०१
विश्वास-प्रस्तुतिः
ह᳘स्त ऽएषा᳘ ऽभ्रिर्भवत्य᳘थ पशू᳘नभि᳘मन्त्रयते॥
(त ऽ) एतद्वा᳘ ऽएषु देवा᳘ ऽअन्वेषिष्य᳘न्तः पु᳘रस्ताद्वी᳘र्यमदधुस्त᳘थै᳘वैष्वय᳘मेत᳘दन्वेषिष्य᳘न्पुर᳘स्ताद्वी᳘र्यं[[!!]] दधाति॥
मूलम् - श्रीधरादि
ह᳘स्त ऽएषा᳘ ऽभ्रिर्भवत्य᳘थ पशू᳘नभि᳘मन्त्रयते॥
(त ऽ) एतद्वा᳘ ऽएषु देवा᳘ ऽअन्वेषिष्य᳘न्तः पु᳘रस्ताद्वी᳘र्यमदधुस्त᳘थै᳘वैष्वय᳘मेत᳘दन्वेषिष्य᳘न्पुर᳘स्ताद्वी᳘र्यं[[!!]] दधाति॥
मूलम् - Weber
ह᳘स्त एषा᳘भ्रिर्भवत्य᳘थ पशू᳘नभि᳘मन्त्रयते॥
एतद्वा᳘ एषु देवा᳘ अन्वेषिष्य᳘न्तः पुरस्ताद्वीर्य᳘मदधुस्त᳘थैॗवैष्वय᳘मेत᳘दन्वेषिष्य᳘न्पुर᳘स्ताद्वीर्यं᳘ दधाति॥
मूलम् - विस्वरम्
हस्त ऽएषा ऽभ्रिर्भवति- अथ पशूनभिमन्त्रयते । एतद्वा ऽएषु देवा अन्वेषिष्यन्तः पुरस्ताद्वीर्यमदधुः । तथैवैष्वयमेतदन्वेषिष्यन्पुरस्ताद्वीर्यं दधाति ॥ १ ॥
सायणः
पूर्वमाहवनीयस्य दक्षिणाप्रदेशे त्रिवृन्मुञ्जरशनाबद्धाः प्राङ्मुखा ये ऽश्वगर्दभाजास्तिष्ठन्ति, तेषामिदानीं यथाक्रममभिमन्त्रणं समन्त्रकं विधित्सुरादावभिमन्त्रणं वीर्यात्मना प्रशंसति- हस्त एषा ऽभ्रिर्भवतीति । अनेन अभ्रिं हस्ते गृहीत्वैव पशूनभिमन्त्रयते 1 ॥ १ ॥
Eggeling
- The spade is still in his hand, when he addresses the beasts. For when the gods at that time were about to search (for Agni) in these (animals) they placed their vigour in front; and in like manner does
this one, now that he is about to search in these (animals), place his vigour in front.
