०१

विश्वास-प्रस्तुतिः

एतद्वै᳘ देवा᳘ ऽअब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘षां चेत᳘यमानानाᳫँ᳭ सवि᳘तैता᳘नि सावित्रा᳘ण्यमपश्यद्य᳘त्सविता᳘ ऽपश्यत्त᳘स्मात्सावित्रा᳘णि स᳘ ऽएता᳘मष्टागृहीतामा᳘हुतिमजुहोत्ताᳫँ᳭ हु᳘त्वेमा᳘मष्टधाविहिताम᳘षाढामपश्यत्पुरैव᳘[[!!]] सृष्टा᳘ᳫँ᳘ सतीम्[[!!]]॥

मूलम् - श्रीधरादि

एतद्वै᳘ देवा᳘ ऽअब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘षां चेत᳘यमानानाᳫँ᳭ सवि᳘तैता᳘नि सावित्रा᳘ण्यमपश्यद्य᳘त्सविता᳘ ऽपश्यत्त᳘स्मात्सावित्रा᳘णि स᳘ ऽएता᳘मष्टागृहीतामा᳘हुतिमजुहोत्ताᳫँ᳭ हु᳘त्वेमा᳘मष्टधाविहिताम᳘षाढामपश्यत्पुरैव᳘[[!!]] सृष्टा᳘ᳫँ᳘ सतीम्[[!!]]॥

मूलम् - Weber

एतद्वै᳘ देवा᳘ अब्रुवन्॥
चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘षां चेत᳘यमानानाᳫं सविॗतैता᳘नि सावित्रा᳘ण्यमपश्यद्य᳘त्सविता᳘पश्यत्त᳘स्मात्सावित्रा᳘णि स᳘ एता᳘मष्टागृहीतामा᳘हुतिमजुहोत्ताᳫं हुॗत्वेमा᳘मष्ठधाविहिताम᳘षाढामपश्यत्पुॗरैव᳘ सृष्टा᳘ᳫं᳘ सती᳘म्॥

मूलम् - विस्वरम्

एतद्वै देवा अब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तेषां चेतयमानानां सवितैतानि सावित्राण्यपश्यत् । यत् सविता ऽपश्यत्- तस्मात्सावित्राणि । स एतामष्टागृहीतामाहुतिमजुहोत् । तां हुत्वेमामष्टधा विहितामषाढामपश्यत्- पुरैव सृष्टां सतीम् ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् ॥ निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

एवमध्यायद्वयेन चीयमानाग्नेरुत्पत्तिप्रकारः, चयनोपयुक्तपशूदककर्म, मृत्तिकासिकताद्युत्पत्तिः पुरुषादिपञ्चपशुप्राजापत्यवायव्येष्वन्यतमेन प्रकारेणानुष्ठानप्रकारः, पञ्चचित्युत्पत्तिश्च दर्शिताः; इतस्तृतीयादिभिरध्यायैः “युञ्जानः प्रथमं मनः” (वा. सं. ११ । १) इत्यादीनां चयनमन्त्राणां विनियोगो ऽभिधास्यते । तत्र प्रथमं “युञ्जानः प्रथमम्" इत्यादिभिरष्टभिः सावित्रहोमः कार्यः । तदाह कात्यायनः- “अष्टगृहीतं जुहोति सन्ततमुद्गृह्णन् युञ्जान इति”- (का. श्रौ. सू. १६ । ५०) इति । अष्टवारं स्रुवेण स्रुचि गृहीतमाज्यद्रव्यं ‘सन्ततम्’ अविच्छेदेन ‘उद्गृह्णन्’ ऊर्द्ध्वं गृह्णन् “युञ्जानः प्रथमं ममः”- (वा. सं. ११ । १-८) इत्यादिभिरष्टभिः सवितृदेवस्यैर्मन्त्रैर्जुहुयात् । “अष्टागृहीतामष्टाभिर्यजुर्भिर्जुहोति”- इति (अग्रे तृतीयकण्डिकायाम्) वक्ष्यति । एतेषां यजुष्ट्वं यजुर्वेदे पाठात्; अन्यथा पादबद्धानां यजुष्ट्वानुपपत्तेः । अथवा यजुस्संहितापठिता मन्त्राः छत्रिन्यायेन यजुःशब्देनोक्ताः; अत्राष्टमो मन्त्रो यजुः । तथा चापस्तम्बः- “यजुरष्टमाभिर्ऋग्भिरेकामाहुतिं जुहोति”- (आप. श्रौ. सू. १६ । १ । ४) इति ॥ तमिमं सावित्रहोमं विधास्यन् सवितृसम्बन्धमादौ दर्शयति- एतद्वै देवा अब्रुवन्निति । ‘चेतयमानानां’ चितिमिच्छतां देवानां मध्ये ‘सविता’ देवः ‘एतानि’ वक्ष्यमाणानि सावित्राणि कर्माणि ‘अपश्यत्’ । यस्मात् सविता एतानि दृष्टवान् अतः सावित्राणीत्युच्यन्ते । सवितुरिमानीत्यर्थे “तस्येदम्”- (पा. सू. ४ । ३ । १२०) इति अण्-प्रत्ययः । सम्बन्धसामान्ये प्रत्ययविधानात् आत्मनो ऽभ्यन्तरे ऽपि देव इति कृत्वा द्रष्टृदृश्यसम्बन्धे कर्मणामपि सवितृदेवत्वेन “सा ऽस्य देवता”- (पा. सू. ४ । २ । २४) इत्यर्थविशेषे च विशेषप्रत्ययो भवतीत्यर्थः । आज्यस्याष्टग्रहणं विधातुमाह- स एतामष्टागृहीतामिति । तां हुत्वेमामिति । यतः ‘अष्टागृहीतामाहुतिं सविता अजुहोत्’, अतः ‘अष्टधा विहिताम्’ अष्टप्रकारेण विहिताम् ‘अषाढां’ नामेष्टकाम् ‘अपश्यत्’ ॥ १ ॥

Eggeling
  1. The gods then said, ‘Meditate ye!’ whereby doubtless they meant to say, ‘Seek ye a layer!’ Whilst they were meditating, Savitr̥ saw those Sāvitra (formulas); and inasmuch as Savitr̥ saw them, they are called Sāvitra. He offered that eightfold-taken libation; and when he had offered it, he saw this eightfold-appointed Ashāḍḥā 1, which had been created aforetime.

०२

विश्वास-प्रस्तुतिः

ते यद᳘ब्रुवन्॥ (वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्य᳘च्चेत᳘यमाना[[!!]] ऽअ᳘पश्यंस्त᳘स्माच्चि᳘तिरा᳘हुतिर्व्वै᳘ यज्ञो य᳘दिष्ट्वा᳘ ऽपश्यत्त᳘स्मादि᳘ष्टका॥

मूलम् - श्रीधरादि

ते यद᳘ब्रुवन्॥ (वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्य᳘च्चेत᳘यमाना[[!!]] ऽअ᳘पश्यंस्त᳘स्माच्चि᳘तिरा᳘हुतिर्व्वै᳘ यज्ञो य᳘दिष्ट्वा᳘ ऽपश्यत्त᳘स्मादि᳘ष्टका॥

मूलम् - Weber

ते यद᳘ब्रुवन् चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्य᳘च्चेत᳘यमा᳘ना अ᳘पश्यंस्त᳘स्माच्चि᳘तिरा᳘हुतिर्वै᳘ यज्ञो य᳘दिष्ट्वा᳘पश्यत्त᳘स्मादि᳘ष्टका॥

मूलम् - विस्वरम्

ते यदब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । यच्चेतयमाना अपश्यन्- तस्माच्चितिः । आहुतिर्वै यज्ञः, यदिष्ट्वा ऽपश्यत्- तस्मादिष्टका ॥ २ ॥

सायणः

ते यदब्रुवन्निति । अषाढाया इष्टकात्वमुपपादयति- आहुतिर्वै यज्ञो यदिष्ट्वा ऽपश्यदिति । ‘यत्’ यस्मात् एतां सावित्राहुतिम् ‘इष्ट्वा’ ‘अपश्यत्’, ‘तस्मादिष्टका’ अषाढेति, आहुतिसदृशीष्टकेति ॥ २ ॥

Eggeling
  1. Now when they said, ‘Meditate ye!’ they doubtless meant to say, ‘Seek ye a layer!’ and inasmuch as they saw it whilst meditating (cetay), therefore it is a layer (citi). And the libation is a sacrifice; and inasmuch as he saw it after sacrificing (ishṭvā), it is a brick (ishṭakā).

०३

विश्वास-प्रस्तुतिः

तां वा᳘ ऽएताम्[[!!]]॥
(मे᳘) ए᳘काᳫँ᳭ सती᳘मष्टागृहीता᳘मष्टाभिर्य᳘जुर्भिर्जुहोति त᳘स्मादियमे᳘का सत्य᳘ष्टधा विहिता[[!!]]॥

मूलम् - श्रीधरादि

तां वा᳘ ऽएताम्[[!!]]॥
(मे᳘) ए᳘काᳫँ᳭ सती᳘मष्टागृहीता᳘मष्टाभिर्य᳘जुर्भिर्जुहोति त᳘स्मादियमे᳘का सत्य᳘ष्टधा विहिता[[!!]]॥

मूलम् - Weber

तां वा᳘ एता᳘म्॥
ए᳘कᳫं सती᳘मष्टागृहीता᳘मष्टाभिर्य᳘जुर्भिर्जुहोति त᳘स्मादियमे᳘का सत्य᳘ष्टधाविहिता᳟॥

मूलम् - विस्वरम्

तां वा ऽएतामेकां सतीमष्टागृहीतामष्टाभिर्यजुर्भिर्जुहोति । तस्मादियमेका सत्यष्टधा विहिता ॥ ३ ॥

सायणः

तत् प्रशंसति- तां वा एतामेकां सतीमष्टागृहीतामिति । यस्मादेकाहुतिमष्टाभिर्मन्त्रैरष्टगृहीतेनाज्यद्रव्येण हुतवान्, तस्मात् अषाढा वस्तुत एका ऽपि अष्टधा विधीयत इति तत्समानत्वं तस्योपचरितमित्याशयः ॥ ३ ॥

Eggeling
  1. Now that same (libation of ghee), while being a single one, he offers as an eightfold one 2 with eight formulas: whence this (‘invincible’ brick), while being a single one, is eightfold appointed.

०४

विश्वास-प्रस्तुतिः

ता᳘मूर्ध्वा᳘मुद्गृह्ण᳘ञ्जुहोति॥
(ती) इमां त᳘दूर्ध्वा᳘ᳫँ᳘ रूपैरु᳘द्गृह्णाति त᳘स्मादिय᳘ मूर्ध्वा᳘ रूपैः[[!!]]॥

मूलम् - श्रीधरादि

ता᳘मूर्ध्वा᳘मुद्गृह्ण᳘ञ्जुहोति॥
(ती) इमां त᳘दूर्ध्वा᳘ᳫँ᳘ रूपैरु᳘द्गृह्णाति त᳘स्मादिय᳘ मूर्ध्वा᳘ रूपैः[[!!]]॥

मूलम् - Weber

ता᳘मूर्ध्वा᳘मुद्गृह्ण᳘न्जुहोति॥
इमां त᳘दूर्ध्वां᳘ रूपैरु᳘द्गृह्णाति त᳘स्मादिय᳘मूर्ध्वा᳘ रूपैः᳟॥

मूलम् - विस्वरम्

तामूर्ध्वामुद्गृह्णञ्जुहोति । इमां तदूर्ध्वां रूपैरुद्गृह्णाति । तस्मादियमूर्ध्वा रूपैः ॥ ४ ॥

सायणः

तस्या आहुतेरूर्द्ध्वं ग्रहणं विधत्ते- तामूर्द्ध्वामिति । ‘उद्गृह्णन्’ उदुपसर्गस्यार्थः ऊर्द्ध्वामित्यनेनोक्तः । इमां तदूर्द्ध्वामिति । ‘इमां’ भूमिम् ॥ ४ ॥

Eggeling
  1. He offers while raising upwards (the spoon);–he thereby raises this earth upwards by means of its forms 3: whence this earth is raised (above the water) by its forms.

०५

विश्वास-प्रस्तुतिः

(स्ताᳫँ᳭) ताᳫँ᳭ सं᳘ततां जुहोति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइह र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ नान्ववेयुरि᳘ति त᳘ ऽएत᳘ᳫँ᳘ संततहोम᳘मपश्यन्र᳘क्षसां नाष्ट्रा᳘णाम᳘नन्ववायनाय त᳘स्मात्सं᳘ततां जुहोति॥

मूलम् - श्रीधरादि

(स्ताᳫँ᳭) ताᳫँ᳭ सं᳘ततां जुहोति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइह र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ नान्ववेयुरि᳘ति त᳘ ऽएत᳘ᳫँ᳘ संततहोम᳘मपश्यन्र᳘क्षसां नाष्ट्रा᳘णाम᳘नन्ववायनाय त᳘स्मात्सं᳘ततां जुहोति॥

मूलम् - Weber

ताᳫं सं᳘ततां जुहोति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इह र᳘क्षांसि नाष्ट्राॗ नान्ववेयुरि᳘ति त᳘ एत᳘ᳫं᳘ संततहोम᳘मपश्यन्र᳘क्षसां नाष्ट्रा᳘णाम᳘नन्ववायनाय त᳘स्मात्सं᳘ततां जुहोति॥

मूलम् - विस्वरम्

तां सन्ततां जुहोति । एतद्वै देवा अबिभयुः । यद्वै न इह रक्षांसि नाष्ट्रा नान्ववेयुरिति । त ऽएतं सन्ततहोममपश्यन्- रक्षसां नाष्ट्राणामनन्ववायनाय । तस्मात्सन्ततां जुहोति ॥ ५ ॥

सायणः

तस्याः सान्तत्येन हवनं विधत्ते- तां सन्ततां जुहोतीति । ‘सन्तताम्’ अविच्छिन्नधारामित्यर्थः । सन्ततत्वं सोपपत्तिकं प्रशंसति- एतद्वै देवा अबिभयुरिति । “ञिभी भये” (धा. पा. जु. प. २) लङि “सिजभ्यस्तविदिभ्यश्च”- (पा. सू. ३ । ४ । १०९) इति झेर्जुस् । राक्षसेभ्यः सकाशाद् देवा भीतवन्तः । ‘यत्’ यथा ‘इह’ यज्ञे ‘नाष्ट्रा’ नाशकानि ‘रक्षांसि’ कर्त्तृपदम्, ‘नः’ अस्मान् देवान् ‘नान्ववेयुः’ न सङ्गता भवेयुः । “इण् गतौ” (धा. पा. अ. प. ३५) लिङि रूपम्, ‘इति’ हेतौ, अस्मात् कारणात् ‘एतं’ सावित्रं ‘होमं’ ‘सन्ततम्’ अनवच्छिन्नम् ‘अपश्यन्’ अवकाशान्वेषिणां राक्षसानामसङ्गमनाय; अवकाशे हि यज्ञविघातकाः प्रविशन्ति ॥ ५ ॥

Eggeling
  1. He offers it continuously;–for at that time the gods were afraid lest the Rakshas, the fiends, should come thither after them! They saw that continuous libation for preventing the Rakshas, the fiends, from coming after them: hence he offers it continuously.

०६

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैतामा᳘हुतिं जुहो᳘ति॥
सवि᳘तै᳘षो ऽग्निस्त᳘मेतया᳘ ऽऽहुत्या पुर᳘स्तात्प्रीणाति त᳘मिष्ट्वा᳘ प्रीत्वा᳘ ऽथैनᳫँ᳭ स᳘म्भरति तद्य᳘देत᳘या सविता᳘रं प्रीणा᳘ति त᳘स्मात्सावित्रा᳘णि त᳘स्माद्वा᳘ ऽएतामा᳘हुतिं जुहोति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैतामा᳘हुतिं जुहो᳘ति॥
सवि᳘तै᳘षो ऽग्निस्त᳘मेतया᳘ ऽऽहुत्या पुर᳘स्तात्प्रीणाति त᳘मिष्ट्वा᳘ प्रीत्वा᳘ ऽथैनᳫँ᳭ स᳘म्भरति तद्य᳘देत᳘या सविता᳘रं प्रीणा᳘ति त᳘स्मात्सावित्रा᳘णि त᳘स्माद्वा᳘ ऽएतामा᳘हुतिं जुहोति॥

मूलम् - Weber

य᳘द्वेॗवैतामा᳘हुतिं जुहो᳘ति॥
सविॗतैॗषो ऽग्निस्त᳘मेतया᳘हुत्या पुर᳘स्तात्प्रीणाति त᳘मिष्ट्वा᳘ प्रीत्वा᳘थैनᳫं स᳘म्भरति तद्य᳘देत᳘या सविता᳘रम् प्रीणा᳘ति त᳘स्मासावित्रा᳘णि त᳘स्माद्वा᳘ एतामा᳘हुतिं जुहोति॥

मूलम् - विस्वरम्

यद्वेवैतामाहुतिं जुहोति । सवितैषो ऽग्निः- तमेतया ऽऽहुत्या पुरस्तात्प्रीणाति । तमिष्ट्वा प्रीत्वा ऽथैनं सम्भरति । तद्यदेतया सवितारं प्रीणाति- तस्मात्सावित्राणि । तस्माद्वा ऽएतामाहुतिं जुहोति ॥ ६ ॥

सायणः

अस्या आहुतेः सवितृदेवत्यत्वमिदानीमाह- यद्वेवैतामाहुतिमिति । आग्नेये कर्मणि कुतः सवितुः प्रसङ्ग इत्यत आह- सवितैषो ऽग्निरिति । “षू प्रेरणे”- (धा. पा. तु. प. १२७) इति अस्मात् तृचि पदं सवितेति । तदर्थस्तु ‘एषः’ ‘अग्निः’ इति । सवितारं प्रीणाति, तस्मात् सावित्राणीति- अनेनाहुतेः सवितृप्रीणनसाधनत्वात् तद्देवत्यत्वमिति, प्रत्ययस्तु पूर्वमेवोक्तः ॥ ६ ॥

Eggeling
  1. And, again, why he offers that libation;–this Agni is Savitr̥, and him he gratifies at the outset by this libation; and having sacrificed to, and gratified, him (Agni), he then puts him together. And inasmuch as by this (libation) he gratifies Savitr̥, they (the formulas are called) Sāvitra: that is why he offers this libation.

०७

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैतामा᳘हुतिं जुहो᳘ति॥
सवि᳘तै᳘षो ऽग्निस्त᳘मेतया᳘ ऽऽहुत्या पुर᳘स्ताद्रे᳘तोभूत᳘ᳫँ᳘सिञ्चति यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृग्जायते तद्य᳘देत᳘या सविता᳘रᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्च᳘ति त᳘स्मात्सावित्रा᳘णि त᳘स्माद्वा᳘ ऽएतामा᳘हुतिं जुहोति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैतामा᳘हुतिं जुहो᳘ति॥
सवि᳘तै᳘षो ऽग्निस्त᳘मेतया᳘ ऽऽहुत्या पुर᳘स्ताद्रे᳘तोभूत᳘ᳫँ᳘सिञ्चति यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृग्जायते तद्य᳘देत᳘या सविता᳘रᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्च᳘ति त᳘स्मात्सावित्रा᳘णि त᳘स्माद्वा᳘ ऽएतामा᳘हुतिं जुहोति॥

मूलम् - Weber

य᳘द्वेॗवैतामा᳘हुतिं जुहो᳘ति॥
सविॗतैॗषो ऽग्निस्त᳘मेतया᳘हुत्या पुर᳘स्ताद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति यादृगुऐ यो᳘नौ रे᳘तः सिच्य᳘ते तादृग्जायते तद्य᳘देत᳘या सविता᳘रं रे᳘तो भूत᳘ᳫं᳘ सिञ्च᳘ति तस्मात्सावित्रा᳘णि त᳘स्माद्वा᳘ एतामा᳘हुतिं जुहोति॥

मूलम् - विस्वरम्

यद्वेवैतामाहुतिं जुहोति । सवितैषो ऽग्निः । तमेतया ऽऽहुत्या पुरस्ताद्रेतोभूतं सिञ्चति । यादृग्वै योनौ रेतः सिच्यते । तादृग्जायते । तद्यदेतया सवितारं रेतोभूतं सिञ्चति । तस्मात्सावित्राणि । तस्माद्वा ऽएतामाहुतिं जुहोति ॥ ७ ॥

सायणः

प्रकारान्तरेणाहुतिकरणं प्रशंसति- यद्वेवैतामाहुतिमिति । रेतोभूतं सिञ्चतीति । चयनकर्मणः प्रारम्भादित्यर्थः ॥ ७ ॥

Eggeling
  1. And, again, why he offers this libation;–this Agni is Savitr̥, and him he pours out as seed at the outset by this libation; and whatlike seed is poured into the womb suchlike (offspring) is born. And inasmuch as by this (libation) he pours out Savitr̥ as seed, they (the offering-formulas are called) Sāvitra: that is why he offers this libation.

०८

विश्वास-प्रस्तुतिः

स्रुवश्चा᳘त्र स्रु᳘क् च प्र᳘जुज्येते॥
व्वाग्वै स्रु᳘क्प्राणः᳘ स्रुवो᳘ व्वाचा᳘ च वै᳘ प्राणे᳘न चैतद᳘ग्रे देवाः कर्मा᳘न्वैच्छंस्त᳘स्मात्स्रुव᳘श्च स्रु᳘क्च॥

मूलम् - श्रीधरादि

स्रुवश्चा᳘त्र स्रु᳘क् च प्र᳘जुज्येते॥
व्वाग्वै स्रु᳘क्प्राणः᳘ स्रुवो᳘ व्वाचा᳘ च वै᳘ प्राणे᳘न चैतद᳘ग्रे देवाः कर्मा᳘न्वैच्छंस्त᳘स्मात्स्रुव᳘श्च स्रु᳘क्च॥

मूलम् - Weber

स्रुवश्चा᳘त्र स्रु᳘क्च प्र᳘जुज्येते॥
वाग्वै स्रु᳘क्प्राणः᳘ स्रुवो᳘ वाचा᳘ च वै᳘ प्राणे᳘न चैतद᳘ग्रे देवाः कर्मा᳘न्वैछंस्त᳘स्मात्स्रुव᳘श्च स्रु᳘क्च॥

मूलम् - विस्वरम्

स्रुवश्चात्र स्रुक् च प्रयुज्येते । वाग् वै स्रुक्, प्राणः स्रुवः । वाचा च वै प्राणेन चैतदग्रे देवाः कर्मान्वैच्छन् । तस्मात्- स्रुवश्च स्रुक् च ॥ ८ ॥

सायणः

आज्यहोमत्वादत्र केवलस्रुवेण होमकरणं व्युदसितुमाह- स्रुवश्चात्र स्रुक् च प्रयुज्येते इति । स्त्रीलिङ्गत्वात् स्रुचो वाक्त्वम्, पुंलिङ्गत्वात् स्रुवस्य प्राणत्वम् । ताभ्यां वाक्प्राणाभ्याम् ‘अग्रे’ पूर्वं ‘देवाः’ इदं ‘कर्म’ अनुष्ठितवन्तः । अतो ऽस्मिन् स्रुक्स्रुवौ प्रयुज्येते ॥ ८ ॥

Eggeling
  1. Both an offering-spoon (sruc) and a dipping-spoon (sruva) are used thereat; for the offering-spoon is speech, and the dipping-spoon is breath; and with speech and breath the gods sought this sacred rite at the beginning: hence there are an offering-spoon and a dipping-spoon.

