०१

विश्वास-प्रस्तुतिः

एतद्वै᳘ देवा᳘ ऽअब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘षां चेत᳘यमानानां प्रजा᳘पतिरिमां᳘ प्रथमा᳘ᳫँ᳘ स्वयमातृण्णां चि᳘तिमपश्यत्त᳘स्मात्तां᳘ प्रजा᳘पतिनो᳘पदधाति॥

मूलम् - श्रीधरादि

एतद्वै᳘ देवा᳘ ऽअब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘षां चेत᳘यमानानां प्रजा᳘पतिरिमां᳘ प्रथमा᳘ᳫँ᳘ स्वयमातृण्णां चि᳘तिमपश्यत्त᳘स्मात्तां᳘ प्रजा᳘पतिनो᳘पदधाति॥

मूलम् - Weber

एतद्वै᳘ देवा᳘ अब्रुवन्॥
चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘षां चेत᳘यमानानाम् प्रजा᳘पतिरिमा᳘म् प्रथमा᳘ᳫं᳘ स्वयमातृणां चि᳘तिमपश्यत्त᳘स्मात्ता᳘म् प्रजा᳘पतिनो᳘पदधाति॥

मूलम् - विस्वरम्

चित्यार्षेय ब्राह्मणम् ।

एतद्वै देवा अब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तेषां चेतयमानानां प्रजापतिरिमां प्रथमां स्वयमातृण्णां चितिमपश्यत् । तस्मात्तां प्रजापतिनोपदधाति ॥ १ ॥

सायणः

उत्तरत्रोपधास्यमानानां चितीनामृषिदेवतासम्बन्धेनोत्पत्तिप्रकारः, तत्सङ्ख्याविशेषः, स्वयमातृण्णेष्टकानां स्थानविशेषप्रदर्शनञ्च तृतीये ब्राह्मणे प्रतिपाद्यते । स्वयमातृण्णेष्टकास्तिस्रो भूम्यन्तरिक्षद्युलोकात्मिकाः । अत एव प्रथममध्यमोत्तमासु चितिषूपधेयाः । तत्र प्रथमायाश्चितेरुपपत्तिं दर्शयति- एतद्वै देवा अब्रुवन्निति । ‘एतद्’ वक्ष्यमाणमर्थजातम् अवोचन् । तदाह- चेतयध्वमितीति । स्वयमेवैतस्य पदस्यार्थमाह- चितिमिच्छतेतीति । ‘चेतयध्वमिति’ एतेन ‘चितिमिच्छतेति वाव तदब्रुवन्’ इति । तेषां ‘चेतयमानानां’ चितिमिच्छतां देवानां मध्ये प्रजापतिः ‘इमां’ भूमिरूपां प्रथमां ‘स्वयमातृण्णां’ स्वयमेव मध्ये छिन्नां शिलारूपामिष्टकां ‘चितिम्’ ‘अपश्यत्’ । यस्मात् प्रजापतिरपश्यत्, ‘तस्मात्’ इष्टकां ‘प्रजापतिना’ “प्रजापतिष्ट्वा सादयतु”- (वा. सं. १३ । १७) इत्यादिना प्राजापत्यमन्त्रेण ‘उपदधाति’ ॥ १ ॥

Eggeling
  1. Now, the gods said, ‘Meditate ye!’–whereby, no doubt, they meant to say, ‘Seek ye a layer 1 (for the fire-altar)! ‘Whilst they were meditating,

Prajāpati saw this earth, as a first naturally-perforated 2 layer: hence it is by means of Prajāpati that he lays on that (brick) 3.

०२

विश्वास-प्रस्तुतिः

त᳘मग्नि᳘रब्रवीत्॥
(दु᳘) उ᳘पाहमा᳘यानी᳘ति केने᳘ति पशु᳘भिरि᳘ति तथे᳘ति पश्विष्टक᳘या ह त᳘दुवाचैषा वाव᳘ पश्विष्टका य᳘द्दूर्वेष्टका त᳘स्मात्प्रथमा᳘यै स्वयमातृण्णा᳘या ऽअ᳘नन्तर्हिता दूर्व्वेष्टको᳘पधीयते त᳘स्मादस्या ऽअ᳘नन्तर्हिता ऽओ᳘षधयो᳘ ऽनन्तर्हिताः पशवो᳘ ऽनन्तर्हितो ऽग्निर᳘नन्तर्हितो᳘ ह्येष᳘ ऽएत᳘योपै᳘त्॥

मूलम् - श्रीधरादि

त᳘मग्नि᳘रब्रवीत्॥
(दु᳘) उ᳘पाहमा᳘यानी᳘ति केने᳘ति पशु᳘भिरि᳘ति तथे᳘ति पश्विष्टक᳘या ह त᳘दुवाचैषा वाव᳘ पश्विष्टका य᳘द्दूर्वेष्टका त᳘स्मात्प्रथमा᳘यै स्वयमातृण्णा᳘या ऽअ᳘नन्तर्हिता दूर्व्वेष्टको᳘पधीयते त᳘स्मादस्या ऽअ᳘नन्तर्हिता ऽओ᳘षधयो᳘ ऽनन्तर्हिताः पशवो᳘ ऽनन्तर्हितो ऽग्निर᳘नन्तर्हितो᳘ ह्येष᳘ ऽएत᳘योपै᳘त्॥

