०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिर्वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(दे᳘) ए᳘क एव᳘ सो ऽकामयत स्यां प्र᳘जायेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत त᳘स्माच्छ्रान्ता᳘त्तेपानादा᳘पो ऽसृज्यन्त त᳘स्मात्पु᳘रुषात्तप्तादा᳘पो जायन्ते॥
मूलम् - श्रीधरादि
प्रजा᳘पतिर्वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(दे᳘) ए᳘क एव᳘ सो ऽकामयत स्यां प्र᳘जायेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत त᳘स्माच्छ्रान्ता᳘त्तेपानादा᳘पो ऽसृज्यन्त त᳘स्मात्पु᳘रुषात्तप्तादा᳘पो जायन्ते॥
मूलम् - Weber
प्रजा᳘पतिर्वा᳘ इदम᳘ग्र आसीत्॥
ए᳘क एवॗ सो ऽकामयत स्याम् प्र᳘जायेये᳘तिॗ सो ऽश्राम्यत्स त᳘पो ऽतप्यत त᳘स्माछ्रान्ता᳘त्तेपानादा᳘पो ऽसृज्यन्त त᳘स्मात्पु᳘रुषात्तप्तादा᳘पो जायन्ते॥
मूलम् - विस्वरम्
प्रजापतिर्वा ऽइदमग्र ऽआसीत्- एक एव सो ऽकामयत- स्यां प्रजायेयेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । तस्माच्छ्रान्तात्तेपानादापो ऽसृज्यन्त । तस्मात्पुरुषात्तप्तादापो जायन्ते ॥ १ ॥
सायणः
तृतीयब्राह्मणे अबादीन्यष्टौ रूपाणि चयनोपयुक्तानि उच्यन्ते । ततः कुमारोत्पत्तिः । तस्याष्टौ नामानि, अष्टौ रूपाणि च “प्रजापतिरग्निरूपाण्यभ्यध्यायत्”- इति अग्रिमब्राह्मणे प्रथमकण्डिकायां वक्ष्यमाणपशुविधानोपयोगीनीति मन्तव्यम् । अथवा पुरुषादिपञ्चपशूनुपालभ्य संवत्सरपर्यन्तमुख्याग्निं धारयित्वा चयनाय दीक्षत इति वक्ष्यते 1 । तदर्थमितिहासाख्यानमिति । प्रजापतिर्वा इदमिति । पुरुषात् उदकसृष्टिं लोकप्रसिद्ध्या ऽऽह- ‘तस्मात् पुरुषात् तप्तादापो जायन्ते’ इति ॥ १ ॥
Eggeling
- Verily, Prajāpati alone was here in the beginning. He desired, ‘May I exist, may I reproduce myself!’ He toiled, he practised austerity (or, became heated). From him, worn out and heated, the waters were created: from that heated Person the waters are born.
०२
विश्वास-प्रस्तुतिः
(न्त ऽ) आ᳘पो ऽब्रुव᳘न्॥
(न्क्व) क्व व्वयं᳘ भवामे᳘ति त᳘प्यध्वमि᳘त्यब्रवीत्ता᳘ ऽअतप्यन्त ताः फे᳘नमसृजन्त त᳘स्मादपां᳘ तप्ता᳘नां फे᳘नो जायते॥
मूलम् - श्रीधरादि
(न्त ऽ) आ᳘पो ऽब्रुव᳘न्॥
(न्क्व) क्व व्वयं᳘ भवामे᳘ति त᳘प्यध्वमि᳘त्यब्रवीत्ता᳘ ऽअतप्यन्त ताः फे᳘नमसृजन्त त᳘स्मादपां᳘ तप्ता᳘नां फे᳘नो जायते॥
मूलम् - Weber
आ᳘पो ऽब्रुव᳘न्॥
क्व वय᳘म् भवामे᳘ति त᳘प्यध्वमि᳘त्यब्रवीत्ता᳘ अतप्यन्त ताः फे᳘नमसृजन्त त᳘स्मादपां᳘ तप्ता᳘नाम् फे᳘नो जायते॥
मूलम् - विस्वरम्
आपो ऽब्रुवन्- क्व वयं भवामेति । तप्यध्वमित्यब्रवीत् । ता अतप्यन्त । ताः फेनमसृजन्त । तस्मादपां तप्तानां फेनो जायते ॥ २ ॥
सायणः
आपो ऽब्रुवन्निति । प्रजापतिना सृष्टाः ‘आपः’ ‘क्व’ प्रदेशे ‘वयं’ ‘भवामः’ तिष्ठाम ‘इति’ प्रजापतिम् ‘अब्रुवन्’ । ततस्तेन तपनं कुरुतेत्युक्ताः ‘अतप्यन्त’ । ततः ताः ‘फेनं’ सृष्टवत्यः ॥ २ ॥
Eggeling
- The waters said, ‘What is to become of us?’–‘Ye shall be heated,’ he said. They were heated; they created foam: hence foam is produced in heated water.
०३
विश्वास-प्रस्तुतिः
फे᳘नो ऽब्रवी᳘त्॥
(त्क्वा) क्वाहं᳘ भवानी᳘ति त᳘प्यस्वे᳘त्यब्रवी᳘त्सो ऽतप्यत स मृ᳘दमसृजतैतद्वै फे᳘नस्तप्यते य᳘द᳘प्स्वावे᳘ष्टमानः प्ल᳘वते स᳘ य᳘दोपहन्य᳘ते मृ᳘देव᳘ भवति॥
मूलम् - श्रीधरादि
फे᳘नो ऽब्रवी᳘त्॥
(त्क्वा) क्वाहं᳘ भवानी᳘ति त᳘प्यस्वे᳘त्यब्रवी᳘त्सो ऽतप्यत स मृ᳘दमसृजतैतद्वै फे᳘नस्तप्यते य᳘द᳘प्स्वावे᳘ष्टमानः प्ल᳘वते स᳘ य᳘दोपहन्य᳘ते मृ᳘देव᳘ भवति॥
मूलम् - Weber
फे᳘नो ऽब्रवीत्॥
क्वाह᳘म् भवानी᳘ति त᳘प्यस्वे᳘त्यब्रवीॗत्सो ऽतप्यत स मृ᳘दमसृजतैतद्वै फे᳘नस्तप्यते य᳘दॗप्स्वावे᳘ष्टमानः प्ल᳘वते स᳘ यॗदोपहन्य᳘ते मृ᳘देव᳘ भवति॥
मूलम् - विस्वरम्
फेनो ऽब्रवीत्- क्वाहं भवानीति । तप्यस्वेत्यब्रवीत् । सो ऽतप्यत । स मृदमसृजत । एतद्वै फेनस्तप्यते- यदप्स्वावेष्टमानः प्लवते । स यदोपहन्यते- मृदेव भवति ॥ ३ ॥
सायणः
फेनो ऽब्रवीदिति । तप्तात् फेनात् मृदुत्पत्तिं समुपपादयति- एतद्वै फेन इति । उदकमध्ये वायुवशेन परिभ्रमणं प्लवनमेव फेनस्य तपःकरणम् । ‘स यदा उपहन्यते’ फेनः संहतो भवति, तदा मृत्तिकैव भवति ॥ ३ ॥
Eggeling
- The foam (m.) said, ‘What is to become of me?’–‘Thou shalt be heated!’ he said. It was heated, and produced clay; for indeed the foam is heated, when it floats on the water, covering it; and when one beats upon it, it indeed becomes clay.