०२
विश्वास-प्रस्तुतिः
सो᳘ ऽश्वमभि᳘मन्त्रयते॥
प्र᳘तूर्तं व्वाजिन्ना᳘द्रवे᳘ति यद्वै᳘ क्षिप्रं त᳘त्तूर्तम᳘थ य᳘त्क्षिप्रात्क्षे᳘पीयस्तत्प्र᳘तूर्तं व᳘रिष्ठाम᳘नु संव्व᳘तमि᳘तीयं वै व्व᳘रिष्ठा संव्व᳘दिमाम᳘नु संव्व᳘तमि᳘त्येत᳘द्दिवि᳘ ते जन्म परम᳘मन्त᳘रिक्षे त᳘व ना᳘भिः पृथिव्याम᳘धि यो᳘निरिदि᳘ति त᳘देनमेता᳘ देव᳘ताः करोत्यग्निं᳘ व्वायु᳘मादित्यं तद᳘श्वे व्वी᳘र्यं दधाति॥
मूलम् - श्रीधरादि
सो᳘ ऽश्वमभि᳘मन्त्रयते॥
प्र᳘तूर्तं व्वाजिन्ना᳘द्रवे᳘ति यद्वै᳘ क्षिप्रं त᳘त्तूर्तम᳘थ य᳘त्क्षिप्रात्क्षे᳘पीयस्तत्प्र᳘तूर्तं व᳘रिष्ठाम᳘नु संव्व᳘तमि᳘तीयं वै व्व᳘रिष्ठा संव्व᳘दिमाम᳘नु संव्व᳘तमि᳘त्येत᳘द्दिवि᳘ ते जन्म परम᳘मन्त᳘रिक्षे त᳘व ना᳘भिः पृथिव्याम᳘धि यो᳘निरिदि᳘ति त᳘देनमेता᳘ देव᳘ताः करोत्यग्निं᳘ व्वायु᳘मादित्यं तद᳘श्वे व्वी᳘र्यं दधाति॥
मूलम् - Weber
सो᳘ ऽश्वमभि᳘मन्त्रयते॥
प्र᳘तुर्तं वाजिन्ना᳘द्रवे᳘ति यद्वै᳘ क्षिप्रं त᳘त्तूर्तम᳘थ य᳘त्क्षिप्रात्क्षे᳘पीयस्तत्प्र᳘तूर्त व᳘रिष्ठाम᳘नु संव᳘तमि᳘तीयं वै व᳘रिष्ठा संव᳘दिमाम᳘नु संव᳘तमि᳘त्येत᳘द्दिवि᳘ ते जन्म परम᳘मन्त᳘रिक्षे त᳘व ना᳘भिः पृथिव्याम᳘धि यो᳘निरिदि᳘ति त᳘देनमेता᳘ देव᳘ताः करोत्यग्निं᳘ वायु᳘मादित्यं तद᳘श्वे वीर्यं᳘ दधाति॥
मूलम् - विस्वरम्
सो ऽश्वमभिमन्त्रयते- “प्रतूर्तं वाजिन्ना द्रव”- इति । यद्वै क्षिप्रं तत्तूर्तम् । अथ यत् क्षिप्रात् क्षेपीयः- तत्प्रतूर्तम् । “वरिष्ठामनु सम्वतम्”- इति । इयं वै वरिष्ठा सम्वत् । इमामनु सम्वतमित्येतत् । “दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरित्”- (वा० सं० ११ । १२) इति । तदेनमेता देवताः करोति- अग्निम्, वायुम्, आदित्यम् । तदश्वे वीर्यं दधाति ॥ २ ॥
सायणः
प्रथममश्वाभिमन्त्रणं समन्त्रं विधत्ते- सो ऽश्वमिति 1 । मन्त्रस्यायमर्थः- हे ‘वाजिन्’ अश्व ! ‘वरिष्ठाम्’ अतिशयेनोर्वीम्, अनुसंवतं सम्पूर्वात् वनतेः क्विपि “अनुदात्तोपदेशवनति" (पा. सू. ६ । ४ । ३७)- इति । न-लोपे, “ह्रस्वस्य पिति”- (पा. सू. ६ । १ । ७१) इति तुक् । अस्माभिः क्रियमाणं सम्भजनम् ‘अनु’ लक्ष्य भूमिं, ‘प्रतूर्तं’ त्वरतेः “ज्वरत्वर”- (पा. सू. ६ । ४ । २०) इत्यूठि कृते “नसत्तनिषत्तानुत्त-प्रतूर्त-सूत्त-गूर्त्तानि च्छन्दसि”- (पा. सू. ८ । २ । ६१) इति निष्ठा- तस्य नत्वाभावेन निपातनम् । अतिक्षिप्रम् ‘आद्रव’ आगच्छ । हे अश्व ! ‘ते’ तव ‘परमं जन्म’ ‘दिवि’ आदित्यरूपेण, ‘अन्तरिक्षं’ तव ‘नाभिः’ वायुरूपेण, ‘पृथिव्यां’ तव ‘योनिः’ उत्पत्तिस्थानम् अग्न्यात्मकत्वेनेति, अश्वस्य लोकत्रयाभिमानिदेवतात्वेन स्तुतिः कृतेति तात्पर्यम् ॥
