०१
विश्वास-प्रस्तुतिः
प्र᳘दीप्ता ऽए᳘ते ऽग्न᳘यो भवन्ति॥
(न्त्य᳘) अ᳘थ मृ᳘दम᳘च्छयन्तीमे वै᳘ लोका᳘ ऽए᳘ते ऽग्न᳘यस्ते᳘ यदा प्र᳘दीप्ता ऽअ᳘थैत᳘ ऽइमे᳘ लोकाः᳘ पुरो वा᳘ ऽएत᳘देभ्यो᳘ लोकेभ्यो᳘ ऽग्रे देवाः कर्मा᳘न्वैच्छंस्तद्य᳘देता᳘नग्नी᳘नती᳘त्य मृ᳘दमाह᳘रति त᳘देनं पुरैभ्यो᳘[[!!]] लोकेभ्यो᳘ ऽन्विच्छति॥
मूलम् - श्रीधरादि
प्र᳘दीप्ता ऽए᳘ते ऽग्न᳘यो भवन्ति॥
(न्त्य᳘) अ᳘थ मृ᳘दम᳘च्छयन्तीमे वै᳘ लोका᳘ ऽए᳘ते ऽग्न᳘यस्ते᳘ यदा प्र᳘दीप्ता ऽअ᳘थैत᳘ ऽइमे᳘ लोकाः᳘ पुरो वा᳘ ऽएत᳘देभ्यो᳘ लोकेभ्यो᳘ ऽग्रे देवाः कर्मा᳘न्वैच्छंस्तद्य᳘देता᳘नग्नी᳘नती᳘त्य मृ᳘दमाह᳘रति त᳘देनं पुरैभ्यो᳘[[!!]] लोकेभ्यो᳘ ऽन्विच्छति॥
मूलम् - Weber
प्र᳘दीप्ता एॗते ऽग्न᳘यो भवन्ति॥
अ᳘थ मृ᳘दम᳘छयन्तीमे वै᳘ लोका᳘ एॗते ऽग्न᳘यस्ते᳘ यदा प्र᳘दीप्ता अ᳘थैत᳘ इमे᳘ लोकाः᳘ पुरो वा᳘ एत᳘देभ्यो लोकेभ्यो᳘ ऽग्रे देवाः कर्मा᳘न्वैछंस्तद्य᳘देता᳘नग्नी᳘नती᳘त्य मृ᳘दमाह᳘रति त᳘देनम् पुॗरैभ्यो᳘ लोकेभ्यो᳘ ऽन्विछति॥
मूलम् - विस्वरम्
प्रदीप्ता एते ऽग्नयो भवन्ति- अथ मृदमच्छयन्ति । इमे वै लोका एते ऽग्नयः । ते यदा प्रदीप्ताः- अथैत ऽइमे लोकाः । पुरो वा ऽएतदेभ्यो लोकेभ्यो ऽग्रे देवाः कर्मान्वैच्छन् । तद्यदेतानग्नीनतीत्य मुदमाहरति- तदेनं पुरैभ्यो लोकेभ्यो ऽन्विच्छति ॥ १ ॥
सायणः
कात्यायनः- “अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निम्पुरीष्यमिति"- (का. श्रौ. सू. १६ । ५४) इति । गार्हपत्यादिषु त्रिष्वग्निषु दीप्यमानेषु “अग्निम्पुरीष्यमिति” । मन्त्रेण मूत्पिण्डमभिलक्ष्य गच्छेयुरित्यर्थः । तद्विधत्ते- प्रदीप्ता एते ऽग्नय इति । अच्छयन्तीति । अभिगच्छन्तीत्यर्थः । ब्रह्माध्वर्युयजमानाः । ‘अच्छ’- शब्दस्य “अच्छ गत्यर्थवदेषु”- (पा. सू. १ । ४ । ६९) इति गतिसञ्ज्ञा । अग्निसान्निध्यं प्रशंसति- इमे वै लोका इति । ‘अग्रे’ पूर्वं ‘देवाः’ ‘एभ्यो लोकेभ्यः’ ‘पुरः’ पूर्वस्मिन् प्रदेशे, लोकानां पुरःप्रदेशे कर्मेचयनमन्विष्टवन्तः । ‘तत्’ तस्मात् ‘एतान्’ लोकत्रयात्मकान् ‘अग्नीन्’ ‘अतीत्य’ आदीप्य प्रज्वाल्य ‘मृदम्’ आहरेयुः अग्निषु ज्वलत्सु मृदानयनलोकानां पुरोदेशे मृद्रूपमग्निं कृतवन्तो भवन्ति ॥ १ ॥
Eggeling
- Those fires have been kindled (afresh); and they (the priests and sacrificer) betake themselves to the lump of clay 1;–those fires doubtless are these worlds: when they are kindled, then they are these worlds. For formerly the gods were seeking this sacred rite outside of these worlds; and when he fetches the lump of clay after passing by those fires, he is seeking him (Agni) outside of these worlds.
०२
विश्वास-प्रस्तुतिः
प्रा᳘ञ्चो यन्ति॥
प्रा᳘ची हि दि᳘गग्नेः स्वा᳘यामे᳘वैनमेत᳘द्दि᳘श्यन्विच्छ᳘ति[[!!]] स्वा᳘यां दिशि᳘ व्विन्दति॥
मूलम् - श्रीधरादि
प्रा᳘ञ्चो यन्ति॥
प्रा᳘ची हि दि᳘गग्नेः स्वा᳘यामे᳘वैनमेत᳘द्दि᳘श्यन्विच्छ᳘ति[[!!]] स्वा᳘यां दिशि᳘ व्विन्दति॥
मूलम् - Weber
प्रा᳘ञ्चो यन्ति॥
प्राची हि दि᳘गग्नेः स्वा᳘यामेॗवैनमेत᳘द्दिश्य᳘न्विछ᳘ति स्वा᳘यां दिशि᳘ विन्दति॥
मूलम् - विस्वरम्
प्राञ्चो यन्ति । प्राची हि दिगग्नेः । स्वायामेवैनमेतद्दिश्यन्विच्छति । स्वायां दिशि विन्दति ॥ २ ॥
सायणः
तत्र गच्छतामध्वर्युप्रभृतीनां प्राङ्मुखं विधत्ते- प्राञ्चो यन्तीति ॥ २ ॥
Eggeling
- They go eastwards; for the east is Agni’s region: he thus seeks him in his own region, finds him in his own region.
०३
विश्वास-प्रस्तुतिः
ते प्र᳘यन्ति॥
(न्त्य) अग्निं᳘ पुरी᳘ष्यमङ्गिरस्वद᳘च्छेम ऽइ᳘त्यग्निं᳘[[!!]] पश᳘व्यमग्निवद᳘च्छेम ऽइ᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
ते प्र᳘यन्ति॥
(न्त्य) अग्निं᳘ पुरी᳘ष्यमङ्गिरस्वद᳘च्छेम ऽइ᳘त्यग्निं᳘[[!!]] पश᳘व्यमग्निवद᳘च्छेम ऽइ᳘त्येतत्[[!!]]॥
मूलम् - Weber
ते प्र᳘यन्ति॥
अग्नि᳘म् पुरीष्य᳘मङ्गिरस्वद᳘छेम इ᳘त्यग्नि᳘म् पशव्य᳘मग्निवद᳘छेम इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
ते प्रयन्ति- “अग्निं पुरीष्यमङ्गिरस्वदच्छेमः”- (वा. सं. ११ । १६) इति । अग्निं पशव्यमग्निवदच्छेम- इत्येतत् ॥ ३ ॥
सायणः
अभिगमनमनूद्य मन्त्रं विधत्ते- ते प्रयन्त्यग्निम्पुरीष्यमङ्गिरस्वदच्छेम इतीति । ‘पुरीष्यं’ पशुहितं मृद्रूपम् ‘अङ्गिरस्वत्’ अग्निवत् ‘अच्छेम’ अभिगच्छामः ॥ ३ ॥
Eggeling
- They go forward, with, ‘Aṅgiras-like, we go to Agni Purīshya;’–that is, ’like Agni, we are going to Agni, favourable to cattle.’
०४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थानद्धापुरुष᳘मीक्षते॥
(ते ऽग्निं᳘) अग्निं᳘ पुरी᳘ष्यमङ्गिरस्व᳘द्भरिष्याम ऽइ᳘त्यग्निं᳘[[!!]] पश᳘व्यमग्निव᳘द्भरिष्याम ऽइ᳘त्येतत्त᳘देनमनद्धापुरुषेणा᳘न्विच्छति[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थानद्धापुरुष᳘मीक्षते॥
(ते ऽग्निं᳘) अग्निं᳘ पुरी᳘ष्यमङ्गिरस्व᳘द्भरिष्याम ऽइ᳘त्यग्निं᳘[[!!]] पश᳘व्यमग्निव᳘द्भरिष्याम ऽइ᳘त्येतत्त᳘देनमनद्धापुरुषेणा᳘न्विच्छति[[!!]]॥
मूलम् - Weber
अ᳘थानद्धापुरुष᳘मीक्षते॥
अग्नि᳘म् पुरीष्य᳘मङ्गिरस्व᳘द्भरिष्याम इ᳘त्यग्नि᳘म् पशव्य᳘मग्निव᳘द्भरिष्याम इ᳘त्येतत्त᳘देनमनद्धापुरुषेणा᳘न्विछति॥
मूलम् - विस्वरम्
अथानद्धापुरुषमीक्षते- “अग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामः”- (वा. सं. ११ । १६) इत्येतत् । तदेनमनद्धा पुरुषेणान्विच्छति ॥ ४ ॥
सायणः
पूर्वं पुरुषपशोः प्रतिनिधित्वेन अनद्धापुरुष उक्तः (श. प. ६ । ३ । १ । २४) । तस्येदानीं । विनियोगमाह- अथानद्धापुरुषमीक्षत इति । (का. श्रौ. सू. १६ । ५६) । “देवपितृमनुष्यानर्थकः स इति" (श. प. ६ । ३ । १ । २४ । भाष्ये.) प्रागुक्तः । ‘भरिष्यामः’ आहरिष्याम इत्यर्थः । अनद्धापुरुषनिरीक्षणं तेनाग्नेरन्वेषणमित्येतत् ॥ ४ ॥
Eggeling
- He then looks at the sham-man, with, ‘Aṅgiras-like, we shall carry Agni Purīshya;’–that is, ‘Like Agni, we shall carry Agni, favourable to cattle:’ he thus searches for him by means of the sham-man.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ व्वल्मीकवपा᳘ सुषिरा᳘ व्यध्वे[[!!]] नि᳘हिता भवति॥
ताम᳘न्वीक्षत ऽइयं वै᳘ व्वल्मीकव्व᳘पेय᳘मु वा᳘ ऽइमे᳘ लोका᳘ ऽएतद्वा᳘ ऽएनं देवा᳘ ऽएषु᳘ लोके᳘षु व्विग्रा᳘हमैच्छंस्त᳘थै᳘वैनमय᳘मेत᳘देषु᳘ लोके᳘षु व्विग्रा᳘हमिच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ व्वल्मीकवपा᳘ सुषिरा᳘ व्यध्वे[[!!]] नि᳘हिता भवति॥
ताम᳘न्वीक्षत ऽइयं वै᳘ व्वल्मीकव्व᳘पेय᳘मु वा᳘ ऽइमे᳘ लोका᳘ ऽएतद्वा᳘ ऽएनं देवा᳘ ऽएषु᳘ लोके᳘षु व्विग्रा᳘हमैच्छंस्त᳘थै᳘वैनमय᳘मेत᳘देषु᳘ लोके᳘षु व्विग्रा᳘हमिच्छति॥
मूलम् - Weber
अ᳘थ वल्मीकवपा᳘ सुषिरा व्य᳘ध्वे नि᳘हिता भवति॥
ताम᳘न्वीक्षत इयं वै᳘ वल्मीकुवॗपेय᳘मु वा᳘ इमे᳘ लोका᳘ एतद्वा᳘ एनं देवा᳘ एषु᳘ लोके᳘षु विग्रा᳘हमैछंस्त᳘थैॗवैनमय᳘मेत᳘देषु᳘ लोके᳘षु विग्रा᳘हमिछति॥
मूलम् - विस्वरम्
अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति । तामन्वीक्षते । इयं वै वल्मीकवपा । इयमु वा ऽइमे लोकाः । एतद्वा ऽएनं देवा एषु लोकेषु विग्राहमैच्छन् । तथैवैनमयमेतदेषु लोकेषु विग्राहमिच्छति ॥ ५ ॥
सायणः
अत्र सूत्रम्- “पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रां निदधाति”- (का . श्रौ. सू. १६ । ४६) इति । अश्वादिपशूनां त्रिवृन्मुञ्जाभिधानीबन्धनात् पूर्वं मृत्पिण्डस्य पश्चिमदेशे ‘व्यध्वे’ पिण्डाहवनीययोरर्द्धपथे सच्छिद्रा वल्मीकवपा निधेयेत्युक्तम्; इदानीं “वल्मीकवपामादाय च्छिद्रेण पिण्डमीक्षते ऽन्वग्निरिति”- (का. श्रौ. सू. १६ । ५७) इति; तदिदं विधिद्वयं दर्शयति- अथ वल्मीकेति । पूर्वमेव व्यध्वे सुषिराया वल्मीकवपायाः स्थापनं सूचयितुं ‘निहिता’- इति भूतकालवाचि क्तान्तं पदम् ‘तामनु’ निहितां वपामनुलक्ष्य ‘ईक्षते,’ मृदं वपाच्छिद्रेण पिण्डं पश्येदित्यर्थः । “इयं वै वल्मीकवपा” इत्यादेरयमर्थः,- वल्मीकवपा नाम ‘इयं’ भूमिः; तत्कार्यत्वात् । भूमिर्हि सर्वे लोकाः तत्प्रमुखत्वात् इतरेषां कर्मभूमित्वेन विशिष्टत्वाच्च । पूर्वं ‘देवाः’ ‘एनम्’ अग्निम् ‘एषु’ सर्वलोकेषु ‘विग्राहम्’ ‘ऐच्छन्,’ विगृह्यात्रास्तीति सर्वत्रान्विष्टवन्तः, इदानीं तच्छिद्रेण पिण्डनिरीक्षणं सर्वलोकेषु मृद्रूपस्याग्नेर्विगृह्यान्वेषणमिति ॥ ५ ॥
Eggeling
- Thereupon a hollow ant-hill is laid down midways (between the lump of clay and the Āhavanīya fire). He looks along it 2; for the ant-hill is this
earth, and this earth is these worlds. For the gods searched for him (Agni) in these worlds part by part; and in like manner does this one now search for him in these worlds part by part.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘न्वग्नि᳘रुष᳘साम᳘ग्रमख्यदि᳘ति॥