०९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ स्रुव᳘श्च[[!!]] स्रु᳘क्च॥
यो वै स᳘ प्रजा᳘पतिरा᳘सीदेष स᳘ स्रुवः᳘ प्राणो वै᳘ स्रुवः᳘ प्राणः᳘ प्रजा᳘पतिर᳘थ या सा व्वागा᳘सीदेषा सा स्रुग्यो᳘षा वै व्वाग्यो᳘षा स्रुग᳘थ यास्ता ऽआ᳘प ऽआ᳘यन्वाचो᳘ लोका᳘देतास्ता या᳘मेतामा᳘हुतिं जुहो᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ स्रुव᳘श्च[[!!]] स्रु᳘क्च॥
यो वै स᳘ प्रजा᳘पतिरा᳘सीदेष स᳘ स्रुवः᳘ प्राणो वै᳘ स्रुवः᳘ प्राणः᳘ प्रजा᳘पतिर᳘थ या सा व्वागा᳘सीदेषा सा स्रुग्यो᳘षा वै व्वाग्यो᳘षा स्रुग᳘थ यास्ता ऽआ᳘प ऽआ᳘यन्वाचो᳘ लोका᳘देतास्ता या᳘मेतामा᳘हुतिं जुहो᳘ति॥

मूलम् - Weber

य᳘द्वेव᳘ स्रुव᳘श्च᳘ स्रु᳘क्च॥
यो वै स᳘ प्रजा᳘पतिरा᳘सीदेष स᳘ स्रुवः᳘ प्राणो वै᳘ स्रुवः᳘ प्राणः᳘ प्रजा᳘पतिर᳘थ या सा वागा᳘सीदेषा सा स्रुग्यो᳘षा वै वाग्यो᳘षा स्रुग᳘थ यास्ता आ᳘प आ᳘यन्वाचो᳘ लोका᳘देतास्ता या᳘मेतामा᳘हुतिं जुहो᳘ति॥

मूलम् - विस्वरम्

यद्वेव स्रुवश्च स्रुक् च । यो वै स प्रजापतिरासीत्- एष स स्रुवः । प्राणो वै स्रुवः । प्राणः प्रजापतिः । अथ या सा वागासीत्- एषा सा स्रुक् । योषा वै वाक् । योषास्रुक् । अथ यास्ता आप आयन् वाचो लोकाद्- एतास्ताः- यामेतामाहुतिं जुहोति ॥ ९ ॥

सायणः

प्रकारान्तरेणैतयोः प्रयोगं प्रशंसितुमनुवदति- यद्वेव स्रुवश्च स्रुक्चेति । स्रुक्स्रुवयोर्वाक्प्रजापतिरूपत्वं यदर्थमुक्तम्, तद् दर्शयति- अथ यास्ता आप इति । ‘याः आपः’ यानि उदकानि प्रजापतिसृष्टानि ‘वाचो लोकात्’ वाग्रूपाल्लोकात् सकाशात् ‘आयन्’ आगतानि, ‘ताः’ आप एवेदानीं हूयमाना ऽऽहुतिरित्यर्थः । पूर्वं प्रजापतिर्वाचः सकाशात् अपः सृष्टवान् इत्याम्नातम्, तथा प्रथमाध्याये- “सो ऽपो ऽसृजत वाच एव लोकात्”- (श. प. ६ । १ । १ । ९) इति ॥ ९ ॥

Eggeling
  1. And, again, why there are an offering-spoon and a dipping-spoon,–what Prajāpati was, that indeed is this dipping-spoon, for the dipping-spoon is the breath, and the breath is Prajāpati. And what Vāc (speech) was, that is this offering-spoon; for Vāc is a female, and the offering-spoon (sruc, f.) is a female; and those waters which went forth from the world of Vāc (speech) 4, they are this (ghee) which he offers (in) this libation.

१०

विश्वास-प्रस्तुतिः

ताᳫँ᳭ सं᳘ततां जुहोति॥
सं᳘तता हि ता ऽआ᳘प ऽआ᳘यन्न᳘थ यः स᳘ प्रजा᳘पतिस्त्रय्या᳘ व्विद्य᳘या स᳘हापः प्रा᳘विशदेष स यै᳘रेतद्य᳘जुर्भिर्जुहो᳘ति॥

मूलम् - श्रीधरादि

ताᳫँ᳭ सं᳘ततां जुहोति॥
सं᳘तता हि ता ऽआ᳘प ऽआ᳘यन्न᳘थ यः स᳘ प्रजा᳘पतिस्त्रय्या᳘ व्विद्य᳘या स᳘हापः प्रा᳘विशदेष स यै᳘रेतद्य᳘जुर्भिर्जुहो᳘ति॥

मूलम् - Weber

ताᳫं सं᳘ततां जुहोति॥
सं᳘तता हि ता आ᳘प आ᳘यन्न᳘थ यः स᳘ प्रजा᳘पतिस्त्रय्या᳘ विद्य᳘या सॗहापः प्रा᳘विशदेष स यै᳘रेतद्य᳘जुर्भिर्जुहोति॥

मूलम् - विस्वरम्

तां सन्ततां जुहोति । सन्तता हि ता आप आयन् । अथ यः स प्रजापतिस्त्रय्या विद्यया सहापः प्राविशत्- एष सः- यैरेतद्यजुर्भिर्जुहोति ॥ १०

सायणः

तां सन्ततामिति । आहुतिसाधनान् मन्त्रान् प्रशंसति- अथ यः स प्रजापतिस्त्रय्या विद्ययेति । पूर्वं प्रजापतिरपः सृष्ट्वा पुनरपि बहुलामुत्पत्तिं सृष्ट्वा त्रयीमय्या विद्यया सह ता अपः प्रविष्टवान्, अत इदानीमपि आहुतिरूपतोक्तेर्मन्त्राणां च त्रयीरूपत्वात् तैर्होमकरणं प्रजापतेर्बहुधोत्पत्तये विद्यया सहोदकप्रवेशसमानमित्यर्थः । एतदपि पूर्वमाम्नातम्- “सो ऽकामयताभ्यो ऽद्भ्यो ऽधि प्रजायेयेति, सो ऽनया त्रय्या विद्यया सहापः प्राविशत्” (श. प. ६ । १ । १ । १०) इति ॥ १० ॥

Eggeling
  1. He offers it continuously, for those waters flowed continuously. And inasmuch as that Prajāpati entered the waters with the threefold science 5, that is these prayers (yajus) with which this (priest) now offers.

११

विश्वास-प्रस्तुतिः

तद्या᳘नि त्री᳘णि प्रथमा᳘नि॥
(नी) इमे ते᳘ लोका ऽअ᳘थ य᳘च्चुतुर्थं य᳘जुस्त्रयी सा᳘ व्विद्या ज᳘गती सा᳘ भवति ज᳘गती स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि त्रयी᳘ व्विद्या᳘ ऽथ या᳘नि चत्वा᳘र्युत्तमा᳘नि दि᳘शस्ता᳘नीमे᳘ च वै᳘ लोका दि᳘शश्च प्रजा᳘पतिर᳘थैषा᳘ त्रयी᳘ व्विद्या᳘॥

मूलम् - श्रीधरादि

तद्या᳘नि त्री᳘णि प्रथमा᳘नि॥
(नी) इमे ते᳘ लोका ऽअ᳘थ य᳘च्चुतुर्थं य᳘जुस्त्रयी सा᳘ व्विद्या ज᳘गती सा᳘ भवति ज᳘गती स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि त्रयी᳘ व्विद्या᳘ ऽथ या᳘नि चत्वा᳘र्युत्तमा᳘नि दि᳘शस्ता᳘नीमे᳘ च वै᳘ लोका दि᳘शश्च प्रजा᳘पतिर᳘थैषा᳘ त्रयी᳘ व्विद्या᳘॥

मूलम् - Weber

तद्या᳘नि त्री᳘णि प्रथमा᳘नि॥
इमे ते᳘ लोका अ᳘थ य᳘च्चुतुर्थं य᳘जुस्त्रयी सा᳘ विद्या ज᳘गती सा᳘ भवति ज᳘गती स᳘र्वाणि छ᳘न्दांसि स᳘र्वाणि छ᳘न्दांसि त्रयी᳘ विद्या᳘थ या᳘नि चत्वा᳘र्युत्तमा᳘नि दि᳘शस्ता᳘नीमे᳘ च वै᳘ लोका दि᳘शश्च प्रजा᳘पतिर᳘थैषा᳘ त्रयी᳘ विद्या᳟॥

मूलम् - विस्वरम्

तद्यानि त्रीणि प्रथमानि- इमे ते लोकाः । अथ यच्चतुर्थं यजुः- त्रयी सा विद्या । जगती सा भवति । जगती सर्वाणि च्छन्दांसि । सर्वाणि च्छन्दांसि त्रयी विद्या । अथ यानि चत्वार्युत्तमानि- दिशस्तानि । इमे च वै लोकाः, दिशश्च प्रजापतिः । अथैषा त्रयी विद्या ॥ ११ ॥

सायणः

मन्त्रानष्टौ पविभज्य स्तौति- तद् यानि त्रीणि प्रथमानीति । ‘तत्’ तत्र तेषु मन्त्रेषु ‘यानि प्रथमानि त्रीणि’ यजूंषि । यजुर्वेदपठितत्वात् यजूंषीत्युच्यन्ते; अन्यथा पादबद्धानां यजुष्ट्वानुपपत्तेः, यजुरन्तिमा वा मन्त्राः छत्रिन्यायेन यजुःशब्देनोक्ताः । तन्मन्त्रत्रयं पृथिव्यन्तरिक्षद्युलोकात्मकम्, चतुर्थो मन्त्रस्त्रयीविद्यात्मकः त्रयीत्वं छन्दोद्वारा प्रतिपादयति- जगती सा भवतीति । “युञ्जते मन उत युञ्जते धियः” (वा. सं. ११ । ४) इति चतुर्थो मन्त्रो जगतीच्छन्दस्कः; जगत्याः सर्वच्छन्दोमयत्वात् त्रय्याश्च तत्सम्भवात्, चतुर्थस्यास्य त्रयीरूपत्वम् । इमानि चत्वारि यजूंषि प्रागादिमहादिशः; संख्यासाम्यात् । “इमे वै लोकाः”- इत्यादिना सप्तानां मन्त्राणां प्रजापतिरूपत्वम्, एकस्यास्त्रयीविद्यारूपत्वञ्च प्रदर्शितमिति मन्तव्यम् ॥ ११ ॥

Eggeling
  1. The first three which there are, are these (three) worlds; and what fourth prayer there is that

is the threefold science, that is the Jagatī,–the Jagatī being all the metres, and all the metres (making up) the threefold science; and what last four (prayers) there are, they are the quarters: now Prajāpati indeed is those worlds and the quarters; and that (jagatī verse in the middle) is the threefold science.

१२

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
युञ्जानः᳘ प्रथमं म᳘न ऽइ᳘ति प्रजा᳘पतिर्व्वै᳘ युञ्जानः स म᳘न ऽएत᳘स्मै क᳘र्मणे ऽयुङ्क्त तद्यन्म᳘न ऽएत᳘स्मै क᳘र्मणे᳘ ऽयुङ्क्त त᳘स्मात्प्रजा᳘पतिर्युञ्जानः᳘॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
युञ्जानः᳘ प्रथमं म᳘न ऽइ᳘ति प्रजा᳘पतिर्व्वै᳘ युञ्जानः स म᳘न ऽएत᳘स्मै क᳘र्मणे ऽयुङ्क्त तद्यन्म᳘न ऽएत᳘स्मै क᳘र्मणे᳘ ऽयुङ्क्त त᳘स्मात्प्रजा᳘पतिर्युञ्जानः᳘॥

मूलम् - Weber

स᳘ जुहोति॥
यञ्जानः᳘ प्रथमम् म᳘न इ᳘ति प्रजा᳘पतिर्वै᳘ युञ्जानः स म᳘न एत᳘स्मै क᳘र्मणे युङ्क्त तद्यन्म᳘न एत᳘स्मै क᳘र्मणे᳘ ऽयुङ्क्त त᳘स्मात्प्रजा᳘पतिर्युञ्जानः᳟॥

मूलम् - विस्वरम्

स जुहोति- “युञ्जानः प्रथमं मनः”- इति । प्रजापतिर्वै युञ्जानः, स मन एतस्मै कर्मणे ऽयुङ्क्त । तद्यन्मन एतस्मै कर्मणे ऽयुङ्क्त- तस्मात्प्रजापतिर्युञ्जानः ॥ १२ ॥

सायणः

अथ होममनूद्य प्रथमामृचं विधत्ते- स जुहोति युञ्जान इति । प्रथमा ऋक्, अनुष्टुप् । अयमर्थ- ‘सविता’ सर्वस्य स्वस्वकार्ये प्रेरकः सूर्यः ‘प्रथमम्’ आदौ अग्निचयनविषये ‘मनः’ ज्ञानसाधनभूतं चित्तं ‘युञ्जानः’ कर्मविषयं ज्ञानमुत्पादयितुमात्मना संयुक्तं कुर्वन् अनन्तरं ‘धियः’ बुद्धीः प्राणान् वा ‘तत्वाय’ “तनु विस्तारे” (धा. पा. त. उ. १) क्त्वाप्रत्यये “उदितो वा”- (पा. सू. ७ । २ । ५६)इति इडभावपक्षे “अनिदिताम्०”- (पा. सू. ६ । ४ । २४) इति न-लोपे, “क्त्वो यक्” (पा. सू. ७ । १ । ४७) इति यक्प्रत्यये च कृते रूपम् । तनित्वा विस्तार्य, मनसा बुद्धिं प्राणं वा पर्यालोच्य च यत्र मनस्तत्र प्राणः इति हि व्याप्तिः । यद्वा, एकं वाक्यम्; प्रथमं मनो ज्ञानसाधनं धियं तत्कार्यं ज्ञानञ्च ‘तत्त्वाय’ तत्त्व-शब्दाच्चतुर्थी, तत्त्वं नामाग्नित्वम् । तच्छब्देन प्रकृतत्वादग्निः परामृश्यते, तस्य भावस्तत्त्वम्, अग्निरूपावाप्तये । मनो ज्ञानञ्च नियुञ्जानः अग्नेः सम्बन्धि ज्योतिः पञ्चसु पशुषु प्रविष्टं तेजः ‘निचाय्य’ दृष्टा “चायृ पूजानिशामनयोः”- (धा. पा. भ्वा. प. ९०५) । निशामनं दर्शनम् । ‘पृथिव्याः’ चिताया ‘अधि’ उपरि विशिष्टप्रदेशं प्रति ‘आभरत्’ । ततः पशुभ्यः सकाशात् अग्नितेज आहृतवान् । “हृग्रहोर्भश्छन्दसि” (पा. सू. ८ । २ । ३२ वा. १) इति हकारस्य भकारः । मन्त्रं प्रतिपादमनूद्य व्याचष्टे- प्रजापतिर्वै युञ्जान इति । अत्र सवितृपदेन धात्वर्थमात्रमाश्रित्य प्रजापतिरुच्यत इति विशेषः । अत्र “तत्त्वाय अग्निरूपप्राप्तये अग्नेः ज्योतिः पशुषु दृष्टा”- इत्यादिकं सर्वं युज्यते ॥ १२ ॥ १३ ॥

Eggeling
  1. He offers with (Vāj. S. XI, 1), ‘Harnessing first the mind,’–Prajāpati, assuredly, is he that harnesses, he harnessed the mind for that holy work; and because he harnessed the mind for that holy work, therefore he is the harnessing one.

१३

विश्वास-प्रस्तुतिः

(स्त) तत्त्वा᳘य सविता धि᳘य ऽइ᳘ति॥
म᳘नो वै᳘ सविता᳘ प्राणा धि᳘यो ऽग्नेर्ज्यो᳘तिर्निचाय्ये᳘त्यग्नेर्ज्यो᳘तिर्दृष्ट्वे᳘त्येत᳘त्पृथिव्या ऽअध्या᳘भरदि᳘ति पृथिव्यै᳘ ह्येनद᳘ध्याभ᳘रति॥

मूलम् - श्रीधरादि

(स्त) तत्त्वा᳘य सविता धि᳘य ऽइ᳘ति॥
म᳘नो वै᳘ सविता᳘ प्राणा धि᳘यो ऽग्नेर्ज्यो᳘तिर्निचाय्ये᳘त्यग्नेर्ज्यो᳘तिर्दृष्ट्वे᳘त्येत᳘त्पृथिव्या ऽअध्या᳘भरदि᳘ति पृथिव्यै᳘ ह्येनद᳘ध्याभ᳘रति॥

मूलम् - Weber

तत्वा᳘य 6 सविता धि᳘य इ᳘ति॥
म᳘नो वै᳘ सविता᳘ प्राणा धि᳘यो ऽग्नेर्ज्यो᳘तिर्निचाय्ये᳘त्यग्नेर्ज्यो᳘तिर्दृष्ट्वे᳘त्येत᳘त्पृथिव्या अध्या᳘भरदि᳘ति पृथिव्यैॗ ह्येनद᳘ध्याभ᳘रति॥

मूलम् - विस्वरम्

“तत्त्वाय सविता धियः”- इति । मनो वै सविता, प्राणा धियः । “अग्नेर्ज्योतिर्निचाय्य”- इति । दृष्ट्वेत्येतत् । पृथिव्या ऽअध्याभरत्"- (वा. सं. ११ । १) इति । पृथिव्यै ह्येनदध्याभरति ॥ १३ ॥

सायणः

[व्याख्यानं द्वादशे]

Eggeling
  1. ‘Savitr̥, stretching out the thoughts,’–for Savitr̥ is the mind, and the thoughts are the vital airs;–‘gazing reverently at Agni’s light,’–that is, having seen Agni’s light;–‘bore up from the earth;’ for upwards from the earth he indeed bears this (offering).

१४

विश्वास-प्रस्तुतिः

युक्ते᳘न म᳘नसा व्वयमि᳘ति॥
म᳘न ऽए᳘वैत᳘देत᳘स्मै क᳘र्मणे युङ्क्ते न ह्य᳘युक्तेन म᳘नसा किं᳘ चन᳘ सम्प्रति᳘ शक्ना᳘ति क᳘र्तुं देव᳘स्य सवितुः᳘ सव ऽइ᳘ति देवे᳘न सवित्रा प्र᳘सूता ऽइ᳘त्येत᳘त्स्व᳘र्ग्याय शक्त्ये᳘ति य᳘थैते᳘न क᳘र्मणा स्वर्गं᳘ लोक᳘मिया᳘देव᳘मेत᳘दाह शक्त्ये᳘ति श᳘क्त्या हि᳘ स्वर्गं᳘ लोकमे᳘ति॥

मूलम् - श्रीधरादि

युक्ते᳘न म᳘नसा व्वयमि᳘ति॥
म᳘न ऽए᳘वैत᳘देत᳘स्मै क᳘र्मणे युङ्क्ते न ह्य᳘युक्तेन म᳘नसा किं᳘ चन᳘ सम्प्रति᳘ शक्ना᳘ति क᳘र्तुं देव᳘स्य सवितुः᳘ सव ऽइ᳘ति देवे᳘न सवित्रा प्र᳘सूता ऽइ᳘त्येत᳘त्स्व᳘र्ग्याय शक्त्ये᳘ति य᳘थैते᳘न क᳘र्मणा स्वर्गं᳘ लोक᳘मिया᳘देव᳘मेत᳘दाह शक्त्ये᳘ति श᳘क्त्या हि᳘ स्वर्गं᳘ लोकमे᳘ति॥

मूलम् - Weber

युक्ते᳘न म᳘नसा वयमि᳘ति॥
म᳘न एॗवैत᳘देत᳘स्मै क᳘र्मणे युङ्क्ते न ह्यु᳘युक्तेन म᳘नसा किं᳘ चन᳘ सम्प्रति᳘ शक्ना᳘ति क᳘र्तुं देव᳘स्य सवितुः᳘ सव इ᳘ति देवे᳘न सवित्रा प्र᳘सूता इ᳘त्येत᳘त्स्वॗर्ग्याय शक्त्ये᳘ति य᳘थैते᳘न क᳘र्मणा स्वर्गं᳘ लोक᳘मिया᳘देव᳘मेत᳘दाह शक्त्ये᳘ति श᳘क्त्या हि᳘ स्वर्गं᳘ लोकमे᳘ति॥

मूलम् - विस्वरम्

“युक्तेन मनसा वयम्”- इति । मन एवैतदेतस्मै कर्मणे युङ्क्ते । न ह्ययुक्तेन मनसा किं चन सम्प्रति शक्नोति कर्तुम् । “देवस्य सवितुः सवे"- इति । देवेन सवित्रा प्रसूता इत्येतत् । “स्वर्ग्याय शक्त्या”- (वा. सं. ११ । २) इति । यथैतेन कर्मणा स्वर्गं लोकमियाद्- एवमेतदाह । शक्त्येति । शक्त्या हि स्वर्गं लोकमेति ॥ १४ ॥

सायणः

द्वितीयं मन्त्रं विधत्ते- युक्तेन मनसा वयमितीति (का. श्रौ. सू. १६ । ५०) । इयं गायत्री । अयमर्थः- ‘युक्तेन’ कर्मविषये एकाग्रेण मनसा । अन्यत्र व्यापके मनसि कर्म कर्तुं न शक्यते, अतः कर्मणि युक्तेनेत्युक्तम् । तादृशेन ‘मनसा’ सहिताः ‘सवितुः देवस्य’ ‘सवे’ अभ्यनुज्ञाने वर्तमानाः ‘वयम्’ अनुष्ठातारः ‘स्वर्ग्याय’ हितार्थे यत्-प्रत्ययः (पा. सू. ५ । १ । ५) । स्वर्गहिताय स्वर्गसाधनाय कर्मणे, तदर्थम्, “क्रियार्थोपपदस्य०”- (पा. सू. २ । ३ । १४) इति चतुर्थी । ‘शक्त्या’ कर्मकरणसामर्थ्येन, तदर्थद्रव्यसामर्थ्येन च प्रयत्नः कार्यः इति वाक्यशेषः । नित्ये तावत्, यथा शक्नुयात् तथा कुर्यादिति प्रकारवाचिना यथाशब्देन शक्तेर्यथासम्भवतोक्तिः; काम्ये यदा शक्नुयात् तदा कुर्यादिति पूर्वोक्तेः सम्पूर्णता चोक्ता ॥

मन्त्रं प्रतिपादमनूद्य व्याचष्टे- मन एवैतदिति । मनसो युक्तत्वं व्यतिरेकमुखेन प्रतिपादयति- न ह्ययुक्तेनेति ॥ १४ ॥

Eggeling
  1. [Vāj. S. XI, 2] ‘With harnessed mind we,’–he thereby harnesses the mind for this work, for with unharnessed mind one cannot now do anything;–‘at the impulse of the god Savitr̥,’–that is impelled (sped) by the god Savitr̥,–‘with power (we strive) for the heavenly;’–’that by this holy work he may go to the heavenly world,’ he thereby means to say; ‘with power,’ he says, for by power (energy) one goes to the heavenly world.

