक्तो वै प्रजापतिः । उत्तरतः । तस्योपरि बन्धुः । प्राचीनग्रीवे । तद्धि देवत्रा ॥ ६ ॥
सायणः
अत्र कात्यायनः- “कृष्णाजिनमास्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपाम्पृष्ठमिति, विमार्ष्ट्येनद् दिव इति, आलभत उभे शर्म च स्थ इति” (का. श्रौ. सूं. १६ । ६६-६८) अयमर्थः । उत्तरतो देशे कृष्णाजिनं प्राग्ग्रीवमुत्तरलोम तूष्णीमास्तीर्य, तस्मिन् कृष्णाजिने अपाम्पृष्ठमिति मन्त्रेण । पुष्करपर्णमास्तृणाति । एनत् पुष्करपर्णं दिवो मात्रयेति चतुर्थपादेन विमार्ष्टि । ततः कृष्णाजिनपुष्करपर्णे- “शर्म च स्थो वर्म च स्थः"- इति मन्त्राभ्यामालभेतेति । तदिदं ब्राह्मणशेषेण विधीयते- अथैनं कृष्णाजिन इति । ‘एनम्’ मृत्पिण्डम् । यद्यपि कृष्णाजिनस्योपरि पुष्करपर्णे मृत्पिण्डसम्भरणम्, तथापि कृष्णाजिनसम्बन्धो ऽप्यस्तीति मत्वा तस्मिन् सम्भरणोक्तिः । लोमत इति । लोमवत्प्रदेशे । कृष्णाजिनास्तरणममन्त्रकमित्याह- तत् तूष्णीमिति । तूष्णीमुपस्तरणमुपपादयति- यज्ञ इति । यज्ञस्य कृष्णाजिनत्वम्; “कृष्णो रूपं कृत्वोदक्रामत्”- (श. प. १ । १ । ४ । १ । भा.) इत्याम्नानात् । यज्ञस्य प्रजापतित्वम्, प्रजापतिदेवत्यत्वात् । प्रजापतिर्हि सकलस्थूलसूक्ष्मप्रपञ्चात्मत्वेनायमीदृगिति निर्वक्तुमनर्हत्वात् अनिरुक्तः । तस्मात् तद्रूपस्य कृष्णाजिनस्यापि आस्तरणम् ‘अनिरुक्तम्,’ अमन्त्रकमित्यर्थः । तदास्तरणस्य प्रदेशं विधत्ते- उत्तरत इति । आस्तरणस्तावकं ब्राह्मणमुत्तरत्र वक्ष्यत इत्याह- तस्योपरि बन्धुरिति । प्राचीनग्रीवेति । ग्रीवाप्रदेशः प्राचीनो यथा भवति तथा आस्तरणीयम् । ‘देवत्रा’ देवेषु भवति । “देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्”- (पा. सू. ५ । ४ । ५६) इति देवशब्दात् ‘त्रा’- प्रत्ययः ॥ ६ ॥
Eggeling
- He then deposits it upon the black antelope skin, for the black antelope skin is the sacrifice 2: in the sacrifice he thus deposits it (or him, Agni);–on the hair (side); for the hair is the metres: he thus deposits him on the metres. That (skin) he spreads silently; for the black antelope skin is the sacrifice; and the sacrifice is Prajāpati, and undefined is Prajāpati. North (of the hole he spreads it),–the meaning of this (will be explained) hereafter;–on (the skin spread) with the neck-part in front, for thus (it is turned) towards the gods.