मूलम् - Weber

त᳘मग्नि᳘रब्रवीत्॥
उ᳘पाहमा᳘यानी᳘ति केने᳘ति पशु᳘भिरि᳘ति तथे᳘ति पश्विष्टकया ह त᳘दुवाचैषा वाव᳘ पश्विष्टका य᳘द्दूर्वेष्टका त᳘स्मात्प्रथमा᳘यै स्वयमातृणा᳘या अ᳘नन्तर्हिता दूर्वेष्टको᳘पधीयते त᳘स्मादस्या अ᳘नन्तर्हिता ओ᳘षधयो᳘ ऽनन्तर्हिताः पशवो᳘ ऽनन्तर्हितो ऽग्निर᳘नन्तर्हितोॗ ह्येष᳘ एत᳘योपैत्॥

मूलम् - विस्वरम्

तमग्निरब्रवीत्- उपाहमायानीति । केनेति पशुभिरिति । तथेति । पश्विष्टकया ह तदुवाच । एषा वाव पश्विष्टका यद्दूर्वेष्टका । तस्मात्प्रथमायै स्वयमातृण्णाया ऽअनन्तर्हिता दूर्वेष्टकोपधीयते । तस्मादस्या ऽअनन्तर्हिता ओषधयः, अनन्तर्हिताः पशवः, अनन्तर्हितो ऽग्निः । अनन्तर्हितो- ह्येष एतयोपैत् ॥ २ ॥

सायणः

तस्मिन् मन्त्रे “अग्निष्ट्वाभिपातु”- इत्यग्निसम्बन्धः श्रूयते, तमपि दर्शयति- तमग्निरब्रवीदिति । ‘तम्’ इष्टकाकारं प्रजापतिम् । ‘अग्निः’ ‘अहं’ स्वयम् ‘उपायानि’ आगच्छानि ‘इति’ ‘अब्रवीत्’ । ‘केन’- इत्यादिनी प्रश्नोत्तरे प्रजापत्यग्न्योः; ‘तथा’- इति प्रजापतेरङ्गीकारोक्तिः । ‘पशुभिः’- इति यदग्निनोक्तम्, तद् विवृणोति- पश्विष्टकया ह तदुवाचेति । पश्विष्टकास्वरूपमाह- यद् दूर्वेष्टकेति । दूर्वेष्टकया सहाग्निरहमायानीत्यर्थः सिद्धो भवति । यस्मादेतया अग्निरनन्तर्हित उपागच्छत्, ‘तस्मात्’ प्रथमं स्वयमातृण्णेष्टकोपधानानन्तरमेव ‘दूर्वेष्टकोपधीयते’ । तदिदं प्रशंसति- तस्मादस्या अनन्तर्हिता ओषधय इति । ‘अस्याः’ भूमेः ‘ओषधयः’ अनन्तरमेवोत्पन्नाः, दूर्वाणामोषधित्वात् । पशूनां दूर्वात्वात् दूर्वेष्टकया ‘पशवः’ अपि ‘अनन्तर्हिताः’ उपहिता भवन्तीति । अत एव स्वयमातृण्णोपधानानन्तरं दूर्वेष्टकोपधानम् ॥

तदुपधानमन्त्रद्वयं च सप्तमे काण्डे समाम्नास्यते- “स्वयमातृण्णामुपदधाति”- (श. प. ७ । ४ । २ । १) इत्युपक्रम्य, “तां वै प्रजापतिनोपदधाति”- (श. प. ७ । ४ । ३ । ५ ।) “अथ दूर्वेष्टकामुपदधाति” (श. प. ७ । ४ । २ । १ ०) “काण्डात्काण्डात् प्ररोहन्ती” 4- (श. प. ७ । ४ । २ । १४) इति । प्रथमं स्वयमातृण्णोपधानमन्त्रे प्रजापत्यग्निसम्बन्धः, तस्या भूमिरूपत्वं चोक्तम्- “प्रजापतिस्त्वा सादयत्वपाम्पृष्ठे”- (श. प. ७ । ४ । २ । ६) इत्युपक्रम्य “भूरसि भूमिरस्यदितिरसि”- (वा. सं. १३ । १८) इति । मध्ये, “अग्निष्ट्वा ऽभिपातु मह्या स्वस्त्या”- (वा. सं. १३ । १९) इति चान्त इति ॥ २ ॥

Eggeling
  1. Agni said to him (Prajāpati), ‘I will step nigh!’–‘Wherewith?’–‘With cattle!’–‘So be it!’ He thereby doubtless meant to say, ‘with the cattle-brick;’ for that cattle-brick is the same as the dūrvā-brick 5: hence the dūrvā-brick is laid so as not to be separated from the first naturally-perforated one; hence also not separated from this earth are the plants, the cattle, the fire,–for not separated (from the earth) 6 he (Agni) stepped nigh with this (brick).

०३

विश्वास-प्रस्तुतिः

(त्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमेवे᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नि᳘त ऽऊर्द्ध᳘मिच्छते᳘ति ते᳘षां चेत᳘यमानानामिन्द्राग्नी᳘ च व्विश्व᳘कर्मा चान्त᳘रिक्षं द्विती᳘याᳫँ᳭ स्वयमातृण्णां चि᳘तिमपश्यंस्त᳘स्मात्ता᳘मिन्द्राग्नि᳘भ्यां च व्विश्व᳘कर्मणा चो᳘पदधाति॥

मूलम् - श्रीधरादि

(त्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमेवे᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नि᳘त ऽऊर्द्ध᳘मिच्छते᳘ति ते᳘षां चेत᳘यमानानामिन्द्राग्नी᳘ च व्विश्व᳘कर्मा चान्त᳘रिक्षं द्विती᳘याᳫँ᳭ स्वयमातृण्णां चि᳘तिमपश्यंस्त᳘स्मात्ता᳘मिन्द्राग्नि᳘भ्यां च व्विश्व᳘कर्मणा चो᳘पदधाति॥