१५

विश्वास-प्रस्तुतिः

यु᳘क्त्वा᳘य सविता᳘ देवानि᳘ति॥
म᳘नो वै᳘ सविता᳘ प्राणा᳘ देवाः᳘ स्वर्यतो᳘[[!!]] धिया दि᳘वमि᳘ति स्वर्ग᳘ᳫँ᳘ हैनां लोकं᳘ यतो᳘ धि᳘यैत᳘स्मै क᳘र्मणे युयुजे बृहज्ज्यो᳘तिः करिष्यत ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ बृहज्ज्यो᳘तिरेष᳘ उ ऽए᳘षो ऽग्नि᳘रेत᳘म्वेते᳘ संस्करिष्य᳘न्तो भवन्ति सविता प्र᳘सुवाति तानि᳘ति सवितृ᳘प्रसूता ऽएतत्क᳘र्म करवन्नि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

यु᳘क्त्वा᳘य सविता᳘ देवानि᳘ति॥
म᳘नो वै᳘ सविता᳘ प्राणा᳘ देवाः᳘ स्वर्यतो᳘[[!!]] धिया दि᳘वमि᳘ति स्वर्ग᳘ᳫँ᳘ हैनां लोकं᳘ यतो᳘ धि᳘यैत᳘स्मै क᳘र्मणे युयुजे बृहज्ज्यो᳘तिः करिष्यत ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ बृहज्ज्यो᳘तिरेष᳘ उ ऽए᳘षो ऽग्नि᳘रेत᳘म्वेते᳘ संस्करिष्य᳘न्तो भवन्ति सविता प्र᳘सुवाति तानि᳘ति सवितृ᳘प्रसूता ऽएतत्क᳘र्म करवन्नि᳘त्येत᳘त्॥

मूलम् - Weber

युक्त्वा᳘य सविता᳘ देवानि᳘ति॥
म᳘नो वै᳘ सविता᳘ प्राणा᳘ देवाः स्व᳘र्यतो᳘ धिया दि᳘वमि᳘ति स्वर्ग᳘ᳫं᳘ हैनांलोकं᳘ यतो᳘ धिॗयैत᳘स्मै क᳘र्मणे युयुजे बृहज्ज्यो᳘तिः करिष्यत इ᳘त्यसौ वा᳘ आदित्यो᳘ बृहज्ज्यो᳘तिरेष᳘ उ एॗषो ऽग्नि᳘रेत᳘म्वेते᳘ संस्करिष्य᳘न्तो भवन्ति सविता प्र᳘सुवाति तानि᳘ति सवितृ᳘प्रसूता एतत्क᳘र्म करवन्नि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“युक्त्वाय सविता देवान्”- इति । मनो वै सविता, प्राणा देवाः । “स्वर्यतो धिया दिवम्”- इति । स्वर्गं हैनां लोकं यतो धियैतस्मै कर्मणे युयुजे । “बृहज्ज्योतिः करिष्यतः”- इति । असौ वा ऽआदित्यो बृहज्ज्योतिः । एष उ एषो ऽग्निः । एतम्वेते संस्करिष्यन्तो भवन्ति । “सविता प्रसुवाति तान्”- (वा. सं ११ । ३) इति । सवितृप्रसूता एतत्कर्म करवन्नित्येतत् ॥ १५ ॥

सायणः

तृतीयं मन्त्रं विधत्ते- युक्त्वाय सविता देवानिति (का. श्रौ. सू. १६ । ५०) । तादृशान् ‘युक्त्वाय’ पूर्ववत् क्त्वो यक् । मनसा युक्त्वा स्थित इति विशेषः । यद्वा, ‘देवान्’ प्राणान् ‘युक्त्वाय’ इत्यन्तमेकं वाक्यमिति प्रदर्शितम् । ‘युयुजे’ इति लिट् प्रयुक्तः । ‘बृहत्’ महत् ‘ज्योतिः’ अग्न्यात्मकं सूर्यात्मकञ्च ‘करिष्यतः’ संस्करिष्यतः आत्मत्वेन भावयतः ‘तान्’ देवान् ‘सविता’ ‘प्रसुवाति’ अभ्यनुजानातु । सुवतेः पञ्चमे लकारे “लेटो ऽडाटौ”- (पा. सू. ३ । ४ । ९४) इत्याडागमः । अतः एव ‘करवन्’- इति पञ्चपो ल उदाहृतः ॥ १५ ॥

Eggeling
  1. [Vāj. S. XI, 3] ‘Savitr̥, having harnessed the gods,’–Savitr̥ is the mind, and the gods are the vital airs;–‘going by thought to the light, to heaven,’–for as such as are going to the heavenly world by thought (devotion) he has harnessed them for this holy work;–‘going to produce a mighty light,’–the mighty light assuredly is yonder sun, and

he is this Agni, and him they are indeed going to fit together (or, restore);–‘may Savitr̥ speed them!’–that is, ‘may they perform this holy work, sped by Savitr̥.’

१६

विश्वास-प्रस्तुतिः

(द्यु) युञ्ज᳘ते म᳘न ऽउत᳘ युञ्जते धि᳘य ऽइ᳘ति॥
म᳘नश्चै᳘वैत᳘त्प्राणा᳘श्चैत᳘स्मै क᳘र्मणे युङ्क्ते व्वि᳘प्रा व्वि᳘प्रस्ये᳘ति प्रजा᳘पतिर्व्वै व्वि᳘प्रो देवा व्वि᳘प्रा बृहतो᳘ व्विपश्चि᳘त इ᳘ति प्रजा᳘पतिर्व्वै बृह᳘न्विपश्चिद्वि हो᳘त्रा दध ऽइ᳘ति यद्वा᳘ ऽएष᳘ चीय᳘ते त᳘देष हो᳘त्रा व्वि᳘धत्ते चिते᳘ ह्येत᳘स्मिन्हो᳘त्रा ऽअधि व्विधीय᳘न्ते व्वयुनाविदि᳘त्येष᳘ हीदं᳘ व्वयु᳘नम᳘विन्ददे᳘क ऽइदित्ये᳘को᳘ ह्येष᳘ ऽइदᳫँ᳭ स᳘र्व्वं व्वयु᳘नम᳘विन्दन्मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘ति महती᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(द्यु) युञ्ज᳘ते म᳘न ऽउत᳘ युञ्जते धि᳘य ऽइ᳘ति॥
म᳘नश्चै᳘वैत᳘त्प्राणा᳘श्चैत᳘स्मै क᳘र्मणे युङ्क्ते व्वि᳘प्रा व्वि᳘प्रस्ये᳘ति प्रजा᳘पतिर्व्वै व्वि᳘प्रो देवा व्वि᳘प्रा बृहतो᳘ व्विपश्चि᳘त इ᳘ति प्रजा᳘पतिर्व्वै बृह᳘न्विपश्चिद्वि हो᳘त्रा दध ऽइ᳘ति यद्वा᳘ ऽएष᳘ चीय᳘ते त᳘देष हो᳘त्रा व्वि᳘धत्ते चिते᳘ ह्येत᳘स्मिन्हो᳘त्रा ऽअधि व्विधीय᳘न्ते व्वयुनाविदि᳘त्येष᳘ हीदं᳘ व्वयु᳘नम᳘विन्ददे᳘क ऽइदित्ये᳘को᳘ ह्येष᳘ ऽइदᳫँ᳭ स᳘र्व्वं व्वयु᳘नम᳘विन्दन्मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘ति महती᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘त्येत᳘त्॥

मूलम् - Weber

युञ्ज᳘ते म᳘न उत᳘ युञ्जते धि᳘य इ᳘ति॥
म᳘नश्चैॗवैत᳘त्प्राणा᳘श्चैत᳘स्मै क᳘र्मणे युङ्क्ते वि᳘प्रा वि᳘प्रस्ये᳘ति प्रजा᳘पतिर्वै वि᳘प्रो देवा वि᳘प्रा बृहतो᳘ विपश्चि᳘त इ᳘ति प्रजा᳘पतिर्वै᳘ बृह᳘न्विपश्चिद्वि हो᳘त्रा दध इ᳘ति यद्वा᳘ एष᳘ चीय᳘ते त᳘देष हो᳘त्रा वि᳘धत्ते चितेॗ ह्येत᳘स्मिन्हो᳘त्रा अधिविधीय᳘न्ते वयुनाविदि᳘त्येषॗ हीदं᳘ वयु᳘नम᳘विन्ददे᳘क इदित्ये᳘कोॗ ह्येष᳘ इदᳫं स᳘र्वं वयु᳘नम᳘विन्दन्मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘ति महती᳘ देव᳘स्य सवितुः प᳘रिष्टुतिरि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“युञ्जते मन उत युञ्जते धियः”- इति । मनश्चैवैतत्- प्राणांश्चैतस्मै कर्मणे युङ्क्ते । “विप्रा विप्रस्य"- इति । प्रजापतिर्वै विप्रो देवा विप्राः । “बृहतो विपश्चितः”- इति । प्रजापतिर्वै बृहन्विपश्चित् । “विहोत्रा दधे”- इति । यद्वा ऽएष चीयते- तदेष होत्रा विधत्ते । चिते ह्येतस्मिन् होत्रा अधि विधीयन्ते । “वयुनाविद्”- इति । एष हीदं वयुनमविन्दत् । “एक इत्”- इति । एको ह्येष इदं सर्वं वयुनमविन्दत् । “मही देवस्य सवितुः परिष्टुतिः”- (वा. सं. ११ । ४) इति महती देवस्य सवितुः परिष्टुतिरित्येतत् ॥ १६ ॥

सायणः

चतुर्थीं विधत्ते- युञ्जते मन इति (का. श्रौ. सू. १६ । ५०) । इयं जगती । ‘विप्राः’ मेधाविनो देवाः । ‘बृहतो विपश्चितः’ । “विप्”- (निघं. १ । ११ । ४१) इति वाङ्नाम । सकलशाखागतामन्त्रानेकत्र कर्मणि सञ्चिन्वन्तीति विपश्चितः । ‘विप्रस्य’ मेधाविनः प्रजापतेः अग्न्यात्मकस्य विस्रस्तं पुनः सन्धानार्थं ‘मनो युञ्जते’ कर्मार्थमेकाग्रं कुर्वन्ति । ‘उत’ अपि च ‘धियः’ बुद्धीः प्राणान् वा ‘युञ्जते’ । ‘वयुनाविद्’ “वयुना”- (निघं. ३ । ११ । १०) इति प्रज्ञानाम, इह ज्ञातव्ये वर्त्तते । ज्ञानवान् जानन् ‘एकः’ ‘इत्’ एव चीयमानः अग्निः, ‘होत्राः’ सप्तहोत्रकाणां प्रस्थितयाज्याः ‘विदधे’ चकार । तदिदं ‘सवितुः देवस्य’ ‘मही’ महती ‘परिष्टुतिः’ । स यत् प्रजापतिः समिधाना य देवान् कर्मणे मनः प्राणांश्च युङ्क्ते, अतो ऽग्निहोत्रं विदधे इति ॥

मन्त्रं व्याचष्टे- युञ्जते मन इत्यादि । स्पष्टो ऽर्थः । यद्वा एष चीयत इति । यश्चीयते स एष ह्येतत्कर्माणि करोतीत्यर्थं द्रढयितुमाह- चिते ह्येतस्मिन्निति । ‘चिते’ अग्नौ होतृमैत्रावरुणादिक्रियाणां विधानात् तस्यैव कर्तृत्वमित्युपचरितम् ॥ १६ ॥

Eggeling
  1. [Vāj. S. XI, 4] ‘They harness the mind, and they harness the thoughts,’–for both the mind and the vital airs he harnesses for this holy work;–’the priests of the priest,’–the priest is Prajāpati, and the priests are the gods;–‘of the great inspirer of devotion,’–the great inspirer of devotion 7 is Prajāpati;–‘he hath assigned the priestly offices,’–now when he (Agni-Prajāpati) is built up, then he assigns the priestly offices, for the priestly offices are assigned over the built-up (fire-altar);–’the finder of rites,’–for he indeed found this rite;–‘he alone,’ for he alone found this whole holy rite;–‘mighty is the praise of the god Savitr̥,’–that is, ‘great is the praise of the god Savitr̥.’

१७

विश्वास-प्रस्तुतिः

(द्यु) युजे᳘ वां ब्र᳘ह्म पूर्व्व्यं न᳘मोभिरि᳘ति॥
प्राणो वै ब्र᳘ह्म पूर्व्व्यम᳘न्नं न᳘मस्तत्त᳘दे᳘षैवा᳘हुतिर᳘न्नमेत᳘यैव तदा᳘हुत्यैतेना᳘न्नेन प्राणा᳘नेत᳘स्मै क᳘र्मणे युङ्क्ते व्विश्लो᳘क ऽएतु प᳘थ्येव सूरेरि᳘ति य᳘थोभ᳘येषु देवमनुष्ये᳘षु कीर्ति श्लो᳘को य᳘जमानस्य स्या᳘देव᳘मेत᳘दाह शृण्व᳘न्तु व्वि᳘श्वे ऽअमृ᳘तस्य पुत्रा ऽइ᳘ति प्रजा᳘पतिर्व्वा᳘ ऽअमृ᳘तस्त᳘स्य व्वि᳘श्वे देवाः᳘ पुत्रा ऽआ ये धा᳘मानि दिव्या᳘नि तस्थुरि᳘तीमे वै᳘ लोका᳘ दिव्या᳘नि धा᳘मानि तद्य᳘ ऽएषु᳘ लोके᳘षु देवास्ता᳘नेत᳘दाह॥

मूलम् - श्रीधरादि

(द्यु) युजे᳘ वां ब्र᳘ह्म पूर्व्व्यं न᳘मोभिरि᳘ति॥
प्राणो वै ब्र᳘ह्म पूर्व्व्यम᳘न्नं न᳘मस्तत्त᳘दे᳘षैवा᳘हुतिर᳘न्नमेत᳘यैव तदा᳘हुत्यैतेना᳘न्नेन प्राणा᳘नेत᳘स्मै क᳘र्मणे युङ्क्ते व्विश्लो᳘क ऽएतु प᳘थ्येव सूरेरि᳘ति य᳘थोभ᳘येषु देवमनुष्ये᳘षु कीर्ति श्लो᳘को य᳘जमानस्य स्या᳘देव᳘मेत᳘दाह शृण्व᳘न्तु व्वि᳘श्वे ऽअमृ᳘तस्य पुत्रा ऽइ᳘ति प्रजा᳘पतिर्व्वा᳘ ऽअमृ᳘तस्त᳘स्य व्वि᳘श्वे देवाः᳘ पुत्रा ऽआ ये धा᳘मानि दिव्या᳘नि तस्थुरि᳘तीमे वै᳘ लोका᳘ दिव्या᳘नि धा᳘मानि तद्य᳘ ऽएषु᳘ लोके᳘षु देवास्ता᳘नेत᳘दाह॥

मूलम् - Weber

युजे᳘ वाम् ब्र᳘ह्म पूर्व्यं न᳘मोभिरि᳘ति॥
प्राणो वै ब्र᳘ह्म पूर्व्यम᳘न्नं न᳘मस्तत्त᳘देॗषैवा᳘हुतिर᳘न्नमेत᳘यैव तदा᳘हुत्यैतेन् सूरेरि᳘ति य᳘थोभ᳘येषु देवमनुष्ये᳘षु कीर्तिश्लो᳘को य᳘जमानसा᳘न्नेन प्राणा᳘नेत᳘स्मै क᳘र्मणे युङ्क्ते वि श्लो᳘क एतु पॗथ्येवय स्या᳘देव᳘मेत᳘दाह शृण्व᳘न्तु वि᳘श्वे अमृ᳘तस्य पुत्रा इ᳘ति प्रजा᳘पतिर्वा᳘ अमृ᳘तस्त᳘स्य वि᳘श्वे देवाः᳘ पुत्रा आ ये धा᳘मानि दिव्या᳘नि तस्थुरितीमे वै लोका᳘ दिव्या᳘नि धा᳘मानि तद्य᳘ एषु᳘ लोके᳘षु देवास्ता᳘नेत᳘दाह॥

मूलम् - विस्वरम्

“युजे वां ब्रह्म पूर्व्यं नमोभिः”- इति । प्राणो वै ब्रह्म पूर्व्यम्, अन्नं नमः । तत् तदेषैवाहुतिरन्नम् । एतयैव तदाहुत्यैतेनान्नेन प्राणानेतस्मै कर्मणे युंक्ते । “वि श्लोक एतु पथ्येव सूरेः"- इति । यथोभयेषु देवमनुष्येषु कीर्ति श्लोको यजमानस्य स्याद्- एवमेतदाह । “शृण्वन्तु विश्वे ऽअमृतस्य पुत्राः”- इति । प्रजापतिर्वा अमृतः । तस्य विश्वे देवाः पुत्राः । “आ ये धामानि दिव्यानि तस्थुः”- (वा. सं. ११ । ५) इति । इमे वै लोकाः दिव्यानि । धामानि । तद्य ऽएषु लोकेषु देवाः तानेतदाह ॥ १७ ॥

सायणः

पञ्चमीमृचं विधत्ते- युजे वां ब्रह्म पूर्व्यम् (का. श्रौ. सू. १६ । ५०) इति । त्रिष्टुप् । ‘वाम्’- इति पत्नीयजमानावुच्येते युवाभ्यामर्थाय, ‘नमोभिः’ अन्नैः सहितं, ‘पूर्व्यं’ पुरातनं संहितं ‘ब्रह्म’ ब्रह्मणि ‘युजे’ युक्तवान् सवितेति । अत्रान्नवाचिना ‘नमः’ पदेनाहुतिरभिधीयते, तथा ऽऽहुत्या पत्नीयजमानयोः बुद्धीः प्राणान् एकस्मै कर्मणे युंक्ते इत्यर्थः । यद्वा, ‘युजे’ इति लडुत्तमैकवचने रूपम्, अध्वर्युरहमिति । किमर्थम् ? तदाह- ‘सूरेः’ कर्मविदुषो यजमानस्य ‘श्लोकः’ कीर्तिः ‘व्येतु’ विविधं गच्छतु, उभयत्र देवमनुष्येषु प्रसृता भवत्विति । ‘पथ्येव’ पथिशब्दात् “धर्मपथ्यर्थन्यायात्” (पा. सू. ४ । ४ । ९२) इति यत् । पथो यज्ञमार्गात् अनपेता आहुतिः यथा उभयत्र प्रसारिणी भवति, एवं श्लोक इत्यर्थ । ‘अमृतस्य’ मरणधर्मरहितस्य प्रजापतेः पुत्राः ‘पुत्राः’ ‘विश्वे’ देवाः ‘शृण्वन्तु’, यजमानश्लोकमित्यनुषङ्गः । ‘ये’ देवाः दिव्यानि धामानि सर्वलोकस्थानानि ‘तस्थुः’ अधिष्ठितवन्तः ते शृण्वन्त्विति ॥

मन्त्रं प्रतिपादमनूद्य व्याचष्टे- युजे वां ब्रह्म पूर्व्यं नमोभिरित्यादि । निगदसिद्धमेतत् ॥ १७ ॥

Eggeling
  1. [Vāj. S. XI, 5 R̥k S. X, 13, 1] ‘By devotions I harness your old inspiration,’–the old inspiration (brahman) doubtless is the vital air, and devotion is food, and that food is this oblation: by means of this oblation, by means of this food, he harnesses the vital airs for this holy work,–‘May the praise spread abroad on the lord’s path,’–this he says in order that there may be for the Sacrificer the praise of fame among both gods and men;–‘may all sons of the immortal hear!’–the immortal one doubtless is Prajāpati, and his sons are all the gods;–‘who have resorted

to the heavenly abodes;’–the heavenly abodes are these worlds: the gods that are in these worlds, with regard to them he says this.

१८

विश्वास-प्रस्तुतिः

य᳘स्य प्रया᳘णम᳘न्वन्य ऽइ᳘द्ययुरि᳘ति॥
प्रजा᳘पतिर्वा᳘ ऽएतद᳘ग्रे क᳘र्माकरोत्त᳘त्ततो[[!!]] देवा᳘ ऽअकुर्व्वन्देवा᳘ देव᳘स्य महिमा᳘नमो᳘जसे᳘ति यज्ञो वै᳘ महिमा᳘ देवा᳘ देव᳘स्य यज्ञं᳘ व्वी᳘र्यमो᳘जसे᳘त्येतद्यः[[!!]] पा᳘र्थिवानि व्विममे स ऽए᳘तश ऽइ᳘ति यद्वै किं᳘ चास्यां तत्पा᳘र्थिवं त᳘देष स᳘र्व्वं व्वि᳘मिमीते रश्मि᳘भि᳘र्ह्येनदभ्यवतनो᳘ति र᳘जाᳫँ᳭सि देवः᳘ सविता᳘ महित्वने᳘तीमे वै᳘ लोका र᳘जाᳫँ᳭स्यसा᳘वादित्यो᳘ देवः᳘ सविता ता᳘नेष᳘ महिम्ना व्वि᳘मिमीते॥

मूलम् - श्रीधरादि

य᳘स्य प्रया᳘णम᳘न्वन्य ऽइ᳘द्ययुरि᳘ति॥
प्रजा᳘पतिर्वा᳘ ऽएतद᳘ग्रे क᳘र्माकरोत्त᳘त्ततो[[!!]] देवा᳘ ऽअकुर्व्वन्देवा᳘ देव᳘स्य महिमा᳘नमो᳘जसे᳘ति यज्ञो वै᳘ महिमा᳘ देवा᳘ देव᳘स्य यज्ञं᳘ व्वी᳘र्यमो᳘जसे᳘त्येतद्यः[[!!]] पा᳘र्थिवानि व्विममे स ऽए᳘तश ऽइ᳘ति यद्वै किं᳘ चास्यां तत्पा᳘र्थिवं त᳘देष स᳘र्व्वं व्वि᳘मिमीते रश्मि᳘भि᳘र्ह्येनदभ्यवतनो᳘ति र᳘जाᳫँ᳭सि देवः᳘ सविता᳘ महित्वने᳘तीमे वै᳘ लोका र᳘जाᳫँ᳭स्यसा᳘वादित्यो᳘ देवः᳘ सविता ता᳘नेष᳘ महिम्ना व्वि᳘मिमीते॥

मूलम् - Weber

य᳘स्य प्रया᳘णम᳘न्वन्य इ᳘द्ययुरि᳘ति॥
प्रजा᳘पतिर्वा᳘ एतद᳘ग्रे क᳘र्माकरोत्तत्त᳘तो देवा᳘ अकुर्वन्देवा᳘ देव᳘स्य महिमा᳘नमो᳘जसे᳘ति यज्ञो वै᳘ महिमा᳘ देवा᳘ देव᳘स्य यज्ञं᳘ वीर्य᳘मो᳘जसे᳘त्येतद्यः पा᳘र्थिवानि विममे स ए᳘तश इ᳘ति यद्वै किं᳘ चास्यां तत्पा᳘र्थिवं त᳘देष स᳘र्व वि᳘मिमीते रश्मि᳘भिॗर्ह्येनदभ्यवतनो᳘ति र᳘जांसि देवः᳘ सविता᳘ महित्वने᳘तीमे वै᳘ लोका र᳘जांस्यसा᳘वादित्यो᳘ देवः᳘ सविता ता᳘नेष᳘ महिम्ना वि᳘मिमीते॥

मूलम् - विस्वरम्

“यस्य प्रयाणमन्वन्य ऽइद्ययुः”- इति । प्रजापतिर्वा ऽएतदग्रे कर्माकरोत्- तत् ततो देवा अकुर्वन् । “देवा देवस्य महिमानमोजसा"- इति । यज्ञो वै महिमा, देवा देवस्य यज्ञं वीर्यमोजसेत्येतद् । “यः पार्थिवानि विममे स एतशः"- इति । यद्वै किं चास्यां- तत् पार्थिवम् । तदेष सर्वं विमिमीते । रश्मिभिर्ह्येनदभ्यवतनोति । “रजांसि देवः सविता । महित्वना”- (वा. सं. ११ । ६) इति । इमे वै लोका रजांसि । असावादित्यो देवः सविता । तानेष महिम्ना विमिमीते ॥ १८ ॥

सायणः

षष्ठीमृचमाह- यस्य प्रयाणमिति (का. श्रौ. सू. १६ । ५०) । इयं जगती । अयमर्थः । अन्ये देवाः ‘यस्य देवस्य’ द्योतनशीलस्य प्रजापतेः ‘प्रयाणं’ प्रथमगमनं कर्मानुष्ठानमनुलक्ष्य ‘ओजसा’ वीर्येण ‘महिमानं’ चयनात्मकं यज्ञं ‘ययुः’ अन्वगच्छन् । प्रजापत्यनुष्ठानानन्तरं सर्वे देवा अनुष्ठितवन्तः ‘यः’ ‘सविता’ ‘पार्थिवानि’ पृथिव्यामवस्थितं वस्तुजातं ‘विममे’ “माङ् माने” (धा. पा. जु. आ. ६) स्वीयैस्तेजोभिः सर्वं वस्तु व्यनक्ति । ‘एतशः’ सर्वत्र चरणशीलः । यद्वा, ‘एतशः’ (निघं. १ । १४ । १०) इत्यश्वनाम । मत्वर्थीयलोपः । अश्ववान् । ‘सविता’ आदित्यो ‘देवः’ ‘रजांसि’ पृथिव्यन्तरिक्षयुलोकान् ‘महित्वना’ स्वमहिम्ना ‘विममे’ विमिमीते ॥

प्रजापतिर्वा एतदग्रे कर्मेत्यादि, मन्त्रव्याख्यानम् ॥ १८ ॥

Eggeling
  1. [Vāj. S. XI, 6; R̥k S. V, 81, 3] ‘Whose course the others have followed,’–for Prajāpati first performed this rite, whereupon the gods performed it;–’the gods with vigour, the god’s greatness,’–the greatness is the sacrifice, thus: ’the gods with vigour (followed) the god’s sacrifice, his energy;’–’that dappled steed who hath measured the terrestrial (regions),’–whatsoever is on this earth that is terrestrial, all that he measures out; for with his rays he reaches down to it;–’the regions, he the god Savitr̥ by his greatness,’–the regions are these worlds, and the god Savitr̥ is yonder sun: he measures them by his greatness.