अत्र प्रतूर्तपदं व्याचष्टे- यद्वै क्षिप्रं तत् तूर्तमिति । ‘क्षिप्रं-तूर्तम्’ ‘अथ’ ‘यत् क्षिप्रात्’ अपि ‘क्षेत्रीयः’ क्षिप्रतरम्, ‘तत् प्रतूर्तम्’ इत्युच्यते । क्षिप्रशब्दादीयसुनि “स्थूलदूरयुवह्रस्वक्षिप्र"- (पा. सू. ६ । ४ । १५६) इति यणादिपरस्य लोपः । पूर्वस्येकारस्य गुणः । उत्तरार्द्धस्य तात्पर्यमाह- तदेनमेता देवता इति । अभिमन्त्रणेनाश्वस्य किमायातम् ? तदाह- तदश्वे वीर्यं दधातीति ॥ २ ॥
Eggeling
- He addresses the horse, with (Vāj. S. XI, 12), ‘Most speedily 2, O courser, run hither,’–what is swift, that is speedy, and what is swifter than swift, that is most speedy;–‘along the widest range,’–the widest range doubtless is this (earth): thus, ‘along this wide range;’–‘in the sky is thy highest home, in the air thy navel, upon earth thy womb:’ he thus makes it to be those deities, Agni, Vāyu, and Āditya (the sun), and thus lays vigour into the horse.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ रा᳘सभम्॥
युञ्जा᳘थाᳫँ᳭ रा᳘सभं युवमि᳘त्यध्वर्युं᳘ चैतद्य᳘जमानं चाहास्मिन्या᳘मे व्वृषण्वसू ऽइ᳘त्यस्मिन्क᳘र्मणि व्वृषण्वसू ऽइ᳘त्येत᳘दग्निं भ᳘रन्तमस्मयुमि᳘त्यग्निं भ᳘रन्तमस्म᳘त्प्रेषितमि᳘त्येतत्तद्रा᳘सभे व्वी᳘र्यं[[!!]] दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ रा᳘सभम्॥
युञ्जा᳘थाᳫँ᳭ रा᳘सभं युवमि᳘त्यध्वर्युं᳘ चैतद्य᳘जमानं चाहास्मिन्या᳘मे व्वृषण्वसू ऽइ᳘त्यस्मिन्क᳘र्मणि व्वृषण्वसू ऽइ᳘त्येत᳘दग्निं भ᳘रन्तमस्मयुमि᳘त्यग्निं भ᳘रन्तमस्म᳘त्प्रेषितमि᳘त्येतत्तद्रा᳘सभे व्वी᳘र्यं[[!!]] दधाति॥
मूलम् - Weber
अ᳘थ रा᳘सभम्॥
युञ्जा᳘थां रा᳘सभं युवमि᳘त्यध्वर्युं᳘ चैतद्य᳘जमानं चाहास्मिन्या᳘मे वृषण्वसू इ᳘त्यस्मिन्क᳘र्मणि वृषण्वसू इ᳘त्येत᳘दग्निम् भ᳘रन्तमस्मयुमि᳘त्यग्निम् भ᳘रन्तमस्म᳘त्प्रेषितमि᳘त्येतत्तद्रा᳘सभे वीर्यं᳘ दधाति॥
मूलम् - विस्वरम्
अथ रासभम्- “युञ्जाथां रासभं युवम्”- इति । अध्वर्युं चैतद्यजमानं चाह । “अस्मिन्यामे वृषण्वसू”- इति । अस्मिन्कर्मणि वृषण्वसू इत्येतत् । “अग्निं ऽभरन्तमस्मयुम्”- इति । अग्निं भरन्तमस्मत्प्रेषितमित्येतत् । तद्रासभे वीर्यं दधाति ॥ ३ ॥
सायणः
रासभाभिमन्त्रणं समन्त्रं विधत्ते- अथ रासभं युञ्जाथामिति । अभिमन्त्रयत इत्यनुषङ्गः । ‘युवम्’ इति द्विवचनेन अध्वर्युयजमानावुच्येते । ‘वृषण्वसू’ वृषा सेक्ता गर्दभः, स ययोर्वसु धनम्, तौ । ‘युवं’ युवाम् । ‘अस्मिन्’ ‘यामे’ यायते गम्यते प्राप्यते देवैरिति, यान्ति सङ्गच्छन्ते यत्र परस्परं देवा इति वा, यामं कर्म, तस्मिन् रासभं ‘युञ्जाथाम्’ । तं विशिनष्टि- अग्निं भरन्तामिति । “हृग्रहोर्भः” (पा. सू. ८ । २ । ३२ । वा.) । ‘अस्मयुम्’ अस्मभ्यं फलं कामयमानम्; यद्वा, यातेः रूपम्, अस्मत्प्रेषितमिति । मन्त्रं व्याचष्टे- अध्वर्युं चैतदिति ॥ ३ ॥
