०१

विश्वास-प्रस्तुतिः

प्राजापत्यं च᳘रका ऽआ᳘लभन्ते॥
प्रजा᳘पतिरग्निं᳘ चि᳘त्वा ऽग्नि᳘रभवत्तद्य᳘देत᳘माल᳘भते त᳘दे᳘वाग्नेर᳘न्तं प᳘र्येती᳘ति[[!!]]॥

मूलम् - श्रीधरादि

प्राजापत्यं च᳘रका ऽआ᳘लभन्ते॥
प्रजा᳘पतिरग्निं᳘ चि᳘त्वा ऽग्नि᳘रभवत्तद्य᳘देत᳘माल᳘भते त᳘दे᳘वाग्नेर᳘न्तं प᳘र्येती᳘ति[[!!]]॥

मूलम् - Weber

प्राजापत्यं च᳘रका आ᳘लभन्ते॥
प्रजा᳘पतिरग्निं᳘ चिॗत्वाग्नि᳘रभवत्तद्य᳘देत᳘माल᳘भते त᳘देॗवाग्नेर᳘न्तम् पर्ये᳘ती᳘ते॥

मूलम् - विस्वरम्

प्राजापत्यं चरका आलभन्ते । प्रजापतिरग्निं चित्वा ऽग्निरभवत् । तद्यदेतमालभते- तदेवाग्नेरन्तं पर्येति ॥ १ ॥

सायणः

प्रजापतिदेवत्यपश्वनुष्ठाने सम्प्रदायं दर्शयति- प्राजापत्यं चरका आलभन्त इति । चरका नाम चरकप्रोक्तशाखाध्यायिनो महर्षयः । तत्र फलमाह- प्रजापतिरग्निं चित्वेति ॥ १ ॥

Eggeling
  1. The Carakas slaughter (a he-goat) for Prajāpati, saying, ‘Prajāpati, having built up the fire-altar (agni), became Agni. When he slaughters that one, then indeed he reaches the end of Agni (the fire-altar).’

०२

विश्वास-प्रस्तुतिः

श्यामो᳘ भवति॥
द्वया᳘नि वै᳘ श्याम᳘स्य लो᳘मानि शुक्ला᳘नि च कृष्णा᳘नि च द्वन्द्वं᳘ मिथुनं᳘ प्रज᳘ननं त᳘दस्य प्राजापत्य᳘ᳫँ᳘ रूपं᳘ तूपरो᳘ भवति तूपरो हि᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

श्यामो᳘ भवति॥
द्वया᳘नि वै᳘ श्याम᳘स्य लो᳘मानि शुक्ला᳘नि च कृष्णा᳘नि च द्वन्द्वं᳘ मिथुनं᳘ प्रज᳘ननं त᳘दस्य प्राजापत्य᳘ᳫँ᳘ रूपं᳘ तूपरो᳘ भवति तूपरो हि᳘ प्रजा᳘पतिः॥

मूलम् - Weber

श्यामो᳘ भवति॥
द्वया᳘नि वै᳘ श्याम᳘स्य लो᳘मानि शुक्ला᳘नि च कृष्णा᳘नि च द्वन्द्व᳘म् मिथुन᳘म् प्रज᳘ननं त᳘दस्य प्राजापत्यं᳘ रूपं᳘ तूफ़रो᳘ भवति तूपरो हि᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

श्यामो भवति । द्वयानि वै श्यामस्य लोमानि- शुक्लानि च कृष्णानि च । द्वन्द्वं मिथुनं प्रजननम् । तदस्य प्राजापत्यं रूपम् । तूपरो भवति । तूपरो हि प्रजापतिः ॥ २ ॥

सायणः

तस्य पशोर्वर्णं विधत्ते- श्यामो भवतीति । ‘श्यामः’ शुक्लकृष्णवर्णद्वययुक्तः पशुः कार्य इत्यर्थः । तद्- वर्णद्वयं प्रजापतिः स इत्युपपादयति- द्वयानि वै श्यामस्य लोमानीति । प्रजापतेर्लोकप्रजननसद्भावात् उक्तविधरूपद्वयसमुदायस्य प्राजापत्यत्वम् । गुणान्तरं विधत्ते- तूपरो भवतीति । विषाणरहितस्य प्रजापतेरपि शृङ्गरूपस्योत्तमवस्तुनो राहित्यादिति तत्साम्यम् । अत्र कात्यायनः- “श्यामतूपरो वा प्राजापत्य उपदध्यात्”- (का. श्रौ. सू. १६ । ३३ ।) इति ॥ २ ॥

Eggeling
  1. It is a dark grey one; for the grey has two kinds of hair, the white and the black; and two make a productive pair: that is its Prajāpati-characteristic. It is a hornless one, for Prajāpati is hornless.

०३

विश्वास-प्रस्तुतिः

तस्यै᳘कविᳫँ᳭शतिः सामिधेन्यः᳘॥
(न्यो) द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭श᳘ ऽएष᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

तस्यै᳘कविᳫँ᳭शतिः सामिधेन्यः᳘॥
(न्यो) द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭श᳘ ऽएष᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

तस्यै᳘कविंशति सामिधेन्यः᳟॥
द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंश᳘ एष᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मात्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

तस्यैकविंशतिः सामिधेन्यः । द्वादश मासाः, पञ्च ऽर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः । एष प्रजापतिः- प्रजापतिरग्निः । यावानग्निः । यावत्यस्य मात्रा- तावतैवैनमेतत्समिन्धे ॥ ३ ॥

सायणः

प्रजापतिदेवत्यपशुपक्षे सामिधेनीषु समिध्यमानसमिद्धवत्योर्ऋचोर्मध्ये “समास्त्वा ऽग्न ऋतवः”- (वा. सं. २७ । १ ।) इत्याद्याः षट्सङ्ख्या ऋचो निदध्यादिति । तदिदं विधत्ते- तस्यैकविंशतिः सामिधेन्य इति । प्रकृतिगताः पञ्चदश, इदानीं धाय्याः षट् 1, उभय्य एकविंशतिरित्यर्थः । सामिधेनीगतामेकविंशतिसङ्ख्यां प्रकारद्वयेन प्रशंसति- द्वादश मासा इति । कण्डिकाद्वयं पूर्ववद् व्याख्येयम् ॥ ३ ॥ ४ ॥

Eggeling
  1. For this (animal sacrifice) there are twenty-one kindling-verses 2;–twelve months, five seasons, these three worlds, and yonder sun,–that is the twenty-onefold Prajāpati; and Prajāpati is Agni: as great as Agni is, as great as is his measure, by so much he thus kindles him.

०४

विश्वास-प्रस्तुतिः

य᳘द्वेवै᳘कविᳫँ᳭शतिः॥
(रे) एकविᳫँ᳭शो वै पु᳘रुषो द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या ऽआ᳘त्मैकविᳫँ᳭शः पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

य᳘द्वेवै᳘कविᳫँ᳭शतिः॥
(रे) एकविᳫँ᳭शो वै पु᳘रुषो द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या ऽआ᳘त्मैकविᳫँ᳭शः पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

य᳘द्वेवै᳘कविंशतिः॥
एकविंशो वै पु᳘रुषो द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या आॗत्मैकविंशः पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

यद्वेवैकविंशतिः । एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयः, दश पाद्याः, आत्मैकविंशः । पुरुषः प्रजापतिः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्समिन्धे ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. And, again, why there are twenty-one;–man (purusha) doubtless is twenty-onefold, ten fingers of the hand, ten toes, and the body (make) the twenty-onefold man Prajāpati; and Prajāpati is Agni: as great as Agni is, as great as is his measure, by so much he thus kindles him.

०५

विश्वास-प्रस्तुतिः

(न्द्ध ऽ) उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वे᳘वान्वृच᳘ᳫँ᳘ हिरण्यगर्भ᳘वत्या ऽऽघारमा᳘घारयति प्रजा᳘पतिर्व्वै᳘ हिरण्यगर्भः᳘ प्रजा᳘पति᳘रग्निर्द्वा᳘दशा᳘प्रियस्ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वे᳘वान्वृचं᳘ प्राजापत्यः᳘ पशुपुरोडाशो य᳘ ऽएव᳘ पशोर्ब᳘न्धुः स᳘ पुरोडा᳘शस्य द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संवत्सरः᳘ प्रजा᳘पतिः क᳘द्वत्यो याज्यानुवा᳘क्याः को हि᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

(न्द्ध ऽ) उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वे᳘वान्वृच᳘ᳫँ᳘ हिरण्यगर्भ᳘वत्या ऽऽघारमा᳘घारयति प्रजा᳘पतिर्व्वै᳘ हिरण्यगर्भः᳘ प्रजा᳘पति᳘रग्निर्द्वा᳘दशा᳘प्रियस्ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वे᳘वान्वृचं᳘ प्राजापत्यः᳘ पशुपुरोडाशो य᳘ ऽएव᳘ पशोर्ब᳘न्धुः स᳘ पुरोडा᳘शस्य द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संवत्सरः᳘ प्रजा᳘पतिः क᳘द्वत्यो याज्यानुवा᳘क्याः को हि᳘ प्रजा᳘पतिः॥

मूलम् - Weber

उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वेॗवान्वृच᳘ᳫं᳘ हिरण्यगर्भ᳘वत्याघारमा᳘घारयति प्रजा᳘पतिर्वै᳘ हिरण्यगर्भः᳘ प्रजा᳘पतिरग्निर्द्वा᳘दशा᳘प्रियस्ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वेॗवान्वृच᳘ प्राजापत्यः᳘ पशुपुरोडाशो य᳘ एव᳘ पशोर्ब᳘न्धुः स᳘ पुरोडा᳘शस्य द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सरः᳘ प्रजा᳘पतिः क᳘द्वत्यो याज्यानुवाॗक्याः को हि᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । तासामुक्तो बन्धुः । उक्तम्वेवान्वृचम् । हिरण्यगर्भवत्या ऽऽघारमाघारयति । प्रजापतिर्वै हिरण्यगर्भः । प्रजापतिरग्निः । द्वादशाप्रियः, तासामुक्तो बन्धुः । उक्तम्वेवान्वृचम् । प्राजापत्यः पशुपुरोडाशः । य एव पशोर्बन्धुः- स पुरोडाशस्य । द्वादशकपालः । द्वादश मासाः सम्वत्सरः, सम्वत्सरः प्रजापतिः । कद्धत्यो याज्यानुवाक्याः । को हि प्रजापतिः ॥ ५ ॥

सायणः

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाहेति । सामिधेनीषु पूर्वं गायत्रीच्छन्दस्का भूयस्यः, मध्ये त्रिष्टुभः, अन्ते च गायत्र्यः, ताश्च प्रजापतिसन्धानार्थाः ॥

एतस्य सर्वस्य विधायकं ब्राह्मणमतिदिशति- तासामुक्तो बन्धुरुक्तम्वेवावृचमिति । ‘बन्धुः’ स्तावकं ब्राह्मणम् ‘उक्तम्’, पञ्चपशुविधिप्रकरणे; सामिधेनीषु आसाम् ‘अन्वृचं’ प्रत्यृचम् उक्तमेव, व्याख्यातं चेत्यर्थः, “प्राणो गायत्र्यात्मा त्रिष्टुप्” (श. प. २ । १ । २) इत्यादिना, “ता एता एकव्याख्यानाः एतमेवाभि यथैतमेव संस्कुर्यादेतं जनयेत्”- (श. प. ६ । २ । १ । २७) इति च । अस्मिन् प्राजापत्यपक्षे उत्तराधारे मन्त्रविशेषं- हिरण्यगर्भवत्या ऽऽघारमाघारयतीति 1 वचनात् हिरण्यगर्भपदवत्या ऋचा आघाराः स्रुचि, उत्तरस्यामिति सामर्थ्याल्लभ्यते । “हिरण्यगर्भः समवर्त्तताग्रे”- (वा. सं. १३ । ४) इति मन्त्रेणेत्यर्थः । अत्र किमयमविशेषेणोक्तो मन्त्रः पूर्वस्मिन् स्रुवाघारे ? इति । किं तावत् प्राप्तम् ? पूर्वाघारो हिरण्यगर्भवत्या कर्त्तव्यः, कुतः ? देवतासामान्यात् । पूर्वाघारः तूष्णीं हूयमानत्वात् प्रजापतिदेवत्यः; हिरण्यगर्भमन्त्रस्यापि प्रजापतिर्देवता; “कस्मै देवाय हविषा विधेम”- (वा. सं. १३ । ४) इति मन्त्रलिङ्गात् । ‘क’-शब्देन प्रजापतिरभिधीयते; “को हि प्रजापतिः”- (श. ब्रा. ४ । ५ । ६ । ४ ॥ ६ । २ । २ । ५ । १२) । (तै. सं. १ । ७ । ६ । ६) इति श्रुतेः । अतो मन्त्रो देवताभिधानसमर्थः पूर्वस्मिन् स्रुवाघारे एव विनियुज्यते इति प्राप्ते, ब्रूमः- पूर्वाघारे नायं मन्त्रः; किन्तर्हि ? उत्तराघारे, मन्त्रवत्त्वसामान्यात् । यस्याघारस्य प्रकृतौ मन्त्रो दृष्टः, तत्रैव मन्त्रान्तरविधानं युक्ततरम्; इतरत्र पूर्वाघारे तु पूर्वं प्रकृतौ मन्त्रराहित्यादमन्त्रवत्ता विधेया, तद्विशेषे च गौरवं स्यात् । तर्हि उत्तराघारे ऐन्द्रमन्त्रस्य विनियुक्तत्वात् कथमत्र तद्विशेषविधिरिति चेत् ?, सत्यम् । ‘इन्द्र’-पदस्य प्रजाप्रतिपरतया व्याख्यातुं योग्यत्वात्, मन्त्रवत्त्वसामान्याच्च मन्त्रान्तरस्य निवर्त्तको भवति । तस्मात् उत्तराघारे एवायं मन्त्र इति सिद्धान्तः ॥

कात्यायनेनापि पूर्वोत्तरपक्षौ दर्शितो- “हिरण्यगर्भ इत्यृचा स्रुवाघारः, पूर्वो देवतासामान्यात्, उत्तरे तु सामान्योपदेशाभ्याम्”- (का. श्रौ. सू. १६ । ३५-३७) इति । पूर्व एव नापूर्वाघारः; प्रकृतिलिङ्गसामान्यात् । न तु पूर्वः प्रथम आघारः; उत्तरत्र वर्ण्यमानपूर्वोत्तरपक्षविरोधात् । तौ चाधिकरणे पूर्वोत्तरपक्षवद् योज्यौ “तुल्यमन्यत् सर्वेषु”- (का. श्रौ. सू. १६ । ४३) इति यत् कात्यायनेन दर्शितम्, तदिदमाह- द्वादशाप्रिय इति । एतासामाप्रीणामपि संख्यास्तावकं ब्राह्मणं प्रजापतिसंस्कारसन्धानजननलक्षणैकार्थव्याख्यानं चातिदिशति- तासामुक्तो बन्धुरिति । ‘बन्धुः’ ब्राह्मणम् । प्राजापत्यपशुपुरोडाशस्य तत्पशुब्राह्मणमतिदिशति- य एव पशोर्बन्धुः स पुरोडाशस्येति । एवं ह्येतत्- “प्राजापत्यं चरका आलभन्ते प्रजापतिरग्निं चित्वा ऽग्निरभवत् तद्यदेतमालभते तदेवाग्नेरन्तं पर्येति” 3- इति । ‘क’ पदयुक्तानां प्रजापतिदेवत्यत्वं दर्शयति- को हि प्रजापतिरिति ॥ ५ ॥

Eggeling
  1. He recites both gāyatrī and trishṭubh verses: their significance has been told; and (what applies to) the order of the verses has been told. The libation of ghee 4 he makes with the verse containing (the name) Hiraṇyagarbha 5; for Hiraṇyagarbha.

is Prajāpati, and Prajāpati is Agni. There are twelve Āprī-verses: their significance has been told; and (what applies to) the order of the verses has been told. The animal cake belongs to Prajāpati, for the relation of the victim is also that of the animal cake 6. It is one on twelve potsherds: twelve months are a year, and the year is Prajāpati. The offering and invitatory formulas contain the word ‘Ka,’ for Prajāpati is Ka 7.

०६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थैतं᳘ व्वाय᳘वे नियु᳘त्वते॥
शुक्लं᳘ तूपरमा᳘लभते प्रजा᳘पतिः प्रजाः᳘ सृ᳘ष्ट्वा ऽनु᳘व्यैक्षत तस्या᳘त्यानन्देन रे᳘तः प᳘रापत᳘त्सो ऽजः᳘ शुक्ल᳘स्तूपरो᳘ लप्सु᳘द्यभवद्र᳘सो[[!!]] वै रे᳘तो या᳘वानु वै र᳘सस्ता᳘वानात्मा तद्य᳘देत᳘माल᳘भते त᳘दे᳘वाग्नेर᳘न्तं प᳘र्येति शुक्लो᳘ भवति शुक्लᳫँ᳭ हि रे᳘तस्तूपरो᳘ भवति तूपरᳫँ᳭ हि रे᳘तो व्वाय᳘वे भवति प्राणो वै᳘ व्वायुर्नियु᳘त्वते[[!!]] भवत्युदानो वै᳘ नियु᳘तः प्राणोदाना᳘वे᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थैतं᳘ व्वाय᳘वे नियु᳘त्वते॥
शुक्लं᳘ तूपरमा᳘लभते प्रजा᳘पतिः प्रजाः᳘ सृ᳘ष्ट्वा ऽनु᳘व्यैक्षत तस्या᳘त्यानन्देन रे᳘तः प᳘रापत᳘त्सो ऽजः᳘ शुक्ल᳘स्तूपरो᳘ लप्सु᳘द्यभवद्र᳘सो[[!!]] वै रे᳘तो या᳘वानु वै र᳘सस्ता᳘वानात्मा तद्य᳘देत᳘माल᳘भते त᳘दे᳘वाग्नेर᳘न्तं प᳘र्येति शुक्लो᳘ भवति शुक्लᳫँ᳭ हि रे᳘तस्तूपरो᳘ भवति तूपरᳫँ᳭ हि रे᳘तो व्वाय᳘वे भवति प्राणो वै᳘ व्वायुर्नियु᳘त्वते[[!!]] भवत्युदानो वै᳘ नियु᳘तः प्राणोदाना᳘वे᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थैतं᳘ वाय᳘वे नियु᳘त्वते॥
शुक्लं᳘ तूपरमालभते प्रजा᳘पतिः प्रजाः᳘ सृॗष्ट्वानुॗव्यैक्षत तस्या᳘त्यानन्देन रे᳘तः प᳘रापतॗत्सो ऽजः शुक्ल᳘स्तूपरो᳘ लप्सुद्य᳘भवद्र᳘सो वै रे᳘तो या᳘वानु वै र᳘सस्ता᳘वानात्मा तद्य᳘देत᳘माल᳘भते त᳘देॗवाग्नेर᳘न्तम् प᳘र्येति शुक्लो᳘ भवति शुक्लᳫं हि रे᳘तस्तूपरो᳘ भवति तूपरᳫं हि रे᳘तो वाय᳘वे भवति प्राणो वै᳘ वायु᳘र्नियु᳘त्वते भवत्युदानो वै᳘ नियु᳘तः प्राणोदाना᳘वेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथैतं वायवे नियुत्वते शुक्लं तूपरमालभते । प्रजापतिः प्रजाः सृष्ट्वा ऽनुव्यैक्षत । तस्यात्यानन्देन रेतः । परापतत् सो ऽजः शुक्लस्तूपरो लप्सुद्यभवत् । रसो वै रेतः । यावानु वै रसस्तावानात्मा । तद्यदेतमालभते- तदेवाग्नेरन्तं पर्येति । शुक्लो भवति । शुक्लं हि रेतः । तूपरो भवति । तूपरं हि रेतः । वायवे भवति । प्राणो वै वायुः । नियुत्वते भवति । उदानो वै नियुतः । प्राणोदानावेवास्मिन्नेतद्दधाति ॥ ६ ॥

सायणः

वायव्य पशुपक्षं विधत्ते- अथैतं वायव इति । ‘नियुत्वते’ नियुत्वद्गुणकाय वायवे ‘शुक्रः’ वर्णतः ‘तूपरः’ विषाणरहितः, आलब्धव्यः । “प्रजापतिः प्रजाः सृष्ट्वा ऽनुव्यैक्षत” इत्यादिकं “तूपरो हि वायुः” इत्यन्तं ब्राह्मणं पशोः शुक्लत्वतूपरत्वयोर्नित्यत्वाद् वायुदेवत्यस्यैव स्तावकम् । तूपरो लप्सुदीति । ‘लप्सुदी’ 8 ललाटे शुक्लवर्ण इत्यर्थः ॥ ६ ॥ ७ ॥

Eggeling
  1. He then slaughters for Vāyu Niyutvat (the wind, driving a team of horses) that white, bearded (he-goat). When Prajāpati had produced living beings, he looked about him, and from exceeding delight his seed fell: it became that white, hornless, bearded he-goat (aja, ‘unborn’); for seed is life-sap, and as far as there is life-sap, so far extends the self. And when he slaughters that one, then indeed he reaches the end of Agni (the fire-altar). It is a white one, because seed is white. It is hornless, because seed is hornless. It belongs to Vāyu, because Vāyu (the wind) is the out-breathing; and to Niyutvat, because the teams (niyut 9) are the in-breathing: the out-breathing and in-breathing he thus lays into him.