१९

विश्वास-प्रस्तुतिः

दे᳘व सवितः प्र᳘सुव यज्ञं प्र᳘सुव यज्ञ᳘पतिं भ᳘गाये᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ देवः᳘ सविता᳘ यज्ञो भ᳘गस्त᳘मेत᳘दाह प्र᳘सुव यज्ञं᳘ प्र᳘सुव यज्ञ᳘पतिं भगाये᳘ति दिव्यो᳘ गन्धर्वः᳘ केतपूः के᳘तं नः पुनात्वि᳘त्यसौ वा᳘ ऽआदित्यो᳘ दिव्यो᳘ गन्धर्व्वो᳘ ऽन्नं के᳘तो ऽन्नपूर᳘न्नं नः पुनात्वित्येत᳘द्वाचस्प᳘तिर्व्वा᳘चं[[!!]] नः स्वदत्वि᳘ति व्वाग्वा᳘ ऽइदं क᳘र्म प्राणो᳘ व्वाचस्प᳘तिः प्राणो᳘ न ऽइदं क᳘र्म स्वदत्वि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

दे᳘व सवितः प्र᳘सुव यज्ञं प्र᳘सुव यज्ञ᳘पतिं भ᳘गाये᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ देवः᳘ सविता᳘ यज्ञो भ᳘गस्त᳘मेत᳘दाह प्र᳘सुव यज्ञं᳘ प्र᳘सुव यज्ञ᳘पतिं भगाये᳘ति दिव्यो᳘ गन्धर्वः᳘ केतपूः के᳘तं नः पुनात्वि᳘त्यसौ वा᳘ ऽआदित्यो᳘ दिव्यो᳘ गन्धर्व्वो᳘ ऽन्नं के᳘तो ऽन्नपूर᳘न्नं नः पुनात्वित्येत᳘द्वाचस्प᳘तिर्व्वा᳘चं[[!!]] नः स्वदत्वि᳘ति व्वाग्वा᳘ ऽइदं क᳘र्म प्राणो᳘ व्वाचस्प᳘तिः प्राणो᳘ न ऽइदं क᳘र्म स्वदत्वि᳘त्येत᳘त्॥

मूलम् - Weber

दे᳘व सवितः प्र᳘सुव यज्ञम् प्र᳘सुव यज्ञ᳘पतिम् भ᳘गाये᳘ति॥
असौ वा᳘ आदित्यो᳘ देवः᳘ सविता᳘ यज्ञो भ᳘गस्त᳘मेत᳘दाह प्र᳘सुव यज्ञम् प्र᳘सुव यज्ञ᳘पतिम् भगाये᳘ति दिव्यो᳘ गन्धर्वः᳘ केतपूः के᳘तं नः पुनात्वि᳘त्यसौ वा᳘ आदित्यो᳘ दिव्यो᳘ गन्धर्वो᳘ ऽन्नं के᳘तो ऽन्नपूर᳘न्नं नः पुनात्वि᳘त्येत᳘द्वाचस्प᳘तिर्वा᳘चं नः स्वदत्वि᳘ति वाग्वा᳘ इदं क᳘र्म प्राणो᳘ वाचस्प᳘तिः प्राणो᳘ न इदं क᳘र्म स्वदत्वि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय”- इति । असौ वा ऽआदित्यो देवः सविता । यज्ञो भगः । तमेतदाह- प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति । “दिव्यो गन्धर्वः केतपूः केतं नः पुनातु”- इति । असौ वा ऽआदित्यो दिव्यो गन्धर्वः । अन्नं केतः । अन्नपूरन्नं नः पुनात्वित्येतत् । “वाचस्पतिर्वाचं नः स्वदतु”- (वा. सं. ११ । ७)- इति । वाग्वा इदं कर्म, प्राणो वाचस्पतिः । प्राणो न इदं कर्म स्वदत्वित्येतत् ॥ १९ ॥

सायणः

सप्तमं मन्त्रं विधत्ते- देव सवितः प्रसुव यज्ञमिति (का. श्रौ. सू. १६ । ५०) । वाजपेये व्याख्यातो ऽयं मन्त्रः (श. प. ५ । १ । १ । १४ । ५ भा.) ॥ १९ ॥

Eggeling
  1. [Vāj. S. XI, 7] ‘God Savitr̥, speed the sacrifice, speed the lord of sacrifice unto his share!’–the god Savitr̥ is yonder sun, and his share is the sacrifice, that he means to say when he says ‘speed the sacrifice, speed the lord of sacrifice!’–‘May the heavenly, thought-cleansing Gandharva cleanse our thought!’–the heavenly Gandharva is yonder sun, and thought is (sacrificial) food; thus, ‘May the food-cleanser cleanse our food!’–‘May the lord of speech render agreeable our speech!’–this sacred rite is speech, and the lord of speech is the breath: thus, ‘May the breath render agreeable this rite of ours!!

२०

विश्वास-प्रस्तुतिः

(दि) इमं᳘ नो देव सवितर्यज्ञं प्र᳘णये᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ देवः᳘ सविता य᳘दु वा᳘ ऽएष᳘ यज्ञि᳘यं क᳘र्म प्रण᳘यति तद᳘नार्तᳫँ᳭ स्व᳘स्त्युदृच᳘मश्नुते देवा᳘व्यमि᳘ति[[!!]] यो᳘ देवान᳘वदि᳘त्येत᳘त्सखिविदᳫँ᳭ सत्राजि᳘तं धनजि᳘तᳫँ᳭ स्वर्जि᳘तमि᳘ति य᳘ ऽएतत्स᳘र्वं व्विन्दादि᳘त्येत᳘दृचे᳘त्यृचा स्तो᳘मᳫँ᳭ स᳘मर्धय गायत्रे᳘ण रथन्तरं᳘ बृह᳘द्गायत्र᳘वर्तनी᳘ति सा᳘मानि स्वाहे᳘ति य᳘जूᳫँ᳭षि᳘ सैषा᳘ त्रयी᳘ व्विद्या᳘ प्रथमं᳘ जायते य᳘थै᳘वा᳘दो ऽमुत्रा᳘जायतैवम᳘थ[[!!]] यः᳘ सो ऽग्निर᳘सृज्यतैष स यो᳘ ऽत ऊर्द्ध्व᳘मग्नि᳘श्चीय᳘ते॥

मूलम् - श्रीधरादि

(दि) इमं᳘ नो देव सवितर्यज्ञं प्र᳘णये᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ देवः᳘ सविता य᳘दु वा᳘ ऽएष᳘ यज्ञि᳘यं क᳘र्म प्रण᳘यति तद᳘नार्तᳫँ᳭ स्व᳘स्त्युदृच᳘मश्नुते देवा᳘व्यमि᳘ति[[!!]] यो᳘ देवान᳘वदि᳘त्येत᳘त्सखिविदᳫँ᳭ सत्राजि᳘तं धनजि᳘तᳫँ᳭ स्वर्जि᳘तमि᳘ति य᳘ ऽएतत्स᳘र्वं व्विन्दादि᳘त्येत᳘दृचे᳘त्यृचा स्तो᳘मᳫँ᳭ स᳘मर्धय गायत्रे᳘ण रथन्तरं᳘ बृह᳘द्गायत्र᳘वर्तनी᳘ति सा᳘मानि स्वाहे᳘ति य᳘जूᳫँ᳭षि᳘ सैषा᳘ त्रयी᳘ व्विद्या᳘ प्रथमं᳘ जायते य᳘थै᳘वा᳘दो ऽमुत्रा᳘जायतैवम᳘थ[[!!]] यः᳘ सो ऽग्निर᳘सृज्यतैष स यो᳘ ऽत ऊर्द्ध्व᳘मग्नि᳘श्चीय᳘ते॥

मूलम् - Weber

इमं᳘ नो देव सवितर्यज्ञम् प्र᳘णये᳘ति॥
असौ वा᳘ आदित्यो᳘ देवः᳘ सविता य᳘दु वा᳘ एष᳘ यज्ञि᳘यं क᳘र्म प्रण᳘यति तद᳘नार्तᳫं स्वॗस्त्युदृच᳘मश्नुते देवाव्य᳘मि᳘ति यो᳘ देवान᳘वदि᳘त्येत᳘त्सखिवि᳘दᳫं सत्राजि᳘तं धनजि᳘तᳫं स्वर्जितमिति य᳘ एतत्स᳘र्वं विन्दादि᳘त्येत᳘दृचे᳘त्यृचा स्तो᳘मᳫं स᳘मर्धय गायत्रे᳘ण रथन्तर᳘म् बृह᳘द्गायत्र᳘वर्तनी᳘ति सा᳘मानि स्वाहे᳘ति य᳘जूंषिॗ सैषा᳘ त्रयी᳘ विद्या᳘ प्रथमं᳘ जायते य᳘थैॗवाॗदो ऽमुत्रा᳘जायतैवम᳘थॗ यः सो ऽग्निर᳘सृज्यतैष स यो᳘ ऽत ऊर्ध्व᳘मग्नि᳘श्चीय᳘ते॥

मूलम् - विस्वरम्

“इमं नो देव सवितर्यज्ञं प्रणय”- इति । असौ वा ऽआदित्यो देवः सविता । यदु वा ऽएष यज्ञियं कर्म प्रणयति । तदनार्तं स्वस्त्युदृचमश्नुते । “देवाव्यम्”- इति । यो देवानवदित्येतत् । “सखिविदं सत्राजितं धनजितं स्वर्जितम्”- इति । य एतत्सर्वं विन्दादित्येतत् । “ऋचा स्तोमं समर्धय गायत्रेण रथन्तरं बृहद्गायत्रवर्तनि”- इति । सामानि । “स्वाहा"- (वा. सं. ११ । ८) इति । यजूंषि । सैषा त्रयी विद्या प्रथमं जायते । यथैवादो ऽमुत्राजायत- एवम् । अथ यः सो ऽग्निरसृज्यत- एष स- यो ऽत ऊर्ध्वमग्निश्चीयते ॥ २० ॥

सायणः

अष्टमं यजुर्विधत्ते- इमं नो देव सवितर्यज्ञमिति (का. श्रौ. सू. १६ । ५०) । प्रणयेति पदस्यार्थमाह- ‘यज्ञियं कर्म’ ‘प्रणयति’ प्रकर्षेण नयति । तदेवाह- ‘तत्’ सवित्रा प्रणीतं कर्म ‘अनार्त्तम्’ अनुपहतम्, ‘स्वस्ति’ क्षेमेण ‘उदृचं’ समाप्तिम् ‘अश्नुते’ । देवाव्यमिति पदं व्याचष्टे- यो देवानवदिति । देवानवति तर्पयतीति देवावीः । “अवितृस्तृतन्त्रिभ्य ईः”- (पा. सू. उ. १५८) इति । ई-प्रत्ययः । अस्य यजुषः त्रयीविद्यात्वमुपपादयितुमाह- ऋचेति । अस्मिन् यजुषि तावत् ‘ऋचा स्तोमं समर्द्धय’ । “गायत्रेण रथन्तरं बृहद् गायत्रवर्त्तनि स्वाहा”- इति पठ्यते । तत्र ऋचेतिपदेन ऋग्वेदो ऽभिधीयते, स्तोमगायत्ररथन्तरबृहदादिभिः सामान्युच्यन्ते, स्वाहेतिपदेन यजुर्वेदः । अत एवैष मन्त्रो वेदत्रयात्मकत्वात् ‘त्रयी विद्या’। अत्र त्रय्याः कः प्रसङ्ग- इत्यत आह- यथैवादो ऽमुत्रेति । ‘अदः’ स्थितिक्रियाविशेषणम्, ‘अमुत्र’- इति विप्रकृष्टवचनः । यथा प्रागव्यायादौ सर्वसृष्टेः पुरा त्रयी विद्या उत्पन्ना, एवमेतद्यजुरपि- “स श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयीमेव विद्याम्”- (श. प. ६ । १ । १ । ८) इति । पूर्वं यो ऽग्निः सृष्टः, अथ यो गर्भे ऽन्तरासीत्, ‘सो ऽग्निरसृजत’ इति । ‘सः’ सृष्टो ऽग्निरेव, इदानीं चीयमानो ऽग्निरित्यर्थः ॥ २० ॥

Eggeling
  1. [Vāj. S. XI, 8] ‘Further, O god Savitr̥, this our sacrifice!’–the god Savitr̥ is yonder sun, and whatever sacrificial rite he furthers, that

reaches its end safely and auspiciously;–‘as one pleasant to the gods,’–that is, as one which shall please the gods;–‘friend-gaining, ever-winning, wealth-winning, heaven-winning,’–that is, one that may gain all this;–‘Make the hymn-tune successful with the r̥c (verse), the Rathantara with the Gāyatra (metre), and the Br̥hat, moving in Gāyatra measures!’–thus the sāmans (hymns);–‘Hail!’ thus the sacrificial formulas: this threefold science is first produced, even as it was there and then produced. And the Agni who was produced, he is this Agni (fire-altar) who is built up from hence upwards.

२१

विश्वास-प्रस्तुतिः

ता᳘न्येता᳘न्यष्टौ᳘ सावित्रा᳘णि॥
(ण्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ता᳘नि न᳘व भवन्ति स्वाहाकारो᳘ नवमो न᳘व दि᳘शो दि᳘शो ऽग्निर्न᳘व प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ता᳘नि द᳘श भवन्त्या᳘हुतिर्दशमी द᳘शाक्षरा᳘ व्विरा᳘ड् विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

ता᳘न्येता᳘न्यष्टौ᳘ सावित्रा᳘णि॥
(ण्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ता᳘नि न᳘व भवन्ति स्वाहाकारो᳘ नवमो न᳘व दि᳘शो दि᳘शो ऽग्निर्न᳘व प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ता᳘नि द᳘श भवन्त्या᳘हुतिर्दशमी द᳘शाक्षरा᳘ व्विरा᳘ड् विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

ता᳘न्येता᳘न्यष्टौ᳘ सावित्रा᳘णि॥
अष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति ता᳘नि न᳘व भवन्ति स्वाहाकारो᳘ नवमो न᳘व दि᳘शो दि᳘शो ऽग्निर्न᳘व प्राणाः᳘ प्राणा᳘ अग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति ता᳘नि द᳘श भवन्त्या᳘हुतिर्दशमी द᳘शाक्षरा विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ अग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

तान्येतान्यष्टौ सावित्राणि । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतो भूतं सिञ्चति । तानि नव भवन्ति । स्वाहाकारो नवमः । नवदिशः । दिशो ऽग्निः । नव प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । तानि दश भवन्ति । आहुतिर्दशमी । दशाक्षरा विराट् । विराडग्निः । दश दिशः । दिशो ऽग्निः । दश प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ २१ ॥

सायणः

उक्तानष्टौ मन्त्रान् सम्भूय प्रशंसितुमनुवदति- तान्येतान्यष्टौ सावित्राणीति । गायत्र्या अष्टौ अक्षराणि, अग्नेरपि अष्टनामत्वात् अग्नेर्गायत्रत्वं प्रागुक्तम् । (श. प. ६ । १ । ३ । १९) अतो ऽग्नेर्यावन्तो ऽवयवाः, तैः तावन्तमेवाग्निम् एतया आहुत्या सिक्तवान् भवतीत्यर्थः ॥

अष्टममन्त्रान्ते यः स्वाहा-शब्दः पठितः, तेन नवमेन सह सङ्ख्यां दिक्प्राणात्मना प्रशंसति- तानि नव भवन्ति, स्वाहाकारो नवम इति ॥

स्वाहा-शब्दप्रयोगानन्तरमग्नावाज्याहुतिर्हूयते, तया सह पूर्वसङ्ख्यां विराट्प्राणात्मकाग्न्यात्मना स्तौति- तानि दश भवन्ति आहुतिर्दशमीति । अष्टौ मन्त्राः, स्वाहाकारो नवमः, स्वाहाकारान्ते हूयमाना ‘आहुतिः’ ‘दशमी’ दशसंङ्ख्यापूरणीति ॥ २१ ॥

Eggeling
  1. These then are the eight Sāvitra (formulas 8);–the Gāyatrī has eight syllables, and Agni is Gāyatra: as great as Agni is, as great as is his measure, by just so much he pours him out as seed. There are nine of them, the call of ‘Hail’ (being) the ninth,–there are nine regions, and Agni is the regions; nine vital airs, and Agni is the vital airs: as great as Agni is, as great as is. his measure, by so much he pours him out as seed. There are ten of them, the libation (being) the tenth,–the Virāj has ten syllables, and Agni is Virāj (the widely shining 9); there are ten regions, and Agni is the regions; ten vital airs, and Agni is the vital airs: as great as Agni is, as great as is his measure, so great does this become.

२२

विश्वास-प्रस्तुतिः

(त्ये) एत᳘स्यामा᳘हुत्याᳫँ᳭ हुता᳘याम्॥
(म) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्रामत्ते᳘ देवा᳘ ऽअब्रुवन्पशुर्वा᳘ ऽअग्निः᳘ पशु᳘भिरिमम᳘न्विच्छाम स स्वा᳘य रूपा᳘यावि᳘र्भविष्यती᳘ति तं᳘ पशु᳘भिर᳘न्वैच्छन्त्स स्वा᳘य रूपा᳘यावि᳘रभवत्त᳘स्मादु हैत᳘त्पशुः स्वा᳘य रूपा᳘यावि᳘र्भवति गौ᳘र्व्वा गवे᳘ ऽश्वो वा᳘ ऽश्वाय पु᳘रुषो वा पु᳘रुषाय᳘॥

मूलम् - श्रीधरादि

(त्ये) एत᳘स्यामा᳘हुत्याᳫँ᳭ हुता᳘याम्॥
(म) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्रामत्ते᳘ देवा᳘ ऽअब्रुवन्पशुर्वा᳘ ऽअग्निः᳘ पशु᳘भिरिमम᳘न्विच्छाम स स्वा᳘य रूपा᳘यावि᳘र्भविष्यती᳘ति तं᳘ पशु᳘भिर᳘न्वैच्छन्त्स स्वा᳘य रूपा᳘यावि᳘रभवत्त᳘स्मादु हैत᳘त्पशुः स्वा᳘य रूपा᳘यावि᳘र्भवति गौ᳘र्व्वा गवे᳘ ऽश्वो वा᳘ ऽश्वाय पु᳘रुषो वा पु᳘रुषाय᳘॥

मूलम् - Weber

एत᳘स्यामा᳘हुत्याᳫं हुता᳘याम्॥
अग्नि᳘र्देवे᳘भ्य उ᳘दक्रामत्ते᳘ देवा᳘ अब्रुवन्पशुर्वा᳘ अग्निः᳘ पशु᳘भिरिमम᳘न्विछाम स स्वा᳘य रूपा᳘यावि᳘र्भविष्यती᳘ति त᳘म् पशु᳘भिर᳘न्वैछन्त्स स्वा᳘य रूपा᳘यावि᳘रभवत्त᳘स्मादु हैत᳘त्पशुः स्वा᳘य रूपा᳘यावि᳘र्भवति गौ᳘र् वा गवेॗ ऽश्वो वा᳘श्वाय पु᳘रुषो वा पु᳘रुषाय᳟᳟॥

मूलम् - विस्वरम्

एतस्यामाहुत्यां हुतायामग्निर्देवेभ्य उदक्रामत् । ते देवा अब्रुवन्- पशुर्वा ऽअग्निः, पशुभिरिममन्विच्छाम, स स्वाय रूपायाविर्भविष्यतीति । तं पशुभिरन्वैच्छन् स स्वाय रूपायाविरभवत् । तस्मादु हैतत्पशुः स्वाय रूपायाविर्भवति । गौर्वा गवे ऽश्वो वा ऽश्वाय । पुरुषो वा पुरुषाय ॥ २२ ॥

सायणः

अत्र पूर्वं यत्र पुरुषादीनां “चतुर्णां पशूनां कायप्रासनम्, तस्मात् प्रदेशात् उखाषाढेष्टकाकरणार्थं मृत् आनेतव्या; चतुर्णामप्सु कायप्रासनम्, ततो मृदिष्टकार्थापश्च”- (का. श्रौ. सू. १६ । १९-२०) इति ह्याम्नातम् । तत्र नेतव्यान् पशून् विधातुमाख्यायिकामाह- एतस्यामाहुत्यां हुतायामिति । पूर्वमग्निर्देवसकाशादुत्क्रान्तः, ‘ते देवाः’ परस्परम् ‘अब्रुवन्,’ ‘पशुः अग्निः’ अतः ‘पशुभिः’ ‘इमं’ पशुरूपमग्निम् ‘अन्विच्छाम’ अन्विष्यामः । ‘सः’ अग्निः पशुः ‘स्वाय’ स्वजातीयपशुरूपाय, तं दृष्ट्वा ‘आविः’ प्रत्यक्षो भविष्यतीति विचार्य, पशुभिरन्विष्टवन्तः । सो ऽप्यग्निः प्रत्यक्षो ऽभवत् । तस्माल्लोके पशुः सजातीयरूपं दृष्ट्वा प्रत्यक्षो भवतीत्यर्थं लोकप्रसिद्ध्योपपादयति- गौर्वा गवे, अश्वो वा ऽश्वाय, पुरुषो वा पुरुषायेति ॥ २२ ॥

Eggeling
  1. This libation having been offered, Agni went away from the gods. The gods said, ‘Agni is the

cattle (or, an animal), let us search for him by means of the (different kinds of) cattle: he will become manifest unto his own form.’ They searched for him by means of the cattle, and he became manifest to his own form: and hence even to this day the animal becomes manifest to its own form (kind) 10, cow to cow, horse to horse, and man to man.