Eggeling
- Then the ass, with (Vāj. S. XI, 13), ‘Yoke ye two the ass,’ he says this to the Adhvaryu and the Sacrificer;–‘upon this course, ye showerers of wealth!’–that is, ‘upon this performance, ye showerers of wealth;’–‘him, bearing Agni, and helpful 3 unto us;’–that is, ‘him, bearing Agni, and urged forward by us:’ he thereby lays vigour into the ass.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाजम्[[!!]]॥
यो᳘गे योगे तव᳘स्तरं व्वा᳘जे वाजे हवामह ऽइत्य᳘न्नं वै व्वा᳘जः क᳘र्मणि कर्मणि तव᳘स्तरम᳘न्ने ऽन्ने हवामह ऽइ᳘त्येतत्स᳘खाय ऽइ᳘न्द्रमूत᳘य ऽइ᳘तीन्द्रिय᳘वन्तमूत᳘य ऽइ᳘त्येतत्त᳘दजे᳘ व्वी᳘र्यं[[!!]] दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाजम्[[!!]]॥
यो᳘गे योगे तव᳘स्तरं व्वा᳘जे वाजे हवामह ऽइत्य᳘न्नं वै व्वा᳘जः क᳘र्मणि कर्मणि तव᳘स्तरम᳘न्ने ऽन्ने हवामह ऽइ᳘त्येतत्स᳘खाय ऽइ᳘न्द्रमूत᳘य ऽइ᳘तीन्द्रिय᳘वन्तमूत᳘य ऽइ᳘त्येतत्त᳘दजे᳘ व्वी᳘र्यं[[!!]] दधाति॥
मूलम् - Weber
अ᳘थाज᳘म्॥
यो᳘गे-योगे तव᳘स्तरं वा᳘जे-वाजे हवामह इत्य᳘न्नं वै वा᳘जः क᳘र्मणि-कर्मणि तव᳘स्तरम᳘न्ने ऽन्ने हवामह इ᳘त्येतत्स᳘खाय इ᳘न्द्रमूत᳘य इ᳘तीन्द्रिय᳘वन्तमूत᳘य इ᳘त्येतत्त᳘दजे᳘ वीर्यं᳘ दधाति॥
मूलम् - विस्वरम्
अथाजम्- “योगे-योगे तवस्तरं वाजे-वाजे हवामहे”- इति । अन्नं वै वाजः । कर्मणि कर्मणि तवस्तरमन्ने ऽन्ने हवामह ऽइत्येतत् । “सखाय इन्द्रमूतये”- (वा० सं० ११ । १४) इति । इन्द्रियवन्तमूतय ऽइत्येतत् । तदजे वीर्यं दधाति ॥ ४ ॥
सायणः
अजाभिमन्त्रणं विधत्ते- अथाजं योगे योग इति । अभिमन्त्रयत इति शेषः । अस्यार्थः- हे ‘सखायः’ समानख्याना ऋत्विजः ! ‘तवस्तरं’ “तवः” इति बलनाम (निघं. २ । ९ । ५), बलिनम् ‘इन्द्रम्’ इरां भूमिं दृणन्तम् । “इन्द्र इन्द्रं दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयत् इति वा”- इति । यास्काचार्यः (निरु १० । १ । ८) । इन्द्रियवन्तं बलवन्तं वा तम्, अजम् । ‘योगे’ युञ्जन्ति देवा अत्रेति योगः कर्म, वीप्सायां, कर्मणि कर्त्तव्ये । ‘वाजे वाजे’ मनुष्याणाम् अन्ने-अन्ने दातव्ये स्थिते सति ‘ऊतये’ तर्पणाय ‘हवामहे’ वयमध्वर्यव इति ॥ मन्त्रगतयोगवाजेन्द्रपदानि व्याचष्टे- अन्नं वै वाजः कर्मणि-कर्मणीति ॥ ४ ॥
Eggeling
- Then the he-goat, with (Vāj. S. XI, 14), ‘At every yoking, at every race, we call him, the most powerful,’–race 4 means food: thus, ‘in every performance, in respect of every food we call him, the most powerful;’–‘Indra to our help, we his friends!’–that is, ‘him, the strong (indriyavat), to our help:’ he thereby lays vigour into the he-goat.