०७
विश्वास-प्रस्तुतिः
(त्रा᳘ ऽथै) अ᳘थैनं पुष्करपर्णे स᳘म्भरति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘नौ तद्रे᳘तः सिञ्चति यद्वै यो᳘नौ रे᳘तः सिच्य᳘ते त᳘त्प्रजनिष्णु[[!!]] भवति तन्म᳘न्त्रेणो᳘पस्तृणाति व्वाग्वै᳘ म᳘न्त्रो व्वा᳘क्पुष्करपर्ण᳘म्॥
मूलम् - श्रीधरादि
(त्रा᳘ ऽथै) अ᳘थैनं पुष्करपर्णे स᳘म्भरति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘नौ तद्रे᳘तः सिञ्चति यद्वै यो᳘नौ रे᳘तः सिच्य᳘ते त᳘त्प्रजनिष्णु[[!!]] भवति तन्म᳘न्त्रेणो᳘पस्तृणाति व्वाग्वै᳘ म᳘न्त्रो व्वा᳘क्पुष्करपर्ण᳘म्॥
मूलम् - Weber
अ᳘थैन पुष्करपर्णे स᳘म्भरति॥
यो᳘निर्वै᳘ पुष्करपर्णं यो᳘नौ तद्रे᳘तः सिञ्चति यद्वै यो᳘नौ रे᳘तः सिच्य᳘ते त᳘त्प्रजनिष्णु᳘ भवति तन्म᳘न्त्रेणो᳘पस्तृणाति वाग्वै म᳘न्त्रो वा᳘क्पुष्करपर्ण᳘म्॥
मूलम् - विस्वरम्
अथैनं पुष्करपर्णे सम्भरति । योनिर्वै पुष्करपर्णम् । योनौ तद्रेतः सिञ्चति । यद्वै योनौ रेतः सिच्यते- तत् प्रजनिष्णु भवति । तन्मन्त्रेणोपस्तृणाति । वाग्वै मन्त्रः, वाक् पुष्करपर्णम् ॥ ७ ॥
सायणः
कृष्णाजिनस्योपरि विधातव्ये पुष्करपर्णे मृत्पिण्डसम्भरणं दर्शयति- अथैनमिति । योनिरिति । यतो ऽग्निः पुष्करपर्णाज्जातः; तस्मात् तद्योनिरूपम्, अग्निश्च रेतोरूपः; इदानीमुत्पद्यमानत्वात् ‘प्रजनिष्णु’ प्रजननशीलम् । वाक् पुष्करपर्णमिति । अग्निवाचोरन्यत्र तादात्म्यश्रवणात्- “अग्निर्वाग्भूत्वा मुखं प्राविशत्”- (तै. आ. २ । ४ । २) इति । पुष्करपर्णादग्नेर्जननात् कार्यकारणयोरभेदोपचारेण वागेव पुष्करपर्णमित्युक्तम् ॥ ७ ॥
Eggeling
- And he deposits it on a lotus-leaf (placed on the skin); for the lotus-leaf is the womb, and into the womb he pours that seed; and the seed which is poured into the womb, becomes generative. He spreads that (leaf) with a formula; for the formula is speech, and the lotus-leaf is speech 3.
०८
विश्वास-प्रस्तुतिः
(म) अपां᳘ पृष्ठ᳘मसि यो᳘निरग्नेरि᳘ति॥
(त्य) अपा᳘ᳫँ᳘ ह्येत᳘त्पृष्ठं यो᳘नि᳘र्ह्येत᳘दग्नेः᳘ समुद्र᳘मभि᳘तः पि᳘न्वमानमि᳘ति समुद्रो᳘ ह्येत᳘दभि᳘तः पि᳘न्वते व्व᳘र्द्धमानो महा२ँ॥ आ᳘ च पु᳘ष्कर ऽइ᳘ति व्व᳘र्द्धमानो महीयस्व पुष्कर ऽइ᳘त्येत᳘द्दिवो[[!!]] मा᳘त्रया व्वरिम्णा᳘ प्रथस्वे᳘त्यनुवि᳘मार्ष्ट्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘र्नो हैत᳘मन्यो᳘ दिवो᳘ व्वरिमा य᳘न्तुमर्हति द्यौ᳘र्भूत्वैनं यच्छे᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
(म) अपां᳘ पृष्ठ᳘मसि यो᳘निरग्नेरि᳘ति॥
