०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिरग्निरूपा᳘ण्य᳘भ्यध्यायत्[[!!]]॥
(त्स᳘) स᳘ यो ऽयं᳘ कुमारो᳘ रूपा᳘ण्यनुप्र᳘विष्ट आ᳘सीत्तम᳘न्वैच्छ᳘त्सो ऽग्नि᳘रवेद᳘नु वै᳘ मा पिता᳘ प्रजा᳘पतिरिच्छति ह᳘न्त त᳘द्रूपम᳘सानि य᳘न्म ऽएष न व्वेदे᳘ति॥

मूलम् - श्रीधरादि

प्रजा᳘पतिरग्निरूपा᳘ण्य᳘भ्यध्यायत्[[!!]]॥
(त्स᳘) स᳘ यो ऽयं᳘ कुमारो᳘ रूपा᳘ण्यनुप्र᳘विष्ट आ᳘सीत्तम᳘न्वैच्छ᳘त्सो ऽग्नि᳘रवेद᳘नु वै᳘ मा पिता᳘ प्रजा᳘पतिरिच्छति ह᳘न्त त᳘द्रूपम᳘सानि य᳘न्म ऽएष न व्वेदे᳘ति॥

मूलम् - Weber

प्रजा᳘पतिरग्निरूपा᳘ण्यभ्य᳘ध्यायत्॥
सॗ यो ऽयं᳘ कुमारो᳘ रूपा᳘ण्यनुप्र᳘विष्ट आ᳘सीत्तम᳘न्वैछॗत्सो ऽग्नि᳘रवेद᳘नु वै᳘ मा पिता᳘ प्रजा᳘पतिरिछति ह᳘न्त त᳘द्रूपम᳘सानि य᳘न्म एष न वेदे᳘ति॥

मूलम् - विस्वरम्

प्रजापतिरग्निरूपाण्यभ्यध्यायत् । स यो ऽयं कुमारो रूपाण्यनुप्रविष्ट आसीत्- तमन्वैच्छत् । सो ऽग्निरवेद्- अनु वै मा पिता प्रजापतिरिच्छति, हन्त तद्रूपमसानि- यन्म ऽएष न वेदेति ॥ १ ॥

सायणः

यस्य निः श्वसितं वेदा यो वैदभ्यो ऽखिलं जगत् ॥ निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ द्वितीयाध्याये प्रथममग्निभ्यः कामाय पुरुषाश्वगो ऽव्यजात्मकपञ्चपश्वालम्भपक्षः । तत्र चतुर्विंशतिः सामिधेन्यः, वैश्वानरः पशुपुरोडाशः, कामपदयुक्ता याज्यानुवाक्याः प्रदर्श्यन्ते । अथ वायव्यैकपश्वालम्भपक्षः । तत्र सप्तदशसामिधेन्यः, अत्रापि प्राजापत्यः पशुपुरोडाशः, शुक्रपदयुक्ता याज्यानुवाक्याश्च विधास्यन्ते । पक्षद्वयसाधारणमन्यदाप्रीप्रभृतिकं वक्ष्यते । एतत् सर्वं कात्यायनेन सूत्रितम्;- “चिकीर्षमाणः उत्तरस्यां फाल्गुन्यां पौर्णमासेनेष्ट्वा पञ्च पशूनालभते ऽदक्षिणान्”- (का. श्रौ. सू. १६ । ५) इत्युपक्रम्य । “अग्निभ्यः कामाय पुरुषाश्वगो ऽव्यजान्”- (का. श्रौ. सू. १६ । ८) इति । “समिध्यमानसमिद्धवत्यन्तरे समास्त्वाग्न इति (वा. सं. २७ । १) नव दधाति, आप्रियो द्वादशोर्द्ध्वा अस्येति”- (का. श्रौ. सू. १६ । ११ । १२) इति । “एकादशान्ते शासप्रैषादि करोति, परिवृते पुरुषसञ्ज्ञपनम्”- (का. श्रौ. सू. १६ । १३, १४) इति, “वैश्वानरः पशुपुरोडाश उपाँशु पशुदेवता च, आग्नेय्यो याज्यानुवाक्याः कामवत्यः”- (का. श्रौ. सू. १६ । २५-२७) इति । “अनालभ्यैतान्, श्यामतूपरो वा प्राजापत्यः, षड् दध्यात्, (का. श्रौ. सू. १६ । ३२-३४) वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात्, प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः, कद्वत्योः, याज्यानुवाक्याः प्राजापत्यस्य, शुक्लवत्यो वायव्यस्य, वपाया वा, तुल्यमन्यत् सर्वेषु”- (का. श्रौ. सू. १६ । ३८-४३) इति । तत्र प्रथमं पञ्चपश्वालम्भपक्षं विधातुं प्रजापतिवृत्तान्तं प्रस्तौति- प्रजापतिरग्निरूपाण्यभ्यध्यायदित्यादिना । पूर्वं प्रजापतिरग्नेरुक्तान्यष्टौ रूपाण्यभिध्यातवान्, कुमाररूपात्मना परिणतम् अन्वियेष । स कुमारो ऽग्निः मां पिता प्रजापतिरन्विच्छतीति ज्ञातवान् । ‘हन्त’ इति प्रश्ने । ‘मे’ मम ‘यद्’ रूपम् ‘एष प्रजापति’ ‘न वेद’ न जानीयात्, ‘तद् रूपम्’ ‘असानि’ भवानीति ॥ १ ॥

Eggeling
  1. Prajāpati set his mind upon Agni’s forms. He searched for that boy (Kumāra) who had entered

into the (different) forms. Agni became aware of it,–‘Surely, Father Prajāpati is searching for me: well then, let me be suchlike that he knows me not.’

०२

विश्वास-प्रस्तुतिः

स᳘ एतान्प᳘ञ्च पशू᳘नपश्यत्॥
(त्पु᳘) पु᳘रुषम᳘श्वं गाम᳘विमजं यद᳘पश्यत्त᳘स्मादेते᳘ पश᳘वः॥

मूलम् - श्रीधरादि

स᳘ एतान्प᳘ञ्च पशू᳘नपश्यत्॥
(त्पु᳘) पु᳘रुषम᳘श्वं गाम᳘विमजं यद᳘पश्यत्त᳘स्मादेते᳘ पश᳘वः॥

मूलम् - Weber

स᳘ एतान्प᳘ञ्च पशू᳘नपश्यत्॥
पुरुषम᳘श्वं गाम᳘विमजं यद᳘पश्यत्त᳘स्मादेते᳘ पश᳘वः॥

मूलम् - विस्वरम्

स एतान्पञ्च पशूनपश्यत्- पुरुषम्, अश्वम्, गाम्, अविम्, अजम् । यदपश्यत्- तस्मादेते पशवः ॥ २ ॥

सायणः

एवं ज्ञात्वा,- स एतान् पञ्च पशूनपश्यदिति । तदात्मना परिणमितुमितिशेषः । पश्यतियोगात् ‘पशु’- शब्दः सम्पन्न इति दर्शयति- यदपश्यत् तस्मादेते पशव इति । पश्यतिः प्रकृत्यन्तरमस्तीति कृत्वा पशुशब्दो निरुक्तः ॥ २ ॥ ३ ॥

Eggeling
  1. He saw those five animals,–the Purusha (man), the horse, the bull, the ram, and the he-goat. Inasmuch as he saw (paś) them, they are (called) cattle (paśu).

०३

विश्वास-प्रस्तुतिः

स᳘ एतान्प᳘ञ्च पशून्प्रा᳘विशत्॥
(त्स᳘) स᳘ एते प᳘ञ्च पश᳘वो ऽभवत्त᳘मुवै᳘ प्रजा᳘पतिर᳘न्वे᳘वैच्छत्॥

मूलम् - श्रीधरादि

स᳘ एतान्प᳘ञ्च पशून्प्रा᳘विशत्॥
(त्स᳘) स᳘ एते प᳘ञ्च पश᳘वो ऽभवत्त᳘मुवै᳘ प्रजा᳘पतिर᳘न्वे᳘वैच्छत्॥

मूलम् - Weber

स᳘ एतान्प᳘ञ्च पशून्प्रा᳘विशत्॥
स᳘ एते प᳘ञ्च पश᳘वो ऽभवत्त᳘मु वै᳘ प्रजा᳘पतिर᳘न्वेॗवैछत्॥

मूलम् - विस्वरम्

स एतान्पञ्च पशून् प्राविशत् । स एते पञ्च पशवो ऽभवन् । तमु वै प्रजापतिरन्वेवैच्छत् ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. He entered into those five animals; he became those five animals. But Prajāpati still searched for him.

०४

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ एतान्प᳘ञ्च पशू᳘नपश्यत्॥
(द्य) यद᳘पश्यत्त᳘स्मादेते᳘ पश᳘वस्ते᳘ष्वेत᳘मपश्यत्त᳘स्माद्वे᳘वैते᳘ पश᳘वः॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ एतान्प᳘ञ्च पशू᳘नपश्यत्॥
(द्य) यद᳘पश्यत्त᳘स्मादेते᳘ पश᳘वस्ते᳘ष्वेत᳘मपश्यत्त᳘स्माद्वे᳘वैते᳘ पश᳘वः॥

मूलम् - Weber

स᳘ एतान्प᳘ञ्च पशू᳘नपश्यत्॥
यद᳘पश्यत्त᳘स्मादेते᳘ पश᳘वस्ते᳘ष्वेत᳘मपश्यत्त᳘स्माद्वेॗवैते᳘ पश᳘वः॥

मूलम् - विस्वरम्

स एतान्पञ्च पशूनपश्यत् । यदपश्यत्- तस्मादेते पशवः । तेष्वेतमपश्यत्- तस्माद्वेवैते पशवः ॥ ४ ॥

सायणः

स एतानिति । ‘तेषु’ पशुषु तादात्म्येन प्रविष्टम् ‘एतम्’ अग्निं प्रजापतिरप्यद्राक्षीत् । पश्यन्त्येष्वग्निमित्येतस्य देवनिमित्तादधिकरणसाधनः पशुशब्द इत्याह- तस्माद्वेवैते पशव इति ॥ ४ ॥

Eggeling
  1. He saw those five animals. Because he saw (paś) them, therefore they are animals (paśu); or rather, because he saw him (Agni) in them, therefore they are animals.

०५

विश्वास-प्रस्तुतिः

स᳘ ऐक्षत॥
(ते) इमे वा᳘ ऽअग्नि᳘रिमा᳘ने᳘वात्मा᳘नमभिसं᳘स्करवै य᳘था वा᳘ ऽअग्निः स᳘मिद्धो दी᳘प्यत ऽएव᳘मेषां च᳘क्षुर्दीप्यते य᳘था ऽग्ने᳘र्धूम᳘ उद᳘यत ऽएव᳘मेषामूष्मो᳘दयते य᳘थाग्नि᳘रभ्या᳘हितं द᳘हत्येवं᳘ बप्सति य᳘थाग्नेर्भ᳘स्म सी᳘दत्येव᳘मेषां पु᳘रीषᳫँ᳭ सीदतीमे वा᳘ ऽअग्नि᳘रिमा᳘ने᳘वात्मा᳘नमभिसं᳘स्करवा ऽइ᳘ति तान्ना᳘ना देव᳘ताभ्य आ᳘लिप्सत व्वैश्वकर्मणं पु᳘रुषं व्वारुणम᳘श्वमैन्द्र᳘मृषभं᳘ त्वाष्ट्रम᳘विमाग्नेय᳘मजम्[[!!]]॥

मूलम् - श्रीधरादि

स᳘ ऐक्षत॥
(ते) इमे वा᳘ ऽअग्नि᳘रिमा᳘ने᳘वात्मा᳘नमभिसं᳘स्करवै य᳘था वा᳘ ऽअग्निः स᳘मिद्धो दी᳘प्यत ऽएव᳘मेषां च᳘क्षुर्दीप्यते य᳘था ऽग्ने᳘र्धूम᳘ उद᳘यत ऽएव᳘मेषामूष्मो᳘दयते य᳘थाग्नि᳘रभ्या᳘हितं द᳘हत्येवं᳘ बप्सति य᳘थाग्नेर्भ᳘स्म सी᳘दत्येव᳘मेषां पु᳘रीषᳫँ᳭ सीदतीमे वा᳘ ऽअग्नि᳘रिमा᳘ने᳘वात्मा᳘नमभिसं᳘स्करवा ऽइ᳘ति तान्ना᳘ना देव᳘ताभ्य आ᳘लिप्सत व्वैश्वकर्मणं पु᳘रुषं व्वारुणम᳘श्वमैन्द्र᳘मृषभं᳘ त्वाष्ट्रम᳘विमाग्नेय᳘मजम्[[!!]]॥

मूलम् - Weber

स᳘ ऐक्षत॥
इमे वा᳘ अग्नि᳘रिमा᳘नेॗवात्मा᳘नमभिस᳘ᳫं᳘स्करवै य᳘था वा᳘ अग्निः स᳘मिद्धो दी᳘प्यत एव᳘मेषां च᳘क्षुर्दीप्यते य᳘थाग्ने᳘र्धूम᳘ उद᳘यत एव᳘मेषामूष्मो᳘दयते य᳘थाग्निरभ्य᳘हितं द᳘हत्येव᳘म् बप्सति य᳘थाग्नेर्भ᳘स्म सी᳘दत्येव᳘मेषाम् पु᳘रीषᳫं सीदतीमे वा᳘ अग्नि᳘रिमा᳘नेॗवात्मा᳘नमभिस᳘ᳫं᳘स्करवा इ᳘ति तान्ना᳘ना देव᳘ताभ्य आ᳘लिप्सत वैश्वकर्मणम् पु᳘रुषं वारुणम᳘श्वमैन्द्र᳘मृषभं᳘ त्वाष्ट्रम᳘विमाग्नेय᳘मज᳘म्॥

मूलम् - विस्वरम्

स ऐक्षत- इमे वा ऽअग्निः, इमानेवात्मानमभिसंस्करवै । यथा वा ऽअग्निः समिद्धो दीप्यते- एवमेषां चक्षुर्दीप्यते । यथाग्नेर्धूम उदयते- एवमेषामूष्मोदयते । यथाग्निरभ्याहितं दहति ऽएवं बप्सति । यथा ऽग्नेर्भस्म सीदति- एवमेषां पुरीषं सीदति । इमे वा ऽअग्निः । इमानेवात्मानमभिसंस्करवा ऽइति । तान्नाना देवताभ्य आलिप्सत- वैश्वकर्मणं पुरुषम्, वारुणमश्वम्, ऐन्द्रमृषभम्- त्वाष्ट्रमविम्, आग्नेयमजम् ॥ ५ ॥

सायणः

स ऐक्षतेति । ‘सः’ प्रजापतिः ‘ऐक्षत’ स्वमतं विचारितवान् । तदेव दर्शयति- इमे वा अग्निरिति । ‘अग्निः’ ‘इमे वै’ पुरुषादिपञ्चपशव एव, ततः पृथक् दृश्यन्त इत्यर्थः । ‘इमानेव’ अग्न्यात्मकानेतान् पशूनेव आत्मानमभिलक्ष्य ‘संस्करवै’ पशुभिः स्वरूपैः स्वमात्मानं संस्करिष्य इति पर्यालोचितवान् । पशूनामग्न्यात्मकत्वं विशदयति- यथा वा अग्निरिति । अग्नेर्यथा दीपनधूमाभ्याहितदाहनभस्मसञ्छादनादयो धर्माः, ते पशुष्वपि दृश्यन्ते इत्यतस्तेषां तदात्मकत्वम् । ‘चक्षुर्दीप्यते’ प्रकाशयुक्तं रोचते, ‘ऊष्मः’ श्वासो धूमः, ‘अभ्याहितं’ पुरः स्थितं वस्तु ‘दहति’, ‘एवं’ ‘बप्सति’ भक्षयन्ति पशवः । “मस् भर्त्सनदीप्त्योः” (धा. पा. जु. प. १८) लटि प्रथमपुरुषबहुवचने श्लौ द्विर्वचने कृते “धसिमसोर्हलि च”- (पा. सू. ६ । ४ । १००) इति । उपधालोपे रूपमिदम् । ‘सीदति’ अवसन्नं भवति । अग्निभ्यः कामाय पशवः इति । सिद्धान्तयितुं बहुदेवतार्थमालम्भनं पूर्वपक्षयति- तान् नानादेवताभ्य इति । अनूक्तान् पुरुषादीन् पञ्च पशून् ‘नानादेवताभ्यः’ बहुदेवताभ्य ‘आलिप्सत’ आलब्धुमैच्छन् । “वैश्वकर्मणं पुरुषम्”- (का. श्रौ. सू. १६ । ८ । कर्क भाष्ये) इत्यादिना पञ्चानां पशूनां पृथक्- पृथग्देवतासम्बन्ध उक्तः ॥ ५ ॥

Eggeling
  1. He considered, ‘They are Agni: I will fit them unto mine own self 1. Even as Agni, when kindled, glares, so their eye glares; even as Agni’s smoke rises upwards, so vapour rises from them; even as Agni consumes what is put in him, so they devour; even as Agni’s ashes fall down, so do their faeces: they are indeed Agni; I will fit them unto mine own self.’ He meant to slaughter them for different deities: the Purusha (man) for Viśvakarman, the horse for Varuṇa, the bull for Indra, the ram for Tvashṭr̥, the he-goat for Agni.