०४
विश्वास-प्रस्तुतिः
मृ᳘दब्रवी᳘त्॥
(त्क्वा) क्वाहं᳘ भवानी᳘ति त᳘प्यस्वे᳘त्यब्रवी᳘त्सा ऽतप्यत सा सि᳘कता ऽअसृजतैतद्वै मृ᳘त्तप्यते य᳘देनां विकृष᳘न्ति त᳘स्माद्यद्य᳘पि सु᳘मार्त्स्नं व्विकृष᳘न्ति सैकत᳘मिवैव᳘ भवत्येता᳘वन्नु तद्य᳘त्क्वाहं᳘ भवानि᳘ क्वाहं᳘ भवानी᳘ति॥
मूलम् - श्रीधरादि
मृ᳘दब्रवी᳘त्॥
(त्क्वा) क्वाहं᳘ भवानी᳘ति त᳘प्यस्वे᳘त्यब्रवी᳘त्सा ऽतप्यत सा सि᳘कता ऽअसृजतैतद्वै मृ᳘त्तप्यते य᳘देनां विकृष᳘न्ति त᳘स्माद्यद्य᳘पि सु᳘मार्त्स्नं व्विकृष᳘न्ति सैकत᳘मिवैव᳘ भवत्येता᳘वन्नु तद्य᳘त्क्वाहं᳘ भवानि᳘ क्वाहं᳘ भवानी᳘ति॥
मूलम् - Weber
मृ᳘दब्रवीत्॥
क्वाह᳘म् भवानी᳘ति त᳘प्यस्वे᳘त्यब्रवीॗत्सातप्यत सा सि᳘कता असृजतैतद्वै मृ᳘त्तप्यते य᳘देनां विकृष᳘न्ति त᳘स्माद्यद्य᳘पि सु᳘मार्त्स्नं विकृष᳘न्ति सैकत᳘मिवैव᳘ भवत्येता᳘वन्नु तद्यॗत्क्वाह᳘म् भवानिॗ क्वाह᳘ भवानी᳘ति॥
मूलम् - विस्वरम्
मृदब्रवीत्- क्वाहं भवानीति । तप्यस्वेत्यब्रवीत् । सा ऽतप्यत । सा सिकता असृजत । एतद्वै मृत्तप्यते- यदेनां विकृषन्ति । तस्माद्यद्यपि सुमार्त्स्नं विकृषन्ति- सैकतमिवैव भवति । एतावन्नु तद्- यत् क्वाहं भवानि, क्वाहं भवानीति ॥ ४ ॥
सायणः
मृदब्रवीदिति । मृत्तिकायाः सिकताः ‘विकुषन्ति’ भूमिकर्षणमेव मुदस्तप इत्यर्थः । ‘यद्यपि सुमार्त्स्नं विकृषन्ति’ यथा मृत्तिका चूर्णीकृता भवति, तथा विकर्षणेन सा मृत् सिकता भवति ॥ ४ ॥
Eggeling
- The clay (f.) said, ‘What is to become of me?’–‘Thou shalt be heated!’ he said. It was heated,
and produced sand; for this clay becomes indeed heated when they plough it; and if only they plough very fine then it becomes, as it were, sandy. So much, then, as to that ‘What is to become of me? what is to become of me 2?’
०५
विश्वास-प्रस्तुतिः
सि᳘कताभ्यः श᳘र्करा ऽमसृजत॥
त᳘स्मात्सि᳘कताः श᳘र्करै᳘वान्ततो᳘ भवति श᳘र्कराया ऽअ᳘श्मानं त᳘स्माच्छ᳘र्करा᳘श्मै᳘वान्ततो᳘ भवत्य᳘श्मनो᳘ ऽयस्त᳘स्माद᳘श्मनो᳘ ऽयो धमन्त्य᳘यसो हि᳘रण्यं त᳘स्माद᳘यो बहुध्मातᳫँ᳭ हि᳘रण्यसंकाशमिवैव᳘ भवति॥
मूलम् - श्रीधरादि
सि᳘कताभ्यः श᳘र्करा ऽमसृजत॥
त᳘स्मात्सि᳘कताः श᳘र्करै᳘वान्ततो᳘ भवति श᳘र्कराया ऽअ᳘श्मानं त᳘स्माच्छ᳘र्करा᳘श्मै᳘वान्ततो᳘ भवत्य᳘श्मनो᳘ ऽयस्त᳘स्माद᳘श्मनो᳘ ऽयो धमन्त्य᳘यसो हि᳘रण्यं त᳘स्माद᳘यो बहुध्मातᳫँ᳭ हि᳘रण्यसंकाशमिवैव᳘ भवति॥
मूलम् - Weber
सि᳘कताभ्यः श᳘र्करामसृजत॥
त᳘स्मात्सि᳘कताः श᳘र्करैॗवान्ततो᳘ भवति श᳘र्कराया अ᳘श्मानं त᳘स्माछ᳘र्करा᳘श्मैॗवान्ततो᳘ भवत्य᳘श्मनो᳘ ऽयस्त᳘स्माद᳘श्मनो᳘ ऽयो धमन्त्य᳘यसो हि᳘रण्यं त᳘स्माद᳘यो बहुध्मातᳫं हि᳘रण्यसंकाशमिवैव᳘ भवति॥
मूलम् - विस्वरम्
सिकताभ्यः शर्करामसृजत । तस्मात् सिकताः शर्करैवान्ततो भवति । शर्कराया अश्मानम् । तस्माच्छर्करा ऽश्मैवान्ततो भवति । अश्मनो ऽयः । तस्मादश्मनो ऽयो धमन्ति । अयसो हिरण्यम् । तस्मादयो बहुध्मातं हिरण्यसङ्काशमिवैव भवति ॥ ५ ॥
सायणः
एतावत्पर्यन्तं “क्वाहं भवानि”- इति प्रजापतिं प्रति उदकफेनमृद्भिर्वचनम्, इत उत्तरं नास्ति; अत एव पूर्वत्र त्रये “ताः फेनमसृजन्त”- “स मृदमसुजत”- “सा सिकता असुजत”- इति अबादीनां स्रष्टृत्वमुक्तम् इत उत्तरं तदभवात् “सिकताभ्यः शर्करामसृजत” इत्यादौ प्रजापतेः स्रष्टृत्वमुच्यते ॥
तस्मात् सिकता इति । ‘अन्ततः’ गमने ‘सिकताः शर्करा भवन्ति’ । ‘अश्मा’ पाषाणो ऽपि अन्ततः शर्करा भवति । ‘तस्मात्’ अश्मनः पाषाणात् ‘अयः’ उत्पादितवान् । अश्मनः पाषाणात् ‘अयः’ उत्पादितवान् । अश्मनो ऽयःकारणत्वमुपपादयति- अश्मनो ऽयो धमन्तीति । अयसो हिरण्यत्वं प्रतिपादयति- बहुध्मातं हिरण्यसङ्काशमिति ॥ ५ ॥
Eggeling
- From the sated he created the pebble: whence sand finally indeed becomes a pebble;–from the pebble the stone: whence the pebble finally indeed becomes a stone;–from the stone metal ore: whence from stone they smelt ore;–from ore gold: whence ore much smelted comes, as it were, to have the appearance of gold.