मूलम् - Weber

ते ऽब्रुवन्॥
चेत᳘यध्वमेवे᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्नि᳘त ऊर्ध्व᳘मिछते᳘ति ते᳘षां चेत᳘यमानानामिन्द्राग्नी᳘ च विश्व᳘कर्मा चान्त᳘रिक्षं द्विती᳘याᳫं स्वयमातृणां चि᳘तिमपश्यंस्त᳘स्मात्ता᳘मिन्प्राग्नि᳘भ्यां च विश्व᳘कर्मणा चो᳘पदधाति॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन् । इत ऊर्ध्वमिच्छतेति । तेषां चेतयमानानामिन्द्राग्नी च विश्वकर्मा चान्तरिक्षं द्वितीयां स्वयमातृण्णां चितिमपश्यन् । तस्मात्तामिन्द्राग्निभ्यां च विश्वकर्मणा चोपदधाति ॥ ३ ॥

सायणः

अथ द्वितीयस्वयमातृण्णेष्टकाप्रधानायाः तृतीयचितेरुत्पत्तिं दर्शयति- ते ऽब्रुवन्निति । पूर्ववद् व्याख्येयम् । चितिमिच्छतेति यदुक्तम्, तत्तात्पर्यं दर्शयति- इत ऊर्द्ध्वमिच्छतेति । ‘इतः’ पश्वनुष्ठानाद् ‘ऊर्द्ध्वं’ ‘चितिम् इच्छत’ इत्यर्थः । ‘इन्द्राग्नी च विश्वकर्मा च’ अन्तरिक्षरूपां ‘द्वितीयां’ स्वयमातृण्णेष्टकाम् ‘अपश्यन्’ । ‘तस्मात्’ ‘ताम्’ इष्टकाम् इन्द्राग्निदेवत्यमन्त्रेण (वा. सं. १४ । ११), विश्वकर्मदेवत्यमन्त्रेण (वा. सं. १४ । १२ ।) चोपदध्यात् ॥ ३ ॥

Eggeling
  1. They said, ‘Meditate ye yet!’ whereby no doubt they meant to say, ‘Seek ye a layer! seek ye (to build) from hence upwards!’ Whilst they were

meditating, Indra and Agni, and Viśvakarman saw the air, as a second naturally-perforated layer: hence he lays on that (brick 7) by means of Indra and Agni, and Viśvakarman.

०४

विश्वास-प्रस्तुतिः

ता᳘न्वायु᳘रब्रवीत्॥
(दु᳘) उ᳘पाहमा᳘यानी᳘ति केने᳘ति दिग्भिरि᳘ति तथे᳘ति दि᳘श्याभिर्ह त᳘दुवाच त᳘स्माद्द्विती᳘यायै स्वयमातृण्णा᳘या ऽअ᳘नन्तर्हिता दि᳘श्या ऽउ᳘पधीयन्ते त᳘स्मादन्त᳘रिक्षाद᳘नन्तर्हिता दिशो᳘ ऽनन्तर्हितो व्वायुर᳘नन्तर्हितो᳘ ह्येष᳘ ऽएता᳘भिरुपै᳘त्॥

मूलम् - श्रीधरादि

ता᳘न्वायु᳘रब्रवीत्॥
(दु᳘) उ᳘पाहमा᳘यानी᳘ति केने᳘ति दिग्भिरि᳘ति तथे᳘ति दि᳘श्याभिर्ह त᳘दुवाच त᳘स्माद्द्विती᳘यायै स्वयमातृण्णा᳘या ऽअ᳘नन्तर्हिता दि᳘श्या ऽउ᳘पधीयन्ते त᳘स्मादन्त᳘रिक्षाद᳘नन्तर्हिता दिशो᳘ ऽनन्तर्हितो व्वायुर᳘नन्तर्हितो᳘ ह्येष᳘ ऽएता᳘भिरुपै᳘त्॥

मूलम् - Weber

ता᳘न्वायु᳘रब्रवीत्॥
उ᳘पाहमा᳘यानी᳘ति केने᳘ति दिग्भिरि᳘ति तथे᳘ति दि᳘श्याभिर्ह त᳘दुवाच त᳘स्माद्द्विती᳘यायै स्वयमातृणा᳘या अ᳘नन्तर्हिता दि᳘श्या उ᳘पधीयन्ते त᳘स्मादन्त᳘रिक्षाद᳘नन्तर्हिता दिशो᳘ ऽनन्तर्हितो वायुर᳘नन्तर्हितोॗ ह्येष᳘ एता᳘भिरुपैत्॥

मूलम् - विस्वरम्

तान्वायुरब्रवीत्- उपाहमायानीति । केनेति । दिग्भिरिति । तथेति । दिश्याभिर्ह तदुवाच । तस्माद्द्वितीयायै स्वयमातृण्णाया ऽअनन्तर्हिता दिश्या उपधीयन्ते । तस्मादन्तरिक्षादनन्तर्हिता दिशः । अनन्तर्हितो वायुः । अनन्तर्हितो ह्येष एताभिरुपैत् ॥ ४ ॥