०६

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स᳘ ऐक्षत॥
ना᳘ना वा᳘ ऽइदं᳘ देव᳘ताभ्य आ᳘लिप्से ऽग्ने᳘र्व्वह᳘ᳫँ᳘ रूपा᳘णि कामये ह᳘न्तैनानग्नि᳘भ्यः का᳘मायाल᳘भा ऽइ᳘ति ता᳘नग्नि᳘भ्यः का᳘माया᳘लभत तद्य᳘दग्नि᳘भ्य इ᳘ति बहू᳘नि ह्यग्निरूपा᳘ण्यभ्य᳘ध्यायद᳘थ[[!!]] यत्का᳘माये᳘ति का᳘मेन ह्या᳘लभत ताना᳘प्रीतान्प᳘र्यग्निकृतानु᳘दीचो नीत्वा स᳘मज्ञपयत्॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स᳘ ऐक्षत॥
ना᳘ना वा᳘ ऽइदं᳘ देव᳘ताभ्य आ᳘लिप्से ऽग्ने᳘र्व्वह᳘ᳫँ᳘ रूपा᳘णि कामये ह᳘न्तैनानग्नि᳘भ्यः का᳘मायाल᳘भा ऽइ᳘ति ता᳘नग्नि᳘भ्यः का᳘माया᳘लभत तद्य᳘दग्नि᳘भ्य इ᳘ति बहू᳘नि ह्यग्निरूपा᳘ण्यभ्य᳘ध्यायद᳘थ[[!!]] यत्का᳘माये᳘ति का᳘मेन ह्या᳘लभत ताना᳘प्रीतान्प᳘र्यग्निकृतानु᳘दीचो नीत्वा स᳘मज्ञपयत्॥

मूलम् - Weber

स᳘ ऐक्षत॥
ना᳘ना वा᳘ इदं᳘ देव᳘ताभ्य आ᳘लिप्से ऽग्ने᳘र्वहं᳘ रूपा᳘णि कामये ह᳘न्तैनानग्नि᳘भ्यः का᳘मायाल᳘भा इ᳘ति ता᳘नग्नि᳘भ्यः का᳘माया᳘लभत तद्य᳘दग्नि᳘भ्य इ᳘ति बहू᳘नि ह्य᳘ग्निरूपा᳘ण्यभ्य᳘ध्यायद᳘थ यत्का᳘माये᳘ति का᳘मेन ह्या᳘लभत ताना᳘प्रीतान्प᳘र्यग्निकृतानु᳘दाचो नीत्वा स᳘मज्ञपयत्॥

मूलम् - विस्वरम्

स ऐक्षत- नाना वा ऽइदं देवताभ्य आलिप्से । अग्नेर्वहं रूपाणि कामये- हन्तैनानग्निभ्यः कामायालभा ऽइति । तानग्निभ्यः कामायालभत । तद् यदग्निभ्य इति- बहूनि ह्यग्निरूपाण्यभ्यध्यायत् । अथ यत्कामायेति- कामेन ह्यालभत, तानाप्रीतान् पर्यग्निकृतानुदीचो नीत्वा समज्ञपयत् ॥ ६ ॥

सायणः

स ऐक्षत नानेति । ‘सः’ प्रजापतिः एवं विचारितवान्- किमर्थं ? ‘नाना’ बह्वीभ्यः ‘देवताभ्यः’ पञ्चभ्यः आलब्धुमिच्छामि (‘अग्नेः उ अहम्’ इति पदच्छेदः) अहमु अग्नेरेव ‘रूपाणि’ कामये हन्त इति साध्यसाधनयोर्वैयधिकरण्यजनिते आश्चर्ये । ‘एनान्’ पशून् ‘कामाय’ कामगुणयुक्ताय ‘अग्निभ्यः’ अग्नये ‘आलभे’- ‘इति’ ऐक्षतेत्यन्वयः । कामायाग्निभ्य इति सामानाधिकरण्ये कथमग्निभ्य इति बहुवचनम् ? तत्राह- तद् यदग्निभ्य इति । अग्निरूपापेक्षायां बहुवचनम् । ‘तान्’ अष्टाविति प्रागुक्तम् । आप्रीतानिति । प्रयाजयाज्यादिभिराप्रीभिः पर्यग्निकरणेन च संस्कृतान्, तदनन्तरमेव ‘उदीचो नीत्वा’ शामित्रप्रदेशं प्रापय्येत्यर्थः । ‘संज्ञपनं’ 2 नाम मारणम् । मारणार्थं नयेदित्यर्थः ॥ ६ ॥

Eggeling
  1. He considered, ‘For different deities, indeed, I mean to slaughter now; but I myself desire (kam)

Agni’s forms: well then, I will slaughter them for the Agnis, as for the (object of my) desire.’ He slaughtered them for the Agnis, as for (his) desire,–to wit, ‘for the Agnis,’ because many were the forms of Agni he had set his mind upon; and ‘for the desire,’ because it was with a desire that he slaughtered them. Having appeased them and carried the fire round them, he led them northwards and slew them.

०७

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ ऐक्षत॥
या वै श्री᳘रभ्य᳘धासिषमिमास्ताः᳘ शीर्ष᳘सु ह᳘न्त शीर्षा᳘ण्ये᳘वोपद᳘धा इ᳘ति स᳘ शीर्षा᳘ण्ये᳘वोत्कृत्यो᳘पाधत्ताथे᳘तराणि कु᳘सिन्धान्यप्सु प्रा᳘प्लावयदजे᳘न यज्ञᳫँ᳭ स᳘मस्थापयन्ने᳘न्मे यज्ञो व्वि᳘कृष्टो᳘ ऽसदि᳘त्यात्मा वै᳘ यज्ञो ने᳘न्मे ऽय᳘मात्मा व्वि᳘कृष्टो᳘ ऽसदि᳘त्येते᳘न पशु᳘नेष्ट्वा त᳘त्प्रजा᳘पतिरपश्यद्य᳘थैत᳘स्याग्नेर᳘न्तं न᳘ पर्यैत्[[!!]]॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ ऐक्षत॥
या वै श्री᳘रभ्य᳘धासिषमिमास्ताः᳘ शीर्ष᳘सु ह᳘न्त शीर्षा᳘ण्ये᳘वोपद᳘धा इ᳘ति स᳘ शीर्षा᳘ण्ये᳘वोत्कृत्यो᳘पाधत्ताथे᳘तराणि कु᳘सिन्धान्यप्सु प्रा᳘प्लावयदजे᳘न यज्ञᳫँ᳭ स᳘मस्थापयन्ने᳘न्मे यज्ञो व्वि᳘कृष्टो᳘ ऽसदि᳘त्यात्मा वै᳘ यज्ञो ने᳘न्मे ऽय᳘मात्मा व्वि᳘कृष्टो᳘ ऽसदि᳘त्येते᳘न पशु᳘नेष्ट्वा त᳘त्प्रजा᳘पतिरपश्यद्य᳘थैत᳘स्याग्नेर᳘न्तं न᳘ पर्यैत्[[!!]]॥

मूलम् - Weber

स᳘ ऐक्षत॥
या वै श्री᳘रभ्य᳘धासिषमिमास्ताः᳘ शीर्ष᳘सु ह᳘न्त शीर्षा᳘ण्येॗवोपद᳘धा इ᳘ति स᳘ शीर्षा᳘ण्येॗवोत्कृत्यो᳘पाधत्ताथे᳘तराणि कु᳘सिन्धान्यप्सु प्रा᳘प्लावयदजे᳘न यज्ञᳫं स᳘मस्थापयन्ने᳘न्मे यज्ञो वि᳘कृष्टो᳘ ऽसदि᳘त्यात्मा वै᳘ यज्ञो ने᳘न्मे ऽय᳘मात्मा वि᳘कृष्टो᳘ ऽसदि᳘त्येते᳘न पशु᳘नेष्ट्वा त᳘त्प्रजा᳘पतिरपश्यद्य᳘थैत᳘स्याग्नेर᳘न्तं न पर्यै᳘त्॥

मूलम् - विस्वरम्

स ऐक्षत या वै श्रीरभ्यध्यासिषम्- इमास्ताः शीर्षसु हन्त शीर्षाण्येवोपदधा इति । स शीर्षाण्येवोत्कृत्योपाधत्त । अथेतराणि कुसिन्धान्यप्सु प्राप्लावयत् । अजेन यज्ञं समस्थापयत् । नेन्मे यज्ञो विकृष्टो ऽसदिति । आत्मा वै यज्ञः । नेन्मे ऽयमात्मा विकृष्टो ऽसदिति । एतेन पशुनेष्ट्वा तत् प्रजापतिरपश्यत्- यथैतस्याग्नेरन्तं न पर्य्यैत् ॥ ७ ॥

सायणः

पशुशीर्षोपधानं विधास्यते, तदर्थं प्रजापतिकर्तृकं तदुपधानं दर्शयति- स ऐक्षत या वै श्रीरिति । द्वितीया बहुवचनान्तम् । अत्र श्रीशब्देन अग्निरूपाणि विवक्षितानि । तानि ‘अभ्यध्यासिषम्’ ध्यातवानस्मि । ‘ताः’ इमाः श्रियः ‘शीर्षसु’ चक्षुराद्याश्रयेषु वर्त्तन्ते । ‘हन्त’- इति । हर्षे । अतः शीर्षाण्येवेत्यादि निगदसिद्धम् 3

पशुशरीराणामिष्टकोपकारित्वं वक्ष्यन्नाह- इतराणीति । अजशरीरस्य यज्ञे उपकरिष्यमाणत्वात् ‘इतराणि’ पुरुषादीनां चतुर्णां पशूनां ‘कुसिन्धानि’ मूर्द्धरहितानि शरीराणि 4 । ‘अप्सु’ ‘प्राप्लावयत्’ प्रक्षिप्तवान् । “चतुर्णामप्सु कायप्रासनम्”- इति कात्यायनेन च सूत्रितम् । (का. श्रौ. सू. १६ । १९) ‘अजेन’ अजशरीरेण यज्ञं समापितवन्तः । एतेन यज्ञसमाप्तौ कारणमाह- नेन्मे यज्ञ इति । ‘मे’ मम ‘यज्ञः’ मध्ये ‘विकृष्टः’ विच्छिन्नः ‘नेत्’ नैव ‘असत्’ माभूत् ‘इति’ । यज्ञविच्छेदे प्रजापतेः किमायातमिति तत्राह- आत्मा वै यज्ञ इति । एतेन पशुना यज्ञसमापने उपपत्तिं दर्शयति- एतेन पशुनेष्ट्वा तत् प्रजापतिरिति । ‘यथा’ येन प्रकारेण अग्नेः । ‘अन्तं न पर्यैत्’ कार्त्स्न्येन न परिगतो भवेत्, ‘तत्’ कर्म ‘प्रजापतिः’ ‘अपश्यत्’ दृष्टवानित्यर्थः । यदि सर्वैः पशुभिर्यजेत, तदानीमेव यज्ञसमाप्ते, सिद्धत्वात् अग्नेरेवान्तं परिप्राप्तवान्, अग्निरूपाणि कार्त्स्न्येन प्राप्तवान् भवति, तदयुक्तम्; उत्तरत्र कर्त्तव्यस्य सद्भावादिति तात्पर्यम् । उत्तरत्र सर्वैः पशुभिर्यागः पूर्वपक्षयिष्यत्ते- “तद्धैकआहुरत्रैवैतैः सर्वैः पशुभिर्यजेत” इत्यादिना । (अस्मिन्नेव ब्राह्मणे त्रयोदशश्यां कण्डियाम् ।) यज्ञसमाप्त्यनन्तरं । शिष्टस्य अजपशुशरीरस्य च जले प्रासनं सूत्रितम्- “अजेन चरति, संस्थिते तस्य शेषप्रासनम् (का. श्रौ. सू. १६ । २१ । २२) इति ॥ ७ ॥

Eggeling
  1. He considered, ‘Those glories (signs of excellence 5) upon which I have set my mind are contained in the heads: well then, I will only put on the heads 6.’ He cut off the heads and put them on (himself, or the altar). The remaining trunks he then let float on the water 7, and brought the sacrifice to its completion by means of (the offering of) a he-goat, thinking, ‘Lest my sacrifice be pulled to pieces.’ After performing that animal sacrifice, Prajāpati saw that he had not yet reached the end of Agni (the fire-altar).

०८

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ ऐक्षत॥
य᳘मिम᳘मात्मा᳘नमप्सु प्रा᳘पिप्लवं तम᳘न्विच्छानी᳘ति तम᳘न्वैच्छत्तद्य᳘देषामप्सु प्र᳘विद्धानां प्रत्य᳘तिष्ठत्ता᳘ अपः स᳘मभरद᳘थ य᳘दस्यां तां मृ᳘दं त᳘दुभ᳘यᳫँ᳭ सम्भृ᳘त्य मृ᳘दं चापश्चे᳘ष्टकामकरोत्त᳘स्मादेत᳘दुभ᳘यमि᳘ष्टका भवति मृच्चा᳘पश्च॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ ऐक्षत॥
य᳘मिम᳘मात्मा᳘नमप्सु प्रा᳘पिप्लवं तम᳘न्विच्छानी᳘ति तम᳘न्वैच्छत्तद्य᳘देषामप्सु प्र᳘विद्धानां प्रत्य᳘तिष्ठत्ता᳘ अपः स᳘मभरद᳘थ य᳘दस्यां तां मृ᳘दं त᳘दुभ᳘यᳫँ᳭ सम्भृ᳘त्य मृ᳘दं चापश्चे᳘ष्टकामकरोत्त᳘स्मादेत᳘दुभ᳘यमि᳘ष्टका भवति मृच्चा᳘पश्च॥

मूलम् - Weber

स᳘ ऐक्षत॥
य᳘मिम᳘मात्मा᳘नमप्सु प्रा᳘पिप्लवं तम᳘न्विछानी᳘ति तम᳘न्वैछत्तद्य᳘देषामप्सु प्र᳘विद्धानाम् प्रत्यतिष्ठत्ता᳘ अपः स᳘मभरद᳘थ य᳘दस्यां ताम् मृ᳘दं त᳘दुभ᳘यᳫं सम्भृ᳘त्य मृ᳘दं चापश्चे᳘ष्टकामकरोक्ष᳘स्मादेत᳘दुभ᳘यमि᳘ष्टका भवति मृच्चा᳘पश्च॥

मूलम् - विस्वरम्

स ऐक्षत- यमिममात्मानमप्सु प्रापिप्लवम्- तमन्विच्छानीति । तमन्वैच्छत् । तद् यदेषामप्सु प्रविद्धानां प्रत्यतिष्ठत्- ता अपः समभरत् । अथ यदस्यां- तां मृदम् तदुभयं सम्भृत्य मृदं चापश्च- इष्टकामकरोत् । तस्मादेतदुभयमिष्टका भवति- मृच्चापश्च ॥ ८ ॥

सायणः

यदर्थमप्सु पशुचतुष्टयकायप्रासनम्, तदिदानीमाह- स ऐक्षत यमिममात्मानमप्सु प्रापिप्लवमिति । ‘आत्मानम्’ पशुदेहानित्यर्थः । ‘प्रविद्धानां’ प्रक्षिप्तानाम् ‘एषां’ पशूनां यत् शरीरगतं रसादिकम् ‘अप्सु’ ‘प्रत्यतिष्ठत्’ प्रतिष्ठितम्, ‘ता’ ‘अपः’ ‘समभरत्’ सम्भृतवान्; ‘यत्’ च अस्थिमांसादिकम्, ‘अस्यां’ पृथिव्यां प्रतिष्ठितम्, ‘तां’ ‘मृदं’ मृत्तिकां सम्भृतवान्; ‘तदुभयम्’ ‘अपो मृदञ्च’ ‘सम्भृत्य’ संगृह्य इष्टकामकरोत् 3 ॥ ८ ॥

Eggeling
  1. He considered, ‘I must search for that body 8 which I let float on the water.’ He searched for it; and what (part) of those (bodies) cast into the water had settled therein, that water he gathered; and what (had settled) in this earth, that clay (he gathered) 9. And having gathered both that clay

and water, he made a brick: hence a brick consists of these two, clay and water.

०९

विश्वास-प्रस्तुतिः

स᳘ ऐक्षत॥
य᳘दि वा᳘ ऽइद᳘मित्थ᳘मेव स᳘दात्मा᳘नमभिसंस्करिष्ये म᳘र्त्यः कुणपो᳘ ऽनपहतपाप्मा भविष्यामि ह᳘न्तैतदग्नि᳘ना[[!!]] प᳘चानी᳘ति त᳘दग्नि᳘ना ऽपचत्त᳘देनदमृ᳘तमकरोदेतद्वै᳘ हवि᳘रमृ᳘तं तम् भवति य᳘दग्नि᳘ना प᳘चन्ति त᳘स्मादग्निने᳘ष्टकाः पचन्त्यमृ᳘ता ए᳘वैनास्त᳘त्कुर्वन्ति॥

मूलम् - श्रीधरादि

स᳘ ऐक्षत॥
य᳘दि वा᳘ ऽइद᳘मित्थ᳘मेव स᳘दात्मा᳘नमभिसंस्करिष्ये म᳘र्त्यः कुणपो᳘ ऽनपहतपाप्मा भविष्यामि ह᳘न्तैतदग्नि᳘ना[[!!]] प᳘चानी᳘ति त᳘दग्नि᳘ना ऽपचत्त᳘देनदमृ᳘तमकरोदेतद्वै᳘ हवि᳘रमृ᳘तं तम् भवति य᳘दग्नि᳘ना प᳘चन्ति त᳘स्मादग्निने᳘ष्टकाः पचन्त्यमृ᳘ता ए᳘वैनास्त᳘त्कुर्वन्ति॥

मूलम् - Weber

स᳘ ऐक्षत॥
य᳘दि वा᳘ इद᳘मित्थ᳘मेव स᳘दात्मा᳘नमभिसंस्करिस् प᳘चानी᳘ति त᳘दग्नि᳘नापचत्त᳘देनदमृ᳘तमकरोदेतद्वै᳘ हवि᳘रमृ\ये म᳘र्त्य कुणपो᳘ ऽनपहतपाप्मा भविष्यामि ह᳘न्तैत᳘दग्नि᳘ना᳘तम् भवति य᳘दग्नि᳘ना प᳘चन्ति त᳘स्मादग्निने᳘ष्टकाः पचन्त्यमृ᳘ता एॗवैनास्त᳘त्कुर्वन्ति॥

मूलम् - विस्वरम्

स ऐक्षत- यदि वा- इदमित्थमेव सदात्मानमभि संस्करिष्ये- मर्त्यः कुणपो ऽनपहतपाप्मा भविष्यामि- हन्तैतदग्निना पचानीति । तदग्निना ऽपचत् । तदेनदमृतमकरोत् । एतद्वै हविरमृतं भवति- यदग्निना पचन्ति । तस्मादग्निनेष्टकाः पचन्ति अमृता एवैनास्तत्कुर्वन्ति ॥ ९ ॥

सायणः

पक्वा इष्टकाश्चेतव्या इति वक्तुमाह- स ऐक्षत यदि वा इदमित्थमेव सदात्मानमभिसंस्करिष्य इति । ‘यदिदं’ जलमृदात्मकमिष्टकारूपम् ‘इत्थम्’ अपाकेन ‘एव’ ‘आत्मानम्’ ‘अभि’ लक्ष्य ‘संस्करिष्ये’, तर्हि ‘मर्त्त्यः’ मरणधर्मा ‘कुणपः’ जीवसहितो देहः कुणप इत्युच्यते । अत एव ‘अनपहतपाप्मा भविष्यामि’ इति विचार्य, ता, इष्टका अग्निना पक्वा अकरोत्; अग्निना पक्वमेव ‘हविः’ ‘अमृतम्’ अमरणधर्मकम् ‘भवति’ इति । अग्निनेष्टकापाकः कर्त्तव्य इति दर्शयति- तस्मादग्निनेष्टका इति ॥ ९ ॥

Eggeling
  1. He considered, ‘Surely, if I fit 10 this (matter) such as it is unto mine own self, I shall become a mortal carcase, not freed from evil: well then, I will bake it by means of the fire.’ So saying, he baked it by means of the fire, and thereby made it immortal; for the sacrificial food which is baked by fire is indeed immortal (or, ambrosia). Hence they bake the bricks with fire: they thereby make them immortal.