०६
विश्वास-प्रस्तुतिः
तद्य᳘दसृज्यता᳘क्षरत्॥ (त्त) तद्यद᳘क्षरत्त᳘स्मादक्ष᳘रं य᳘दष्टौ कृत्वो᳘ ऽक्षर᳘त्सै᳘वाष्टा᳘क्षरा गाय᳘त्र्यभवत्[[!!]]॥
मूलम् - श्रीधरादि
तद्य᳘दसृज्यता᳘क्षरत्॥ (त्त) तद्यद᳘क्षरत्त᳘स्मादक्ष᳘रं य᳘दष्टौ कृत्वो᳘ ऽक्षर᳘त्सै᳘वाष्टा᳘क्षरा गाय᳘त्र्यभवत्[[!!]]॥
मूलम् - Weber
तद्य᳘दसृज्यता᳘क्षरत् तद्यद᳘क्षरत्त᳘स्मादक्ष᳘रं य᳘दष्टौ कृत्वो᳘ ऽक्षरॗत्सैॗवाष्टा᳘क्षरा गायत्र्य᳘ भवत्॥
मूलम् - विस्वरम्
तद् यदसृज्यत- अक्षरत् तत् । यदक्षरत्- तस्मादक्षरम् । यदष्टौ कृत्वो ऽक्षरत्- सैवाष्टाक्षरा गायत्र्यभवत् ॥ ६ ॥
सायणः
भूमेर्गायत्रीत्वमुपपादयितुमाह- तद्यदसृज्यताक्षरदिति । एवमबादिकमुत्तरोत्तरक्रमेण सृष्ट्वा ‘अक्षरत्’ । तस्मात् क्षरणात् ‘अक्षरम्’ । ‘अक्षरत्’- इति लङ्यडागमे रूपम् । अत्राडागमसाहित्येन अक्षरं सम्पन्नम् । यस्मात् प्रजापतिः ‘अष्टौ कृत्वो ऽक्षरत्’, सैव सङ्ख्यासाम्यादष्टाक्षरा गायत्री सम्पन्ना ॥ ६ ॥
Eggeling
- Now that which was created was flowing; and inasmuch as it was flowing (aksharat), a syllable (akshara) resulted therefrom; and inasmuch as it flowed eight times, that octosyllabic Gāyatrī was produced.
०७
विश्वास-प्रस्तुतिः
(द᳘) अ᳘भूद्वा᳘ ऽइयं᳘ प्रतिष्ठे᳘ति॥
तद्भृ᳘मिरभवत्ता᳘मप्रथयत्सा᳘ पृथि᳘व्यभवत्त᳘स्यामस्यां᳘[[!!]] प्रतिष्ठा᳘यां भूता᳘नि च भूता᳘नां च प᳘तिः संव्वत्सरा᳘यादीक्षन्त भूता᳘नां प᳘तिर्गृह᳘पतिरा᳘सीदुषाः प᳘त्नी॥
मूलम् - श्रीधरादि
(द᳘) अ᳘भूद्वा᳘ ऽइयं᳘ प्रतिष्ठे᳘ति॥
तद्भृ᳘मिरभवत्ता᳘मप्रथयत्सा᳘ पृथि᳘व्यभवत्त᳘स्यामस्यां᳘[[!!]] प्रतिष्ठा᳘यां भूता᳘नि च भूता᳘नां च प᳘तिः संव्वत्सरा᳘यादीक्षन्त भूता᳘नां प᳘तिर्गृह᳘पतिरा᳘सीदुषाः प᳘त्नी॥
मूलम् - Weber
अ᳘भूद्वा᳘ इय᳘म् प्रतिष्ठे᳘ति॥
तद्भृ᳘मिरभवत्ता᳘मप्रथयत्सा᳘ पृथिव्य᳘भवत्त᳘स्यामस्या᳘म् प्रतिष्ठा᳘याम् भूता᳘नि च भूता᳘नां च प्र᳘तिः संवत्सरा᳘यादीक्षन्त भूता᳘नाम् प्र᳘तिर्गृह᳘पतिरा᳘सीदुषाः प᳘त्नी॥
मूलम् - विस्वरम्
अभूद्वा ऽइयं प्रतिष्ठेति-तद्भूमिरभवत्- तामप्रथयत्- सा पृथिव्यभवत् । तस्यामस्यां- प्रतिष्ठायां- भूतानि च, भूतानां च पतिः- सम्वत्सरायादीक्षन्त । भूतानां पतिर्गृहपतिरासीत्, उषाः पत्नी ॥ ७ ॥
सायणः
अभूद्वा इयं प्रतिष्ठेतीति । ‘इयम्’ एव आद्यसृष्टिः सर्वेषां ‘प्रतिष्ठा’ ‘अभूत्’ ‘इति’ भूम्यात्मना सम्पन्ना, तस्या बहुधा प्रथनात् पृथिवीत्वम् । अथ कुमारोत्पत्तिं दर्शयितुमाह- तस्यामस्यां प्रतिष्ठायामिति । ‘तस्यां’ पृथिव्यां ‘भूतानि भूतानां पतिः च’ ‘संवत्सराय’ संवत्सरसाध्याय कर्मगे ‘अदीक्षन्त’ दीक्षां कृतवन्तः । दीक्षाकरणं यजमानपत्न्योः विहितमिति तौ दर्शयति- भूतानाम्पतिर्गृहपतिरिति । तत्र भूतपतिः ‘गृहपतिः’ यजमानः ‘आसीत्’ । ‘उषाः’ उषोदेवता ‘पत्नी’ ॥ ७ ॥
Eggeling
- ‘This has indeed become (bhū) a foundation (resting-place),’ so he thought: whence it became the earth (bhūmi). He spread it out (prath): it became the broad (earth, pr̥thivī). On this earth, as on a foundation, the beings, and the lord of beings, consecrated themselves for a year: the lord of beings was the master of the house 3, and Ushas (the Dawn) was the mistress.