०५
विश्वास-प्रस्तुतिः
त्रिभि᳘रभि᳘मन्त्रयते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैष्वेत᳘द्वी᳘र्यं[[!!]] दधाति॥
मूलम् - श्रीधरादि
त्रिभि᳘रभि᳘मन्त्रयते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैष्वेत᳘द्वी᳘र्यं[[!!]] दधाति॥
मूलम् - Weber
त्रिभि᳘रभि᳘मन्त्रयते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैष्वेत᳘द्वीर्यं᳘ दधाति॥
मूलम् - विस्वरम्
त्रिभिरभिमन्त्रयते । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैष्वेतद्वीर्यं दधाति ॥ ५ ॥
सायणः
अभिमन्त्रणमन्त्रत्रित्वसंख्यां त्रिवृदग्न्यात्मना स्तौति- त्रिभिरिति । अत्र सूत्रम्- “अनुपस्पृशन्नुत्क्रमयत्येनान् प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति” (का. श्रौ. सू. १६ । ५३) इति ॥ ५ ॥
Eggeling
- With three (formulas) he addresses (the victims),–threefold is Agni: as great as Agni is, as
great as is his measure, by so much he thus lays vigour into them.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनान्प्रा᳘च ऽउ᳘त्क्रमयति॥
त᳘देनमेतैः᳘ पशु᳘भिर᳘न्विच्छति नो᳘पस्पृशत्यग्नि᳘रेष य᳘त्पश᳘वो ने᳘न्मा ऽय᳘मग्नि᳘र्हिन᳘सदि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनान्प्रा᳘च ऽउ᳘त्क्रमयति॥
त᳘देनमेतैः᳘ पशु᳘भिर᳘न्विच्छति नो᳘पस्पृशत्यग्नि᳘रेष य᳘त्पश᳘वो ने᳘न्मा ऽय᳘मग्नि᳘र्हिन᳘सदि᳘ति॥
मूलम् - Weber
अ᳘थैनान्प्रा᳘च उ᳘त्क्रमयति॥
त᳘देनमेतैः᳘ पशु᳘भिर᳘न्विछति नो᳘पस्पृशत्यग्नि᳘रेष य᳘त्पश᳘वो ने᳘न्माय᳘मग्नि᳘र्हिन᳘सदि᳘ति॥
मूलम् - विस्वरम्
अथैनान् प्राच उत्क्रमयति । तदेनमेतैः पशुभिरन्विच्छति । नोपस्पृशति । अग्निरेष यत्पशवः । नेन्मा ऽयमग्निर्हिनसदिति ॥ ६ ॥
सायणः
तदिदं विधत्ते- अथैनान् प्राच इति । ‘एनान्’ पशून् प्राङ्मुखानुद्गमयेत् । उद्गमितैः पशुभिः ‘एनम्’ मृद्रूपमग्निम् अन्विष्टवान् भवति । नोपस्पृशतीति । ‘यत्’ यतः ‘पशवो ऽग्निः’ यतो ऽग्निस्पर्शनेन हिंसा स्यात्, सा मा भूदिति । ‘हिनसत्’- इति हिसेः पञ्चमलकारे रूपम् ॥ ६ ॥
Eggeling
- He then makes them walk forward to the east: he thus searches for him (Agni) by means of these animals. He does not touch (them) lest he, Agni, should injure him; for Agni is the same as the animals 5.