१०

विश्वास-प्रस्तुतिः

तद्य᳘दिष्ट्वा᳘ पशुना᳘ ऽपश्यत्॥
(त्त᳘) त᳘स्मादि᳘ष्टकास्त᳘स्मादि᳘ष्ट्वैव᳘ पशुने᳘ष्टकाः कुर्याद᳘निष्टका ह ता᳘ भवन्ति याः᳘ पुरा᳘ पशोः᳘ कुर्व्वन्त्य᳘थो ह त᳘दन्य᳘देव[[!!]]॥

मूलम् - श्रीधरादि

तद्य᳘दिष्ट्वा᳘ पशुना᳘ ऽपश्यत्॥
(त्त᳘) त᳘स्मादि᳘ष्टकास्त᳘स्मादि᳘ष्ट्वैव᳘ पशुने᳘ष्टकाः कुर्याद᳘निष्टका ह ता᳘ भवन्ति याः᳘ पुरा᳘ पशोः᳘ कुर्व्वन्त्य᳘थो ह त᳘दन्य᳘देव[[!!]]॥

मूलम् - Weber

तद्य᳘दिष्ट्वा᳘ पशुना᳘पश्यत्॥
त᳘स्मादि᳘ष्टकास्त᳘स्मादिॗष्ट्वैव᳘ पशुने᳘ष्टकाः कुर्याद᳘निष्टका ह ता᳘ भवन्ति याः᳘ पुरा᳘ पशोः᳘ कुर्वन्त्य᳘थो ह त᳘दन्य᳘देव᳟॥

मूलम् - विस्वरम्

तद्यदिष्ट्वा पशुना ऽपश्यत्- तस्मादिष्टकाः । तस्मादिष्ट्वैव पशुनेष्टकाः कुर्यात् । अनिष्टका ह ता भवन्ति- याः पुरा पशोः कुर्वन्ति । अथो ह तदन्यदेव ॥ १० ॥

सायणः

इष्टकाकरणकालं दर्शयति- तद्यदिष्ट्वा पशुना ऽपश्यदिति । ‘पशुना’ अजेन ‘इष्ट्वा’ इष्टवान् ‘इष्टकाः’ अतः इष्टादनन्तरं कृत्वा इतीष्टकाशब्दो निरुक्तः । पशुयागात् पूर्वमिष्टकाकरणं निन्दति- अनिष्टका ह ता भवन्तीति । ‘अथो’ ‘पशोः’ पशुयागात् ‘पुरा’ इष्टकाकरणम् ‘अन्यदेव’ अशास्त्रीयमित्यर्थः ॥ १० ॥

Eggeling
  1. And inasmuch as he saw them after offering (ishṭvā) the animal, therefore they are bricks (ishṭakā). Hence one must make the bricks only after performing an animal sacrifice; for those which are made before (or, without) an animal sacrifice are ‘anishṭakā 11.’ And, moreover, there is this other (consideration).

११

विश्वास-प्रस्तुतिः

त᳘द्यास्ताः श्रि᳘यः॥
(ऽ) एता᳘नि ता᳘नि पशुशीर्षाण्य᳘थ या᳘नि ता᳘नि कु᳘सिन्धान्येतास्ताः प᳘ञ्च चि᳘तयस्तद्य᳘त्पशुशीर्षा᳘ण्युपधा᳘य चि᳘तीश्चिनो᳘त्येतै᳘रेव त᳘च्छीर्ष᳘भिरेता᳘नि कु᳘सिन्धानि सं᳘दधाति॥

मूलम् - श्रीधरादि

त᳘द्यास्ताः श्रि᳘यः॥
(ऽ) एता᳘नि ता᳘नि पशुशीर्षाण्य᳘थ या᳘नि ता᳘नि कु᳘सिन्धान्येतास्ताः प᳘ञ्च चि᳘तयस्तद्य᳘त्पशुशीर्षा᳘ण्युपधा᳘य चि᳘तीश्चिनो᳘त्येतै᳘रेव त᳘च्छीर्ष᳘भिरेता᳘नि कु᳘सिन्धानि सं᳘दधाति॥

मूलम् - Weber

तद्यास्ताः श्रि᳘यः॥
एता᳘नि ता᳘नि पशुशीर्षाण्य᳘थ या᳘नि ता᳘नि कु᳘सिन्धान्येतास्ताः प᳘ञ्च चि᳘तयस्तद्य᳘त्पशुशीर्षा᳘ण्युपधा᳘य चि᳘तीश्चिनो᳘त्येतै᳘रेव त᳘छीर्ष᳘भिरेता᳘नि कु᳘सिन्धानि सं᳘दधाति॥

मूलम् - विस्वरम्

तद्यास्ताः श्रियः- एतानि तानि पशुशीर्षाणि । अथ यानि तानि कुसिन्धानि- एतास्ताः पञ्च चितयः । तद्यत्पशुशीर्षाण्युपधाय चितीश्चिनोति- एतैरेव तच्छीर्षभिरेतानि कुसिन्धानि सन्दधाति ॥ ११ ॥

सायणः

पशुशीर्षोपधानानन्तरमिष्टकोपधानं पशुशिरःकबन्धसन्धानरूपेण प्रशंसति- तद्यास्ताः श्रिय एतानि तानि पशुशीर्षाणीति ॥ ११ ॥

Eggeling
  1. As to those glories, they are these same heads of the victims; and those (headless) trunks are these five layers (of the fire-altar): thus when he builds up the layers after putting on the heads of the victims, he thereby unites those trunks with those heads.

१२

विश्वास-प्रस्तुतिः

त᳘ ऽएते स᳘र्व्वे पश᳘वो य᳘दग्निः॥
(स्त᳘) त᳘स्मादग्नौ᳘ पश᳘वो रमन्ते पशु᳘भिरेव त᳘त्पश᳘वो रमन्ते त᳘स्माद्य᳘स्य पश᳘वो भ᳘वन्ति त᳘स्मिन्नग्निराधीयते ऽग्नि᳘र्ह्येष[[!!]] य᳘त्पश᳘वस्त᳘तो वै᳘ प्रजा᳘पतिरग्नि᳘रभवत्॥

मूलम् - श्रीधरादि

त᳘ ऽएते स᳘र्व्वे पश᳘वो य᳘दग्निः॥
(स्त᳘) त᳘स्मादग्नौ᳘ पश᳘वो रमन्ते पशु᳘भिरेव त᳘त्पश᳘वो रमन्ते त᳘स्माद्य᳘स्य पश᳘वो भ᳘वन्ति त᳘स्मिन्नग्निराधीयते ऽग्नि᳘र्ह्येष[[!!]] य᳘त्पश᳘वस्त᳘तो वै᳘ प्रजा᳘पतिरग्नि᳘रभवत्॥

मूलम् - Weber

त᳘ एते स᳘र्वे पश᳘वो य᳘दग्निः॥
त᳘स्मादग्नौ᳘ पश᳘वो रमन्ते प्!स्मिन्नग्निरा᳘धीयते ऽग्निॗर्ह्येष य᳘त्पश᳘वस्त᳘तो वै᳘ प्रजा᳘पतशु᳘भिरेव त᳘त्पश᳘वो रमन्ते त᳘स्माद्य᳘स्य पश᳘वो भ᳘वन्ति तैरग्नि᳘रभवत् एतैर᳘त्र स᳘र्वैः प्रजा᳘पतिर᳘यक्ष्यत त᳘देॗवाग्नेर᳘न्तम् प᳘र्॥

मूलम् - विस्वरम्

त ऽएते सर्वे पशवो- यदग्निः । तस्मादग्नौ पशवो रमन्ते । पशुभिरेव तत्पशवो रमन्ते । तस्माद्यस्य पशवो भवन्ति- तस्मिन्नग्निराधीयते । अग्निर्ह्येष- यत्पशवः । ततो वै प्रजापतिरग्निरभवत् ॥ १२ ॥

सायणः

यदुक्तं पशूनामग्न्यात्मकत्वम्, तत्प्रशंसति- त एते सर्वे पशवो यदग्निरिति । यतः पशूनामग्नेश्चेत्थं तादात्म्यम्, अतः परस्परमभिसम्बन्धो दृश्यत इत्याह- तस्मादग्नाविति । अग्निरूपाणि कामयमानस्य प्रजापतेः पशुयागेन तच्छरीरात्मकेष्टकोपधानेन किमायातमिति, तद् दर्शयति- ततो वै प्रजापतिरग्निरभवदिति । ततः पशुयागेन तदात्मको ऽग्निरेव सम्पन्न इत्यर्थः । चयनस्य अग्निरूपत्वावाप्तिः फलमिति तात्पर्यम् ॥ १२ ॥

Eggeling
  1. And because Agni is all those animal victims, therefore animals delight (being) near the fire 12,–

there animals sport with animals. Hence the (sacrificial) fire is set up with him who possesses cattle; for inasmuch as Agni (was) the same as cattle, therefore Prajāpati (the lord of creatures or generation) became Agni.

१३

विश्वास-प्रस्तुतिः

(त्त) तद्धै᳘क ऽआहुः॥
(र᳘) अ᳘त्रै᳘वैतैः स᳘र्व्वैः पशु᳘भिर्यजेत यद्वा᳘ ऽएतैर᳘त्र स᳘र्व्वैः प्रजा᳘पतिर᳘यक्ष्यत त᳘दे᳘वाग्नेर᳘न्तं प᳘र्यैष्यत्तद्य᳘देतैर᳘त्र स᳘र्व्वैर्य᳘जेत त᳘दे᳘वाग्निर᳘न्तं प᳘रीयादि᳘ति न त᳘था कुर्याद्देवा᳘नां त᳘दिता᳘दियाद᳘थो पथस्त᳘दियाद᳘थो किं त᳘तः स᳘म्भरेदेता᳘नि वा᳘ ऽएतत्कु᳘सिन्धान्येताश्चि᳘तीः स᳘म्भरति त᳘स्मात्त᳘था न᳘ कुर्यात्॥

मूलम् - श्रीधरादि

(त्त) तद्धै᳘क ऽआहुः॥
(र᳘) अ᳘त्रै᳘वैतैः स᳘र्व्वैः पशु᳘भिर्यजेत यद्वा᳘ ऽएतैर᳘त्र स᳘र्व्वैः प्रजा᳘पतिर᳘यक्ष्यत त᳘दे᳘वाग्नेर᳘न्तं प᳘र्यैष्यत्तद्य᳘देतैर᳘त्र स᳘र्व्वैर्य᳘जेत त᳘दे᳘वाग्निर᳘न्तं प᳘रीयादि᳘ति न त᳘था कुर्याद्देवा᳘नां त᳘दिता᳘दियाद᳘थो पथस्त᳘दियाद᳘थो किं त᳘तः स᳘म्भरेदेता᳘नि वा᳘ ऽएतत्कु᳘सिन्धान्येताश्चि᳘तीः स᳘म्भरति त᳘स्मात्त᳘था न᳘ कुर्यात्॥

मूलम् - Weber

तद्धै᳘के आहुः॥
अ᳘त्रैॗवैतैः स᳘र्वैः पशु᳘भिर्यजेत यद्वा᳘यैष्यत्तद्य᳘देतैर᳘त्र स᳘र्वैर्य᳘जेत त᳘देॗवाग्नेर᳘न्तम् प᳘रीयादि᳘ति न त᳘था कुर्याद्देवा᳘नां त᳘दिता᳘दियाद᳘थो पथस्त᳘दियाद᳘थो किं त᳘तः स᳘म्भरेदेता᳘नि वा᳘ एतत्कु᳘सिन्धान्येताश्चि᳘तीः स᳘म्भरति त᳘स्मात्त᳘था न᳘ कुर्यात्॥

मूलम् - विस्वरम्

तद्धैक ऽआहुः- अत्रैवैतैः सर्वै पशुभिर्यजेत । यद्वा ऽएतैरत्र सर्वैः प्रजापतिरयक्ष्यत । तदेवाग्नेरन्तं पर्यैष्यत् । तद्- यदेतैरत्र सर्वैर्यजेत- तदेवाग्निरन्तं परीयादिति । न तथा कुर्यात्- देवानां तदितादियात् । अथो पथस्तदियात् । अथो किं ततः सम्भरेत्- एतानि वा ऽएतत्कुसिन्धानि, एताश्चितीः सम्भरति । तस्मात् तथा न कुर्यात् ॥ १३ ॥

सायणः

पूर्वं पञ्चपश्वालम्भः, तत्रैकेन पशुना याग उक्तः, इदानीं तमेव पक्षं द्रढयितुं सर्वपशुयागं पूर्वपक्षयति- तद्धैक आहुरिति 13 । ‘अत्र’ अग्नौ ‘सर्वैः’ पञ्चभिः पशुभिः ‘यजेत’ । ‘यत्’ यदि ‘प्रजापतिः’ ‘सर्वैः’ पशुभिः ‘अयक्ष्यत’ यागमकरिष्यत्, ‘तत् एव अग्नेः अन्तं’ ‘पर्यैष्यत्’ अगमिष्यत्, न तथा कृतवान् । क्रियातिपत्तौ यजतेरेतेश्च लृङ्प्रयोगः । (पा. सू. ३ । ३ । १३९) तस्मात् सर्वैर्यागकरणमेवाग्न्यन्तगमनमित्यर्थः । तद्दूषयति- न तथा कुर्यादिति 14 । ‘तत्’ तर्हि ‘देवानाम्’ ‘इतात्’ गमनात् ‘इयात्’ अपगतो भवतीत्यर्थः । तदेव विवृणोति- ‘अथो पथः तदियात्’ प्रजापतिकृताद् यज्ञमार्गात् प्रच्यवेतेत्यर्थः ॥ सर्वयागपक्षे बाधां दर्शयति- अथो किं ततः सम्भरेदिति । एवं सति सम्भरणार्थता विरुध्यते । ‘सम्भरणार्थं हि कुसिन्धानाम् अप्सु प्रासनम्’ (का. श्रौ. सू. १६ । २३ क. भा.) तत इष्टका मृद्भिरद्भिश्च कार्याः । अतः सर्वप्रचारे सम्भरणानुपपत्तिरित्यर्थः । कात्यायनस्तच्छारवान्तरवाक्यानुसारेणैकस्मिन्नपि सम्भरणामुपपत्तेः सर्वप्रचारमेकप्रचारं समविकल्पं कृतवान् । तथाहि- “चतुर्णामप्सु कायप्रासनम्, ततो मृदिष्टकार्थापश्च, अजेन प्रचरति, सँ स्थिते तस्य शेषप्रासनम्, सर्वैरेके, एकस्यापि किं ततः सम्भरेदिति श्रुतेः”- इति । (का. श्रौ. सू. १६ । १९-२४) । एकस्यापि पशोरालम्भे किं ततः सम्भरेत् ? तत् तुल्यमेव । तस्माद् विकल्पः सर्वैर्वा ऽजेन चेति ॥ १३ ॥

Eggeling
  1. Here now some say, ‘It is at this (point of the performance) that he should offer up all those (five) victims; for had Prajāpati then offered up all of them, he would certainly have reached the end of the fire (altar): hence were he (the Sacrificer) now to offer up all those (victims) he would certainly reach the end of the fire (altar).’ Let him not do so: he thus would stray from where the gods have gone, he would stray from the path;–and what would he then gather 15? For those same bodies, those layers, he gathers: let him therefore not do so.

१४

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्वे᳘वैता᳘न्पशू᳘नाल᳘भते॥
(त) आय᳘तनमे᳘वैत᳘दग्न᳘ये करोति न᳘ ह्यनायतने क᳘श्चन र᳘मते᳘ ऽन्नं वा᳘ ऽआय᳘तनं त᳘देत᳘त्पुर᳘स्तान्नि᳘दधाति त᳘देनं प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्वे᳘वैता᳘न्पशू᳘नाल᳘भते॥
(त) आय᳘तनमे᳘वैत᳘दग्न᳘ये करोति न᳘ ह्यनायतने क᳘श्चन र᳘मते᳘ ऽन्नं वा᳘ ऽआय᳘तनं त᳘देत᳘त्पुर᳘स्तान्नि᳘दधाति त᳘देनं प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - Weber

य᳘द्वेॗवैता᳘न्पशू᳘नाल᳘भते॥
आय᳘तनमेॗवैत᳘दग्न᳘ये करोति न᳘ ह्यनायतने क᳘श्चन र᳘मते᳘ ऽन्नं वा᳘ आय᳘तनं त᳘देत᳘त्पुर᳘स्तान्नि᳘दधाति त᳘देनम् प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - विस्वरम्

यद्वेवैतान्पशूनालभते- आयतनमेवैतदग्नये करोति । न ह्यनायतने कश्चन रमते । अन्नं वा ऽआयतनम् । तदेतत्- पुरस्तान्निदधाति । तदेनं पश्यन्नग्निरुपावर्तते ॥ १४ ॥

सायणः

पश्वालम्भनमायतनकरणात्मना प्रशंसति- यद्वेवैतान् पशूनालभत इति । आयतनशब्दार्थमाह- अन्नं वा इति । कार्यकारणयोरभेदात् । ‘तदेतत्’ पशुरूपमन्नं ‘पुरस्तात्’ ‘निदधाति’, ‘तत्’ ‘एनन्’ ‘पश्यन्’ ‘अग्निः’ ‘उपावर्त्तते’ समीपे गतो भवति । यथा लोके ऽन्नार्थी पश्यन्नेवान्नं तत्समीपं गच्छति, तद्वदित्यर्थः ॥ १४ ॥

Eggeling
  1. Now when he slaughters those animals, he prepares a home for Agni; for nowhere but in his home does one enjoy himself. But the home means food: it is that he lays down in, front, and when Agni sees that, he turns unto him.

१५

विश्वास-प्रस्तुतिः

पु᳘रुषो᳘ ऽश्वो गौर᳘विरजो᳘ भवन्ति॥
एता᳘वन्तो वै स᳘र्व्वे पशवो᳘ ऽन्तं पश᳘वस्तद्या᳘वद᳘न्नं त᳘देत᳘त्पुर᳘स्तान्नि᳘दधाति त᳘देनं प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - श्रीधरादि

पु᳘रुषो᳘ ऽश्वो गौर᳘विरजो᳘ भवन्ति॥
एता᳘वन्तो वै स᳘र्व्वे पशवो᳘ ऽन्तं पश᳘वस्तद्या᳘वद᳘न्नं त᳘देत᳘त्पुर᳘स्तान्नि᳘दधाति त᳘देनं प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - Weber

पु᳘रुषो᳘ ऽश्वो गौर᳘विरजो᳘ भवन्ति॥
एता᳘वन्तो वै स᳘र्वे पशवो᳘ ऽन्नम् पश᳘वस्तद्या᳘वद᳘न्नं त᳘देत᳘त्पुर᳘स्तान्नि᳘दधाति त᳘देनम् प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - विस्वरम्

पुरुषः अश्वः गौः अविः अजो भवन्ति । एतावन्तो वै सर्वे पशवः । अन्नं पशवः । तद् यावदन्नं- तदेतत्पुरस्तान्निदधाति । तदेनं पश्यन्नग्निरुपावर्तते ॥ १५ ॥

सायणः

पशूननुक्रामति- पुरुषो ऽश्व इति । एतावन्त इति । यतः ‘सर्वे पशवाः’ एतेषु पुरुषगवाश्वादिपशुषु अन्तर्भूताः अत उपजीव्यानां सर्वेषामन्नरूपाणां पशूनामवरोध इति नानाजातिनिबन्धना स्तुतिः ॥ १५ ॥

Eggeling
  1. There are a man, a horse, a bull, a ram, and a he-goat; for such are all the animals (used for sacrifice). Animals are food: he thus lays down in front whatever food there is; and seeing that, Agni turns unto him.