त᳘देनमु᳘षःस्वैच्छन्नन्व᳘हानि प्रथमो᳘ जात᳘वेदा ऽइ᳘ति त᳘देनमहःस्वैच्छन्न᳘नु सू᳘र्यस्य पुरुत्रा᳘ च रश्मीनि᳘ति त᳘देनᳫँ᳭ सू᳘र्यस्य रश्मि᳘ष्वैच्छन्न᳘नु द्या᳘वापृथिवी ऽआ᳘ततन्थे᳘ति त᳘देनं द्या᳘वापृथिव्यो᳘रैच्छंस्त᳘मविन्दंस्त᳘थै᳘वैनमय᳘मेत᳘द्विन्दति तं᳘ यदा᳘ पराप᳘श्यत्य᳘थ᳘ ताम᳘वास्यत्या᳘गच्छन्ति मृ᳘दम्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘न्वग्नि᳘रुष᳘साम᳘ग्रमख्यदि᳘ति॥
त᳘देनमु᳘षःस्वैच्छन्नन्व᳘हानि प्रथमो᳘ जात᳘वेदा ऽइ᳘ति त᳘देनमहःस्वैच्छन्न᳘नु सू᳘र्यस्य पुरुत्रा᳘ च रश्मीनि᳘ति त᳘देनᳫँ᳭ सू᳘र्यस्य रश्मि᳘ष्वैच्छन्न᳘नु द्या᳘वापृथिवी ऽआ᳘ततन्थे᳘ति त᳘देनं द्या᳘वापृथिव्यो᳘रैच्छंस्त᳘मविन्दंस्त᳘थै᳘वैनमय᳘मेत᳘द्विन्दति तं᳘ यदा᳘ पराप᳘श्यत्य᳘थ᳘ ताम᳘वास्यत्या᳘गच्छन्ति मृ᳘दम्॥
मूलम् - Weber
अ᳘न्वग्नि᳘रुष᳘साम᳘ग्रमख्यदि᳘ति॥
त᳘देनमु᳘षःस्वैछन्नन्व᳘हानि प्रथमो᳘ जात᳘वेदा इ᳘ति त᳘देनमहःस्वैछन्न᳘नु सू᳘र्यस्य रुरुत्रा᳘ च रश्मीनि᳘ति त᳘देनᳫं सू᳘र्यस्य रश्मि᳘ष्वैछन्न᳘नु द्या᳘वापृथिवी आ᳘ततन्थे᳘ति त᳘देनं द्या᳘वापृथिव्यो᳘रैछंस्त᳘मविन्दंस्त᳘थैॗवैनमय᳘मेत᳘द्विन्दति तं᳘ यदा᳘ पराप᳘श्यत्य᳘थ ताम᳘वास्यत्या᳘गछन्ति मृ᳘दम्॥
मूलम् - विस्वरम्
“अन्वग्निरुषसामग्रमख्यत्”- इति । तदेनमुषःस्वैच्छन् । “अन्वहानि प्रथमो जातवेदाः”- इति । तदेनमहःस्वैच्छन् । “अनुसूर्यस्य पुरुत्रा च रश्मीन्"- इति । तदेनं सूर्यस्य रश्मिष्वैच्छन् “अनु द्यावापृथिवी ऽआततन्थ”- (वा. सं. ११ । १७) इति । तदेनं द्यावापृथिव्योरैच्छन्, तमविन्दन् । तथैवैनमयमेतद्विन्दति । तं यदा परापश्यति- अथ तामवास्यति, आगच्छन्ति मृदम् ॥ ६ ॥
सायणः
निरीक्षणे मन्त्रं विधत्ते- अन्वग्निरिति । प्रजापतिरूपेणाग्निः स्तूयते- अन्वग्निरिति । ‘उषसाम् अग्रम्’ आदित्यम् ‘अनु’-लक्ष्य अग्निः ‘अन्वख्यत्’ अनुदीप्यते । ‘प्रथमः’ आद्यः ‘जातवेदाः’ जातप्रज्ञः । जातानि भूतानि वेत्तीति वा, जाते जाते विद्यते जायत इति वा जातवेदाः (निरु. ७ । ५ । १) । अहानि ‘अनु’- लक्ष्य दीप्यते । ‘पुरुत्रा’ बहुषु देशेषु ‘सूर्यस्य रश्मीन्’ ‘अनु’-लक्ष्य दीप्यते । एवं पारोक्ष्येणोत्क्त्वा चतुर्थपादेनाग्निं सम्बोध्याह- स त्वमग्ने ! ‘द्यावापृथिवी’ ‘अनु’-लक्ष्य ‘आततन्थ’ स्वतेज आतेनिथ । “बभूथाततन्थजगृम्मववर्थ”- (पा. सू. ७ । २ । ६४) इति निगम इडभावेन निपातितः । मन्त्रस्य तात्पर्यमाह- तदेनमुषःस्वैच्छन्नित्यादिना । यदा परापश्यतीति । यदा पिण्डं छिद्रेण पश्येत्, तदा ‘मृदम्’ ‘अवस्यति’ चिनोति, जानाति ‘अथ’ ‘ताम्’ मृदमभिलक्ष्य गच्छेदिति ॥ ६ ॥
Eggeling
- [Vāj. S. XI, 17] ‘Agni hath looked along the crest of the Dawns,’–thereby they sought him in the dawns;–‘along the days, he, the first knower of beings,’–thereby they sought him in the days;–‘and oftentimes along the rays of the sun,’–thereby they sought him in the rays of the sun;–‘along the sky and the earth hast thou spread;’–therewith they sought him in the sky and the earth, and found him; and in like manner does this one thereby find him (Agni). When he sees him from afar, he throws down that (ant-hill); and they go up to the lump of clay.
०७
विश्वास-प्रस्तुतिः
(म) अथा᳘श्वमभि᳘मन्त्रयते॥
(त ऽ) एतद्वै᳘ देवा᳘ ऽअब्रुवन्पाप्मा᳘नमस्या᳘पहनामे᳘ति श्रमो वै᳘ पाप्मा श्र᳘ममस्य पाप्मा᳘नम᳘पहनामे᳘ति त᳘स्य श्र᳘मं पाप्मा᳘नम᳘पाघ्नंस्त᳘थै᳘वास्याय᳘मेतच्छ्र᳘मं पाप्मा᳘नम᳘पहन्ति॥
मूलम् - श्रीधरादि
(म) अथा᳘श्वमभि᳘मन्त्रयते॥
(त ऽ) एतद्वै᳘ देवा᳘ ऽअब्रुवन्पाप्मा᳘नमस्या᳘पहनामे᳘ति श्रमो वै᳘ पाप्मा श्र᳘ममस्य पाप्मा᳘नम᳘पहनामे᳘ति त᳘स्य श्र᳘मं पाप्मा᳘नम᳘पाघ्नंस्त᳘थै᳘वास्याय᳘मेतच्छ्र᳘मं पाप्मा᳘नम᳘पहन्ति॥
मूलम् - Weber
अथा᳘श्वमभि᳘मन्त्रयते॥
एतद्वै᳘ देवा᳘ अब्रुवन्पाप्मा᳘नमस्या᳘पहनामे᳘ति श्रमो वै᳘ पाप्मा श्र᳘ममस्य पाप्मा᳘नम᳘पहनामे᳘ति त᳘स्य श्र᳘मम् पाप्मा᳘नम᳘पाघ्नंस्त᳘थैॗवास्याय᳘मेतछ्र᳘मम् पाप्मा᳘नम᳘पहन्ति॥
मूलम् - विस्वरम्
अथाश्वमभिमन्त्रयते । एतद्वै देवा अब्रुवन्- पाप्मानमस्यापहनामेति । श्रमो वै पाप्मा । श्रममस्य पाप्मानमपहनामेति । तस्य श्रमं पाप्मानमपाघ्नन् । तथैवास्यायमेतच्छ्रमं पाप्मानमपहन्ति ॥ ७ ॥
सायणः
तत्राश्वाभिमन्त्रणं विधत्ते- अथाश्वमिति 3 । एतद्वै देवा इति । पूर्वं ‘देवाः’ पथि श्रान्तस्य अश्वस्य श्रमलक्षणं पाप्मानमपहतवन्तः, एवमभिमन्त्रणेन पथि श्रान्तस्य श्रमापनयनं भवति ॥ ७ ॥
Eggeling
- He then addresses the horse; for the gods then said, ‘Let us drive away his evil!’ Now evil is weariness: thus, ‘Let us drive away his weariness, the evil!’ They drove away his weariness, the evil; and in like manner does this one now drive away his weariness, the evil.
०८
विश्वास-प्रस्तुतिः
(न्त्या) आग᳘त्य व्वाज्य᳘ध्वानमिति[[!!]]॥
(त्या᳘) आ᳘गतो᳘ ह्यस्या᳘ध्वा[[!!]] भ᳘वति स᳘र्व्वा मृ᳘धो व्वि᳘धूनुत ऽइ᳘ति पाप्मा वै मृ᳘धः स᳘र्व्वान्पाप्म᳘नो व्वि᳘धूनुत ऽइ᳘त्येतत्त᳘स्मादु हैतद᳘श्वः स्यत्त्वा वि᳘धूनुते ऽग्नि᳘ᳫँ᳘ सध᳘स्थे महति च᳘क्षुषा नि᳘चिकीषत ऽइ᳘तीदं वै᳘ मह᳘त्सध᳘स्थमग्नि᳘मस्मि᳘न्महति᳘[[!!]] सध᳘स्थे च᳘क्षुषा दिदृक्षत ऽइ᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(न्त्या) आग᳘त्य व्वाज्य᳘ध्वानमिति[[!!]]॥
(त्या᳘) आ᳘गतो᳘ ह्यस्या᳘ध्वा[[!!]] भ᳘वति स᳘र्व्वा मृ᳘धो व्वि᳘धूनुत ऽइ᳘ति पाप्मा वै मृ᳘धः स᳘र्व्वान्पाप्म᳘नो व्वि᳘धूनुत ऽइ᳘त्येतत्त᳘स्मादु हैतद᳘श्वः स्यत्त्वा वि᳘धूनुते ऽग्नि᳘ᳫँ᳘ सध᳘स्थे महति च᳘क्षुषा नि᳘चिकीषत ऽइ᳘तीदं वै᳘ मह᳘त्सध᳘स्थमग्नि᳘मस्मि᳘न्महति᳘[[!!]] सध᳘स्थे च᳘क्षुषा दिदृक्षत ऽइ᳘त्येतत्[[!!]]॥
मूलम् - Weber
आग᳘त्य वाज्य᳘ध्वानमि᳘ति॥
आ᳘गतोॗ ह्य᳘स्याध्वा 4 भ᳘वति स᳘र्वा मृ᳘धो वि᳘धूनुत इ᳘ति पाप्मा वै मृ᳘धः स᳘र्वान्पाप्म᳘नो वि᳘धूनुत इ᳘त्येतत्त᳘स्मादु हैतद᳘श्वः स्यन्त्त्वा वि᳘धूनुते ऽग्नि᳘ᳫं᳘ सध᳘स्थे महति च᳘क्षुषा नि᳘चिकीष इ᳘तीदं वै᳘ मह᳘त्सध᳘स्थमग्नि᳘मस्मिन्महति᳘ सध᳘स्थे च᳘क्षुषा दिदृक्षत इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“आगत्य वाज्यध्वानम्”- इति । आगतो ह्यस्याध्वा भवति । “सर्वा मृधो विधूनुते”- इति । पाप्मा वै मृधः । सर्वान्पाप्मनो विधूनुत ऽइत्येतत् । तस्मादु हैतदश्वः स्यत्त्वा विधूनुते । “अग्निं सधस्थे महति चक्षुषा निचिकीषते”- (वा. सं. ११ । १८) इति । इदं वै महत् सधस्थम् । अग्निमस्मिन्महति सधस्थे चक्षुषा दिदृक्षत ऽइत्येतत् ॥ ८ ॥
सायणः
मन्त्रं विधत्ते- आगत्य वाजीति । ‘वाजी’ वेजनवान् बलवान् अश्वः ‘अध्वानं’ मार्गम् ‘आगत्य’ ‘सर्वा’ ‘मृधः’ सङ्ग्रामान् ‘विधूनुते’ कम्पयति । ‘महति सधस्थे’ पृथिव्यां वर्त्तमानम् ‘अग्निम्’ ‘चक्षुषा’ ‘निचिकीषते’ द्रष्टुमिच्छति ॥
द्वितीयं पादं व्याचष्टे- पाप्मा वै मृधः इति । कथमश्वविधूननमिति, तदुपपादयति- तस्मादु हैतदिति । ‘अश्वः’ ‘स्यत्त्वा’ स्यन्दतेः क्त्वा-प्रत्यये इडभावे नलोपे च कृते रूपम् । अध्वानं गत्वा स्वशरीरं ‘विधूनुते’ कम्पयति ॥ ८ ॥
Eggeling
- [Vāj. S. XI, 18] ‘The courser, having started on his way,’–for his way has indeed been started upon;–‘shaketh off all assaults,’–assaults mean evils: thus, ‘shakes off all evils;’ and hence, indeed, the horse, whilst running, shakes itself;–‘Agni he seeks to descry with his eye on the great seat;’–the great seat doubtless is this sacrificial (place): thus, ‘Agni he wishes to see with his eye on this great seat.’
०९
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थैनमा᳘क्रमयति॥
(त्ये) एतद्वा᳘ ऽएष᳘ ऽएतं᳘ देवे᳘भ्यो ऽनुवि᳘द्य प्रा᳘बवीद्य᳘था ऽय᳘मि᳘हेवे᳘त्येवम्[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थैनमा᳘क्रमयति॥
(त्ये) एतद्वा᳘ ऽएष᳘ ऽएतं᳘ देवे᳘भ्यो ऽनुवि᳘द्य प्रा᳘बवीद्य᳘था ऽय᳘मि᳘हेवे᳘त्येवम्[[!!]]॥
मूलम् - Weber
अ᳘थैनमा᳘क्रमयति॥
एतद्वा᳘ एष᳘ एतं᳘ देवे᳘भ्यो ऽनुवि᳘द्य प्रा᳘बवीद्य᳘थाय᳘मिॗहेवे᳘त्येव᳘म्॥
मूलम् - विस्वरम्
अथैनमाक्रमयति । एतद्वा ऽएष एतं देवेभ्यो ऽनुविद्य प्राब्रवीत्- यथा ऽयमिहेवेत्येवम् ॥ ९ ॥
सायणः
तत्र सूत्रम्- “आक्रम्येत्येनेन पिण्डमधिष्ठापयति”- (का. श्रौ. सू. १६ । ६०) इति । एनेनेत्यश्वो ऽभिधीयते । “आक्रम्य वाजिन्”- इति मन्त्रेण पिण्डमेनेनाश्वेनाधिष्ठापयति आक्रमयतीत्यर्थः । तद् विधत्ते- अथैनमाक्रमयतीति । ‘एनं’ मृत्पिण्डमश्वेनाक्रमयेदित्यर्थः । एतद्वा इति । पूर्वं ‘यथा’ ‘एतम्’ अश्वम् अग्निस्थानम् ‘अनुविद्य’ लब्ध्वा ‘देवेभ्यः’ ‘अयम्’ अग्निः ‘इह’ देशे तिष्ठतीति पादाक्रमेण ‘प्राब्रवीत्’ ‘एवम्’ अश्वेन पिण्डाधिष्ठापनं नाम, तस्मादग्नेर्वेदनमित्यर्थः ॥ ९ ॥
Eggeling
- He then makes it (the horse) step on (the lump of clay with the left fore-foot); for having discovered him (Agni), it (the horse) then indicated
him to the gods, as if (it meant to say) 5, ‘Just here he is!’