०८
विश्वास-प्रस्तुतिः
तद्या᳘नि ता᳘नि भूता᳘नि॥
(न्यृ) ऋत᳘वस्ते᳘ ऽथ यः स᳘ भूता᳘नां प᳘तिः संव्वत्सरः सो᳘ ऽथ या᳘ सोषाः प᳘त्न्यौषसी सा ता᳘नीमा᳘नि भूता᳘नि च भूता᳘नां च प᳘तिः संव्वत्सर᳘ ऽउष᳘सि रे᳘तो ऽसिञ्चन्त्स᳘ संव्वत्सरे᳘ कुमा᳘रो ऽजायत᳘ सो ऽरोदीत्॥
मूलम् - श्रीधरादि
तद्या᳘नि ता᳘नि भूता᳘नि॥
(न्यृ) ऋत᳘वस्ते᳘ ऽथ यः स᳘ भूता᳘नां प᳘तिः संव्वत्सरः सो᳘ ऽथ या᳘ सोषाः प᳘त्न्यौषसी सा ता᳘नीमा᳘नि भूता᳘नि च भूता᳘नां च प᳘तिः संव्वत्सर᳘ ऽउष᳘सि रे᳘तो ऽसिञ्चन्त्स᳘ संव्वत्सरे᳘ कुमा᳘रो ऽजायत᳘ सो ऽरोदीत्॥
मूलम् - Weber
तद्या᳘नि ता᳘नि भूता᳘नि॥
ऋत᳘वस्ते᳘ ऽथ यः स᳘ भूता᳘नाम् प᳘तिः संवत्सरः सो᳘ ऽथ याॗ सोषाः प᳘त्न्यौषसी सा ता᳘नीमा᳘नि भूता᳘नि च भूता᳘नां च प᳘तिः संवत्सर᳘ उष᳘सि रे᳘तो ऽसिञ्चन्त्स᳘ संवत्सरे᳘ कुमाॗरो ऽजायतॗ सो ऽरोदीत्॥
मूलम् - विस्वरम्
तद् यानि तानि भूतानि- ऋतवस्ते । अथ यः स भूतानां पतिः- सम्वत्सरः सः । अथ या सोषाः पत्नी- औषसी सा । तानीमानि भूतानि च, भूतानां च पतिः सम्वत्सर ऽउषसि रेतो ऽसिञ्चन् । स संवत्सरे कुमारो ऽजायत । सो ऽरोदीत् ॥ ८ ॥
सायणः
भूतादि शब्दानामर्थमाह- तद् यानि तानि भूतान्यृतव इति । यानि भूतानि स्तूयन्ते, तानि ऋतुवीर्याणि, ऋतुपतिः संवत्सरः । “सोषाः पत्नी”- इत्युक्तम् । ‘सा’ संवत्सरस्य यजमानरूपत्वात् ‘औषसी’ उषसोभर्त्ता देव एव खलु भूयो ऽवयवैः सहितः उषोनामपत्नीयुक्तः संवत्सरो यजमानः स्वपत्न्यामुषसि रेतः सिक्तवान्, तत् सिक्तं रेतः संवत्सरान्ते कुमारात्मना जातम् । यद्वा संवत्सर इति सप्तम्यन्तं पदम् । संवत्सरपर्यन्तं रेतः सिक्तवान्, रेतस्सेकः सो ऽसौ वत्सरः, कुमारोत्पत्तिरेकः, इति वर्षद्वयं जातम् । एतदेवाभिप्रेत्य “द्वयोरित्यु हैक आहुः । संवत्सरे वैतद् रेतो ऽसिञ्चन्त्स संवत्सरे कुमारो ऽजायत”- (२० कं.) इति वक्ष्यते । उत्पन्नस्य कुमारस्य अष्टौ रूपाणि दर्शयितुमाह- सो ऽरोदीत्, तं प्रजापतिरब्रवीदित्यादिना । हे कुमार ! ‘श्रमात् जातः’ त्वं किमर्थं रोदिषि ?- ‘इति’ प्रजापतिनोक्ते, स आह-‘अहितनामा’ अकृतनामधेयः अत एव ‘अनपहतपाप्मा’ ‘अस्मि’, अतः पापविमोक्षाय ‘मे’ मम नामधेयं कुरु इति । प्रसङ्गात् किञ्चिद् धर्मं दर्शयति- तस्मात् पुत्रस्येति । ‘जातस्य पुत्रस्य’ नक्षत्रनाम आश्वयुजः स्वातिः हस्तः इत्यादि ‘नाम’ नामकरणं ‘कुर्यात्’ तेन तस्य ‘पाप्मानमेव’ ‘अपहन्ति’ अपहतवान् भवति । पुनः ‘द्वितीयं’ व्यावहारिकं माता पुत्रादिनाम करोति । ‘तृतीयम्’ आहिताग्निरिति । एवं नामकरणेन ‘अस्य’ पुत्रस्य ‘पाप्मानम्’ अपहतं कृतवान् भवति ॥ ८ ॥ ९ ॥
Eggeling
- Now, those beings are the seasons; and that lord of beings is the year; and that Ushas, the mistress, is the Dawn. And these same creatures, as well as the lord of beings, the year, laid seed
into Ushas 4. There a boy (kumāra) was born in a year: he cried.
०९
विश्वास-प्रस्तुतिः
तं᳓ प्रजा᳓पतिर् अब्रवीत्॥
“कु᳓मार - किँ᳓ रोदिषि? य᳓च् छ्र᳓मात् त᳓पसो᳓ ऽधि जातो᳓ ऽसी᳓“ति
सो᳙ ऽब्रवीद् -
“अ᳓नपहत-पाप्मा वा᳓ अस्म्य्, अ᳓हित-नामा।
ना᳓म मे धेही᳓“ति।
त᳓स्मात् पुत्र᳓स्य जात᳓स्य ना᳓म कुर्यात्।
पाप्मा᳓नम् एवा᳙स्य त᳓द् अ᳓पहन्ति।
अ᳓पि द्विती᳓यम्, अ᳓पि तृती᳓यम् -
अभिपूर्व᳓म् एवा᳙स्य त᳓त् पाप्मा᳓नम् अ᳓पहन्ति॥
मूलम् - श्रीधरादि
(त्तं᳘) तं᳘ प्रजा᳘पतिरब्रवीत्॥
(त्कु᳘) कु᳘मार कि᳘ᳫँ᳘ रोदिषि यच्छ्र᳘मात्त᳘पसो᳘ ऽधि जातो ऽसी᳘ति᳘ सो ऽब्रवीद᳘नपहतपाप्मा वा᳘ ऽअस्म्य᳘हितनामा ना᳘म मे धेही᳘ति त᳘स्मात्पुत्र᳘स्य जात᳘स्य ना᳘म कुर्यात्पाप्मा᳘नमे᳘वास्य तद᳘पहन्त्य᳘पि द्विती᳘यम᳘पि तृती᳘यमभिपूर्व्व᳘मे᳘वास्य त᳘त्पाप्मा᳘नम᳘पहन्ति॥
मूलम् - Weber
त᳘म् प्रजा᳘पतिरब्रवीत्॥
कु᳘मार किं᳘ रोदिषि यछ्र᳘मात्त᳘पसो᳘ ऽधि जातो ऽसी᳘तिॗ सो ऽब्रवीद᳘नपहतपाप्मा वा᳘ अस्म्य᳘हितनामा नाम म धेही᳘ति त᳘स्मात्पुत्र᳘स्य जात᳘स्य ना᳘म कुर्यात्पाप्मा᳘नमेॗवास्य तद᳘पहन्त्य᳘पि द्विती᳘यम᳘पि तृती᳘यमभिपूर्व᳘मेॗवास्य त᳘त्पाप्मा᳘नम᳘पहन्ति॥
मूलम् - विस्वरम्
तं प्रजापतिरब्रवीत्- कुमार ! किं रोदिषि । यच्छ्रमात्तपसो ऽधिजातो ऽसीति । सो ऽब्रवीत्-अनपहतपाप्मा वा ऽअस्मि- अहितनामा । नाम मे धेहीति । तस्मात्पुत्रस्य जातस्य नाम कुर्यात् । पाप्मानमेवास्य तदपहन्ति । अपि द्वितीयम्, अपि तृतीयम् । अभिपूर्वमेवास्य तत् पाप्मानमपहन्ति ॥ ९ ॥
सायणः
[व्याख्यानं अष्टमे]
Eggeling
- Prajāpati said to him, ‘My boy, why criest thou, when thou art born out of labour and trouble?’ He said, ‘Nay, but I am not freed from (guarded against) evil; I have no name given me: give me a name!’ Hence one should give a name to the boy that is born, for thereby one frees him from evil;–even a second, even a third (name), for thereby one frees him from evil time after time.