(त्य) अपा᳘ᳫँ᳘ ह्येत᳘त्पृष्ठं यो᳘नि᳘र्ह्येत᳘दग्नेः᳘ समुद्र᳘मभि᳘तः पि᳘न्वमानमि᳘ति समुद्रो᳘ ह्येत᳘दभि᳘तः पि᳘न्वते व्व᳘र्द्धमानो महा२ँ॥ आ᳘ च पु᳘ष्कर ऽइ᳘ति व्व᳘र्द्धमानो महीयस्व पुष्कर ऽइ᳘त्येत᳘द्दिवो[[!!]] मा᳘त्रया व्वरिम्णा᳘ प्रथस्वे᳘त्यनुवि᳘मार्ष्ट्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘र्नो हैत᳘मन्यो᳘ दिवो᳘ व्वरिमा य᳘न्तुमर्हति द्यौ᳘र्भूत्वैनं यच्छे᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
अपा᳘म् पृष्ठ᳘मसि यो᳘निरग्नेरि᳘ति॥
अपाॗᳫंॗ ह्येत᳘त्पृष्ठं यो᳘निॗर्ह्येत᳘दग्नेः᳘ समुद्र᳘मभि᳘तः पि᳘न्वमानमि᳘ति समुद्रोॗ ह्येत᳘दभि᳘तः पि᳘न्वते व᳘र्धमानो महां आ᳘ च पु᳘ष्कर इ᳘ति व᳘र्धमानो महीयस्व पु᳘ष्कर इ᳘त्येत᳘द्दिवो मा᳘त्रया वरिम्णा᳘ पथस्वे᳘त्यनुवि᳘मार्ष्ट्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्निॗर्नो हैत᳘मन्यो᳘ दिवो᳘ वरिमा य᳘न्तुमर्हति द्यौ᳘र्भूत्व᳘नं यछे᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
“अपां पृष्ठमसि योनिरग्नेः”- इति । अपां ह्येतत् पृष्ठम् । योनिर्ह्येतदग्नेः । “समुद्रमभितः पिन्वमानम्”- इति । समुद्रो ह्येतदभितः पिन्वते । “वर्द्धमानो महान्- आ च पुष्करे”- इति । वर्द्धमानो महीयस्व पुष्कर इत्येतत् । “दिवो मात्रया वरिम्णा प्रथस्व”- (वा. सं. ११ । २९) इति । अनुविमार्ष्टि । असौ वा आदित्य एषो ऽग्निः । नो हैतमन्यो दिवो वरिम यन्तुमर्हति । द्यौर्भूत्वैनं यच्छ इत्येवैतदाह ॥ ८ ॥
सायणः
तदास्तरणे मन्त्रं विधत्ते- अपाम्पृष्ठमिति । हे पुष्करपर्ण ! ‘अपाम्पृष्ठम्’ उपरिस्थानम् ‘असि,’ ‘अग्नेः योनिः’ च ‘असि,’ ‘समुद्रम्’ समुन्दनशीलमुदकम् अभितः ‘पिन्वमानं’ वर्द्धमानं भवसि, किञ्च ‘पुष्करे’ ‘वर्द्धमानः’ जात एव ‘आ’ सर्वतः ‘महान्’ आस्तरणात् महत्त्वम्, अत एव ‘आ महान्’- इति पदद्वयस्य ‘महीयस्व’- इति व्याख्यानम् ॥
अन्तिमपादेन विसर्जनं विधत्ते- दिव इति । ‘दिवः’ द्युलोकस्य ‘मात्रया’ परिमाणेन ‘वरिम्णा’अतिशयेनोरुणा त्वं ‘प्रथस्व’ विस्तीर्णो भव । पादं व्याचष्टे- असौ वा आदित्य इति । यतः ‘एषः अग्निः’ ‘आदित्यः’ अतो लोकत्रयमस्य ‘वरिमा’ उरुत्वम् ‘एतम्’ आदित्यात्मकं ‘यन्तुं’ परिच्छेत्तुं नार्हतीति । अतो ‘द्यौः’ द्युलोकात्मकं भूत्वा ‘एनं’ मृत्पिण्डं यच्छ परिच्छिन्नं कुर्विति पुष्करपर्णप्रार्थना ॥ ८ ॥
Eggeling
- [Vāj. S. XI, 29] ‘Thou art the waters’
back, Agni’s womb,’ for this is indeed the back of the waters, and the womb of Agni;–‘around the swelling sea,’–for the sea indeed swells around it;–’thou, growing mighty upon the lotus,’–that is, ‘growing, prosper thou on the lotus.’–‘With the measure of the sky, extend thou in width!’–with this he strokes along it (so as to lie even on the skin); for that Agni is yonder sun; and him assuredly none other than the width of the sky can contain: ‘having become the sky, contain him!’ this is what he thereby says.