०७

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैतं᳘ व्वाय᳘वे नियु᳘त्वते॥
शुक्लं᳘ तूपर᳘माल᳘भते प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्त्स᳘ यो ऽस्मात्प्राणो᳘ मध्यत᳘ उद᳘क्रामत्त᳘मस्मिन्नेते᳘न पशु᳘ना ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति व्वाय᳘वे भवति प्राणो वै᳘ व्वायु᳘र्नियु᳘त्वते भवत्युदानो वै᳘ नियु᳘तः प्राणोदाना᳘वे᳘वास्मिन्नेत᳘द्दधाति शुक्लो᳘ भवति शुक्लो हि᳘ व्वायु᳘स्तूपरो᳘ भवति तूपरो हि᳘ व्वायुः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैतं᳘ व्वाय᳘वे नियु᳘त्वते॥
शुक्लं᳘ तूपर᳘माल᳘भते प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्त्स᳘ यो ऽस्मात्प्राणो᳘ मध्यत᳘ उद᳘क्रामत्त᳘मस्मिन्नेते᳘न पशु᳘ना ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति व्वाय᳘वे भवति प्राणो वै᳘ व्वायु᳘र्नियु᳘त्वते भवत्युदानो वै᳘ नियु᳘तः प्राणोदाना᳘वे᳘वास्मिन्नेत᳘द्दधाति शुक्लो᳘ भवति शुक्लो हि᳘ व्वायु᳘स्तूपरो᳘ भवति तूपरो हि᳘ व्वायुः॥

मूलम् - Weber

य᳘द्वेॗवैतं᳘ वाय᳘वे नियु᳘त्वते॥
शुक्लं᳘ तूपर᳘माल᳘भते प्रजा᳘पतिं वि᳘स्त्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्त्सॗ यो ऽस्मात्प्राणो᳘ मध्यत᳘ उद᳘क्रामत्त᳘मस्मिन्नेते᳘न पशु᳘नादधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति वाय᳘वे भवति प्राणो वै᳘ वायु᳘र्नियु᳘त्वते भवत्युदानो वै᳘ नियु᳘तः प्राणोदाना᳘वेॗवास्मिन्नेत᳘द्दधाति शुक्लो᳘ भवति शुक्लो हि᳘ वायु᳘स्तूपरो᳘ भवति तूपरो हि᳘ वायुः॥

मूलम् - विस्वरम्

यद्वेवैतं वायवे नियुत्वते शुक्लं तूपरमालभते । प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन् । स यो ऽस्मात्प्राणो मध्यत उदक्रामत्- तस्मिन्नेतेन पशुना ऽदधुः । तथैवास्मिन्नयमेतद्दधाति । वायवे भवति । प्राणो वै वायुः । नियुत्वते भवति । उदानो वै नियुतः । प्राणोदानावेवास्मिन्नेतद्दधाति । शुक्लो भवति । शुक्लो हि वायुः । तूपरो भवति । तूपरो हि वायुः ॥ ७ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. And, again, why he slaughters that white, hornless (he-goat);–when the gods restored the relaxed Prajāpati, they, by means of this victim, put into him that out-breathing which had gone out of him; and in like mariner this one now puts it into him. It belongs to Vāyu, because Vāyu is the out-breathing; and to Niyutvat, because the teams are the in-breathing: he thus puts the out-breathing and in-breathing into him. It is white, because Vāyu (the wind) is white; and it is hornless, because Vāyu is hornless.

०८

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्य सप्त᳘दश सामिधे᳘न्यः[[!!]]॥
सप्तदशो वै᳘ संव्वत्सरो द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्य सप्त᳘दश सामिधे᳘न्यः[[!!]]॥
सप्तदशो वै᳘ संव्वत्सरो द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

त᳘स्य सप्त᳘दश सामिधेन्यः᳟॥
सप्तदशो वै᳘ संवत्सरो द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

तस्य सप्तदश सामिधेन्यः । सप्तदशो वै संवत्सरः । द्वादश मासाः, पञ्च ऽर्तवः । सम्वत्सरः प्रजापतिः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्समिन्द्धे ॥ ८ ॥

सायणः

अस्य पशोः सप्तदशसामिधेनीराह- तस्य सप्तदशेति । कात्यायनो ऽपि- “वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात्” (का. श्रौ. सू. १६ । ३८) इति । सप्तदशसङ्ख्यां मासर्तुरूपसंवत्सरात्मना स्तौति- सप्तदशो वै संवत्सर इति ॥ ८ ॥

Eggeling
  1. For this (animal sacrifice) there are seventeen kindling-verses 10; for the year is seventeenfold–there are twelve months and five seasons–Prajāpati is the year, and Prajāpati is Agni: as great as Agni is, as great as is his measure, by so much he thus kindles him.

०९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ सप्त᳘दश॥
सप्तदशो वै पु᳘रुषो द᳘श प्राणा᳘श्चत्वार्य᳘ङ्गान्यात्मा᳘ पञ्चदशो᳘ ग्रीवाः᳘ षोड᳘श्यः[[!!]] शि᳘रः सप्तदशं पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ सप्त᳘दश॥
सप्तदशो वै पु᳘रुषो द᳘श प्राणा᳘श्चत्वार्य᳘ङ्गान्यात्मा᳘ पञ्चदशो᳘ ग्रीवाः᳘ षोड᳘श्यः[[!!]] शि᳘रः सप्तदशं पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

य᳘द्वेव᳘ सप्त᳘दश॥
सप्तदशो वै पु᳘रुषो द᳘श प्राणा᳘श्चत्वार्य᳘ङ्गान्यात्मा᳘ पञ्चदशो᳘ ग्रीवाः᳘ षोडश्यः᳘ शि᳘रः सप्तदशम् पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

यद्वेव सप्तदश । सप्तदशो वै पुरुषो- दश प्राणाः, चत्वार्यङ्गानि, आत्मा पञ्चदशः, ग्रीवाः षोडश्यः, शिरः सप्तदशम् । पुरुषः प्रजापतिः । प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत् समिन्द्धे ॥ ९ ॥

सायणः

प्रकारान्तरेण तामेव संख्यां प्रशंसति- यदेव सप्तदश सप्तदशो वै पुरुष इति । सप्तदशत्वमेव विभज्य दर्शयति- प्राणा इति । चत्वार्यङ्गानीति । बाहुद्वयं पादद्वयमित्यर्थः । आत्मा मध्यदेहः । ‘ग्रीवाः’ इति बहुवचनं कण्ठगतधमनिबहुत्वापेक्षम् ॥ ९ ॥

Eggeling
  1. And, again, why there are seventeen,–man is seventeenfold,–there are ten vital airs, four limbs, the body the fifteenth, the neck-joints the sixteenth, and the head the seventeenth,–Prajāpati is the Person (or man, purusha), and Prajāpati is Agni: as great as Agni is, as great as is his measure, by so much he thus kindles him.

१०

विश्वास-प्रस्तुतिः

(न्द्ध ऽ) उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वेवान्वृचं द्वा᳘दशा᳘प्रियस्ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वे᳘वान्वृचं᳘ प्राजापत्यः᳘ पशुपुरोडाशो᳘ ऽत्रो स का᳘म ऽउ᳘पाप्त ऽइ᳘ति ह स्माह मा᳘हित्थिर्यं च᳘रकाः प्राजापत्ये᳘ पशा᳘वाहुरि᳘ति॥

मूलम् - श्रीधरादि

(न्द्ध ऽ) उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वेवान्वृचं द्वा᳘दशा᳘प्रियस्ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वे᳘वान्वृचं᳘ प्राजापत्यः᳘ पशुपुरोडाशो᳘ ऽत्रो स का᳘म ऽउ᳘पाप्त ऽइ᳘ति ह स्माह मा᳘हित्थिर्यं च᳘रकाः प्राजापत्ये᳘ पशा᳘वाहुरि᳘ति॥

मूलम् - Weber

उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वेवान्वृचं द्वा᳘दशा᳘प्रियस्ता᳘सामुक्तो ब᳘न्धुरुक्त᳘म्वेॗवान्वृच᳘म् प्राजापत्यः᳘ पशुपुरोडाशो᳘ ऽत्रो स का᳘म उ᳘पाप्त इ᳘ति ह स्माह मा᳘हित्थिर्यं च᳘रकाः प्राजापत्ये᳘ पशा᳘वाहुरि᳘ति॥

मूलम् - विस्वरम्

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । तासामुक्तो बन्धुः । उक्तम्वेवान्वृचम् । द्वादशाप्रियः । तासामुक्तो बन्धुः । उक्तम्वेवान्वृचम् । प्राजापत्यः पशुपुरोडाशः । अत्रो स काम उपाप्त इति ह स्माह माहित्थिः- यं चरकाः प्राजापत्ये पशावाहुरिति ॥ १० ॥

सायणः

उभयीर्गायत्रीरिति । सामिधेन्याः प्रास्ताविकं ब्राह्मणं पूर्ववत् । अत्र वायव्यपशौ प्राजापत्यपशुकरणं प्रशंसति- अत्रो स काम उपाप्त इति ह स्माहेति । यं कामं प्राजापत्ये पशौ आहुर्वेदवादिनः, ‘सः’ तादृशः ‘कामः’ ‘अत्रो’ अत्रैव प्राजापत्ये पुरोडाशे ‘उपाप्तः’ ‘इति’ ‘माहित्थिः’ नाम ऋषिः उवाच ॥ १० ॥

Eggeling
  1. He recites both gāyatrī and trishṭubh verses: their significance has been told; and (what applies to) the order of the verses has been told. There are twelve Āprī-verses: their significance has been told; and (what applies to) the order of the verses has been told. The animal cake belongs to Prajāpati: ‘Therein then that wish was obtained,’

Māhitthi once said,–‘which the Carakās say is in the victim to Prajāpati.’

११

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वाय᳘व्यः[[!!]] पशुर्भ᳘वति॥
प्राजापत्यः᳘ पशुपुरोडा᳘शो ऽर्ध᳘ᳫँ᳘ ह प्रजा᳘पतेर्व्वायु᳘रर्धं᳘ प्रजा᳘पतिस्तद्य᳘दुभौ᳘ व्वाय᳘व्यौ स्या᳘तामुभौ᳘ वा प्राजापत्या᳘वर्ध᳘ᳫँ᳘ है᳘व्वास्य कृतᳫँ᳭ स्या᳘न्नार्धम᳘थ य᳘द्वाय᳘व्यः[[!!]] पशुर्भ᳘वति प्राजापत्यः᳘ पशुपुरोडाशस्ते᳘न है᳘वै᳘तᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वाय᳘व्यः[[!!]] पशुर्भ᳘वति॥
प्राजापत्यः᳘ पशुपुरोडा᳘शो ऽर्ध᳘ᳫँ᳘ ह प्रजा᳘पतेर्व्वायु᳘रर्धं᳘ प्रजा᳘पतिस्तद्य᳘दुभौ᳘ व्वाय᳘व्यौ स्या᳘तामुभौ᳘ वा प्राजापत्या᳘वर्ध᳘ᳫँ᳘ है᳘व्वास्य कृतᳫँ᳭ स्या᳘न्नार्धम᳘थ य᳘द्वाय᳘व्यः[[!!]] पशुर्भ᳘वति प्राजापत्यः᳘ पशुपुरोडाशस्ते᳘न है᳘वै᳘तᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति॥

मूलम् - Weber

य᳘द्वेव᳘ वायव्यः᳘ पशुर्भ᳘वति॥
प्राजापत्यः᳘ पशुपुरोडाॗशो ऽर्ध᳘ᳫं᳘ ह प्रजा᳘पतेर्वायु᳘रर्ध᳘म् प्रजा᳘पतिस्तद्य᳘दुभौ᳘ वायॗव्यौ स्या᳘तामुभौ᳘ वा प्राजापत्या᳘वर्ध᳘ᳫं᳘ हैॗवास्य कृतᳫं स्याॗन्नार्धम᳘थ य᳘द्वायव्यः᳘ पशुर्भ᳘वति प्राजापत्यः᳘ पशुपुरोडाशस्ते᳘न हैवैतᳫं स᳘र्वं कृत्स्न᳘म् प्रजा᳘पतिᳫं स᳘स्करोति॥

मूलम् - विस्वरम्

यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशः । अर्धं ह प्रजापतेर्वायुः । अर्धं प्रजापतिः । तद्यदुभौ वायव्यौ स्याताम्, उभौ वा प्राजापत्यौ- अर्धं हैवास्य कृतं स्यात्, नार्धम् । अथ यद्वायव्यः पशुर्भवति, प्राजापत्यः पशुपुरोडाशः- तेन हैवैतं सर्वं कृत्स्नं प्रजापतिं संस्करोति ॥ ११ ॥

सायणः

यद्वेव वायव्यः पशुर्भवतीति । ‘वायुः’ हि ‘प्रजापतेः’ ‘अर्द्धम्’ अर्द्धभागः; सूत्रात्मरूपत्वात् । ‘प्रजापतिः’ स्वयमेव ‘अर्द्धम्’ अर्द्धभागः; तत्र यदि पशुपुरोडाशौ ‘उभौ’ अपि ‘वायव्यौ’ वायुदेवत्यौ स्याताम्, ‘उभौ वा प्राजापत्यौ’ तर्हि ‘अस्य’ प्रजापतेः ‘अर्द्धम्’ एव तत् ‘कृतम्’ संस्कृतं ‘स्यात्’ न तु कृत्स्नः प्रजापतिः; उभयात्मकत्वात् तस्येति एकदेवत्यपशुपुरोडाशकरणे अर्द्धं तत् कृतं भवेदिति भावः, उभयोर्भिन्नभिन्नदेवत्ययोः करणे सर्वं प्रजापतिं संस्कृतवान् भवति 11 । निगदसिद्धमन्यत् ॥ ११ ॥

Eggeling
  1. And as to why the victim belongs to Vāyu, and the animal cake to Prajāpati;–one half of Prajāpati doubtless is Vāyu, and one half is Prajāpati: thus, were they both to belong to Vāyu, or both to Prajāpati, then only one half of him (Prajāpati) would be made up, and one half would not (be made up). But in that the victim belongs to Vāyu, and the animal cake to Prajāpati, thereby he puts together (restores) him, Prajāpati, wholly and entirely.

१२

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वाय᳘व्यः[[!!]] पशुर्भ᳘वति॥
प्राजापत्यः᳘ पशुपुरोडाशः᳘ प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्त्स᳘ यो ऽस्मात्प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्त᳘मस्मिन्नेतेन पशु᳘ना ऽदधुर᳘थास्यैते᳘न पुरोडा᳘शेनात्मा᳘नᳫँ᳭[[!!]] स᳘मस्कुर्वन्त्स य᳘त्प्राजापत्यो भ᳘वति प्रजा᳘पति᳘र्ह्यात्मा द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः क᳘द्वत्यौ याज्यानुवा᳘क्ये को हि᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वाय᳘व्यः[[!!]] पशुर्भ᳘वति॥
प्राजापत्यः᳘ पशुपुरोडाशः᳘ प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्त्स᳘ यो ऽस्मात्प्राणो᳘ मध्यत᳘ ऽउद᳘क्रामत्त᳘मस्मिन्नेतेन पशु᳘ना ऽदधुर᳘थास्यैते᳘न पुरोडा᳘शेनात्मा᳘नᳫँ᳭[[!!]] स᳘मस्कुर्वन्त्स य᳘त्प्राजापत्यो भ᳘वति प्रजा᳘पति᳘र्ह्यात्मा द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः क᳘द्वत्यौ याज्यानुवा᳘क्ये को हि᳘ प्रजा᳘पतिः॥

मूलम् - Weber

य᳘द्वेव᳘ वायव्यः᳘ पशुर्भ᳘वति॥
प्राजापत्यः᳘ पशुपुरोडाशः᳘ प्रजा᳘पतिं वि᳘स्त्रस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्त्सॗ यो ऽस्मात्प्राणो᳘ मध्यत᳘ उद᳘क्रामत्त᳘मस्मिन्नेतेन पशु᳘नादधुर᳘थास्यैते᳘न पु᳘रोडा᳘शेनात्मा᳘नᳫं स᳘मस्कुर्वन्त्स य᳘त्प्राजापत्यो भ᳘वति प्रजा᳘पतिॗर्ह्यात्मा द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सरः᳘ प्रजा᳘पतिः क᳘द्वत्यौ याज्यानुवाॗक्ये को हि᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

यद्वेव वायव्यः पशुर्भवति, प्राजापत्यः पशुपुरोडाशः । प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन् । स यो ऽस्मात्प्राणो मध्यत उदक्रामत्- तमस्मिन्नेतेन पशुना ऽदधुः । अथास्यैतेन पुरोडाशेनात्मानं समस्कुर्वन् । स यत्प्राजापत्यो भवति- प्रजापतिर्ह्यात्मा । द्वादशकपालः । द्वादश मासाः सम्वत्सरः । संवत्सरः प्रजापतिः । कद्वत्यौ याज्यानुवाक्ये । को हि प्रजापतिः ॥ १२ ॥

सायणः

एतस्य प्राजापत्यपुरोडाशस्य कत्पदयुक्ते याज्यानुवाक्ये विधत्ते- कद्वत्याविति 11 । ‘क’ शब्दस्य प्रजापतिवाचकत्वमाह- को हीति ॥ १२ ॥

Eggeling
  1. And, again, why the victim belongs to Vāyu, and the animal cake to Prajāpati;–when the gods restored the relaxed Prajāpati, they, by means of this victim, put into him that out-breathing which had gone out of him; and by means of this cake they restored that body (trunk) of his. And as to why it belongs to Prajāpati, it is because the body (self) is Prajāpati; and (why it is) one on twelve potsherds,–twelve months are a year, and Prajāpati is the year. One of the offering prayers and one of the invitatory prayers 12 contain (the word) ‘ka,’ for Prajāpati is Ka.

१३

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘द्वपां᳘ पुर᳘स्ताज्जुहो᳘ति॥
य᳘ ऽए᳘वायं᳘ पुर᳘स्तात्प्राणस्त᳘मस्मिन्नेत᳘द्दधात्य᳘थ य᳘देते᳘न मध्यतश्च᳘रन्ति मध्यतो᳘ ह्यय᳘मात्मा᳘ ऽथ[[!!]] य᳘द्धवि᳘षोप᳘रिष्टाच्च᳘रन्ति[[!!]] य᳘ ऽए᳘वाय᳘मुप᳘रिष्टात्प्राणस्त᳘मस्मिन्नेत᳘द्दधाति शुक्ल᳘वत्यो याज्यानुवा᳘क्याः स्युः शुक्लरूपा᳘णामु᳘पाप्त्यै नियु᳘त्वत्यो य᳘देव᳘ नियु᳘त्वद्रूपं तस्यो᳘पाप्त्यै॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘द्वपां᳘ पुर᳘स्ताज्जुहो᳘ति॥
य᳘ ऽए᳘वायं᳘ पुर᳘स्तात्प्राणस्त᳘मस्मिन्नेत᳘द्दधात्य᳘थ य᳘देते᳘न मध्यतश्च᳘रन्ति मध्यतो᳘ ह्यय᳘मात्मा᳘ ऽथ[[!!]] य᳘द्धवि᳘षोप᳘रिष्टाच्च᳘रन्ति[[!!]] य᳘ ऽए᳘वाय᳘मुप᳘रिष्टात्प्राणस्त᳘मस्मिन्नेत᳘द्दधाति शुक्ल᳘वत्यो याज्यानुवा᳘क्याः स्युः शुक्लरूपा᳘णामु᳘पाप्त्यै नियु᳘त्वत्यो य᳘देव᳘ नियु᳘त्वद्रूपं तस्यो᳘पाप्त्यै॥

मूलम् - Weber

तद्य᳘द्वपा᳘म् पुर᳘स्ताज्जुहो᳘ति॥
य᳘ एॗवाय᳘म् पुर᳘स्तात्प्राणस्त᳘मस्मिन्नेत᳘द्दधात्य᳘थ य᳘देते᳘न मध्यतश्च᳘रन्ति मध्यतो ह्य᳘य᳘मात्मा᳘थ यद्ध᳘विषोप᳘रिष्टाच्च᳘रन्ति य᳘ एॗवाय᳘मुप᳘रिष्टात्प्राणस्त᳘मस्मिन्नेत᳘द्दधाति शुक्ल᳘वत्यो याज्यानुवाॗक्याः स्युः शुक्लरूपा᳘णामु᳘पाप्त्यै नियु᳘त्वत्यो य᳘देव᳘ नियु᳘त्वद्रूपं तस्यो᳘पाप्त्यै॥

मूलम् - विस्वरम्

तद् यद्वपां पुरस्ताज्जुहोति । य एवायं पुरस्तात्प्राणः- तमस्मिन्नेतद्दधाति । अथ यदेतेन मध्यतश्चरन्ति- मध्यतो ह्ययमात्मा । अथ यद्धविषोपरिष्टाच्चरन्ति- य एवायमुपरिष्टात्प्राणः- तमस्मिन्नेतद्दधाति । शुक्लवत्यो याज्यानुवाक्याः स्युः- शुक्लरूपाणामुपाप्त्यै । नियुत्वत्यो- यदेव नियुत्वद्रूपं तस्योपाप्त्यै ॥ १३ ॥

सायणः

तद्यद्वपां पुरस्ताज्जुहोति- इत्यादेरयमर्थः,- पूर्वं वायव्यपशोर्वपायागेन, मध्यतः प्राजापत्यपुरोडाशाचरणेन अन्त्ये पश्वङ्गयागेन, उभयतः प्राणान्, मध्ये आत्मानं च निहितवान् भवतीति ॥

वपाहविषोर्नियुत्वत्पदयुक्तां याज्यानुवाक्यां विधत्ते- शुक्लवत्य इति ॥ १३ ॥

Eggeling
  1. Now when in the first place he offers the omentum, he thereby puts into him (Prajāpati) that vital air which is here in front. And when they proceed with that (cake) in the middle, it is because this trunk is in the middle. And when they proceed thereafter with the (meat) oblation, he thereby puts into him that vital air which is behind. The (remaining) offering and invitatory prayers should contain the word ‘bright,’ with the view of the obtainment of bright forms; and the word ’niyut’ (team), for the obtainment of that form which has a team 13.