१०
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीद् - रु᳓द्रो ऽसी᳓ति॥
तद् य᳓द् अस्य त᳓न् ना᳓मा᳓करोद्
अग्निस् त᳓द् रूप᳓म् अभवद्,
+++(यतः)+++ अग्नि᳓र् वै᳓ रुद्रः᳓।
य᳓द् अ᳓रोदीत्
त᳓स्माद् “रु᳓द्रः”।
सो᳙ ऽब्रवीज् - ज्या᳓यान् वा᳓ ऽअ᳓तो ऽस्मि -
धे᳓ह्य् एव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीद्रु᳘द्रो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदग्निस्त᳘द्रूपमभवदग्निर्वै᳘ रुद्रो यद᳘रोदीत्त᳘स्माद्रु᳘द्रः[[!!]] सो ऽब्रवीज्ज्या᳘यान्वा ऽअ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीद्रुॗद्रो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदग्निस्त᳘द्रूपमभवदग्निव᳘ रुद्रो यद᳘रोदीत्त᳘स्माद्रुॗद्रः सो ऽब्रवीज्ज्या᳘यान्वा अ᳘तो ऽस्मि धेॗह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- रुद्रो ऽसीति । तद् यदस्य तन्नामाकरोत्- अग्निस्तद्रूपमभवत् । अग्निर्वै रुद्रः । यदरोदीत्- तस्माद्रुद्रः । सो ऽब्रवीत्- ज्यायान्वा ऽअतो ऽस्मि, धेह्येव मे नामेति ॥ १० ॥
सायणः
एव नामधेयाय प्रार्थितवतः कुमारस्य रुद्र-शर्वादीन्यष्टौ नामानि प्रदर्शयिष्यन्ते 5 । अग्नेः रुद्रात्मकत्वात् तदुचिता अष्टौ मूर्तयो वक्तव्याः । रुद्रस्य हि पृथिव्यप्तेजोवाय्वाकाशसूर्यचन्द्रयजमानाख्या अष्टौ मूर्तयः सन्ति, भवादिनामानि च ता एव अग्नेः एष्वपि निरूपयियन्ते ॥
तत्र प्रथमं नाम निर्द्दिशति- तमब्रवीद्रुद्रो ऽसि- (अथ. सं. १५ । ५ । १० । ११ तै. ब्रा. २ । १ । २ । १) इति । अग्निरेव रुद्रनामभागभवदित्यर्थः । यद्वा ‘अग्निस्तद्रूपमभवत्’ रुद्रस्वरूपो ऽभवत्- रुद्रनामव्यपदेश्यो ऽग्निरित्यर्थः । अग्ने रुद्रत्वमुपपादयति- यदरोदीदिति । अनेन तेजोमूर्तिरुक्तेति मन्तव्यम् । ‘रुद्रः’ रुद्रनामा ‘सः’ कुमारः प्रजापतिम् ‘अब्रवीत्’- ‘अतः’ रुद्रनाम्नः ज्यायान् प्रवृद्धो ऽस्मि, तन्ममैतन्नाम नालमित्यर्थः; अतो ‘मे नाम’ अन्यद् ‘धेहि’ कुर्वेवेति ॥ १० ॥
Eggeling
- He said to him, ‘Thou art Rudra 6.’ And because he gave him that name, Agni became suchlike (or, that form), for Rudra is Agni: because he cried (rud) therefore he is Rudra. He said, ‘Surely, I am mightier than that: give me yet a name!’
११
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीच् - “छ᳓र्व्वो ऽसी᳓“ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोद्
आ᳓पस् त᳓द् रूप᳓म् अभवन्न्,
आ᳓पो वै᳓ स᳓र्व्वो, ऽद्भ्यो᳓ हीदँ᳓ स᳓र्व्वं जा᳓यते।
सो᳙ ऽब्रवीज् - ज्या᳓यान् वा᳓ अ᳓तो ऽस्मि - धे᳓ह्य् एव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीच्छ᳘र्व्वो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदा᳘पस्त᳘द्रूप᳘मभवन्ना᳘पो वै᳘ स᳘र्व्वो ऽद्भ्यो᳘ हीदᳫँ᳭ स᳘र्व्वं जा᳘यते᳘ सो ऽब्रवीज्ज्या᳘यान्वा ऽअ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीत्सॗर्वो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदा᳘पस्त᳘द्रूपमभवन्ना᳘पो वै᳘ सॗर्वो 7 ऽद्भ्योॗ हीदᳫं स᳘र्वं जा᳘यतेॗ सो ऽब्रवीज्ज्या᳘यान्वा अ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- शर्वो ऽसीति । तद् यदस्य तन्नामाकरोत्- आपस्तद्रूपमभवन् । आपो वै सर्वः । अद्भ्यो हीदं सर्वं जायते । सो ऽब्रवीत्- ज्यायान्वा ऽअतो ऽस्मि, धेह्येव मे नामेति ॥ ११ ॥
सायणः
तमब्रवीत् शर्वो ऽसि (अथ. सं. १५ । ५ । ५ । ४) इति । तस्य शर्व इति द्वितीयं नाम, तस्य असौ रूपम् । अपां सर्वत्वमुपपादयति- आपो वै सर्व इति । ‘वै’- शब्दद्योतितां युक्तिमाह- अद्भ्यो हीदमिति । अद्भ्यः सर्वं जगदुत्पद्यते । “आपो वा इदं सर्वं विश्वा भूतानि”- “आपो वा इदमग्रे सलिलमासीत्”- (तै. सं. ५ । ६ । ४) इति । अतो जलात्मत्वं च “सलिलं सर्वमा इदम्”- (ऋ. सं. १० । १२९ । ३)- इत्यत्र श्रुतम् । ज्यायान् वा अतो ऽस्मि धेह्येव मे नामेतीति । तस्य प्रतिनामकरणमाम्नातम् एकस्य पुरुषस्य एकपदमनेकनामायुक्तमिति । पूर्वंपूर्वं नाम परिज्ञाय ततो ऽप्यधिकं स्वसमवेतं गुणविशेषमाविष्कर्तुमन्यन्नामधेयं कर्त्तव्यमित्येव दर्शयितुमिति मन्तव्यम् ॥ ११ ॥
Eggeling
- He said to him, ‘Thou art Sarva.’ And because he gave the him that name, the waters became suchlike, for Sarva is the waters, inasmuch as from the water everything (sarva) here is produced. He said, ‘Surely, I am mightier than that: give me yet a name!’