०९
विश्वास-प्रस्तुतिः
तदु᳘त्तरं कृष्णाजिनादु᳘पस्तृणाति॥
यज्ञो वै᳘ कृष्णाजिन᳘मियं वै᳘ कृष्णाजिन᳘मिय᳘मु वै᳘ य᳘ज्ञो ऽस्याᳫँ᳭ हि᳘ यज्ञ᳘स्ताय᳘ते द्यौः᳘ पुष्करपर्णमा᳘पो वै द्यौरा᳘पः पुष्करपर्णमु᳘त्तरो वा᳘ ऽअसा᳘वस्यै॥
मूलम् - श्रीधरादि
तदु᳘त्तरं कृष्णाजिनादु᳘पस्तृणाति॥
यज्ञो वै᳘ कृष्णाजिन᳘मियं वै᳘ कृष्णाजिन᳘मिय᳘मु वै᳘ य᳘ज्ञो ऽस्याᳫँ᳭ हि᳘ यज्ञ᳘स्ताय᳘ते द्यौः᳘ पुष्करपर्णमा᳘पो वै द्यौरा᳘पः पुष्करपर्णमु᳘त्तरो वा᳘ ऽअसा᳘वस्यै॥
मूलम् - Weber
तदु᳘त्तरं कृष्णाजिनादु᳘पस्तृणाति॥
यज्ञो वै᳘ कृष्णाजिन᳘मियं वै᳘ कृष्णाजिन᳘मिय᳘मु वै᳘ यॗज्ञो ऽस्याᳫं हि᳘ यज्ञ᳘स्ताय᳘ते द्यौ᳘ष्पुष्करपर्णमा᳘पो वै द्यौरा᳘पः पुष्करपर्णमु᳘त्तरो वा असा᳘वस्यै॥
मूलम् - विस्वरम्
तदुत्तरं कृष्णाजिनादुपस्तृणाति । यज्ञो वै कृष्णाजिनम् । इयं वै कृष्णाजिनम् । इयमु वै यज्ञः । अस्यां हि यज्ञस्तायते । द्यौः पुष्करपर्णम्, आपो वै द्यौः । आपः पुष्करपर्णम् । उत्तरो वा असावस्यै ॥ ९ ॥
सायणः
तदास्तरणस्य प्रदेशमाह- तदुत्तरं कृष्णाजिनादिति । ‘तत्’ पुष्करपर्णं ‘कृष्णाजिनात्’ ‘उत्तरं’ तस्योपरि ‘आस्तृणाति’ । एकस्योपरि अन्यस्यास्तरणं भूलोकद्युलोकात्मना प्रशंसति- यज्ञो वा इति । कृष्णाजिनपुष्करपर्णयोः भूलोकद्युलोकात्मत्वेन तयोर्यथा उत्तराधरभावः, एवं लोकयोरुत्तराधरभावो दृश्यत इत्याह- उत्तरो वा असावस्या इति । ‘असौ’ द्यौः । ‘अस्यै’ भूम्याः ॥ ९ ॥
Eggeling
- He spreads it over the black antelope skin; for the black antelope skin is the sacrifice; and the black antelope skin is this earth, and the sacrifice is this earth, for on this earth the sacrifice is spread. And the lotus-leaf is the sky; for the sky is the waters, and the lotus-leaf is the waters; and yonder sky is above this earth.