१०
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वाक्रम᳘यति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतं व्व᳘ज्रमुप᳘रिष्टादभिगोप्ता᳘रमकुर्व्वन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘थै᳘वास्मा ऽअय᳘मेतं व्व᳘ज्रमुप᳘रिष्टादभिगोप्ता᳘रं करोति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वाक्रम᳘यति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतं व्व᳘ज्रमुप᳘रिष्टादभिगोप्ता᳘रमकुर्व्वन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘थै᳘वास्मा ऽअय᳘मेतं व्व᳘ज्रमुप᳘रिष्टादभिगोप्ता᳘रं करोति॥
मूलम् - Weber
य᳘द्वेॗवाक्रम᳘यति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षाᳫं सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा एतं व᳘ज्रमुप᳘रिष्टदभिगोप्ता᳘रमकुर्वन्नमु᳘मेॗवादित्य᳘मसौ वा᳘ आदित्य᳘ एषो᳘ ऽश्वस्त᳘थैॗवास्मा अय᳘मेतं व᳘ज्रमुप᳘रिष्टादभिगोप्ता᳘रं करोति॥
मूलम् - विस्वरम्
यद्वेवाक्रमयति । एतद्वै देवा अबिभयुः । यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा ऽएतं वज्रमुपरिष्टादभिगोप्तारमकुर्वन् । अमुमेवादित्यम् । असौ वा ऽआदित्य एषो ऽश्वः । तथैवास्मा ऽअयमेतं वज्रमुपरिष्टादभिगोप्तारं करोति ॥ १० ॥
सायणः
आक्रमणं प्रकारान्तरेण स्तोतुमनुवदति- यद्वेवेति । ‘देवाः’ रक्षोभ्यो भीतवन्तः ‘एतं’ ‘वज्रम्’ वज्ररूपमश्वम् आदित्यम् ‘उपरिष्टात्’ उपरिभागे ‘अभिगोप्तारं’ रक्षकम् ‘अकुर्वन्’ । आदित्यस्याश्वरूपता प्रागुक्ता (श. प. २ । ६ । ३ । ९ । श. प. ३ । ५ । १ । १९ । २०) ‘तथैव’ तेन प्रकारेण ‘अस्मै’ पिण्डपायाग्नये ‘अयम्’ अनुष्ठाता अश्वाक्रमणेन ‘एतं’ वज्ररूपमश्वम् आदित्यम् ‘उपरिष्टात्’ उपरिभागे ‘अभिगोप्तारं’ रक्षकं ‘करोति’ कृतवान् भवतीति ॥ १० ॥
Eggeling
- And, again, why he makes it step thereon;–the gods then were afraid, thinking, ‘We hope the Rakshas, the fiends, will not slay here this our (Agni)!’ They placed that thunderbolt upon him as a protector, to wit, yonder sun; for that horse is indeed yonder sun; and in like manner does this (Sacrificer, or priest) now place upon him that thunderbolt as a protector.
११
विश्वास-प्रस्तुतिः
(त्या) आक्र᳘म्य व्वाजिन्॥
(न्पृ) पृथिवी᳘मग्नि᳘मिच्छ रुचा त्वमि᳘ति च᳘क्षुर्व्वै रु᳘गाक्र᳘म्य त्वं᳘ व्वाजिन्पृथिवी᳘मग्नि᳘मिच्छ च᳘क्षुषे᳘त्येतद्भू᳘म्या व्वृत्त्वा᳘य नो ब्रूहि य᳘तः ख᳘नेम तं᳘ व्वयमि᳘ति भू᳘मेस्त᳘त्स्पाशयित्वा᳘य नो ब्रूहि य᳘त ऽएनं ख᳘नेमे᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(त्या) आक्र᳘म्य व्वाजिन्॥
(न्पृ) पृथिवी᳘मग्नि᳘मिच्छ रुचा त्वमि᳘ति च᳘क्षुर्व्वै रु᳘गाक्र᳘म्य त्वं᳘ व्वाजिन्पृथिवी᳘मग्नि᳘मिच्छ च᳘क्षुषे᳘त्येतद्भू᳘म्या व्वृत्त्वा᳘य नो ब्रूहि य᳘तः ख᳘नेम तं᳘ व्वयमि᳘ति भू᳘मेस्त᳘त्स्पाशयित्वा᳘य नो ब्रूहि य᳘त ऽएनं ख᳘नेमे᳘त्येतत्[[!!]]॥
मूलम् - Weber
आक्र᳘म्य वाजिन्॥
पृथिवी᳘मग्नि᳘मिछ रुचा त्वमि᳘ति च᳘क्षुर्वै रु᳘गाक्र᳘म्य त्वं᳘ वाजिन्पृथिवी᳘मग्नि᳘मिछ च᳘क्षुषे᳘त्येतद्भू᳘म्या वृत्त्वाय 6 नो ब्रूहि य᳘तः ख᳘नेम तं᳘ वयमि᳘ति भू᳘मेस्त᳘त्स्पाशयित्वा᳘य नो ब्रूहि य᳘त एनं ख᳘नेमे᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“आक्रम्य वाजिन् पृथिवीमग्निमिच्छ रुचा त्वम्”- इति । चक्षुर्वै रुक् । आक्रम्य त्वं वाजिन् ! पृथिवीमग्निमिच्छ चक्षुषेत्येतत् । “भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम्”- (वा. सं. ११ । २०) इति । भूमेस्तत् स्पाशयित्वाय नो ब्रूहि- यत एनं खनेमेत्येतत् ॥ ११ ॥
सायणः
मन्त्रं विधत्ते- आक्रम्य वाजिन्निति । हे ‘वाजिन्’ अश्व ! ‘त्वं’ ‘पृथिवीम्’ ‘आक्रम्य,’ ‘रुचा’ “रुच दीप्तौ” (धा. पा. भ्वा, प. ७४६) किबन्तात् तृतीयैकवचनम्, अनेन ‘चक्षुषा’ ‘अग्निम्’ ‘इच्छ,’ कुत्र तिष्ठतीत्यन्वेषणं कुरु । ‘वृत्वाय’ वृणोतेर्वर्त्तमाने क्त्वा, वृत्वायेति क्त्वो यक् । अत्र वृ-धातुः स्पर्शनार्थे; धातूनामनेकार्थत्वात् । ‘भूम्याः’ इति कर्मणि षष्ठी । भूमिम्, ‘वृत्वाय’ स्पृष्ट्वा, भूप्रदेशं स्पर्शयित्वा ‘नः ब्रूहि’ ‘यतः’ यस्मात् प्रदेशात् ‘तम्’ मृद्रूपमग्निं ‘खनेम्’ इति ॥ अत्र मन्त्रे ‘रुचा’- इति, ‘वृत्वाय’- इति पदं व्याचष्टे- चक्षुर्वे रुगिति, भूमेस्तत् स्पाशयित्वायेति । “स्पश बाधनस्पर्शनयोः” (धा. पा. भ्वा. प. ९९२) इत्यस्य रूपम्, स्पाशयित्वायेति पूर्ववत् क्त्वो यक् ॥ ११ ॥
Eggeling
- [Vāj. S. XI, 19] ‘Having come upon the earth, O courser, seek thou Agni by thy light!’–the light is the eye: thus, ‘Having come to the earth, thou, O courser, seek Agni with thy eye!’–‘by pawing 7 the ground tell us where we may dig him out!’–that is, ‘by pointing out that (spot) of the ground tell us where we may dig him out.’
१२
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थैनमु᳘न्मृशति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः᳘ प्रोचिवा᳘ᳫँ᳘सं व्वी᳘र्येण स᳘मार्धयंस्तथै᳘वैनमय᳘मेत᳘त्प्रोचिवा᳘ᳫँ᳘सं व्वी᳘र्येण स᳘मर्धयति द्यौ᳘स्ते पृष्ठं᳘ पृथिवी᳘ सध᳘स्थमा᳘त्मा ऽन्त᳘रिक्षᳫँ᳭ समुद्रो यो᳘निरि᳘तीत्थ᳘मसीत्थ᳘मसी᳘त्ये᳘वैत᳘दाह व्विख्या᳘य च᳘क्षुषा त्व᳘मभि᳘तिष्ठ पृतन्यत ऽइ᳘ति व्विख्या᳘य च᳘क्षुषा त्व᳘मभि᳘तिष्ठ स᳘र्व्वान्पाप्म᳘न ऽइ᳘त्येतन्नो᳘पस्पृशति व्व᳘ज्रो वा ऽअ᳘श्वो ने᳘न्मा ऽयं व्व᳘ज्रो हिन᳘सदिति[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थैनमु᳘न्मृशति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः᳘ प्रोचिवा᳘ᳫँ᳘सं व्वी᳘र्येण स᳘मार्धयंस्तथै᳘वैनमय᳘मेत᳘त्प्रोचिवा᳘ᳫँ᳘सं व्वी᳘र्येण स᳘मर्धयति द्यौ᳘स्ते पृष्ठं᳘ पृथिवी᳘ सध᳘स्थमा᳘त्मा ऽन्त᳘रिक्षᳫँ᳭ समुद्रो यो᳘निरि᳘तीत्थ᳘मसीत्थ᳘मसी᳘त्ये᳘वैत᳘दाह व्विख्या᳘य च᳘क्षुषा त्व᳘मभि᳘तिष्ठ पृतन्यत ऽइ᳘ति व्विख्या᳘य च᳘क्षुषा त्व᳘मभि᳘तिष्ठ स᳘र्व्वान्पाप्म᳘न ऽइ᳘त्येतन्नो᳘पस्पृशति व्व᳘ज्रो वा ऽअ᳘श्वो ने᳘न्मा ऽयं व्व᳘ज्रो हिन᳘सदिति[[!!]]॥
मूलम् - Weber
अ᳘थैनमु᳘न्मृशति॥
एतद्वा᳘ एनं देवाः᳘ प्रोचिवा᳘ᳫं᳘सं वीॗर्येण स᳘मार्धयंस्तथैॗवैनमय᳘मेतत्प्रोचिवा᳘ᳫं᳘सं वीॗर्येण स᳘मर्धयति द्यौ᳘स्ते पृष्ठ᳘म् पृथिवी᳘ सध᳘स्थमाॗत्मान्त᳘रिक्षᳫं समुद्रो यो᳘निरि᳘तीत्थ᳘मसीत्थ᳘मसी᳘त्येॗवैत᳘दाह विख्या᳘य चक्षुषा त्व᳘मभि᳘तिष्ठ पृतन्यत इ᳘ति विख्या᳘य च᳘क्षुषा त्व᳘मभि᳘तिष्ठ स᳘र्वान्पाप्म᳘न इ᳘त्येतन्नो᳘पस्पृशति व᳘ज्रो वा अ᳘श्वो ने᳘न्मायं व᳘ज्रो हिन᳘सदि᳘ति॥
मूलम् - विस्वरम्
अथैनमुन्मृशति । एतद्वा ऽएनं देवाः प्रोचिवांसं वीर्येण समार्धयन् । तथैवैनमयमेतत्प्रोचिवांसं वीर्येण समर्धयति । “द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मा ऽन्तरिक्षं समुद्रो योनिः”- इति । इत्थमसि, इत्थमसि, इत्येवैतदाह । “विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यतः”- (वा. सं. ११ । २०) विख्याय चक्षुषा त्वमभितिष्ठ सर्वान्पाप्मन इत्येतत् । नोपस्पृशति । वज्रो वा ऽअश्वः । नेन्मा ऽयं वज्रो हिनसदिति ॥ १२ ॥
सायणः
अश्वाभिमन्त्रणं विधत्ते- अथैनमुन्मृशतीति 8 । ‘प्रोचिवांसम्’ अत्राग्निस्तिष्ठतीति चोक्तवन्तम् । उन्मर्शनं नाम अश्वपृष्ठस्योपरि पाणिधारणम् । मन्त्रं विधत्ते- द्यौस्त इति । हे अश्व । ‘ते’ तव ‘द्यौः’ द्युलोकः ‘पृष्ठम्’ उपरिभागः, ‘पृथिवी’ ‘सधस्थम्’ सहस्थानम्, पादावित्यर्थः; ‘आत्मा’ शरीरम् ‘अन्तरिक्षम्,’ ‘समुद्रः’ उदकं ‘योनिः’ उत्पत्तिस्थानम् । तादृशः ‘त्वम्’ ‘चक्षुषा’ ‘विख्याय’ निरीक्ष्य, ‘पृतन्यतः’ सङ्ग्रामेच्छून् पुरुषान् ‘पाप्मनः इति’ ‘एतत्’ ‘अभितिष्ठ’ सहस्व । ‘पृतना’- शब्दात् क्यचि “कव्यध्वरपृतनस्यर्चि लोपः”- (पा. सू. ७ । ४ । ३९) इति अवर्णस्य लोपः । पूर्वार्द्धस्य तात्पर्यमाह- इत्थमसीत्थमसीति । ‘द्युलोकात्मा ऽसि,’ ‘पृथिव्यात्मा ऽसि’- इत्याद्यर्थो वीप्साकृतः । उत्तरार्द्धगतं पृतन्यत्पदं व्याचष्टे- सर्वान् पाप्मन इत्येददिति । अत्र सूत्रम्- “अनुपस्पृशन्नुत्क्रामेत्युत्क्रमयति"- (का. श्रौ. सू. १६ । ६१) इति । अश्वमस्पृशन्नेवोत्क्रामति मन्त्रेणाश्वस्योत्क्रामणं कारयेदित्यर्थः । तद् विधत्ते- नोपस्पृशतीत्यादि ॥ १२ ॥
Eggeling
- He then pulls it up 9; for the gods now endowed it with vigour (for) having indicated (Agni) to them; and in like manner does this one now endow it with vigour (for) having indicated (Agni) to him. He does so, with [Vāj. S. XI, 20], ‘The sky is thy back, the earth thy resting-place, the air thy body, the sea thy womb;’–whereby he says, ‘Such
thou art, such thou art;’–‘Looking about with thine eye, tread down the assailers!’–that is, ‘Looking about with thy eye, tread down all evildoers!’ He does not touch it, lest this thunderbolt should injure him, for the horse is a thunderbolt 10.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमु᳘त्क्रमयति॥