१२
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीत् - “पशु-प᳓तिर् असी᳓“ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोद् - ओ᳓षधयस् त᳓द्-रूप᳓म् अभवन्न्,
ओ᳓षधयो वै᳓ पशुप᳓तिस्
त᳓स्माद् यदा᳓ पश᳓व ओ᳓षधीर् ल᳓भन्ते᳓
ऽथ पतीयन्ति+++(=पतिकामा भवन्ति)+++।
सो᳙ ऽब्रवीज् - ज्या᳓यान् वा᳓ अ᳓तो ऽस्मि धे᳓ह्येव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीत्पशुप᳘तिरसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदो᳘षधयस्त᳘द्रूप᳘मभवन्नो᳘षधयो वै᳘ पशुप᳘तिस्त᳘स्माद्यदा᳘ पश᳘व ऽओ᳘षधीर्ल᳘भन्ते᳘ ऽथ[[!!]] पतीयन्ति᳘ सो ऽब्रवीज्ज्या᳘यान्वा ऽअ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीत्पशुप᳘तिरसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदो᳘षधयस्त᳘द्रूप᳘मभवन्नो᳘षधयो वै᳘ पशुप᳘तिस्त᳘स्माद्यदा᳘ पश᳘व ओ᳘षधीर्ल᳘भन्ते ऽथ᳘ पतीयन्तिॗ सो ऽब्रवीज्ज्या᳘यान्वा अ᳘तो ऽस्मि धेॗह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- पशुपतिरसीति । तद्यदस्य तन्नामाकरोत्- ओषधयस्तद्रूपमभवन् । ओषधयो वै पशु, पतिः । तस्माद्यदा पशव ओषधीर्लभन्ते- अथ पतीयन्ति । सो ऽब्रवीत्- ज्यायान्वा ऽअतो ऽस्मि धेह्येव मे नामेति ॥ १२ ॥
सायणः
तमब्रवीत् पशुपतिरसीतीति (अ. सं. १५ । ५ । ७ । ६) । तद्यदस्येत्यादि । पशुपतिनामवाच्याः ‘ओषधयः’ ‘अभवन्’ ओषधीनां पशुपोषकत्वात् पशुपतित्वं युक्तम् । प्रकारान्तरेण पशुपतित्वमोषधीनां दर्शयति- तस्माद् यदा पशव इति । यदा ‘पशवः’ ‘ओषधीः’ ‘लभन्ते’ अदन्ति, अथ जग्धतृणा पुष्टाः सन्तः पतीयन्ति कामुकाः पतीनात्मनः कामयन्ते । ‘तस्मात्’ पशूनां पतीच्छासाधनत्वात् ओषधीनां पशुपतित्वमित्यर्थः । अनेनाग्नेर्भूरूपत्वमुक्तमित्यनुसन्धेयम् ॥ १२ ॥
Eggeling
- He said to him, ‘Thou art Paśupati.’ And because he gave him that name, the plants became suchlike, for Paśupati is the plants: hence when cattle (paśu) get plants, then they play the master 8 (patīy). He said, ‘Surely, I am mightier than that: give me yet a name!’
१३
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीद् उग्रो᳙ ऽसी᳓ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोद्
वायु᳓स् त᳓द् रूप᳓म् अभवद्,
वायु᳓र् वा᳓ ऽउग्र᳓स्
त᳓स्माद् यदा᳓ ब᳓लवद् वा᳓य् उग्रो᳓ वाती᳓त्य् आहुः।
सो᳙ ऽब्रवीज् ज्या᳓यान् वा᳓ अ᳓तो ऽस्मि - धे᳓ह्य् एव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीदु᳘ग्रो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोद्वायुस्त᳘द्रूप᳘मभवद्वायुर्वा᳘ ऽउग्रस्त᳘स्माद्यदा ब᳘लवद्वा᳘युग्रो᳘ व्वाती᳘त्याहुः᳘ सो ऽब्रवीज्ज्या᳘यान्वा ऽअ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीदुॗग्रो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोद्वायुस्त᳘द्रूप᳘म्भवद्वायुर्वा᳘ उग्रस्त᳘स्माद्यदा ब᳘लवद्वा᳘युग्रो᳘ वातो᳘त्याहुःॗ सो ऽब्रवीज्ज्या᳘यान्वा अ᳘तो ऽस्मि धेॗह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- उग्रो ऽसि । तद्यदस्य तन्नामाकरोद् । वायुस्तद्रूपमभवद् । वायुर्वा ऽउग्रः । तस्माद्यदा बलवद्वाति- उग्रो वातीत्याहुः । सो ऽब्रवीत्- ज्यायान्वा ऽअतो ऽस्मि, धेह्येव मे नामेति ॥ १३ ॥
सायणः
तमब्रवीदुग्रो ऽसीतीति (अथ० सं. १५ । ५ । ९ । ८) उग्रशब्दवाच्यो वायुरित्यर्थः । वायोरुग्रत्वं लोकप्रसिद्ध्योपपादयति- यदा बलवद्वातीति । “वा गतिगन्धनयोः” (धा० पा० अ. प. ४०) ॥ १३ ॥
Eggeling
- He said to him, ‘Thou art Ugra.’ And
because he gave him that name, Vāyu (the wind) became suchlike, for Ugra is Vāyu: hence when it blows strongly, they say ‘Ugra is blowing.’ He said, ‘Surely, I am mightier than that: give me yet a name!’