१६

विश्वास-प्रस्तुतिः

प᳘ञ्च भवन्ति॥
प᳘ञ्च᳘ ह्येते ऽग्न᳘यो य᳘देताश्चि᳘तयस्ते᳘भ्य ऽएतत्प᳘ञ्चाय᳘तनानि नि᳘दधाति त᳘देनं प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - श्रीधरादि

प᳘ञ्च भवन्ति॥
प᳘ञ्च᳘ ह्येते ऽग्न᳘यो य᳘देताश्चि᳘तयस्ते᳘भ्य ऽएतत्प᳘ञ्चाय᳘तनानि नि᳘दधाति त᳘देनं प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - Weber

प᳘ञ्च भवन्ति॥
प᳘ञ्चॗ ह्येते ऽग्न᳘या य᳘देताश्चि᳘तयस्ते᳘भ्य एतत्प᳘ञ्चाय᳘तनानि नि᳘दधाति त᳘देनम् प᳘श्यन्नग्नि᳘रुपा᳘वर्तते॥

मूलम् - विस्वरम्

पञ्च भवन्ति पञ्च ह्येते ऽग्नयो- यदेतश्चितयः । तेभ्य एतत्पञ्चायतनानि निदधाति । तदेनं पश्यन्नग्निरुपावर्तते ॥ १६ ॥

सायणः

पशुगतपञ्चसङ्ख्यां प्रशंसति- पञ्च भवन्तिपञ्च ह्येते ऽग्नय इति । चितिसङ्ख्या ऽपेक्षया अग्नीनां पञ्चसङ्ख्यावत्त्वम् । पञ्चायतनानीति । पशुरूपाणि पञ्च स्थानानि कल्पयतीत्यर्थः ॥ १६ ॥

Eggeling
  1. There are five; for there are those five Agnis,

to wit, the five layers (of the fire-altar): for them he thus lays down five homes; and seeing that, Agni turns unto him.

१७

विश्वास-प्रस्तुतिः

तद्य᳘दग्नि᳘भ्य ऽइ᳘ति॥
बह᳘वो᳘ ह्ये᳘ते ऽग्न᳘यो य᳘देताश्चि᳘तयो᳘ ऽथ यत्का᳘माये᳘ति य᳘था तं का᳘ममाप्नुयाद्य᳘जमानो य᳘त्काम ऽएतत्क᳘र्म कुरुते॥

मूलम् - श्रीधरादि

तद्य᳘दग्नि᳘भ्य ऽइ᳘ति॥
बह᳘वो᳘ ह्ये᳘ते ऽग्न᳘यो य᳘देताश्चि᳘तयो᳘ ऽथ यत्का᳘माये᳘ति य᳘था तं का᳘ममाप्नुयाद्य᳘जमानो य᳘त्काम ऽएतत्क᳘र्म कुरुते॥

मूलम् - Weber

तद्य᳘दग्नि᳘भ्य इ᳘ति॥
बह᳘वोॗ ह्येॗते ऽग्न᳘यो य᳘देताश्चि᳘तयो᳘ ऽथ यत्का᳘माये᳘ति य᳘था तं का᳘ममाप्नुयाद्य᳘जमानो य᳘त्काम एतत्क᳘र्म कुरुते॥

मूलम् - विस्वरम्

तद् यदग्निभ्य इति- बहवो ह्येते ऽग्नयो- यदेताश्चितयः । अथ यत्कामायेति यथा तं काममाप्नुयात्- यजमानो यत्काम एतत्कर्म कुरुते ॥ १७ ॥

सायणः

तद्यदग्निभ्य इतीति । एतद्वाक्यं पूर्ववद् व्याख्येयम् । अग्निभ्यः कामायेति यद्यग्निबहुत्वं तद्रूपापेक्षयेति ॥ १७ ॥

Eggeling
  1. And when (he offers) ’to the Agnis,’–it is because there are here many Agnis, to wit, those layers; and when (he offers) ’to the desire,’ it is in order that the Sacrificer may obtain the object for which he performs that ceremony.

१८

विश्वास-प्रस्तुतिः

पु᳘रुषं प्रथममा᳘लभते॥
पु᳘रुषो हि᳘ प्रथमः᳘ पशूनामथा᳘श्वं पु᳘रुषᳫँ᳭ ह्यन्वश्वो᳘ ऽथ गाम᳘श्वᳫँ᳭ ह्य᳘नु गौरथा᳘विं गाᳫँ᳭ ह्यन्व᳘विर᳘थाजम᳘विᳫँ᳭ ह्य᳘न्वजस्त᳘देनान्यथापूर्व्वं᳘ यथाश्रेष्ठमा᳘लभते॥

मूलम् - श्रीधरादि

पु᳘रुषं प्रथममा᳘लभते॥
पु᳘रुषो हि᳘ प्रथमः᳘ पशूनामथा᳘श्वं पु᳘रुषᳫँ᳭ ह्यन्वश्वो᳘ ऽथ गाम᳘श्वᳫँ᳭ ह्य᳘नु गौरथा᳘विं गाᳫँ᳭ ह्यन्व᳘विर᳘थाजम᳘विᳫँ᳭ ह्य᳘न्वजस्त᳘देनान्यथापूर्व्वं᳘ यथाश्रेष्ठमा᳘लभते॥

मूलम् - Weber

पु᳘रुषम् प्रथममा᳘लभते॥
पु᳘रुषो हि᳘ प्रथमः᳘ पशूनामथा᳘श्वम् पु᳘रुषᳫं ह्यन्वश्वो᳘ ऽथ गाम᳘श्वᳫं ह्य᳘नु गौरथा᳘विं गाᳫं ह्यन्व᳘विर᳘थाजम᳘विᳫं ह्य᳘न्वजस्त᳘देनान्यथापूर्वं᳘ यथाश्रेष्ठमा᳘लभते॥

मूलम् - विस्वरम्

पुरुषं प्रथममालभते । पुरुषो हि प्रथमः पशूनाम् । अथाश्वम् । पुरुषं ह्यन्वश्वः । अथ गाम् । अथ ह्यनु गौः । अथाविम् । गां ह्यन्वविः । अथाजम् । अविं ह्यन्वजः । तदेनान् यथापूर्वं यथाश्रेष्ठमालभते ॥ १८ ॥

सायणः

पशूनामालम्भनक्रमं विधत्ते- पुरुषं प्रथममालभत इति । पुरुषम् ह्यन्वश्व इति । ‘पुरुषम्’ ‘अनु’- लक्ष्य; पुरुषानुगामी यतो ऽश्व इत्यर्थः । एवमुत्तरत्र । यथापूर्वमिति । पूर्वानालभ्याननतिक्रम्य, यथाक्रममित्यर्थः । ‘यथाश्रेष्ठम्’ तत्र ये ये श्रेष्ठाः, तानप्यनतिक्रम्येत्यर्थः ॥ १८ ॥

Eggeling
  1. A man (purusha) he slaughters first, for man is the first of animals; then a horse, for the horse comes after man; then a bull, for the bull (or cow) comes after the horse; then a ram, for the sheep comes after the cow; then a he-goat, for the goat comes after the sheep: thus he slaughters them according to their form, according to their excellence.

१९

विश्वास-प्रस्तुतिः

ते᳘षां व्वि᳘षमा रशनाः᳘ स्युः॥
पुरुषस्य[[!!]] व्व᳘र्षिष्ठा᳘ ऽथ ह्र᳘सीयस्य᳘थ ह्र᳘सीयसी त᳘द्यथारूपं᳘ पशूना᳘ᳫँ᳘ रशनाः᳘ करोत्य᳘पापवस्यसाय स᳘र्व्वा᳘स्त्वेव᳘ समाः᳘ स्युः स᳘र्व्वाः सदृ᳘श्यः स᳘र्व्वे᳘ ह्येते᳘ समाः स᳘र्व्वे सदृ᳘शा ऽअग्न᳘यो᳘ ह्युच्यन्ते᳘ ऽन्नᳫँ᳘ ह्युच्य᳘न्ते ते᳘न समास्ते᳘न सदृ᳘शाः॥

मूलम् - श्रीधरादि

ते᳘षां व्वि᳘षमा रशनाः᳘ स्युः॥
पुरुषस्य[[!!]] व्व᳘र्षिष्ठा᳘ ऽथ ह्र᳘सीयस्य᳘थ ह्र᳘सीयसी त᳘द्यथारूपं᳘ पशूना᳘ᳫँ᳘ रशनाः᳘ करोत्य᳘पापवस्यसाय स᳘र्व्वा᳘स्त्वेव᳘ समाः᳘ स्युः स᳘र्व्वाः सदृ᳘श्यः स᳘र्व्वे᳘ ह्येते᳘ समाः स᳘र्व्वे सदृ᳘शा ऽअग्न᳘यो᳘ ह्युच्यन्ते᳘ ऽन्नᳫँ᳘ ह्युच्य᳘न्ते ते᳘न समास्ते᳘न सदृ᳘शाः॥

मूलम् - Weber

ते᳘षां वि᳘षमा रशनाः᳘ स्युः॥
पु᳘रुषस्य व᳘र्षिष्ठा᳘थ ह्र᳘सीयस्य᳘थ ह्र᳘सीयसी त᳘द्यथारूप᳘म् पशूनां᳘ रशनाः᳘ करोत्य᳘पपवस्यसाय स᳘र्वाॗस्त्वेव᳘ समाः᳘ स्युः स᳘र्वाः सदृ᳘श्यः स᳘र्वेॗ ह्येते᳘ समाः स᳘र्वे सदृ᳘शा अग्न᳘योॗ ह्युच्यन्तेॗ ऽन्नᳫं ह्युच्य᳘न्ते ते᳘न समास्ते᳘न सदृ᳘शाः॥

मूलम् - विस्वरम्

तेषां विषमा रशनाः स्युः- पुरुषस्य वर्षिष्ठा- अथ ह्रसीयसी अथ ह्रसीयसी । तद् यथारूपं पशूनां रशनाः करोति- अपापवस्यसाय । सर्वास्त्वेव समाः स्युः, सर्वाः सदृश्यः । सर्वे ह्येते समाः, सर्वे सदृशाः । अग्नयो ह्युच्यन्ते, अन्नं ह्युच्यन्ते तेन समाः, तेन सदृशाः ॥ १९ ॥

सायणः

तेषां बन्धनार्थं रशनां विधत्ते- तेषां विषमा रशनाः स्युरिति । ‘विषमाः’ स्थौल्यह्रासवत्त्वेन अग्नयो भवन्ति । वैषम्यं च दर्शयति- पुरुषस्य वर्षिष्ठा ऽथ ह्रसीयसीत्यादि । पुरुषपशोः रशना ‘वर्षिष्ठा’ अतिशयेन वृद्धा भवेत् । अत्र वर्षिष्ठेति स्थौल्यायामापेक्षया । “प्रियस्थिर”- (पा. सू. ६ । ४ । १५७) इत्यादिना वृद्धशब्दस्य वर्षादेशः । ‘अथ’ अश्वपशोः ‘ह्रमीयसी’ आयामस्थौल्याभ्यां ह्रस्वा । तदपेक्षया गोपशोः ह्रस्वा । ततो द्वयोः । ‘अथ ह्रसीयसी’- इति वीप्सया पूर्वपूर्वरशनापेक्षयोत्तरोत्तरह्रासो विवक्षितः 16यथारूपमिति । पुरुषादिपशूनामाकृतिबलादिकमनतिक्रम्येत्यर्थः । सर्वास्त्वेवेति । ‘तु’- शब्दः पक्षान्तरद्योतनार्थः । सर्वा अपि रशना ‘समाः’ सदृशायामस्थौल्या इत्यर्थः । “सर्वास्त्वेव समाः”- इति वाक्यस्य विवरणम्- सर्वाः सदृश्य इति । यद्वा, आयामस्थौल्यादिना साम्यं वक्तुं पृथगुपन्यासः [^२_३७] । रशनासाम्य इत्युच्यते । अन्नमिति चोच्यन्ते । पशूनां परस्परसाम्यादित्याह- सर्वे ह्येते समा इति । साम्यमेव दर्शयति । अग्नयो ह्युच्यन्त इति । यस्मात् एते पशवो ऽग्नयः इत्युच्यन्ते । तदन्नमिति चोच्यन्ते । पशूनामग्नित्वमन्नात्मकत्वं च पूर्वमेव दर्शितम्- “स ऐक्षतेमे वा अग्निः”- इति । “यद्वेवैतान् पशूनालभत, आयतनमेवैतदग्नये करोति, न ह्यनायतने कश्चन रमते, अन्नं वा आयतनम्”- इति च । ‘तेन’ अग्नित्वेन सर्वे पशवः ‘समाः सदृशाः’ इति रशना अपि समाः कार्या इत्यर्थः ॥ १९ ॥

Eggeling
  1. Their ropes may be unequal; that of the man being the longest, then shorter and shorter: thus he makes the ropes according to the form of the animals, to avoid confusion between good and bad. But let them be all alike, all similar; for all these victims are alike, all similar, for they are (all) called Agnis, they are called food: hence they are alike and similar.

२०

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
कथ᳘मस्यै᳘षो ऽग्निः प᳘ञ्चेष्टकः सर्व्वः पशुष्वा᳘रब्धो भवती᳘ति पुरोडाशकपाले᳘षु᳘[[!!]] न्वे᳘वा ऽऽप्यत ऽइयं᳘[[!!]] प्रथमा᳘ मृन्मयी᳘ष्टका᳘ ऽथ य᳘त्पशु᳘माल᳘भते ते᳘न पश्विष्ट᳘का ऽऽप्यते᳘ ऽथ य᳘द्वपा᳘मभि᳘तो हिरण्यशकलौ भ᳘वतस्ते᳘न हिरण्येष्ट᳘का ऽऽप्यते᳘ ऽथ य᳘दिध्मो यू᳘पः परिध᳘यस्ते᳘न व्वानस्पत्ये᳘ष्टका ऽऽप्यते᳘ ऽथ यदा᳘ज्यं प्रो᳘क्षण्यः पुरोडा᳘शस्तेना᳘न्नं पञ्चमी᳘ष्टका ऽऽप्यत ऽएव᳘मु हास्यै᳘षो ऽग्निः प᳘ञ्चेष्टकः स᳘र्व्वः पशुश्वा᳘रब्धो भवति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
कथ᳘मस्यै᳘षो ऽग्निः प᳘ञ्चेष्टकः सर्व्वः पशुष्वा᳘रब्धो भवती᳘ति पुरोडाशकपाले᳘षु᳘[[!!]] न्वे᳘वा ऽऽप्यत ऽइयं᳘[[!!]] प्रथमा᳘ मृन्मयी᳘ष्टका᳘ ऽथ य᳘त्पशु᳘माल᳘भते ते᳘न पश्विष्ट᳘का ऽऽप्यते᳘ ऽथ य᳘द्वपा᳘मभि᳘तो हिरण्यशकलौ भ᳘वतस्ते᳘न हिरण्येष्ट᳘का ऽऽप्यते᳘ ऽथ य᳘दिध्मो यू᳘पः परिध᳘यस्ते᳘न व्वानस्पत्ये᳘ष्टका ऽऽप्यते᳘ ऽथ यदा᳘ज्यं प्रो᳘क्षण्यः पुरोडा᳘शस्तेना᳘न्नं पञ्चमी᳘ष्टका ऽऽप्यत ऽएव᳘मु हास्यै᳘षो ऽग्निः प᳘ञ्चेष्टकः स᳘र्व्वः पशुश्वा᳘रब्धो भवति॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मस्यैॗषो ऽग्निः प᳘ञ्चेष्टकः सर्वः पशुष्वा᳘रब्धा भवती᳘ति पुरोडाशकपा᳘लेषुॗ न्वेवा᳘प्यत इयम् प्रथमा᳘ मृन्मयी᳘ष्टका᳘थ य᳘त्पशु᳘माल᳘भते ते᳘न पश्विष्टॗकाप्यते᳘ ऽथ य᳘द्वपा᳘मभि᳘तो हिरण्यशकलौ भ᳘वतस्ते᳘न हिरण्येष्टॗकाप्यते᳘ ऽथ य᳘दिध्मो यू᳘पः परिध᳘यस्ते᳘न वानस्पत्ये᳘ष्टकाप्यते᳘ ऽथ यदा᳘ज्यम् प्रो᳘क्षण्यः पुरोडाशस्तेना᳘न्नम् पञ्चमी᳘ष्टकाप्यत एव᳘मु हास्यैॗषो ऽग्निः प᳘ञ्चेष्टकः स᳘र्वः पशुश्वा᳘रब्धो भवति॥

मूलम् - विस्वरम्

तदाहुः- कथमस्यैषो ऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धो भवतीति । पुरोडाशकपालेषु न्वेवा ऽऽप्यते । इयं प्रथमा मृन्मयीष्टका (१) । अथ यत्पशुमालभते- तेन पश्विष्टका ऽऽप्यते (२) । अथ यद्वपामभितो हिरण्यशकलौ भवतः- तेन हिरण्येष्टका ऽऽप्यते (३) । अथ यदिध्मो यूपः परिधयः- तेन वानस्पत्येष्टका ऽऽप्यते (४) । अथ यदाज्यम्, प्रोक्षण्यः पुरोडाशः- तेनान्नं पञ्चमीष्टका ऽऽप्यते (५) । एवमु हास्यैषो ऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धो भवति ॥ २० ॥

सायणः

तदाहुरिति । अग्निचयने पञ्चसङ्ख्याका इष्टका उपधेया इति वक्ष्यते । तत्र पशुपरिग्रहेणैव पञ्चेष्टका अपि परिगृहीता इति वक्तुं तत् कथं पश्वालम्भमात्रेण तादृशस्याग्नेः स्वीकारः कृत इति पृच्छति- तदाहुः कथमस्यैषो ऽग्निरिति । ‘अस्य’ चिकीर्षमाणस्य यजमानस्य ‘पञ्चेष्टकः’ ‘एषः’ प्रकम्पमाणः ‘अग्निः’ ‘कथं’ ‘पशुषु’ परिग्रहे ‘आरब्धः’ प्रक्रान्तो भवतीति । उत्तरत्र करिष्यमाणस्याग्नेः प्रथमं स्वीकारः कर्त्तव्य इत्यभिप्रायः ।

पशुष्वेव पञ्चेष्टकाः सम्पादयति- पुरोडाशकपालेषु न्वेवा ऽऽप्यत इत्यादिना । चयने वैश्वानरादीनां पशुपुरोडाशादीनां सम्भरणात् तत्कपालेषु मृन्मयीष्टका आप्यते, कपालानां मृन्मयत्वात् तादृशेष्टकाप्रारम्भः, पश्वालम्भेन पश्विष्टकाप्रारम्भः । वपावदानसमये हिरण्यशकलद्वयं निधातव्यम् । तदाहापस्तम्बः- “जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामवदाय हिरण्यशकलमुपरिष्टात् कृत्वा ऽभिघारयति”- (आ. श्रौ. सू. १६ । १७ ।) इति । तथा चैतरेयकम्- ‘यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा ऽऽज्यस्योपस्तृणाति हिरण्यशल्को वपा हिरण्यशल्क आज्यस्योपरिष्टादभिघारयति”- (ऐ. ब्रा. २ । २ । ४) इति । ‘अथ’ ‘यत्’ तस्माद् ‘वपामभितः’ पूर्वमुपरिष्टाच्च हिरण्यशकलौ भवतः ‘तेन हिरण्येष्टका’ आप्ता मवति । इध्मयूपपरिधिस्वीकाराद् वानस्पत्येष्टकाधानेन उलूखलमुसलस्रुगाद्युपधानमुपलक्षितम् । आज्यप्रोक्षणीपुरोडाशकरणेनान्नरूपेष्टका भवति । ‘अतः’ सर्वासामिष्टकानां पशुबन्धात् सङ्ग्रहेण ता अपि प्रारब्धा भवन्तीत्यर्थः ॥ यद्यपि मार्त्तिकी एका एव, अथापि मृन्मयकपालपश्वादिसम्बन्धात् पञ्चेष्टकासम्पादनं प्रागुक्तम्- “तदाहुः कथमस्यैषो ऽग्निः पञ्चेष्टकः ?”- इत्यादिना ॥ २० ॥

Eggeling
  1. Here now they say, ‘How is that complete five-bricked fire of his gained in the animals?’–Well, in the kapālas of the sacrificial cakes that first brick, the earthen one, is obtained; and when he slaughters the animal, thereby the animal brick is obtained, and when two gold chips are (placed) on both sides of the omentum, thereby the gold brick is obtained; and what firewood, stake, and enclosing sticks there are, thereby the wooden brick is obtained; and what ghee, sprinkling-water, and cake there are, thereby the fifth brick, the food, is

obtained: thus then that complete five-bricked fire of his is gained in the animals.