(त्ये) एतद्वै देवा᳘ ऽअब्रुवन्कि᳘मिम᳘मभ्यु᳘त्क्रमिष्याम ऽइ᳘ति महत्सौ᳘भगमि᳘ति तं᳘ महत्सौ᳘भगमभ्यु᳘दक्रमयंस्त᳘थै᳘वैनमय᳘मेत᳘न्महत्सौ᳘भगमभ्यु᳘त्क्रमयत्यु᳘त्क्राम महते सौ᳘भगायेत्यु᳘त्क्राम मह᳘ते सौ᳘भगमि᳘त्येतत्त᳘स्मादु हैतद᳘श्वः पशूनां᳘ भगि᳘तमो ऽस्मा᳘दास्थानादि᳘ति[[!!]] य᳘त्रैतत्ति᳘ष्ठसी᳘त्येत᳘द्द्रविणोदा ऽइ᳘ति द्रविण᳘ᳫँ᳘ह्येभ्यो[[!!]] द᳘दाति व्वाजिन्नि᳘ति व्वाजी᳘ ह्येष᳘ व्वय᳘ᳫँ᳘ स्याम सुमतौ᳘ पृथिव्या᳘ ऽअग्निं ख᳘नन्त ऽउप᳘स्थे ऽअस्या ऽइ᳘ति व्वय᳘मस्मै᳘ पृथिव्यै᳘ सुमतौ᳘ स्यामाग्नि᳘मस्या ऽउप᳘स्थे ख᳘नन्त ऽइ᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमु᳘त्क्रमयति॥
(त्ये) एतद्वै देवा᳘ ऽअब्रुवन्कि᳘मिम᳘मभ्यु᳘त्क्रमिष्याम ऽइ᳘ति महत्सौ᳘भगमि᳘ति तं᳘ महत्सौ᳘भगमभ्यु᳘दक्रमयंस्त᳘थै᳘वैनमय᳘मेत᳘न्महत्सौ᳘भगमभ्यु᳘त्क्रमयत्यु᳘त्क्राम महते सौ᳘भगायेत्यु᳘त्क्राम मह᳘ते सौ᳘भगमि᳘त्येतत्त᳘स्मादु हैतद᳘श्वः पशूनां᳘ भगि᳘तमो ऽस्मा᳘दास्थानादि᳘ति[[!!]] य᳘त्रैतत्ति᳘ष्ठसी᳘त्येत᳘द्द्रविणोदा ऽइ᳘ति द्रविण᳘ᳫँ᳘ह्येभ्यो[[!!]] द᳘दाति व्वाजिन्नि᳘ति व्वाजी᳘ ह्येष᳘ व्वय᳘ᳫँ᳘ स्याम सुमतौ᳘ पृथिव्या᳘ ऽअग्निं ख᳘नन्त ऽउप᳘स्थे ऽअस्या ऽइ᳘ति व्वय᳘मस्मै᳘ पृथिव्यै᳘ सुमतौ᳘ स्यामाग्नि᳘मस्या ऽउप᳘स्थे ख᳘नन्त ऽइ᳘त्येतत्[[!!]]॥
मूलम् - Weber
अ᳘थैनमु᳘त्क्रमयति॥
एतद्वै देवा᳘ अब्रुवन्कि᳘मिम᳘मभ्यु᳘त्क्रमिष्याम इ᳘ति महत्सौ᳘भगमि᳘ति त᳘म् महत्सौ᳘भगमभ्यु᳘दक्रमयंस्त᳘थैॗवैनमय᳘मेत᳘न्महत्सौ᳘भगमभ्यु᳘त्क्रमयत्यु᳘त्क्राम महते सौ᳘भगायेत्यु᳘त्क्राम मह᳘त्ते सौ᳘भगमि᳘त्येतत्त᳘स्मादु हैतद᳘श्वः पशूना᳘म् भगि᳘तमो ऽस्मा᳘दास्था᳘नादि᳘ति य᳘त्रैतत्ति᳘ष्ठसी᳘त्येत᳘द्द्रविणोदा इ᳘ति द्र᳘विॗणᳫं ह्येभ्यो द᳘दाति वाजिन्नि᳘ति वाजीॗ ह्येष᳘ वय᳘ᳫं᳘ स्याम सुमतौ᳘ पृथिव्या᳘ अग्निं ख᳘नन्त उप᳘स्थे अस्या इ᳘ति वय᳘मस्मै᳘ पृथिव्यै᳘ सुमतौ᳘ स्यामाग्नि᳘मस्या उप᳘स्थे ख᳘नन्त इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथैनमुत्क्रमयति । एतद्वै देवा अब्रुवन्- किमिममभ्युत्क्रमिष्याम इति । महत्सौभगमिति । तं महत्सौभगमभ्युदक्रमयन् । तथैवैनमयमेतन्महत्सौभगमभ्युत्क्रमयति । “उत्क्राम महते सौभगाय”- इति । उत्क्राम महते सौभगमित्येतत् । तस्मादु हैतदश्वः पशूनां भगितमः । “अस्मादास्थानाद्"- इति । यत्रैतत्तिष्ठसीत्येतत् । “द्रविणोदाः”- इति । द्रविणं ह्येभ्यो ददाति । “वाजिन्”- इति । वाजी ह्येषः । “वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे ऽअस्याः”- (वा. सं. ११ । २१) इति । वयमस्यै पृथिव्यै सुमतौ स्याम, अग्निमस्या उपस्थे खनन्त इत्येतत् ॥ १३ ॥
सायणः
अथैनमुत्क्रमयतीति । अत्रोत्क्रमणस्य प्रयोजनं वक्तुं देवानां प्रश्नमाह- किमिममभ्युत्क्रमिष्याम इतीति । किम्प्रयोजनमुद्दिश्येति तस्यार्थः । प्रयोजनमाह- महत्सौभगमितीति । मन्त्रं विधत्ते- उत्क्रामेति । हे ‘वाजिन् !’ हे ‘द्रविणोदाः !’ धनस्य दातः ! त्वम् ‘अस्मात्’ स्थानात् पूर्वमवस्थिताद् देशात् ‘उत्क्राम’ उद्गच्छ ‘महते’ ‘सौभगाय’ ऐश्वर्यायेति तदर्थः । ‘अस्याः’ पृथिव्याः ‘उपस्थे’ उपस्थाने ‘अग्निम्’ उद्दिश्य मृत्पिण्डं ‘खनन्तः’ वयम् ‘अस्याः’ पृथिव्याः ‘सुमतौ’ शोभनदानादियुक्तमतौ ‘स्याम’ भवेमेति ॥
अश्वस्य सौभाग्यमाह- तस्मादु हैतदश्वः पशूनामिति । ये पशवः व्यापनशीलाः शीघ्रगामिनः तेषां मध्ये असावश्वो ‘भगितमः’ अतिशयेन भाग्यवान्, राजवाहनत्वात् । ‘अस्मादास्थानात्’ इति पदं व्याचष्टे- यत्रैतत् तिष्ठसीतीति ॥ १३ ॥
Eggeling
- He then makes it step off (the lump of clay);–for the gods now said, ‘What shall we cause it to obtain 11?’–‘Great beauty 12!’–They caused it to obtain great beauty; and in like manner does this one now cause it to obtain great beauty,–with (Vāj. S. XI, 21), ‘Go thou unto great beauty!’–that is, ‘Go to thy great beauty!’ and therefore, indeed, the horse is the most highly-favoured of animals;–‘from this standing-place,’–that is, ‘where thou now standest;’–‘wealth-giver!’–for wealth it does give them;–‘Courser!’–for this is a courser;–‘May we be in the Earth’s favour, whilst Agni we dig in her lap!’–that is, ‘May we be in the favour of this earth, whilst digging (for) Agni in her lap!’
१४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थैनमु᳘त्क्रान्तमभि᳘मन्त्रयते॥
(त ऽ) एतद्वा᳘ ऽएनं देवाः᳘ प्रोचिवा᳘ᳫँ᳘सं य᳘था ददिवा᳘ᳫँ᳘सं व्व᳘न्देतैवमु᳘पास्तुवन्नु᳘पामहयंस्त᳘थै᳘वैनमय᳘मेतदु᳘पस्तौत्यु᳘पमहयत्यु᳘दक्रमीदित्युद्ध्य᳘क्रमीद्द्रविणोदा ऽइ᳘ति द्रविण᳘ᳫँ᳘[[!!]] ह्येभ्यो द᳘दाति व्वाज्यर्व्वे᳘ति व्वाजी᳘ च᳘ ह्येषो᳘ ऽर्व्वा चा᳘कः सु᳘लोकᳫँ᳭ सु᳘कृतं पृथिव्यामित्य᳘करः सु᳘लोकᳫँ᳭ सु᳘कृतं पृथिव्यामि᳘त्येतत्त᳘तः खनेम सुप्र᳘तीकमग्निमि᳘ति त᳘त ऽएनं खनेमे᳘त्येत᳘त्सुप्र᳘तीकमि᳘ति सर्व्व᳘तो वा᳘ ऽअग्निः᳘ सुप्र᳘तीकः᳘[[!!]] स्वो रु᳘हाणा ऽअ᳘धि ना᳘कमुत्तममि᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गं᳘ लोकᳫँ᳭ रो᳘हन्तो᳘ ऽधि ना᳘कमुत्तममि᳘त्येतत्तं᳘ दक्षि᳘णोपसं᳘क्रमयति यत्रे᳘तरौ पशू भ᳘वतस्ते᳘ दक्षिणतः प्रा᳘ञ्चस्तिष्ठन्ति स य᳘ ऽए᳘वामु᳘त्र दक्षिणत[[!!]] स्थान᳘स्य ब᳘न्धुः सो ऽत्र[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थैनमु᳘त्क्रान्तमभि᳘मन्त्रयते॥
(त ऽ) एतद्वा᳘ ऽएनं देवाः᳘ प्रोचिवा᳘ᳫँ᳘सं य᳘था ददिवा᳘ᳫँ᳘सं व्व᳘न्देतैवमु᳘पास्तुवन्नु᳘पामहयंस्त᳘थै᳘वैनमय᳘मेतदु᳘पस्तौत्यु᳘पमहयत्यु᳘दक्रमीदित्युद्ध्य᳘क्रमीद्द्रविणोदा ऽइ᳘ति द्रविण᳘ᳫँ᳘[[!!]] ह्येभ्यो द᳘दाति व्वाज्यर्व्वे᳘ति व्वाजी᳘ च᳘ ह्येषो᳘ ऽर्व्वा चा᳘कः सु᳘लोकᳫँ᳭ सु᳘कृतं पृथिव्यामित्य᳘करः सु᳘लोकᳫँ᳭ सु᳘कृतं पृथिव्यामि᳘त्येतत्त᳘तः खनेम सुप्र᳘तीकमग्निमि᳘ति त᳘त ऽएनं खनेमे᳘त्येत᳘त्सुप्र᳘तीकमि᳘ति सर्व्व᳘तो वा᳘ ऽअग्निः᳘ सुप्र᳘तीकः᳘[[!!]] स्वो रु᳘हाणा ऽअ᳘धि ना᳘कमुत्तममि᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गं᳘ लोकᳫँ᳭ रो᳘हन्तो᳘ ऽधि ना᳘कमुत्तममि᳘त्येतत्तं᳘ दक्षि᳘णोपसं᳘क्रमयति यत्रे᳘तरौ पशू भ᳘वतस्ते᳘ दक्षिणतः प्रा᳘ञ्चस्तिष्ठन्ति स य᳘ ऽए᳘वामु᳘त्र दक्षिणत[[!!]] स्थान᳘स्य ब᳘न्धुः सो ऽत्र[[!!]]॥
मूलम् - Weber
अ᳘थैनमु᳘त्क्रान्तमभि᳘मन्त्रयते॥
एतद्वा᳘ एनं देवाः᳘ प्रोचिवा᳘ᳫं᳘सं य᳘था ददिवा᳘ᳫं᳘सं व᳘न्देतैवमु᳘पास्तुवन्नु᳘पामहयंस्त᳘थैॗवैनमय᳘मेतदु᳘पस्तौत्यु᳘पमहयत्यु᳘दक्रमीदित्युद्ध्य᳘क्रमीद्द्रविणोदा इ᳘ति द्र᳘विॗणᳫं ह्येभ्यो द᳘दाति वाज्यर्वे᳘ति वाजी᳘ चॗ ह्येषो᳘ ऽर्वा चा᳘कः सु᳘लोकᳫं सु᳘कृतम् पृथिव्यामित्य᳘करः सु᳘लोकᳫं सु᳘कृतम् पृथिव्यामि᳘त्येतत्त᳘तः खनेम सुप्र᳘तीकमग्निमि᳘ति त᳘त एनं खनेमे᳘त्येत᳘त्सुप्र᳘तीकमि᳘ति सर्व᳘तो वा᳘ अग्निः᳘ सुप्र᳘तीॗकः स्वो रु᳘हाणा अ᳘धि ना᳘कमुत्तममि᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गं᳘ लोकं रो᳘हन्तो᳘ ऽधि ना᳘कमुत्तममि᳘त्येतत्तं᳘ दक्षिॗणोपसं᳘क्रमयति यत्रे᳘तरौ पशू भ᳘वतस्ते᳘ दक्षिणतः प्रा᳘ञ्चस्तिष्ठन्ति स य᳘ एॗवामु᳘त्र दक्षिणत᳘ स्थान᳘स्य ब᳘न्धुः सो᳘ ऽत्र॥
मूलम् - विस्वरम्
अथैनमुत्क्रान्तमभिमन्त्रयते । एतद्वा ऽएनं देवाः प्रोचिवांसं यथा ददिवांसं वन्देत- एवमुपास्तुवन् । उपामहयन् । तथैवैनमयमेतदुपस्तौति, उपमहयति । “उदक्रमीद्” इति । उद्ध्यक्रमीद् । “द्रविणोदाः”- इति । द्रविणं ह्येभ्यो ददाति । “वाज्यर्वा”- इति । वाजी च ह्येषो ऽर्वा च । “अकः सुलोकं सुकृतं पृथिव्याम्”- इति । अकरः सुलोकं सुकृतं पृथिव्यामित्येतत् । “ततः खनेम सुप्रतीकमग्निम्”- इति । तत एनं खनेमेत्येतत् । सुप्रतीकमिति । सर्वतो वा अग्निः सुप्रतीकः । “स्वो रुहाणा अधि नाकमुत्तमम्”- (वा० सं० ११ । २२) इति । स्वर्गो वै लोको नाकः । स्वर्गं लोकं रोहन्तो ऽधि नाकमुत्तममित्येतत् । तं दक्षिणोपसङ्क्रमयति- यत्रेतरौ पशू भवतः । ते दक्षिणतः प्राञ्चस्तिष्ठन्ति । स य एवामुत्र दक्षिणतः स्थानस्य बन्धुः सो ऽत्र ॥ १४ ॥
सायणः
पुनरप्यश्वस्याभिमन्त्रणं विधत्ते- अथैनमुत्क्रान्तमभिमन्त्रयत 13 इति । पूर्वं ‘देवाः’ यथा ‘एनम्’ अग्निम् ‘प्रोचिवांसम्’ उक्तवन्तं ‘ददिवांसं’ धनं दत्तवन्तं लोको ‘वन्देत’ स्तुवीत, ‘एवं’ वयमपीति अश्वम् ‘अस्तुवन्,’ ‘अमहयन्’ अपूजयंश्च, ‘तथा’ अनुष्ठाता ऽपि अभिमन्त्रणेन स्तुतवान् पूजितवान् भवति ॥