१४

विश्वास-प्रस्तुतिः

त᳘दु वा᳘ ऽआहुः॥
(र्व्व) व्वपा᳘या ऽएव᳘ शुक्ल᳘वत्यौ स्यातामेता᳘वद्वै᳘ पशौ᳘ शुक्लं य᳘द्वपा᳘ शुक्लवत्यौ नियुत्व᳘त्यौ ह᳘विषो य᳘देव᳘ नियु᳘त्वद्रूपं तस्यो᳘पाप्त्या ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘दु वा᳘ ऽआहुः॥
(र्व्व) व्वपा᳘या ऽएव᳘ शुक्ल᳘वत्यौ स्यातामेता᳘वद्वै᳘ पशौ᳘ शुक्लं य᳘द्वपा᳘ शुक्लवत्यौ नियुत्व᳘त्यौ ह᳘विषो य᳘देव᳘ नियु᳘त्वद्रूपं तस्यो᳘पाप्त्या ऽइ᳘ति॥

मूलम् - Weber

त᳘दु वा᳘ आहुः॥
वपा᳘या एव᳘ शुक्ल᳘वत्यौ स्यातामेता᳘वद्वै᳘ पशौ᳘ शुक्लं य᳘द्वपा᳘शुक्लवत्यौ नियुत्व᳘त्यौ ह᳘विषो य᳘देव᳘ नियु᳘त्वद्रूपं तस्यो᳘पाप्त्या इ᳘ति॥

मूलम् - विस्वरम्

तदु वा ऽआहुः- वपाया एव शुक्लवत्यौ स्याताम् । एतावद्वै पशौ शुक्लं- यद्वपा । शुक्लवत्यौ नियुत्वत्यौ हविषः । यदेव नियुत्वद्रूपम्- तस्योपाप्त्या ऽइति ॥ १४ ॥

सायणः

अथ शाखान्तरानुसारेण वपाया एव ‘शुक्ल’- पदयुक्ते याज्यानुवाक्ये, पशुहविषस्तु ‘शुक्लवत्’ ‘नियुत्वत्’ पदयुक्ते याज्यानुवाक्ये इति दर्शयति- तदु वा आहुरिति । पूर्वं प्राजापत्यपुरोडाशस्य कत्पदयुक्ते याज्यानुवाक्ये उक्ते इति त्रयाणां वपापुरोडाशहविषां भिन्ना याज्यानुवाक्या इत्यर्थः । तदुक्तं कात्यायनेन- “प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः, कद्वत्यो याज्यानुवाक्याः प्राजापत्यस्य शुक्लवत्यो वायव्यस्य, वपाया वा”- (का. श्रौ. सू. १६ । ३९-४१) इति ॥ १४ ॥

Eggeling
  1. As to this they say, ‘It is rather the two (prayers) of the Omentum that should contain (the word) “bright,” for so far as the two (prayers) of the omentum containing (the word) “bright” extend, extends what is bright in the animal (sacrifice); and the two (prayers) of the (meat) oblation should contain (the word) “team,” for the obtainment of that form of him (Prajāpati) which has a team.’

१५

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैतं᳘ पशु᳘माल᳘भते॥
(त ऽ) एत᳘स्मिन्ह पशौ स᳘र्व्वेषां पशूना᳘ᳫँ᳘ रूपं य᳘त्तूपरो᳘ लप्सुदी तत्पु᳘रुषस्य रूपं᳘ तूपरो हि᳘ लप्सुदी पु᳘रुषो य᳘त्तूपरः के᳘सरवांस्तद᳘श्वस्य रूपं᳘ तूपरो हि के᳘सरवान᳘श्वो य᳘दष्टा᳘शफस्तद्गो᳘ रूप᳘मष्टा᳘शफो हि गौर᳘थ य᳘दस्या᳘वेरिव शफास्तद᳘वे रूपं य᳘दजस्त᳘दज᳘स्य तद्य᳘देत᳘माल᳘भते ते᳘न है᳘वास्यैते स᳘र्व्वे पश᳘व ऽआ᳘लब्धा भवन्त्य᳘तो यतम᳘दस्य क᳘र्मोपक᳘ल्पेतैते᳘ वा प᳘ञ्च पश᳘व ऽएष᳘ वा प्राजापत्य᳘ ऽएष᳘ वा नियुत्वती᳘यः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैतं᳘ पशु᳘माल᳘भते॥
(त ऽ) एत᳘स्मिन्ह पशौ स᳘र्व्वेषां पशूना᳘ᳫँ᳘ रूपं य᳘त्तूपरो᳘ लप्सुदी तत्पु᳘रुषस्य रूपं᳘ तूपरो हि᳘ लप्सुदी पु᳘रुषो य᳘त्तूपरः के᳘सरवांस्तद᳘श्वस्य रूपं᳘ तूपरो हि के᳘सरवान᳘श्वो य᳘दष्टा᳘शफस्तद्गो᳘ रूप᳘मष्टा᳘शफो हि गौर᳘थ य᳘दस्या᳘वेरिव शफास्तद᳘वे रूपं य᳘दजस्त᳘दज᳘स्य तद्य᳘देत᳘माल᳘भते ते᳘न है᳘वास्यैते स᳘र्व्वे पश᳘व ऽआ᳘लब्धा भवन्त्य᳘तो यतम᳘दस्य क᳘र्मोपक᳘ल्पेतैते᳘ वा प᳘ञ्च पश᳘व ऽएष᳘ वा प्राजापत्य᳘ ऽएष᳘ वा नियुत्वती᳘यः॥

मूलम् - Weber

य᳘द्वेॗवैत᳘म् पशु᳘माल᳘भते॥
एत᳘स्मिन्ह पशौ स᳘र्वेषाम् पशूनां᳘ रूपं य᳘त्तूपरो᳘ लप्सुदी तत्पु᳘रुषस्य रूपं᳘ तूपरो हि᳘ लप्सुदी पु᳘रुषो य᳘त्तूपरः के᳘सरवांस्तद᳘श्वस्य रूपं᳘ तूपरो हि के᳘सरवान᳘श्वो य᳘दष्टा᳘शफस्तद्गो᳘ रूप᳘मष्टा᳘शफो हि गौर᳘थ य᳘दस्या᳘वेरिव शफास्तद᳘वे रूपं य᳘दजस्त᳘दज᳘स्य तद्य᳘देत᳘माल᳘भते ते᳘न हैॗवास्यैते स᳘र्वे पश᳘व आ᳘लब्धा भवन्त्यतो यतम᳘दस्य क᳘र्मोपक᳘ल्पेतैते᳘ वा प᳘ञ्च पश᳘व एष᳘ वा प्राजापत्य᳘ एष᳘ वा नियुत्वती᳘यः॥

मूलम् - विस्वरम्

यद्वेवैतं पशुमालभते । एतस्मिन् ह पशौ सर्वेषां पशूनां रूपम् । यत्तूपरो लप्सुदी- तत् पुरुषस्य रूपम् । तूपरो हि लप्सुदी पुरुषः । यत्तूपरः केसरवान्- तदश्वस्य रूपम् । तूपरो हि केसरवानश्वः । यदष्टाशफः- तद्गो रूपम् । अष्टाशफो हि गौः । अथ यदस्यावेरिव शफाः- तदवे रूपम् । यदजः- तदजस्य । तद्यदेतमालभते- तेन हैवास्यैते सर्वे पशव आलब्धा भवन्ति । अतो यतमदस्य कर्मोपकल्पेत- एते वा पञ्च पशवः, एष वा प्राजापत्यः, एष वा नियुत्वतीयः ॥ १५ ॥

सायणः

पूर्वं पुरुषादयः पञ्च पशव उक्ताः, अत्र त्वेक एव वायव्यः, तत् कथमेकेन पशुना सर्वयागसाध्यं फलं लभेत ? अतः पञ्चपशुपक्षस्वीकार एव युक्त इति शङ्कां व्युदस्यन् एकस्यापि वायव्यस्य पञ्चपशुरूपतां दर्शयति- यद्वेवैतं पशुमालभते एतस्मिन् ह पशौ सर्वेषां पशूनां रूपमिति । प्रागुक्तः पञ्चपश्वादिपक्षाणामन्यतमः पक्ष इच्छया कर्त्तव्य इत्याह- अतो यतमदस्य कर्मोपकल्पेतेति ।

तान्येव रूपाणि योजयति- यत्तूपरो लप्सुदीति । ‘केसराः’ स्कन्धरोमाणि ॥ १५ ॥

Eggeling
  1. And, again, why he slaughters this animal;–in this animal doubtless the form of all (the five kinds of) animals is (contained): inasmuch as it is hornless and bearded, that is the form of man, for man is hornless and bearded; inasmuch as it is hornless and furnished with a mane, that is the form of the horse, for the horse is hornless and furnished with a mane; inasmuch as it is eight-hoofed, that is the bull’s form, for the bull is eight-hoofed; inasmuch as its hoofs are like those of the sheep, that is the form of the

sheep; and inasmuch as it is a he-goat, that is that of the goat. Thus when he slaughters this one, thereby indeed all those (five) animals are slaughtered for him. Whichever of these may suit him–either those five animals, or that (he-goat) for Prajāpati, or that one for (Vāyu) Niyutvat 14

१६

विश्वास-प्रस्तुतिः

(स्तं᳘) तं᳘ पौर्णमास्यामा᳘लभेत॥
(ता) अमावा᳘स्यायामा᳘लभेते᳘त्यु है᳘क ऽआहुरसौ वै᳘ चन्द्रः᳘ प्रजा᳘पतिः स᳘ एताᳫँ᳭ रा᳘त्रिमिह᳘ व्वसति तद्य᳘थोपति᳘ष्ठन्तमाल᳘भेतैवं तदि᳘ति॥

मूलम् - श्रीधरादि

(स्तं᳘) तं᳘ पौर्णमास्यामा᳘लभेत॥
(ता) अमावा᳘स्यायामा᳘लभेते᳘त्यु है᳘क ऽआहुरसौ वै᳘ चन्द्रः᳘ प्रजा᳘पतिः स᳘ एताᳫँ᳭ रा᳘त्रिमिह᳘ व्वसति तद्य᳘थोपति᳘ष्ठन्तमाल᳘भेतैवं तदि᳘ति॥

मूलम् - Weber

त᳘म् पौर्णमास्यामा᳘लभेत॥
अमावा᳘स्यायामा᳘लभेते᳘त्यु है᳘क आहुरसौ वै᳘ चन्द्रः᳘ प्रजा᳘पतिᳫं स᳘ एतां रा᳘त्रिमिह᳘ वसति तद्य᳘थोपति᳘ष्ठन्तमाल᳘भेतैवं तदि᳘ति॥

मूलम् - विस्वरम्

तं पौर्णमास्यामालभेत । अमावास्यायामालभेत इत्युहैक ऽआहुः । असौ वै चन्द्रः प्रजापतिः । स एतां रात्रिमिह वसति तद्यथोपतिष्ठन्तमालभेत एवं तदिति ॥ १६ ॥

सायणः

पश्वालम्भकालं विधत्ते- तं पौर्णमास्यामालभेतेति । तच्छब्दः पूर्वपरामर्शार्थः । वायव्यं पौर्णमास्यामालभेत । एतदुपलक्षणम्, सर्वानपि पञ्च पशून् प्राजापत्यं वायव्यं वा पौर्णमास्यामालभेतेत्यर्थः । अत एव कात्यायनेन सर्वशेषतया पञ्चपशुपक्षादौ सूत्रितम्- “उत्तरस्यां फाल्गुन्यां पौणमासेनेष्ट्वा पञ्च पशूनालभते” 15- इति ॥

अत्र केषाञ्चित् पक्षं सोपपत्तिकमनुवदति- अमावास्यायामालभेतेत्यु 16 हैक आहुरिति । चन्द्रस्य प्रजापतिताद्रूप्यं प्रागुक्तम्; चन्द्रमा मनसो जातः, मनश्च प्रजापतिदेवत्यम् । तदेतयोः कार्यकारणयोरभेदोपचारेणेति । सः ‘चन्द्रः’ ‘एतां रात्रिम्’ अमावास्यारात्रौ ‘इह’ च लोके ओषध्यात्मना ‘वसति’, तस्मात् ‘यथा’ येन प्रकारेण ‘उपतिष्ठन्तं’ चन्द्रम् ‘आलभेत’, ‘एवं’ ‘तत्’ पश्वालम्भनम् । अमावास्यायां पश्वालम्भश्चन्द्रालंभसमान इति प्रशस्त इत्यर्थः ॥ १६ ॥

Eggeling
  1. Let him slaughter it at full moon. ‘Let him slaughter at new moon,’ so say some, ‘for Prajāpati is yonder moon: during that night (of new moon) he dwells here (on earth) 17, and it would be just as if he slaughtered him while staying near.’

१७

विश्वास-प्रस्तुतिः

तद्वै᳘ पौर्णमास्या᳘मे᳘व[[!!]]॥
(वा) असौ वै᳘ चन्द्रः᳘ पशुस्तं᳘ देवाः᳘ पौर्णमास्यामा᳘लभन्ते य᳘त्रैनं देवा᳘ ऽआल᳘भन्ते त᳘देनमा᳘लभा ऽइ᳘ति त᳘स्मात्पौर्णमास्यां य᳘द्वेव᳘ पौर्णमास्यां᳘ पौर्णमासी᳘ ह वाव᳘ प्रथमा᳘ व्युवास त᳘स्माद्वेव᳘ पौर्णमास्याम्[[!!]]॥

मूलम् - श्रीधरादि

तद्वै᳘ पौर्णमास्या᳘मे᳘व[[!!]]॥
(वा) असौ वै᳘ चन्द्रः᳘ पशुस्तं᳘ देवाः᳘ पौर्णमास्यामा᳘लभन्ते य᳘त्रैनं देवा᳘ ऽआल᳘भन्ते त᳘देनमा᳘लभा ऽइ᳘ति त᳘स्मात्पौर्णमास्यां य᳘द्वेव᳘ पौर्णमास्यां᳘ पौर्णमासी᳘ ह वाव᳘ प्रथमा᳘ व्युवास त᳘स्माद्वेव᳘ पौर्णमास्याम्[[!!]]॥

मूलम् - Weber

तद्वै᳘ पौर्णमास्या᳘मेव᳟॥
असौ वै᳘ चन्द्रः᳘ पशुस्तं᳘ देवाः᳘ पौर्णमास्यामा᳘लभन्ते य᳘त्रैनं देवा᳘ आल᳘भन्ते त᳘देनमालभा इ᳘ति त᳘स्मात्पौर्णमास्यां य᳘द्वेव᳘ पौर्णमास्या᳘म् पौर्णमासी᳘ ह वाव᳘ प्रथमाॗ व्युवास त᳘स्माद्वेव᳘ पौर्णमास्या᳘म्॥

मूलम् - विस्वरम्

तद्वै पौर्णमास्यामेव । असौ वै चन्द्रः पशुः । तं देवाः पौर्णमास्यामालभन्ते । यत्रैनं देवा आलभन्ते- तदेनमालभा ऽइति । तस्मात् पौर्णमास्याम् । यद्वेव पौर्णमास्यात् पौर्णमासी ह वाव प्रथमा व्युवास । तस्माद्वेव पौर्णमास्याम् ॥ १७ ॥

सायणः

पौर्णमास्यामेवालभेतेति सिद्धान्तयितुं पुनरनुवदति- तद्वै पौर्णमास्यामेवेति । असौ वै चन्द्रः पशुरित्यादेरयमर्थः- वस्वादयो ‘देवाः’ पशुरूपं चन्द्रं पौर्णमास्यामालभ्य, प्रतिपदादितिथिषु एकैकां कलां प्राश्नन्तीति प्रसिद्धम्; अत एवामावास्यायामेककलावशेषत्वात् पुनस्तं वर्द्धयन्ति । अत्र तैत्तिरीयकम्- “घ्नन्तिवा एतं पूर्णमास आ ऽमावास्यायां प्याययन्ति”- (तै. सं २ । ५ । २ । ४, ५) इति । ‘तस्मात्’ मया ऽपीदानीमनुष्ठात्रा ‘यत्र’ यस्मिन् काले ‘देवाः’ पशुमालब्धवन्तः, तस्मिन्नेव काले पशुरालब्धव्य इति । (प्रथमा व्युवासेति) ॥ १७ ॥

Eggeling
  1. But, indeed, this (takes place) at full moon, for the victim is yonder moon, and him the gods slaughter at full moon 18: ‘I will slaughter him at the time when the gods slaughter him,’ thus he thinks, and therefore (he does so) at full moon. And, again, why at full moon;–the full moon no

doubt was the first to shine forth, hence also (the sacrifice takes place) at full moon.

१८

विश्वास-प्रस्तुतिः

तद्वै᳘ फाल्गुन्या᳘मे᳘व[[!!]]॥
(वै) एषा᳘ ह संव्वत्सर᳘स्य प्रथमा रा᳘त्रिर्य᳘त्फाल्गुनी᳘ पौर्णमासी यो᳘त्तरै᳘षोत्तमा या पू᳘र्व्वा मुखत᳘ ऽएव त᳘त्संव्वत्सरमा᳘लभते॥

मूलम् - श्रीधरादि

तद्वै᳘ फाल्गुन्या᳘मे᳘व[[!!]]॥
(वै) एषा᳘ ह संव्वत्सर᳘स्य प्रथमा रा᳘त्रिर्य᳘त्फाल्गुनी᳘ पौर्णमासी यो᳘त्तरै᳘षोत्तमा या पू᳘र्व्वा मुखत᳘ ऽएव त᳘त्संव्वत्सरमा᳘लभते॥

मूलम् - Weber

तद्वै᳘ फाल्गुन्या᳘मेव᳟॥
एषा᳘ ह संवत्सर᳘स्य प्रथमा रा᳘त्रिर्य᳘त्फाल्गुनी᳘ पौर्णमासी यो᳘त्तरैषोत्तमा या पू᳘र्वा मुखत᳘ एव त᳘त्संवत्सरमा᳘रभते॥

मूलम् - विस्वरम्

तद्वै फाल्गुन्यामेव । एषा ह सम्वत्सरस्य प्रथमा रात्रिः- यत्फाल्गुनी पौर्णमासी- योत्तरा । एषोत्तमा- या पूर्वा । मुखत एव तत् संवत्सरमालभते ॥ १८ ॥

सायणः

तद्वै फाल्गुन्यामेवेति । ‘एषा’ ‘संवत्सरस्य’ सर्वासां रात्रीणां ‘प्रथमा’ आदिभूता ‘रात्रिः’ या उत्तरफल्गुनीनक्षत्रयुक्ता ‘पौर्णमासी’ ‘या पूर्वा’ 19 ‘एषा’ संवत्सरस्य ‘उत्तमा’ अन्त्या रात्रिः । तैत्तिरीया आमनन्ति- “एषा वै जघन्या रात्रिः संवत्सरस्य, यत् पूर्वे फाल्गुनी ०-० एषा वै प्रथमा रात्रिः संवत्सरस्य, यदुत्तरे फाल्गुनी”- (तै. ब्रा. १ । १ । ३ । ८) इति । अतो ऽस्यामुत्तरस्यां फाल्गुन्यां पौर्णमास्यां पश्वालम्भेन संवत्सरादौ उपक्रान्तवान् भवतीत्यर्थः ॥ १८ ॥

Eggeling
  1. And furthermore, at the Phālguna (full moon), for that full moon of Phālguna, that is, the second (Phālguna) 20, is the first night of the year; and that first (Phālguna) is the last (night of the year): he thus begins the year at the very mouth (beginning).