१४
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीद् “अश᳓निर् असी᳓“ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोद् -
विद्यु᳓त् त᳓द् रूप᳓म् अभवद्,
विद्यु᳓द् वा᳓ ऽअश᳓निस्,
त᳓स्माद् यं᳓ विद्यु᳓द् ध᳓न्त्य्
अश᳓निर् अबधीद् इ᳓त्य् आहुः।
सो᳙ ऽब्रवीज् - ज्या᳓यान् वा᳓ ऽअ᳓तो ऽस्मि -
धे᳓ह्य् एव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीदश᳘निरसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोद्विद्युत्त᳘द्रूप᳘मभवद्विद्युद्वा᳘ ऽअश᳘निस्त᳘स्माद्यं᳘ विद्युद्ध᳘न्त्यश᳘निरबधीदि᳘त्याहुः᳘ सो ऽब्रवीज्ज्या᳘यान्वा ऽअ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीदश᳘निरसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोद्विद्युत्त᳘द्रूप᳘मभवद्विद्युद्वा᳘ अश᳘निस्त᳘स्माद्यं᳘ विद्युद्ध᳘न्त्यश᳘निरबधीदि᳘त्याहुःॗ सो ऽब्रवीज्ज्या᳘यान्वा अ᳘तो ऽस्मि धेॗह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- अशनिरसीति । तद्यदस्य तन्नामाकरोद्- विद्युत्तद्रूपमभवत् । विद्युद्वा ऽअशनिः । तस्माद्यं विद्युद्धन्ति- अशनिरवधीदित्याहुः । सो ऽब्रवीत्- ज्यायान्वा ऽअतो ऽस्मि, धेह्येव मे नामेति ॥ १४॥
सायणः
तमब्रवीदशनिरसीतीति । विद्युदशन्योः पर्यायत्वमाह- तस्माद्यं विद्युदिति । आकाशे विद्युत्पतनाद् विद्युच्छब्देनाकाशरूपमिति मन्तव्यम् ॥ १४ ॥
Eggeling
- He said to him, ‘Thou art Aśani.’ And because he gave him that name, the lightning became suchlike, for Aśani is the lightning: hence they say of him whom the lightning strikes, ‘Aśani has smitten him.’ He said, ‘Surely, I am mightier than that: give me yet a name!’
१५
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीद् “भवो᳙ ऽसी᳓“ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोत् -
पर्ज᳓न्यस् त᳓द् रूप᳓म् अभवत् -
पर्ज᳓न्यो वै᳓ भवः᳓,
पर्ज᳓न्याद् धी᳙दँ᳓ स᳓र्वं भ᳓वति।
सो᳙ ऽब्रवीज् ज्या᳓यान् वा᳓ ऽअ᳓तो ऽस्मि - धे᳓ह्य् एव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीद्भ᳘वो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोत्पर्ज᳘न्यस्त᳘द्रूप᳘मभवत्पर्ज᳘न्यो वै᳘ भवः᳘ पर्ज᳘न्या᳘द्धीदᳫँ᳭ स᳘र्व्वं भ᳘वति᳘ सो ऽब्रवीज्ज्या᳘यान्वा ऽअ᳘तो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीद्भॗवो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोत्पर्ज᳘न्यस्त᳘द्रूप᳘मभवत्पर्ज᳘न्यो वै᳘ भवः᳘ पर्ज᳘न्याॗद्धीदᳫं स᳘र्वम् भ᳘वतिॗ सो ऽब्रवीज्ज्या᳘यान्वा अ᳘तो ऽस्मि धेॗह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीद्- भवो ऽसीति । तद्यदस्य तन्नामाकरोत्- पर्जन्यस्तद्रूपमभवत् । पर्जन्यो वै भवः । पर्जन्याद्धीदं सर्वं भवति । सो ऽब्रवीत्- ज्यायान्वा ऽअतो ऽस्मि धेह्येव मे नामेति ॥ १५ ॥
सायणः
तमब्रवीद् भवो ऽसीतीति (अथ सं. १५ । ५ । २ । १) । पर्जन्यस्तद्रूपमिति । भवशब्दवाच्यः पर्जन्यः । तस्य भवत्वमाह- पर्जन्याद्धीदमिति । अनेन यजमानरूपत्वमुक्तम् । तस्य हि सर्वकामभावकत्वाद् भवत्वम् ॥ १५ ॥
Eggeling
- He said to him, ‘Thou art Bhava.’ And because he gave him that name, Parjanya (the rain-god) became suchlike; for Bhava is Parjanya, since everything here comes (bhavati) from the rain-cloud. He said, ‘Surely, I am mightier than that: give me yet a name!’
१६
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीन् - “महा᳓न् देवो᳙ ऽसी᳓“ति॥
त᳓द् य᳓द् अस्य त᳓न् ना᳓मा᳓करोच्
चन्द्र᳓मास् त᳓द् रूप᳓म् अभवत् ।
प्रजा᳓पतिर् वै᳓ चन्द्र᳓माः,
प्रजा᳓पतिर् वै᳓ महा᳓न् देवः᳓।
सो᳙ ऽब्रवीज् ज्या᳓यान् वा᳓ ऽअतो ऽस्मि।
धे᳓ह्य् एव᳓ मे ना᳓मे᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीन्महा᳘न्दे᳘वो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोच्चन्द्र᳘मास्त᳘द्रूप᳘मभवत्प्रजा᳘पतिर्व्वै᳘ चन्द्र᳘माः प्रजा᳘पतिर्व्वै᳘ महा᳘न्दे᳘वः सो ऽब्रवीज्ज्या᳘यान्वा ऽअतो ऽस्मि धे᳘ह्येव᳘ मे नामे᳘ति॥
मूलम् - Weber
त᳘मब्रवीन्महा᳘न्देॗवो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोच्चन्द्र᳘मास्त᳘द्रूप᳘मभवत्प्रजा᳘पतिर्वै᳘ चन्द्र᳘माः प्रजा᳘पतिर्वै᳘ महा᳘न्देॗवः सो ऽब्रवीज्ज्या᳘यान्वा अतो ऽस्मि धेॗह्येव᳘ मे नामे᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- महान्देवो ऽसीति । तद् यदस्य तन्नामाकरोत्- चन्द्रमास्तद्रूपमभवत् । प्रजापतिर्वै चन्द्रमाः । प्रजापतिर्वै महान्देवः । सो ऽब्रवीत्- ज्यायान्वा अतो ऽस्मि, धेह्येव मे नामेति ॥ १६ ॥
सायणः
तमब्रवीत् महान् देवो ऽसीतीति (अथ. सं. १५ । ५ । १३ । १२)। प्रजापतिर्वै चन्द्रमा इति । चन्द्रमा मनसो जात, मनसः प्रजापतिदेवत्वम्, ततः कार्यकारणयोरभेदोपचारादेवमुक्तम् । प्रजापतेर्महादेववाच्यत्वं सर्वलोकस्रष्टृत्वात् ॥ १६॥
Eggeling
- He said to him, ‘Thou art Mahān Devaḥ (the Great God).’ And because he gave him that name, the moon became suchlike, for the moon is Prajāpati, and Prajāpati is the Great God. He said, ‘Surely, I am mightier than that: give me yet a name!’