मन्त्रं विधत्ते- उदक्रमीदितीति । ‘द्रविणोदाः’ धनस्य दाता, ‘अर्वा’ अरणशीलो ‘वाजी’ वेजनवान् अश्वः ‘उदक्रमीत्’ ऊर्द्ध्वं पादविक्षेपम्, पृथिव्यां ‘सुकृतं’ सुष्ठु निष्पादितम् ‘सुलोकं’ शोभनं लोकम् ‘अकः’ कृतवान् । स्वकार्यकारणयोरपि साधुत्वं द्योतयितुमुभयत्र सुशब्दप्रयोगः । ‘अकरिति’ करोतेर्लुङि “मन्त्रे घसह्वरणश”- (पा. सू. २ । ४ । ६०) इति च्लेर्लुकि, गुणे, सिलोपे रूपम् । यद्यपि प्रथमपुरुषैकवचने तिलोपे च रूपं समानम्, तथापि अकरः सुलोकम्- इति ब्राह्मणव्याख्यानानुसारेण मध्यमः, तद् व्याख्यातमकरिति । तद्धि करोतेर्लुङि च्लेः “कृमृदृरुहिभ्यश्छन्दसि"- (पा. सू. ३ । १ । ५९) इत्यङादेशे, गुणे, मध्यमसकारस्य रुत्वविसर्गयोः कृतयोः रूपम् । ‘ततः’ तस्मात् प्रदेशात् ‘सुप्रतीकं’ शोभनावयवम् ‘अग्निम्’ मृद्रूपम् । ‘खनेम’ किं कुर्वन्तः ? ‘नाकं’ कमिति सुखनाम, न कम् अकम् असुखम् दुःखम्, तद् यत्र गतानां नास्ति, सर्वदा सुखमयम्, अत एव ‘उत्तमम्’ उत्कृष्टं ‘स्वः’ स्वर्गं लोकम् ‘अधिरुहाणाः’ आरोहन्तः; स्वर्गारोहणाय अग्निं खनेमेति । ‘अकः सुलोकम्’- इत्येतद् व्याचष्टे- अकरः सुलोकमिति । व्युत्पत्तिर्दर्शिता । अन्तिमपादं व्याचष्टे- स्वर्गो वै लोको नाक इति । अभिमन्त्रितस्याश्वस्य रासभाभ्यां सहावस्थापनं विधत्ते- तं दक्षिणोपसङ्क्रमयतीति 14 । दक्षिणशब्दादाचि प्रत्यये कृते रूपं दक्षिणेति । स य एवामुत्र दक्षिणत इति । पूर्वमश्वरासभाजपशुविधानं प्रस्तुत्य त्रिवृन्मुञ्जेन बद्धाः “ते प्राञ्चस्तिष्ठन्ति”-इत्युपक्रम्य, “ते दक्षिणतस्तिष्ठन्त्येतद्वै देवा अबिभयुः” (श. प. ६ । ३ । १ । २८ । २९) । इति यद् ब्राह्मणमुक्तम्- ‘सो ऽत्र’ ‘बन्धुः’ ब्राह्मणमिति ब्राह्मणातिदेशः ॥ १४ ॥
Eggeling
- When it has stepped off he addresses it;–for as one would extol him who has given a gift, so the gods now praised and magnified it (for) having indicated (Agni); and in like manner does this one now praise and magnify it, with (Vāj. S. XI, 22), ‘He hath come down,’–for it has indeed come down,–’the wealth-giver,’–for wealth, indeed, is given them; ’the racing courser,’–for it is indeed a racer and a courser;–‘hath made good, well-made room on earth,’–that is, ’thou madest good, well-made room on earth;’–’thence let us
dig out the fair-looking Agni,’–‘fair-looking,’ he says, for Agni is indeed fair-looking on every side;–‘ascending the heaven, unto the highest sky,’–the sky is the heavenly world: thus, ‘mounting the heavenly world, unto the highest sky.’ He makes it come up on the right side (of the lump) to where the two other beasts are: they stand on the right side, facing the east. The significance of the right-hand (southern) position here is the same as it was on that former occasion.
१५
विश्वास-प्रस्तुतिः
(त्रा᳘ ऽ) अ᳘थोपवि᳘श्य मृ᳘दमभि᳘जुहोति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति व्वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ऽएतामा᳘हुतिमपश्यंस्ता᳘मजुहवुस्ता᳘ᳫँ᳘ हु᳘त्वेमाल्ँ᳘लोका᳘नुखामपश्य᳘न्[[!!]]॥
मूलम् - श्रीधरादि
(त्रा᳘ ऽ) अ᳘थोपवि᳘श्य मृ᳘दमभि᳘जुहोति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति व्वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ऽएतामा᳘हुतिमपश्यंस्ता᳘मजुहवुस्ता᳘ᳫँ᳘ हु᳘त्वेमाल्ँ᳘लोका᳘नुखामपश्य᳘न्[[!!]]॥
मूलम् - Weber
अ᳘थोपवि᳘श्य मृ᳘दमभि᳘जुहोति॥
एतद्वै᳘ देवा᳘ अब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछ्रते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना एतामा᳘हुतिमपश्यंस्ता᳘मजुहवुस्ता᳘ᳫं᳘ हुॗत्वेमां᳘लोका᳘नुखा᳘मपश्यन्॥
मूलम् - विस्वरम्
अथोपविश्य मृदमभिजुहोति । एतद्वै देवा अब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना एतामाहुतिमपश्यन् । तामजुहवुः । तां हुत्वेमाल्ँ लोकानुखामपश्यन् ॥ १५ ॥
सायणः
अत्र कात्यायनः- “उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे"- (का. श्रौ. सू. १६ । ६४) इति । ‘व्यतिषक्ताभ्याम्’ व्यतिषङ्गश्च एकस्याः पूर्वार्द्धः इतरस्या उत्तरार्द्ध इत्येका ऋक्; एवमितरावप्यर्द्धर्च्चौ संयोजनीयौ । तथा ऋक् द्वितीया । एवं व्यतिषक्ताभ्याम् “आ त्वा जिघर्मि”- इति द्वाभ्यामृग्भ्यामश्वस्य पदे द्वे आहुती जुहुयात् । तदिदं सार्थवादं विधत्ते- अथोपविश्य मृदमभिजुहोतीत्यादि, अश्वस्य पदे जुहोतीत्यन्तेन । ‘उपविश्य’- इति मृत्संस्कारत्वादुपवेशः । तां हुत्वेति । प्रथमाहुतिं हुत्वा लोकत्रयात्मिकाम् ‘उखाम्’ ‘अपश्यन्’ ॥ १५ ॥
Eggeling
- Sitting down he now offers upon the lump of clay;–for the gods then said, ‘Meditate ye (cetay),’ whereby, doubtless, they meant to say, ‘Seek ye a layer (citi)!’ Whilst meditating they saw this libation, and offered it: after offering it, they saw the fire-pan (representing) these worlds.
१६
विश्वास-प्रस्तुतिः
(श्यं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमेवे᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ऽएतां᳘ द्विती᳘यामा᳘हुतिमपश्यंस्ता᳘मजुहवुस्ता᳘ᳫँ᳘ हुत्वा᳘ व्विश्व᳘ज्योतिषो ऽपश्यन्नेता᳘ देव᳘ता ऽअग्निं᳘ व्वायु᳘मादित्य᳘मेता᳘ ह्येव᳘ देव᳘ता व्वि᳘श्वं ज्यो᳘तिस्त᳘थै᳘वैतद्य᳘जमान ऽएते ऽआ᳘हुती हु᳘त्वेमां᳘श्च लोका᳘नुखां प᳘श्यत्येता᳘श्च देव᳘ता व्विश्व᳘ज्योतिषो व्य᳘तिषक्ताभ्यां जुहोतीमां᳘श्च त᳘ल्लोका᳘नेता᳘श्च देव᳘ता व्य᳘तिषजति॥
मूलम् - श्रीधरादि
(श्यं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमेवे᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ऽएतां᳘ द्विती᳘यामा᳘हुतिमपश्यंस्ता᳘मजुहवुस्ता᳘ᳫँ᳘ हुत्वा᳘ व्विश्व᳘ज्योतिषो ऽपश्यन्नेता᳘ देव᳘ता ऽअग्निं᳘ व्वायु᳘मादित्य᳘मेता᳘ ह्येव᳘ देव᳘ता व्वि᳘श्वं ज्यो᳘तिस्त᳘थै᳘वैतद्य᳘जमान ऽएते ऽआ᳘हुती हु᳘त्वेमां᳘श्च लोका᳘नुखां प᳘श्यत्येता᳘श्च देव᳘ता व्विश्व᳘ज्योतिषो व्य᳘तिषक्ताभ्यां जुहोतीमां᳘श्च त᳘ल्लोका᳘नेता᳘श्च देव᳘ता व्य᳘तिषजति॥
मूलम् - Weber
ते ऽब्रुवन्॥
चेत᳘यध्वमेवे᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना एतां᳘ द्विती᳘यामा᳘हुतिमपश्यंस्ता᳘मजुहवुस्ता᳘ᳫं᳘ हुत्वा᳘ विश्व᳘ज्योतिषो ऽपश्यन्नेता᳘ देव᳘ता अग्निं᳘ वायु᳘मादित्य᳘मेताॗ ह्येव᳘ देव᳘ता वि᳘श्वं ज्यो᳘तिस्त᳘थैॗवैतद्य᳘जमान एते आ᳘हुती हुॗत्वेमां᳘श्च लोका᳘नुखाम् प᳘श्यत्येता᳘श्च देव᳘ता विश्व᳘ज्योतिषो व्य᳘तिषक्ताभ्यां जुहोतीमां᳘श्च त᳘ल्लोका᳘नेता᳘श्च देव᳘ता व्य᳘तिषजति॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- चेतयध्वमेवेति । चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना एतां द्वितीयामाहुतिमपश्यन् । तामजुहवुः । तां हुत्वा विश्वज्योतिषो ऽपश्यन्- एता देवताः- अग्निं वायुमादित्यम् । एता ह्येव देवता विश्वं ज्योतिः । तथैवैतद्यजमान ऽएते आहुती हुत्वेमांश्च लोकानुखां पश्यति- एताश्च देवता विश्वज्योतिषः । व्यतिषक्ताभ्यां जुहोति । इमांश्च तल्लोकानेताश्च देवता व्यतिषजति ॥ १६ ॥
सायणः
ते ऽब्रुवन्निति । द्वितीयाहुतिं हुत्वा विश्वज्योतिर्नामेष्टकां दृष्टवन्तः । विश्वज्योतिस्सञ्ज्ञकानां तिसृणामिष्टकानां देवतासम्बन्धमाह- अग्निं वायुमादित्यमिति । व्यतिषक्ताभ्यां जुहोतीति । व्यतिषङ्गप्रकारः पूर्वमुक्तः, तादृग्भ्यामृग्भ्यां हवनेन त्रीनिमाल्ँ लोकान् ‘एताः’ अग्निवाय्वादित्यस्वरूपा देवताश्च व्यतिषक्तवान् भवति; पृथिवीलोकस्याग्निम्, अन्तरिक्षलोकस्य वायुम्, द्युलोकस्यादित्यमिति ॥ १६ ॥
Eggeling
- They said, ‘Meditate ye!’ whereby, doubtless, they meant to say, ‘Seek ye a layer!’ Whilst meditating they saw this second libation, and offered it: after offering it, they saw the Viśvajyotis (all-light bricks), that is, those deities Agni, Vāyu, and Āditya; for these deities are indeed all the light. And in like manner does the Sacrificer now, after offering those two libations, see the fire-pan, these worlds; and those all-light deities. He offers with two interlinked (verses) 15: he thereby interlinks these worlds, and those deities.
१७
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैते ऽआ᳘हुती जुहो᳘ति॥
मृ᳘दं[[!!]] च त᳘दप᳘श्च प्रीणाति ते᳘ ऽइष्ट्वा᳘ प्रीत्वा᳘ ऽथैने स᳘म्भरति व्य᳘तिषक्ताभ्यां जुहोति मृ᳘दं[[!!]] च त᳘दप᳘श्च व्य᳘तिषजति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैते ऽआ᳘हुती जुहो᳘ति॥
मृ᳘दं[[!!]] च त᳘दप᳘श्च प्रीणाति ते᳘ ऽइष्ट्वा᳘ प्रीत्वा᳘ ऽथैने स᳘म्भरति व्य᳘तिषक्ताभ्यां जुहोति मृ᳘दं[[!!]] च त᳘दप᳘श्च व्य᳘तिषजति॥
मूलम् - Weber
य᳘द्वेॗवैते आ᳘हुती जुहो᳘ति॥
मृदं᳘ च त᳘दप᳘श्च प्रीणाति ते᳘ इष्ट्वा᳘ प्रीत्वा᳘थैने स᳘म्भरति व्य᳘तिषक्ताभ्यां जुहोति मृदं᳘ च त᳘दप᳘श्च व्य᳘तिषजति॥
मूलम् - विस्वरम्
यद्वेवैते ऽआहुती जुहोति । मृदञ्च तदपश्च प्रीणाति । ते इष्ट्वा प्रीत्वा, अथैने सम्भरति । व्यतिषक्ताभ्यां जुहोति । मृदं च तदपश्च व्यतिषजति ॥ १७ ॥
सायणः
प्रकारान्तरेणाहुतिद्वयं स्तोतुमनुवदति- यद्वेवैते आहुती इति । आहुतिद्वयेन मृदमपश्च प्रीणितवान् भवति । यतो व्यतिषक्ताभ्यामृग्भ्यां होमः, अतो मृदमपश्चोखार्थं संयोजयति ॥ १७ ॥
Eggeling
- And, again, why he offers these two libations;–he thereby gratifies both the clay and the water; and having offered to, and gratified, these two, he then brings them together. With two interlinked
(verses) he offers: he thereby interlinks (combines thoroughly) the clay and the water.