२१

विश्वास-प्रस्तुतिः

ते᳘षां च᳘तुर्विᳫँ᳭शतिः सामिधे᳘न्यः॥
(श्च᳘) च᳘तुर्विᳫँ᳭शत्यर्धमासो वै संव्वत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

ते᳘षां च᳘तुर्विᳫँ᳭शतिः सामिधे᳘न्यः॥
(श्च᳘) च᳘तुर्विᳫँ᳭शत्यर्धमासो वै संव्वत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

ते᳘षां च᳘तुर्विंशतिः सामिधे᳘न्यः॥
च᳘तुर्विंशत्यर्धमासो वै संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

तेषां चतुर्विंशतिः सामिधेन्यः । चतुर्विंशत्यर्धमासो वै सम्वत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्समिन्द्धे ॥ २१ ॥

सायणः

अत्र कात्यायनः “समिध्यमानसमिद्धवत्यन्तरे समास्त्वा ऽग्न इति नव दधाति”- (का. श्रौ. सू. १६ । ११) इति । पूर्वं दर्शपूर्णमासयोः पञ्चदश सामिधेन्यः; अत्र “समिध्यमानो अध्वरे"- (तै. ब्रा. ३ । ५ । २ । ९) इत्यृक्, “समिद्धो अग्नं आहुतः”- (तै. ब्रा. ३ । ५ । ३ । १० ।) इत्यृक्; अनयोः प्रकृतिगतयोः सामिधेनीमध्यपठितयोर्ऋचोर्मध्ये “समास्त्वा ऽग्न ऋतवो वर्द्धयन्तु”- (वा. सं. २७ । १-९) इत्याद्या नव । ऋचो दध्यात् । पूर्वं “प्र वो वाजा अभिद्यवः”- (तै. ब्रा. ३ । ५ । २ । १-११) इत्याद्याः पञ्चदश, इदानीं मध्ये निहिता नव, उभयस्य चतुर्विंशतिर्भवतीति तदेतद् दर्शयति- तेषां चतुर्विंशतिः सामिधेन्य इति । अग्निसमिन्धनसाधनभूता ऋचः सामिधेन्य इत्युच्यन्ते । “समिधामाधाने षेण्यण्”- (पा. सू. ४ । ३ । १२० वा ३) इति षेण्यण् प्रत्ययः । सामिधेनीगतां चतुर्विंशतिसङ्ख्यां प्रशंसति- चतुर्विंशत्यर्द्धमासो वै संवत्सर इति । संवत्सरस्य द्वादश मासाः, मासस्य द्वावर्द्धमासौ, इति संवत्सरस्य चतुर्विंशतिरर्द्धमासाः तादृशः संवत्सर एवाग्निः; “संवत्सरे कुमारो ऽजायत”- (श. प. ६ । १ । ३ । ८) इति प्रागाम्नानात् । अग्नेः संवत्सरात्मकत्वेन प्रकृते किमायातमिति, तत्राह- यावानग्निरिति । ‘अग्निः’ ‘यावान्’ यत्परिमाणः, ‘अस्य’ अग्नेः ‘यावती’ यत्परिमाणा ‘मात्रा’ अवयवा यावन्तः, ‘तावता’ तत्परिमाणैः तैरंशैरेव ‘एनम्’ अग्निं ‘समिन्धे’ सन्दीपितवान् भवति । अयमर्थः- अग्नेः संवत्सरात्मकत्वे संवत्सरस्य यावन्तो यावन्तो ऽवयवा मासार्द्धमासाद्यात्मानः; तावद्भिरवयवैः ‘एनं’ चित्याग्निं ‘समिन्धे’ । अथवा “यावानग्निरिति,” अवयव्यग्निपरिमाणवचनम्; “यावत्यस्य मात्रेति” अवयवपरिमाणवचनम्; ‘तावता’ तत्परिमाणेनाग्निसंवत्सरात्मना; ‘एनम्’ अग्निम् आहवनीयं ‘समिन्धे’ इति । अनेनाग्निः स्वयंमग्निना समिद्धो भवतीत्युक्तं भवति । तथा च श्रूयते- “अग्निना ऽग्निः समिध्यते कविर्गृहपतिर्युवा”- (ऋ. सं. १ । १२ । ६ ।) इति ॥ २१ ॥

Eggeling
  1. For these (victims) there are twenty-four kindling-verses 17; for the year consists of twenty-four half-moons, and Agni is the year: as great as Agni is, as great as is his measure, by so much he thus kindles him.

२२

विश्वास-प्रस्तुतिः

य᳘द्वेव च᳘तुर्विᳫँ᳭शतिः॥
(श्च᳘) च᳘तुर्विᳫँ᳭शत्यक्षरा वै᳘ गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

य᳘द्वेव च᳘तुर्विᳫँ᳭शतिः॥
(श्च᳘) च᳘तुर्विᳫँ᳭शत्यक्षरा वै᳘ गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

य᳘द्वेव च᳘तुर्विंशतिः॥
च᳘तुर्विंशत्यक्षरा वै᳘ गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

यद्वेव चतुर्विंशतिः । चतुर्विंशत्यक्षरा वै गायत्री गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे ॥ २२ ॥

सायणः

प्रकारान्तरेण चतुर्विंशतिसङ्ख्यां प्रशंसति- यदेव चतुर्विंशतिरिति । गायत्र्यात्मकत्वमग्नेः प्रागुक्तम्- “यद्वेवाष्टावग्निरूपाणि अष्टाक्षरा गायत्री, तस्मादाहुः गायत्रो ऽग्निरिति”- (श. प. ६ । १ । ३ ।) इति । तावतैवेति । गायत्र्यक्षरसङ्ख्याकैरवयवैः ‘एनम्’ अग्निम् समिद्धवान् भवतीति ॥ २२ ॥

Eggeling
  1. And, again, why there are twenty-four,–the Gāyatrī consists of twenty-four syllables, and Agni is Gāyatra 18: as great as Agni is, as great as is his measure, by so much he thus kindles him.

२३

विश्वास-प्रस्तुतिः

य᳘द्वेव च᳘तुर्विᳫँ᳭शतिः॥
(श्च᳘) चतुर्विᳫँ᳭शो वै पु᳘रुषो द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गानि पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - श्रीधरादि

य᳘द्वेव च᳘तुर्विᳫँ᳭शतिः॥
(श्च᳘) चतुर्विᳫँ᳭शो वै पु᳘रुषो द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गानि पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘मिन्द्धे॥

मूलम् - Weber

य᳘द्वेव च᳘तुर्विंशतिः॥
चतुर्विंशो वै पु᳘रुशो द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गानि पु᳘रुषः प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘मिन्द्धे॥

मूलम् - विस्वरम्

यद्वेव चतुर्विंशतिः । चतुर्विंशो वै पुरुषो-दश हस्त्या अङ्गुलयो, दश पाद्याः, चत्वार्यङ्गानि । पुरुषः प्रजापतिः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्समिन्द्धे ॥ २३ ॥

सायणः

यद्वेवेति । चतुर्विंशो वै पुरुष इति । चतुर्विंशतिसङ्ख्याकावयवयुक्तः ‘चतुर्विंशः’ । तानेवावयवान् दर्शयति- दश हस्त्या इति । हस्तयोर्भवा अङ्गुलयो दश, पादयोर्भवा दश ‘चत्वार्यङ्गानि’ पादहृन्मुखमस्तकाख्यानि । एवं चतुर्विंशतिरङ्गानि; ‘पुरुषः’ उक्तावयवयुक्तः ‘प्रजापतिः’ प्रजापतिरूपः " “स एव पुरुषः प्रजापतिरभवत्”- (श. प. ६ । १ । १ । ५) इत्यादिना पुरुषस्य प्रजापतित्वमुक्तम् । प्रजापतेरग्नित्वञ्च “स पुरुषः प्रजापतिरभवदयमेव स यो ऽयमग्निश्चीयते” (श. प. ६ । १ । १ । ५)- इति; तथा ऽत्रैवाध्याये ‘प्रजापतिरग्निरूपाण्यभ्यध्यायत्”- इत्युपक्रम्य, “ततो वै प्रजापतिरग्निरभवत्” (श. प. ६ । २। १ । १-१२)- इत्यन्तेन । तावतैवैनमिति । तावत्परिमाणेन चतुर्विंशत्यङ्गात्मना ऽग्निना ‘एनम्’ अग्निं दीपितवान् भवतीति ॥ २३ ॥

Eggeling
  1. And, again, why there are twenty-four,–man (purusha) doubtless is twenty-fourfold: ten fingers of the hands, ten toes, and four limbs; and Prajāpati is the Purusha, and Prajāpati is Agni: as great as Agni is, as great as is his measure, by so much he thus kindles him.

२४

विश्वास-प्रस्तुतिः

(न्द्ध ऽ) उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
प्राणो᳘ गाय᳘त्र्यात्मा᳘ त्रिष्टु᳘प्प्राण᳘मे᳘वास्य गायत्री᳘भिः स᳘मिन्द्ध ऽआत्मा᳘नं त्रिष्टु᳘ब्भिर्म᳘ध्ये त्रिष्टु᳘भो भ᳘वन्त्यभि᳘तो गाय᳘त्र्यो म᳘ध्ये᳘ ह्यय᳘मा᳘त्मा ऽभि᳘तः[[!!]] प्राणा भू᳘यसीः पुर᳘स्ताद्गायत्री᳘रन्वा᳘ह क᳘नीयसीरुप᳘रिष्टाद्भू᳘याᳫँ᳭सो᳘ हीमे᳘ पुर᳘स्तात्प्राणाः क᳘नीयाᳫँ᳭स ऽउप᳘रिष्टात्॥

मूलम् - श्रीधरादि

(न्द्ध ऽ) उभ᳘यीर्गायत्री᳘श्च त्रिष्टु᳘भश्चा᳘न्वाह॥
प्राणो᳘ गाय᳘त्र्यात्मा᳘ त्रिष्टु᳘प्प्राण᳘मे᳘वास्य गायत्री᳘भिः स᳘मिन्द्ध ऽआत्मा᳘नं त्रिष्टु᳘ब्भिर्म᳘ध्ये त्रिष्टु᳘भो भ᳘वन्त्यभि᳘तो गाय᳘त्र्यो म᳘ध्ये᳘ ह्यय᳘मा᳘त्मा ऽभि᳘तः[[!!]] प्राणा भू᳘यसीः पुर᳘स्ताद्गायत्री᳘रन्वा᳘ह क᳘नीयसीरुप᳘रिष्टाद्भू᳘याᳫँ᳭सो᳘ हीमे᳘ पुर᳘स्तात्प्राणाः क᳘नीयाᳫँ᳭स ऽउप᳘रिष्टात्॥

मूलम् - Weber

उभ᳘यीर्गायत्री᳘श्च त्रिष्टुभश्चा᳘न्वाह॥
प्राणो᳘ गायॗत्र्यात्मा᳘ त्रिश्टु᳘प्प्राण᳘मे᳘वास्य गायत्री᳘भिः स᳘मिन्द्ध आत्मा᳘नं त्रिष्टु᳘ब्भिर्म᳘ध्ये त्रिष्टु᳘भो भ᳘वन्त्यभि᳘तो गायॗत्र्यो म᳘ध्ये ह्य᳘य᳘माॗत्माभि᳘तः प्राणा भू᳘यसीः पुर᳘स्ताद्गायत्री᳘रन्वा᳘ह क᳘नीयसीरुप᳘रिष्टाद्भू᳘यांसोॗ हीमे᳘ पुर᳘स्तात्प्राणाः क᳘नीयांस उप᳘रिष्टात्॥

मूलम् - विस्वरम्

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह- प्राणो गायत्री, आत्मा त्रिष्टुप् । प्राणमेवास्य गायत्रीभिः समिन्द्धे, आत्मानं त्रिष्टुब्भिः । मध्ये त्रिष्टुभो भवन्ति, अभितो गायत्र्यः । मध्ये ह्ययमात्मा- अभितः प्राणाः । भूयसीः पुरस्ताद्गायत्रीरन्वाह, कनीयसीरुपरिष्टात् । भूयांसो हीमे पुरस्तात्प्राणाः, कनीयांस उपरिष्टात् ॥ २४ ॥

सायणः

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाहेति । सामिधेनीषु “प्र वो वाजाः" (तै. ब्रां. ३ । ५ । २ । १-११) इत्याद्या गायत्र्यः, “समास्त्वा ऽग्न ऋतवो वर्द्धयन्तु”- (वा. सं. २७ । १-९) (तै. सं. ४ । १ । ७) इत्याद्याः त्रिष्टुप्छन्दस्काः, ता ‘उभयी’ अनुब्रूयात्, होतेति शेषः । सामिधेनीगतगायत्रीत्रिष्टुप्छन्दांसि प्राणात्मसमिन्धनरूपेण प्रशंसति- प्राणो गायत्रीति । गायत्र्यास्त्रिपात्त्वम्, प्राणस्य च प्राणापानव्यानात्मना त्रित्वसङ्ख्यावत्त्वम् । त्रिष्टुभो वीर्यरूपत्वात् उरसः सकाशादुत्पत्तेः आत्मरूपता । मध्ये त्रिष्टुभो भवन्तीति । प्रथमं “प्र वो वाजाः”- इत्याद्याः “आनो अध्वरे” इत्यन्ता गायत्र्यः, अन्ते च “समिद्धो अग्निराहुतः” इत्याद्या गायत्र्यः, समिध्यमानसमिद्धवत्योर्निधीयमानाः “समास्त्वा ऽग्न ऋतवः”- इत्याद्यास्त्रिष्टुभ इत्यर्थः । मध्ये ह्ययमात्मेति । गायत्रीत्रिष्टुभोः प्राणापानरूपत्वोक्तेः प्राणापानयोरात्मपूर्वपरभागवर्तित्वं प्रसिद्धम्, मध्ये त्रिष्टुभां निधानस्योक्तत्वात् ॥

प्राप्तं गायत्रीसमविभागं वारयन्नाह- भूयसीः पुरस्ताद् गायत्रीरन्वाहेति । “प्र वो वाजा अभिद्यवः”- इत्याद्या एकादश गायत्र्यः प्रथममनुवक्तव्याः, अन्ते च “समिद्धो अग्निराहुतः”- इत्याद्याश्चतस्र इत्यर्थः । प्राणा अपि पुरस्तात् नासापुटयोरधिकं निस्सरन्ति, ब्रह्मरन्ध्रात्त्वल्पमित्यभिप्रायः ॥ २४ ॥

Eggeling
  1. He recites both gāyatrī and trishṭubh verses; for the gāyatrī metre is the vital air, and the trishṭubh is the body (self): by the gāyatrī verses he thus kindles his vital air, and by the trishṭubh ones the body. The trishṭubh verses are in the middle, and the gāyatrī verses on both sides thereof; for this body is in the middle, and the (organs of) the vital airs are on the sides thereof. He pronounces more gāyatrī verses before, and fewer after (the

trishṭubh verses); for there are more (organs of the) vital airs in front, and fewer behind.

२५

विश्वास-प्रस्तुतिः

(त्सो᳘) सो᳘ ऽन्वाह॥
स᳘मास्त्वा ग्न ऽऋत᳘वो व्वर्धयंत्वि᳘ति प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्राग्निः᳘ सम᳘दधात्त᳘मब्रवीद्या म᳘त्सम्मिताः सामिधेन्यस्ता᳘भिर्मा स᳘मिन्त्स्वेति᳘[[!!]]॥

मूलम् - श्रीधरादि

(त्सो᳘) सो᳘ ऽन्वाह॥
स᳘मास्त्वा ग्न ऽऋत᳘वो व्वर्धयंत्वि᳘ति प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्राग्निः᳘ सम᳘दधात्त᳘मब्रवीद्या म᳘त्सम्मिताः सामिधेन्यस्ता᳘भिर्मा स᳘मिन्त्स्वेति᳘[[!!]]॥

मूलम् - Weber

सो᳘ ऽन्वाह॥
स᳘मास्त्वाग्न ऋत᳘वो वर्धयन्त्वि᳘ति प्रजा᳘पतिं वि᳘स्रस्तं य᳘त्राग्निः᳘ सम᳘दधात्त᳘मब्रवीद्या म᳘त्संमिताः सामिधेन्य᳘स्ता᳘भिर्मा स᳘मिन्त्स्वे᳘ति॥

मूलम् - विस्वरम्

सो ऽन्वाह- “समास्त्वा ऽग्न ऽऋतवो वर्द्धयंतु”- इति । प्रजापतिं विस्रस्तं यत्राग्निः समदधात् तमब्रवीत्- या मत्सम्मिताः सामिधेन्यः ताभिर्मा समिन्त्स्वेति ॥ २५ ॥

सायणः

इदानीं मध्ये निधीयमाना ऋचस्तदनुवाचनं विधत्ते सो ऽन्वाह- समास्त्वा ऽग्न ऋतवो वर्द्धयंत्विति । मंत्राणामर्थं विवक्षुस्तेषां प्रजापतिसमिंधनार्थतां दर्शयति- प्रजापतिं विस्रस्तामिति । यदा विस्रस्तं विश्लिष्टांगं प्रजापतिं अग्निः समदधात् संयोजितवान् तमब्रवीत् प्रजापतिरिति शेषः । मत्संमिताः मम पर्याप्ताः याः सामिधेन्यः ताभिः ‘मा’ मां प्रजापतिं समित्न्स्व संदीपयेति । इंधेर्लोटि मध्यमे रूपम् ॥ २५ ॥

Eggeling
  1. He recites (Vāj. S. XXVII, 1), ‘May the months 19, O Agni, may the seasons make thee grow!’ When Agni restored the relaxed Prajāpati, he (Prajāpati) said to him, ‘What kindling-verses there are equal to me (in measure), with them kindle me!’