१९

विश्वास-प्रस्तुतिः

स वा᳘ ऽइ᳘ष्ट्वैव᳘ पौर्णमासेन[[!!]]॥
(ना᳘) अ᳘थ पशुमा᳘लभेत पौर्णमासे᳘न वा ऽइ᳘न्द्रो व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्कर्मा᳘रभत त᳘थै᳘वैतद्य᳘जमानः पौर्णमासे᳘नैव᳘ वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्कर्मा᳘रभते॥

मूलम् - श्रीधरादि

स वा᳘ ऽइ᳘ष्ट्वैव᳘ पौर्णमासेन[[!!]]॥
(ना᳘) अ᳘थ पशुमा᳘लभेत पौर्णमासे᳘न वा ऽइ᳘न्द्रो व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्कर्मा᳘रभत त᳘थै᳘वैतद्य᳘जमानः पौर्णमासे᳘नैव᳘ वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्कर्मा᳘रभते॥

मूलम् - Weber

स वा᳘ इॗष्ट्वैव᳘ पौर्णमासे᳘न॥
अ᳘थ पशुमा᳘लभेत पौर्णमासे᳘न वा इ᳘न्द्रो वृत्र᳘म् पाप्मा᳘नᳫं हत्वा᳘पहतपाप्मैतत्कर्मा᳘रभत त᳘थैॗवैतद्य᳘जमानः पौर्णमासे᳘नैव᳘ वृत्र᳘म् पाप्मा᳘नᳫं हत्वा᳘पहतपाप्मैतत्कर्मा᳘रभते॥

मूलम् - विस्वरम्

स वा ऽइष्ट्वैव पौर्णमासेन- अथ पशुमालभते । पौर्णमासेन वा ऽइन्द्रो वृत्रं पाप्मानं हत्वा ऽपहतपाप्मैतत्कर्मारभत । तथैवैतद्यजमानः पौर्णमासेनैव वृत्रं पाप्मानं हत्वा ऽपहतपाप्मैतत्कर्मारभते ॥ १९ ॥

सायणः

पश्वालम्भः पूर्णमासे कर्त्तव्य इत्युक्तम्, तत्र नित्यपौर्णमासेष्टिकरणानन्तरं कर्त्तव्य इत्याह- स वा इष्ट्वैव पौर्णमासेनाथ पशुमालभेतेति ॥

पौर्णमासयागानन्तर्यं पशुयागस्य सदृष्टान्तं प्रतिपादयति- पौर्णमासेन वा इन्द्रो वृत्रं पाप्मानमिति । अत्र कात्यायन- “वैश्वानरः पशुपुरोडाश उपांशु, पशुदेवता च”- (का. श्रौ. सू. १६ । २५ । २६) इति । ‘उपांशु’- करणवदशब्दं मनःप्रयोगमित्युक्तलक्षणम् ॥ १९ ॥

Eggeling
  1. Now, as soon as he has performed the full-moon offering, let him slaughter the victim. For Indra, having driven away Vr̥tra, evil, by means of the full-moon offering, thus freed from evil entered upon this sacrificial performance; and in like manner the Sacrificer, having driven away Vr̥tra, evil, by means of the full-moon offering, thus freed from evil now enters on this (sacred) performance.

२०

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽउपाᳫँ᳭शु᳘ भवति॥
(त्ये) एत᳘द्धैतैः᳘ प्रजा᳘पतिः पशु᳘भिः क᳘र्मेयेष तद्धात्रा᳘नद्धेवैवासा᳘निरुक्तमिव त᳘स्मादुपाᳫँ᳭शु॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽउपाᳫँ᳭शु᳘ भवति॥
(त्ये) एत᳘द्धैतैः᳘ प्रजा᳘पतिः पशु᳘भिः क᳘र्मेयेष तद्धात्रा᳘नद्धेवैवासा᳘निरुक्तमिव त᳘स्मादुपाᳫँ᳭शु॥

मूलम् - Weber

तद्वा᳘ उपांशु᳘ भवति॥
एत᳘द्धैतैः᳘ प्रजा᳘पतिः पशु᳘भिः क᳘र्मेयेष तद्धात्रा᳘नद्धेवैवासा᳘निरुक्तमिव त᳘स्मादुपांशु॥

मूलम् - विस्वरम्

तद्वा ऽउपांशु भवति । एतद्धैतैः प्रजापतिः पशुभिः कर्मेयेष । तद्धात्रानद्धेवैवास- अनिरुक्तमिव । तस्मादुपांशु ॥ २० ॥

सायणः

तदिदं विधत्ते- तद्वा उपांशु भवतीति । तच्छब्देन पश्वनुष्ठानं परामृश्यते । उपांशुत्वं प्रतिपादयति- एतद्धैतैः प्रजापतिः पशुभिरिति । पूर्वं ‘प्रजापतिः’ चयनाख्यं ‘कर्म’ ‘पशुभिः’ ‘इयेष’ इच्छति स्म । करिष्यमाणं कर्म ‘अत्र’ अस्मिन् पश्वनुष्ठानकाले ‘अनद्धा’ अप्रत्यक्षम् ‘इव’ ‘आस’ । साकल्येनानुष्ठितत्त्वाद् बीजरूपत्वाच्चाप्रत्यक्षत्वम् । तदेवाह- अनिरुक्तमिति । इदं कर्म इयदितिकर्त्तव्यतायुक्तमिति निर्वक्तुमयोग्यम् ॥ २० ॥

Eggeling
  1. This is (performed) in a low voice, for by means of these victims Prajāpati sought to obtain this (sacred) work 21; but that (work) was then, as it were, uncertain, indistinct: hence in a low voice.

२१

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वोपाᳫँ᳭शु᳘॥
प्राजापत्यं वा᳘ ऽएतत्क᳘र्म प्रजा᳘पति᳘ᳫँ᳘ ह्येते᳘न क᳘र्मणा ऽऽर᳘भते᳘ ऽनिरुक्तो वै᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वोपाᳫँ᳭शु᳘॥
प्राजापत्यं वा᳘ ऽएतत्क᳘र्म प्रजा᳘पति᳘ᳫँ᳘ ह्येते᳘न क᳘र्मणा ऽऽर᳘भते᳘ ऽनिरुक्तो वै᳘ प्रजा᳘पतिः॥

मूलम् - Weber

य᳘द्वेॗवोपांशु᳟॥
प्राजापत्यं वा᳘ एतत्क᳘र्म प्रजा᳘पतिॗᳫंॗ ह्येते᳘न क᳘र्मणार᳘भते᳘ ऽनिरुक्तो वै᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

यद्वेवोपांशु । प्राजापत्यं वा ऽएतत्कर्म । प्रजापतिं ह्येतेन कर्मणा ऽऽरभते । अनिरुक्तो वै प्रजापतिः ॥ २१ ॥

सायणः

उपांशुत्वं प्रशंसितुमनुवदति- यद्वेवोपांशु प्राजापत्यं वा एतदिति । ‘एतत्’ पशुकर्म ‘प्राजापत्यं’ प्रजापतिसम्बन्धि । एतावताप्यस्य कर्मणो ऽनिरुक्तत्वं कथमित्याह- अनिरुक्तो वा इति । प्रजापतेरपि सर्ववस्तुरूपत्वात् अयमेतावानिति कर्मणस्ताद्रूप्यम् ॥ २१ ॥

Eggeling
  1. And, again, why in a low voice;–this performance assuredly belongs to Prajāpati, for it is Prajāpati he enters upon by this performance; and Prajāpati is undefined.

२२

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्वे᳘वोपाᳫँ᳭शु[[!!]]॥
रे᳘तो वा ऽअ᳘त्र यज्ञ᳘ ऽउपाᳫँ᳭शु वै रे᳘तः सिच्यते व्वपा᳘ पशुपुरोडाशो᳘ हवि᳘रेता᳘वान्हि᳘ पशुः[[!!]]॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्वे᳘वोपाᳫँ᳭शु[[!!]]॥
रे᳘तो वा ऽअ᳘त्र यज्ञ᳘ ऽउपाᳫँ᳭शु वै रे᳘तः सिच्यते व्वपा᳘ पशुपुरोडाशो᳘ हवि᳘रेता᳘वान्हि᳘ पशुः[[!!]]॥

मूलम् - Weber

य᳘द्वेॗवोपांशु᳟॥
रे᳘तो वा अ᳘त्र यज्ञ᳘ उपांशु वै रे᳘तः सिच्यते वपा᳘ पशुपुरोडाशो᳘ हवि᳘रेता᳘वान्हि᳘ पशुः᳟॥

मूलम् - विस्वरम्

यद्वेवोपांशु । रेतो वा ऽअत्र यज्ञः । उपांशु वै रेतः सिच्यते । वपा, पशुपुरोडाशो, हविः- एतावान् हि पशुः ॥ २२ ॥

सायणः

प्रकारान्तरेणोपांशुत्वं प्रशंसति- यद्वेवोपांशु रेतो वेति । ‘अत्र’ पशौ यज्ञे ‘रेतो’ भूतः बीजरूपत्वात् । यज्ञे पशुव्यतिरिक्तान्यन्यान्यङ्गानि सन्ति, तत् कथं पशौ यज्ञो बीजभूतस्तिष्ठतीति तत् समर्थयते- वपा पश्विति । ‘वपा,’ पशुपुरोडाशहवीरूपः ‘पशु,’ ‘एतावान्’ एव यज्ञ इति ‘पशुः’ यज्ञबीजात्मना तिष्ठतीत्यर्थः ॥ २२ ॥

Eggeling
  1. And, again, why in a low voice;–there is seed here in the sacrifice, and seed is cast silently–the

omentum, the animal cake, and the chief oblation, for of that much consists the animal sacrifice.

२३

विश्वास-प्रस्तुतिः

(र᳘) अ᳘ष्टकायामुखाᳫँ᳭ स᳘म्भरति॥
प्राजापत्य᳘मेतद᳘हर्यद᳘ष्टका प्राजापत्य᳘मेतत्क᳘र्म य᳘दुखा᳘ प्राजापत्य᳘ ऽएव तद᳘हन्प्राजापत्यं क᳘र्म करोति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘ष्टकायामुखाᳫँ᳭ स᳘म्भरति॥
प्राजापत्य᳘मेतद᳘हर्यद᳘ष्टका प्राजापत्य᳘मेतत्क᳘र्म य᳘दुखा᳘ प्राजापत्य᳘ ऽएव तद᳘हन्प्राजापत्यं क᳘र्म करोति॥

मूलम् - Weber

अ᳘ष्टकायामुखाᳫं स᳘म्भरति॥
प्राजापत्य᳘मेतद᳘हर्यद᳘ष्टका प्राजापत्य᳘मेतत्क᳘र्म य᳘दुखा᳘ प्राजापत्य᳘ एव तद᳘हन्प्राजापत्यं क᳘र्म करोति॥

मूलम् - विस्वरम्

अष्टकायामुखां सम्भरति । प्रजापत्यमेतदहः- यदष्टका । प्राजापत्यमेतत्कर्म- यदुखा । प्राजापत्य ऽएव तदहन् प्राजापत्यं कर्म करोति ॥ २३ ॥

सायणः

अग्निधारणार्थमुखासम्भरणं विधत्ते- अष्टकायामुखां सम्भरतीति । अष्टका नामाष्टमी, तस्यामुखां विदध्यात् । पूर्वं फाल्गुनपौर्णमास्यां पश्वालम्भ उक्तः, तस्यां बहुलाष्टम्यामुखार्थं मृत्तिकादृढवल्मीकवपादिद्रव्यसम्भरणमित्यर्थः । कात्यायनो ऽपि- “उखासम्भरणमष्टम्याम्”- (का. श्रौ. सू. १६ । ४४) इति । उखा चोपलक्षणम्, अषाढाद्यपि अनया क्रियया संश्रियत एव । अष्टम्यामुखासम्भरणं प्रशंसति- प्राजापत्यमेतदिति । अष्टमीदिवसस्य अधिदेवता प्रजापतिरिति तदाह- प्राजापत्यमिति । ‘उखा’ इति ‘यत्’ अस्ति, ‘तत्’ ‘प्राजापत्यं कर्म;’ प्रजापत्यात्मको ऽग्निः, तद्धारणार्थकत्वात् । प्राजापत्यो ऽग्निः, तत्सम्बन्धिनि ‘अहन्’ अन्हीत्यर्थः । “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इति सप्तम्या लुक् ॥ २३ ॥

Eggeling
  1. On the eighth day (after full moon) he collects (the materials for) the fire-pan; for sacred to Prajāpati is that day, the eighth (after full moon), and sacred to Prajāpati is this (sacred) piece of work, the fire-pan: on a day sacred to Prajāpati he thus performs the work sacred to Prajāpati.

२४

विश्वास-प्रस्तुतिः

य᳘द्वेवा᳘ष्टकायाम्॥
(म्प᳘) प᳘र्व्वैत᳘त्संव्वत्सर᳘स्य यद᳘ष्टका प᳘र्व्वैत᳘दग्नेर्य᳘दुखा प᳘र्व्वण्येव तत्प᳘र्व्व करोति॥

मूलम् - श्रीधरादि

य᳘द्वेवा᳘ष्टकायाम्॥
(म्प᳘) प᳘र्व्वैत᳘त्संव्वत्सर᳘स्य यद᳘ष्टका प᳘र्व्वैत᳘दग्नेर्य᳘दुखा प᳘र्व्वण्येव तत्प᳘र्व्व करोति॥

मूलम् - Weber

य᳘द्वेवा᳘ष्टकायाम्॥
प᳘र्वैत᳘त्सवत्सर᳘स्य यद᳘ष्टका प᳘र्वैत᳘दग्नेर्य᳘दुखा प᳘र्वण्येव तत्प᳘र्व करोति॥

मूलम् - विस्वरम्

यद्वेवाष्टकायाम् । पर्वैतत्सम्वत्सरस्य- यदष्टका । पर्वैतदग्नेः- यदुखा । पर्वण्येव तत् पर्व करोति ॥ २४ ॥

सायणः

पुनः प्रशंसितुमनुवदति- यद्वेवाष्टकायामिति । ‘एतत्’ अहः अष्टम्याख्यम्, ‘संवत्सरस्य’ ‘पर्व’ सन्धिस्थानीयम्; यथा ऽङ्गुलेः पर्व सन्धिस्थानीयमेवम् । तत् पक्षस्य अन्तात् अष्टमी मध्येति पर्वरूपा भवति, तद्वारा संवत्सरस्यापीति; ‘अग्नेः’ अप्येषा ‘उखा’ ‘पर्व;’ सन्धिस्थानत्वात्, अत्र ह्यग्निः सन्धीयते ॥ २४ ॥

Eggeling
  1. And as to why (it is performed) on the eighth day;–that eighth day no doubt is a joint of the year, and that fire-pan is a joint of Agni (the fire-altar): he thus makes joint upon joint.

२५

विश्वास-प्रस्तुतिः

य᳘द्वेवा᳘ष्टकायाम्॥
(म᳘) अ᳘ष्टका वा᳘ ऽउखा᳘ निधिर्द्वा᳘ ऽउद्धी᳘ तिर᳘श्ची रा᳘स्ना त᳘च्चतुश्च᳘तस्र ऽऊर्ध्वास्त᳘दष्टाव᳘ष्टकायामेव तद᳘ष्टकां करोति॥ [शतम् ३५००]

मूलम् - श्रीधरादि

य᳘द्वेवा᳘ष्टकायाम्॥
(म᳘) अ᳘ष्टका वा᳘ ऽउखा᳘ निधिर्द्वा᳘ ऽउद्धी᳘ तिर᳘श्ची रा᳘स्ना त᳘च्चतुश्च᳘तस्र ऽऊर्ध्वास्त᳘दष्टाव᳘ष्टकायामेव तद᳘ष्टकां करोति॥ [शतम् ३५००]

मूलम् - Weber

य᳘द्वेवा᳘ष्टकायाम्॥
अ᳘ष्टका वा᳘ उखा᳘ निधिर्द्वा᳘ उद्धी᳘ तिर᳘श्ची रा᳘स्ना त᳘च्चतुश्चि᳘तस्र ऊर्ध्वास्त᳘दष्टाव᳘ष्टकायामेव तद᳘ष्टकां करोति॥

मूलम् - विस्वरम्

यद्वेवाष्टकायाम् । अष्टका वा ऽउखा । निधिः, द्वा ऽउद्धी, तिरश्ची रास्ना, तच्चतुः चतस्र ऊर्ध्वाः । तदष्टौ । अष्टकायामेव तदष्टकां करोति ॥ २५ ॥

सायणः

अथाष्टम्यामुखासम्पादनमष्टकानामसाम्याद्युक्तमिति तत् पुनः प्रशंसति- यद्वेवाष्टकायामष्टका वा उखेति । अष्टकानामाष्टसङ्ख्या भवतीति तदष्टसङ्ख्यावत्त्वमुखायां दर्शयति- निधिर्द्वा उद्धी इति । ‘निधिः’ नाम उखायाः प्रथमं मृत्पिण्डस्य प्रथनेन अग्निधारणार्थो ऽधस्तात्प्रदेशः । ‘द्वा उद्धी’ उद्धिः नाम प्रथितमृत्पिण्डस्योपरिप्रक्षिप्तः अन्यो मृत्पिण्डः, तौ द्वौ ‘रास्ना’ नाम उखाकण्ठलग्ना ‘तिरश्ची’ तिरःस्थाना वृत्ताकारा 22 एवं निध्यादिचतुष्टयम् ‘ऊर्ध्वाः’ प्रतिदिशमेकैकं कण्ठवर्त्तिपर्यन्ताः ‘चतस्रः’ आश्रयभूताः, ताश्चतस्रः । एवम् ‘अष्टौ’ उखायां सम्पन्नाः । अतो ऽष्टम्यामष्टकाकरणं युक्तमित्यर्थः । उत्तरत्र पञ्चमाध्याये “मृत्पिण्डमुपादत्ते” (श. प. ६ । ५ । २ । १) इति प्रक्रम्य, “तं प्रथयति वसवस्त्वेति (श. प. ६ । ५ । २ । ३ ।) “अयं हैष लोके निधिः”- (श. प. ६ । ५ । ३) इति प्रथमस्य पृथिवीरूपतोक्ता । “अथ पूर्वमुद्धिमादधाति ०-० अथोत्तरमुद्धिमादधाति” (श. प. ६ । ५ । २ । ४, ५) इति । “अथ तिरश्चीँ रास्नां पर्यस्यति ।” (श. प. ६ । ५ । २ । ११) ०-० “अथ चतस्र उद्धीः करोति” (श. प. ६ । ५ । २ । १४) इति । अत्र कात्यायनः- “ऊर्ध्वास्तूष्णी प्रतिदिशं चतस्रो ऽपरा वर्तिं प्राप्ताः” (का. श्रौ. सू. १६ । १००) इति ॥ २५ ॥

Eggeling
  1. And, again, why on the eighth day;–eightfold doubtless is the pan 23–the bottom part, the two side-parts, the horizontal belt (or rim), that makes four; and four upright (bands), that makes eight: he thus makes the eightfold on the eightfold (or eighth).

२६

विश्वास-प्रस्तुतिः

(त्य) अमावा᳘स्यायां दीक्षते॥
(ते ऽमा) अमावा᳘स्यायै वा ऽअ᳘धि यज्ञ᳘स्तायते य᳘तो यज्ञ᳘स्ताय᳘ते त᳘तो यज्ञं᳘ जनयानी᳘ति॥

मूलम् - श्रीधरादि

(त्य) अमावा᳘स्यायां दीक्षते॥
(ते ऽमा) अमावा᳘स्यायै वा ऽअ᳘धि यज्ञ᳘स्तायते य᳘तो यज्ञ᳘स्ताय᳘ते त᳘तो यज्ञं᳘ जनयानी᳘ति॥

मूलम् - Weber

अमावा᳘स्यायां दीक्षते॥
अमावा᳘स्यायै वा अ᳘धि यज्ञ᳘स्तायते य᳘तो यज्ञ᳘स्ताय᳘ते त᳘तो यज्ञं᳘ जनयानी᳘ति॥

मूलम् - विस्वरम्

अमावास्यायां दीक्षते । अमावास्यायै वा ऽअधि यज्ञस्तायते । यतो यज्ञस्तायते- ततो यज्ञं जनयानीति ॥ २६ ॥

सायणः

चयनसहितस्य सोमयागस्य दीक्षाकालं विधत्ते- अमावास्यायां दीक्षत इति । फाल्गुनामावास्यायां दीक्षां कुर्यात् । सूत्रितञ्च- “दीक्षा ऽमावास्यायामामावास्येनेष्ट्वा” (का. श्रौ. सू. १६ । १२७) इति । अमावास्यासम्बन्धीष्टिकरणादनन्तरमेव दीक्षा कर्तव्या; पौर्णमास्योपक्रमाद् दर्शयागेन तत्परिसमाप्तेरवकाशत्वादित्यभिप्रायः । अमावास्यायै वा अधीति । अधिः पञ्चम्यर्थानुवादी । ‘यज्ञः’ चन्द्रमाः, ‘तायते’ विस्तार्यते; पौर्णमास्यां देवैरालब्धस्य चन्द्रस्य अमावास्यायामाप्यायनस्योक्तेः । ‘यतः’ यस्मात्; दिनाद् यज्ञो विस्तारितः, तस्मात् अहमपि ‘यज्ञम्’ उत्पादयेयमिति । यद्वा, यज्ञपदेन दर्शष्टिः; दर्शपूर्णमासौ हि सर्वस्या इष्टेः प्रकृतिभूताविति । तस्मादस्या उपरि ‘यज्ञस्तायते’ । “तनोतेर्यकि”- (पा. सू. ६ । ४ । ४४) इति नलोपे “अकृत्सार्वधातुकयोः” (पा. सू. ७ । ४ । २५) इति दीर्घे कृते ‘तायते’- इति रूपम् ॥ २६ ॥

Eggeling
  1. He performs the initiation on the day of new moon; for from out of the new moon the sacrifice is spread: ‘Whence the sacrifice is spread, thence will I generate the sacrifice,’ so he thinks.