०७
विश्वास-प्रस्तुतिः
सो᳘ ऽश्वमु᳘त्क्रमयति॥
प्रतू᳘र्व्वन्ने᳘ह्यवक्रा᳘मन्न᳘शस्तीरि᳘ति पाप्मा वा ऽअ᳘शस्तिस्त्व᳘रमाण ऽए᳘ह्यवक्रा᳘मन्पाप्मा᳘नमि᳘त्येत᳘द्रुद्र᳘स्य गा᳘णपत्यं मयोभूरेही᳘ति रौ᳘द्रा वै᳘ पश᳘वो या᳘ ते देव᳘ता त᳘स्यै गा᳘णपत्यं मयोभूरेही᳘त्येतत्त᳘देनम᳘श्वेना᳘न्विच्छति॥
मूलम् - श्रीधरादि
सो᳘ ऽश्वमु᳘त्क्रमयति॥
प्रतू᳘र्व्वन्ने᳘ह्यवक्रा᳘मन्न᳘शस्तीरि᳘ति पाप्मा वा ऽअ᳘शस्तिस्त्व᳘रमाण ऽए᳘ह्यवक्रा᳘मन्पाप्मा᳘नमि᳘त्येत᳘द्रुद्र᳘स्य गा᳘णपत्यं मयोभूरेही᳘ति रौ᳘द्रा वै᳘ पश᳘वो या᳘ ते देव᳘ता त᳘स्यै गा᳘णपत्यं मयोभूरेही᳘त्येतत्त᳘देनम᳘श्वेना᳘न्विच्छति॥
मूलम् - Weber
सो᳘ ऽश्वमु᳘त्क्रमयति॥
प्रतू᳘र्वन्ने᳘ह्यवक्रा᳘मन्न᳘शस्तीरे᳘ति पाप्मा वा अ᳘शस्तिस्त्व᳘रमाण ए᳘ह्यवक्रा᳘मन्पाप्मा᳘नमि᳘त्येत᳘द्रुद्र᳘स्य गा᳘णपत्यम् मयोभूरेही᳘ति रौ᳘द्रा वै᳘ पश᳘वो या᳘ ते देव᳘ता त᳘स्यै गा᳘णपत्यम् मयोभूरेही᳘त्येतत्त᳘देनम᳘श्वेना᳘न्विछति॥
मूलम् - विस्वरम्
सो ऽश्वमुत्क्रमयति- “प्रतूर्वन्नेह्यवक्रामन्नशस्तीः”- इति । पाप्मा वा ऽअशस्तिः । त्वरमाण एहि, अवक्रामन् पाप्मानमित्येतत् । “रुद्रस्य गाणपत्यं मयोभूरेहि”- इति । रौद्रा वै पशवः । या ते देवता तस्यै गाणपत्यं मयोभूरेहीत्येतत् । तदेनमश्वेनान्विच्छति ॥ ७ ॥
सायणः
उत्क्रमणमनूद्य मन्त्रं विधत्ते- सो ऽश्वमुत्क्रमयतीति । प्रतूर्वन्नेहीति । अस्यायमर्थः,- ‘अशस्तीः’ पाप्मनः ‘अवक्रामन्’ अभिगमयन् ‘प्रतूर्वन्’ प्रकर्षेण त्वरमाणः ‘एहि’ आगच्छ । ‘मयोभूः’ सुखस्य भावयिता ‘रुद्रस्य’ पशुपतेः ‘गाणपत्यं’ गणपतित्वम् । ‘एहि’ गच्छ अशस्तिपदं व्याचष्टे- पाप्मा वा अशस्तिरिति । अश्वस्य रुद्रगणपतित्वं प्रतिपादयति- रौद्रा वै पशव इति । पशुरूपस्याश्वस्य देवता रुद्रः, तस्य गणपतित्वमेहीत्यर्थः । अश्वोत्क्रमणेन नः किं जातमिति, तद् दर्शयति- तदेनमश्वेनान्विच्छतीति ॥ ७ ॥
Eggeling
- He makes the horse walk on, with (Vāj. S. XI, 15), ‘Forth-speeding, come treading down the curses!’–curse means evil: thus, ‘running come, treading down the evil!’–‘come, delighting, into Rudra’s chieftainship!’–beasts belong to Rudra: thus, ‘come thou, delighting, into the chieftainship of him who is thy deity!’ he thus searches for him by means of the horse.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ रा᳘सभम्॥