२६

विश्वास-प्रस्तुतिः

स᳘ ऽएता᳘ ऽअपश्यत्॥
(त्स᳘) स᳘मास्त्वा ऽग्न ऽऋत᳘वो व्वर्द्धयंत्वि᳘ति स᳘माश्च त्वा ऽग्न ऽऋत᳘वश्च व्वर्द्धयंत्वि᳘त्येतत्संवत्सरा ऽऋ᳘षयो या᳘नि सत्ये᳘ति संवत्सरा᳘श्च त्व᳘ ऽर्षयश्च सत्या᳘नि च व्वर्द्धयन्त्वि᳘त्येतत्सं᳘ दिव्ये᳘न दीदिहि रोचनेने᳘त्यसौ वा᳘ ऽआदित्यो᳘ दिव्य᳘ᳫँ᳘ रोचनं ते᳘न सं᳘दीदिही᳘त्येतद्वि᳘श्वा ऽआ᳘भाहि प्रदि᳘शश्च᳘तस्र ऽइ᳘ति स᳘र्व्वा ऽआ᳘भाहि प्रदि᳘शश्च᳘तस्र ऽइ᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

स᳘ ऽएता᳘ ऽअपश्यत्॥
(त्स᳘) स᳘मास्त्वा ऽग्न ऽऋत᳘वो व्वर्द्धयंत्वि᳘ति स᳘माश्च त्वा ऽग्न ऽऋत᳘वश्च व्वर्द्धयंत्वि᳘त्येतत्संवत्सरा ऽऋ᳘षयो या᳘नि सत्ये᳘ति संवत्सरा᳘श्च त्व᳘ ऽर्षयश्च सत्या᳘नि च व्वर्द्धयन्त्वि᳘त्येतत्सं᳘ दिव्ये᳘न दीदिहि रोचनेने᳘त्यसौ वा᳘ ऽआदित्यो᳘ दिव्य᳘ᳫँ᳘ रोचनं ते᳘न सं᳘दीदिही᳘त्येतद्वि᳘श्वा ऽआ᳘भाहि प्रदि᳘शश्च᳘तस्र ऽइ᳘ति स᳘र्व्वा ऽआ᳘भाहि प्रदि᳘शश्च᳘तस्र ऽइ᳘त्येतत्[[!!]]॥

मूलम् - Weber

स᳘ एता᳘ अपश्यत्॥
स᳘मास्त्वाग्न ऋत᳘वो वर्धयन्त्वि᳘ति स᳘माश्च त्वाग्न ऋत᳘वश्च वर्धयन्त्वि᳘त्येतत्संवत्सरा ऋ᳘षयो या᳘नि सत्ये᳘ति संवत्सरा᳘श्च तुअ᳘ ऽर्षयश्च सत्या᳘नि च वर्धयन्त्वि᳘त्येतत्सं᳘ दिव्ये᳘न दीदिहि रोचनेने᳘त्यसौ वा᳘ आदित्यो᳘ दिव्यं᳘ रोचनं ते᳘न सं᳘दीदिही᳘त्येतद्वि᳘श्वा आ᳘भाहि प्रदि᳘शश्च᳘तस्र इ᳘ति स᳘र्वा आ᳘भाहि प्रदि᳘शश्च᳘तस्र इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

स एता अपश्यत्- “समास्त्वा ऽग्न ऋतवो वर्द्धयंत्विति”- समाश्च त्वा ऽग्न ऋतवश्च वर्द्धयंतु- इत्येतत् । “संवत्सरा ऋषयो यानि सत्या”- इति । संवत्सराश्च त्वर्षयश्च सत्यानि च वर्द्धयंतु- इत्येतत् । “सं दिव्येन दीदिहि रोचनेन”- इति । असौ वा आदित्यो दिव्यं रोचनं, तेन संदीदिहीत्येतत् । “विश्वाआभाहि प्रदिशश्चतस्रः”- (वा० सं० २७ । १) इति । सर्वा आभाहि प्रदिशश्चतस्र- इत्येतत् ॥ २६ ॥

सायणः

एवमुक्तो ऽग्निः प्रजापतिसमिंधनार्थं सामिधेनीमंत्रान् दृष्टवानित्याह- स एता अपश्यत्- समास्त्वा ऽग्न ऋतवो वर्द्धयंत्वितीति । इतिशब्दः प्रकारे । एवंप्रकारा नव ऋचो ऽपश्यदित्यर्थः 20 । मंत्रं प्रतिपादमनूद्य व्याचष्टे- समाश्च त्वा ऽग्न ऋतवश्च वर्द्धयंत्वित्येतदिति ॥ २६ ॥

Eggeling
  1. He (Agni) saw these (verses), ‘May the months, O Agni, may the seasons make thee grow!’ that is, ‘May both the months, O Agni, and the seasons make thee grow!’–‘The years, the R̥shis, whatsoever truths’ that is, ‘May the years, and the R̥shis, and the truths make thee grow!’–‘With heavenly brightness do thou shine!’–the heavenly brightness doubtless is yonder sun: thus ’together with that do thou shine!’–’lighten up the whole four regions!’ that is, ’lighten up all the four regions!’

२७

विश्वास-प्रस्तुतिः

(त्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मेवाभि[[!!]] य᳘थैत᳘मेव᳘ संस्कुर्या᳘देत᳘ᳫ᳘ संदध्या᳘देतं᳘ जन᳘येत्ता᳘ ऽआग्ने᳘य्यः[[!!]] प्राजापत्या य᳘दग्निर᳘पश्यत्ते᳘नाग्नेय्यो[[!!]] य᳘त्प्रजा᳘पतिᳫ᳭ समै᳘न्द्ध ते᳘न प्राजापत्याः[[!!]]॥

मूलम् - श्रीधरादि

(त्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मेवाभि[[!!]] य᳘थैत᳘मेव᳘ संस्कुर्या᳘देत᳘ᳫ᳘ संदध्या᳘देतं᳘ जन᳘येत्ता᳘ ऽआग्ने᳘य्यः[[!!]] प्राजापत्या य᳘दग्निर᳘पश्यत्ते᳘नाग्नेय्यो[[!!]] य᳘त्प्रजा᳘पतिᳫ᳭ समै᳘न्द्ध ते᳘न प्राजापत्याः[[!!]]॥

मूलम् - Weber

ता᳘ एता ए᳘कव्याख्यानाः॥
एत᳘मेॗवाभि य᳘थैत᳘मेव᳘ संस्कुर्या᳘देत᳘ᳫं᳘ संदध्या᳘देतं᳘ जन᳘येत्ता᳘ आग्नेय्यः᳘ प्राजापत्या य᳘दग्निर᳘पश्यत्ते᳘नाग्नेॗय्यो य᳘त्प्रजा᳘पतिᳫं सतै᳘न्द्ध ते᳘न प्राजापत्याः᳟॥

मूलम् - विस्वरम्

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव संस्कुर्यात् । एतं संदध्यात् । एतं जनयेत् । ता आग्नेय्यः प्राजापत्याः । यदग्निरपश्यत् । तेनाग्नेय्यः । यत्प्रजापतिं समैन्द्ध । तेन प्राजापत्याः ॥ २७ ॥

सायणः

मंत्रस्यायमर्थः । अत्राग्निपदेन प्रजापतिरुच्यते- “ततो वै प्रजापतिरग्निरभवत्” इति प्रागाम्नानात् । उत्तरत्र तासां नवानामग्निरेव द्रष्टा प्रजापतिर्देवतेति वक्ष्यति । अतो ऽपि अग्निपदेन प्रजापतिरेव संबोध्यः । हे अग्ने संवत्सरात्मक प्रजापते ! त्वा त्वां विस्रस्तम् ऋतवः वसंताद्याः प्रजापतेः संवत्सरात्मकत्वात् तदवयवा ऋतवः समाः संवत्सराः च वर्द्धयंतु । ऋषयः ऋषिपदेन प्राणा उच्यंते- “के त ऋषयः प्राणा वा ऋषयः” (श. प. ६ । १ । १ । १) इति श्रुतेः । यानि सत्या सत्कर्माणि । तानि च त्वा वर्द्धयंतु । अतः अवयववृद्धेः दिव्येन द्युलोकभवेन आदित्येन संदीदिहि संदीप्तो भव । दीदीयतिर्दीप्तिकर्मा इति यास्कः । (निघं. १ । १६ । ५ । निरु. १० । १ । ६) दीव्यतेर्वा यङ्लुकि लोटि सेर्हौ “लोपो व्योर्वलि” (पा. सू. ६ । १ । ६) इति लोपे अभ्यासदीर्घे कृते रूपम् । विश्वाः सर्वाश्चतस्रः प्रदिशश्च अभिलक्ष्य आभाहि । “मा दीप्तौ” (धा. पा. अ. प. ४१) । माहि अत्रांतर्णीतण्यर्थे । दीपयेति ॥

नवानामपि ऋचामेकाभिधेयतां दर्शयति- ता एता एकव्याख्याना इति । ताः सामिधेनीमध्ये निधीयमानत्वेनोक्ता ‘एताः’ इदानीं प्रदर्शिता ऋचः ‘एकव्याख्यानाः’ एकार्था इत्यर्थः । तमेवार्थं दर्शयति- एतमेवाभीति । ‘यथा’ येन प्रकारेण अग्निः ‘एतमेव’ प्रजापतिं ‘संस्कुर्यात्,’ ‘एतं’ विस्रस्तं ‘सन्दध्यात्’ संयोजयेत्, तथा ‘एतं’ ‘जनयेत्’ उत्पादयेत् । एवमर्थवत्वेन व्याख्यासाम्यमिति तात्पर्यम् । तासामग्न्यार्षेयत्वं प्रजापतिदेवत्यत्वं च दर्शयति- यदग्निरपश्यदिति । ‘समैन्द्ध’- इति लङि “आडजादीनाम्”- (पा. सू. ६ । ४ । ७२) इत्याडागमः ॥ २७॥

Eggeling
  1. These (verses) have one and the same explanation regarding him (Agni-Prajāpati): how one would make him complete, how he would restore and produce him. They relate to Agni and Prajāpati: to Agni, inasmuch as Agni saw (them); to Prajāpati, inasmuch as he (Agni) kindled Prajāpati.

२८

विश्वास-प्रस्तुतिः

(०) द्वा᳘दशा᳘प्रियः॥
(यो) द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदा᳘प्रीणाति॥

मूलम् - श्रीधरादि

(०) द्वा᳘दशा᳘प्रियः॥
(यो) द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदा᳘प्रीणाति॥

मूलम् - Weber

द्वा᳘दशा᳘प्रियः॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदा᳘प्रीणाति॥

मूलम् - विस्वरम्

द्वादशाप्रियः । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निः । यावत्यस्य मात्रा । तावतैवैनमेतदाप्रीणाति ॥ २८ ॥

सायणः

कात्यायनः- “आप्रियो द्वादशोर्द्ध्वा अस्येति”- (का. श्रौ. सू. १६ । १२ ।) तद् दादशसङ्ख्याः प्रयाजयाज्या विधत्ते- द्वादशाप्रिय इति । तनूनपान्नराशंसयोरुभयोः साहित्ये द्वादशत्वम् । आप्रीगतां सङ्ख्यां संवत्सरात्मना प्रशंसति- द्वादश मासाः संवत्सर इति । संवत्सरे जातत्वादग्नेस्तदात्मकत्वम् । यावानग्निरिति । अवयविपरिमाणवचनम् । यावत्यस्य मात्रेति । अवयवपरिमाणवचनम् । ‘तावता’ तत्परिमाणैरवयवैर्मासात्मभिः ‘एनम्’ अग्निम् आप्रीतवान् भवति । संवत्सरस्य मासा अवयवाः; तदात्मकस्याग्नेरपि प्रयाजयाज्या अवयवाः; अनेन स्वैरेवावयवैरग्निराप्रीतवान् भवतीत्यर्थः ॥ २८ ॥

Eggeling
  1. Twelve Āprī (propitiatory) verses 21 there are,–twelve months are a year, and the year is Agni: as great as Agni is, as great as is his measure, with so much he thus propitiates (or gratifies) him.

२९

विश्वास-प्रस्तुतिः

य᳘द्वेव द्वा᳘दश॥
द्वा᳘दशाक्षरा वै ज᳘गतीयं वै ज᳘गत्यस्या᳘ᳫ᳘ हीदᳫ᳭ स᳘र्व्वं ज᳘गदिय᳘मु वा᳘ ऽअग्नि᳘रस्यै हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदा᳘प्रीणाति॥

मूलम् - श्रीधरादि

य᳘द्वेव द्वा᳘दश॥
द्वा᳘दशाक्षरा वै ज᳘गतीयं वै ज᳘गत्यस्या᳘ᳫ᳘ हीदᳫ᳭ स᳘र्व्वं ज᳘गदिय᳘मु वा᳘ ऽअग्नि᳘रस्यै हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदा᳘प्रीणाति॥

मूलम् - Weber

य᳘द्वेव द्वा᳘दश॥
द्वा᳘दशाक्षरा वै ज᳘गतीयं वै ज᳘गत्यस्याॗᳫंॗ हीदᳫं स᳘र्वं ज᳘गदिय᳘मु वा᳘ अग्नि᳘रस्यै हि स᳘र्वो ऽग्नि᳘श्चीय᳘ते या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदा᳘प्रीणाति॥

मूलम् - विस्वरम्

यद्वेव द्वादश । द्वादशाक्षरा वै जगती । इयं वै जगती । अस्यां हीदं सर्वं जगत् । इयमु वा अग्निः । अस्यै हि सर्वो ऽग्निश्चीयते । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदाप्रीणाति ॥ २९ ॥

सायणः

द्वादशसङ्ख्यामेव द्वादशाक्षरजगत्यात्मना स्तौति- यद्वेव द्वादशेति । ‘इयं वै जगती’ पार्थिवान्नपूरितप्रजापतिमध्यशरीरादुत्पत्तेर्जगत्या भूमिरूपत्वम् । ‘अस्यां’ भूमौ ‘सर्वं’ जगत् स्थावरजङ्गमात्मकं तिष्ठति । इयमु वा अग्निरिति । भूमावधिकरणे सर्वेषामग्नीनां चयनादाधाराधेययोरभेदेन अग्नेर्भूमिरूपत्वम् । तावतैवेति । तावत्सङ्ख्याकैर्जगत्यक्षरात्मकैरवयवैराप्रीतवान् भवतीति ॥ २९ ॥

Eggeling
  1. And, again, why there are twelve,–of twelve syllables consists the Jagatī, and the Jagatī is this earth, for on her there is everything that moves (jag-at) here. And Agni also is this earth, for it is out of her that the whole fire (altar) is built up: as great as Agni is, as great as is his measure, by so much he thus propitiates him.

३०

विश्वास-प्रस्तुतिः

य᳘द्वेव द्वा᳘दश॥
द्वा᳘दशाक्षरा वै ज᳘गती ज᳘गती स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदा᳘प्रीणाति॥

मूलम् - श्रीधरादि

य᳘द्वेव द्वा᳘दश॥
द्वा᳘दशाक्षरा वै ज᳘गती ज᳘गती स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदा᳘प्रीणाति॥

मूलम् - Weber

य᳘द्वेव द्वा᳘दश॥
द्वा᳘दशाक्षरा वै ज᳘गती ज᳘गती स᳘र्वाणि छ᳘न्दांसि स᳘र्वाणि छ᳘न्दांसि प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदा᳘प्रीणाति॥

मूलम् - विस्वरम्

यद्वेव द्वादश । द्वादशाक्षरा वै जगती। जगती सर्वाणि छन्दांसि । सर्वाणि छन्दांसि प्रजापतिः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदाप्रीणाति ॥ ३० ॥

सायणः

यद्वेव द्वादशेति । तामेव सङ्ख्यां सर्वच्छन्दोरूपजगत्यात्मना प्रशंसति- जगती सर्वाणि छन्दांसीति । जगत्यां सर्वेषां गायत्र्यादीनां छन्दसामन्तर्भावात् अधिकाक्षरत्वात् । तावतैवेति । तावत्संख्याकैश्छन्दोरूपैर्जगत्यक्षरैरेव अग्निं प्रीणितवानिति ॥ ३० ॥

Eggeling
  1. And, again, why there are twelve,–of twelve syllables consists the Jagatī, and the Jagatī is all the metres, and all the metres are Prajāpati (the sacrifice), and Prajāpati is Agni: as great as Agni is, as great as is his measure, by so much he thus propitiates him.

३१

विश्वास-प्रस्तुतिः

ता᳘ ऽएता᳘ ऽऊर्द्ध्वा᳘ ऽअस्य समि᳘धो भवन्ती᳘ति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्राग्निः᳘ सम᳘दधात्त᳘मब्रवीद्या म᳘त्संमिता ऽआ᳘प्रियस्ता᳘भिर्मा᳘ ऽऽप्रीणीही᳘ति॥

मूलम् - श्रीधरादि

ता᳘ ऽएता᳘ ऽऊर्द्ध्वा᳘ ऽअस्य समि᳘धो भवन्ती᳘ति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं य᳘त्राग्निः᳘ सम᳘दधात्त᳘मब्रवीद्या म᳘त्संमिता ऽआ᳘प्रियस्ता᳘भिर्मा᳘ ऽऽप्रीणीही᳘ति॥

मूलम् - Weber

ता᳘ एता᳘ ऊर्ध्वा᳘ अस्य समि᳘धो भवन्ती᳘ति॥
प्रजापतिं वि᳘स्रस्तं य᳘त्राग्नः᳘ सम᳘दधात्त᳘मब्रवीद्या म᳘त्सम्मिता आ᳘प्रियस्ता᳘भिर्मा᳘प्रीणीही᳘ति॥

मूलम् - विस्वरम्

ता ता ऊर्ध्वा अस्य समिधो भवन्तीति । प्रजापतिं विस्रस्तं यत्राग्निः समदधात्- तमब्रवीत्- या मत्सम्मिता आप्रियः- ताभिर्मा ऽऽप्रीणीहीति ॥ ३१ ॥

सायणः

तानाप्रीमन्त्रान् दर्शयति- ता एता ऊर्द्ध्वा अस्य समिधो भवन्तीति । एतासामृचामर्थं विवक्षुः प्रजापत्याप्रीणनार्थतां दर्शयति- प्रजापतिं विस्रस्तमिति ॥ ३१ ॥

Eggeling
  1. Those ‘kindling-sticks of his (Agni) are upright.’ When Agni restored the relaxed Prajāpati, he said to him, ‘What Āprī-verses there are equal to me, with them propitiate me!’