२७

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वामावा᳘स्यायाᳫँ᳭॥
रे᳘तो वा᳘ ऽएत᳘द्भूत᳘मात्मा᳘नᳫँ᳭ सिञ्चत्युखा᳘यां यो᳘नौ यद्दी᳘क्षते त᳘स्मा ऽएतं᳘ पुर᳘स्ताल्लोकं᳘ करोति य᳘द्दीक्षितो भ᳘वति तं᳘ कृतं᳘ लोक᳘मभि᳘ जायते त᳘स्मादाहुः कृतं᳘ लोकं पु᳘रुषो ऽभि᳘ जायत ऽइ᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वामावा᳘स्यायाᳫँ᳭॥
रे᳘तो वा᳘ ऽएत᳘द्भूत᳘मात्मा᳘नᳫँ᳭ सिञ्चत्युखा᳘यां यो᳘नौ यद्दी᳘क्षते त᳘स्मा ऽएतं᳘ पुर᳘स्ताल्लोकं᳘ करोति य᳘द्दीक्षितो भ᳘वति तं᳘ कृतं᳘ लोक᳘मभि᳘ जायते त᳘स्मादाहुः कृतं᳘ लोकं पु᳘रुषो ऽभि᳘ जायत ऽइ᳘ति॥

मूलम् - Weber

य᳘द्वेॗवामावा᳘स्यायाम्॥
रे᳘तो वा᳘ एत᳘द्भूत᳘मात्मा᳘नᳫं सिञ्चत्युखा᳘यां यो᳘नौ यद्दी᳘क्षते त᳘स्मा एत᳘म् पुर᳘स्ताल्लोकं᳘ करोति य᳘द्दीक्षितो भ᳘वति तं᳘ कृतं᳘ लोक᳘मभि᳘ जायते त᳘स्मादाहुः कृत᳘ लोकम् पु᳘रुषो ऽभि᳘ जायत इ᳘ति॥

मूलम् - विस्वरम्

यद्वेवामावास्यायाम् । रेतो वा ऽएतद्भूतमात्मानं सिञ्चति उखायां योनौ यद्दीक्षते । तस्मा ऽएतं पुरस्ताल्लोकं करोति- यद्दीक्षितो भवति । तं कृतं लोकमभिजायते । तस्मादाहुः कृतं लोकं पुरुषो ऽभि जायत ऽइति ॥ २७ ॥

सायणः

प्रकारान्तरेण दीक्षाकरणं प्रशंसति- यद्वेवामावास्यायां रेतो वा एतदिति । ‘दीक्षते’ यजमान इति ‘यत्’, ‘एतत्’ उखारूपायां ‘योनौ रेतोभूतमात्मानं’ सिक्तवान् । दीक्षाकरणमग्न्युत्पादनात् प्रागवस्थेति रेतस्सेकात्मकत्वमित्यर्थः । ‘यत्’ यदा ‘दीक्षितः’ प्राप्तदीक्षो ‘भवति’ तदा तस्मै रेतोरूपत्वेनोत्पत्स्यमानायाग्नये ‘पुरस्तात्’ पूर्वं ‘लोकं’ स्थानं करोति, स्थाने निष्पन्ने पश्चात् अग्निर्जायते । अयमर्थः, दीक्षाप्रारम्भो ऽग्नेरुत्पत्तिप्रागवस्था, तत्समाप्तिरेव जनिष्यमाणस्याग्नेः स्थानकरणमिति स्थानसम्पादनानन्तरमुत्पत्तिं लोकप्रसिद्ध्या द्रढयति- तस्मादाहुः कृतं लोकमिति ॥ २७ ॥

Eggeling
  1. And, again, why he (does so) at new moon;–when he performs the initiation, he verily pours out his ‘own self, as seed, into the fire-pan, the womb; and when he becomes initiated, he makes for it (his self) that world (or place) beforehand 24, and he is

born into the world made by him: hence they say, Man is born into the world made (by him) 25.’

२८

विश्वास-प्रस्तुतिः

स यत्क᳘नीयः संव्वत्सरा᳘द्दीक्षितः स्या᳘त्॥
(द) अलोका ऽइ᳘ष्टका ऽउ᳘पदध्यादि᳘ष्टका लोकान᳘तिरिच्येरन्न᳘थ यद्भू᳘यसो लोका᳘न्कृत्वे᳘ष्टका᳘ नानूपदध्या᳘ल्लोका ऽइ᳘ष्टका ऽअ᳘तिरिच्येरन्न᳘थ य᳘दमावा᳘स्यायां दीक्षि᳘त्वा ऽमावा᳘स्यायां क्रीणा᳘ति तद्या᳘वन्तमेव᳘ लोकं᳘ करो᳘ति ता᳘वतीरि᳘ष्टका ऽउ᳘पदधात्य᳘थास्यापूर्यमाणपक्षे स᳘र्व्वो ऽग्नि᳘श्चीयते॥

मूलम् - श्रीधरादि

स यत्क᳘नीयः संव्वत्सरा᳘द्दीक्षितः स्या᳘त्॥
(द) अलोका ऽइ᳘ष्टका ऽउ᳘पदध्यादि᳘ष्टका लोकान᳘तिरिच्येरन्न᳘थ यद्भू᳘यसो लोका᳘न्कृत्वे᳘ष्टका᳘ नानूपदध्या᳘ल्लोका ऽइ᳘ष्टका ऽअ᳘तिरिच्येरन्न᳘थ य᳘दमावा᳘स्यायां दीक्षि᳘त्वा ऽमावा᳘स्यायां क्रीणा᳘ति तद्या᳘वन्तमेव᳘ लोकं᳘ करो᳘ति ता᳘वतीरि᳘ष्टका ऽउ᳘पदधात्य᳘थास्यापूर्यमाणपक्षे स᳘र्व्वो ऽग्नि᳘श्चीयते॥

मूलम् - Weber

स यत्क᳘नीयः संवत्सरा᳘द्दीक्षितः स्या᳘त्॥
अलोका इ᳘ष्टका उ᳘पदध्यादे᳘ष्टका लोकान᳘तिरिच्येरन्न᳘थ यद्भू᳘यसो लोका᳘न्कृत्वे᳘ष्टकाॗ नानूपदध्या᳘ल्लोका इ᳘ष्टका अ᳘तिरिच्येरन्न᳘थ य᳘दमावा᳘स्यायां दीक्षिॗत्वामावा᳘स्यायां क्रीणा᳘ति तद्या᳘वन्तमेव᳘ लोकं᳘ करो᳘ति ता᳘वतीरि᳘ष्टका उ᳘पदधात्य᳘थास्यापूर्यमाणपक्षे स᳘र्वो ऽग्नि᳘श्चीयते॥

मूलम् - विस्वरम्

स यत्कनीयः संवत्सराद्दीक्षितः स्यात्- अलोका इष्टका उपदध्यात् । इष्टका लोकानतिरिच्येरन् । अथ यद्भूयसो लोकान्कृत्वेष्टका नानूपदध्यात्- लोका इष्टका अतिरिच्येरन् । अथ यदमावास्यायां दीक्षित्वा ऽमावास्यायां क्रीणाति- तद्यावन्तमेव लोकं करोति- तावतीरिष्टका उपदधाति । अथास्यापूर्यमाणपक्षे सर्वो ऽग्निश्चीयते ॥ २८ ॥

सायणः

साग्निके क्रतौ “संवत्सरभृतमेव चिन्वीत” (श. प. १० । २ । ६ । ९) इत्याम्नानात् न्यूनातिरेकाभावेन संवत्सरपर्यन्तं दीक्षा कर्त्तव्येति सिद्धान्तयितुं न्यूनातिरेकपक्षयोर्दोषमुपन्यस्यति- स यत् कनीयः संवत्सरादिति । अग्निस्तावत् संवत्सरात्मकः, तादृशस्याग्नेरवयवा यजुष्मत्य इष्टकाः षष्ट्युत्तरत्रिशतसंख्याका इति दशमे काण्डे वक्ष्यते (श. प. १० । ५ । ४ । ५) । तत्र दीक्षाणां संवत्सरादर्वाक्त्वे कतिपयानामिष्टकानामाधारभूतकालराहित्यादधिका भवन्तीति प्रदेशरहिता इष्टका एवोपहितवान् भवतीति । एवं तर्हि एतद्दोषपरिहाराय दीक्षाणां वर्षाधिक्ये इष्टका न्यूना इति लोका अतिरिक्ता भवन्तीति सो ऽपि नेष्टव्यः । इष्टकाकालमनुवदति- अथ यदमावास्यायां दीक्षित्वा ऽमावास्यायां क्रीणातीति । प्रथमायां फाल्गुनामावास्यायां ‘दीक्षित्वा’, ततः कतिदिवसं दीक्षितधर्मानाचरन् पुनः फाल्गुनामावास्यायां राजानं सोमं ‘क्रीणाति’ अतो न्यूनाधिकभावौ न स्तः । तद्यावन्तमिति । इष्टकातिरेको लोकातिरेको वा नास्तीत्यस्मिन् पक्षे गुणान्तरं दर्शयति- अथास्यापूर्यमाणपक्ष इति । दीक्षानन्तरं राजक्रये उपसद्यागः, तत्र हि अनूपसदमग्निं चिनोतीति उपसत्स्वग्निचयनं स्यात्, तच्चयनं शुक्लपक्षे सम्पद्यत इति गुणः॥ २८ ॥

Eggeling
  1. Now, were he to be initiated during less than a year, he would build up bricks without space (for them) 26: the bricks would exceed the spaces. And if, after making more spaces 27, he were not to fill up bricks in accordance therewith, the spaces would exceed the bricks. And when, after initiating himself at new moon, he buys (Soma) at new moon 28, he piles up as many bricks as he (during the interval) makes space for; and when his (Agni’s second) wing is covered (with loose soil), the whole Agni is built up.

२९

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य) यद्या᳘वत्य ऽएत᳘स्याग्नेरि᳘ष्टकास्ता᳘वन्ति क्र᳘ये ऽहोरात्रा᳘णि सम्प᳘द्यन्ते᳘ ऽथ या᳘न्यूर्द्ध्वा᳘नि क्रयाद᳘हानि कथ᳘मस्य ते᳘ लोका᳘ ऽअनू᳘पहिता भवन्ती᳘ति यद्वा᳘ ऽअमावा᳘स्यायां दीक्षि᳘त्वा ऽमावा᳘स्यायां क्रीणा᳘ति तद्या᳘वन्तमेव᳘ लोकं᳘ करो᳘ति ता᳘वतीरि᳘ष्टका ऽउ᳘पदधात्य᳘थ या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि त᳘स्मिन्नवका᳘शे ऽध्वर्यु᳘रग्निं᳘ चिनोति᳘ क्वो हि᳘ चिनुयान्न᳘ च᳘ सो ऽवकाशः स्याद्या᳘वन्ति वै᳘ संव्वत्सर᳘स्याहोरात्रा᳘णि ता᳘वत्य ऽएत᳘स्याग्नेरि᳘ष्टका ऽउ᳘प च त्रयोदशो मा᳘सस्त्रयोदशो वा᳘ ऽएष मा᳘सो या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि तद्या᳘ ऽअमू᳘स्त्रयोदश᳘स्य मास ऽइ᳘ष्टकास्ता᳘भिरस्य ते᳘ लोका᳘ ऽअनू᳘पहिता भवन्ति त᳘त्समा᳘ लोकाश्चे᳘ष्टकाश्च भवन्ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य) यद्या᳘वत्य ऽएत᳘स्याग्नेरि᳘ष्टकास्ता᳘वन्ति क्र᳘ये ऽहोरात्रा᳘णि सम्प᳘द्यन्ते᳘ ऽथ या᳘न्यूर्द्ध्वा᳘नि क्रयाद᳘हानि कथ᳘मस्य ते᳘ लोका᳘ ऽअनू᳘पहिता भवन्ती᳘ति यद्वा᳘ ऽअमावा᳘स्यायां दीक्षि᳘त्वा ऽमावा᳘स्यायां क्रीणा᳘ति तद्या᳘वन्तमेव᳘ लोकं᳘ करो᳘ति ता᳘वतीरि᳘ष्टका ऽउ᳘पदधात्य᳘थ या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि त᳘स्मिन्नवका᳘शे ऽध्वर्यु᳘रग्निं᳘ चिनोति᳘ क्वो हि᳘ चिनुयान्न᳘ च᳘ सो ऽवकाशः स्याद्या᳘वन्ति वै᳘ संव्वत्सर᳘स्याहोरात्रा᳘णि ता᳘वत्य ऽएत᳘स्याग्नेरि᳘ष्टका ऽउ᳘प च त्रयोदशो मा᳘सस्त्रयोदशो वा᳘ ऽएष मा᳘सो या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि तद्या᳘ ऽअमू᳘स्त्रयोदश᳘स्य मास ऽइ᳘ष्टकास्ता᳘भिरस्य ते᳘ लोका᳘ ऽअनू᳘पहिता भवन्ति त᳘त्समा᳘ लोकाश्चे᳘ष्टकाश्च भवन्ति॥

मूलम् - Weber

त᳘दाहुः॥
यद्या᳘वत्य एत᳘स्याग्नेरि᳘ष्टकास्ता᳘वन्ति क्रॗये ऽहोरात्रा᳘णि सम्प᳘द्यन्ते᳘ ऽथ या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि कथ᳘मस्य ते᳘ लोका᳘ अनू᳘पहिता भवन्ती᳘ति यद्वा᳘ अमावा᳘स्यायां दीक्षिॗत्वामावा᳘स्यायां क्रीणा᳘ति तद्या᳘वन्तमेव᳘ लोकं᳘ करो᳘ति ता᳘वतीरि᳘ष्टका उ᳘पदधात्य᳘थ या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि त᳘स्मिन्नवकाॗशे ऽध्वर्यु᳘रग्निं᳘ चिनोतिॗ क्वो हि᳘ चिनुयान्न᳘ चॗ सो ऽवकाशः स्याद्या᳘वन्ति वै᳘ संवत्सर᳘स्याहोरात्रा᳘णि ता᳘वत्य एत᳘स्याग्नेरि᳘ष्टका उ᳘प च त्रयोदशो मा᳘सस्त्रयोदशो वा᳘ एष मा᳘सो या᳘न्यूर्ध्वा᳘नि क्रयाद᳘हानि तद्या᳘ अमू᳘स्त्रयोदश᳘स्य मास इ᳘ष्टकास्ता᳘भिरस्य ते᳘ लोका᳘ अनू᳘पहिता भवन्ति त᳘त्समा᳘ लोकाश्चे᳘ष्टकाश्च भवन्ति॥

मूलम् - विस्वरम्

तदाहुः- यद्यावत्य एतस्याग्नेरिष्टकाः- तावन्ति क्रये ऽहोरात्राणि सम्पद्यन्ते । अथ यान्यूर्द्ध्वानि क्रयादहानि- कथमस्य ते लोका अनूपहिता भवन्तीति । यद्वा ऽअमावास्यायां दीक्षित्वा ऽमावास्यायां क्रीणाति, तद् यावन्तमेव लोकं करोति- तावतीरिष्टका उपदधाति । अव यान्यूर्ध्वानि क्रयादहानि- तस्मिन्नवकाशे ऽध्वर्युरग्निं चिनोति । क्वो हि चिनुयात्- न च सो ऽवकाशः स्यात् । यावन्ति वै सम्वत्सरस्याहोरात्राणि- तावत्य एतस्याग्नेरिष्टकाः । उप च त्रयोदशो मासः । त्रयोदशो वा ऽएष मासो- यान्यूर्ध्वानि क्रयादहानि । तद् या अमूस्त्रयोदशस्य मास इष्टकाः- ताभिरस्य ते लोका अनूपहिता भवन्ति । तत्समा लोकाश्च, इष्टकाश्च भवन्ति ॥ २९ ॥

सायणः

एवं दीक्षाणां संवत्सरकालीनत्वेनेष्टेः कालसाम्ये सिद्धान्तिते ऽपि वेदवादिनां कालविषयामधिकामाशङ्कां दर्शयति- तदाहुर्यद्यावत्य एतस्येति । यद्यपि प्रथमफाल्गुनामावास्यायां दीक्षित्वा, आगामिफाल्गुनामावास्यायां सोमक्रयावधिरूपवत्सरस्वीकारे अग्न्यवयवभूतेष्टकानां कालरूपाधारराहित्यमाधिक्यं वा नास्ति, तथापि क्रयादनन्तराण्यहानि उपसदर्थानि विद्यन्ते; तत्र कथमिष्टकाभिर्यजमानस्य लोका उपहिता भवन्तीति प्रश्नः ॥

यद्वा अमावास्यायां दीक्षित्वेत्यादिपरिहारवाक्यस्यायमर्थः- दीक्षादिक्रयकालपर्यन्तो यावान् कालरूपो लोकः, तावत्य इष्टका अभूवन्निति तावदविवादम् । यदि तस्मादूर्ध्वानि यान्यहानि सो ऽवकाशो ऽध्वर्योरग्निचयनस्य । यदि तान्यहानि चयनकालो न भवेत्, तर्हि ‘क्वो हि’ कुत्रावकाशे ‘चिनुयात्’ ? अवकाशस्याभावात् । अन्येष्वहःसु इष्टकोपधानं नास्तीति न मन्तव्यमिति, “यावन्ति वै संवत्सरस्याहोरात्राणि”- इत्यादिना क्रयोत्तरकाले ऽपीष्टकोपधानमस्तीत्याह । संवत्सरसाधारणात् तद्रूपो ऽग्निरित्युक्तम्, तत्र इष्टका अग्न्यवयवा इति च, अंतः संवत्सरस्य यावन्ति दिनानि, तावत्य इष्टका उपहिता इत्युक्ते संवत्सरे त्रयोदशमासस्यापि सम्भवात् तत्संख्यया इष्टकोपधानम् । अतस्त्रयोदशमासरूपाणि क्रियोत्तराण्यहानि तत्संख्याकाभिरिष्टकाभिर्यजमानलोका उपहिता भवन्तीत्यनेन यावन्तो लोकास्तावत्य इष्टका उपहिता इत्यर्थः ॥ २९ ॥

Eggeling
  1. As to this they say, ‘If at the time of the buying (of Soma) the days and nights (of the initiation-period) amount to just as many as there are bricks of that fire-altar, why then are not those

spaces of his filled up (which are prepared) during the days there are after the buying (of Soma) 29? Well, when he buys (Soma) at new moon, after becoming initiated at new moon (a year previously), then he piles up just as many bricks as (during that interval) he makes space for; and what days there then are after the buying (of Soma), during that interval the Adhvaryu builds up the fire-altar. But when should he build up, if there were not that interval? As many as there are days and nights in the year, so many are the bricks of that fire-altar. Thereto (comes) a thirteenth month, for there is that thirteenth month;–thus during the days there are after the buying (of Soma), those spaces of it (the altar) are filled up afterwards with those bricks of the thirteenth month: thus the spaces and the bricks become equal.

३०

विश्वास-प्रस्तुतिः

(न्त्ये) एतद्वै᳘ यैव᳘ प्रथमा᳘ पौर्णमासी[[!!]]॥
त᳘स्यां पशुमा᳘लभते या᳘ प्रथमा᳘ ऽष्टका त᳘स्यामुखाᳫँ᳭ स᳘म्भरति या᳘ प्रथ᳘मा ऽमावा᳘स्या त᳘स्यां दीक्षत ऽएतद्वै या᳘न्येव᳘ संव्वत्सर᳘स्य प्रथमान्य᳘हानि ता᳘न्यस्य तदा᳘रभते ता᳘नि च त᳘दाप्नोत्यथा᳘तः सम्प᳘देव[[!!]]॥

मूलम् - श्रीधरादि

(न्त्ये) एतद्वै᳘ यैव᳘ प्रथमा᳘ पौर्णमासी[[!!]]॥
त᳘स्यां पशुमा᳘लभते या᳘ प्रथमा᳘ ऽष्टका त᳘स्यामुखाᳫँ᳭ स᳘म्भरति या᳘ प्रथ᳘मा ऽमावा᳘स्या त᳘स्यां दीक्षत ऽएतद्वै या᳘न्येव᳘ संव्वत्सर᳘स्य प्रथमान्य᳘हानि ता᳘न्यस्य तदा᳘रभते ता᳘नि च त᳘दाप्नोत्यथा᳘तः सम्प᳘देव[[!!]]॥

मूलम् - Weber

एतद्वैॗ यैव᳘ प्रथमा᳘ पौर्णमासी᳟॥
त᳘स्याम् पशुमा᳘लभते या᳘ प्रथमा᳘ष्टका त᳘स्यामुखाᳫं स᳘म्भरति या᳘ प्रथॗमामावा᳘स्या त᳘स्यां दीक्षत एतद्वै या᳘न्येव᳘ संवत्सर᳘स्य प्रथमान्य᳘हानि ता᳘न्यस्य तदा᳘रभते ता᳘नि च त᳘दाप्नोत्यथा᳘तः सम्प᳘देव᳟॥

मूलम् - विस्वरम्

एतद्वै यैव प्रथमा पौर्णमासी- तस्यां पशुमालभते । या प्रथमा ऽष्टका- तस्यामुखां सम्भरति । या प्रथमा ऽमावास्या- तस्यां दीक्षते । एतद्वै यान्येव सम्वत्सरस्य प्रथमान्यहानि- तान्यस्य तदारभते । तानि च तदाप्नोति । अथातः सम्पदेव ॥ ३० ॥

सायणः

पश्वालम्भोखासम्भरणदीक्षाकाला ये उक्तास्तेषां प्राथम्यमुपजीव्य प्रशंसति- एतद्वै यैव प्रथमा पौर्णमासीति । अथ पशुकर्मणः संवत्सररूपाग्नेश्च संख्यासम्पत्तिं दर्शयितुं प्रतिजानीते- अथातः सम्पदेवेति । ‘सम्पत्’ सम्पत्तिः, संख्यासाम्यम्, तत् पशुकर्माग्न्योर्दर्शयिष्यत इत्यर्थः ॥ ३० ॥

Eggeling
  1. Thus, then, what first full moon there is (in the year) on that he slaughters the victim; and what first eighth-day there is, on that he prepares the fire-pan; and what first new moon there is, on that he becomes initiated: thus whatever first days there are in the year, of those he thereby takes possession for him (Agni, the altar), those he thereby gains. Now then as to the total amount (of the fire-altar) 30.