१८
विश्वास-प्रस्तुतिः
आ᳘ज्येन जुहोति॥
व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रमे᳘वास्मा ऽएत᳘दभिगोप्ता᳘रं करोत्य᳘थो रे᳘तो वा ऽआ᳘ज्यᳫँ᳭ रे᳘त ऽए᳘वैत᳘त्सिञ्चति स्रुवे᳘ण व्वृ᳘षा वै᳘ स्रुवो व्वृ᳘षा वै रे᳘तः सिञ्चति स्वाहाकारे᳘ण व्वृ᳘षा वै᳘ स्वाहाकारो व्वृ᳘षा वै रे᳘तः सिञ्चति॥
मूलम् - श्रीधरादि
आ᳘ज्येन जुहोति॥
व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रमे᳘वास्मा ऽएत᳘दभिगोप्ता᳘रं करोत्य᳘थो रे᳘तो वा ऽआ᳘ज्यᳫँ᳭ रे᳘त ऽए᳘वैत᳘त्सिञ्चति स्रुवे᳘ण व्वृ᳘षा वै᳘ स्रुवो व्वृ᳘षा वै रे᳘तः सिञ्चति स्वाहाकारे᳘ण व्वृ᳘षा वै᳘ स्वाहाकारो व्वृ᳘षा वै रे᳘तः सिञ्चति॥
मूलम् - Weber
आ᳘ज्येन जुहोति॥
व᳘ज्रो वा आ᳘ज्यं व᳘ज्रमेॗवास्मा एत᳘दभिगोप्ता᳘रं करोत्य᳘थो रे᳘तो वा आ᳘ज्यं रे᳘त एॗवैत᳘त्सिञ्चति स्रुवे᳘ण वृ᳘षा वै᳘ स्रुवो वृ᳘षा वै रे᳘तः सिञ्चति स्वाहाकारे᳘ण वृ᳘षा वै᳘ स्वाहाकारो वृ᳘षा वै रे᳘तः सिञ्चति॥
मूलम् - विस्वरम्
आज्येन जुहोति । वज्रो वा ऽआज्यम् । वज्रमेवास्मा ऽएतदभिगोप्तारं करोति । अथो रेतो वा ऽआज्यम् । रेत एवैतत् सिञ्चति । स्रुवेण । वृषा वै स्रुवः । वृषा वै रेतः सिञ्चति । स्वाहाकारेण । वृषा वै स्वाहाकारः । वृषा वै रेतः सिञ्चति ॥ १८ ॥
सायणः
होम्यं द्रव्यं विधत्ते- आज्येन जुहोतीति । आज्यस्य वज्रत्वं प्रागुक्तम् (श. प. १ । ५ । ४ । ४) । होमकरणं विधत्ते- स्रुवेणेति । मन्त्रान्ते ‘स्वाहा’ शब्दः प्रयोक्तव्य इत्याह- स्वाहाकारेणेति । जुहोतीत्यनुषङ्गः ॥ १८ ॥
Eggeling
- He offers with ghee; for the ghee is a thunderbolt: he thus makes the thunderbolt its (or his, Agni’s) protector. The ghee, moreover, is seed: he thus pours forth seed,–with the sruva-spoon; for the sruva (m.) is a male, and the male pours forth seed,–with ‘Svāhā (hail!),’ for the Svāhākāra (m.) is a male, and the male pours forth seed.
१९
विश्वास-प्रस्तुतिः
(त्या᳘) आ᳘ त्वा जिघर्म्मि म᳘नसा घृते᳘नेति[[!!]]॥
(त्या᳘) आ᳘ त्वा जुहोमि म᳘नसा च घृते᳘न चे᳘त्येत᳘त्प्रतिक्षिय᳘न्तं भु᳘वनानि व्विश्वे᳘ति प्रत्य᳘ङ् ह्येष᳘ सर्व्वाणि[[!!]] भु᳘वनानि क्षिय᳘ति पृथुं᳘ तिरश्चा व्व᳘यसा बृह᳘न्तमि᳘ति पृथुर्व्वा᳘ ऽएष᳘ तिर्यङ्व᳘यसो बृह᳘न्धूमे᳘न व्य᳘चिष्ठम᳘न्ने रभसं दृ᳘शानमि᳘त्यवकाश᳘वन्तम᳘न्नैरन्नादं दी᳘प्यमानमि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(त्या᳘) आ᳘ त्वा जिघर्म्मि म᳘नसा घृते᳘नेति[[!!]]॥
(त्या᳘) आ᳘ त्वा जुहोमि म᳘नसा च घृते᳘न चे᳘त्येत᳘त्प्रतिक्षिय᳘न्तं भु᳘वनानि व्विश्वे᳘ति प्रत्य᳘ङ् ह्येष᳘ सर्व्वाणि[[!!]] भु᳘वनानि क्षिय᳘ति पृथुं᳘ तिरश्चा व्व᳘यसा बृह᳘न्तमि᳘ति पृथुर्व्वा᳘ ऽएष᳘ तिर्यङ्व᳘यसो बृह᳘न्धूमे᳘न व्य᳘चिष्ठम᳘न्ने रभसं दृ᳘शानमि᳘त्यवकाश᳘वन्तम᳘न्नैरन्नादं दी᳘प्यमानमि᳘त्येतत्[[!!]]॥
मूलम् - Weber
आ᳘ त्वा जिघर्मि म᳘नसा घृतेने᳘ति॥
आ᳘ त्वा जुहोमि म᳘नसा च घृते᳘न चे᳘त्येत᳘त्प्रतिक्षिय᳘न्तम् भु᳘वनानि विश्वे᳘ति प्रत्यङ् ह्येष स᳘र्वाणि भु᳘वनानि क्षिय᳘ति पृथुं᳘ तिरश्चा व᳘यसा बृह᳘न्तमि᳘ति पृथुर्वा᳘ एष᳘ तिर्यङ्व᳘यसो बृह᳘न्धूमे᳘न व्य᳘चिष्ठम᳘न्ने रभसं दृ᳘शानमि᳘त्यवकाश᳘वन्तम᳘न्नैरन्नादं दी᳘प्यमानमि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“आ त्वा जिघर्म्मि मनसा घृतेन”- इति । आ त्वा जुहोमि मनसा च घृतेन चेत्येतत् । “प्रति क्षियन्तं भुवनानि विश्वा”- इति । प्रत्यङ् ह्येष सर्वाणि भुवनानि क्षियति । पृथुं तिरश्चा वयसा बृहन्तम्"- इति । पृथुर्वा ऽएष तिर्यङ् वयसो बृहन्धूमेन । “व्यचिष्ठमन्नैरभसं दृशानम्”- (वा० सं० ११ । २३) इति । अवकाशवन्तमन्नैरन्नादं दीप्यमानमित्येतत् ॥ १९ ॥
सायणः
मन्त्रं विधत्ते- आ त्वा जिघर्मीति । मन्त्रस्यायमर्थः, ‘मनसा’ ‘घृतेन’ आज्येन च त्वाम् ‘आजिघर्म्मि’ । “घृ क्षरणदीप्त्योः” (धा. पा. जु. प. १४) । आजुहोमि, आसिञ्चामि, आज्यं सिञ्चामीत्यर्थः । अग्निं विशिनष्टि पादत्रयेण- ‘विश्वा’ ‘सर्वाणि भुवनानि प्रतिक्षियन्तम्’ सर्वत्र भूतजातेषु निवसन्तमित्यर्थः । ‘तिरश्चा’ इति भावपरो निर्द्देशः, ‘पृथुं’ विस्तृतम् । यद्वा, ‘तिरश्चा’ इति धूमविशेषणम्; ‘वयसा’ धूमेन ‘बृहन्तम्’ । अत एव ‘व्यचिष्ठं’ व्यापनवन्तम्, अवकाशवन्तम् । ‘अन्नैः’ स्वस्मिन् हु॒तैर्घृतादिभिः, ‘रभसम्’ उत्साहवन्तम् । अत एव ‘दृशानं’ दर्शनीयं, दीप्यमानम् । अग्निं त्वामाजिघर्मीति सम्बन्धः ॥
मन्त्रं प्रतिपादमनूद्य व्याचष्टे- आ त्वा जुहोमीति । व्यचिष्ठ-रभस-पदयोर्व्याख्यानम्-अवकाशवन्तमन्नादमिति ॥ १९ ॥
Eggeling
- [Vāj. S. XI, 23 16] ‘Upon thee I sprinkle with thought, with ghee,’–that is, ‘upon thee I offer with thought and ghee;’–’that dwellest near all beings,’–for he (Agni) indeed comes to dwell near every being;–’thee, large and great with side-spent force,’–for large he is, and directed sideways, and great with force, with smoke;–‘most ample through food, and fierce to look at,’–that is, ‘capacious with food, a consumer of food, and flaming.’
२०
विश्वास-प्रस्तुतिः
(दा᳘) आ᳘ व्विश्व᳘तः प्रत्य᳘ञ्चं जिघर्म्मीति॥
(त्या᳘) आ᳘ सर्व्व᳘तः प्रत्य᳘ञ्चं जुहोमी᳘त्येत᳘दरक्ष᳘सा म᳘नसा त᳘ज्जुषेतेत्य᳘हीडमानेन म᳘नसा त᳘ज्जोषयेते᳘त्येतन्म᳘र्यश्री स्पृहय᳘द्वर्णो ऽअग्निरि᳘ति म᳘र्यश्री᳘र्ह्येष᳘ स्पृहय᳘द्व᳘र्णो ऽग्नि᳘र्नाभिमृ᳘शे त᳘न्वा ज᳘र्भुराण ऽइ᳘ति न᳘ ह्ये᳘षो ऽभिमृ᳘शे त᳘न्वा दी᳘प्यमानो भवति॥
मूलम् - श्रीधरादि
(दा᳘) आ᳘ व्विश्व᳘तः प्रत्य᳘ञ्चं जिघर्म्मीति॥
(त्या᳘) आ᳘ सर्व्व᳘तः प्रत्य᳘ञ्चं जुहोमी᳘त्येत᳘दरक्ष᳘सा म᳘नसा त᳘ज्जुषेतेत्य᳘हीडमानेन म᳘नसा त᳘ज्जोषयेते᳘त्येतन्म᳘र्यश्री स्पृहय᳘द्वर्णो ऽअग्निरि᳘ति म᳘र्यश्री᳘र्ह्येष᳘ स्पृहय᳘द्व᳘र्णो ऽग्नि᳘र्नाभिमृ᳘शे त᳘न्वा ज᳘र्भुराण ऽइ᳘ति न᳘ ह्ये᳘षो ऽभिमृ᳘शे त᳘न्वा दी᳘प्यमानो भवति॥
मूलम् - Weber
आ᳘ विश्व᳘तः प्रत्य᳘ञ्चं जिघर्मी᳘ति॥
आ᳘ सर्व᳘तः प्रत्य᳘ञ्चं जुहोमी᳘त्येत᳘दरक्ष᳘सा म᳘नसा त᳘ज्जुषेतेत्य᳘हीडमानेन म᳘नसा त᳘ज्जोषयेते᳘त्येतन्म᳘र्यश्री स्पृहय᳘द्वर्णो 17 अग्निरि᳘ति म᳘र्यश्रीॗर्ह्येष᳘ स्पृहय᳘द्वर्णो ऽग्निॗर्नाभिमृ᳘शे तॗन्वा ज᳘र्भुराण इ᳘ति नॗ ह्येॗषो ऽभिमृ᳘शे तॗन्वा दी᳘प्यमानो भवति॥
मूलम् - विस्वरम्
“आ विश्वतः प्रत्यञ्चं जिघर्म्मि”- इति । आ सर्वतः प्रत्यञ्चं जुहोमीत्येतत् । “अरक्षसा मनसा तज्जुषेत”- इति । अहीडमानेन मनसा तज्जोषयेतेत्येतत् । “मर्यश्रीः स्पृहयद्वर्णो ऽअग्निः”- इति । मर्यश्रीर्ह्येष स्पृहयद्वर्णो ऽग्निः । “नाभिमृशे तन्वा जर्भुराणः"- इति । न ह्येषो ऽभिमृशे तन्वा दीप्यमानो भवति ॥ २० ॥
सायणः
द्वितीयं मन्त्रं विधत्ते- आ विश्वत इति । अयमर्थः- ‘विश्वतः’ सर्वतः ‘प्रत्यञ्चं’ प्रत्यङ्ङात्मतया प्रतीयमानमग्निम्, ‘अरक्षसा’ रक्षोदोषरहितेन ‘मनसा’ युक्तः अहम् ‘आजिघर्मि’ आसिञ्चामि । ‘तत्’ घृतं ‘जुषेत’ सेवेत इति परो ऽक्षनिर्देशः, युष्मच्छब्दसमानार्थो भवच्छब्दाध्याहारो वा । ‘मर्यश्रीः’ श्रयतेः कर्मणि क्विप्, मर्यैर्मनुष्यैराश्रयणीयः । ‘स्पृहयद्वर्णः’ स्पृहयन् परेषां रुचिमुत्पादयन् वर्णो यस्य, शुक्लभास्वररूपत्वात् । ‘तन्वा’ शरीरेण ‘जर्भुराणः’ दीप्यमानः ‘अग्निः’ ‘नाभिमृशे’ तुमर्थे केन् प्रत्यय (पा. सू. ३ । ४ । ९) । अभिमर्शनीयो न भवति ॥
मन्त्रं व्याचष्टे- आ सर्वत इति । ‘अरक्षसा’- इति पदं व्याख्यातम्- अहीडमानेनेति ॥ २० ॥
Eggeling
- [Vāj. S. XI, 24] ‘From all sides I sprinkle the hitherward looking,’–that is, ‘from every side I offer upon the hitherward looking;’–‘with spiteless mind let him relish this,’–that is, ‘with unchafing mind may he relish this;’–‘Agni, glorious as a wooer, and of pleasing colour,’–for Agni is indeed glorious as a wooer 18 and of pleasing colour;–’not to be touched, while raging with his body,’–for not to be touched is he, whilst flaming with his body.