३२

विश्वास-प्रस्तुतिः

स᳘ ऽएता᳘ ऽअपश्यत्॥
(दू) ऊर्ध्वा᳘ ऽअस्य समि᳘धो भवन्ती᳘त्यूर्ध्वा᳘ ह्येत᳘स्य स᳘मिद्धस्य समि᳘धो भ᳘वन्त्यूर्ध्वा᳘ शुक्रा᳘ शोची᳘ᳫँ᳘ष्यग्नेरि᳘त्यूर्ध्वा᳘नि᳘ ह्येत᳘स्य शुक्रा᳘णि शोची᳘ᳫँ᳘ष्यर्ची᳘ᳫँ᳘षि भ᳘वन्ति द्युम᳘त्तमे᳘ति व्वीर्य᳘वत्तमे᳘त्येत᳘त्सुप्र᳘तीकस्ये᳘ति सर्व्व᳘तो वा᳘ ऽअग्निः᳘ सुप्र᳘तीकः सूनोरि᳘ति य᳘देनं जन᳘यति ते᳘नास्यैष᳘ सूनुः[[!!]]॥

मूलम् - श्रीधरादि

स᳘ ऽएता᳘ ऽअपश्यत्॥
(दू) ऊर्ध्वा᳘ ऽअस्य समि᳘धो भवन्ती᳘त्यूर्ध्वा᳘ ह्येत᳘स्य स᳘मिद्धस्य समि᳘धो भ᳘वन्त्यूर्ध्वा᳘ शुक्रा᳘ शोची᳘ᳫँ᳘ष्यग्नेरि᳘त्यूर्ध्वा᳘नि᳘ ह्येत᳘स्य शुक्रा᳘णि शोची᳘ᳫँ᳘ष्यर्ची᳘ᳫँ᳘षि भ᳘वन्ति द्युम᳘त्तमे᳘ति व्वीर्य᳘वत्तमे᳘त्येत᳘त्सुप्र᳘तीकस्ये᳘ति सर्व्व᳘तो वा᳘ ऽअग्निः᳘ सुप्र᳘तीकः सूनोरि᳘ति य᳘देनं जन᳘यति ते᳘नास्यैष᳘ सूनुः[[!!]]॥

मूलम् - Weber

स᳘ एता᳘ अषश्यत्॥
ऊर्ध्वा᳘ अस्य समि᳘धो भवन्ती᳘त्यूर्ध्वाॗ ह्येत᳘स्य स᳘मिद्धस्य समि᳘धो भ᳘वन्त्यूर्ध्वा᳘ शुक्रा᳘ शोचीं᳘ष्यग्नेरि᳘त्यूर्ध्वा᳘निॗ ह्येत᳘स्य शुक्रा᳘णि शोचीं᳘ष्यर्चीं᳘षि भ᳘वन्ति द्युम᳘त्तमे᳘ति वीर्य᳘वत्तमे᳘त्येत᳘त्सुप्र᳘तीकस्ये᳘ति सर्व᳘तो वा᳘ अग्निः᳘ सुप्र᳘तीकः सूनोरि᳘ति य᳘देनं जन᳘यति ते᳘नास्यैष᳘ सूनुः᳟॥

मूलम् - विस्वरम्

स एता अपश्यत्- “ऊर्ध्वा अस्य समिधो भवन्ति”- इति । ऊर्ध्वा ह्येतस्य समिद्धस्य समिधो भवन्ति । “ऊर्ध्वा शुक्रा शोचींष्यग्नेः”- इति । ऊर्ध्वानि ह्येतस्य शुक्राणि शोचींष्यचींषि भवन्ति । “द्युमत्तमा"- इति । वीर्यवत्तमेत्येतत् “सुप्रतीकस्य”- इति । सर्वतो वा ऽअग्निः सुप्रतीकः । “सूनोः”- (वा० सं २७ । ११)- इति । यदेनं जनयति- तेनास्यैष सूनुः ॥ ३२ ॥

सायणः

प्रजापतिना स्वप्रीणनार्थमभ्यर्थितो ऽग्निराप्रीमन्त्रान् दृष्टवानित्याह- स एता अपश्यदूर्ध्वा अस्य समिधो भवन्तीतीति । ‘इति’- शब्दः प्रभृतौ; एतदाद्या द्वादश ऋचो दृष्टवान् । प्रथममन्त्रस्यायमर्थः,- अत्रापि अग्निरूपः प्रजापतिरेव सम्बोध्यः; पूर्वं “ताभिर्मा ऽऽप्रीणीहि”- इति प्रजापतिप्रार्थनस्योक्तत्वात् । ‘अस्य’ समिद्धस्य अग्नेः ‘शुक्रा’ शोचमानानि ‘शोचींषि’ तेजांसि, ‘ऊर्द्ध्वा’ ऊर्द्ध्वानि भवन्ति, ‘द्युमत्तमा’ नेर्लोपः, वीर्यवत्तमानि । अग्निं विशिनष्टि- ‘सुप्रतीकस्य’ शोभनावयवस्य प्रजापतेः ‘सूनोः’ अग्निपुत्रस्य । अग्निना प्रजापतेर्विस्रस्तसन्धानोक्तेस्तत्पुत्रत्वम् । प्रतिपादमनूद्य व्याचष्टे- ऊर्द्ध्वा ह्येतस्य समिद्धस्येति ॥ ३२ ॥

Eggeling
  1. He saw these (verses) 22:–‘Upright are his kindling-sticks,’ for upright indeed are the kindling-sticks of him when kindled;–‘upwards tending the bright flashes of Agni,’ for tending upwards are his bright flashes, his flames;–’they, the most brilliant,’ that is ’the most powerful;’–‘of the fair-looking son,’ for fair-looking indeed Agni is on all sides; and inasmuch as he (the Sacrificer) produces him thereby he (Agni) is his son.

३३

विश्वास-प्रस्तुतिः

(स्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मे᳘वाभि य᳘थैत᳘मेव᳘ संस्कुर्या᳘देत᳘ᳫँ᳘ संदध्या᳘देतं᳘ जन᳘येत्ता᳘ ऽआग्ने᳘य्यः[[!!]] प्राजापत्या य᳘दग्निर᳘पश्यत्ते᳘नाग्ने᳘य्यो य᳘त्प्रजा᳘पतिमा᳘प्रीणात्ते᳘न प्राजापत्याः[[!!]]॥

मूलम् - श्रीधरादि

(स्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मे᳘वाभि य᳘थैत᳘मेव᳘ संस्कुर्या᳘देत᳘ᳫँ᳘ संदध्या᳘देतं᳘ जन᳘येत्ता᳘ ऽआग्ने᳘य्यः[[!!]] प्राजापत्या य᳘दग्निर᳘पश्यत्ते᳘नाग्ने᳘य्यो य᳘त्प्रजा᳘पतिमा᳘प्रीणात्ते᳘न प्राजापत्याः[[!!]]॥

मूलम् - Weber

ता᳘ एता ए᳘कव्याख्यानाः॥
एत᳘मेॗवाभि य᳘थैत᳘मेव᳘ संस्कुर्या᳘देत᳘ᳫं᳘ संदध्या᳘देतं᳘ जन᳘येत्ता᳘ आग्नेय्यः᳘ प्राजापत्या य᳘दग्निर᳘पश्यत्ते᳘नाग्नेॗय्यो य᳘त्प्रजा᳘पतिमा᳘प्रीणात्ते᳘न प्राजापत्याः᳟॥

मूलम् - विस्वरम्

ता एता एकव्याख्यानाः एतमेवाभि । यथैतमेव संस्कुर्यात्, एतं सन्दध्यात्, एतं जनयेत् । ता आग्नेय्यः, प्राजापत्याः । यद् अग्निरपश्यत् । तेनाग्नेय्यः । यत्प्रजापतिमाप्रीणात्- तेन प्राजापत्याः ॥ ३३ ॥

सायणः

एतेषामाप्रीमन्त्राणामेकाभिधेयतां दर्शयति- ता एता एकव्याख्याना एतमेवाभीति । “समास्त्वा ऽग्न ऋतवः” इत्यत्रोक्तब्राह्मणवाक्यवद् 23 व्याख्येयम् । एतेषामपि पूर्ववदेवाग्निप्रजापतिसम्बन्धं दर्शयति- ता आग्नेय्य इति ॥ ३३ ॥

Eggeling
  1. These (verses) have one and the same explanation regarding him (Agni-Prajāpati): how one would make him complete, how he would restore and produce him. They relate to Agni and Prajāpati,–to Agni, inasmuch as Agni saw (them); to Prajāpati, inasmuch as he (Agni) propitiated Prajāpati.

३४

विश्वास-प्रस्तुतिः

(स्ता) ता व्वि᳘षमा व्वि᳘षमपदाः॥
(०) व्वि᳘षमाक्षरा व्वि᳘षमाणि हि च्छ᳘न्दाᳫँ᳭स्य᳘थो या᳘न्यस्याध्यात्मम᳘ङ्गानि व्वि᳘षमाणि ता᳘न्यस्यैता᳘भिरा᳘प्रीणाति॥

मूलम् - श्रीधरादि

(स्ता) ता व्वि᳘षमा व्वि᳘षमपदाः॥
(०) व्वि᳘षमाक्षरा व्वि᳘षमाणि हि च्छ᳘न्दाᳫँ᳭स्य᳘थो या᳘न्यस्याध्यात्मम᳘ङ्गानि व्वि᳘षमाणि ता᳘न्यस्यैता᳘भिरा᳘प्रीणाति॥

मूलम् - Weber

ता वि᳘षमा वि᳘षमपदाः॥
वि᳘षमाक्षरा वि᳘षमाणि हि छ᳘न्दांस्य᳘थो या᳘न्यस्याध्यात्मम᳘ङ्गानि वि᳘षमाणि ता᳘न्यस्यैता᳘भिरा᳘प्रीणाति॥

मूलम् - विस्वरम्

ता विषमा विषमपदा विषमाक्षराः । विषमाणि हि छन्दांसि । अथो यान्यस्याध्यात्ममङ्गानि- विषमाणि तान्यस्यैताभिराप्रीणाति ॥ ३४ ॥

सायणः

ता विषमा विषमपदा इति । ‘ताः’ प्रयाजयाज्या ‘विषमाः’ । वैषम्यमेव दर्शयति- ‘विषमपदाः’ पादैर्विषमाः, काश्चन त्रिपदाः काश्चन चतुष्पदाः, अत एव ‘विषमाक्षराः’ अक्षरैरपि विषमाः, न्यूनाधिकाक्षरैर्युक्ताः; अत एव ‘छन्दांसि विषमाणि’ काश्चन त्रिष्टुभः, काश्चन गायत्र्यः, काश्चन उष्णिहः । अथो यान्यस्याध्यात्ममिति । ‘अस्य’ अग्नेः ‘अङ्गानि’ अपि ‘विषमाणि’ न्यूनाधिकपरिमाणानि अत एव विषमाभिराप्रीभिः प्रजापतेर्विषमाणि अङ्गानि प्रीणितवान् भवतीत्यर्थः ॥ ३४ ॥

Eggeling
  1. They are unequal, and consist of unequal feet, and unequal syllables; for the metres are unequal: whatever unequal limbs there are at his (Agni’s) body, those (limbs) of his he propitiates by these (verses).

३५

विश्वास-प्रस्तुतिः

व्वैश्वानरः᳘ पशुपुरोडाशः᳘॥
(शो᳘) व्वैश्वानरो वै स᳘र्व्वे ऽग्न᳘यः स᳘र्व्वेषामग्नी᳘नामुपाप्त्यै[[!!]]॥

मूलम् - श्रीधरादि

व्वैश्वानरः᳘ पशुपुरोडाशः᳘॥
(शो᳘) व्वैश्वानरो वै स᳘र्व्वे ऽग्न᳘यः स᳘र्व्वेषामग्नी᳘नामुपाप्त्यै[[!!]]॥

मूलम् - Weber

वैश्वानरः᳘ पशुपुरोडाशः᳟॥
वैश्वानरो वै स᳘र्वे ऽग्न᳘यः स᳘र्वेषामग्नी᳘नामु᳘पाप्त्यै॥

मूलम् - विस्वरम्

वैश्वानरः पशुपुरोडाशः । वैश्वानरो वै सर्वे ऽग्नयः । सर्वेषामग्नीनामुपाप्त्यै ॥ ३५ ॥

सायणः

अथ प्रागुक्तान् पुरुषादीन् पञ्च पशूननुलक्ष्य निर्वापणीयं पशुपुरोडाशं सदेवताकं विधत्ते- वैश्वानरः पशुपुरोडाश इति । विश्वानरहितत्वात् सर्वाग्निरूपता तस्य ॥ ३५ ॥

Eggeling
  1. The animal cake belongs to (Agni) Vaiśvānara–Vaiśvānara being all the fires–for the obtainment of all the fires.

३६

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वैश्वानरः᳘॥
(ऽ) ऋत᳘वो हैते य᳘देताश्चि᳘तयो ऽग्न᳘यो वा᳘ ऽऋत᳘व ऽऋत᳘वः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानरो य᳘दग्न᳘य ऽइ᳘ति स्याद᳘ति त᳘द्रेचयेद् द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानर᳘ ऽआग्ने᳘य्यो याज्या ऽनुवा᳘क्या ऽअग्निरूपा᳘णामु᳘पात्यै का᳘मवत्यः का᳘मानामु᳘पाप्त्यै॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वैश्वानरः᳘॥
(ऽ) ऋत᳘वो हैते य᳘देताश्चि᳘तयो ऽग्न᳘यो वा᳘ ऽऋत᳘व ऽऋत᳘वः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानरो य᳘दग्न᳘य ऽइ᳘ति स्याद᳘ति त᳘द्रेचयेद् द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानर᳘ ऽआग्ने᳘य्यो याज्या ऽनुवा᳘क्या ऽअग्निरूपा᳘णामु᳘पात्यै का᳘मवत्यः का᳘मानामु᳘पाप्त्यै॥

मूलम् - Weber

य᳘द्वेव᳘ वैश्वानरः᳟॥
ऋत᳘वो हैते य᳘देताश्चि᳘तयो ऽग्न᳘यो वा᳘ ऋत᳘व ऋत᳘वः संवत्सरः᳘ संवत्सरो᳘ वैश्वानरो य᳘दग्न᳘य इ᳘ति स्याद᳘ति तद्रेचयेद्द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सरो᳘ वैश्वानर᳘ आग्नेॗय्यो याज्यानुवाॗक्या अग्निरूपा᳘णामु᳘पात्यै का᳘मवत्यः का᳘मानामुपात्यै॥

मूलम् - विस्वरम्

यद्वेव वैश्वानरः ऋतवो हैते- यदेताश्चितयः । अग्नयो वा ऽऋतवः । ऋतवः सम्वत्सरः । सम्वत्सरो वैश्वानरः । यदग्नय इति स्यात्- अति तद्रेचयेत् । द्वादशकपालः । द्वादश मासाः सम्वत्सरः । सम्वत्सरो वैश्वानरः । आग्नेय्यो याज्यानुवाक्याः । अग्निरूपाणामुपाप्त्यै । कामवत्यः । कामानामुपाप्त्यै ॥ ३६ ॥

सायणः

यद्वेव वैश्वानर इति । सर्वचितीनाममृतात्मकत्वोक्तेरग्नीनामृतुत्वमुक्तमित्याह- अग्नयो वा ऋतव इति । वैश्वानरः पशुपुरोडाश इत्यत्र साक्षादग्निसम्बन्धो न प्रतीयत इति मत्वा केचित् अग्नये वैश्वानराय पशुपुरोडाश इत्यग्निसम्बन्धद्योतनार्थमिदं प्रक्षिपन्ति तदतिरेकेण दूषयति- यदग्नय इति स्यादति तद्रेचयेदिति । तस्य पुरोडाशस्य द्वादशकपालसंस्कृतत्वं विधत्ते- द्वादशकपाल 24 इति । अथात्र वपापुरोडाशहविषामग्निदेवत्याः कामपदयुक्ता याज्यानुवाक्या विधत्ते- आग्नेय्यो याज्यानुवाक्या इति ॥ ३६ ॥

Eggeling
  1. As to why it belongs to Vaiśvānara;–those layers (of the altar) no doubt are the seasons, for the seasons are the fires; and the seasons are the year, and the year is Vaiśvānara (belonging to all men). Were it (offered) to Agni (Vaiśvānara), he would cause it (the formula) to be redundant. It is one on twelve potsherds: twelve months are a year, and the year is Vaiśvānara. The offering and invitatory formulas relate to Agni, for the obtainment of Agni’s forms. They contain the word ‘kāma’ (desire), for the obtainment of his desires.

३७

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
(क ऽ) इ᳘त्ये᳘वैता᳘नि पशुशीर्षा᳘णि वित्त्वो᳘पदधत्युभ᳘येनैते᳘ पश᳘व ऽइ᳘ति ते᳘ ह ते म᳘र्त्याः कुण᳘पाः स᳘म्भवन्त्य᳘नाप्रीतानि हि ता᳘नि त᳘द्ध तथा᳘ ऽऽषाढेः सौश्रोमतेयस्यो᳘पदधुः स᳘ ह क्षिप्र᳘ ऽएव त᳘तो ममार॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
(क ऽ) इ᳘त्ये᳘वैता᳘नि पशुशीर्षा᳘णि वित्त्वो᳘पदधत्युभ᳘येनैते᳘ पश᳘व ऽइ᳘ति ते᳘ ह ते म᳘र्त्याः कुण᳘पाः स᳘म्भवन्त्य᳘नाप्रीतानि हि ता᳘नि त᳘द्ध तथा᳘ ऽऽषाढेः सौश्रोमतेयस्यो᳘पदधुः स᳘ ह क्षिप्र᳘ ऽएव त᳘तो ममार॥

मूलम् - Weber

तद्धै᳘के॥
इ᳘त्येॗवैता᳘नि पशुषीर्षा᳘णि वित्त्वो᳘पदधत्युभ᳘येनैते᳘ पश᳘व इ᳘ति ते᳘ ह ते म᳘र्त्याः कुण᳘पाः स᳘म्भवन्त्य᳘नाप्रीतानि हि ता᳘नि त᳘द्ध तथा᳘षाढेः सौश्रोमतेयस्यो᳘पदधुः स᳘ ह क्षिप्र᳘ एव त᳘तो ममार॥

मूलम् - विस्वरम्

तद्धैके- इत्येवैतानि पशुशीर्षाणि वित्त्वोपदधति । उभयेनैते पशव इति । ते ह ते मर्त्याः कुणपाः सम्भवन्ति । अनाप्रीतानि हि तानि । तद्ध तथा ऽऽषाढेः सौश्रोमतेयस्योपदधुः । स ह क्षिप्र ऽएव ततो ममार ॥ ३७ ॥

सायणः

अत्र कात्यायनः- “त्वङ्मस्तिष्कोद्धृतानि घृताक्तानि शिरांसि निदधाति, सकलानि वा, अन्यानि वा हिरण्मयानि वा मृन्मयानि वा ऽनालभ्यैतान्”- (का. श्रौ. सू. १६ । ३०-३२) इति । त्वगेव त्वक्, मस्तिष्कशब्देन शिरःकपालगता मज्जा ऽभिधीयते, ते उद्धृत्य घृतसिक्तानि उक्तपुरुषादिपञ्चपशुशिरांसि; निदधाति ‘सकलानि’ त्वङ्मस्तिष्कसहितानि ‘वा’ दध्यात्; अथवा उक्तानुक्तान् पुरुषादिपशूननालभ्य सञ्ज्ञपनमकृत्वेत्यर्थः; ‘अन्यानि’ सञ्ज्ञपनहतानि पञ्च पशुशीर्षाणि दध्यात्; अथ वा तत्प्रतिनिधित्वेन ‘हिरण्मयानि’ सुवर्णनिर्मितानि, ‘मृन्मयानि’ वा गृह्णीयात् इति विकल्पत्रयमिति सूत्रार्थः ।

तत्र आलम्भपक्ष एव मुख्य इति सिद्धान्तयितुं तान् पक्षान् सदोषान् कृत्वोपन्यस्यति- तद्धैक इत्येवैतानि पशुशीर्षाणि चित्वोपदधतीत्यादिना । ‘इत्येव’ वक्ष्यमाणप्रकारेण ‘वित्त्वा’ विदेर्लाभार्थस्य क्त्वाप्रत्यये रूपम्, लब्ध्वा, सम्पाद्येत्यर्थः । ‘उभयेन’ लाभालम्भाभ्याम् ‘एते’ ‘पशवो’ भवन्ति ‘इति’ वदन्तः ‘एके’ इति समन्वयः । प्रयाजैरसंस्कृतत्वात् ‘तानि’ शिरांशि ‘अनाप्रीतानि’ जातानीत्यर्थः ॥

एतैरेवोपधाने इष्टानिष्टे दर्शयति- तद्ध तथा ऽऽषाढेरिति । ‘सौश्रोमतेयस्य’ सुश्रोमती नाम काचन मुनिपत्नी, तस्या अपत्यमाषाढिर्नाम ऋषिः, तस्य । तथा सञ्ज्ञपनहतानि शिरांसि ‘उपदधुः,’ ‘ततः’ तदनन्तरं ‘सः’ आषाढिः ‘क्षिप्र एव’ काले मृतवान् ॥ ३७ ॥

Eggeling
  1. Now some, having in that way 25 obtained those heads, put them on (the fire-altar), thinking, ‘Either way 26 are they animals.’ But they (who do this) become mortal carcases, for unpropitiated are

those (heads) of theirs. In this way, indeed, they did put them on for Ashāḍḥi Sauśromateya 27; but quickly indeed he died after that.