सायणः

तन्मन्त्रे च “वायुष्ट्वा ऽभिपातु- (वा. सं. १४ । १२) इति वायुसम्बन्धः श्रूयते, तमाह- तान् वायुरब्रवीदुपाहमिति । ‘तान्’ इन्द्राग्नी विश्वकर्माणश्च । ‘केन’- इत्यादिनी प्रश्नोत्तरे पूर्ववत् । दिग्भिरिति । यदिन्द्राग्निभ्यां विश्वकर्मणा चोक्तम्, तद् विवृणोति- दिश्याभिर्ह तदुवाचेति । दिशि भवा दिश्याः इष्टकाः, ताभिः आगच्छानीत्युक्तवान् । “दिगादिभ्यो यत्” (पा. सू. ४ । ३ । ५४) इति- दिक्शब्दात् यत् प्रत्ययः । ‘तस्मात्’ द्वितीयस्वयमातृण्णोपधानानन्तरम्, दिश्येष्टकोपधानम् 8 । तदुपधानमन्त्रद्वयञ्चाष्टमे काण्डे प्रदर्शयिष्यते (श. प. ८ । ३ । १ । १२ । १३ । १४ ।) तन्मन्त्रे प्रथममिन्द्राग्निविश्वकर्मसम्बन्धः, मध्ये अस्या अन्तरिक्षरूपत्वम्, अन्ते वायुसम्बन्धः, (वा. सं १४ । १३, १४) इति ॥ ४ ॥

Eggeling
  1. Vāyu said to them, ‘I will step nigh!’ Wherewith!’–‘With the regions!’–‘So be it!’ He thereby doubtless meant to say, ‘with the regional (bricks 9):’ hence on the second naturally-perforated one the regional ones are laid, without being separated from it 10; and hence not separated from the air are the regions, the wind; for not separated therefrom he (Vāyu) stepped nigh with this (brick).

०५

विश्वास-प्रस्तुतिः

(त्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमेवे᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऊर्द्ध᳘मिच्छते᳘ति ते᳘षां चेत᳘यमानानां परमेष्ठी दि᳘वं तृती᳘याᳫँ᳭ स्वयमातृण्णां चि᳘तिमपश्यत्त᳘स्मात्तां᳘ परमेष्ठिनो᳘पदधाति॥

मूलम् - श्रीधरादि

(त्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमेवे᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऊर्द्ध᳘मिच्छते᳘ति ते᳘षां चेत᳘यमानानां परमेष्ठी दि᳘वं तृती᳘याᳫँ᳭ स्वयमातृण्णां चि᳘तिमपश्यत्त᳘स्मात्तां᳘ परमेष्ठिनो᳘पदधाति॥

मूलम् - Weber

ते ऽब्रुवन्॥
चेत᳘यध्वमेवे᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्नित᳘ ऊर्ध्व᳘मिछते᳘ति ते᳘षां चेत᳘यमानानाम् परमेष्ठी दि᳘वं तृती᳘यᳫं स्वयमातृणां चि᳘तिमपश्यत्त᳘स्मात्ताम् परमेष्ठिनो᳘पदधाति॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- चेतयध्वमेवेति । चितिमिच्छतेति वाव तदब्रुवन् । इत ऊर्ध्वमिच्छतेति । तेषां चेतयमानानां परमेष्ठी दिवं तृतीयां स्वयमातृण्णां चितिमपश्यत् । तस्मात्तां परमेष्ठिनोपदधाति ॥ ५ ॥

सायणः

अथ तृतीयस्वयमातृण्णाप्रधानायाः पञ्चमचितेरुत्पत्तिं दर्शयति- ते ऽब्रुवन्नित्यादि पूर्ववत् । ‘परमेष्ठी’ ‘दिवं’ द्युलोकात्मिकां ‘तृतीयां’ ‘स्वयमातृण्णाम्’ इष्टकाम् ‘अपश्यत्’ । ‘तस्मात्’ ‘ताम्’ इष्टकाम् ‘परमेष्ठिना’ “परमेष्ठी त्वा सादयतु” (वा. सं १५ । ६४) इति मन्त्रेण उपदध्यात् 8 ॥ ५ ॥

Eggeling
  1. They said, ‘Meditate ye yet!’–whereby no doubt they said, ‘Seek ye a layer! seek ye (to build) from hence upwards!’ Whilst they were meditating, Parameshṭḥin saw the sky, as a third naturally-perforated layer: whence it is by Parameshṭḥin (the most high) he lays on that (brick 11).

०६

विश्वास-प्रस्तुतिः

त᳘मसा᳘वादि᳘त्यो ऽब्रवीत्॥
(दु᳘) उ᳘पाहमा᳘यानीति केने᳘ति लोकम्पृणये᳘ति तथे᳘त्येष वाव᳘ लोकम्पृ᳘णा ऽऽत्म᳘ना हैव त᳘दुवाच त᳘स्मात्तृती᳘या स्वयमातृण्णा᳘ ऽनन्तर्हिता लोकम्पृणा᳘या ऽउ᳘पधीयते त᳘स्मादसा᳘वादित्यो᳘ ऽनन्तर्हितो दिवो᳘ ऽनन्तर्हितो᳘ ह्येष᳘ ऽएत᳘योपै᳘त्॥

मूलम् - श्रीधरादि

त᳘मसा᳘वादि᳘त्यो ऽब्रवीत्॥
(दु᳘) उ᳘पाहमा᳘यानीति केने᳘ति लोकम्पृणये᳘ति तथे᳘त्येष वाव᳘ लोकम्पृ᳘णा ऽऽत्म᳘ना हैव त᳘दुवाच त᳘स्मात्तृती᳘या स्वयमातृण्णा᳘ ऽनन्तर्हिता लोकम्पृणा᳘या ऽउ᳘पधीयते त᳘स्मादसा᳘वादित्यो᳘ ऽनन्तर्हितो दिवो᳘ ऽनन्तर्हितो᳘ ह्येष᳘ ऽएत᳘योपै᳘त्॥