३१

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘मस्यैतत्क᳘र्म संव्वत्सर᳘मग्नि᳘माप्नो᳘ति कथ᳘ᳫँ᳘ संव्वत्सरे᳘णा ऽग्नि᳘ना स᳘म्पद्यत ऽइ᳘त्येते᳘षां वै᳘ पञ्चानां᳘ पशूनां च᳘तुर्विᳫँ᳭शतिः सामिधे᳘न्यो द्वा᳘दशा᳘प्रियस्तत्ष᳘ट्त्रिᳫँ᳭शदे᳘कादशानुयाजा ऽए᳘कादशोपय᳘जस्त᳘दष्टा᳘पञ्चाशत्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कथ᳘मस्यैतत्क᳘र्म संव्वत्सर᳘मग्नि᳘माप्नो᳘ति कथ᳘ᳫँ᳘ संव्वत्सरे᳘णा ऽग्नि᳘ना स᳘म्पद्यत ऽइ᳘त्येते᳘षां वै᳘ पञ्चानां᳘ पशूनां च᳘तुर्विᳫँ᳭शतिः सामिधे᳘न्यो द्वा᳘दशा᳘प्रियस्तत्ष᳘ट्त्रिᳫँ᳭शदे᳘कादशानुयाजा ऽए᳘कादशोपय᳘जस्त᳘दष्टा᳘पञ्चाशत्॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मस्यैतत्क᳘र्म संवत्सर᳘मग्नि᳘माप्नोति कथ᳘ᳫं᳘ संवत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत इ᳘त्येते᳘षां वै᳘ पञ्चाना᳘म् पशूनां च᳘तुर्विंशतिः सामिधेॗन्यो द्वा᳘दशा᳘प्रियस्तत्ष᳘ट्त्रिंशदे᳘कादशानुयाजा ए᳘कादशोपय᳘जस्त᳘दष्टा᳘ पञ्चाशत्॥

मूलम् - विस्वरम्

तदाहुः- कथमस्यैतत्कर्म सम्वत्सरमग्निमाप्नोति, कथं सम्वत्सरेणाग्निना सम्पद्यत इति ? । (१) तेषां वै पञ्चानां पशूनां चतुर्विंशतिः सामिधेन्यो, द्वादशाप्रियः- तत्षट्त्रिंशत् । एकादशानुयाजाः, एकादशोपयजः- तदष्टापञ्चाशत् ॥ ३१ ॥

सायणः

तदाहुः कथमस्यैतत्कर्मेति । अग्निः संवत्सरात्मकः, तम् ‘कथमेतत् कर्माप्नोति’ अत्रानुपपत्तिं स्वयमेव दर्शयति- कथं संवत्सरेणेति । संवत्सररूपेण ‘अग्निना’ सह ‘कथं सम्पद्यते’ संख्यातः कथं सम्पन्नं भवेदिति प्रश्नार्थः ॥

पञ्चपशुप्राजापत्यवायव्यरूपपक्षत्रये ऽपि सम्पति दिदर्शयिषुः पञ्चपशुपक्षे प्रथमं दर्शयति- एतेषां वै पञ्चानां पशूनामिति । तस्मिन् यज्ञे ‘सामिधेन्यः चतुर्विंशतिः’ । उक्ताः प्रकृतिगताः पञ्चदश, “समास्त्वा ऽग्न ऋतवः”- (श. प. ६ । २ । १ । २५) इत्याद्या मध्ये विहिता नवेति चतुर्विंशतिः । ‘द्वादश आप्रियः’ “उर्द्ध्वा अस्य समिधो भवन्ति”- (श. प. ६ । २ । १ । ३१) इत्याद्याः आप्रीसञ्ज्ञकाः प्रयाजयाज्या द्वादशोक्ताः । एकादश अनुयाजाः, एकादश उपयजः, उपयजो नाम पशुगुदहोमाः । तदाहापस्तम्बः- “एकादशधा तिर्यक् छित्त्वा सम्भिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृते वषट्कृत एकैकं गुदकाण्डं प्रतिप्रस्थाता हस्तेन जुहोति” 31- (आ. श्रौ. सू. ७ । २७ । ११) इति । एताः सर्वा मिलित्वा ‘अष्टापञ्चाशत्’ संख्या सम्पन्ना ॥ ३१ ॥

Eggeling
  1. Here now they say, ‘How does that sacrificial performance of his (the animal sacrifice) gain the year, Agni? how does it correspond 32 with the year, with Agni?’ Well, for those five victims there are twenty-five kindling-verses, twelve Āprī-verses,–that makes thirty-six;–eleven after-offerings, eleven by-offerings 33,–that makes fifty-eight.

३२

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘तो᳘ या ऽष्टा᳘चत्वारिᳫँ᳭श᳘त्॥
(त्सा) सा ऽष्टा᳘चत्वारिᳫँ᳭शदक्षरा ज᳘गतीयं वै ज᳘गत्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वं ज᳘गदिय᳘मु वा᳘ ऽअग्नि᳘रस्यै हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘तो᳘ या ऽष्टा᳘चत्वारिᳫँ᳭श᳘त्॥
(त्सा) सा ऽष्टा᳘चत्वारिᳫँ᳭शदक्षरा ज᳘गतीयं वै ज᳘गत्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वं ज᳘गदिय᳘मु वा᳘ ऽअग्नि᳘रस्यै हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

त᳘तोॗ याष्टा᳘चत्वारिंशत्॥
साष्टा᳘चत्वारिंशदक्षरा ज᳘गतीयं वै ज᳘गत्यस्याॗᳫंॗ हीदᳫं स᳘र्वं ज᳘गदिय᳘मु वा᳘ अग्नि᳘रस्यै हि स᳘र्वो ऽग्नि᳘श्चीय᳘ते या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

ततो या ऽष्टाचत्वारिंशत्- सा ऽष्टाचत्वारिंशदक्षरा जगती । इयं वै जगती। अस्यां हीदं सर्वं जगत् । इयमु वा ऽअग्निः । अस्यै हि सर्वो ऽग्निश्चीयते । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ ३२ ॥

सायणः

अस्तु, प्रस्तुते किमायातमित्याह- ततो या ऽष्टाचत्वारिंशदिति । उक्तायामष्टापञ्चाशत्सङ्ख्यायां मध्ये दशसङ्ख्यां हित्वा अवशिष्टा अष्टाचत्वारिंशत्सङ्ख्या; तावत्संख्याक्षरजगतीच्छन्दोरूपा, जगत्यपि हि द्वादशाक्षरपादेति पादचतुष्टये उक्तसंख्या भवति । अस्यां भूमौ सर्वं जगत् प्रतिष्ठितमिति भूमिरपि जगतीशब्दवाच्या, सैव हि सर्वाग्निचयनाधिकरणमिति आधाराधेययोरभेदोपचारेण भूमिरेव अग्निशब्दवाच्या । अग्निर्यावत्परिमाणवचनः ‘अस्य’ अग्नेः ‘मात्रा’ अवयवो ‘यावती’ यत्परिमाणः, तत्कर्मसंख्यानं तावदग्नितदवयवसंख्याकं भवति ॥ ३२ ॥

Eggeling
  1. Now what forty-eight there are (in these fifty-eight), they are the Jagatī (metre) consisting of forty-eight syllables;–the Jagatī doubtless is this earth, for it is thereon that everything is that moves (jagat); and Agni also is this earth, for it is thereof that the whole Agni is built up: as great as Agni is, as great as is his measure, so great does this become 34.

३३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वाष्टा᳘चत्वारिᳫँ᳭शत्॥
(द) अष्टा᳘चत्वारिᳫँ᳭शदक्षरा वै ज᳘गती ज᳘गती स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वाष्टा᳘चत्वारिᳫँ᳭शत्॥
(द) अष्टा᳘चत्वारिᳫँ᳭शदक्षरा वै ज᳘गती ज᳘गती स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

य᳘द्वेॗवाष्टा᳘चत्वारिंशत्॥
अष्टा᳘चत्वारिंशदक्षरा वै ज᳘गती ज᳘गती स᳘र्वाणि छ᳘न्दांसि स᳘र्वाणि छ᳘न्दांसि प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

यद्वेवाष्टाचत्वारिंशत् । अष्टाचत्वारिंशदक्षरा वै जगती । जगती सर्वाणि च्छन्दांसि । सर्वाणि च्छन्दांसि प्रजापतिः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ ३३ ॥

सायणः

प्रोक्ताया एव संख्यायाः प्राजापत्यात्मना सम्पत्तिं प्रशंसति-यद्वेवाष्टाचत्वारिंशदिति । पूर्ववद् व्याख्येयम् ॥ ३३ ॥

Eggeling
  1. And, again, why there are forty-eight;–of forty-eight syllables consists the Jagatī; the Jagatī (comprises) all the metres; all the metres are Prajāpati (the sacrifice 35); and Prajāpati is Agni as great as Agni is, as great as is his measure, so great does this become.

३४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘नि द᳘श॥
सा द᳘शाक्षरा व्विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘नि द᳘श॥
सा द᳘शाक्षरा व्विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

अ᳘थ या᳘नि द᳘श॥
सा द᳘शाक्षरा विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ अग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

अथ यानि दश- सा दशाक्षरा विराट् । विराडग्निः । दश दिशः । दिशो ऽग्निः । दश प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ ३४ ॥

सायणः

अवशिष्टां दशसङ्ख्यां प्रशंसति- अथ यानि दश सा दशाक्षरेति । ‘विराट् अग्नि’ अन्नात्मकत्वात् । “अग्निर्विराट् अन्नम्” (तै. ब्रा. १ । ६ । ३-३-१-८-२-२ । ) इति श्रुतेः विराजो ऽन्नत्वम् । अग्नेर्दिगात्मकत्वं प्रागादिदिक्षु विभज्योपधीयमानत्वात् । प्राणापानादयः पञ्च, नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चेति ‘दश प्राणाः’ । यद्वा, प्राणा दश इन्द्रियाणि । अग्नेः प्राणात्मकत्वम्, हिरण्यगर्भात्मकत्वात् । यावानग्निरित्यादि । पूर्ववत् ॥ ३४ ॥

Eggeling
  1. And what (remaining) ten there are (in those fifty-eight), they are the Virāj, consisting of ten syllables; and the Virāj is Agni,–there are ten regions, and the regions are Agni; ten vital airs, and the vital airs are Agni: as great as Agni is,

as great as is his measure, so great does this become.

३५

विश्वास-प्रस्तुतिः

व्वपा᳘ पशुपुरोडाशः[[!!]]॥
(स्त᳘) त᳘त्षष्टिः᳘ षष्टिर्मा᳘सस्याहोरात्रा᳘णि तन्मासमा᳘प्नोति[[!!]] मा᳘स ऽआप्त᳘ ऽऋतु᳘माप्नोत्यृतुः᳘ संवत्सरं त᳘त्संवत्सर᳘मग्नि᳘माप्नोति ये᳘ च संव्वत्सरे᳘ का᳘मा ऽअ᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्तत्[[!!]]॥

मूलम् - श्रीधरादि

व्वपा᳘ पशुपुरोडाशः[[!!]]॥
(स्त᳘) त᳘त्षष्टिः᳘ षष्टिर्मा᳘सस्याहोरात्रा᳘णि तन्मासमा᳘प्नोति[[!!]] मा᳘स ऽआप्त᳘ ऽऋतु᳘माप्नोत्यृतुः᳘ संवत्सरं त᳘त्संवत्सर᳘मग्नि᳘माप्नोति ये᳘ च संव्वत्सरे᳘ का᳘मा ऽअ᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्तत्[[!!]]॥

मूलम् - Weber

वपा᳘ पशुपुरोडाशः᳟॥
त᳘त्षष्टिः᳘ षष्टिर्मा᳘सस्याहोरात्रा᳘णि तन्मा᳘समाप्नोति मा᳘स आप्त᳘ ऋतु᳘माप्नोत्यृतुः᳘ संवत्सरं त᳘त्संवत्सर᳘मग्नि᳘माप्नोति ये᳘ च संवत्सरे᳘ का᳘मा अ᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्त᳘त्॥

मूलम् - विस्वरम्

वपा, पशुपुरोडाशः- तत् षष्टिः । षष्टिर्मासस्याहोरात्राणि । तन्मासमाप्नोति । मास आप्त ऋतुमाप्नोति । ऋतुः सम्वत्सरम् । तत्सम्वत्सरमग्निमाप्नोति । ये च सम्वत्सरे कामाः । अथ यदतो ऽन्यद्- यदेव सम्वत्सरे ऽन्नं- तत्तत् ॥ ३५ ॥

सायणः

एवं पञ्चपशुपक्षे ऽष्टापञ्चाशतं सङ्ख्यामग्न्यात्मना स्तुत्वा संवत्सराग्निना सम्पत्तिं वक्तुं सङ्ख्यान्तरं दर्शयति- वपा पशुपुरोडाश इति । ‘वपा’ वैश्वानरः, ‘पशुपुरोडाशः’ इति द्वौ । एताभ्यां सह षष्टिसङ्ख्या जाता । ‘मासस्य’ संवत्सरावयवभूतस्य षष्टिसङ्ख्यानि अहोरात्राणि विद्यन्ते, तत् षष्टिसङ्ख्याकं मासं तावत्सङ्ख्याकमहोरात्रमाप्नोति । ‘आप्तः’ सम्पन्नः ‘मासः’ स्वावयविनम् ‘ऋतुम्’ ‘आप्नोति’; ऋतुर्हि मासद्वयात्मकः । ‘ऋतुः’ अपि ‘संवत्सरम्’ आप्नोति; ऋतुषट्कात्मको हि संवत्सरः । संवत्सररूपो ऽग्निरिति प्रागुक्तम् । अतः सामिधेन्यादि-वपापशुपुरोडाशान्तगता षष्टिसङ्ख्या संवत्सररूपात्मना सम्पन्नेति सर्वान् संवत्सरमध्यवर्तिनः कामानाप्नोति । नन्वस्मिन् कर्मणि अन्यानि बहूनि सङ्ख्येयानि विद्यन्ते, तत् कथं षष्टिसङ्ख्येत्युक्तमत आह- अथेत्यादि । अथेति प्रश्ने । ‘अतः’ उक्तसङ्ख्यातः ‘अन्यत्’ ‘यत्’ अस्ति, ‘तत्’ ‘संवत्सरे’ विद्यमानम् ‘अन्नम्’ एव ‘तत्’ ॥ ३५ ॥

Eggeling
  1. The omentum and the animal cake, that makes sixty;–sixty are the days and nights of a month: thus he gains the month; the month gained gains the season; and the season (gains) the year: he thus gains the year, Agni, and the wishes which are contained in the year, and what other food than that there is in the year, all that (he gains).

३६

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थैत᳘स्य प्रजापत्यस्य[[!!]]॥
(स्यै᳘) ए᳘कविᳫँ᳭शतिः सामिधे᳘न्यो द्वादशा᳘प्रियस्तत्त्र᳘यस्त्रिᳫँ᳭शदे᳘कादशानुयाजा ऽए᳘कादशोपय᳘जस्तत्प᳘ञ्चपञ्चाशद्वपा᳘ पशुपुरोडाशो᳘ हविस्त᳘दष्टा᳘पञ्चाशत्स᳘ यो ऽष्टा᳘पञ्चाशति कामो᳘ ऽत्रैव त᳘माप्नोति द्वा᳘वाघारौ त᳘त्षष्टिः स यः᳘ षष्ठ्यां कामो᳘ ऽत्रैव[[!!]] त᳘माप्नोत्य᳘थ यद᳘तो ऽन्यद्य᳘देवं᳘ संव्वत्सरे᳘ ऽन्नं तत्तत्[[!!]]॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थैत᳘स्य प्रजापत्यस्य[[!!]]॥
(स्यै᳘) ए᳘कविᳫँ᳭शतिः सामिधे᳘न्यो द्वादशा᳘प्रियस्तत्त्र᳘यस्त्रिᳫँ᳭शदे᳘कादशानुयाजा ऽए᳘कादशोपय᳘जस्तत्प᳘ञ्चपञ्चाशद्वपा᳘ पशुपुरोडाशो᳘ हविस्त᳘दष्टा᳘पञ्चाशत्स᳘ यो ऽष्टा᳘पञ्चाशति कामो᳘ ऽत्रैव त᳘माप्नोति द्वा᳘वाघारौ त᳘त्षष्टिः स यः᳘ षष्ठ्यां कामो᳘ ऽत्रैव[[!!]] त᳘माप्नोत्य᳘थ यद᳘तो ऽन्यद्य᳘देवं᳘ संव्वत्सरे᳘ ऽन्नं तत्तत्[[!!]]॥

मूलम् - Weber

अ᳘थैत᳘स्य प्राजापत्य᳘स्य॥
ए᳘कविंशतिः सामिधेॗन्यो द्वादशा᳘प्रियस्तत्त्र᳘यस्त्रिंशदे᳘कादशानुयाजा ए᳘कादशोपय᳘ज तत्प᳘ञ्चपञ्चाशद्वपा᳘ पशुपुरोडाशो᳘ हविस्त᳘दष्टा᳘पञ्चाशत्सॗ यो ऽष्टा᳘पञ्चाशति कामो᳘ ऽत्रैव त᳘माप्नोति द्वा᳘वाघारौ त᳘त्षष्टिः स यः᳘ षष्ट्यां कामो᳘ ऽत्रैव᳘ त᳘माप्नोत्य᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ᳫं᳘ संवत्सरे᳘ ऽन्नं तत्त᳘त्॥

मूलम् - विस्वरम्

(२) अथैतस्य प्राजापत्यस्य एकविंशतिः सामिधेन्यो, द्वादशाप्रियः- तत्त्रयस्त्रिंशत् । एकादशानुयाजाः, एकादशोपयजः- तत् पञ्चपञ्चाशत् । वपा, पशुपुरोडाशः, हविः- तदष्टापञ्चाशत् । स यो ऽष्टापञ्चाशति कामः- अत्रैव तमाप्नोति । द्वावाघारौ- तत् षष्टिः । स यः षष्ट्यां कामः- अत्रैव तमाप्नोति । अथ यदतो ऽन्यद्- यदेव सम्वत्सरे ऽन्नम्- तत्तत् ॥ ३६ ॥

सायणः

एवं पञ्चपशुपक्षे सम्पत्तिं दर्शयित्वा प्राजापत्यपशुपक्षे दर्शयति- अथैतस्य प्राजापत्यस्येति । अग्नेः ‘एकविंशतिः सामिधेन्यः’ ‘हविः’ पशुहृदयादिरूपमित्यर्थः । एवमष्टापञ्चाशत् सम्पन्ना । तत्र पूर्वोक्तं फलमतिदिशति- स यो ऽष्टापञ्चाशति काम इति । अत्रापि संवत्सराग्निना सम्पत्तिं वक्तुं सङ्ख्येयान्तरं समुच्चिनोति- द्वावाघाराविति । स्रुवाघारः स्रुच्याघारश्चेत्यर्थः । एवं षष्टिसङ्ख्यायां सम्पन्नायां पूर्वोक्तषष्टिफलमतिदिशति- स यः षष्ट्यां कामो ऽत्रैव तमिति ॥ ३६ ॥

Eggeling
  1. And for that (victim) of Prajāpati there are twenty-one kindling-verses, and twelve Āprī-verses, that makes thirty-three;–eleven after-offerings, eleven by-offerings, that makes fifty-five;–omentum, animal cake, and chief oblation, that makes fifty-eight: whatever wish is contained in the fifty-eight, that he gains even here 36;–two libations of ghee, that makes sixty: whatever wish is contained in the sixty, that he gains even here; and what other food than that there is in the year, all that (he gains).