२१
विश्वास-प्रस्तुतिः
द्वा᳘भ्यामभि᳘जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चत्याग्नेयी᳘भ्यामग्नि᳘मे᳘वैतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ते य᳘दाग्ने᳘य्यो ते᳘नाग्निर᳘थ य᳘त्त्रिष्टु᳘भौ तेने᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चतीन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्व᳘देव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति॥ (शतम् ३६००)
मूलम् - श्रीधरादि
द्वा᳘भ्यामभि᳘जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चत्याग्नेयी᳘भ्यामग्नि᳘मे᳘वैतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ते य᳘दाग्ने᳘य्यो ते᳘नाग्निर᳘थ य᳘त्त्रिष्टु᳘भौ तेने᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चतीन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्व᳘देव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति॥ (शतम् ३६००)
मूलम् - Weber
द्वा᳘भ्यामभि᳘जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेततद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चत्याग्नेयी᳘भ्यामग्नि᳘मेॗवैतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति ते य᳘दाग्नेॗय्यो ते᳘नाग्निर᳘थ य᳘त्त्रिष्टु᳘भौ तेने᳘न्द्र ऐन्द्राॗग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चतीन्द्राग्नी वै स᳘र्वे देवाः᳘ सर्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति॥
मूलम् - विस्वरम्
द्वाभ्यामभिजुहोति । द्विपाद् यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । आग्नेयीभ्याम् । अग्निमेवैतद्रेतोभूतं सिञ्चति । ते यदाग्नेय्यौ । तेनाग्निः । अथ यत् त्रिष्टुभौ- तेनेन्द्रः । ऐन्द्राग्नो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । इन्द्राग्नी वै सर्वे देवाः । सर्वदेवत्यो ऽग्निः । यावानग्निर्यावित्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति ॥ २१ ॥
सायणः
मन्त्रगतसंख्यां प्रशंसति- द्वाभ्यामभिजुहोति द्विपादिति । ‘यजमानो ऽग्निः’- इति विराड्रूपस्याग्नेर्यजमानभाविशरीरात्मकतया च तद्रूपत्वम् । मन्त्रदेवतां प्रशंसति- आग्नेयीभ्यामिति । “अग्नेर्ढक्” (पा. सू. ४ । २ । ३३) । अनयोर्मन्त्रयोरग्निसम्बन्धं त्रिष्टुप्छन्दश्च मिलित्वा प्रशंसति- यदाग्नेय्याविति । अग्निदेवत्येनाग्निरुच्यते; मन्त्रगतत्रिष्टुप्छन्दसा इन्द्रः त्रिष्टुबिन्द्रयोः सहोत्पत्तेः; “तमिन्द्रो देवता ऽन्वसृज्यत त्रिष्टुप् छन्दः”- (तै. सं. ७ । १ । १ । ४ ।)- इति । अग्निरप्यैन्द्राग्नस्तदुपपादयति- इन्द्राग्नी इति । “इन्द्रः सर्वेषां देवानां परमः, अग्निर्देवानामवमः, उभयोर्मध्यवर्तिन्यः सर्वा देवताः” (ऐ. ब्रा. १ । १ । १) । इति इन्द्राग्नी सर्वदेवतात्मकौ अग्निरपि सर्वदेवत्यः; तस्मिन्नेवाग्नौ सर्वदेवतोद्देशेन हविःप्रक्षेपात्, “अग्निर्वै सर्वा देवताः”- (श. प. १ । ६ । २ । ८) इति श्रुतेश्च । अतः ‘अग्निः’ यत्परिमाणः, ‘तावता’ तत्परिमाणेन इन्द्राग्निरूपेण प्रकारान्तरेण ‘एनम्’ तत्संख्याकाभ्यामिन्द्राग्निरूपाभ्यां प्रीणितवान् भवति ॥ २१ ॥
Eggeling
- With two (verses) he offers; for the Sacrificer
is two-footed, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, by so much he thus pours him forth as seed;–with two (verses) relating to Agni: it is Agni he thereby pours forth as seed. Inasmuch as they relate to Agni, they are Agni; and inasmuch as they are Trishṭubhs, they are Indra; and Agni (the fire) belongs to Indra and Agni: as great as Agni is, as great as is his measure, by so much he thus pours him forth as seed. Moreover, Indra and Agni are all the gods, and Agni (thus) contains all deities: as great as Agni is, as great as is his measure, by so much he thus pours him forth as seed.
२२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘श्वस्य पदे᳘ जुहोति॥
(त्य) अग्नि᳘रेष यद᳘श्वस्त᳘थो हास्यैते᳘ ऽअग्निम᳘त्येवा᳘हुती हुते᳘ भवतः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘श्वस्य पदे᳘ जुहोति॥
(त्य) अग्नि᳘रेष यद᳘श्वस्त᳘थो हास्यैते᳘ ऽअग्निम᳘त्येवा᳘हुती हुते᳘ भवतः॥
मूलम् - Weber
अ᳘श्वस्य पदे᳘ जुहोति॥
अग्नि᳘रेष यद᳘श्वस्त᳘थो हास्यैते᳘ अग्निम᳘त्येवा᳘हुती हुते᳘ भवतः॥
मूलम् - विस्वरम्
अश्वस्य पदे जुहोति । अग्निरेष- यदश्वः । तथो हास्यैते ऽअग्निमत्येवाहुती हुते भवतः ॥ २२ ॥
सायणः
आहुतिद्वयस्याधिकरणं विधत्ते- अश्वस्य 19 पदे जुहोतीति । यद्यश्वपदे हवनम्, तर्हि कथमग्निदेवत्यमन्त्रप्रयोगः ? तत्राह- अग्निरेष यदश्व इति । अश्वस्याग्निरूपत्वं प्रागुक्तम्- “स एतान् पञ्च पशून् प्राविशत्, स एते”- (श. प. ६ । २ । १ । ३) इत्यादिना ॥ २२ ॥
Eggeling
- He offers on the horse’s footprint;–the horse is the same as that Agni, and so, indeed, these two libations come to be offered over Agni.
२३
विश्वास-प्रस्तुतिः
(तो᳘ ऽथै) अ᳘थैनं प᳘रिलिखति॥
मा᳘त्रामे᳘वास्मा ऽएत᳘त्करोति य᳘थैता᳘वानसी᳘त्येवम्[[!!]]॥
मूलम् - श्रीधरादि
(तो᳘ ऽथै) अ᳘थैनं प᳘रिलिखति॥
मा᳘त्रामे᳘वास्मा ऽएत᳘त्करोति य᳘थैता᳘वानसी᳘त्येवम्[[!!]]॥
मूलम् - Weber
अ᳘थैनम् प᳘रिलिखति॥
मा᳘त्रामेॗवास्मा एत᳘त्करोति य᳘थैता᳘वानसी᳘त्येव᳘म्॥
मूलम् - विस्वरम्
अथैनं परिलिखति । मात्रामेवास्मा ऽएतत् करोति- यथैतावानसीत्येवम् ॥ २३ ॥
सायणः
अत्र सूत्रम्- “अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति, बहिर्बहिरुत्तरयोत्तरयेति”- (का. श्रौ. सू. १६ । ६५) । एतं मृत्पिण्डं “परि वाजपतिः”- इत्यादिभिस्त्रिभिः उत्तरोत्तराधिकच्छन्दस्काभिः त्रिवारं परिलिखेदिति । तदिदं विधत्ते- अथैनं परिलिखतीत्यादि । परिलेखनेन ‘अस्मै’ मृद्रूपायाग्नये ‘मात्रां’ परिच्छेदम्, इयत्ताम् ‘करोति’ कृतवान् भवति । तदेव विवृणोति- यथैतावानिति ॥ २३ ॥
Eggeling
- He draws lines around it (the lump, with the spade): he thereby puts a measure to it (or, to him, Agni), as if saying, ‘So great thou art!’
२४
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैनं परिलिख᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतां पु᳘रं प᳘र्यश्रयंस्त᳘थै᳘वास्मा ऽअय᳘मेतां पु᳘रं प᳘रिश्रयत्य᳘भ्र्या व्व᳘ज्रो वा ऽअ᳘भ्रिर्व्व᳘ज्रमे᳘वास्मा ऽएत᳘दभिगोप्ता᳘रं करोति सर्व्व᳘तः प᳘रिलिखति सर्व्व᳘त ऽए᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति त्रिष्कृ᳘त्वः प᳘रिलिखति त्रिवृ᳘तमे᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैनं परिलिख᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतां पु᳘रं प᳘र्यश्रयंस्त᳘थै᳘वास्मा ऽअय᳘मेतां पु᳘रं प᳘रिश्रयत्य᳘भ्र्या व्व᳘ज्रो वा ऽअ᳘भ्रिर्व्व᳘ज्रमे᳘वास्मा ऽएत᳘दभिगोप्ता᳘रं करोति सर्व्व᳘तः प᳘रिलिखति सर्व्व᳘त ऽए᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति त्रिष्कृ᳘त्वः प᳘रिलिखति त्रिवृ᳘तमे᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति॥
मूलम् - Weber
य᳘द्वेॗवैनम् परिलिख᳘ति॥
एतद्वै᳘ देवा अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा एताम् पु᳘रम् प᳘र्यश्रयंस्त᳘थैॗवास्मा अय᳘मेताम् पु᳘रम् प᳘रिश्रयत्य᳘भ्र्या व᳘ज्रो वा अ᳘भ्रिर्व᳘ज्रमेॗवास्मा एत᳘दभिगोप्ता᳘रं करोति सर्व᳘तः प᳘रिलिखति सर्व᳘त एवास्मा एतं व᳘ज्रमभिगोप्ता᳘रं करोति त्रिष्कृ᳘त्वः प᳘रिलिखति त्रिवृ᳘तमेॗवास्मा एतं व᳘ज्रमभिगोप्ता᳘रं करोति॥
मूलम् - विस्वरम्
यद्वेवैनं परिलिखति । एतद्वै देवा अबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा ऽएतां पुरं पर्यश्रयन् । तथैवास्मा ऽअयमेतां पुरं परिश्रयति- अभ्र्या । वज्रो वा ऽअभ्रिः । वज्रमेवास्मा ऽएतदभिगोप्तारं करोति । सर्वतः परिलिखति । सर्वत एवास्मा ऽएतं वज्रमभिगोप्तारं करोति । त्रिष्कृत्वः परिलिखति । त्रिवृतमेवास्मा ऽएतं वज्रमभिगोप्तारं करोति ॥ २४ ॥
सायणः
यद्वेवैनं परिलिखतीति । परिलेखनं प्रशंसितुं देववृत्तान्तमाह- एतद्वै देवा इति । ‘एतां पुरं’ रेखारूपां पुरं परिश्रितवन्तः । परिलेखने साधनं विधत्ते- अभ्र्येति 20 । सर्वतः परिलिखतीति । चतुर्द्दिशं वृत्तमित्यर्थः । परिलेखनस्य त्रित्वं विधत्ते- त्रिष्कृत्व इति । त्रिवारपरिलेखनेन ‘त्रिवृतं’ ‘वज्रम्’ ‘अस्मै’ मृत्पिण्डा ‘अभिगोप्तारं’ रक्षकं कृतवान् भवति ॥ २४ ॥
Eggeling
- And, again, why he draws a line around it;–the gods now were afraid, thinking, ‘We hope the Rakshas, the fiends, will not smite here this (Agni) of ours!’ They drew that rampart round it; and in like manner does this one now draw that rampart round it,–with the spade, for the spade is the thunderbolt, and he thus makes the thunderbolt its (or his, Agni’s) protector. He draws it all round: on every side he thus makes that thunderbolt to be its (or his) protector 21. Three times he draws a line: that threefold thunderbolt he thus makes to be a protector for him.