२३

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्॥
(न्य) यद्य᳘ह स᳘र्व्वैरन्वेषिष्या᳘मो यात᳘यामा ऽअनुपजीवनीया᳘ भविष्यन्ति य᳘द्यु ऽअ᳘सर्व्वैर᳘सर्व्वम᳘नुवेत्स्याम ऽइ᳘ति त᳘ ऽएतमे᳘कं पशुं द्वा᳘भ्यां पशु᳘भ्यां प्रत्य᳘पश्यन्रा᳘सभं गोश्चा᳘वेश्च तद्य᳘देतमे᳘कं पशुं द्वा᳘भ्यां पशुभ्यां[[!!]] प्रत्य᳘पश्यंस्त᳘स्मादेष ऽए᳘कः सन्द्वि᳘रेताः॥

मूलम् - श्रीधरादि

ते ऽब्रुवन्॥
(न्य) यद्य᳘ह स᳘र्व्वैरन्वेषिष्या᳘मो यात᳘यामा ऽअनुपजीवनीया᳘ भविष्यन्ति य᳘द्यु ऽअ᳘सर्व्वैर᳘सर्व्वम᳘नुवेत्स्याम ऽइ᳘ति त᳘ ऽएतमे᳘कं पशुं द्वा᳘भ्यां पशु᳘भ्यां प्रत्य᳘पश्यन्रा᳘सभं गोश्चा᳘वेश्च तद्य᳘देतमे᳘कं पशुं द्वा᳘भ्यां पशुभ्यां[[!!]] प्रत्य᳘पश्यंस्त᳘स्मादेष ऽए᳘कः सन्द्वि᳘रेताः॥

मूलम् - Weber

ते ऽब्रुवन्॥
यद्य᳘ह स᳘र्वैरन्वेषिष्या᳘मो यातयामा अनुपजीवनु᳘र्वा गवे᳘ ऽश्वो वा᳘श्वाय पु᳘रुषो वा पु᳘रुषाय ईया᳘ भविष्यन्ति य᳘द्यु अ᳘सर्वैर᳘सर्वम᳘नुवेत्स्याम इ᳘ति त᳘ एतमे᳘कम् पशुं द्वा᳘भ्याम् पशु᳘भ्याम् प्रत्य᳘पश्यन्रा᳘सभं गोश्चा᳘वेश्च तद्य᳘देतमे᳘कम् पशुं द्वा᳘भ्याम् पशु᳘भ्याम् प्रत्य᳘पश्यंस्त᳘स्मादेष ए᳘कः सन्द्वि᳘रेताः॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- यद्यह सर्वैरन्वेषिष्यामो- यातयामा अनुपजीवनीया भविष्यन्ति । यद्युअसर्वैरसर्वमनुवेत्स्याम इति । त ऽएतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन्- रासभं- गोश्चावेश्च । तद्यदेतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन्- तस्मादेष एकः सन्द्विरेताः ॥ २३ ॥

सायणः

ते ऽब्रुवन् यद्यह सर्वैरन्वेषिष्याम इति । ‘यदि’ ‘सर्वैः’ पुरुषादिपञ्चपशुभिः पशुरूपमग्निमन्वेष्टुमिच्छामः, तर्हि ते पशवः ‘यातयामाः’ गतसाराः, अतः ‘अनुपजीवनीयाः’ च भवन्ति; ‘यदि’ ‘असर्वैः’ पशुभिः, तर्हि ‘असर्वम्’ असम्पूर्णमग्निमेव ‘अनुवेत्स्यामः’ लाभार्थस्य विदे रूपम् (धा. पा. तु. उ. १५१) । ‘इति’ देवाः विचार्य ‘द्वाभ्यां’ प्रतिनिध्यर्थे कर्मप्रवचनीयः, “प्रतिः प्रतिनिधिप्रतिदानयोः” (पा. सू. १ । ४ । ९२) । ‘तस्मात्’ इति, ‘पशुभ्याम्’- इति च पञ्चमी । गवाविपशुद्वयप्रतिनिधित्वेन एकं रासभं प्रत्यपश्यन्, अतः ‘एषः’ द्वयोः प्रतिनिधिः, ‘तस्मात्’ रासभः स्वरूपेण ‘एकः’ अपि ‘द्विरेताः’ विलक्षणपशुद्वयजनकः । रासभादश्वतरस्य गर्दभस्य चोत्पत्तिर्दृश्यते । अतः अश्वाजौ, गवाविप्रतिनिधित्वेन रासभ इति त्रयः पशव इत्युक्तं भवति ॥ २३ ॥

Eggeling
  1. They said, ‘Surely, if we search with all of them, they will become used up and affording no livelihood; and if not with all, we shall get him (Agni) incomplete.’ They saw one animal (as a substitute) for two animals 11, namely, the ass (as a substitute) for the cow and the sheep; and because they saw that one beast (would do) for two beasts, therefore that one (the he-ass), whilst being one, doubly impregnates 12.

२४

विश्वास-प्रस्तुतिः

(ऽ) अनद्धापुरुषं पु᳘रुषात्॥
(दे) एष᳘ ह वा᳘ ऽअनद्धापुरुषो यो न᳘ देवान᳘वति न᳘ पितॄन्न᳘ मनु᳘ष्याँस्तत्स᳘र्व्वैर᳘ह पशु᳘भिरन्वै᳘च्छ᳘न्नो यात᳘यामा ऽअनुपजीवनीया᳘ ऽअभवन्॥

मूलम् - श्रीधरादि

(ऽ) अनद्धापुरुषं पु᳘रुषात्॥
(दे) एष᳘ ह वा᳘ ऽअनद्धापुरुषो यो न᳘ देवान᳘वति न᳘ पितॄन्न᳘ मनु᳘ष्याँस्तत्स᳘र्व्वैर᳘ह पशु᳘भिरन्वै᳘च्छ᳘न्नो यात᳘यामा ऽअनुपजीवनीया᳘ ऽअभवन्॥

मूलम् - Weber

अनद्धापुरुषम् पु᳘रुषात्॥
एष᳘ ह वा᳘ अनद्धापुरुषो यो न᳘ देवान᳘वति न᳘ पितॄन्न᳘ मनुॗष्यांस्तत्स᳘र्वैर᳘ह पशु᳘भिरन्वै᳘छॗन्नो यात᳘यामा अनुपजीवनीया᳘ अभवन्॥

मूलम् - विस्वरम्

अनद्धापुरुषं पुरुषात् । एष ह वा ऽअनद्धा पुरुषो- यो न देवानवति, न पितॄन्, न मनुष्यान् । तत् सर्वैरह पशुभिरन्वैच्छन् । नो यातयामा अनुपजीवनीया अभवन् ॥ २४ ॥

सायणः

उत्तरत्र अनद्धापुरुषमीक्षते ऽग्निम्पुरीष्यमिति वक्ष्यति; (श. प. ६ । ३ । ३ । ४) अत्रानद्धापुरुषस्य कः प्रसङ्ग इति, तं दर्शयति- अनद्धापुरुषं पुरुषादिति । पुरुषपशोः प्रतिनिधिमनद्धापुरुषमपश्यत् । अनद्धापुरुषस्य लक्षणमाह- एष ह वा अनद्धापुरुषो यो न देवानवति न पितॄन् न मनुष्यानिति 13 । ‘अवति’ प्रीणयति, देवपितृमनुष्याणामनर्थक इत्यर्थः । अतः पुरुषपशोः प्रतिनिधिरनद्धापुरुषः, गवाविप्रतिनिधित्वेन रासभः, पूर्वावेवाश्वाजौ । एवं ‘सर्वैः पशुभिः;’ पशुरूपमग्निमन्विष्टवन्त इति । सर्वैरन्वेषणे असर्वाग्निलाभदोषो नास्तीत्याह- नो यातयामा इति । अपूर्वैरेव सर्वैरन्वेषणे यातयामत्वादिदोषो नास्तीत्यर्थः ॥ २४॥

Eggeling
  1. The sham-man 14 (they saw to be a substitute) for man,–a sham-man doubtless is he who pleases neither the gods, nor the fathers, nor men. Thus they searched by means of all the beasts, and yet they (the beasts) did not come to be used up and affording no livelihood.

२५

विश्वास-प्रस्तुतिः

(वंस्त्रि) त्रिभिर᳘न्विच्छति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्विच्छति ते प᳘ञ्च सम्प᳘दा भवन्ति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(वंस्त्रि) त्रिभिर᳘न्विच्छति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्विच्छति ते प᳘ञ्च सम्प᳘दा भवन्ति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

त्रिभिर᳘न्विछति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्विछति प᳘ञ्च सम्प᳘दा भवन्ति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

त्रिभिरन्विच्छति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्विच्छति । ते पञ्च सम्पदा भवन्ति । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः सम्वत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति ॥ २५ ॥

सायणः

उत्तरत्रानद्धापुरुषस्य तत्कर्मकेक्षणे विनियोगस्य वक्ष्यमाणत्वात् तदितरैरश्वगर्दभाजैस्त्रिभिरग्नेरन्वेषणं दर्शयति- त्रिभिरन्विच्छतीति । पशुगतत्रित्वसङ्ख्यां प्रशंसति- त्रिवृदग्निरिति । अग्नेस्त्रिवृत्त्वं प्रागुक्तम्-“अष्टौ (रुद्रादीनि) अग्निरूपाणि, कुमारो नवम इति; सैवाग्नेस्त्रिवृत्ता” (श. प. ६ । १ । ३ । १८) इति । अत्र पशुत्रित्वसङ्ख्याया विद्यमानत्वात् तावन्तं तावत्परिमाणमग्निम्, तावत्सङ्ख्याकैरश्वावयवैरेवान्विष्टवान् भवतीत्युक्तं अत्रानद्धापुरुषाश्वरासभाजा एव चत्वारः पशवः कथं तैरन्वेषणे सर्वैरन्वेषणं कृतमित्याशङ्क्य, तेषां चतुर्णामेव पञ्चसम्पत्तिमाह- ते पञ्चसम्पदा भवन्तीति रासभाः खलु गवाविप्रतिनिधिरिति । तौ गवावी द्वौ, पुरुषादयस्त्रय इति पञ्चसम्पत्त्या पञ्च भवन्तीत्यर्थः । तामेव पञ्चसंख्यामग्न्यात्मना स्तौति- पञ्चचितिको ऽग्निरिति ॥ २५ ॥

Eggeling
  1. With three he searches,–Agni is threefold: as great as Agni is, as great as is his measure, with so much he thus searches for him. They are five

by way of (mystic) correspondence 15,–Agni (the fire-altar) has five layers; five seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.

२६

विश्वास-प्रस्तुतिः

ते᳘ मौञ्जी᳘भिरभिधा᳘नीभिरभि᳘हिता भवन्ति॥
(न्त्य) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्रामत्स मु᳘ञ्जं प्रा᳘विशत्त᳘स्मात्स᳘ सुषिरस्त᳘स्माद्वे᳘वान्तरतो᳘ धूम᳘रक्त ऽइव᳘ सैषा यो᳘निरग्नेर्यन्मु᳘ञ्चो ऽग्नि᳘रिमे᳘ पश᳘वो न वै यो᳘निर्ग᳘र्भᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै यो᳘नेर्वै जा᳘यमानो जायते यो᳘नेर्जा᳘यमानो[[!!]] जायाता ऽइ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ मौञ्जी᳘भिरभिधा᳘नीभिरभि᳘हिता भवन्ति॥
(न्त्य) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्रामत्स मु᳘ञ्जं प्रा᳘विशत्त᳘स्मात्स᳘ सुषिरस्त᳘स्माद्वे᳘वान्तरतो᳘ धूम᳘रक्त ऽइव᳘ सैषा यो᳘निरग्नेर्यन्मु᳘ञ्चो ऽग्नि᳘रिमे᳘ पश᳘वो न वै यो᳘निर्ग᳘र्भᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭सायै यो᳘नेर्वै जा᳘यमानो जायते यो᳘नेर्जा᳘यमानो[[!!]] जायाता ऽइ᳘ति॥

मूलम् - Weber

ते᳘ मौञ्जी᳘भिरभिधा᳘नीभिरभि᳘हिता भवन्ति॥
अग्नि᳘र्देवे᳘भ्य उ᳘दक्रामत्स मु᳘ञ्जम् प्रा᳘विशत्त᳘स्मात्स᳘ सुषिरस्त᳘स्माद्वेॗवान्तरतो᳘ 16 धूम᳘रक्त इवॗ सैषा यो᳘निरग्नेर्यन्मु᳘ञ्चो ऽग्नि᳘रिमे᳘ पश᳘वो न वै यो᳘निर्ग᳘र्भᳫं हिनस्त्या᳘हिंसायै यो᳘निर्वै जा᳘यमानो जायते यो᳘नेर्जा᳘यमानो᳘ जायाता इ᳘ति॥

मूलम् - विस्वरम्

ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति । अग्निर्देवेभ्य उदक्रामत् । स मुञ्जं प्राविशत् । तस्मात्स सुषिरः । तस्माद्वेवान्तरतो धूमरक्त इव । सैषा योनिरग्नेः- यन्मुञ्जः । अग्निरिमे पशवः । न वै योनिर्गर्भं हिनस्ति- अहिंसायै । योनेर्वै जायमानो जायते । योनेर्जायमानो जायाता ऽइति ॥ २६॥

सायणः

तेषां त्रयाणां पशूनां मौञ्जीबन्धनं विधत्ते- ते मौञ्जीभिरभिधानीभिरिति । मुञ्जो नाम ससुषिरस्तृणविशेषः, तेन निर्मिताभिरभिधानीभी रशनाभिरभिहिता बद्धा भवन्ति । अभिपूर्वो दधातिर्बन्धने वर्त्तते । अभिधीयन्ते बध्यन्ते आभिरिति अभिधान्यो रशनाः । करणे ल्युट् प्रत्ययः । (पा. सू. ३ । ३ । ११७) मुञ्जेनैव रशनाकरणमाख्यायिकामुखेनाह- अग्निर्देवेभ्य इति । ‘तस्मात्’ अन्तरग्निप्रवेशात् ‘सः’ मुञ्जः ‘सुषिरः’ अन्तच्छिद्रवान् । लक्षणान्तरमाह- तस्माद्वेवेति । ‘उ,’ ‘एव’ इति पदद्वयम् । ‘तस्मात्’ अग्निप्रवेशादेव कारणात् स मुञ्जः ‘अन्तरतः’ मध्ये ‘धूमरक्तः’ धूमेन युक्तो रक्तवर्ण इव दृश्यते । अत एव ‘मुञ्जः अग्नेः योनिः,’ अग्निरिमे पशवः पशवश्चाग्निरिति प्रागुक्तम् । तस्मात् पशुरूपस्य गर्भभूतस्याग्नेरहिंसायै अन्तरग्निरूपमुञ्जवेष्टनं युक्तम् । यथा लोके ‘योनिर्गर्भं न हिनस्ति,’ ‘योनेः’ खलु सर्वः ‘जायमानः’ जनः ‘जायते’, एवमग्निश्च ‘योनेः’ ‘जायातै इति’ पशूनां मुञ्जरशनाभिधानम् । ‘जायातै’- इति, “जनी प्रादुर्भावे” (धा. पा. दि. आ. ४३) । पञ्चमे लकारे, “लेटो ऽडाटौ"- (पा. सू. ३ । ४ । ९४) इति । तिप् प्रत्ययस्याडागमः, “वैतो ऽन्यत्र”- (पा. सू. ३ । ४ । ९६) इति प्रत्ययस्थेकारस्य ऐकारादेशश्च ॥ २६ ॥

Eggeling
  1. They are fastened with halters of reed-grass to guard (Agni) against injury 17;–Agni went away from the gods; he entered into a reed, whence it is hollow, and whence inside it is, as it were, smoke-tinged: (thus) that, the reed, is Agni’s womb, and Agni is these cattle; and the womb does not injure the child. For 18 it is from a womb that he who is born is born: ‘from the womb he (Agni) shall be born when he is born,’ thus he thinks.

२७

विश्वास-प्रस्तुतिः

त्रिवृ᳘तो भवन्ति॥
त्रिवृ᳘द्ध्यग्नि᳘रश्वाभिधानी᳘कृता भवन्ति सर्व्व᳘तो वा᳘ ऽअश्वाभिधा᳘नी मु᳘खं प᳘रिशेते सर्व्व᳘तो यो᳘निर्ग᳘र्भं प᳘रिशेते योनिरूप᳘मेत᳘त्क्रियते॥

मूलम् - श्रीधरादि

त्रिवृ᳘तो भवन्ति॥
त्रिवृ᳘द्ध्यग्नि᳘रश्वाभिधानी᳘कृता भवन्ति सर्व्व᳘तो वा᳘ ऽअश्वाभिधा᳘नी मु᳘खं प᳘रिशेते सर्व्व᳘तो यो᳘निर्ग᳘र्भं प᳘रिशेते योनिरूप᳘मेत᳘त्क्रियते॥

मूलम् - Weber

त्रिवृ᳘तो भवन्ति॥
त्रिवृ᳘द्ध्यग्नि᳘रश्वाभिधानी᳘कृता भवन्ति सर्व᳘तो वा᳘ अश्वाभिधा᳘नी मु᳘खम् प᳘रिशेते सर्व᳘तो यो᳘निर्ग᳘र्भम् प᳘रिशेते योनिरूप᳘मेत᳘त्क्रियते॥

मूलम् - विस्वरम्

त्रिवृतो भवन्ति । त्रिवृद्ध्यग्निः । अश्वाभिधानीकृता भवन्ति । सर्वतो वा ऽअश्वाभिधानी मुखं परिशेते । सर्वतो योनिर्गर्भं परिशेते । योनिरूपमेतत्- क्रियते ॥ २७ ॥

सायणः

रशनात्रिवृत्त्वं विधत्ते- त्रिवृतो भवन्तीति । त्रिगुणिता इत्यर्थः । अश्वाभिधानीकृता इति । अश्वाभिधानीवत् कृताः यथाश्वाभिधानी कच्छिकामुखं सर्वतो वेष्टयति, एवमेतास्तिस्रः कार्या इत्यर्थः । अत्र कात्यायनः- “आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चो ऽश्वगर्दभाजाः पूर्वापरा रासभो मध्ये ऽश्वपूर्वाः” (का. श्रौ. सू. १६ । ४७) इति । अस्यार्थः- दक्षिणाशब्दाद् “एनबन्यतरस्यामदूरे ऽपञ्चम्याः”- (पा. सू. ५ । ३ । ३५) इति एनप्-प्रत्ययः । “एनपा द्वितीया”- (पा. सू. २ । ३ । ३१) इति ‘दक्षिणेन’ शब्दप्रयोगे आहवनीयस्य द्वितीया विभक्तिः । आहवनीयस्य दक्षिणप्रदेशे त्रिवृन्मुञ्जरशनाबद्धाः अश्वगर्दभाजाः पशवः अश्वपूर्वाः पद्भ्यां पूर्वापराः सन्तः प्राञ्चः प्राङ्मुखाः तिष्ठन्तीति ॥ २७ ॥

Eggeling
  1. They (the halters) are triple (strings), for Agni is threefold. They are made like a horse’s halter, for the horse’s halter lies all round the mouth, and the womb lies all round the child: thus it is made like the womb.

२८

विश्वास-प्रस्तुतिः

ते प्रा᳘ञ्चस्तिष्ठन्ति॥
(न्त्य᳘) अ᳘श्वः प्रथमो᳘ ऽथ रा᳘सभो᳘ ऽथाज᳘ ऽएव᳘ᳫँ᳘[[!!]] ह्ये᳘ते ऽनुपूर्व्वं यद्वै तद᳘श्रु सं᳘क्षरितमा᳘सीदेष सो ऽश्वो᳘ ऽथ यत्तद᳘रसदिवैष रा᳘सभो᳘ ऽथ यः स᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सीदेष᳘ सो ऽजो᳘ ऽथ यत्त᳘त्कपा᳘लमा᳘सीदेषा सा मृद्या᳘मेत᳘दाहरिष्य᳘न्तो भ᳘वन्त्येते᳘भ्यो वा᳘ ऽएष᳘ रूपेभ्यो᳘ ऽग्रे ऽसृज्यत ते᳘भ्य ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - श्रीधरादि

ते प्रा᳘ञ्चस्तिष्ठन्ति॥
(न्त्य᳘) अ᳘श्वः प्रथमो᳘ ऽथ रा᳘सभो᳘ ऽथाज᳘ ऽएव᳘ᳫँ᳘[[!!]] ह्ये᳘ते ऽनुपूर्व्वं यद्वै तद᳘श्रु सं᳘क्षरितमा᳘सीदेष सो ऽश्वो᳘ ऽथ यत्तद᳘रसदिवैष रा᳘सभो᳘ ऽथ यः स᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सीदेष᳘ सो ऽजो᳘ ऽथ यत्त᳘त्कपा᳘लमा᳘सीदेषा सा मृद्या᳘मेत᳘दाहरिष्य᳘न्तो भ᳘वन्त्येते᳘भ्यो वा᳘ ऽएष᳘ रूपेभ्यो᳘ ऽग्रे ऽसृज्यत ते᳘भ्य ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - Weber

ते प्रा᳘ञ्चस्तिष्ठन्ति॥
अ᳘श्वः प्रथमो᳘ ऽथ रा᳘सभो᳘ ऽथाज᳘ एॗवᳫं ह्येॗते ऽनुपूर्वं यद्वै तद᳘श्रु स᳘क्षरितमा᳘सीदेष सो ऽश्वो᳘ 19 ऽथ यत्तद᳘रसदिवैष रा᳘सभो᳘ ऽथ यः स᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीदेषॗ सो ऽजो᳘ ऽथ यत्त᳘त्कपा᳘लमा᳘सीदेषा सा मृद्या᳘मेत᳘दाहरिष्य᳘न्तो भ᳘वन्त्येते᳘भ्यो वा᳘ एष᳘ रूपेभ्यो᳘ ऽग्रे ऽसृज्यत ते᳘भ्य एॗवैनमेत᳘ज्जनयति॥

मूलम् - विस्वरम्

ते प्राञ्चस्तिष्ठन्ति । अश्वः प्रथमः । अथ रासभः । अज एवं ह्येते ऽनुपूर्वम् । यद्वै तदश्रु संक्षरितमासीद्- एष सो ऽश्वः । अथ यत्तदरसदिव- एष रासभः । अथ यः स कपाले रसो लिप्त आसीद्- एष सो ऽजः । अथ यत् तत्कपालमासीद्- एषा सा मृत्- यामेतदाहरिष्यन्तो भवन्ति । एतेभ्यो वा ऽएष रूपेभ्यो ऽ ग्रे ऽसृज्यत । तेभ्य एवैनमेतज्जनयति ॥ २८ ॥

सायणः

तदिदं विधत्ते- ते प्राञ्चस्तिष्ठन्तीत्यादिना । अश्वादीनां यदानुपूर्व्यम्, ‘अश्वः प्रथमः’ मध्ये ‘रासभः,’ अन्ते ‘अजः’ इति । पूर्वोक्तं सृष्टिक्रमं प्रमाणयति- यद्वै तदश्रु संक्षरितमासीदित्यादिना । एवं हि तत्र प्रथमाध्याये समाम्नातम्- “अथ यदश्रु संक्षरितमासीत्, सो ऽश्रुरभवत्; अश्रुर्ह वै तमश्व इत्याचक्षते परोक्षम्, परो ऽक्षकामा हि देवाः । अथ यदरसदिव, स रासभो ऽभवत् । अथ यः कपाले रसो लिप्त आसीत्, सो ऽजो ऽभवत् । अथ यत् कपालमासीत्, सा पृथिव्यभवत्- (श. प. ६ । १ । १ । ११) इति । तत्र यत् कपालमासीत्, सा पृथिवी मृच्छब्देनोक्ता ‘एतत्’ इदानीम् ‘यां’ मृत्तिकाम् ‘आहरिष्यन्तो भवन्ति’ इति । अध्वर्यवो मृत्तिकाहरणेन किं करिष्यन्तीति, तत्राह- एतेभ्यो वा एष रूपेभ्य इति । ‘रूपेभ्यः’ अश्वगर्दभाजेभ्यः ‘अग्रे’ पुरा ‘एषः’ अग्निः ‘असृज्यत,’ ‘एतत्’ इदानीमपि ‘तेभ्यः’ पुरा ‘एनम्’ अग्निं ‘जनयति’ मृत्तिकाहरणेन तमग्रे सृष्टमेवाग्निं जनितवन्तो भवन्तीत्यृत्विज इत्यर्थः । अश्वादिभ्यः पूर्वमग्निसृष्टिरेवमाम्नायते- “अथ यो गर्भो ऽन्तरासीत्, सो ऽग्निरसृज्यत । स यदस्य सर्वस्याग्रमसृज्यत, तस्मादग्रिर्ह वै तमग्निरित्याचक्षते परोक्षम्”- (श. प. ६ । १ । १ । ११) इति ॥ २८॥

Eggeling
  1. They (the animals) stand facing the east, first the horse, then the ass, then the he-goat; for this

is their proper order. For that horse (aśva) is the tear (aśru) which there (at the creation) formed itself; and that ass (rāsabha) is that which, as it were, cried (ras); and that he-goat (aja, unborn) is the juice which adhered to the shell; and that clay which they are about to fetch is nothing else than the shell (of the egg): for it was from these forms that he was created at first 20, and from them he thus produces him.