मूलम् - Weber

त᳘मसा᳘वादिॗत्यो ऽब्रवीत्॥
उ᳘पाहमा᳘यानीति केने᳘ति लोकम्पृणये᳘ति तथे᳘त्येष वाव᳘ लोकम्पृॗणात्म᳘ना हैव त᳘दुवाच त᳘स्मात्तृती᳘या स्वयमातृणा᳘नन्तर्हिता लोकम्पृणा᳘या उ᳘पधीयते त᳘स्मादशा᳘वादित्यो᳘ ऽनन्तर्हितो दिवो᳘ ऽनन्तर्हितोॗ ह्येष᳘ एत᳘योपै᳘त्॥

मूलम् - विस्वरम्

तमसावादित्यो ऽब्रवीत्- उपाह मायानीति । केनेति । लोकम्पृणयेति । तथोति । एष वाव लोकम्पृणा । आत्मना हैव तदुवाच । तस्मात्तृतीया स्वयमातृण्णा ऽनन्तर्हिता लोकम्पृणाया ऽउपधीयते । तस्मादसावादित्यो ऽनन्तर्हितो, दिवः । अनन्तर्हितो ह्येष एतयोपैत् ॥ ६ ॥

सायणः

तस्मिन् मन्त्रे “सूर्यस्त्वा ऽभिपातु” 12 इति सूर्यसम्बन्धः श्रूयते । तं दर्शयति- तमसावादित्यो ऽब्रवीदिति । लोकम्पृणयेतीति । एतन्नामधेयेष्टकया । लोकम्पृणयेति यदादित्येनोक्तम्, तद् विवृणोति- आत्मना हैव तदुवाचेति । तस्याः तृतीयायाः स्वयमातृण्णेष्टकाया लोकम्पृणायाश्च पौर्वापर्येण उपधानमुत्तरत्र वक्ष्यते । तन्मन्त्रे (वा. सं. १२ । ५४-५६- वा. सं. १५ ५९-६१) पूर्ववदादिमध्यान्तेषु परमेष्ठिसम्बन्धः, द्युलोकरूपत्वम्, सूर्यसम्बन्धश्च [^२_६९] विद्यते ॥ ६ ॥

Eggeling
  1. Yonder Sun said to him, ‘I will step nigh!’–‘Wherewith?’–‘With a space-filling (brick 13).’–‘So be it!’–Now he (the sun) indeed is the space-filler: ‘by (mine own) self,’ he thus means to say. Hence the third naturally-perforated one is laid on so as not to be separated from the space-filling one 14; and hence yonder sun is not separated from the sky, for not separated therefrom did he step nigh with this (brick).

०७

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘देता वाव ष᳘ड् देवताः[[!!]]॥
(ऽ) इदᳫँ᳭ स᳘र्वमभवन्य᳘दिदं किं᳘ च ते᳘ देवाश्च᳘ ऽर्षयश्चाब्रुवन्निमा वाव ष᳘ड् देव᳘ता ऽइदᳫँ᳭ स᳘र्व्वमभूवन्नु᳘प त᳘ज्जानीत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति ते᳘षां चेत᳘यमानानां देवा᳘ द्विती᳘यां चि᳘तिमपश्यन्नृ᳘षयश्चतुर्थी᳘म्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘देता वाव ष᳘ड् देवताः[[!!]]॥
(ऽ) इदᳫँ᳭ स᳘र्वमभवन्य᳘दिदं किं᳘ च ते᳘ देवाश्च᳘ ऽर्षयश्चाब्रुवन्निमा वाव ष᳘ड् देव᳘ता ऽइदᳫँ᳭ स᳘र्व्वमभूवन्नु᳘प त᳘ज्जानीत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति ते᳘षां चेत᳘यमानानां देवा᳘ द्विती᳘यां चि᳘तिमपश्यन्नृ᳘षयश्चतुर्थी᳘म्॥

मूलम् - Weber

त᳘देता वाव ष᳘ड् देव᳘ताः॥
इदᳫं स᳘र्वमभवन्य᳘दिदं किं᳘ च ते᳘ देवाश्च᳘ ऽर्षयश्चाब्रुवन्निमा वाव ष᳘ड् देव᳘ता इदᳫं स᳘र्वमभूवन्नु᳘प तज्जानीत य᳘था वय᳘मिॗहाप्यसामे᳘तिॗ ते ऽब्रुवंश्चेत᳘ग्रध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘था वय᳘मिॗहाप्य᳘सामे᳘ति ते᳘षां चेत᳘यमानानां देवा᳘ द्विती᳘यां चि᳘तिमपश्यन्नृ᳘षयश्चतुर्थीम्॥

मूलम् - विस्वरम्

तदेता वाव षड् देवता इदं सर्वमभूवन्- यदिदं किंच । ते देवाश्च ऽर्षयश्चाब्रुवन्- इमा वाव षड्देवता इदं सर्वमभूवन् । उप तज्जानीत- यथा वयमिहाप्यसामेति । ते ऽब्रुवन् । चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत- यथा वयमिहाप्यसामेति । तेषां चेतयमानानां देवा द्वितीयां चितिमपश्यन्, ऋषयश्चतुर्थीम् ॥ ७ ॥