(मु᳘) उ᳘र्व्वन्त᳘रिक्षं᳘[[!!]] व्वीहि स्वस्ति᳘ गव्यूतिर᳘भयानि कृण्वन्नि᳘ति यथैव[[!!]] य᳘जुस्त᳘था ब᳘न्धुः पूष्णा᳘ सयु᳘जा सहे᳘तीयं वै᳘ पू᳘षा ऽन᳘या सयुजा[[!!]] सहे᳘त्येतत्त᳘देनᳫँ᳭ रा᳘सभेना᳘न्विच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ रा᳘सभम्॥
(मु᳘) उ᳘र्व्वन्त᳘रिक्षं᳘[[!!]] व्वीहि स्वस्ति᳘ गव्यूतिर᳘भयानि कृण्वन्नि᳘ति यथैव[[!!]] य᳘जुस्त᳘था ब᳘न्धुः पूष्णा᳘ सयु᳘जा सहे᳘तीयं वै᳘ पू᳘षा ऽन᳘या सयुजा[[!!]] सहे᳘त्येतत्त᳘देनᳫँ᳭ रा᳘सभेना᳘न्विच्छति॥
मूलम् - Weber
अ᳘थ रा᳘सभम्॥
उर्व᳘न्त᳘रिॗक्षं वीहि स्वस्ति᳘गव्यूतिर᳘भयानि कृण्वन्नि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पूष्णा᳘ सयु᳘जा सहे᳘तीयं वै᳘ पूॗषान᳘या सयु᳘जा सहे᳘त्येतत्त᳘देनं रा᳘सभेना᳘न्विछति॥
मूलम् - विस्वरम्
अथ रासभम्- “उर्वन्तरिक्षं वीहि स्वस्ति गव्यूतिरभयानि कृण्वन्”- इति । यथैव यजुस्तथा बन्धुः । “पूष्णा सयुजा सह”- (वा. सं. ११ । १५) इति । इयं वै पूषा । अनया सयुजा सहेत्येतत् । तदेनं रासभेनान्विच्छति ॥ ८ ॥
सायणः
रासभोत्क्रमणं विधत्ते- अथ रासभमुर्वन्तरिक्षमिति । ‘उरु’ विस्तीर्णम् अन्तरिक्षं ‘वीहि’ प्राप्नुहि किं कुर्वन् ? ‘गव्यूतिः’ गोसञ्चारभूमिं ‘स्वस्ति’ क्षेमेण कुर्वन्, ‘अभयानि’ अध्वनः । कृण्वन् ‘पूष्णा’ पृथिव्या यागभूम्या ‘सयुजा’ सहायेन सह वीहीति । मन्त्रस्य पूर्वार्द्धं निगदव्याख्यातमित्याह- यथैव यजुस्तथा बन्धुरिति । न व्याख्यातुमर्हतीत्यर्थः । उत्तरार्द्धगतपूषपदं विवृणोति- इयं वै पूषेति ॥ ८ ॥
Eggeling
- Then the ass with, Traverse the wide air, thou possessed of prosperous pastures and affording safety!’–as the text, so its meaning;–‘with Pūshan as thy mate;’–Pūshan, doubtless, is this earth; thus, ’together with her as thy mate:’ he thus searches for him by means of the ass.