२९

विश्वास-प्रस्तुतिः

ते᳘ दक्षिणत᳘स्तिष्ठन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ नो यज्ञं᳘ दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएतं व्व᳘ज्रमपश्यन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘ ऽएते᳘न व्व᳘ज्रेण दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत त᳘थै᳘वैतद्य᳘जमान ऽएते᳘न ऽव्व᳘ज्रेण दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुते॥

मूलम् - श्रीधरादि

ते᳘ दक्षिणत᳘स्तिष्ठन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ नो यज्ञं᳘ दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएतं व्व᳘ज्रमपश्यन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘ ऽएते᳘न व्व᳘ज्रेण दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत त᳘थै᳘वैतद्य᳘जमान ऽएते᳘न ऽव्व᳘ज्रेण दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुते॥

मूलम् - Weber

ते᳘ दक्षिणत᳘स्तिष्ठन्ति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ नो यज्ञं᳘ दक्षिणतो र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एतं व᳘ज्रमपश्यन्नमु᳘मेॗवादित्य᳘मसौ वा᳘ आदित्य᳘ एषो᳘ ऽश्वस्त᳘ एते᳘न व᳘ज्रेण दक्षिणतो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्रा᳘ एतं᳘ यज्ञ᳘मतन्वत त᳘थैॗवैतद्य᳘जमान एते᳘न व᳘ज्रेण दक्षिणतो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्रा᳘ एतं᳘ यज्ञं᳘ तनुते॥

मूलम् - विस्वरम्

ते दक्षिणतस्तिष्ठन्ति । एतद्वै देवा अबिभयुः- यद्वै नो यज्ञं दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति । त ऽएतं वज्रमपश्यन्- अमुमेवादित्यम् । असौ वा ऽआदित्य एषो ऽश्वः । त ऽएतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र ऽएतं यज्ञमतन्वत । तथैवैतद्यजमान एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र ऽएतं यज्ञं तनुते ॥ २९ ॥

सायणः

तेषां पशूनामाहवनीयस्य दक्षिणतो ऽवस्थानं विधत्ते- ते दक्षिणतस्तिष्ठन्तीति । दक्षिणदेशे ऽवस्थानं प्रशंसितुमाह- एतद्वै देवा अबिभयुरिति । ‘एतद्’ सप्तम्या लुक् (पा. सू. ७ । १ । ३९ ।) एतस्मिन्नवकाशे ‘देवाः’ भीतवन्तः । ‘यत्’ यस्मात् ‘नः’ अस्मदीयं ‘दक्षिणतः’ प्रदेशे ‘नाष्ट्रा’ नाशकानि ‘रक्षांसि’ न- ‘हन्युः’ न बाधेरन् ‘इति’ । अथवा ‘यत्’ यथा ‘न हन्युरिति’ हननाभावोपायं देवाः चिन्तितवन्त इत्यर्थः । ‘ते एते’ देवाः ‘यज्ञं’ वज्ररूपम् अमुमादित्यम् अपश्यन् । अत्रादित्यस्य कः प्रसङ्ग इत्यत आह- असौ वा आदित्य एषो ऽश्व इति । यो ऽयमश्वो ऽत्र त्रिवृन्मुञ्जरशनाबद्धः, स हि आदित्यः । तथा च तैत्तिरीयकम्- “अमुमादित्यमश्वं श्वेतं भूतं दक्षिणामनयन्” इति । ततस्तेन वज्ररूपादित्यात्मना अश्वेन सर्वाणि यज्ञविघातीनि रक्षांसि अपहत्य भयरहिते नाशकरहिते स्थाने ‘एतम्’ अग्न्याख्यं यज्ञं कृतवन्तः पूर्वं देवाः । तथैव ‘एतत्’ इदानीं यजमानः ‘दक्षिणतः’ स्थितेन अश्वेन ‘यज्ञं’ निर्बाधमनुतिष्ठतीति । अत्र कात्यायनः- “उत्तरतः आहवनीयस्यारत्निमात्र उपयतस्तीक्ष्णा वैणवी सुषिरा ऽभ्रिः कल्माष्यभावे ऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा”- (का. श्रौ. सू. १६ । ४८) इति पूर्वोक्ताहवनीयस्य अरत्निमात्रे उत्तरतः प्रादेशमात्री अरत्निमात्री वा उभयतः पार्श्वयोस्तीक्ष्णाग्रा कल्माषलक्षणवेणुनिर्मिता अन्तःसुषिरा अभ्रिः खननसाधनस्थानीयकल्माषलक्षितत्वासम्भवे ‘अकल्माषी’ कल्माषलक्षणरहिता सुषिरा कार्येति तस्यार्थः ॥ २९ ॥

Eggeling
  1. They stand on the south side;–for the gods at that time were afraid, lest the Rakshas, the fiends, should smite their sacrifice from the south. They saw that thunderbolt, yonder sun; for this horse is indeed yonder sun; and by means of that thunderbolt they drove off the Rakshas, the fiends, from the south, and spread this sacrifice in a place free from danger and devilry. And in like manner does the Sacrificer now by this thunderbolt drive off the Rakshas, the fiends, from the south, and spread this sacrifice in a place free from danger and devilry.

३०

विश्वास-प्रस्तुतिः

दक्षिणत᳘ ऽआहवनी᳘यो भ᳘वति॥
(त्यु) उत्तरत᳘ ऽएषा᳘ ऽभ्रिरु᳘पशेते वृ᳘षा वा᳘ ऽआहवनी᳘यो योषा᳘ ऽभ्रिर्दक्षिणतो वै वृ᳘षा यो᳘षामु᳘पशेते ऽरत्निमा᳘त्रे ऽरत्निमात्राद्धि वृ᳘षा यो᳘षामुपशे᳘ते[[!!]]॥

मूलम् - श्रीधरादि

दक्षिणत᳘ ऽआहवनी᳘यो भ᳘वति॥
(त्यु) उत्तरत᳘ ऽएषा᳘ ऽभ्रिरु᳘पशेते वृ᳘षा वा᳘ ऽआहवनी᳘यो योषा᳘ ऽभ्रिर्दक्षिणतो वै वृ᳘षा यो᳘षामु᳘पशेते ऽरत्निमा᳘त्रे ऽरत्निमात्राद्धि वृ᳘षा यो᳘षामुपशे᳘ते[[!!]]॥

मूलम् - Weber

दक्षिणत᳘ आहवनी᳘यो भ᳘वति॥
उत्तरत᳘ एषा᳘भ्रिरु᳘पशेते वृ᳘षा वा᳘ आहवनी᳘यो योषा᳘भ्रिर्दक्षिणतो वै वृ᳘षा यो᳘षामु᳘पशेते ऽरत्निमाॗत्रे ऽरत्निमात्राद्धि वृ᳘षा यो᳘षामुपशेते᳟॥

मूलम् - विस्वरम्

दक्षिणत आहवनीयो भवति । उत्तरत एषा ऽभ्रिरुपशेते । वृषा वा ऽआहवनीयो योषा ऽभ्रिः। दक्षिणतो वै वृषा योषामुपशेते ऽरत्निमात्रे । अरत्निमात्राद्धि वृषा योषामुपशेते ॥ ३० ॥

सायणः

तदिदं सार्थवादं विधत्ते- दक्षिणत आहवनीयो भवतीत्यादिना “तामादत्ते-” इत्यतः प्राक्तनेन वाक्यसन्दर्भेण- ‘एषा’ वक्ष्यमाणा ऽभ्रिः (अस्मिन्नेव ब्राह्मणे ऽग्रे ३८ कण्डिकायाम्) ‘अभ्रिः’ ‘उपशेते’ तिष्ठते । आहवनीयाभ्र्योः पुंस्त्रीलिङ्गसाम्यात् स्त्रीपुंसात्मना प्रशंसति- वृषा वा आहवनीय इति । ‘वृषा’ पुरुषः, ‘योषां’ स्त्रियम्, ‘दक्षिणतः’ स्त्रियाः दक्षिणप्रदेशे ‘उपशेते’ आहवनीयाभ्र्योर्मध्यप्रदेशस्य व्यवधानस्वरूपतामाह- अरत्निमात्र इति । एतदपि स्त्रीपुंसयोर्योजयति- अरत्निमात्रादिति । स्त्रीपुंसयोर्मध्ये श्वासादिसञ्चाराय, सम्बन्धपरिहाराय च अरत्निमात्रो ऽवकाशो युक्त इत्यर्थः ॥ ३० ॥

Eggeling
  1. On the right (south) side is the Āhavanīya fire, and on the left (north) lies that spade; for the Āhavanīya (m.) is a male, and the spade (abhri, f.) a female, and the male lies on the right side of the female 21. [It lies] at a cubit’s distance, for at a cubit’s distance the male lies by the female.

३१

विश्वास-प्रस्तुतिः

सा᳘ व्वैणवी᳘ स्यात्॥
(द) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्रामत्स᳘ व्वेणुं प्रा᳘विशत्त᳘स्मात्स᳘ सुषिरः स ऽएता᳘नि व्व᳘र्माण्यभि᳘तो ऽकुरुत प᳘र्व्वाण्य᳘ननुप्रज्ञानाय य᳘त्र यत्र निर्ददा᳘ह ता᳘नि कल्मा᳘षाण्यभवन्॥

मूलम् - श्रीधरादि

सा᳘ व्वैणवी᳘ स्यात्॥
(द) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्रामत्स᳘ व्वेणुं प्रा᳘विशत्त᳘स्मात्स᳘ सुषिरः स ऽएता᳘नि व्व᳘र्माण्यभि᳘तो ऽकुरुत प᳘र्व्वाण्य᳘ननुप्रज्ञानाय य᳘त्र यत्र निर्ददा᳘ह ता᳘नि कल्मा᳘षाण्यभवन्॥

मूलम् - Weber

सा᳘ वैणवी᳘ स्यात्॥
अग्नि᳘र्देवे᳘भ्य उ᳘दक्रामत्स᳘ वेणुम् प्रा᳘विशत्त᳘स्मात्स᳘ सुषिरः स एता᳘नि व᳘र्माण्यभि᳘तो ऽकुरुत प᳘र्वाण्य᳘ननुप्रज्ञानाय य᳘त्र-यत्र निददा᳘ह ता᳘नि कल्मा᳘षाण्यभवन्॥

मूलम् - विस्वरम्

सा वैणवी स्यात् । अग्निर्देवेभ्य उदक्रामत् । स वेणुं प्राविशत् । तस्मात्स सुषिरः । स एतानि वर्माण्यभितो ऽकुरुत- पर्वाणि- अननुप्रज्ञानाय । यत्र-यत्र निर्ददाह- तानि कल्माषाण्यभवन् ॥ ३१ ॥

सायणः

सा वैणवीति । वेणुनैव कार्येति । अत्रेतिहासमाह- अग्निर्देवभ्य इति । यतो वेणुं प्रविष्टवान् अतः ‘सुषिरः’ अन्तःसुषिरः प्रविष्टः ‘सः’ अग्निः ‘अननुप्रज्ञानाय’ यथा ऽन्ये मां न जानीयुः, तथा स्वाच्छादनाय यानि ‘वर्माणि’ पार्श्वयोरकरोत्, तानि ‘पर्वाणि’ सन्धयः वेणोः प्रवेशकाले ‘यत्र-यत्र’ प्रदेशे अग्निः ‘ददाह’ ‘तानि’ ‘कल्माषाणि’ कृष्णबिन्दुचिह्नानि ‘अभवन्’ ॥ ३१ ॥

Eggeling
  1. It should be made of bamboo. Agni went away from the gods. He entered into a bamboo-stem; whence that is hollow. On both sides he made himself those fences, the knots, so as not

to be found out; and wherever he burnt through, those spots came to be.

३२

विश्वास-प्रस्तुतिः

(न्त्सा᳘) सा᳘ कल्माषी᳘ स्यात्॥
(त्सा᳘) सा᳘ ह्याग्नेयी य᳘दि कल्माषीं न᳘ व्विन्देदप्य᳘कल्माषी स्यात्सु᳘षिरा तु᳘ स्या᳘त्सै᳘वाग्नेयी᳘ सैषा यो᳘निरग्नेर्य᳘द्वेणु᳘रग्नि᳘रियं मृन्न वै यो᳘निर्ग᳘र्भᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭ सायै यो᳘नेर्वै जा᳘यमानो जायते यो᳘नेर्जा᳘यमानो जायाता ऽइ᳘ति॥

मूलम् - श्रीधरादि

(न्त्सा᳘) सा᳘ कल्माषी᳘ स्यात्॥
(त्सा᳘) सा᳘ ह्याग्नेयी य᳘दि कल्माषीं न᳘ व्विन्देदप्य᳘कल्माषी स्यात्सु᳘षिरा तु᳘ स्या᳘त्सै᳘वाग्नेयी᳘ सैषा यो᳘निरग्नेर्य᳘द्वेणु᳘रग्नि᳘रियं मृन्न वै यो᳘निर्ग᳘र्भᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭ सायै यो᳘नेर्वै जा᳘यमानो जायते यो᳘नेर्जा᳘यमानो जायाता ऽइ᳘ति॥

मूलम् - Weber

सा᳘ कल्माषी᳘ स्यात्॥
साॗ ह्याग्नेयी य᳘दि कल्माषीं न᳘ विन्देदप्य᳘कल्माषी स्यात्सुषिरा तु᳘ स्याॗत्सैॗवाग्नेयीॗ सैषा यो᳘निरग्नेर्य᳘द्वेणु᳘रग्नि᳘रियम् मृन्न वै यो᳘निर्ग᳘र्भᳫं हिनस्त्य᳘हिंसायै यो᳘नेर्वै जा᳘यमानो जायते यो᳘नेर्जा᳘यमानो जायाता इ᳘ति॥

मूलम् - विस्वरम्

सा कल्माषी स्यात् । सा ह्याग्नेयी । यदि कल्माषीं न विन्देद्- अप्यकल्माषी स्यात् । सुषिरा तु स्यात् । सैवाग्नेयी । सैषा योनिरग्नेः- यद्वेणुः । अग्निरियं मृत् । न वै योनिर्गर्भं हिनस्ति- अहिंसायै । योनैर्वै जायमानो जायते । योनेर्जायमानो जायाता ऽइति ॥ ३२ ॥

सायणः

सा कल्माषीत्यादि । अतः ‘सा’ अभ्रिः ‘कल्माषी’ कल्माषकलितवेणुमयी कर्त्तव्या । अतः कल्माषो वेणुराग्नेयः । यदि कल्माषीति । कल्माषासम्भवे अन्यरूपो वेणुः कार्य इत्यर्थत उक्तः । तत्र कल्माषाकल्माषयोः सुषिरत्वं तु सर्वथा सम्पाद्यमित्याह- सुषिरा तु स्यादिति । यस्मात् सुषिरो वेणुरग्नेर्योनिः “सैषा योनिरग्नेर्यद् वेणुः"- इति वेणोरग्निरूपत्वं प्रागुक्तम्, अतो ऽग्निरूपमृत्तिकाखनने अग्नियोनिरूपाभ्रिकरणम् स्वाद् ‘योनेः’ सकाशादेव अग्निः ‘जायातै इति’ एवमर्थमित्यर्थः ॥ ३२ ॥

Eggeling
  1. It (the spade) should be spotted, for such a one is of Agni’s nature. If he cannot procure a spotted one, it may be unspotted, but hollow it must be, to guard (Agni) from injury 22;–(for) such a one alone is of Agni’s nature; that, the bamboo, is Agni’s womb; and this (lump of) clay is Agni; and the womb does not injure the child. For it is from a womb that he who is born is born: ‘from the womb he (Agni) shall be born when he is born,’ so he thinks.

३३

विश्वास-प्रस्तुतिः

प्रादेशमात्री᳘ स्यात्॥
(त्प्रा) प्रादेशमात्र᳘ᳫँ᳘ हीद᳘मभि व्वाग्वदत्यरत्निमात्री᳘ त्वेव᳘ भवति बाहुर्व्वा᳘ ऽअरत्नि᳘र्बाहु᳘नो वै᳘ व्वी᳘र्यं क्रियते व्वीर्य᳘संमितैव त᳘द्भवति॥

मूलम् - श्रीधरादि

प्रादेशमात्री᳘ स्यात्॥
(त्प्रा) प्रादेशमात्र᳘ᳫँ᳘ हीद᳘मभि व्वाग्वदत्यरत्निमात्री᳘ त्वेव᳘ भवति बाहुर्व्वा᳘ ऽअरत्नि᳘र्बाहु᳘नो वै᳘ व्वी᳘र्यं क्रियते व्वीर्य᳘संमितैव त᳘द्भवति॥

मूलम् - Weber

प्रादशमात्री᳘ स्यात्॥
प्रादेशमाॗत्रᳫं हीद᳘मभि वाग्वदत्यरत्निमात्रीॗ त्वेव᳘ भवति बाहुर्वा᳘ अरत्नि᳘र्बाहु᳘नो वै᳘ वीर्यं᳘ क्रियते वीर्य᳘सम्मितैव त᳘द्भवति॥

मूलम् - विस्वरम्

प्रादेशमात्री स्यात् । प्रादेशमात्रं हीदमभि वाग्वदति । अरत्निमात्री त्वेव भवति । बाहुर्वा ऽअरत्निः । बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति ॥ ३३ ॥

सायणः

अभ्रेः प्रादेशप्रमाणत्वमरत्निप्रमाणत्वं च कल्पितम्, तत्रारत्रिमात्रत्वमभिमतमिति दर्शयितुं प्रादेशमात्रपक्षमनुवदति- प्रादेशमात्रीति । ‘हि’ यस्मात् इदानीं वागिन्द्रियं प्रादेशप्रमाणमभिलक्ष्यते; प्रथमं ताल्वोष्ठपुटव्यापारेण प्रादेशपर्यन्तं वाचमुच्चार्य ततो देशसंयोगविभागाभ्यां परश्रोत्रं गृह्णाति । अथवा, वाक्पदेन जिह्वोच्यते; सा हि प्रादेशमात्री सती वाग् वदति । यद्वा, वाक्पदेन प्राणवायुर्लक्ष्यते; स हि नासापुटान्निस्सरन् प्रादेशपर्यन्तं गच्छतीत्यागमसिद्धम् । स्वाभिमतं पक्षमाह- अरत्निमात्री त्वेवेति । ‘तु’- शब्दः पूर्वपक्षव्यावृत्त्यर्थः । बाह्वेकदेशत्वादरत्नेः समुदायभूतो बाहुरेकदेशेनापि व्यवह्रियते, तत्प्रमाणकरणे अभ्रिरपि बाहुकृतवीर्यंसम्मितैव भवति । अन्यत्र अभ्रेरेकतस्तीक्ष्णत्वमुभयतस्तीक्ष्णत्वञ्चोक्तम् । यदाहापस्तम्बः- “उभयतः क्ष्णुमन्यतरतः क्ष्णुं वा”- (आ. श्रौ. सू. १६ । १ । ७) इति ॥ ३३ ॥

Eggeling
  1. It may be a span long, for the voice here speaks but as far as a span’s distance 23. It is, however, a cubit long, for the cubit is the arm, and strength is exerted by the arm: it thus becomes equal to his strength.

३४

विश्वास-प्रस्तुतिः

(त्य) अन्यतः क्ष्णु᳘त्स्यात्॥
(द) अन्यतर᳘तो᳘ हीदं᳘ व्वाचः᳘ क्ष्णुत᳘मुभयतः क्ष्णु᳘त्त्वेव᳘ भवत्युभय᳘तो᳘ हीदं᳘ व्वाचः᳘ क्ष्णुतं य᳘देनया दै᳘वं च व्व᳘दति मानुषं चा᳘थो य᳘त्सत्यं चा᳘नृतं च त᳘स्मादुभयतः क्ष्णुत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अन्यतः क्ष्णु᳘त्स्यात्॥
(द) अन्यतर᳘तो᳘ हीदं᳘ व्वाचः᳘ क्ष्णुत᳘मुभयतः क्ष्णु᳘त्त्वेव᳘ भवत्युभय᳘तो᳘ हीदं᳘ व्वाचः᳘ क्ष्णुतं य᳘देनया दै᳘वं च व्व᳘दति मानुषं चा᳘थो य᳘त्सत्यं चा᳘नृतं च त᳘स्मादुभयतः क्ष्णुत्[[!!]]॥

मूलम् - Weber

अन्यतःक्ष्णु᳘त्स्यात्॥
अन्यतर᳘रो हीदं᳘ वाचः᳘ क्ष्णुत᳘मुभयतःक्ष्णुॗत्त्वेव᳘ भवत्युभय᳘तोॗ हीदं᳘ वाचः᳘ क्ष्णुतं य᳘देनया दै᳘वं च व᳘दति मानुषं चा᳘थो य᳘त्सत्यं चा᳘नृतं च त᳘स्मादुभयतःक्ष्णु᳘त्॥

मूलम् - विस्वरम्

अन्यतः क्ष्णुत्त्वेव भवति । अन्यतरतो हीदं वाचः क्ष्णुतम्- उभयतः क्ष्णुत्त्वेव भवति । उभयतो हीदं वाचः क्ष्णुतम्- यदेनया दैवं च वदति, मानुषं च । अथो यत् सत्यञ्चानृतं च- तस्मादुभयतः क्ष्णुत् ॥ ३४ ॥

सायणः

तत्र अग्रमूलयोरुभयत्र तीक्ष्णत्वं सिद्धान्तयितुं पूर्वपक्षमनुवदति- अन्यतः क्ष्णुत् स्यादिति । “क्ष्णु, तेजने” (धा. पा. अ. प. २७) । तेजनं नाम निशितत्वम् । अन्यतरतो हीदं वाच इति । वाचो निशितत्वमन्यतरतो वचनापेक्षया । वाक्पदेन जिह्वोच्यते, तस्यास्तु एकत एव तैक्ष्ण्यम्; अग्राद्धि वचनव्यापार इति । उभयतः क्ष्णुत्त्वेवेति । ‘तु’ शब्दः पूर्वपक्षनिवृत्त्यर्थः । निशितपार्श्वद्वया कार्येत्यर्थः । ‘यद्’ यस्मात् ‘एनया’ वाचा जिह्वया ‘दैवं’ देवसम्बन्धि वाक्यं संस्कृतम् ‘मानुषं च’ मनुष्यसम्बन्धिभाषामयञ्च वाक्यं वदति, अथवा एकयैव वाचा ‘सत्यम्’ ‘अनृतं’ मिथ्या च वदति, अत उभयतः क्ष्णुत्त्वम् ॥ ३४ ॥

Eggeling
  1. It may be sharp on one side only, for on one of the two sides is there a keen edge to this speech of ours 24. But indeed it is one that is sharp on both sides, for on both sides is there a keen edge to this speech of curs, inasmuch as it speaks both what is divine and what is human 25, and both truth and untruth: therefore it is one that is sharp on both sides.