३७

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थैत᳘स्य नियुत्वती᳘यस्य॥
सप्त᳘दश सामिधे᳘न्यो द्वादशा᳘प्रियस्तदे᳘कान्न᳘ त्रिᳫँ᳭शदे᳘कादशानुयाजा ऽए᳘कादशोपय᳘जस्तदे᳘कपञ्चाशद्वपा᳘ पशुपुरोडाशो᳘ हविस्तच्च᳘तुष्पञ्चाशद्द्वा᳘वाघारौ द्वौ᳘ स्विष्टकृ᳘तौ त᳘दष्टा᳘पञ्चाशत्स᳘ यो ऽष्टा᳘पञ्चाशति कामो᳘ ऽत्रैव त᳘माप्नोति व्व᳘नस्प᳘तिश्च व्वसाहोम᳘श्च त᳘त्षष्टिः स यः᳘ षष्ट्यां कामो᳘ ऽत्रैव त᳘माप्नोत्य᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ संव्वत्सरे᳘ ऽन्नं तत्त᳘देव᳘मु हास्यैतत्क᳘र्म संव्वत्सर᳘मग्नि᳘माप्नो᳘त्येव᳘ᳫँ᳘ संव्वत्सरे᳘णाग्नि᳘ना स᳘म्पद्यते॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थैत᳘स्य नियुत्वती᳘यस्य॥
सप्त᳘दश सामिधे᳘न्यो द्वादशा᳘प्रियस्तदे᳘कान्न᳘ त्रिᳫँ᳭शदे᳘कादशानुयाजा ऽए᳘कादशोपय᳘जस्तदे᳘कपञ्चाशद्वपा᳘ पशुपुरोडाशो᳘ हविस्तच्च᳘तुष्पञ्चाशद्द्वा᳘वाघारौ द्वौ᳘ स्विष्टकृ᳘तौ त᳘दष्टा᳘पञ्चाशत्स᳘ यो ऽष्टा᳘पञ्चाशति कामो᳘ ऽत्रैव त᳘माप्नोति व्व᳘नस्प᳘तिश्च व्वसाहोम᳘श्च त᳘त्षष्टिः स यः᳘ षष्ट्यां कामो᳘ ऽत्रैव त᳘माप्नोत्य᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ संव्वत्सरे᳘ ऽन्नं तत्त᳘देव᳘मु हास्यैतत्क᳘र्म संव्वत्सर᳘मग्नि᳘माप्नो᳘त्येव᳘ᳫँ᳘ संव्वत्सरे᳘णाग्नि᳘ना स᳘म्पद्यते॥

मूलम् - Weber

अ᳘थैत᳘स्य नियुत्वती᳘यस्य॥
सप्त᳘दश सामिधेॗन्यो द्वादशा᳘प्रियस्तदे᳘कां न᳘ 37 त्रिंशदे᳘कादशानुयाजा ए᳘कादशोपय᳘जस्तदे᳘कपञ्चाशद्वपा᳘ पशुपुरोडाशो᳘ हविस्तच्च᳘तुष्पञ्चाशद्द्वा᳘वाघारौ द्वौ᳘ स्विष्टकृ᳘तौ त᳘दष्टा᳘पञ्चाशत्सॗ यो ऽष्टा᳘पञ्चाशति कामो᳘ ऽत्रैव त᳘माप्नोति व᳘नस्प᳘तिश्च वसाहोम᳘श्च त᳘त्षष्टिः स यः᳘ षष्ट्यां कामो᳘ ऽत्रैव त᳘माप्नोत्य᳘थ यद᳘तो ऽन्यद्य᳘देव᳘ संवत्सरे᳘ ऽन्नं तत्त᳘देव᳘मु हास्यैतत्क᳘र्म संवत्सर᳘मग्नि᳘माप्नोत्येव᳘ᳫं᳘ संवत्सरे᳘णाग्नि᳘ना स᳘म्पद्यते॥

मूलम् - विस्वरम्

(३) अथैतस्य नियुत्वतीयस्य सप्तदश सामिधेन्यः । द्वादशाप्रियः- तद् एकान्न त्रिंशत् । एकादशानुयाजाः, एकादशोपयजः, तदेकपञ्चाशत् । वपा, पशुपुरोडाशो, हविः तत् चतुष्पञ्चाशत् । द्वावाघारौ, द्वौ स्विष्टकृतौ । तदष्टापञ्चाशत् । स यो ऽष्टापञ्चाशति कामः- अत्रैव तमाप्नोति । वनस्पतिश्च, वसाहोमश्च- तत् षष्टिः । स यः षष्ट्यां कामः- अत्रैव तमाप्नोति । अथ यदतो ऽन्यद्- यदेव संवत्सरे ऽन्नम्- तत्तत् । एवमु हास्यैतत्कर्म संवत्सरमग्निमाप्नोति, एवं संवत्सरेणाग्निना सम्पद्यते ॥ ३७ ॥

सायणः

वायव्यपशुपक्षे सम्पन्ने सम्पत्तिं दर्शयति- अथैतस्य नियुत्वतीयस्येति । द्वौ स्विष्टकृताविति । पशुपुरोडाशः स्विष्टकृत्, पश्वङ्गस्विष्टकृच्चेति द्वयमित्यर्थः । वनस्पतिश्च वसाहोमश्चेति । पृषदाज्यद्रव्यको वनस्पतियागः स्विष्टकृतः प्रागनुष्ठेयः, हविषो याज्याया अर्द्धर्चे प्रतिप्रस्थात्रा कर्त्तव्यो वसाहोमः । अत्रापि फलद्वयवाक्यं पूर्ववद् योज्यम् ॥ ३७ ॥

Eggeling
  1. And for that (victim) of (Vāyu) Niyutvat, there are seventeen kindling-verses, and twelve Āprī-verses, that makes twenty-nine;–eleven after-offerings, and eleven by-offerings, that makes fifty-one;–omentum, animal cake, and chief oblation, that makes fifty-four;–two libations of ghee, two (oblations to Agni) Svishṭakr̥t, that makes fifty-eight: whatever wish is contained in the fifty-eight, that he gains even here;–the wood-lord 38 (tree) and the oblation of gravy, that makes sixty: whatever wish is contained

in the sixty, that he gains even here, and what other food than that there is in the year, all that (he gains); and thus that sacrificial performance gains for him the year, Agni; thus it (the animal sacrifice) corresponds with the year, with Agni.

३८

विश्वास-प्रस्तुतिः

त᳘दाहुः᳘॥
(र्नै) नैत᳘स्य पशोः᳘ समिष्टयजू᳘ᳫँ᳘षि जुहुयान्न᳘ हृदयशूले᳘नावभृथ᳘मभ्य᳘वेयादारम्भो वा᳘ ऽए᳘षो ऽग्नेः᳘ पशु᳘र्व्यवसर्गो᳘ देव᳘तानाᳫँ᳭ समिष्टयजू᳘ᳫँ᳘षि᳘ स᳘ᳫँ᳘स्था ऽवभृथो ने᳘दारम्भे᳘ देव᳘ता व्यवसृजा᳘नि ने᳘द्यज्ञ᳘ᳫँ᳘ सᳫँ᳭स्थाप᳘यानी᳘ति स वै स᳘मेव᳘ स्थापयेदेते᳘न पशु᳘नेष्ट्वा त᳘त्प्रजा᳘पतिरपश्यद्य᳘थैत᳘स्याग्नेर᳘न्तं न᳘ पर्यैत्त᳘स्मात्स᳘ᳫँ᳘स्थापयेद्य᳘द्वेव᳘ सᳫँ᳭स्थाप᳘यति प्राण᳘ ऽएष᳘ पशुस्त᳘स्य य᳘दन्तरिया᳘त्प्राण᳘स्य त᳘दन्त᳘रियाद्य᳘दु वै᳘ प्राण᳘स्यान्तरियात्त᳘त ऽएवं᳘ म्रियेत त᳘स्मात्स᳘मेव᳘ स्थापयेदथा᳘तो व्रता᳘नामेव᳘॥

मूलम् - श्रीधरादि

त᳘दाहुः᳘॥
(र्नै) नैत᳘स्य पशोः᳘ समिष्टयजू᳘ᳫँ᳘षि जुहुयान्न᳘ हृदयशूले᳘नावभृथ᳘मभ्य᳘वेयादारम्भो वा᳘ ऽए᳘षो ऽग्नेः᳘ पशु᳘र्व्यवसर्गो᳘ देव᳘तानाᳫँ᳭ समिष्टयजू᳘ᳫँ᳘षि᳘ स᳘ᳫँ᳘स्था ऽवभृथो ने᳘दारम्भे᳘ देव᳘ता व्यवसृजा᳘नि ने᳘द्यज्ञ᳘ᳫँ᳘ सᳫँ᳭स्थाप᳘यानी᳘ति स वै स᳘मेव᳘ स्थापयेदेते᳘न पशु᳘नेष्ट्वा त᳘त्प्रजा᳘पतिरपश्यद्य᳘थैत᳘स्याग्नेर᳘न्तं न᳘ पर्यैत्त᳘स्मात्स᳘ᳫँ᳘स्थापयेद्य᳘द्वेव᳘ सᳫँ᳭स्थाप᳘यति प्राण᳘ ऽएष᳘ पशुस्त᳘स्य य᳘दन्तरिया᳘त्प्राण᳘स्य त᳘दन्त᳘रियाद्य᳘दु वै᳘ प्राण᳘स्यान्तरियात्त᳘त ऽएवं᳘ म्रियेत त᳘स्मात्स᳘मेव᳘ स्थापयेदथा᳘तो व्रता᳘नामेव᳘॥

मूलम् - Weber

त᳘दाहुः᳟᳟॥
नैत᳘स्य पशोः᳘ समिष्टयजूं᳘षि जुहुयान्न᳘ हृदयशूले᳘नावभृथ᳘मभ्य᳘वेयादारम्भो वा᳘ एॗषो ऽग्नेः᳘ पशु᳘र्व्यवसर्गो᳘ देव᳘तानाᳫं समिष्टयजूं᳘षिॗ संस्थावभृथो ने᳘दारम्भे᳘ देव᳘ता व्यवसृजा᳘नि ने᳘द्यज्ञ᳘ᳫं᳘ संस्थाप᳘यानी᳘ति स वै स᳘मेव᳘ स्थापयेदेते᳘न पशु᳘नेष्ट्वा त᳘त्प्रजा᳘पतिरपश्यद्य᳘थैत᳘स्याग्नेर᳘न्तं न᳘ पर्यैत्त᳘स्मात्स᳘ᳫं᳘स्थापयेद्य᳘द्वेव᳘ संस्थाप᳘यति प्राण᳘ एष᳘ पशुस्त᳘स्य य᳘दन्तरिया᳘त्प्राण᳘स्य त᳘दन्त᳘रियाद्य᳘दु वै᳘ प्राण᳘स्यान्तरियात्त᳘त एव᳘म् म्रियेत त᳘स्मात्स᳘मेव᳘ स्थापयेदथा᳘तो व्रता᳘नामेव᳟॥

मूलम् - विस्वरम्

तदाहुः- नैतस्य पशोः समिष्टयजूंषि जुहुयात् । न हृदयशूलेनावभृथमभ्यवेयाद् । आरम्भो वा ऽएषो ऽग्नेः पशुः । व्यवसर्गो देवतानां समिष्टयजूंषि । संस्था ऽवभृथः । नेदारम्भे देवता व्यवसृजानि, नेद्यज्ञं संस्थापयानीति । स वै समेव स्थापयेत् । एतेन पशुनेष्ट्वा तत्प्रजापतिरपश्यत्- यथैतस्याग्नेरन्तं न पर्यैत् । तस्मात्संस्थापयेत् । यद्वेव संस्थापयति । प्राण एष पशुः । तस्य यदन्तरियात्- प्राणस्य तदन्तरियात् । यदु वै प्राणस्यान्तरियात्- तत एवं म्रियेत । तस्मात्समेव स्थापयेत् । अथातो व्रतानामेव ॥ ३८ ॥

सायणः

पश्वनुष्ठानस्य चयनकर्मादित्वात् तदवसानः कर्त्तव्यः; देवताविसर्गरूपसमिष्टयजुर्होमः समाप्तिरूपावभृथश्च न कर्त्तव्याविति केषाञ्चित्पक्षं सोपपत्तिकमुपन्यस्यति- तदाहुर्नैतस्य पशोरिति । पञ्चपशुपक्षे ऽपि “अजेन चरति”- (का. श्रौ. सू. १६ । २१) इत्युक्तेः अजस्य वा प्राजापत्यस्य वा वायव्यस्य वा पशोरित्यर्थः । ‘अग्नेः’ अग्निचयनकर्मणः ‘एषः’ उक्तः ‘पशुः’ पशुयागः ‘आरम्भः’ कर्मोपक्रमः; आदावनुष्ठीयमानत्वात् । ‘समिष्टयजूंषि’ इति यत्, तत् ‘देवतानां’ पशुदेवतानां ‘व्यवसर्गः’ विसर्जनम् । ‘अवभृथः’ इति यत्, तत् ‘संस्था’ कर्मसमाप्तिः । अतः कर्मोपक्रमे एव देवताविसर्जनं कर्मसमापनं च कर्तुं न युक्तमित्यर्थः ।

तन्मतं निरस्यति- स वै समेव स्थापयेदिति । पूर्वं ‘प्रजापतिरेतेन पशुना इष्ट्वा’ अपश्यद् विचारितवान्,- ‘यथा’ येन प्रकारेण ‘एतस्य’ ‘अग्नेः’ ‘अन्तं’ ‘न पर्यैत्’ पर्यगच्छत्, चिकीर्षमाणः स स्वयमेव तदपश्यत् इत्यन्वयः । यद्येकेनैव पशुनेष्ट्वा ऽग्नेरन्तं परिगच्छेत्, तर्हि समिष्टयजुरादिकं न कर्तव्यं स्यात्; न तथा; एकेन पशुना यागे ऽपि इतरेषां पशुशरीराणामप्सु प्रासनात् तत्परिमाणमृन्मयीष्टकोपधानादिकं विना अग्न्यन्तगमनाभावसिद्धेः पशुकर्म संस्थापयितव्यमित्यभिप्रायः । संस्थापनाकरणे अनिष्टं दर्शयितुमनुवदति- यद्वेव संस्थापयति प्राण एव पशुरिति । पशोः प्राणत्वं पुरस्तादुक्तम् । ‘तस्य’ पशोः सम्बन्धि ‘यत्’ कर्म ‘अन्तरियात्’ व्यवहितं कुर्यात्, ‘प्राणस्य’ सम्बन्धिनमेकदेशमेव व्यवहितं कृतवान् भवति । ‘ततः’ च सदा प्राणादन्तरितः सः अनन्तरमेव ‘म्रियेत’ मृतो भवति; ‘तस्मात्’ पशुकर्म ‘संस्थापयेदेव’ इत्यर्थः ॥ अथ पशुयागानन्तरं चयनकर्मणि यजमानकर्त्तव्यानां नियमानां मीमांसा वक्ष्यत इति प्रतिजानीते- अथातो व्रतानामेवेति ॥ ३८ ॥

Eggeling
  1. As to this they say, ‘Of that animal he should offer no Samishṭayajus, nor should he go down with the heart-spit to the purificatory bath 39; for that animal (sacrifice) is the commencement of Agni; the Samishṭayajus are the gracious dismissal of the deities 40; and the purificatory bath is the completion;–lest he should at the very commencement dismiss the deities, and complete the sacrifice.’ Let him nevertheless complete (the sacrifice): Prajāpati, having offered that animal, saw that he had not reached the end of him, Agni,–let him therefore complete (the sacrifice). And, again, why he completes it;–that animal sacrifice is his vital air, and if anything were to cut him off from that, it would cut him off from the vital air; and if anything were to cut him off from the vital air, he would thus die: let him therefore complete (the sacrifice). Now, then, as to the vows (rites of abstinence).

३९

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्नै) नैते᳘न पशु᳘ने᳘ष्ट्वोप᳘रि शयीत न᳘ माᳫँ᳭स᳘मश्नीयान्न᳘ मिथुनमु᳘पेयात्पूर्व्वदीक्षा वा᳘ ऽएष᳘ पशुर᳘नवकॢप्तं वै तद्य᳘द्दीक्षित᳘ ऽउप᳘रि श᳘यीत य᳘न्माᳫँ᳭स᳘मश्नीयाद्य᳘न्मिथुन᳘मेपेयादि᳘ति ने᳘त्त्वे᳘वैषा᳘ दीक्षा᳘ नेव हि मे᳘खला᳘ ऽस्ति न᳘ कृष्णाजिनमि᳘ष्टकां वा᳘ ऽएतां᳘ कुरुते त᳘स्मादु का᳘ममे᳘वोप᳘रि शयीतैत᳘दु स᳘र्व्वम᳘न्नं य᳘देते᳘ पश᳘वस्त᳘दस्या᳘त्राप्तमा᳘रब्धं भवति तद्या᳘नि का᳘नि चा ऽम᳘धुनो᳘ ऽशनानि ते᳘षामस्य स᳘र्व्वेषां कामाशनं य᳘दि ल᳘भेत मिथुनं तु नो᳘पेयात्पुरा᳘ मैत्रावरुण्यै᳘ पय᳘स्यायै त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्नै) नैते᳘न पशु᳘ने᳘ष्ट्वोप᳘रि शयीत न᳘ माᳫँ᳭स᳘मश्नीयान्न᳘ मिथुनमु᳘पेयात्पूर्व्वदीक्षा वा᳘ ऽएष᳘ पशुर᳘नवकॢप्तं वै तद्य᳘द्दीक्षित᳘ ऽउप᳘रि श᳘यीत य᳘न्माᳫँ᳭स᳘मश्नीयाद्य᳘न्मिथुन᳘मेपेयादि᳘ति ने᳘त्त्वे᳘वैषा᳘ दीक्षा᳘ नेव हि मे᳘खला᳘ ऽस्ति न᳘ कृष्णाजिनमि᳘ष्टकां वा᳘ ऽएतां᳘ कुरुते त᳘स्मादु का᳘ममे᳘वोप᳘रि शयीतैत᳘दु स᳘र्व्वम᳘न्नं य᳘देते᳘ पश᳘वस्त᳘दस्या᳘त्राप्तमा᳘रब्धं भवति तद्या᳘नि का᳘नि चा ऽम᳘धुनो᳘ ऽशनानि ते᳘षामस्य स᳘र्व्वेषां कामाशनं य᳘दि ल᳘भेत मिथुनं तु नो᳘पेयात्पुरा᳘ मैत्रावरुण्यै᳘ पय᳘स्यायै त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

त᳘दाहुः॥
नैते᳘न पशु᳘नेॗष्ट्वोप᳘रि शयीत न᳘ मांस᳘मश्नीयान्न᳘ मिथुनमु᳘पेयात्पूर्वदीक्षा वा᳘ एष᳘ पशुर᳘नवकॢप्तं वै तद्य᳘द्दीक्षित᳘ उप᳘रि श᳘यीत य᳘न्मांस᳘मश्नीयाद्य᳘न्मिथुन᳘मेपेयादि᳘ति नेॗत्वेॗवैषा᳘ दीक्षाॗ नेव हि मे᳘खला᳘स्ति न᳘ कृष्णाजिनमि᳘ष्टकां वा᳘ एतां᳘ कुरुते त᳘स्मादु का᳘ममेॗवोप᳘रि शयीतैत᳘दु स᳘र्वम᳘न्नं य᳘दते᳘ पश᳘वस्त᳘दस्या᳘त्राप्तमा᳘रब्धम् भवति तद्या᳘नि का᳘नि चाम᳘धुनो᳘ ऽशनानि ते᳘षामस्य स᳘र्वेषां कामाशनं य᳘दि ल᳘भेत मिथुनं तु नो᳘पेयात्पुरा᳘ मैत्रावरुण्य᳘ पयॗस्यायै त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

तदाहुः- नैतेन पशुनेष्ट्वोपरि शयीत, न मांसमश्नीयात्, न मिथुनमुपेयात् । पूर्वदीक्षा वा ऽएष पशुः । अनवक्लृप्तं वै तद्- यद्दीक्षित उपरि शयीत, यन्मांसमश्नीयात्, यन्मिथुनमुपेयादिति । नेत्त्वेवैषा दीक्षा । नेव हि मेखला ऽस्ति, न कृष्णाजिनम् । इष्टकां वा ऽएतां कुरुते । तस्मादु काममेवोपरि शयीत । एतदु सर्वमन्नम्- यदेते पशवः । तदस्यात्राप्तमारब्धं भवति । तद्यानि कानि चा ऽऽमधुनो ऽशनानि- तेषामस्य सर्वेषां कामाशनं- यदि लभेत । मिथुनं तु नोपेयात्- पुरा मैत्रावरुण्यै पयस्यायै तस्योपरि बन्धुः ॥ ३९ ॥