३८

विश्वास-प्रस्तुतिः

हिरण्म᳘यान्यु है᳘के कुर्व्वन्ति॥
(न्त्य) अमृतेष्टका ऽइ᳘ति व्व᳘दन्तस्ता᳘ ह ता᳘ ऽअमृतेष्टका न हि ता᳘नि पशुशीर्षा᳘णि॥

मूलम् - श्रीधरादि

हिरण्म᳘यान्यु है᳘के कुर्व्वन्ति॥
(न्त्य) अमृतेष्टका ऽइ᳘ति व्व᳘दन्तस्ता᳘ ह ता᳘ ऽअमृतेष्टका न हि ता᳘नि पशुशीर्षा᳘णि॥

मूलम् - Weber

हिरण्म᳘यान्यु है᳘के कुर्वन्ति॥
अमृतेष्टका इ᳘ति व᳘दन्तस्ता᳘ ह ता᳘ अनृतेष्टका न हि ता᳘नि पशुशीर्षा᳘णि॥

मूलम् - विस्वरम्

हिरण्मयान्यु हैके कुर्वन्ति- अमृतेष्टका इति वदन्तः । ता ह ता अमृतेष्टकाः । न हि तानि पशुशीर्षाणि ॥ ३८ ॥

सायणः

कुणपमर्त्त्यत्वदोषपरिहाराय हिरण्मयशीर्षोपधानं केचिद्वदन्तीत्याह- हिरण्मयान्यु हैके कुर्वन्तीति । यद्यपि ‘अमृतेष्टकाः,’ तथापि ‘न पशुशीर्षाणि’ इति न तैरुपधानं युक्तमित्यर्थः ॥ ३८ ॥

Eggeling
  1. Some, however, make gold ones, saying, ‘They are immortal bricks (amr̥teshṭakā).’ But indeed those are false bricks (anr̥teshṭakā), those are no heads of victims.

३९

विश्वास-प्रस्तुतिः

मृन्म᳘यान्यु है᳘के कुर्व्वन्ति॥
(न्त्यु᳘) उ᳘त्सन्ना वा᳘ ऽएते᳘ पशवो[[!!]] यद्वै किंचो᳘त्सन्नमियं त᳘स्य स᳘र्व्वस्य प्रतिष्ठा तद्य᳘त्रैते᳘ पश᳘वो गतास्त᳘त ऽएनान᳘धि स᳘म्भराम ऽइ᳘ति न त᳘था कुर्याद्यो वा᳘ ऽएते᳘षामावृ᳘तं च ब्रा᳘ह्मणं च न᳘ ऽविद्यात्त᳘स्यैत ऽउ᳘त्सन्नाः स्युः स᳘ ऽएता᳘नेव प᳘ञ्च पशूना᳘लभेत या᳘वदस्य व्व᳘शः स्यात्ता᳘न्हैता᳘न्प्रजा᳘पतिः प्रथम᳘ ऽआलेभे श्या᳘पर्णः सायकाय᳘नो ऽन्तमो᳘ ऽथ ह स्मैता᳘नेवा᳘न्तरेणा᳘लभन्ते᳘ ऽथैत᳘र्हीमौ द्वा᳘वेवा᳘लभ्येते प्राजापत्य᳘श्च व्वाय᳘व्यश्च[[!!]] त᳘योर᳘तो ब्रा᳘ह्मणमुद्यते॥

मूलम् - श्रीधरादि

मृन्म᳘यान्यु है᳘के कुर्व्वन्ति॥
(न्त्यु᳘) उ᳘त्सन्ना वा᳘ ऽएते᳘ पशवो[[!!]] यद्वै किंचो᳘त्सन्नमियं त᳘स्य स᳘र्व्वस्य प्रतिष्ठा तद्य᳘त्रैते᳘ पश᳘वो गतास्त᳘त ऽएनान᳘धि स᳘म्भराम ऽइ᳘ति न त᳘था कुर्याद्यो वा᳘ ऽएते᳘षामावृ᳘तं च ब्रा᳘ह्मणं च न᳘ ऽविद्यात्त᳘स्यैत ऽउ᳘त्सन्नाः स्युः स᳘ ऽएता᳘नेव प᳘ञ्च पशूना᳘लभेत या᳘वदस्य व्व᳘शः स्यात्ता᳘न्हैता᳘न्प्रजा᳘पतिः प्रथम᳘ ऽआलेभे श्या᳘पर्णः सायकाय᳘नो ऽन्तमो᳘ ऽथ ह स्मैता᳘नेवा᳘न्तरेणा᳘लभन्ते᳘ ऽथैत᳘र्हीमौ द्वा᳘वेवा᳘लभ्येते प्राजापत्य᳘श्च व्वाय᳘व्यश्च[[!!]] त᳘योर᳘तो ब्रा᳘ह्मणमुद्यते॥

मूलम् - Weber

मृन्म᳘यान्यु है᳘के कुर्वन्ति॥
उ᳘त्सन्ना वा᳘ एते᳘ पश᳘वो यद्वै किंचो᳘त्सन्नमियं त᳘स्य स᳘र्वस्य प्रतिष्ठा तद्यत्रैते᳘ पश᳘वो गतास्त᳘त एनान᳘धि स᳘म्भराम इ᳘ति न त᳘था कुर्याद्यो वा᳘ एते᳘षामावृ᳘तं च ब्रा᳘ह्मणं च न᳘ विद्यात्त᳘स्यैत उ᳘त्सन्नाः स्युः स᳘ एता᳘नेव प᳘ञ्च पशूना᳘लभेत या᳘वदस्य व᳘शः स्यात्ता᳘न्हैता᳘न्प्रजा᳘पतिः प्रथम᳘ आलेभे श्या᳘पर्णः सायकायॗनो ऽन्तमो᳘ ऽथ ह स्मैता᳘नेवा᳘न्तरेणा᳘लभन्ते᳘ ऽथैत᳘र्हीमौ द्वा᳘वेवा᳘लभ्येते प्राजापत्य᳘श्च वायव्य᳘श्च त᳘योर᳘तो ब्रा᳘ह्मणमुद्यते॥

मूलम् - विस्वरम्

मृन्मयान्यु हैके कुर्वन्ति । उत्सन्ना वा ऽएते पशवः । यद्वै किंचोत्सन्नम्- इयं तस्य सर्वस्य प्रतिष्ठा । तद् यत्रैते पशवो गताः- तत एनानधि सम्भराम इति । न तथा कुर्यात् । यो वा ऽएतेषामावृतं च ब्राह्मणं च न विद्यात्- तस्यैत ऽउत्सन्नाः स्युः । स एतानेव पञ्च पशूनालभेत- यावदस्य वशः स्यात् । तान्हैतान्प्रजापतिः प्रथम आलेभे । श्यापर्णः सायकायनो ऽन्तमः । अथ ह स्मैतानेवान्तरेणालभन्ते । अथैतर्हीमौ द्वावेवालभ्येते- प्राजापत्यश्च, वायव्यश्च । तयोरतो ब्राह्मणमुद्यते ॥ ३९॥

सायणः

मृन्मयान्यु हैक इति । ‘एते’ पुरुषादयः ‘पशवः’ ‘उत्सन्नाः’ आलब्धव्यत्वात्, अतः किं मृन्मयकरणमिति; तत्राह- यद्वै किञ्चेति । ‘यत् किञ्च उत्सन्नं’ वस्तु भवति, ‘तस्य सर्वस्य’ ‘इयं’ पृथिवी- ‘प्रतिष्ठा’; नष्टं पृथिवीमन्वेतीति तस्याः प्रतिष्ठात्वम् । ‘तत्’ तस्मात् ‘यत्र’ यस्मिन् प्रदेशे नष्टाः ‘पशवः’ ‘गताः’, ‘ततः’ तस्मात् प्रदेशात् ‘एनान्’ पशून् ‘सम्भरामः’ आनेष्यामः ‘इति’ मृन्मयकरणे युक्तिः । न तथा कुर्यादिति तन्निषेधः ॥

इदानीं पञ्चपश्वालम्भपक्षं सिद्धान्तयति- यो वा एतेषामिति । ‘आवृतं’ प्रयाणक्रमम्, तद्विधायकं ‘ब्राह्मणम्’ ‘च’ अविदुष एव ‘एते’ पशवः ‘उत्सन्नाः’ । स एतानिति । ‘सः’ विद्वान् । यावदस्य वशः स्यादिति । ‘अस्य’ चिन्वतः पुरुषस्य ‘यावत्’ कर्मप्रयोगः ‘वशः’ स्यात् ’ स्वाधीनो भवेत्, ‘स पशूनालभेत’ इत्यन्वयः ॥

अस्मिन्नर्थे अनुष्ठातृसम्प्रदायं प्रमाणयति- तान् हैतान् प्रजापतिः प्रथम इति । सायकस्यापत्यं ‘सायकायनः’ ‘श्यापर्णः’ नाम ‘अन्तमः’ चरमः ‘आलेभे’ । ‘अन्तरेण’ प्रजापतिश्यापर्णयोरन्तरालकाले ये अनुष्ठातारः, ते ‘एतानेव’ पञ्च पशून् ‘आलभन्ते’ आलेभिरे ॥

एतावत्पर्यन्तं पञ्चपश्वालम्भपक्ष उक्तः, इतः परं प्राजापत्यवायव्यपक्षौ वर्ण्येते 28 । त्रयः पक्षा अपि समविकल्पाः । तत्रेदानीमपि अनुष्ठातृभिः पञ्चपश्वालम्भः कार्य इति मन्यते, तान् प्रत्याह- अथैतर्हीमौ द्वावेवालभ्येते इति । ‘अथ’ इति पक्षान्तरप्रारम्भे । ‘एतर्हि’ अधुना । एतच्छब्दात् कालार्थे र्हिल् प्रत्ययः । (पा. सू. ५ । ३ । १६) ‘प्राजापत्यः वायव्यश्च’ इति द्वौ पशू ‘आलभ्येते’ । तावपि समविकल्पाविति प्रागुक्तम् । ‘अतः’ ‘तयोः’ एतयोः पश्वोः विधायकं ‘ब्राह्मणम्’ ‘उद्यते’ भण्यते । “वद व्यक्तायां वाचि” (धा. पा. भ्वा. प. १०३४) लिटि “वचिस्वपियजादीनां किति”- (पा. सू. ६ । १ । १५) इति सम्प्रसारणम् ॥ ३९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (६-२-१) ॥

Eggeling
  1. Some, again, make earthen ones, thinking, ‘Passed away, forsooth, are these animals, and this earth is the shelter of all that has passed away: thus whither those animals have gone, from thence we collect them.’ Let him not do so, for whoso knows not both the practice and theory of these (victims), for him let them be passed away. Let him slaughter those very five victims, as far as he may be able to do so; for it was these Prajāpati was the first to slaughter, and Śyāparṇa Sāyakāyana the last; and in the interval also people used to slaughter them. But nowadays only these two are slaughtered, the one for Prajāpati, and the one for Vāyu. The theory of these two is now (to be) told.

  1. 162:1 Or, I will make them part of mine own self.–Similarly St. Petersburg dictionary, ‘I will change them into myself.’ But differently Professor Delbrück, Altind. Synt., p. 239, ‘I will make myself to be these, change myself into these.’ This is on account of the middle form of the verb, which, however, is quite justified also in the former interpretation. Cf. VI, 8, 2, 1, where there is no question of changing the whole sacrifice into a heap of ashes, but of taking over the ashes, or some of it, to form part of the sacrifice. ↩︎

  2. परिवृते पुरुषसंज्ञपनं । अजस्य शुंधति प्रचरणयोगात् । सर्व्वेषां वा ऽव्विशेषात् । वैश्यः पुरुषो राजन्यो वा । का. श्रौ. सू. १६ । १४-१७ । ↩︎

  3. कंठेषु तृणमंतर्द्धाय शिराँस्यादत्ते । का० श्रौ० सू० । १६ । १८ ↩︎ ↩︎

  4. “श्रोणी यदूरू क उ तज्जजान ताभ्यां कुसिन्धं सुदृढं बभूव” इति । अथ० सं० १०-२-३ । ↩︎

  5. 163:1 See VI, 1, 1, 4. ↩︎

  6. 163:2 That is, on the fire-altar, or (which is the same thing) on himself, Prajāpati, the sacrifice. The heads of the five victims are placed in (a dish introduced into) the bottom layer of the altar so as to impart stability to it. See VII, 5, 2, 1 seq. ↩︎

  7. 163:3 Or, he washed them, cleaned them, in water. ↩︎

  8. 163:4 Literally, that self, i.e. that part of mine own self, the sacrifice (?). ↩︎

  9. 163:5 It seemed desirable here to leave the construction of the original text unchanged. ↩︎

  10. 164:1 Sāyaṇa explains ‘abhisaṁskarishye’ by ‘ādhiyajñike śarīra upadhāsyāmi,’ ‘if I were to put this (clay and water) on the sacrificial body.’ ↩︎

  11. 164:2 A play on the word which may mean either ’non-bricks,’ or ‘being without oblation (ishṭa).’ ↩︎

  12. 164:3 Sāyaṇa seems to take this to mean, that animals (cattle) delight, or sport, when the sacrificial fire is established; that is to say, they feel at home and increase wherever a new household is established (?);–tasmād agnāv āhite paśavo ramante, ātmany eva sā prītir ity abhiprāyaḥ. Adhunāgneḥ paśushv ātmabhūteshu prītiṁ darśayann āha, yasmād agnir esha yat paśavas tasmād yasya manushyasya paśavo bhavanti tasminn etad agnir ādhīyate, tatra hi sa ātmabhūtaiḥ paśubhī ramate nānyatra; evam yad agnyātmikāḥ paśavas tatas tam agnim ātmābhisaṁskr̥tya prajāpatir agnir abhavat. ↩︎

  13. सर्व्वैरेके । का. श्रौ. सू. १६ । २३ । ↩︎

  14. एकस्यापि किं ततः संभरेदिति श्रुतेः । का० श्रौ० सू० १६ । २४ । ↩︎

  15. 165:1 That is, what ‘sambhāras’ or equipments of the fire should he then collect? Cf. part i, p. 276. ↩︎

  16. व्वर्षिष्ठरशनः पुरुषो ऽनुपूर्व्या इतरे । का. श्रौ. सू. १६ । ९ । ↩︎

  17. 167:1 For the eleven gāyatrī verses, used as sāmidhenīs at an ordinary ishṭi–and raised to the number of fifteen by repetitions of the first and last verses–see part i, p. 102. The present animal sacrifice (ishṭakā-paśu) adds to these verses nine trishṭubh verses (Vāj. S. XXVII, 1-9), which (according to Kāty. XVI, 1, 11) are to be inserted between the two verses containing the words ‘samidhyamāna’ (being kindled) and ‘samiddha’ (kindled) respectively,–that is, between the ninth and tenth of the normal or gāyatrī kindling-verses (cf. I, 4, 1, 38). ↩︎

  18. 167:2 See VI, 1, 1, 15; 3, 19. ↩︎

  19. 168:1 This is the meaning assigned here to ‘samāḥ’ by Mahīdhara, a doubtful meaning indeed. Besides the ordinary meaning year,’ the St. Petersburg dictionary also allows to ‘samā’ that of ‘half-year’ in some passages of the Atharva-veda. In the present passage, the dictionary refers ‘samāḥ’ to the adjective ‘sama,’ hence ’the equal seasons.’ This cannot, however, have been the meaning assigned to the word by the author of this part of the Brāhmaṇa, whatever it may originally have been in this verse of the Saṁhitās. Sāyaṇa, Taitt. S. IV, 1, 7, takes ‘samāḥ’ in the sense of ’the years,’ but remarks that ’the months and half-months’ have to be understood by it in this verse. ↩︎

  20. ‘समिध्यमानसमिद्धवत्यन्तरे समास्त्वा ऽग्न इति नाव दधाति’ का. श्रौ. सू. १६ । ११ । ↩︎

  21. 169:1 For the purport of these verses which form the offering-prayers at the fore-offerings of the animal sacrifice, see part ii, p. 185, note 1. ↩︎

  22. 169:2 Vāj. S. XXVII, II seq. ↩︎

  23. अस्मिन्नेव ब्राह्मणे षड्विंशतितमकण्डिकायाम् । ↩︎

  24. प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः । का० श्रौ० सू० १६ । ३९ ॥ ↩︎

  25. 170:1 That is, according to Sāyaṇa, somehow or other, in some worldly manner, as by buying or begging them, without performing the animal sacrifice. ↩︎

  26. 170:2 That is to say, whether they are consecrated or unconsecrated, in either case they are ‘paśavaḥ’ or animal (victims). Sāy. ↩︎

  27. 171:1 The son of Ashāḍḥa and Suśromatā, according to Sāyaṇa. ↩︎

  28. पूर्वो वा देवतासामान्यात् । उत्तरे तु सामान्योपदेशाभ्याम् । वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात् । प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः । का० श्रौ० सू० १६ । ३६-३९ । ↩︎