१०
विश्वास-प्रस्तुतिः
(स्या ऽअ᳘) अ᳘थैने ऽअभि᳘मृशति॥
सञ्ज्ञा᳘मे᳘वाभ्यामेत᳘त्करोति श᳘र्म च स्थो व्व᳘र्म च स्थ ऽइ᳘ति श᳘र्म च ह्यस्यैते[[!!]] व्व᳘र्म चा᳘च्छिद्रे बहुले᳘ ऽउभे ऽइत्य᳘च्छिद्रे᳘ ह्येते᳘ बहुले᳘ ऽउभे व्य᳘चस्वती सं᳘व्वसाथामि᳘त्यवकाश᳘वती सं᳘व्वसाथामि᳘त्येत᳘द्भृत᳘मग्निं᳘ पुरी᳘ष्यमि᳘ति[[!!]] बिभृत᳘मग्निं᳘ पश᳘व्यमि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(स्या ऽअ᳘) अ᳘थैने ऽअभि᳘मृशति॥
सञ्ज्ञा᳘मे᳘वाभ्यामेत᳘त्करोति श᳘र्म च स्थो व्व᳘र्म च स्थ ऽइ᳘ति श᳘र्म च ह्यस्यैते[[!!]] व्व᳘र्म चा᳘च्छिद्रे बहुले᳘ ऽउभे ऽइत्य᳘च्छिद्रे᳘ ह्येते᳘ बहुले᳘ ऽउभे व्य᳘चस्वती सं᳘व्वसाथामि᳘त्यवकाश᳘वती सं᳘व्वसाथामि᳘त्येत᳘द्भृत᳘मग्निं᳘ पुरी᳘ष्यमि᳘ति[[!!]] बिभृत᳘मग्निं᳘ पश᳘व्यमि᳘त्येतत्[[!!]]॥
मूलम् - Weber
अ᳘थैने अभि᳘मृशति॥
संज्ञा᳘मेॗवाभ्यामेत᳘त्करोति श᳘र्म च स्थो व᳘र्म च स्थ इ᳘ति श᳘र्म च ह्य᳘स्यैते व᳘र्म चा᳘छिद्रे बहुले᳘ उभे इत्य᳘छिद्रेॗ ह्येते᳘ बहुले᳘ उभे व्य᳘चस्वती सं᳘वसाथामि᳘त्यवकाश᳘वती संवसाथामि᳘त्येत᳘द्भृत᳘मग्नि᳘म् पुरीष्य᳘मि᳘ति बिभृत᳘मग्नि᳘म् पशव्य᳘मि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथैने ऽअभिमृशति । सञ्ज्ञामेवाभ्यामेतत्करोति । “शर्म च स्थो वर्म च स्थः”- इति । शर्म च ह्यस्यैते वर्म च । “अच्छिद्रे बहुले ऽउभे"- इति । अच्छिद्रे ह्येते बहुले ऽउभे । “व्यचस्वती सम्वसाथाम्”- इति । अवकाशवती सम्वसाथामित्येतत् । “भृतमग्निं पुरीष्यम्”- (वा. सं. ११ । ३०) इति । बिभृतमग्निं पशव्यमित्येतत् ॥ १० ॥
सायणः
अथैतयोः कृष्णाजिनपुष्करपर्णयोः युगपदभिमर्शनं विधत्ते- अथैने अभिमृशतीति । शक्यत्वादुभयोर्युगपदालम्भनम् । सज्ज्ञामिति । समानसञ्ज्ञम् ‘एतत्’ एतेन अभिमर्शनेन ‘करोति’ कृतवान् भवति । तत्र मन्त्रद्वयं विधत्ते- शर्म च स्थ इति । कृष्णाजिनपुष्करपर्णे सम्बोध्ये ‘शर्म’ शरणं ‘च’ ‘स्थः’ युवयोरुपरि निधीयमानस्य मृत्पिण्डस्य ‘शरणं’ भवथः ‘वर्म’ कवचं ‘च’ अस्य ‘स्थः’ भवथः । ‘अच्छिद्रे’ छिद्ररहिते ‘बहुले’ महाप्राणे ‘उभे’ युवां ‘व्यचस्वती’ अवकाशवत्यौ भूत्वा ‘संवसाथाम्’ आच्छादयतं मृदम् । वसेराच्छादनार्थस्य रूपम् (धा. पा. अ. आ. १३) । ‘पुरीष्यं’ पशव्यम् अग्निम् ‘भृतम्’ । भृञो लोटि बहुलवचनाद् द्विर्वचनाभावः । एतयोः शरणत्वं कवचत्वं मृत्पिण्डमुद्दिश्य व्याचष्टे- शर्म च ह्यस्यैते वर्म चेति ॥ १० ॥
Eggeling
- He touches both of them–he thereby brings about concord between them–with (Vāj. S. XI, 30), ‘A shelter ye are, a shield ye are!’–for both a shelter and a shield these two indeed are;–‘uninjured both, and ample,’–for uninjured and ample both these indeed are;–‘capacious, guard ye,’–that is, ‘spacious, guard ye!’–‘bear ye Agni Purīshya!’–that is, ‘bear ye Agni, favourable to cattle 4!’