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाज᳘म्॥
(म्पृ) पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरी᳘ष्यमङ्गिरस्वदा᳘भरे᳘ति पृथिव्या᳘ ऽउप᳘स्थादग्निं᳘ पश᳘व्यमग्निवदा᳘भरे᳘त्येतत्त᳘देनमजेना᳘न्विच्छति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाज᳘म्॥
(म्पृ) पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरी᳘ष्यमङ्गिरस्वदा᳘भरे᳘ति पृथिव्या᳘ ऽउप᳘स्थादग्निं᳘ पश᳘व्यमग्निवदा᳘भरे᳘त्येतत्त᳘देनमजेना᳘न्विच्छति[[!!]]॥
मूलम् - Weber
अ᳘थाज᳘म्॥
पृथिव्याः᳘ सध᳘स्थादग्नि᳘म् पुरीष्य᳘मङ्गिरस्वदा᳘भरे᳘ति पृथिव्या᳘ उप᳘स्थादग्नि᳘म् पशव्य᳘मग्निवदा᳘भरे᳘त्येतत्त᳘देनमजेना᳘न्विछति॥
मूलम् - विस्वरम्
अथाजम्- “पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर”- इति । पृथिव्या उपस्थादग्निं पशव्यमग्निवदाभरेत्येतत् । तदेनमजेनान्विच्छति ॥ ९ ॥
सायणः
अजोत्क्रमणं विधत्ते- अथाजं पृथिव्या इति । व्याख्यातो ऽयं मन्त्रः (पूर्वस्मिन्ब्राह्मणे ३८ कण्डिकायाम्) ॥ ९ ॥
Eggeling
- Then the he-goat, with (Vāj. S. XI, 16), ‘From the Earth’s seat, Aṅgiras-like, bring thou Agni Purīshya!’–that is, ‘from the Earth’s lap bring thou Agni, favourable to cattle, as Agni (did)!’ he thus searches for him (Agni) by means of the he-goat.
१०
विश्वास-प्रस्तुतिः
त्रिभिर᳘न्विच्छति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्विच्छति त्रिभिः᳘ पुर᳘स्तादभि᳘मन्त्रयते तत्षट्ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - श्रीधरादि
त्रिभिर᳘न्विच्छति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्विच्छति त्रिभिः᳘ पुर᳘स्तादभि᳘मन्त्रयते तत्षट्ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - Weber
त्रिभिर᳘न्विछति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा तावतैॗवैनमेतद᳘न्विछति त्रिभिः᳘ पुर᳘स्तादभि᳘मन्त्रयते तत्षट् ष᳘डृत᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - विस्वरम्
त्रिभिरन्विच्छति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति । त्रिभिः पुरस्तादभिमन्त्रयते । तत् षट् । षडृतवः सम्वत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ १० ॥
सायणः
उत्क्रमणमन्त्रगतत्रित्वसङ्ख्यामग्न्यात्मना स्तौति- त्रिभिरन्विच्छति त्रिवृदग्निरिति । पूर्वमेतेषामश्वरासभाजानामभिमन्त्रणे त्रयो मन्त्रा विनियुक्ताः, इदानीमुत्क्रमणे त्रय इति तां सङ्ख्यां सम्भूय ऋतुसंवत्सराग्निरूपत्वेन प्रशंसितुमुक्तमनुस्मारयति- त्रिभिः पुरस्तादभिमन्त्रयते तत् षडिति । स्पष्टो ऽर्थः ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-३-२) ॥
Eggeling
- With three (animals) he searches,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus searches for him.
By three (formulas) he first addresses (the beasts); that makes six,–six seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.
-
हस्त आधायेत्येनामभिमंत्रयते । का० श्रौ० सू० १६ । ५?? । ↩︎ ↩︎
-
204:1 Pratūrtam, ‘sped forward, speeding forward.’ ↩︎
-
204:2 Asmayu, ’tending towards us, favourable to us,’ is explained differently by the author of the Brāhmaṇa. ↩︎
-
204:3 The author here, as elsewhere, rather takes ‘vāja’ in the sense of ‘strength, sustenance.’ ↩︎
-
205:1 The text here has the ordinary Sanskrit construction, running literally thus:–he does not touch–Agni (being) the same as the animals–’lest he, Agni, should injure me!’ ↩︎