३५

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्वे᳘वोभयतः क्ष्णुत्[[!!]]॥
(द᳘) अ᳘तो वा ऽअ᳘भ्रेर्व्वी᳘र्यं[[!!]] य᳘तो ऽस्यै क्ष्णुत᳘मुभय᳘त ऽए᳘वास्यामेत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्वे᳘वोभयतः क्ष्णुत्[[!!]]॥
(द᳘) अ᳘तो वा ऽअ᳘भ्रेर्व्वी᳘र्यं[[!!]] य᳘तो ऽस्यै क्ष्णुत᳘मुभय᳘त ऽए᳘वास्यामेत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

य᳘द्वेॗवोभयतःक्ष्णु᳘त्॥
अ᳘तो वा अ᳘भ्रेर्वीर्यं᳘ य᳘तो ऽस्यै क्ष्णुत᳘मुभय᳘त एॗवास्यामेत᳘द्वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेवोभयतः क्ष्णुत् । अतो वा ऽअभ्रेर्वीर्यम् । यतो ऽस्यै क्ष्णुतम्- उभयत एवास्यामेतद्वीर्यं दधाति ॥ ३५ ॥

सायणः

उभयतः क्ष्णुत्त्वं प्रकारान्तरेण स्तोतुमनुवदति- यद्वेवोभयतः क्ष्णुदिति । ‘अस्यै’ षष्ठ्यर्थे चतुर्थी । (पा. सू. २ । ३ । ६२ वा.) ‘यतः’ यस्मिन् प्रदेशे ‘क्ष्णुत्त्वं’ निशितत्वम्, तस्मादेव प्रदेशात् ‘अभ्रेः वीर्यम्’, ‘अतः’ उभयतस्तैक्ष्ण्यकरणेन वीर्यमेव निहितवान् भवति ॥ ३५ ॥

Eggeling
  1. And, again, why it is sharp on both sides,–the strength of the spade doubtless is on that side on which there is its sharp edge: he thus lays strength into it on both sides.

३६

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वोभयतः क्ष्णु᳘त्॥
(दे) एतद्वा᳘ ऽएनं देवा᳘ ऽअनुवि᳘द्यैभ्यो᳘ लोके᳘भ्यो ऽखनंस्त᳘थै᳘वैनमय᳘मेत᳘दनुवि᳘द्यैभ्यो᳘ लोके᳘भ्यः खनति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वोभयतः क्ष्णु᳘त्॥
(दे) एतद्वा᳘ ऽएनं देवा᳘ ऽअनुवि᳘द्यैभ्यो᳘ लोके᳘भ्यो ऽखनंस्त᳘थै᳘वैनमय᳘मेत᳘दनुवि᳘द्यैभ्यो᳘ लोके᳘भ्यः खनति॥

मूलम् - Weber

य᳘द्वेॗवोभयतःक्ष्णु᳘त्॥
एतद्वा᳘ एनं देवा᳘ अनुवि᳘द्यैभ्यो᳘ लोके᳘भ्यो ऽखनस्त᳘थैॗवैनमय᳘मेत᳘दनुवि᳘द्यैभ्यो᳘ लोके᳘भ्यः खनति॥

मूलम् - विस्वरम्

यद्वेवोभयतः क्ष्णुत् । एतद्वा ऽएनं देवा अनुविद्यैभ्यो लोकेभ्यो ऽखनन् । तथैवैनमयमेतदनुविद्यैभ्यो लोकेभ्यः खनति ॥ ३६ ॥

सायणः

यद्वेवोभयत इति । ‘एतत्’ एतया अभ्र्या निशिताग्रया ‘एनम्’ मृद्रूपमग्निम् ‘अनुविद्य’ ज्ञात्वा ‘एभ्यो लोकेभ्यः’ सकाशात् ‘अखनन्’ अवदारितवन्तः । ‘तथैव’ ‘अयं’ यष्टा ‘एतया’ अभ्र्या लोकत्रयसकाशात् ‘खनति’ मृदात्मकमग्निमित्यर्थः ॥ ३६ ॥

Eggeling
  1. And, again, why it is sharp on both sides,–when the gods had there discovered him (Agni), they dug him out from these worlds; and in like manner does he now, after discovering him, dig him out from these worlds.

३७

विश्वास-प्रस्तुतिः

स यदि᳘ति ख᳘नति॥
त᳘देनमस्मा᳘ल्लोका᳘त्खनत्य᳘थ य᳘दू᳘र्ध्वोच्च᳘रति त᳘दमु᳘ष्माल्लोकाद᳘थ यद᳘न्तरेण संच᳘रति त᳘दन्तरिक्षलोकात्स᳘र्व्वेभ्य ऽए᳘वैनमेत᳘देभ्यो᳘ लोके᳘भ्यः खनति॥

मूलम् - श्रीधरादि

स यदि᳘ति ख᳘नति॥
त᳘देनमस्मा᳘ल्लोका᳘त्खनत्य᳘थ य᳘दू᳘र्ध्वोच्च᳘रति त᳘दमु᳘ष्माल्लोकाद᳘थ यद᳘न्तरेण संच᳘रति त᳘दन्तरिक्षलोकात्स᳘र्व्वेभ्य ऽए᳘वैनमेत᳘देभ्यो᳘ लोके᳘भ्यः खनति॥

मूलम् - Weber

स यदि᳘ति ख᳘नति॥
त᳘देनमस्मा᳘ल्लोका᳘त्खनत्य᳘थ य᳘दूॗर्ध्वोच्च᳘रति त᳘दमु᳘ष्माल्लोकाद᳘थ यद᳘न्तरेण संच᳘रति त᳘दन्तरिक्षलोकात्स᳘र्वेभ्य एॗवैनमेत᳘देभ्या᳘ लोके᳘भ्यः खनति॥

मूलम् - विस्वरम्

स यदिति खनति- तदेनमस्माल्लोकात्खनति । अथ यदूर्ध्वोच्चरति । तदमुष्माल्लोकात् । अथ यदन्तरेण सञ्चरति । तदन्तरिक्षलोकात् । सर्वेभ्य एवैनमेतदेभ्यो लोकेभ्यः खनति ॥ ३७ ॥

सायणः

कथं यजमानेनैकया अभ्र्या लोकत्रयादग्नेः खननमित्याशङ्क्य तदुपपादयति- स यदिति खनतीति । ‘इति’ शब्दो ऽभिनेयप्रदर्शने, मृदः खननव्यापारमभिनयेन दर्शयतीत्यर्थः । अभ्रेः खननव्यापारे तावत् प्रथममवक्षेपणमुत्क्षेपणम् मध्ये संचारक्रिया चेति व्यापारत्रयमस्ति, तस्मादभ्रेर्व्यापारत्रयेण पृथिव्यादिलोकत्रयादग्नेः खननमिति तात्पर्यार्थः ॥ ३७ ॥

Eggeling
  1. When it digs thus (downwards), then it digs him out from this world; and when it moves upwards, then from yonder world; and when it moves about between the two, then from the air-world: it thus digs him out from all these worlds.

३८

विश्वास-प्रस्तुतिः

तामा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे गायत्रे᳘ण च्छ᳘न्दसा᳘ ऽङ्गिरस्वदि᳘ति सवितृ᳘प्रसूत ऽए᳘वैनामेत᳘देता᳘भिर्देव᳘ताभिरा᳘दत्ते गायत्रे᳘ण च्छ᳘न्दसा᳘ ऽथो ऽअस्यां गायत्रं छ᳘न्दो दधाति पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरी᳘ष्यमङ्गिरस्वदा᳘भरे᳘ति[[!!]] पश᳘वो वै पु᳘रीषं पृथिव्या᳘ ऽउपस्थादग्निं᳘[[!!]] पश᳘व्यमग्निवदा᳘भरे᳘त्येतत्त्रै᳘ष्टुभेन[[!!]] च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति त᳘देनां त्रै᳘ष्टुभेन च्छ᳘न्दसा᳘ ऽऽदत्ते᳘ ऽथो ऽअस्यां त्रै᳘ष्टुभं छ᳘न्दो दधाति॥

मूलम् - श्रीधरादि

तामा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामा᳘ददे गायत्रे᳘ण च्छ᳘न्दसा᳘ ऽङ्गिरस्वदि᳘ति सवितृ᳘प्रसूत ऽए᳘वैनामेत᳘देता᳘भिर्देव᳘ताभिरा᳘दत्ते गायत्रे᳘ण च्छ᳘न्दसा᳘ ऽथो ऽअस्यां गायत्रं छ᳘न्दो दधाति पृथिव्याः᳘ सध᳘स्थादग्निं᳘ पुरी᳘ष्यमङ्गिरस्वदा᳘भरे᳘ति[[!!]] पश᳘वो वै पु᳘रीषं पृथिव्या᳘ ऽउपस्थादग्निं᳘[[!!]] पश᳘व्यमग्निवदा᳘भरे᳘त्येतत्त्रै᳘ष्टुभेन[[!!]] च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति त᳘देनां त्रै᳘ष्टुभेन च्छ᳘न्दसा᳘ ऽऽदत्ते᳘ ऽथो ऽअस्यां त्रै᳘ष्टुभं छ᳘न्दो दधाति॥

मूलम् - Weber

तामा᳘दत्ते॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् वितृ᳘प्रसूत एॗवैनामेत᳘देता᳘भिर्देव᳘ताभिरा᳘दत्ते गायत्रे᳘णपूष्णो ह᳘स्ताभ्यामा᳘ददे गायत्रे᳘ण छ᳘न्दसाङ्गिरस्वदि᳘ति स छ᳘न्दसा᳘थो अस्यां गायत्रं छ᳘न्दो दधाति पृथिव्याः᳘ सध᳘स्थादग्नि᳘म् पुरीष्य᳘मङ्गिरस्वदा᳘भरे᳘ति पश᳘वो वै पु᳘रीषम् पृथिव्या᳘ उप᳘स्थादग्नि᳘म् पशव्य᳘मग्निवदा᳘भरे᳘त्येतत्त्रै᳘ष्टुभेन छ᳘न्दसाङ्गिरस्वदि᳘ति त᳘देनां त्रै᳘ष्टुभेन छ᳘न्दसा᳘दत्ते᳘ ऽथो अस्यां त्रै᳘ष्टुभं छ᳘न्दो दधाति॥

मूलम् - विस्वरम्

तामादत्ते- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे । गायत्रण च्छन्दसा ऽङ्गिरस्वत्”- इति । सवितृप्रसूत एवैनामेतदेताभिर्देवताभिरादत्ते । गायत्रेण च्छन्दसा । अथो ऽअस्यां गायत्रं छन्दो दधाति । “पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर” इति । पशवो वै पुरीषम् । पृथिव्या उपस्थादग्निं पशव्यमग्निवदाभरेत्येतत् । “त्रैष्टुभेन च्छन्दसा ऽङ्गिरस्वत्”- (वा. सं. ११ । ९) इति । तदेनां त्रैष्टुभेन छन्दसा ऽऽदत्ते । अथो ऽअस्यां त्रैष्टुभं छन्दो दधाति ॥ ३८ ॥

सायणः

अभ्रेरादानं विधत्ते- तामादत्त इति । उत्तरत्र “त्रिभिरादत्ते”- इति आदाने त्रित्वसङ्ख्याविशिष्टानां मन्त्राणां विधानम्, अभ्रिं त्रिभिर्मन्त्रैराददीतेत्यर्थः । तत्र प्रथममन्त्रं विधत्ते- देवस्य त्वा सवितुरिति 26 । मन्त्रस्यायमर्थः- देवेन सवित्रा अनुज्ञात एवाहमध्वर्युः ‘अश्विनोः बाहुभ्यां’, ‘पूष्णो हस्ताभ्याम्’, ‘अङ्गिरस्वत्’ अङ्गिराः अग्निः स इव; अङ्गिरःपदात् उत्तरस्य वतुपः भसञ्ज्ञाविधानात् पदसञ्ज्ञानिबन्धनं रुत्वं न भवति, अग्निवत् । ‘गायत्रेण छन्दसा’ अभ्रिं ‘त्वाम् आददे’ । मन्त्रस्य तात्पर्यार्थमाह- सवितृप्रसूत एवैनामित्यादि । द्वितीयं विधत्ते- पृथिव्या इति । अग्निः त्वम् ‘पृथिव्याः’ ‘सधस्थात्’ उपस्थात् सहस्थानात् । पुरीष्यमिति, पुरीषपदेन पशवो ऽभिधीयन्ते; पशुहितम् । “तस्मै हितम्” (पा. सू. ५ । १ । ५) इति यत् प्रत्ययः । अग्निम् ‘अङ्गिरस्वत् आभर । “ह्रग्रहोर्भः” (पा. सू. ८ । २ । ३२ । वा.) इति हकारस्य ‘भकारः’ । किञ्च, ‘त्रैष्टुभेन च्छन्दसा’ अग्निवदाभरेति ॥

मन्त्रं व्याचष्टे- पशवो वै पुरीषमिति ॥ ३८ ॥

Eggeling
  1. He takes it up, with (Vāj. S. XI, 9), ‘At the impulse of the god Savitr̥, I take thee by the arms of the Aśvins, by the hands of Pūshan, by the Gāyatrī metre, Aṅgiras-like!’ By means of those deities he thus takes it up, impelled by Savitr̥; by the Gāyatrī metre: he thus imparts the Gāyatrī metre to it. ‘From the Earth’s seat, Aṅgiras-like, bring thou Agni Purīshya 27!’–

now soil means cattle: thus, ‘from the earth’s lap bring thou Agni, favourable to cattle, as Agni (did)!’–‘by the Trishṭubh metre, Aṅgiras-like!’ he thereby takes it with the Trishṭubh metre and thus lays into it the Trishṭubh metre.

३९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘भ्रिरसी᳘ति॥
(त्य᳘) अ᳘भ्रि᳘र्ह्येषा त᳘देनᳫँ᳭ सत्येना᳘दत्ते ना᳘र्यसी᳘ति व्व᳘ज्रो वा ऽअ᳘भ्रिर्यो᳘षा ना᳘री न वै यो᳘षा कं᳘चन᳘ हिनस्ति शम᳘यत्ये᳘वैनामेतद᳘हिᳫँ᳭सायै त्व᳘या व्वय᳘मग्नि᳘ᳫँ᳘ शकेम ख᳘नितुᳫँ᳭ सध᳘स्थ ऽए᳘तीदं वै᳘ सध᳘स्थं त्व᳘या व्वय᳘मग्नि᳘ᳫँ᳘ शकेम ख᳘नितुमस्मि᳘न्त्सध᳘स्थ ऽइ᳘त्येतज्जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति त᳘देनां जा᳘गतेन च्छ᳘न्दसा᳘ ऽऽदत्ते᳘ ऽथो ऽअस्यां जा᳘गतं च्छ᳘न्दो दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘भ्रिरसी᳘ति॥
(त्य᳘) अ᳘भ्रि᳘र्ह्येषा त᳘देनᳫँ᳭ सत्येना᳘दत्ते ना᳘र्यसी᳘ति व्व᳘ज्रो वा ऽअ᳘भ्रिर्यो᳘षा ना᳘री न वै यो᳘षा कं᳘चन᳘ हिनस्ति शम᳘यत्ये᳘वैनामेतद᳘हिᳫँ᳭सायै त्व᳘या व्वय᳘मग्नि᳘ᳫँ᳘ शकेम ख᳘नितुᳫँ᳭ सध᳘स्थ ऽए᳘तीदं वै᳘ सध᳘स्थं त्व᳘या व्वय᳘मग्नि᳘ᳫँ᳘ शकेम ख᳘नितुमस्मि᳘न्त्सध᳘स्थ ऽइ᳘त्येतज्जा᳘गतेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति त᳘देनां जा᳘गतेन च्छ᳘न्दसा᳘ ऽऽदत्ते᳘ ऽथो ऽअस्यां जा᳘गतं च्छ᳘न्दो दधाति॥

मूलम् - Weber

अ᳘भ्रिरसी᳘ति॥
अ᳘भ्रिॗर्ह्येषा त᳘देनᳫं सत्येना᳘दत्ते ना᳘र्यसी᳘ति व᳘ज्रो वा अ᳘भ्रिर्यो᳘षा ना᳘री न वै यो᳘षा कं᳘ चन᳘ हिनस्ति शम᳘यत्येॗवैनामेतद᳘हिंसायै त्व᳘या वय᳘मग्निं᳘ शकेम ख᳘नितुᳫं सध᳘स्थ ए᳘तीदं वै᳘ सध᳘स्थं त्व᳘या वय᳘मग्निं᳘ शकेम ख᳘नितुमस्मि᳘न्त्सध᳘स्थ इ᳘त्येतज्जा᳘गतेन छ᳘न्दसाङ्गिरस्वदि᳘ति त᳘देनां जा᳘गतेन छ᳘न्दसा᳘दत्ते᳘ ऽथो अस्यां जा᳘गतं छ᳘न्दो दधाति॥

मूलम् - विस्वरम्

“अभ्रिरसि”- इति । अभ्रिर्ह्येषा । तदेनं सत्येनादते । “नार्यसि”- इति । वज्रो वा अभ्रिः । योषा नारी, न वै योषा कंचन हिनस्ति । शमयत्येवैनामेतदहिंसायै । “त्वया वयमग्निं शकेम खनितुं सधस्थ ऽआ”-इति । इदं वै सधस्थम् । त्वया वयमग्निं शकेम खनितुमस्मिन्सधस्थ ऽइत्येतत् । “जागतेन च्छन्दसा ऽङ्गिरस्वत्”- (वा. सं. ११ । १०) इति । तदेनां जागतेन च्छन्दसा ऽऽदत्ते । अथो ऽअस्यां जागतं छन्दो दधाति ॥ ३९ ॥

सायणः

तृतीयं विधत्ते- अभ्रिरसीति । ‘अभ्रिः’ वज्रः ‘असि’ हननसाधनत्वादुभयोः, अभ्रिनामा ऽसि । ‘नारी’ स्त्री च ‘असि’; स्त्रीत्वारोपस्तस्यात्तत्कर्तृकहिंसोपशमनार्थः । किञ्च, ‘त्वया’ अभ्र्या ‘वयम्’ ‘सधस्थे’ पृथिव्याम्, अस्मिन् सहस्थाने ‘अग्निम्’ मृद्रूपं ‘खनितुं’ ‘शकेम’ शक्ता भूयास्म ‘जागतेन च्छन्दसा अङ्गिरस्वत्’ अग्निवत् शक्ता भूयास्मेति “शक्लृ शक्तौ” (धा. पा. स्वा. प. १५) आशीर्लिङि रूपम् ॥

मन्त्रं व्याचष्टे- अभ्रिर्ह्येषेति । अभ्रिरसीत्यनेन ‘सत्येन’ सह खनकः ‘एनां’ गृहीतवान् भवति । नार्यसीति । अस्य तात्पर्यमाह- वज्रो वा अभ्रिरिति । यथा योषा स्त्री न कञ्चन पुरुषं हिनस्ति, एवमभ्रेः स्त्रीत्वेन सा न कस्यापि हन्त्रीत्यर्थः सिद्धो भवति । सधस्थपदस्य विवरणम्- इदं वै सधस्थमिति ॥ ३९ ॥

Eggeling
  1. [Vāj. S. XI, 10] ‘A spade thou art,’–for a spade it is: he thus takes it by means of the truth;–‘A woman thou art!’–the spade is a thunderbolt, and the woman is a female, and a female injures no one: he thus appeases it so as not to do any injury. ‘By thee may we be able to dig out Agni in the seat!’ the seat no doubt is this (spot): thus, ‘By thee may we be able to dig out Agni in this seat (place).’–‘By the Jagatī metre, Aṅgiras-like!’ he thus takes it up by means of the Jagatī metre, and lays the Jagatī metre into it.

४०

विश्वास-प्रस्तुतिः

त्रिभिरा᳘दत्ते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदा᳘दत्ते त्रिभि᳘रादाया᳘थैनां चतुर्थे᳘नाभि᳘मन्त्रयत ऽएतद्वा᳘ ऽएनां देवा᳘स्त्रिभि᳘रादाया᳘थास्यां चतुर्थे᳘न व्वीर्य᳘मदधुस्त᳘थै᳘वैनामय᳘मेत᳘त्त्रिभि᳘रादाया᳘थास्यां चतुर्थे᳘न व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

त्रिभिरा᳘दत्ते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदा᳘दत्ते त्रिभि᳘रादाया᳘थैनां चतुर्थे᳘नाभि᳘मन्त्रयत ऽएतद्वा᳘ ऽएनां देवा᳘स्त्रिभि᳘रादाया᳘थास्यां चतुर्थे᳘न व्वीर्य᳘मदधुस्त᳘थै᳘वैनामय᳘मेत᳘त्त्रिभि᳘रादाया᳘थास्यां चतुर्थे᳘न व्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

त्रिभिरा᳘दत्ते॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनामेतदा᳘दत्ते त्रिभि᳘रादाया᳘थैनां चतुर्थे᳘नाभि᳘मन्त्रयत एतद्वा᳘ एनां देवा᳘स्त्रिभि᳘रादाया᳘थास्यां चतुर्थे᳘न वीर्य᳘मदधुस्त᳘थैॗवैनामय᳘मेत᳘त्त्रिभि᳘रादाया᳘थास्यां चतुर्थे᳘न वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

त्रिभिरादत्ते । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनामेतदादत्ते । त्रिभिरादायाथैनां चतुर्थेनाभिमन्त्रयते । एतद्वा ऽएनां देवास्त्रिभिरादायाथास्यां चतुर्थेन वीर्यमदधुः । तथैवैनामयमेतत्त्रिभिरादायाथास्यां चतुर्थेन वीर्यं दधाति ॥ ४० ॥

सायणः

अभ्र्यादाने विनियुक्तानां मन्त्राणां त्रित्वसङ्ख्यां प्रशंसितुमनुवदति- त्रिभिरादत्ते त्रिवृदग्निरिति । त्रिभिरादत्ताया अभ्रेश्चतुर्थेन मन्त्रेणाभिमन्त्रणं विधत्ते- त्रिभिरादायाथैनां चतुर्थेनाभिमन्त्रयत इति 28 । ‘अथ’- शब्दो व्यवधानाभावं सूचयति । इदमेवोत्तरत्र तावत् “चतुर्भिरादत्ते”- इत्यस्य वाक्यस्य बीजम् । आदानसमये एवाभिमन्त्रणाच्चत्वारो ऽप्यादाने विनियुक्ता इति पक्षस्य बीजमस्ति; खननादिवत् स्पष्टव्यापाराभावात्, अश्वाद्यभिमन्त्रणवत् पृथगवस्थिताया अभ्रेरभिमन्त्रणत्वाच्च । अत एव त्रिभिरादाय चतुर्थेनैतत्पूर्वमन्त्रसङ्ख्यानुवादपुरस्सरं चतुर्थत्वोक्तिरभिमन्त्रणमन्त्रस्येति तात्पर्यम् । अभिमन्त्रणं नाम वीर्याधानमिति प्रशंसति- अथास्यां चतुर्थेन वीर्यमदधुरिति ॥ ४० ॥

Eggeling
  1. With three (formulas) he takes it up,–threefold is Agni: as great as Agni is, as great as is his measure, by so much he thus takes it. Having taken it up with three (formulas), he addresses it with a fourth; for the gods having thus taken it with three (formulas), then laid vigour into it by means of a fourth; and in like manner does he now, after taking it up with three (formulas), lay strength into it with the fourth.