११
विश्वास-प्रस्तुतिः
(त्सं᳘) सं᳘व्वसाथाᳫँ᳭ स्वर्व्वि᳘दा॥
समी᳘ची ऽउ᳘रसा ऽऽत्मने᳘ति सं᳘व्वसाथामेनᳫँ᳭ स्वर्व्वि᳘दा समी᳘ची ऽउ᳘रसा चात्म᳘ना चे᳘त्येत᳘दग्नि᳘मन्त᳘र्भरिष्य᳘न्ती ज्यो᳘तिष्मन्तम᳘जस्रमिदि᳘त्यसौ वा᳘ ऽआदित्य᳘ ए᳘षो ऽग्निः स᳘ ऽएष ज्यो᳘तिष्मान᳘जस्रस्त᳘मेते᳘ ऽअन्तरा᳘ बिभृतस्त᳘स्मादाह ज्यो᳘तिष्मन्तम᳘जस्रमिदि᳘ति॥
मूलम् - श्रीधरादि
(त्सं᳘) सं᳘व्वसाथाᳫँ᳭ स्वर्व्वि᳘दा॥
समी᳘ची ऽउ᳘रसा ऽऽत्मने᳘ति सं᳘व्वसाथामेनᳫँ᳭ स्वर्व्वि᳘दा समी᳘ची ऽउ᳘रसा चात्म᳘ना चे᳘त्येत᳘दग्नि᳘मन्त᳘र्भरिष्य᳘न्ती ज्यो᳘तिष्मन्तम᳘जस्रमिदि᳘त्यसौ वा᳘ ऽआदित्य᳘ ए᳘षो ऽग्निः स᳘ ऽएष ज्यो᳘तिष्मान᳘जस्रस्त᳘मेते᳘ ऽअन्तरा᳘ बिभृतस्त᳘स्मादाह ज्यो᳘तिष्मन्तम᳘जस्रमिदि᳘ति॥
मूलम् - Weber
सं᳘वसाथाᳫं स्वर्वि᳘दा॥
समी᳘ची उ᳘रसा त्मने᳘ति सं᳘वसाथामेनᳫं स्वर्वि᳘दा समी᳘ची उ᳘रसा चात्म᳘ना चे᳘त्येत᳘दग्नि᳘मन्त᳘र्भरिष्य᳘न्ती ज्यो᳘तिष्मन्तम᳘जस्रमिदि᳘त्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्निः स᳘ एष ज्यो᳘तिष्मान᳘जस्रस्त᳘मेते᳘ अन्तरा᳘ बिभृतस्त᳘स्मादाह ज्यो᳘तिष्मन्तम᳘जस्रमिदि᳘ति॥
मूलम् - विस्वरम्
“सम्वसाथां स्वर्विदा समीची ऽउरसा ऽऽत्मना”- इति । सम्वसाथामेनं स्वर्विदा समीची ऽउरसा चात्मना चेत्येतत् । “अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित्”- (वा. सं. ११ । ३१) इति । असौ वा ऽआदित्य एषो ऽग्निः । स एष ज्योतिष्मानजस्रः । तमेते ऽअन्तरा बिभृतः । तस्मादाह- ज्योतिष्मन्तमजस्रमिदिति ॥ ११ ॥
सायणः
संवसाथामिति । ‘समीची’ समञ्चने, युवां कृष्णाजिनपुष्करपर्णे ‘उरसा’ हृदयेन विज्ञानेन, ‘आत्मना’ अवयवसंस्थानेन च ‘संवसाथाम्’ सञ्छादयतम् ‘एनं’ मृद्रूपमग्निम् । किमर्थम् ? ‘स्वर्विदा’ स्वर्गलाभाद्धेतोः; ‘अजस्रम्’ अनुपक्षीणम् ‘इत्’ एव ‘ज्योतिष्मन्तम्’ तेजस्विनम् ‘अग्निम्’, ‘अन्तरा’ युवयोर्मध्यप्रदेशे ‘भरिष्यन्ती’ धारयमाणे भवेतमिति शेषः । द्वितीयमन्त्रस्योत्तरार्द्धं व्याचष्टे- असौ वा आदित्य इति ॥ ११ ॥
Eggeling
- [Vāj. S. XI, 31] ‘Guard ye, light-finders, uniting with each other, with the breast, with the self,’–that is, ‘guard him, ye light-finders, uniting with each other, both with your breast and your self;’–‘bearing within the brilliant, the