२५
विश्वास-प्रस्तुतिः
प᳘रीव्वा᳘जपतिः कविः[[!!]]॥
प᳘रि त्वा ऽग्ने पु᳘रं व्वयं त्व᳘मग्ने द्यु᳘भिरि᳘त्यग्नि᳘मे᳘वास्मा ऽएत᳘दुपस्तुत्य व्व᳘र्म करोति प᳘रिवतीभिः प᳘रीव हि पु᳘र ऽआग्नेयी᳘भिरग्निपुरा᳘मे᳘वास्मा ऽएत᳘त्करोति सा᳘ है᳘षा ऽग्निपुरा दी᳘प्यमाना तिष्ठति तिसृ᳘भिस्त्रिपुर᳘मे᳘वास्मा ऽएत᳘त्करोति त᳘स्मादु हैत᳘त्पुरां᳘ परम᳘ᳫँ᳘ रूपं य᳘त्त्रिपुरᳫँ᳭ स वै व्व᳘र्षीयसा वर्षीयसा च्छ᳘न्दसा प᳘रां परां ले᳘खां व्व᳘रीयसीं करोति त᳘स्मात्पुरां प᳘रा परा व्व᳘रीयसी ले᳘खा भवन्ति ले᳘खा हि पुरः[[!!]]॥
मूलम् - श्रीधरादि
प᳘रीव्वा᳘जपतिः कविः[[!!]]॥
प᳘रि त्वा ऽग्ने पु᳘रं व्वयं त्व᳘मग्ने द्यु᳘भिरि᳘त्यग्नि᳘मे᳘वास्मा ऽएत᳘दुपस्तुत्य व्व᳘र्म करोति प᳘रिवतीभिः प᳘रीव हि पु᳘र ऽआग्नेयी᳘भिरग्निपुरा᳘मे᳘वास्मा ऽएत᳘त्करोति सा᳘ है᳘षा ऽग्निपुरा दी᳘प्यमाना तिष्ठति तिसृ᳘भिस्त्रिपुर᳘मे᳘वास्मा ऽएत᳘त्करोति त᳘स्मादु हैत᳘त्पुरां᳘ परम᳘ᳫँ᳘ रूपं य᳘त्त्रिपुरᳫँ᳭ स वै व्व᳘र्षीयसा वर्षीयसा च्छ᳘न्दसा प᳘रां परां ले᳘खां व्व᳘रीयसीं करोति त᳘स्मात्पुरां प᳘रा परा व्व᳘रीयसी ले᳘खा भवन्ति ले᳘खा हि पुरः[[!!]]॥
मूलम् - Weber
प᳘रि वा᳘जपतिः कविः᳟॥
प᳘रि त्वाग्ने पु᳘रं वयं त्व᳘मग्ने द्यु᳘भिरि᳘त्यग्नि᳘मेॗवास्मा एत᳘दुपस्तुत्य व᳘र्म करोति प᳘रिवतीभिः प᳘रीव हि पु᳘र आग्नेयी᳘भिरग्निपुरा᳘मेॗवास्मा एत᳘त्करोति सा᳘ हैॗषाग्निपुरा दी᳘प्यमाना तिष्ठति तिसृ᳘भिस्त्रिपुर᳘मेॗवास्मा एत᳘त्करोति त᳘स्मादु हैत᳘त्पुरा᳘म् परमं᳘ रूपं य᳘त्त्रिपुरᳫं सवै व᳘र्षीयसा-वर्षीयसा छ᳘न्दसा प᳘राम्-परां ले᳘खां व᳘रीयसीं करोति त᳘स्मात्पुराम् प᳘रा-परा व᳘रीयसी ले᳘खा भवन्ति ले᳘खा हि पु᳘रः॥
मूलम् - विस्वरम्
“परि वाजपतिः कविः”- (वा० सं० ११ । २५) “परि त्वा ऽग्ने पुरं वयम्”- (वा० सं० ११ । २६) “त्वमग्ने द्युभिः”- (वा० सं० ११ । २७) इति । अग्निमेवास्मा ऽएतदुपस्तुत्य वर्म करोति । परिवतीभिः । परीव हि पुरः । आग्नेयीभिः । अग्निपुरामेवास्मा ऽएतत्करोति । सा हैषा ऽग्निपुरा दीप्यमाना तिष्ठति । तिसृभिः । त्रिपुरमेवास्मा ऽएतत्करोति । तस्मादु हैतत् पुरां परमं रूपं यत्त्रिपुरम् । स वै वर्षीयसा-वर्षीयसा छन्दसा परां परां लेखां वरीयसीं करोति । तस्मात् पुरां परा-परा वरीयसी । लेखा भवन्ति । लेखा हि पुरः ॥ २५ ॥
सायणः
मन्त्रं विधत्ते- परिवाजपतिरिति । आद्या गायत्री, “परि त्वा ऽग्ने पुरं वयम्”- इति द्वितीया अनुष्टुप् । “त्वमग्ने द्युभिः”- इति तृतीया त्रिष्टुप्; तिस्रो ऽप्याग्नेय्यः । यतो ऽग्निदेवत्याः, अत एताभिः परिलेखनेन अग्निमेव ‘वर्म’ कवचं पिण्डाय कृतवान् भवति ॥
मन्त्रत्रयगतं परिशब्दं स्तौति- परिवतीभिरिति । यतो रेखाः पुरात्मिकाः, अतस्तासां परिशब्दयुक्ताभिः ऋग्भिः करणेन प्राकारपरिवृतपुरात्मकत्वमुक्तम् । मंत्रगतं त्रित्वं प्रशंसति- तिसृभिस्त्रिपुरमेवेति । प्राकारत्रयपरिवृतत्वं पुरामुत्कृष्टतमत्वम् । स वै वर्षीयसेत्यादि । अस्यायमर्थः,- ‘सः’ अध्वर्युः ‘वर्षीयसा’ वृद्धेन ततो ऽपि ‘वर्षीयसा’ वृद्धतरेण ‘छन्दसा’, उत्तरोत्तराधिकच्छन्दस्काभिः ऋग्भिरित्यर्थः । छन्दांसि इदानीं प्रदर्शितानि, ताभिर्ऋग्भिः रेखामपि उत्तरोत्तरवरीयसीं महत्तरां करोति । तस्मादुत्तरोत्तराधिकरेखात्रयकरणेन तादृग्-भूतप्रकारेण पुरेण मृत्पिण्डं रक्षितवान् भवतीति ॥ २५ ॥
Eggeling
- [Vāj. S. XI, 25-27] ‘Around the wise lord
of strength– 22,’ ‘Around (us) we (place) thee, O Agni, as a rampart– 23,’ ‘With the days, thou Agni– 24,’ in thus praising Agni he makes a fence for him by means of (verses) containing the word ‘pari’ (around), for all round, as it were, (run) the ramparts;–(he does so by verses) relating to Agni: a stronghold of fire he thus makes for him, and this stronghold of fire keeps blazing;–(he does so) by three (verses): a threefold stronghold he thus makes for him; and hence that threefold stronghold is the highest form of strongholds. Each following (circular) line he makes wider, and with a larger metre: hence each following line of strongholds is wider, for strongholds (ramparts) are lines.
२६
विश्वास-प्रस्तुतिः
(रो᳘ ऽथै) अ᳘थैनमस्यां᳘ खनति॥
(त्ये) एतद्वै᳘ दे᳘वा[[!!]] ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽइमा᳘मे᳘वात्मा᳘नमकुर्व्वन्गु᳘प्त्या ऽआ᳘त्मा ऽऽत्मा᳘नं गोप्स्यती᳘ति सा᳘ समम्बिला᳘ स्यात्त᳘दस्येय᳘मात्मा᳘ भवति य᳘द्वेव᳘ समम्बिला यो᳘निर्व्वा᳘ ऽइयᳫँ᳭ रे᳘त ऽइदं यद्वै रे᳘तसो यो᳘निमतिरिच्य᳘ते ऽमुया त᳘द्भवत्य᳘थ य᳘न्न्यू᳘नं व्यृद्धं त᳘देतद्वै रे᳘तसः स᳘मृद्धं य᳘त्समम्बिलं च᳘तुःस्रक्तिरेष कू᳘पो भवति च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यः᳘ खनति॥
मूलम् - श्रीधरादि
(रो᳘ ऽथै) अ᳘थैनमस्यां᳘ खनति॥
(त्ये) एतद्वै᳘ दे᳘वा[[!!]] ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽइमा᳘मे᳘वात्मा᳘नमकुर्व्वन्गु᳘प्त्या ऽआ᳘त्मा ऽऽत्मा᳘नं गोप्स्यती᳘ति सा᳘ समम्बिला᳘ स्यात्त᳘दस्येय᳘मात्मा᳘ भवति य᳘द्वेव᳘ समम्बिला यो᳘निर्व्वा᳘ ऽइयᳫँ᳭ रे᳘त ऽइदं यद्वै रे᳘तसो यो᳘निमतिरिच्य᳘ते ऽमुया त᳘द्भवत्य᳘थ य᳘न्न्यू᳘नं व्यृद्धं त᳘देतद्वै रे᳘तसः स᳘मृद्धं य᳘त्समम्बिलं च᳘तुःस्रक्तिरेष कू᳘पो भवति च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यः᳘ खनति॥
मूलम् - Weber
अ᳘थैनमस्यां᳘ खनति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘महि र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा इमा᳘मेॗवात्मा᳘नमकुर्वन्गु᳘प्त्या आत्मात्मा᳘नं गोप्स्यती᳘ति सा᳘ समम्बिला᳘ स्यात्त᳘दस्येय᳘मात्मा᳘ भवति य᳘द्वेव᳘ समंबिला यो᳘निर्वा᳘ इयं रे᳘त इदं यद्वै रे᳘तसो यो᳘निमतिरिच्य᳘ते ऽमुया त᳘द्भवत्य᳘थ यॗन्न्यूॗनं व्यृद्धं त᳘देतद्वै रे᳘तसः स᳘मृद्धं य᳘त्समम्बिलं च᳘तुःस्रक्तिरेष भवति च᳘तस्रो वै दि᳘शः स᳘र्वाभ्य ए᳘वैनमेत᳘द्दिग्भ्यः᳘ खनति॥
मूलम् - विस्वरम्
अथैनमस्यां खनति । एतद्वै देवा अबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा ऽइमामेवात्मानमकुर्वन्- गुप्त्यै । आत्मानं गोप्स्यतीति । सा समम्बिला स्यात् । तदस्येयमात्मा भवति । यद्वेव समम्बिला । योनिर्वा ऽइयम् । रेत इदम् । यद्वै रेतसो योनिमतिरिच्यते- अमुया तद्भवति । अथ यन्न्यूनं- व्यृद्धं तद् । एतद्वै रेतसः समृद्धम्- यत् समम्बिलम् । चतुःस्रक्तिरेष कूपो भवति । चतस्रो वै दिशः । सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति ॥ २६ ॥
सायणः
अथ पिण्डखननं विधत्ते- अथैनमस्यां खनतीति 25 । ‘अस्यां’ भूमौ ‘एनम्’ पिण्डं खनेदिति आधेयाधिकरणभावेन भूमिमृत्पिण्डयोः प्रतीयमानं पार्थक्यमपाकरोति- एतद्वै देवा इति । पूर्वं देवा रक्षोभीत्या ‘तस्मै’ पिण्डाय ‘इमां’ भूमिमेव ‘आत्मानं’ स्वरूपम् ‘अकुर्वन्’ स्वरूपं स्वरूपरक्षकं भविष्यतीत्यतो हेतोः रक्षणाय ‘सा’ खन्यमाना भूमिः ‘समम्बिला’ चतुर्द्दिशं समानविवरा कर्त्तव्या । अयमर्थः,- यावत्य उखाषाढादय इष्टकाः कर्त्तव्याः तावत्परिमाणमेवेदं खनेत् । समम्बिलत्वं स्तौति- यदेव समम्बिलेति । ‘इयं’ भूमिः ‘योनिः’ अग्न्युत्पत्तिस्थानम् । इदं रेतः उखाषाढाद्यर्थं खन्यमानं मृत्स्वरूपं रेतः; अतः ‘रेतसः’ सम्बन्धी बिन्दुः, यावत् ‘योनिम् अतिरिच्यते’ तावत् उखादिपर्याप्तौ मृत् खनितुं युक्तेत्यर्थः । चतुःस्रक्तिरेष कूप इति । मृदर्थं खन्यमानः कूपः चतुरस्रः कर्त्तव्यः । स्रक्तीश्चतुर्दिगात्मना स्तौति- चतस्रो वै दिश इति ॥ २६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (६-३-३) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठे काण्डे तृतीयो ऽध्यायः समाप्तः ॥ ६-३ ॥
Eggeling
- He then digs for him (Agni) 26 in this earth. For the gods then were afraid, thinking, ‘We hope the Rakshas, the fiends, will not smite him here 22! For the sake of protection they made this earth to be a self (body, ātman) for him, thinking, ‘His own self will protect his own self.’ It (the lump of clay) should be as large as the hole: thus this earth (or clay) becomes his (Agni’s) self. And as to its (being) as large as the hole,–this earth is the womb, and this (clay) is teed; and whatever part of the seed
exceeds the womb, becomes useless; and what is deficient, is unsuccessful; but that part of the seed which is within the hole is successful. Four-cornered is this hole, for there are four quarters: from all the (four) quarters he thus digs him.
-
206:1 The lump of clay which is to be used for the making of the fire-pan has been placed in a square hole east of the Āhavanīya fire. ↩︎
-
206:2 That is to say, he looks at the lump of clay through the hollow part of the ant-hill, whilst muttering the formula given in the next paragraph. ↩︎
-
आगत्येत्यभिमंत्रयते ऽश्वम् । का० श्रौ० सू० १६ । ५९ । ↩︎
-
स्यत्वा ABC see २, ४, १, ६.१२. ↩︎
-
208:1 Or, as if one were to say,–yathāyam iha-sthāna āstha(?) iti kaścid brūyād evaṁ proktavān, Sāy. ↩︎
-
वृत्वा᳘य ABC. ↩︎
-
208:2 Or, by covering;–it is not easy to see what the author makes of ‘vr̥ttvāya,’ for which the St. Petersburg dictionary suggests ‘vr̥tvāya.’ Mahīdhara derives it from ‘vart,’ in the sense of ’to touch.’ Perhaps, however, ‘bhūmer’ depends on ‘yatas;’ hence ‘moving about, tell us from what spot of the ground we may dig him out.’ ↩︎
-
द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन् । का. श्रौ. सू. १६ । ६१ । ↩︎
-
208:3 That is, he pulls up its head (?); ‘he rouses it, shakes it up,’ St. Petersb. Dict.–Sāyaṇa, on the other hand, in accordance with Kāty. XVI, 2, 18, interprets ‘unmr̥śati’ by ‘he holds his hand over its back,’–pr̥shṭḥasyopari pāṇiṁ dhārayati. ↩︎
-
209:1 For the construction, see on paragraph 6, p. 205, note 1. ↩︎
-
209:2 Literally, to step off to. ↩︎
-
209:3 Saubhaga, ’the state of being well-endowed, well-favoured.’ ↩︎
-
उदक्रमीदित्यभिमंत्रयते । अश्वमेव । का. श्रौ. सू. १६ । ६२ । ↩︎
-
आहवनीय वत्स्थापयति पिंडस्य । का. श्रौ. सू. १६ । ६३ । ↩︎
-
210:1 The two halves of the two verses (Vāj. S. XI, 23, 24) are uttered in the order 1 a, 2 b, 2 a, 1 b. ↩︎
-
211:1 R̥k S. II, 50, 4, beginning, however, ‘I sprinkle Agni with a ghee-oblation.’ ↩︎
-
स्पृहद्व᳘र्णे A first hand. स्पृहय᳘द्व᳘र्णे A second hand. BC. ↩︎
-
211:2 Mahīdhara and Sāyaṇa (R̥k S. II, 10, 5) take ‘maryaśrī’ in the sense of ‘resorted to, or worshipped, by men.’ ↩︎
-
आहुती स्रुवेणाश्वपदे । का. श्रौ. सू. १६ । ६४ ॥ ↩︎
-
अभ्र्या पिंडं त्रिः परिलिखति परि वाजपतिरिति बहिर्बहिरुत्तरयोत्तरया । का० श्रौ० सू० १६ । ६५ ॥ ↩︎
-
212:1 Or, he makes that protecting thunderbolt for it (or him). ↩︎
-
213:1 Vāj. S. XI, 25; R̥k S. IV, 15, 3, ‘Around the offering, Agni, the wise lord of strength, hath come, bestowing precious gifts upon the worshipper.’ ↩︎ ↩︎
-
213:2 Vāj. S. XI, 26; R̥k S. X, 87, 22, ‘Around we place thee, the priest, as a rampart, O mighty Agni, the bold-raced slayer of the wily day by day.’ ↩︎
-
213:3 Vāj. S. XI, 27; R̥k S. II, 1, 1, ‘With the days, O Agni, thou, longing to shine hither, art born forth from the waters, out of the shore, from the woods, from the herbs, thou the bright, O man-lord of men.’ ↩︎
-
अभ्र्या पिंडं खनति देवस्य त्वेति । का० श्रौ० सू० १६ । ६५ । ↩︎
-
213:4 Or he digs out that (lump of clay). ↩︎