सायणः

इत्थं प्रथममध्यमोत्तमास्तिस्रश्चितय ऋषिदेवतासम्बन्धित्वेन दर्शिताः, इतः परं द्वितीयचतुर्थ्योश्चित्योरुत्पत्तिप्रकारं वक्तुमुक्तचितित्रये ऋषिदेवताः परिगणयति- तदेता वाव षड् देवता इति । प्रजापतीन्द्राग्निविश्वकर्मपरमेष्ठिनस्त्रय ऋषयः, अग्निवायुसूर्यास्तिस्रो देवताः, इति षड् देवताः, इत्युक्तम् । इन्द्राग्न्योर्विश्वकर्मणश्च सहैव चितिद्रष्टृत्वेनैका देवतेति परिगणनया षड् देवता भवन्तीत्यर्थः । लोकानां भूम्यादीनां त्रित्वात्, तदभिमानिनामग्न्यादीनां च त्रित्वात्, एतेषु सर्वसंग्रहाभिप्रायेण “इदं सर्वमभवन् यदिदं किञ्च”- इत्युक्तम् । ते देवा ऋषय इति । उक्तव्यतिरिक्ताः ‘ऋषयो देवाश्च’ परस्परम् ‘अब्रुवन्’ उक्तिप्रकारं दर्शयति- इमा वावं षड् देवता इति । प्रजापत्यादय एव षड् देवता ‘सर्वम्’ ‘अभूवन्’ ‘वयम् अपि’ देवा ऋषयश्च ‘इह’ अस्मिन् चयनकर्मणि ‘यथा’ येन प्रकारेण ‘असाम’ भवेम । अस्तेर्लोटि रूपम् । ‘तत्’ चयनमध्ये भवनम् ‘उपजानीत’ अन्योन्यं विचारयतेति अन्ये देवर्षयो ऽवोचन् ॥

ते ऽब्रुवन्नित्यादिना द्वितीयचतुर्थ्योश्चित्योरुत्पत्तिरुक्ता । प्रथमस्वयमातृण्णाचितेरनन्तरं देवदृष्टाद्वितीया चितिः, द्वितीयस्वयमातृण्णानन्तरमृषिदृष्टा चतुर्थी चितिः, एवं पञ्च चितयः सम्पन्ना इत्यर्थः ॥ ७ ॥

Eggeling
  1. These six deities forsooth became all this (universe), whatsoever exists here. The gods and the Rishis said, ‘Those six deities forsooth have become all this (universe): bethink ye yourselves how we also may share therein!’ They said, ‘Meditate ye!’ whereby doubtless they meant to say, ‘Seek ye a layer! seek ye how we also may share in this 15! Whilst they were meditating, the gods saw a second, the R̥shis a fourth, layer 16.

०८

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प व्वयमा᳘यामे᳘ति केने᳘ति य᳘देषु᳘ लोकेषूपे᳘ति तथे᳘ति तद्य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्ते᳘न देवा ऽउ᳘पायंस्त᳘देषा᳘ द्विती᳘या चि᳘तिर᳘थ य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नं दिवस्तेन᳘ ऽर्षय ऽउ᳘पायंस्त᳘देषा᳘ चतुर्थी चि᳘तिः॥

मूलम् - श्रीधरादि

ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प व्वयमा᳘यामे᳘ति केने᳘ति य᳘देषु᳘ लोकेषूपे᳘ति तथे᳘ति तद्य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्ते᳘न देवा ऽउ᳘पायंस्त᳘देषा᳘ द्विती᳘या चि᳘तिर᳘थ य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नं दिवस्तेन᳘ ऽर्षय ऽउ᳘पायंस्त᳘देषा᳘ चतुर्थी चि᳘तिः॥

मूलम् - Weber

ते ऽब्रुवन्॥
उ᳘प वयमा᳘यामे᳘ति केने᳘ति य᳘देषु᳘ लोकेषूपे᳘ति तथे᳘ति तद्य᳘दूर्ध्व᳘म् पृथिव्या᳘ अर्वाची᳘नमन्त᳘रिक्षात्ते᳘न देवा उ᳘पायंस्त᳘देषा᳘ द्विती᳘या चि᳘तिर᳘थ य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्वाची᳘नं दिवस्तेन᳘ ऽर्षय उ᳘पायंस्त᳘देषा᳘ चतुर्थी चि᳘तिः॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- उप वयमायामेति । केनेति । यदेषु लोकेषूपेति । तथेति । तद्यदूर्ध्वं पृथिव्याः, अर्वाचीनमन्तरिक्षात्- तेन देवा उपायन् । तदेषा द्वितीया चितिः । अथ यदूर्ध्वमन्तरिक्षात्, अर्वाचीनं दिवः- तेन ऽर्षय उपायन् । तदेषा चतुर्थी चितिः ॥ ८ ॥

सायणः

ते ऽब्रुवन्नुपेति । तद्यदूर्ध्वं पृथिव्या इति । ‘पृथिव्याः’ भूलोकाद् ‘ऊर्ध्वम्’ ‘अन्तरिक्षादर्वाचीनं’ ‘यत्’ पदार्थजातमस्ति, ‘तेन’ सह ‘देवाः’ द्वितीयां चितिम् उपागच्छन् । ‘अन्तरिक्षात्’ ‘ऊर्द्ध्वम्’ ‘दिवः’ द्युलोकात् ‘अर्वाचीनम्’ ‘यद्’ वस्तुजातमस्ति, ‘तेन’ सह ‘ऋषयः’ चतुर्थीं चितिमपश्यन्नित्यर्थः ॥ ८ ॥

Eggeling
  1. They said, ‘We will step nigh!’–‘Wherewith?’–‘With what is over and above these worlds!’–‘So be it!’ Now what there is above the earth on this side of the air, therewith the gods stepped nigh, that is this second layer; and what there

is above the air on this side of the sky, therewith the Rishis stepped nigh, that is this fourth layer.