सायणः

कर्त्तव्याकर्त्तव्यविचारं पूर्वोत्तरपक्षाभ्यां निरूपयति- तदाहुर्नैतेनेति । ‘पशुः’ नाम ‘पूर्वा’ प्रथमभाविनी ‘दीक्षा’, दीक्षाकर्मोपक्रमार्थमिति मत्वा पूर्वपक्षोद्भवा । ‘अतः’ पशुकर्मणो दीक्षात्वाद् यजमानस्योपरि शयनादिकम् ‘अनवक्लृप्तम्’ अयुक्तमित्यर्थः । दूषयति- नेत्त्वेवैषा दीक्षेति । अत्र दीक्षाशब्दस्य मुख्यार्थस्वीकारः । मुख्यदीक्षायां “मेखलया दीक्षयति”-“कृष्णाजिनेन दीक्षयति”- (तै. सं. ६ । १ । ३ । ४) इति, मेखलाजिनयोरत्राभावात् इयं दीक्षा न भवतीत्यर्थः । किं तत् पश्वनुष्ठानमिति, तत्राह- इष्टकां वा एतां कुरुत इति । पशुयागो नामेष्टकाकरणमेव । ‘तस्मात्’ मांसोपर्यासने ‘कामं’ कुर्यात् । एतदु सर्वमन्नमिति । पुरुषादिपशूनां सर्वान्नत्वात् ‘तद्’ ‘यदा’ ‘आप्तम्’ ‘आरब्धं’ प्रक्रान्तं भवति, तस्मात् ‘आ मधुनः’ मर्यादायामाङ्, मधुपर्यन्तम् ‘यानि’ ‘अशनानि’ अन्नानि, ‘तेषां’ मध्ये ‘अस्य’ यष्टुः ‘कामाशनम्’ इच्छया भोजनम् । किं सर्वदा ? नेत्याह- यदि न लभेतेति । ‘यदि’ विहितम् अन्नं ‘न’ ‘लभेत’ लब्धं भवेत्, तर्हीत्यर्थः । एकं नियममाह- मिथुनं तु नोपेयादिति 41 । मिथुनवर्जनं सर्वथा कार्यमित्येतत् प्राप्तम्, तस्यावधिं दर्शयति- पुरा मैत्रावरुण्यै पयस्याया इति । पञ्चम्यर्थे चतुर्थी । आमिक्षायागपर्यन्तम् । अत्र कात्यायनः- “मैथुनं वर्जयेदा पयस्यायाः । मांसोपर्यासने चेच्छन्”- (का. श्रौ. सू. १६ । २८-२९) इति ॥

तस्य नियमस्य विधायकं ब्राह्मणमतिदिशति- तस्योपरि बन्धुरिति । ‘उपरि’ उत्तरत्र नवमकाण्डे “अथ मैत्रावरुण्या पयस्यया यजते”- (श. प. ९ । ५ । १ । ५४) इति मैत्रावरुणीं पयस्यां विधाय आम्नातम्- “स यदेतया ऽनिष्ट्वा मानुष्यां चरेत् प्रत्यवरोहः स यथा दैवः सन् मानुषः स्यात् तादृक् तत्” 42- (श. प. ९ । ५ । १ । ५४) इति ॥ ३९ ॥

Eggeling
  1. Here now they say, ‘After he has performed that animal offering, he must not sleep upon (a couch), nor eat flesh, nor hold carnal intercourse; for that animal sacrifice is the first Dīkshā, and improper surely it would be, were the initiated to sleep upon (a couch), or were he to eat flesh, or hold carnal intercourse.’ But in no way is this a Dīkshā, for there is neither a girdle, nor a black

antelope skin 43; but he makes this the first brick 44: let him therefore, if he like, sleep upon (a couch); and whatever food animals here eat, all that is here obtained and taken possession of by him; and whatever kinds of food there are other than honey, of all those he may eat at pleasure, if he can get them. Carnal intercourse, however, he may not hold prior to the (offering of) clotted curds to Mitra and Varuṇa 45: the purport of this (will be explained) hereafter.

४०

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
(र्द) दद्या᳘देत᳘स्मिन्यज्ञे द᳘क्षिणां ने᳘न्मे ऽयं᳘ य᳘ज्ञो ऽदक्षिणो᳘ ऽसद्ब्रह्म᳘ण ऽआदिष्टदक्षिणां᳘ दद्याद्ब्रह्मा वै स᳘र्व्वा यज्ञस्त᳘दस्य स᳘र्व्वो यज्ञो᳘ भिषज्यितो᳘ भवती᳘ति न त᳘था कुर्यादि᳘ष्टकां वा᳘ ऽएतां᳘ कुरुते तद्यथे᳘ष्टकायामिष्टकायां दद्या᳘त्तादृक्त᳘दमू᳘र्ह्येव᳘ दद्याद्य᳘दस्योपक᳘ल्पेत॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
(र्द) दद्या᳘देत᳘स्मिन्यज्ञे द᳘क्षिणां ने᳘न्मे ऽयं᳘ य᳘ज्ञो ऽदक्षिणो᳘ ऽसद्ब्रह्म᳘ण ऽआदिष्टदक्षिणां᳘ दद्याद्ब्रह्मा वै स᳘र्व्वा यज्ञस्त᳘दस्य स᳘र्व्वो यज्ञो᳘ भिषज्यितो᳘ भवती᳘ति न त᳘था कुर्यादि᳘ष्टकां वा᳘ ऽएतां᳘ कुरुते तद्यथे᳘ष्टकायामिष्टकायां दद्या᳘त्तादृक्त᳘दमू᳘र्ह्येव᳘ दद्याद्य᳘दस्योपक᳘ल्पेत॥

मूलम् - Weber

त᳘दाहुः॥
दद्या᳘देत᳘स्मिन्यज्ञे द᳘क्षिणां ने᳘न्मे ऽयं᳘ यॗज्ञो ऽदक्षिणो᳘ ऽसद्ब्रह्म᳘ण आदिष्टदक्षिणां᳘ दद्याद्ब्रह्मा वै स᳘र्वो यज्ञस्त᳘दस्य स᳘र्वो यज्ञो᳘ भिषज्जयितो᳘ 46 भवती᳘ति न त᳘था कुर्यादि᳘ष्टकां वा᳘ एतां᳘ कुरुते तद्यथे᳘ष्टकायामिष्टकायां दद्या᳘त्तादृक्त᳘दमु᳘र्ह्येव᳘ दद्याद्य᳘दस्योपक᳘ल्पेत॥

मूलम् - विस्वरम्

तदाहुः- दद्यादेतस्मिन्यज्ञे दक्षिणाम् । नेन्मे ऽयं यज्ञो ऽदक्षिणो ऽसत् । ब्रह्मण ऽआदिष्टदक्षिणां दद्यात् । ब्रह्मा वै सर्वो यज्ञः । तदस्य सर्वो यज्ञो भिषज्यितो भवतीति । न तथा कुर्यात् । इष्टकां वा ऽएतां कुरुते । तद् यथेष्टकायामिष्टकायां दद्यात्- तादृक् तत् । अमूर्ह्येव दद्याद्- यदस्योपकल्पेत ॥ ४० ॥

सायणः

अस्मिन् यज्ञे ब्रह्मसम्प्रदानकं दक्षिणादानं पूर्वोत्तरपक्षाभ्यां निषेधति- तदाहुर्दद्यादेतस्मिन् यज्ञे दक्षिणामिति । ‘ब्रह्मणे’ ‘आदिष्टदक्षिणाम्’ प्रतिनियतदक्षिणाम् । ‘भिषज्यितः’ चिकित्सितः । भिषज्- शब्दात् “कण्ड्वादिभ्यो यक्”- (पा. सू. ३ । १ । २७) तदन्तात् कर्मणि क्तः इडागमश्च । इष्टकां वा एतामिति । पशुयागो नामेष्टकाकरणम्, तस्मात् प्रतीष्टकं दक्षिणादानसमानम्, पशुयागे दक्षिणादानमित्यर्थः । पशौ देयाया दक्षिणायाः कालं दर्शयति- अमूर्ह्येव दद्यादिति । ‘अमूर्हि’ अदःशब्दो विप्रकृष्टवचनः । चयनकर्मणो दक्षिणादानकाले ‘अस्य’ ब्रह्मणो ‘यद्’ देयम् ‘उपकल्पेत’ अवक्लृप्तं स्यात्, तदा तद् देयमित्यर्थः ॥ ४० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-२-२)॥

Eggeling
  1. Here now they say, ‘At this sacrifice he should give a Dakshiṇā (sacrificial gift); thinking, “Lest my sacrifice should be without a dakshiṇā!” let him give to the Brahman the prescribed dakshiṇā, for the Brahman is the entire sacrifice: thus the entire sacrifice of his becomes healed.’ Let him not do so; for he makes this a brick, and it would be just as if he were to give a present with each brick: only at that (proper) time 47 let him therefore give what it befits him (to give).

  1. षड्दध्यात् । धाय्या इति यावत् । ↩︎ ↩︎

  2. 172:1 Viz. the eleven ordinary gāyatrī verses raised, by repetitions, to the number of fifteen; with six special trishṭubh inserted (p. 167, note 1). Kāty. XVI, 1, 34. ↩︎

  3. अस्मिन्नेव ब्राह्मणे प्रथमकण्डिकायाम् । ↩︎

  4. 172:2 On the two libations of ghee, see part i, p. 124 note; p. 128, n. 2. It is doubtful which of the two libations is intended here; whether the first which in any case belongs to Prajāpati, but is usually made with a different formula from the one prescribed here, or the second. The later ritualists themselves seem to have been doubtful on this point; but Kātyāyana (XVI, 1, 35-37) leans to the opinion, that the second libation must be intended; both libations thus being made to Prajāpati on this occasion. Sāyaṇa remarks,–hiraṇyavatyā r̥kā ‘hiraṇyagarbhaḥ samavartatety’ ata uttaraṁ samaprakam (? samaprakāram) āghāram āghārayati; prajāpatir vai hiraṇyagarbhaḥ sa cāgnis tam evam tarpayitvāpnotīty abhiprāyaḥ. ↩︎

  5. 172:3 That is, Vāj. S. XXV, 10 (XIII, 4; Rd S. X, 321, 1, ‘Hiraṇyagarbhaḥ samavartatāgre), ‘Hiraṇyagarbha (the golden child) came first into existence; he was born as the only lord of all being; he sustained this earth and sky: what god (or the god K a) shall we serve with offering.’ ↩︎

  6. 173:1 See III, 8, 3, 1 seq. ↩︎

  7. 173:2 See I, 1, 1, 13 with note.–The above verse, R̥k S. X, 121, I, and following five verses,–each of which ends with, ‘what god (or the god Ka) shall we serve with offering,’–are used with the omentum, the animal cake (paśupuroḍāśa), and the animal oblations respectively; viz. the first three verses as invitatory formulas (anuvākayā) and the last three as offering formulas (yājyā). Āśv. Śr. III, 8, 1.–Vāj. S. XXV, 10-13, only the first four verses are given together; whilst Sāyaṇa, in accordance with Āśvalāyana, remarks,–vapā puroḍāśapaśūnāṁ ‘hiraṇyagarbhaḥ samavartatāgra’ ity ādayaḥ syuḥ. ↩︎

  8. वायवे वा नियुत्वते श्वेतलप्सुदी । का० श्रौ० सू० १६ । ३८ । ‘लप्सुदी कूर्चलः’ इति कर्कः । ↩︎

  9. 173:3 Probably ’niyutaḥ’ here with allusion to ’niyuta,’ shut in. ↩︎

  10. 174:1 That is, only two additional trishṭubh verses are to be inserted between the 11 (or 15) gāyatrī ones. ↩︎

  11. “प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः” का० श्रौ० सू० १६ । ३९ । ↩︎ ↩︎

  12. 175:1 The three chief oblations of the Animal Sacrifice, requiring each an invitatory prayer (anuvākyā) and an offering prayer (yājyā), are the omentum-oblation (vapā), the animal cake (paśupuroḍāśa), and the meat oblations (paśu-havis). This is the order on the present occasion, whilst usually the cake-oblation succeeds the offering of meat portions. Now the first of the three invitatory prayers (that of the omentum), viz. Vāj. S. XXVII, 26 (R̥k S. X, 121, 8), and the last of the three offering prayers (that of the meat portions), viz. Vāj. S. XXVII, 25 (R̥k S. X, 121, 7), end with the refrain, ‘what god (or, the god Ka) should we serve with offering.’ Thus, then, the first and the last of the six formulas would be addressed to Prajāpati; and to him is also exceptionally offered the animal cake, which is here assigned the central position, and which, in the normal sacrificial order, would belong to the recipient of the animal sacrifice itself, or in the present case, to Vāyu Niyutvat. Sāyaṇa, on the other hand, makes the above two verses, containing the word Ka, the invitatory and offering prayers of the cake-offering, as the MS. makes him say,–kadvatyau yājyānuvākye puroḍāśasya, ‘āpo ha yad br̥hatīr’ (R̥k S. X, 121, 7), ‘yaścid āpo’ (X, 121, 8) ity ete. This, indeed, would also seem to be the opinion of Kātyāyana, whose rules (XVI, I, 39-43) are,–39. To Prajāpati belongs the animal cake at both (animal sacrifices); 40. The offering and invitatory formulas of the Prājāpatya (animal sacrifice) contain the word ‘Ka;’ 41. Those of the Vāyavya contain the word ‘bright;’ 42. Optionally so, those of the omentum (but not at the meat portion, commentary); 43. The remainder is equal in all (three views).–Now it would indeed be the most natural, that the formulas of the cake-offering, here exceptionally assigned to Prajāpati, should be made to correspond to that deity; but the order in which the formulas are given in the Vāj. S. XXVII, 23-28 (cf. Āśval. III, 8, I, as well as paragraph 13 above, seems to favour the first view; though the next paragraph shows that there were differences of opinion on this point. Cf. next note. ↩︎

  13. 176:1 The form of Prajāpati which has a team of horses is Vāyu, the god of wind; while his bright forms are represented by Agni, the fire (VI, I, 3, 20, ‘Agni is all bright things’).–Vāj. S. XXVII, 29-34 gives six verses for use as invitatory and offering formulas at the ishṭakāpaśu to Vāyu. Five of these contain the word ’niyut,’ team, but only the first two contain the word ‘śukra’ (bright): these two are presumably to be used on the present occasion; though I am at a loss to see what other two verses containing the word ‘bright’ are to be used; unless indeed ‘śuklavatyaḥ’ in the text means verses containing some word for ‘bright,’ in which case the ordinary verses used at an animal offering to Vāyu Niyutvat, viz. Vāj. S. XXVII, 23 and 24 (R̥k S. VII, 91, 3; 90, 3) which contain the word ‘śveta’ (white, light), might be used. The MS. of Sāyaṇa’s commentary is unfortunately very corrupt in this place; it alludes to the latter two verses, but whether to recommend them, or set them aside, for the present occasion, is not clear. He does, however, specially except the formulas of the animal cake from being included in the above specification. In the view put forth in paragraph 14, the above-mentioned two verses would apparently have to be used for the omentum-oblation, the two verses containing ‘Ka’ for the cake-oblation, and (any) two verses containing the word ’team’ (either the ordinary ones, R̥k S. VII, 92, 5; VI, 49, 4; or some of the special ones) for the meat-oblation. ↩︎

  14. 178:1 Sāyaṇa here supplies ’let him perform that,’–eshām karmaṇāṁ madhye yat karmāsya sampadyeta tat kuryād iti śeshaḥ; but he then adds, that the pronoun ‘it’ (tam) at the beginning of the next paragraph is caused by proximity of the Niyutvatīya. ↩︎

  15. ‘दक्षिणान्’ इति सूत्रशेषः । ↩︎

  16. “अमावास्यायामेके” का० श्रौ० सू० १६। ७ । ‘सा च माघामावास्या सन्निधानादगृह्यते’ इति तत्र कर्कः । ↩︎

  17. 178:2 See I, 6, 4, 5. ‘Now this king Soma, the food of the gods, is no other than the moon. When he (the moon, masc.) is not seen that night either in the east or in the west, then he visits this world, and here he enters into the waters (f.) and plants (f.).’ Thus Prajāpati is here identified with Soma, the moon, and food. ↩︎

  18. 178:3 Cp. I, 6, 4, 12-13. ‘The full-moon oblation, assuredly, belongs to the Vr̥tra-slayer, for by means of it Indra slew Vr̥tra; and this new-moon oblation also represents the slaying of Vr̥tra, since they prepared that invigorating draught for him who had slain Vr̥tra. An offering in honour of the Vr̥tra-slayer, then, is the full-moon sacrifice. Vr̥tra, assuredly, is no other than the moon; and when during that night (of new moon) he is not seen either in the east or in the west, then he (Indra) finishes in destroying him by means of that (new-moon sacrifice), and leaves nothing remaining of him.’ ↩︎

  19. इतः परं- ‘पूर्वा’-उत्तरफल्गुनीनक्षत्रयुक्ता, ‘एषा’ ‘संवत्सरस्य’ ‘उत्तमा’ इति अयोध्यापुस्तके पाठभेद उपलभ्यते । ↩︎

  20. 179:1 In the older division of the year the first or spring season (vasanta) begins with the month of Phālguna, that is the month when the moon is in conjunction with the nakshatra of the Uttare Phalgunī, whence that full moon, in the Kaush. Br. 5, 1, is called the mouth, and that of the first Phalgunī the tail, of the year. See A. Weber, Nachrichten von den Naxatra, II, p. 329. In the above, somewhat bold figure, we are, Sāyaṇa reminds us, to understand the fifteenth or last day (of the dark fortnight) of the first Phalgunī, and the pratipad, or first day of the second Phalgunī. ↩︎

  21. 179:2 That is, the construction of the fire-altar. ↩︎

  22. वितृतीय उत्तरे वर्तिँ सर्व्वतः करोत्यदित्यै रास्नेति । का. श्रौ. सू. १६ । ९९ । ↩︎

  23. 180:1 For the construction of the fire-pan, in which the sacred fire has to be kept up for a year, during which the initiation-ceremony is repeated day after day, see VI, 5, 2, 1 seq. ↩︎

  24. 180:2 There is kept up in these paragraphs a play on the word ’loka,’ meaning both ‘space’ and ‘world (or place of living),’–and applying both to the space occupied by a brick, in building up the altar; and to the place which the Sacrificer, by this performance, gains for himself in another world. The initiation period is here represented as the time during which the Sacrificer prepares both the requisite space for the altar (as it were, adding day by day so many brick-spaces, thus becoming available for the altar-pile at the time of construction), and an adequate place for himself in the celestial regions. ↩︎

  25. 181:1 That is, man receives, in a future existence, the reward or punishment for his deeds during this life. ↩︎

  26. 181:2 The author argues in support of the orthodox initiation-period of just one year, as just the amount of time required for preparing the exact amount of space (or brick-spaces) requisite for an altar of proper size. If the initiation were to last less than a year, he would not have had sufficient time to prepare the necessary amount of space, or rather, number of spaces required for the bricks; and, by implication, he would not acquire for himself an adequate place hereafter. ↩︎

  27. 181:3 That is to say, if he were to make the initiation-period last longer than a year, thus providing for more space than his supply of bricks would suffice to fill up. ↩︎

  28. 181:4 That is, after the expiration of the period of initiation, or just a year after the commencement of the latter. ↩︎

  29. 182:1 That is, during the days from the commencement to the completion of the altar. These are the upasad-days (part ii, p. 104 seq.), the number of which varies from three days up to three years. During this period the Upasads have to be performed twice daily, and in the interval between the two performances the building of the altar takes place, a certain number of bricks being added each day. ↩︎

  30. 182:2 Or, rather, the correspondence, in toto, of the sacrificial performance with the object to be attained, viz. Agni, the fire-altar. ↩︎

  31. “समुद्रं गच्छ स्वाहेत्येतैर्मन्त्रैः"नित्यापस्तम्बसूत्रविशेषः ॥ ↩︎

  32. 183:1 Or, come up to, tally with,–kathaṁ saṁvatsareṇa sampadyate saṁgacchatevayavasāmyena, Sāy. ↩︎

  33. 183:2 For these supplementary oblations at the animal sacrifice, see III, 8, 4, 10 seq. ↩︎

  34. 183:3 That is, the animal sacrifice that has been performed is thus made out to be equal to Agni, or to the object for which it was performed. ↩︎

  35. 183:4 That is, because all the metres are employed in the chants and recitations during the sacrifice. ↩︎

  36. 184:1 ? That is, also in this calculation, or in the parts of the sacrifice here enumerated. ↩︎

  37. दे᳘कांन्न᳘ C. दे᳘कान्न᳘ AB ↩︎

  38. 184:2 For the oblation to Vanaspati, see part ii, p. 208; for the vasāhoma, ib. 205. ↩︎

  39. 185:1 See III, 8, 5, 8 seq. ↩︎

  40. 185:2 See I, 9, 2, 26-27. ↩︎

  41. अहनि माँ समैथुने व्वर्जयेत् । का. श्रौ. सू. २ । ८ । ↩︎

  42. अग्नये व्व्रतपतये व्व्रत्ये ऽहनि मैथुनमाँ सभोजनं चेत् । का. श्रौ. सू. २५ । ८३ ॥ ↩︎

  43. 186:1 For the antelope skin used at the initiation-ceremony, see III, 2, 1, 1; for the girdle, ib. 10. ↩︎

  44. 186:2 See above, VI, 2, 1, 20. ↩︎

  45. 186:3 This is the concluding oblation of the Soma-sacrifice, performed at the close of the Agnicayana; see IX, 5, 1, 54. ↩︎

  46. ? भिषज्ज्यितो᳘ A भिषज्जियितो᳘ B. C first hand. भिषज्जयितो᳘ C second hand. ↩︎

  47. 186:4 Viz. at the proper time when the priests receive their fees, after the mid-day Soma-service, see part ii, p. 340. ↩︎