४१

विश्वास-प्रस्तुतिः

ह᳘स्त ऽआधा᳘य सविते᳘ति॥
ह᳘स्ते᳘ ह्यस्या᳘हिता[[!!]] भ᳘वति बि᳘भ्रद᳘भ्रिमि᳘ति बिभ᳘र्ति᳘ ह्येनाᳫँ᳭ हिरण्य᳘यीमि᳘ति हिरण्य᳘यी᳘ ह्येषा या᳘ च्छन्दोम᳘य्यग्नेर्ज्यो᳘तिर्निचाय्ये᳘त्यग्नेर्ज्यो᳘तिर्दृष्ट्वे᳘त्येत᳘त्पृथिव्या ऽअध्या᳘भरदि᳘ति पृथिव्यै᳘ ह्येनद᳘ध्याभ᳘रत्या᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति त᳘देनामा᳘नुष्टुभेन च्छ᳘न्दसा᳘ ऽऽदत्ते᳘ ऽथो ऽअस्यामा᳘नुष्टुभं च्छ᳘न्दो दधाति ता᳘न्येता᳘न्येव च्छ᳘न्दाᳫँ᳭स्येषा᳘ ऽभ्रिरारम्भा᳘यै᳘वेयं᳘ व्वैणवी᳘ क्रियते॥

मूलम् - श्रीधरादि

ह᳘स्त ऽआधा᳘य सविते᳘ति॥
ह᳘स्ते᳘ ह्यस्या᳘हिता[[!!]] भ᳘वति बि᳘भ्रद᳘भ्रिमि᳘ति बिभ᳘र्ति᳘ ह्येनाᳫँ᳭ हिरण्य᳘यीमि᳘ति हिरण्य᳘यी᳘ ह्येषा या᳘ च्छन्दोम᳘य्यग्नेर्ज्यो᳘तिर्निचाय्ये᳘त्यग्नेर्ज्यो᳘तिर्दृष्ट्वे᳘त्येत᳘त्पृथिव्या ऽअध्या᳘भरदि᳘ति पृथिव्यै᳘ ह्येनद᳘ध्याभ᳘रत्या᳘नुष्टुभेन च्छ᳘न्दसा ऽङ्गिरस्वदि᳘ति त᳘देनामा᳘नुष्टुभेन च्छ᳘न्दसा᳘ ऽऽदत्ते᳘ ऽथो ऽअस्यामा᳘नुष्टुभं च्छ᳘न्दो दधाति ता᳘न्येता᳘न्येव च्छ᳘न्दाᳫँ᳭स्येषा᳘ ऽभ्रिरारम्भा᳘यै᳘वेयं᳘ व्वैणवी᳘ क्रियते॥

मूलम् - Weber

ह᳘स्त आधा᳘य सविते᳘ति॥
ह᳘स्ते ह्य᳘स्या᳘हिता भ᳘वति बि᳘भ्रद᳘भ्रिमि᳘ति बिभ᳘र्तिॗ ह्येनाᳫं हिरण्य᳘यीमि᳘ति हिरण्म᳘यीॗ ह्येषा या᳘ छन्दोम᳘य्यग्नेर्ज्यो᳘तिर्निचाय्ये᳘त्यग्नेर्ज्यो᳘तिर्दृष्ट्वे᳘त्येत᳘त्पृथिव्या अध्या᳘भरदि᳘ति पृथिव्यैॗ ह्येनद᳘ध्याभ᳘रत्या᳘नुष्टुभेन छ᳘न्दसाङ्गिरस्वदि᳘ति त᳘देनामा᳘नुष्टुभेन छ᳘न्दसा᳘दत्ते᳘ ऽथो अस्यामा᳘नुष्टुभं छ᳘न्दो दधाति ता᳘न्येता᳘न्येव छ᳘न्दांस्येषा᳘भ्रिरारम्भा᳘यैॗवेयं᳘ वैणवी᳘ क्रियते॥

मूलम् - विस्वरम्

“हस्त ऽआधाय सविता”- इति । हस्ते ह्यस्याहिता भवति । “बिभ्रदभ्रिम्”- इति । बिभर्ति ह्येनाम् । “हिरण्ययीम्”- इति । हिरण्ययी ह्येषा या च्छन्दोमयी । “अग्नेर्ज्योतिर्निचाय्य”- इति । अग्नेर्ज्योतिर्दृष्ट्वेत्येतत् । “पृथिव्या ऽअध्याभरद्”- इति । पृथिव्यै ह्येनदध्याभरति । “आनुष्टुभेन च्छन्दसा ऽङ्गिरस्वत्”- (वा. सं. ११ । ११) इति । तदेनामानुष्टुभेन च्छन्दसा ऽऽदत्ते । अथो ऽअस्यामानुष्टुभं छन्दो दधाति । तान्येतान्येव च्छन्दांसि- एषा ऽभ्रिः । आरम्भायैवेयं वैणवी क्रियते ॥ ४१ ॥

सायणः

मन्त्रं विधत्ते- हस्त आधाय सवितेति । ‘सविता’ देवः ‘हस्ते’ ‘आधाय’ अवस्थाप्य ‘हिरण्ययीं’ हितरमणीयाम्; अथवा हिरण्यपदेन अमृतं छन्दश्चोच्यते, अमृतमयीम्; प्रागुक्तगायत्रत्रैष्टुभजागतानुष्टुभच्छन्दोरूपां वा ‘एनाम्’ अभ्रिं ‘बिभ्रत्’ सर्वदा धारयन्, ‘अग्नेर्ज्योतिः’ ‘निचाय्य’ दृष्ट्वा ‘पृथिव्या अधि’ ततः सकाशात् ‘आभरत्’ आहृतवान् । ‘आनुष्टुभेन च्छन्दसा’ अग्निवदाहृतवानिति । मन्त्रं व्याचष्टे- हस्ते ह्यस्याहितेति । ‘हिरण्ययी’- पदव्याख्याने हिरण्ययी ह्येषा या छन्दोमयीत्युक्तम् । तदुपपादयति- तान्येतान्येवेति । ‘आरम्भाय’ आलम्भनाय ॥ ४१ ॥

Eggeling
  1. [Vāj. S. XI, 11] ‘Having taken into his hand, Savitr̥,’–for it has indeed been taken into his (the Adhvaryu’s) hand,–‘bearing the spade,’–for he indeed bears it,–’the golden,’–for golden indeed is the one that consists of the metres (the Veda);–‘beholding Agni’s light,’–that is, seeing Agni’s light,–’lifted it up from the earth,’–for he indeed lifts it up from the earth;–‘by the Anushṭubh metre, Aṅgiras-like;’–he thus takes

it up by means of the Anushṭubh metre, and lays the Anushṭubh metre into it: for his undertaking that spade of bamboo is thus made to be those metres.

४२

विश्वास-प्रस्तुतिः

ताᳫँ᳭ हैके हिरण्य᳘यीं कुर्वन्ति[[!!]]॥
हिरण्ययी᳘ति वा᳘ ऽअ᳘भ्युक्ते᳘ति न त᳘था कुर्याद्यद्वा᳘ ऽएषा च्छ᳘न्दाᳫँ᳭सि ते᳘नैषा हि᳘रण्यममृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तानि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

ताᳫँ᳭ हैके हिरण्य᳘यीं कुर्वन्ति[[!!]]॥
हिरण्ययी᳘ति वा᳘ ऽअ᳘भ्युक्ते᳘ति न त᳘था कुर्याद्यद्वा᳘ ऽएषा च्छ᳘न्दाᳫँ᳭सि ते᳘नैषा हि᳘रण्यममृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तानि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

ताᳫं हैके हिरण्म᳘यीं कुर्व᳘न्ति॥
हिरण्ययी᳘ति वा᳘ अॗभ्युक्ते᳘ति न त᳘था कुर्याद्यद्वा᳘ एषा छ᳘न्दांसि ते᳘नैषा हि᳘रण्यममृ᳘तᳫं हि᳘रण्यममृ᳘तानि छ᳘न्दांसि॥

मूलम् - विस्वरम्

तां हैके हिरण्ययीं कुर्वन्ति । हिरण्ययीति वा ऽअभ्युक्तेति । न तथा कुर्यात् । यद्वा ऽएषा छन्दांसि- तेनैषा हिरण्यम् । अमृतं हिरण्यम् । अमृतानि च्छन्दांसि ॥ ४२ ॥

सायणः

अत्र केचिन्मन्त्रगतहिरण्ययीपदबलेन अभ्रिमपि हिरण्यनिर्मितामिच्छन्तीति तत्पक्षमनुवदति- तां हैके हिरण्ययीं कुर्वन्तीति । अत एव कात्यायनः- “हिरण्ययीमेके”- (का. श्रौ. सू. १६ । ४९) इति पक्षान्तरं सूत्रितवान् । अभ्युक्तेति । “हस्त आधाय सविता बिभ्रदभ्रिं हिरण्ययीम्”- इति मन्त्रे समाप्ते इत्यर्थः ॥ तद् दूषयति- न तथा कुर्यादिति । अत्र पूर्वोक्तमेव च्छन्दोमयत्वमिहोपदिशति- यद्वा एषा छन्दांसीति ॥ ४२ ॥

Eggeling
  1. Some, indeed, make it of gold, saying, ‘It is spoken of as golden.’ Let him not do so: in that it is the metres, thereby that (spade) is gold, immortal gold, the immortal metres.

४३

विश्वास-प्रस्तुतिः

तां᳘ चतु᳘र्भिरा᳘दत्ते॥
च᳘तुरक्षरा वै स᳘र्व्वा व्वाग्वागित्ये᳘कमक्ष᳘रमक्ष᳘रमि᳘ति᳘ त्र्यक्षरं[[!!]] तद्यत्तद्वागित्ये᳘कमक्ष᳘रं᳘[[!!]] यै᳘वै᳘षा ऽनुष्टु᳘बुत्तमा सा सा᳘ ऽथ य᳘दक्ष᳘रमि᳘ति᳘ त्र्य᳘क्षरमेता᳘नि ता᳘नि पू᳘र्व्वाणि य᳘जूᳫँ᳭षि स᳘र्व्वयै᳘वैत᳘द्वा᳘चा ऽग्निं ख᳘नति स᳘र्व्वया व्वाचा स᳘म्भरति त᳘स्माच्चतु᳘र्भिः॥

मूलम् - श्रीधरादि

तां᳘ चतु᳘र्भिरा᳘दत्ते॥
च᳘तुरक्षरा वै स᳘र्व्वा व्वाग्वागित्ये᳘कमक्ष᳘रमक्ष᳘रमि᳘ति᳘ त्र्यक्षरं[[!!]] तद्यत्तद्वागित्ये᳘कमक्ष᳘रं᳘[[!!]] यै᳘वै᳘षा ऽनुष्टु᳘बुत्तमा सा सा᳘ ऽथ य᳘दक्ष᳘रमि᳘ति᳘ त्र्य᳘क्षरमेता᳘नि ता᳘नि पू᳘र्व्वाणि य᳘जूᳫँ᳭षि स᳘र्व्वयै᳘वैत᳘द्वा᳘चा ऽग्निं ख᳘नति स᳘र्व्वया व्वाचा स᳘म्भरति त᳘स्माच्चतु᳘र्भिः॥

मूलम् - Weber

तां᳘ चतु᳘र्भिरा᳘दत्ते॥
च᳘तुरक्षरा वै स᳘र्वा वाग्वागित्ये᳘कमक्ष᳘रमक्ष᳘रमि᳘ति त्र्य᳘क्षरं तद्यत्तद्वागित्ये᳘कमॗक्ष᳘रं यैॗवैषानुष्टु᳘बुत्तमा सा सा᳘थ य᳘दक्ष᳘रमि᳘ति त्र्य᳘क्षरमेता᳘नि ता᳘नि पू᳘र्वाणि य᳘जूंषि स᳘र्वयैॗवैत᳘द्वाॗचाग्निं ख᳘नति स᳘र्वया वाचा स᳘म्भरति त᳘स्माच्चतु᳘र्भिः॥

मूलम् - विस्वरम्

तां चतुर्भिरादत्ते । चतुरक्षरा वै सर्वा वाक् । वागित्येकमक्षरम् । त्र्यक्षरमिति अक्षरम् । तद्यत्तद्वागित्येकमक्षरम्- यैवैषा ऽनुष्टुबुत्तमा- सा सा अथ यदक्षरमिति त्र्यक्षरम्- एतानि तानि पूर्वाणि यजूंषि । सर्वयैवैतद्वाचा ऽग्निं खनति । सर्वया वाचा सम्भरति । तस्माच्चतुर्भिः ॥ ४३ ॥

सायणः

आदानाभिमन्त्रणविनियुक्तानां मन्त्राणां सङ्ख्यां प्रशंसितुमाह- तां चतुर्भिरादत्त इति । ‘चतुर्भिः’ अभिमन्त्रणमन्त्रसहितैः पूर्वैस्त्रिभिर्मन्त्रैः ‘ताम्’ अभ्रिम् ‘आदत्ते’ । आदाने मन्त्रचतुष्कप्रकार उपपादितः । अत एव मीमांसायां द्वादशाहयागे इदमेव विषयवाक्यमुदाहृतम् । तदर्थः स गृहीतस्तत्त्वविद्भिराचार्यैः- “चतुर्भिरभ्रिमित्यत्र विकल्पो वा समुच्चयः । विकल्पः पूर्ववन्मैवं समूहे करणत्वतः ॥- (मी. जै. न्या. १२ । ३। सू. ३० । १४ अ.) इति ॥

यतश्चतुर्भिरादत्ते, ‘सर्वा वाक्’ ‘चतुरक्षरा’ अक्षरचतुष्टयवती । कथं वाचश्चतुरक्षरत्वम् ? तदाह- वागित्येकमिति । अत्र एकाक्षरवाग्रूपत्वेन त्र्यक्षरात्मकेन च स्तूयमानान् मन्त्रान् विभज्य दर्शयति- यैवैषा ऽनुष्टुबुत्तमेति । प्रथमेन ‘सा’ इति पदेन वागुच्यते; द्वितीयेन अभिमन्त्रणे विनियुक्ता चतुर्थी ऋक् । अनुष्टुप् ‘त्र्यक्षरं’ पदम् ‘अक्षरमिति’ यदुक्तम्, तानि आदाने विनियुक्तानि “देवस्य त्वा”- इत्यादीनि ‘यजूंषि’ । ‘तस्मात्’ चतुर्भिः अभ्र्यादानं नाम, ‘सर्वया वाचा’ खननमेवेत्यर्थः ॥ ४३ ॥

Eggeling
  1. He takes it up with four (formulas), for all speech consists of four syllables: ‘vāk’ (speech) is one syllable, and ‘aksharam’ (syllable) consists of three syllables. Now that monosyllable ‘vāk’ is the same as this last one, the Anushṭubh; and that trisyllable ‘aksharam’ is the same as those former formulas: he thus digs up Agni by the whole speech, and equips it with the whole speech,–hence with four (formulas).

४४

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्वेव᳘ चतु᳘र्भिः॥
(श्च᳘) च᳘तस्रो वै दि᳘शश्चतसृ᳘षु त᳘द्दिक्षु व्वा᳘चं दधाति त᳘स्माच्चतसृ᳘षु दिक्षु व्वा᳘ग्वदति च्छ᳘न्दोभिश्च य᳘जुर्भिश्चा᳘दत्ते त᳘दष्टौ च᳘तस्रो दि᳘शश्च᳘तस्रो ऽवान्तरदि᳘शः स᳘र्व्वासु त᳘द्दिक्षु व्वा᳘चं दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु व्वा᳘ग्वदति॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्वेव᳘ चतु᳘र्भिः॥
(श्च᳘) च᳘तस्रो वै दि᳘शश्चतसृ᳘षु त᳘द्दिक्षु व्वा᳘चं दधाति त᳘स्माच्चतसृ᳘षु दिक्षु व्वा᳘ग्वदति च्छ᳘न्दोभिश्च य᳘जुर्भिश्चा᳘दत्ते त᳘दष्टौ च᳘तस्रो दि᳘शश्च᳘तस्रो ऽवान्तरदि᳘शः स᳘र्व्वासु त᳘द्दिक्षु व्वा᳘चं दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु व्वा᳘ग्वदति॥

मूलम् - Weber

य᳘द्वेव᳘ चतु᳘र्भिः॥
च᳘तस्रो वै दि᳘शश्चतसृ᳘षु त᳘द्दिक्षु वा᳘चं दधाति त᳘स्माच्चतसृ᳘षु दिक्षु वा᳘ग्वदति छ᳘न्दोभिश्च य᳘जुर्भिश्चा᳘दत्ते त᳘दष्टौ च᳘तस्रो दि᳘शश्च᳘तस्रो ऽवान्तरदि᳘शः स᳘र्वासु त᳘द्दिक्षु वा᳘चं दधाति त᳘स्मात्स᳘र्वासु दिक्षु वा᳘ग्वदति 29

मूलम् - विस्वरम्

यद्वेव चतुर्भिः । चतस्रो वै दिशः । चतसृषु तद्दिक्षु वाचं दधाति । तस्माच्चतसृषु दिक्षु वाग्वदति । छन्दोभिश्च यजुर्भिश्चादत्ते । तदष्टौ । चतस्रो दिशः, चतस्रो ऽवान्तरदिशः । सर्वासु तद्दिक्षु वाचं दधाति । तस्मात्सर्वासु दिक्षु वाग्वदति ॥ ४४ ॥

सायणः

मन्त्रगतचतुष्ट्वसंख्यां चतुर्दिगात्मना च स्तौति- यद्वेव चतुर्भिश्चतस्रो वै दिश इति । अत्र मन्त्रगतगायत्र-त्रैष्टुभ-जागतानुष्टुभैश्छन्दोभिः सह पूर्वां चतुःसंख्यां महादिगवान्तरदिगात्मना स्तौति- छन्दोभिश्च यजुर्भिश्चादत्ते तदष्टाविति ॥ ४४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (६-३-१) ॥

Eggeling
  1. And, again, why with four (formulas);–there are four quarters: he thus lays speech into the four quarters, whence speech speaks in the four quarters. He takes it up both by metres and by formulas, that makes eight–there are four quarters, and four intermediate quarters: he thus lays speech into all the quarters, whence speech speaks in all the quarters.

  1. 190:1 That is, the ‘invincible’ brick, being the first brick which is made, and that by the Sacrificer’s chief wife (mahishī) herself. See VI, 5, 3, seq.–Sāyaṇa remarks,–tām āhutiṁ hutvā imām pr̥thivīm ādhīyajñikīm ashṭadhāvihitām mr̥tsikatābhiḥ pr̥thivyavairiyaṁ (? pr̥thivyaṅgair imām) ashṭavihitātmikām ashāḍḥām ishṭakām apaśyat; puraiva lokāpavarga kala (? kāle or kālāt) sr̥shṭāṁ satīm. Though in the cosmogonic account, VI, 1, 1, 13 seq., the earth is rather said to consist of nine different elements, the ‘invincible’ brick is commonly identified with the earth. See VI, 5, 3, 1. For the (eightfold) compositions of the clay used for the fire-pan and bricks, see VI, 5, 1, 1 seq. ↩︎

  2. 191:1 That is to say, the offering-spoon is filled by eight dippings with the dipping-spoon. ↩︎

  3. 191:2 That is, by means of its constituent elements;–pr̥thivīm ūrdhvāṁ rūpair mr̥dādibhir udgamayati, Sāy. ↩︎

  4. 192:1 See VI, 1, 1, 9. ↩︎

  5. 192:2 VI, 1, 1, 10.–The construction of the text is somewhat peculiar,–what the author means to say seems to be,–the threefold science (the Veda) with which Prajāpati entered the waters is the same as the prayers now offered up. ↩︎

  6. तत्त्वा᳘य A ↩︎

  7. 194:1 See III, 5, 3, 12, where ‘br̥hat vipaścit’ (in the same formula) is explained as referring to the sacrifice. ↩︎

  8. 196:1 Or, the single oblations, as distinguished from the whole continued libation. ↩︎

  9. 196:2 Dīptyā virājamānaḥ, Sāy. ↩︎

  10. 197:1 That is to say, it shows itself openly, appears fearlessly before others of its kind;–Svāya rūpāyeti tādarthye caturthī; āviḥ prakāśo bhavati, tadanukāreṇedānīm api paśuḥ svāya rūpāya samānajātīyāyā prakāśo bhavati, Sāy. ↩︎

  11. 197:2 That is to say, they saw that one animal might do for two,–pañcamī pratinidhau, Sāy. (Pāṇ. II, 3, 11.) ↩︎

  12. 197:3 Viz. the she-ass and the mare. ↩︎

  13. अनद्धापुरुषमीक्षते देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति । का० श्रौ० सू० १६ । ५६ । ↩︎

  14. 197:4 Anaddhā-purusham alīka-purusham purushāt pratyapaśyan purushasthāne kalitavantas, Sāy. Thus probably a counterfeit of a man, a doll or human effigy. ↩︎

  15. 198:1 That is, in order that this item of the sacrificial performance should correspond with the nature of Agni. The number of five is obtained by the three beasts actually led forward,–a horse, an ass, and a he-goat–and the two beasts for which the ass was stated to be a substitute, viz. the cow (or bullock) and the sheep.–Sāyaṇa, whose comment is very corrupt in this place, remarks,–nānaddhāpurushotra gaṇyate. ↩︎

  16. सुखिर A first hand. ↩︎

  17. 198:2 In the text the dative of purpose (‘ahiṁsāyai’) is as usual shifted right to the end of the train of reasoning explaining the raiśoṇ ḍ’êṭre of this item of the performance. ↩︎

  18. 198:3 This final clause with ‘vai’ supplies the reason why Agni entered the womb, viz. because otherwise he could not be born;–just as the preceding clause with ‘vai’ (the womb does not injure the child) supplies the reason why reed grass is used; whilst the preceding clauses explain how the reed comes to be the womb whence Agni sprung. ↩︎

  19. आ᳘सोदेष सोऽजो᳘ ABC. ↩︎

  20. 199:1 See VI, 1, 1, 11. ↩︎

  21. 199:2 Dakshiṇato vai vr̥shā yoshām upaśete;–compare: uttarato hi strī pumāṁsam upaśete, I, 1, 1, 20; II, 5, 2, 17. ↩︎

  22. 200:1 For the construction, see p. 198, note 2. ↩︎

  23. 200:2 Prādeśamātraṁ hīdaṁ mukham abhi vāg vadati, mukham abhi varṇātmikā vāg vadati vāktāstis (?) tasyāś ca prādeśamātratvam adhyātmāvadhāritam atotrāpi prādeśamātrā . . . yuktā, Sāy. ↩︎

  24. 200:3 According to Sāyaṇa the tip of the tongue is indicated (as VII, 2, 3, 3; 2, 4, 14, ‘vāc’ means ‘mouth’); but perhaps it is rather sharp, vituperative speech addressed to another person that is intended here. ↩︎

  25. 200:4 Sāyaṇa identifies the divine speech with Saṁskr̥t, and the human speech with the Apabhraṁśas, or low dialects (? mānushaṁ cāpātrośam, MS.). ↩︎

  26. देवस्य त्वेत्यभ्रिमादाय । का० श्रौ० सू० १६ । ५१ । ↩︎

  27. 201:1 Mahīdhara says, Agni is called ‘purīshya,’ because loose soil (purīsha) is put in the fire-pan (ukhā), on which the fire is then placed. It also doubtless refers to the loose soil which is spread over the different layers of the altar, thus serving as mortar to the bricks. In this epithet of Agni, ‘purīsha’ seems, however, to be taken in yet another, more subtle sense, the author apparently connecting with it its etymological meaning of ’that which fills, fillings, Germ. Füllung, Füllsel;’ whilst the reference to cattle might also seem to point to the later ordinary meaning, ‘faeces, manure.’ Mahīdhara, on the force of the symbolical identification ‘paśavo vai purīsham,’ seems straightway to take ‘purīsha’ as a synonym of ‘paśu,’ when he says,–purīshebhyaḥ paśubhyo hitaḥ purīshyaḥ. Sāyaṇa’s comment here is corrupt,–paśavo vai purīshaṁ pūraṇāmūhi(?) kāryaṁ paśavaḥ pūrayanti. ↩︎

  28. हस्त आधायेत्येनामभिमंत्रयते । का. श्रौ. सू. १६ । ५१ । ↩︎

  29. ॥ ब्राह्मणम् ॥ ३ ॥ भारवट ॥ A. ↩︎