०९

विश्वास-प्रस्तुतिः

(स्ते) ते यद᳘ब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्य᳘च्चेत᳘यमाना ऽअ᳘पश्यंस्त᳘स्माच्चि᳘तयः॥

मूलम् - श्रीधरादि

(स्ते) ते यद᳘ब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्य᳘च्चेत᳘यमाना ऽअ᳘पश्यंस्त᳘स्माच्चि᳘तयः॥

मूलम् - Weber

ते यद᳘ब्रुवन्॥
चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्य᳘च्चेत᳘यमाना अ᳘पश्यंस्त᳘स्माच्चि᳘तयः॥

मूलम् - विस्वरम्

ते यदब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । यच्चेतयमाना अपश्यन्- तस्माच्चितयः ॥ ९ ॥

सायणः

चितिशब्दं निर्वक्ति- ते यदब्रुवन्निति । यस्मात् तेषु चोक्ताः प्रजापत्यादयः सर्वे ऽपि ‘चेतयध्वमिति’ उक्त्वा चितिं दृष्टवन्तः, ‘तस्मात्’ चितिसंसर्गात् चितिशब्दो निरुक्तः । “चिती सञ्ज्ञाने” (धा. पा. भ्वा. प. ३९) क्तिनि धातुतकारलोपे कृते रूपमिति मन्तव्यम् । यद्वा “चिञ् चयने”- (धा. पा. स्वा. उ. ५) इत्यस्य क्तिनि रूपम् ॥ ९ ॥

Eggeling
  1. Now when they said, ‘Meditate ye (cetayadhvam)!’ they doubtless meant to say, ‘Seek ye a layer (citim icchata)!’ and inasmuch as meditating (cetay) they saw them, therefore they are ’layers’ (citayaḥ).

१०

विश्वास-प्रस्तुतिः

प्रजा᳘पतिः प्रथमां चि᳘तिमपश्यत्॥
(त्प्र) प्रजा᳘पतिरेव त᳘स्या आर्षेयं᳘ देवा᳘ द्विती᳘यां चि᳘तिमपश्यन्देवा᳘ ऽएव त᳘स्या ऽआर्षेय᳘मिन्द्राग्नी᳘ च व्विश्व᳘कर्मा च तृती᳘यां चि᳘तिमपश्यंस्त᳘ ऽएव त᳘स्या ऽआर्षेयमृ᳘षयश्चतुर्थीं चि᳘तिमपश्यन्नृ᳘षय ऽएव त᳘स्या ऽआर्षेयं᳘ परमेष्ठी᳘ पञ्चमीं चि᳘तिमपश्यत्परमे᳘ष्ठ्यैव त᳘स्या ऽआर्षेयᳫँ᳭ स यो᳘ हैत᳘देवं चि᳘तीनामार्षेयं व्वे᳘दार्षेय᳘वत्यो हास्ये ब᳘न्धुमत्यश्चि᳘तयो भवन्ति॥

मूलम् - श्रीधरादि

प्रजा᳘पतिः प्रथमां चि᳘तिमपश्यत्॥
(त्प्र) प्रजा᳘पतिरेव त᳘स्या आर्षेयं᳘ देवा᳘ द्विती᳘यां चि᳘तिमपश्यन्देवा᳘ ऽएव त᳘स्या ऽआर्षेय᳘मिन्द्राग्नी᳘ च व्विश्व᳘कर्मा च तृती᳘यां चि᳘तिमपश्यंस्त᳘ ऽएव त᳘स्या ऽआर्षेयमृ᳘षयश्चतुर्थीं चि᳘तिमपश्यन्नृ᳘षय ऽएव त᳘स्या ऽआर्षेयं᳘ परमेष्ठी᳘ पञ्चमीं चि᳘तिमपश्यत्परमे᳘ष्ठ्यैव त᳘स्या ऽआर्षेयᳫँ᳭ स यो᳘ हैत᳘देवं चि᳘तीनामार्षेयं व्वे᳘दार्षेय᳘वत्यो हास्ये ब᳘न्धुमत्यश्चि᳘तयो भवन्ति॥

मूलम् - Weber

प्रजा᳘पतिः प्रथमां चि᳘तिमपश्यत्॥
प्रजा᳘पतिरेव त᳘स्या आर्षेयं᳘ देवा᳘ द्विती᳘यां चि᳘तिमपश्यन्देवा᳘ एव त᳘स्या आर्षेय᳘मिन्द्राग्नी᳘ च विश्व᳘कर्मा च तृती᳘यां चि᳘तिमपश्यंस्त᳘ एव त᳘स्या आर्षेयमृ᳘षयश्चतुर्थीं चि᳘तिमपश्यन्नृ᳘षय एव त᳘स्या आर्षेय᳘म् परमेष्ठी᳘ पञ्चमीं चि᳘तिमपश्यत्परमेॗष्ठ्येव त᳘स्या आर्षेयᳫं स यो᳘ हैत᳘देवं चि᳘तीनामार्षेयं वे᳘दार्षेय᳘वत्यो हास्य ब᳘न्धुमत्यश्चि᳘तयो भवन्ति॥

मूलम् - विस्वरम्

प्रजापतिः प्रथमां चितिमपश्यत् । प्रजापतिरेव तस्या आर्षेयम् । देवा द्वितीयां चितिमपश्यन् । देवा एव तस्या आर्षेयम् । इन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यन् । त ऽएव तस्या आर्षेयम् । ऋषयश्चतुर्थीं चितिमपश्यन् । ऋषय एव तस्या आर्षेयम् । परमेष्ठी पञ्चमीं चितिमपश्यत् । परमेष्ठ्येव तस्या आर्षेयम् । स यो हैतदेवं चितीनामार्षेयं वेद- आर्षेयवत्यो हास्य बन्धुमत्यश्चितयो भवन्ति ॥ १० ॥