everlasting;’–this Agni indeed is yonder sun, and he is the brilliant, the everlasting one; and him these two bear between (them): hence he says, the brilliant, the everlasting.’
१२
विश्वास-प्रस्तुतिः
द्वा᳘भ्यामभि᳘मृशति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वाभ्यामेत᳘त्सञ्ज्ञां᳘ करोत्य᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं᳘ कृष्णाजिनं᳘ च पुष्करपर्णं᳘ च॥
मूलम् - श्रीधरादि
द्वा᳘भ्यामभि᳘मृशति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वाभ्यामेत᳘त्सञ्ज्ञां᳘ करोत्य᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं᳘ कृष्णाजिनं᳘ च पुष्करपर्णं᳘ च॥
मूलम् - Weber
द्वा᳘भ्यामभि᳘मृशति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मात्रा ता᳘वतैॗवाभ्यामेत᳘त्संज्ञां᳘ करोत्य᳘थो द्वॗयᳫं ह्येॗवैत᳘द्रूपं᳘ कृष्णाजिनं᳘ च पुष्करपर्ण᳘ च॥
मूलम् - विस्वरम्
द्वाभ्यामभिमृशति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवाभ्यामेतत् सञ्ज्ञां करोति । अथो द्वयं ह्येवैतद्रूपम् । कृष्णाजिनं च पुष्करपर्णं च ॥ १२ ॥
सायणः
अभिमर्शनमन्त्रगतां द्वित्वसङ्ख्यां यजमानाग्निरूपेण प्रशंसति- द्वाभ्यामिति, व्याख्यातम् (श. प. ६ । ३ । ३ । २१४) ॥ १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ (६-४-१) ॥
Eggeling
- He touches them with two (verses);–two-footed is the Sacrificer, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, by so much he thus brings about concord between these two. And, again, (he does so) because that form of theirs is twofold, (there being) a black antelope skin and a lotus-leaf.
-
214:1 Or him, Agni; the identity of the two being kept up throughout. ↩︎
-
215:1 Regarding the skin of the black antelope, considered as a symbol of Brāhmanical worship and civilisation, see part i, p. 23, note 2. As to the white and black hair of it representing the hymn-verses (r̥c) and tunes (sāman), and those of undecided colour the Yajus-formulas, see I, 1, 4, 2. ↩︎
-
215:2 Viz. because from speech the waters were produced (VI, 1, 1, 9) and from them the lotus-leaf has sprung. Sāy. ↩︎
-
216:1 See p. 201, note 1. ↩︎