सायणः

उक्तानां स्वयमातृण्णादीनां पञ्चानां चितीनां (तै. सं. ५ । ६ । १०) प्रजापत्यादयो ऽग्न्यादयश्च ऋषयो देवाश्चोक्ताः, तत्र ऋषीनेव सुखप्रतिपत्तये दर्शयति- प्रजापतिः प्रथमां चितिमपश्यदिति । प्रजापतिरेव तस्या आर्षेयमिति । एवकारो ऽन्यनिवृत्त्यर्थः । ‘तस्याः’ प्रथमायाश्चितेः ‘आर्षेयम्’ । ऋषिरेवार्षेयम्, स्वार्थिको ढक्-प्रत्ययः । चितीनामृषीन् विदुषः फलमाह स यो हैतदेवमिति । ‘अस्य’ वेदितुः ‘चितयः’ ‘आर्षेयवत्यः’ ऋषिसम्बद्धाः, ‘बन्धुमत्यः’ विधायकब्राह्मणानूदिताः । वेदनमात्रेण ऋषिदृष्टा ब्राह्मणविहिताश्चितयो ऽनुष्ठिता ‘भवन्ति’ इत्यर्थः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (६-२-३) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठे काण्डे द्वितीयो ऽध्यायः समाप्तः ॥ ६-२॥

Eggeling
  1. Prajāpati saw the first layer: Prajāpati assuredly is its (spiritual) ancestry. The gods saw the second layer: the gods assuredly are its ancestry. Indra and Agni, and Viśvakarman saw the third layer: they assuredly are its ancestry. The R̥shis saw the fourth layer: the Rishis assuredly are its ancestry. Parameshṭḥin saw the fifth layer: Parameshṭḥin assuredly is its ancestry. And, verily, whosoever so knows that (spiritual) ancestry of the structures (layers of the fire-altar), his structures are indeed possessed of an ancestry, possessed of relations (or, of mystic significance, bandhu).

  1. 186:5 The author here connects the causal verb ‘cetay’ (to reflect) with ‘ci,’ to pile, to build; or rather with ‘citim ish,’ to desire building (an altar). ↩︎

  2. 187:1 See p. 155, note 8. ↩︎

  3. 187:2 Or, that (layer), the three naturally-perforated bricks occupying the centre of the first, third, and fifth layers of the altar, these bricks are, as it were, the representatives of the respective layers. This first svayam-ātr̥ṇṇā brick is laid down with the formula, ‘May Prajāpati settle thee!’ See VII, 4, 2, 6. ↩︎

  4. मूलाग्रवतीं दूर्व्वां तस्यां पुरस्तात् भूमिप्राप्तां कांडात्कांडादिति । का. श्रौ. सू. १७ । ९० । ↩︎

  5. 187:3 A stalk of Dūrvā (Dūb) grass–Panicum (or Cynodon) dactylon, or Agrostis linearis–is laid upon the first naturally-perforated brick (which again lies on the man of gold) in such a way that the root lies upon it and the tops hanging down to the ground. ‘Its flowers in the perfect state are among the loveliest objects in the vegetable world, and appear through a lens like minute rubies and emeralds in constant motion from the least breath of air. It is the sweetest and most nutritious pasture for cattle, and its usefulness, added to its beauty, induced the Hindus in the earliest ages to believe it was the mansion of a benevolent nymph.’ Sir W. Jones, Works, vol. v, p. 78. Professor R. Wallace, in his ‘India in 1887,’ gives an excellent illustration of this famous grass. He remarks (p. 282) that it has a wonderful power of remaining green, being the grass of all Indian grasses which retains its succulence throughout the extreme heat of summer.’ ↩︎

  6. 187:4 That is to say, immediately after (the earth-brick had been laid on). ↩︎

  7. 188:1 This second naturally-perforated brick, representing the air, forms the centre of the third layer of the altar. See VIII, 3, 1, 1 seq. ↩︎

  8. अनूकेषु पञ्च दिश्या व्वैश्वदेवीवत् राज्ञ्यसीति प्रतिमन्त्रम् । व्विश्वकर्म्मेति व्विश्वज्योतिषमुपरि पूर्व्वस्याः । काο श्रौ० सू० १७ । १९२-१९३ । ↩︎ ↩︎

  9. 188:2 That is, the bricks marking the regions, or quarters (diśyā); five of these are laid down immediately after the self-perforated one, in the four directions from it, two of them being laid on the south. See VIII, 3, 1, 11. ↩︎

  10. 188:3 Viz. without being separated from the layer which the second svayam-ātr̥ṇṇā represents. They would seem to lie about a foot away from the central brick; but as no other special brick lies between them, they may on that account be considered as not separated from it. ↩︎

  11. 188:4 The third svayam-ātr̥ṇṇā, though considered as forming part of the fifth layer, is really laid on the top of it or rather on the ‘punaściti’–an additional pile of eight bricks laid over the central, gārhapatya-like, portion of the fifth layer (cf. VI, 6, 1, 14, with note 3). It is laid down with the formula ‘May the Most High settle thee!’–and on it the fire is subsequently placed. See VIII, 7, 3, 13 seq. ↩︎

  12. विश्वज्योतिषं परमेष्ठी त्वेति । का० श्रौ० सू० १७ । २५९ । ↩︎

  13. 189:1 See p. 153, note 1. ↩︎

  14. 189:2 The laying down of the last svayam-ātr̥ṇṇā (together with the likewise perforated ‘vikarṇī’) is immediately preceded by the filling up of the fifth layer with the ‘space-filling’ bricks, only one of which has the common formula pronounced over it. See VIII, 7, 2, 1 seq. ↩︎

  15. 189:3 Viz. in this universe, and, as a representation thereof, in this fire-altar. ↩︎

  16. 189:4 In the foregoing 1-5 paragraphs only those three layers, which have a ’naturally-perforated’ brick in the centre, viz. the first, third, and fifth layers, were mentioned. The author now remarks on the two other layers, representing as it were the space between the three worlds. ↩︎