१७
विश्वास-प्रस्तुतिः
त᳓म् अब्रवीद् ई᳓शानो ऽसी᳓ति॥
त᳓द् य᳓द् अस्य तन् ना᳓मा᳓करोद्
आदित्य᳓स् त᳓द् रूप᳓म् अभवद् -
आदित्यो᳓ वा᳓ ई᳓शान,
आदित्यो᳓ ह्य् अ᳓स्य स᳓र्व्वस्ये᳓ष्टे।
सो᳙ ऽब्रवीद्
एता᳓वान् वा᳓ ऽअस्मि।
मा᳓ मे᳙ ऽतः परो᳓ ना᳓म धा
इ᳓ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीदी᳘शानो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदादित्यस्त᳘द्रूप᳘मभवदादित्यो वा ऽई᳘शान ऽआदित्यो ह्य᳘स्य स᳘र्व्वस्ये᳘ष्टे᳘ सो ऽब्रवीदेता᳘वान्वा᳘ ऽअस्मि मामे᳘तः परो ना᳘म धा इ᳘ति॥
मूलम् - Weber
त᳘मब्रवीदी᳘शानो ऽसी᳘ति॥
तद्य᳘दस्य तन्नामा᳘करोदादित्यस्त᳘द्रूप᳘मभवदादित्यो वा ई᳘शान आदित्यो ह्य᳘स्य स᳘र्वस्ये᳘ष्टेॗ सो ऽब्रवीदेता᳘वान्वा᳘ अस्मि मा मे᳘तः परो ना᳘म धा इ᳘ति॥
मूलम् - विस्वरम्
तमब्रवीद्- ईशानो ऽसीति । तद् यदस्य तन्नामाकरोद्- आदित्यस्तद्रूपमभवत् । आदित्यो वा ऽईशानः । आदित्यो ह्यस्य सर्वस्येष्टे । सो ऽब्रवीत्- एतावान्वा ऽअस्मि, मामेतः परो नाम धा इति ॥ १७ ॥
सायणः
तमब्रवीदीशानो ऽसीतीति (अथ, सं. १५ । ५ । १५ । १४) । आदित्यस्य ईशानशब्दवाच्यत्वमाह- आदित्यो ह्यस्य सर्वस्येति । ईष्ट इतीशानः । “पूर्वमग्निना धेह्येव मे नाम”- इति प्रार्थित एव प्रजापतिरस्याष्टौ नामानि व्यदधात्, अतः परमग्निः स्वयमेव एतैर्नामभिः स्वकीयगुणस्य कार्त्स्न्येन प्रतिपादितत्वाभिप्रायेण नामान्तरकरणं निषेधति- सो ऽब्रवीदेतावान्वा अस्मीति । मा मेतः परो नाम धा इति । ‘इतः’ एभ्यो ऽष्टभ्यो नामभ्यः ‘परः’ परस्तात् ‘नाम’ ‘मा मा धाः’ मा कुरु ‘इति’ ॥ १७ ॥
Eggeling
- He said to him, ‘Thou art Īśāna (the Ruler).’ And because he gave him that name, the Sun became suchlike, for Īśāna is the Sun, since the Sun rules over this All. He said, ‘So great indeed I am: give me no other name after that!’
१८
विश्वास-प्रस्तुतिः
ता᳘न्येता᳘न्यष्टा᳘वग्निरूपा᳘णि॥
कुमारो᳘ नवमः᳘ सै᳘वाग्नि᳘स्त्रिवृ᳘त्ता॥
मूलम् - श्रीधरादि
ता᳘न्येता᳘न्यष्टा᳘वग्निरूपा᳘णि॥
कुमारो᳘ नवमः᳘ सै᳘वाग्नि᳘स्त्रिवृ᳘त्ता॥
मूलम् - Weber
ता᳘न्येता᳘न्यष्टा᳘वग्निरूपा᳘णि॥
कुमारो᳘ नवमः᳘ सैॗवाग्नि᳘स्त्रिवृ᳘त्ता॥
मूलम् - विस्वरम्
तान्येतान्यष्टावन्निरूपाणि, कुमारो नवमः- सैवाग्नेस्त्रिवृत्ता ॥ १८ ॥
सायणः
तान्येतान्यष्टावग्निरूपाणीति । कुमारो नवम इति । रुद्रादीन्यष्टौ नामानि, रेतोनामवाच्यः ‘कुमारो नवमः’ नवसङ्ख्यापूरक इत्यर्थः । उक्तां नवसङ्ख्यां त्रिवृदात्मना प्रशंसति- सैवाग्नेस्त्रिवृत्तेति । ‘सा’ पूर्वमुक्ता नवमसङ्ख्यैव ‘अग्नेः’ ‘त्रिवृत्ता’ त्रिवृत्त्वं नाम । उक्तरीत्या अग्नेर्नवधा विभेदः । उत्तरत्र “त्रिवृदग्निः”- इति व्यवहरिष्यते, तत्र सर्वत्र उक्तनवसङ्ख्यावत्त्वेन त्रिवृत्त्वं सम्पन्नमिति मन्तव्यम् ॥ १८ ॥
Eggeling
- These then are the eight forms of Agni. Kumāra (the boy) is the ninth: that is Agni’s threefold state 9.
१९
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वाष्टा᳘वग्निरूपा᳘णि॥
(ण्य) अष्टा᳘क्षरा गायत्री त᳘स्मादाहुर्गाय᳘त्रो ऽग्निरि᳘ति᳘ सो ऽयं᳘ कुमारो᳘ रूपा᳘ण्यनुप्रा᳘विशन्न वा᳘ ऽअग्निं᳘ कुमार᳘मिव पश्यन्त्येता᳘न्ये᳘वास्य रूपा᳘णि पश्यन्त्येता᳘नि हि᳘ रूपा᳘ण्यनुप्रा᳘विशत्॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वाष्टा᳘वग्निरूपा᳘णि॥
(ण्य) अष्टा᳘क्षरा गायत्री त᳘स्मादाहुर्गाय᳘त्रो ऽग्निरि᳘ति᳘ सो ऽयं᳘ कुमारो᳘ रूपा᳘ण्यनुप्रा᳘विशन्न वा᳘ ऽअग्निं᳘ कुमार᳘मिव पश्यन्त्येता᳘न्ये᳘वास्य रूपा᳘णि पश्यन्त्येता᳘नि हि᳘ रूपा᳘ण्यनुप्रा᳘विशत्॥
मूलम् - Weber
य᳘द्वेॗवाष्टा᳘वग्निरूपा᳘णि॥
अष्टा᳘क्षरा गायत्री त᳘स्मादाहुर्गायॗत्रो ऽग्निरि᳘तिॗ सो ऽयं᳘ कुमारो᳘ रूपा᳘ण्यनुप्रा᳘विशन्न वा᳘ अग्निं᳘ कुमार᳘मिव पश्यन्त्येता᳘न्येॗवास्य रूपा᳘णि पश्यन्त्येता᳘नि हि᳘ रूपा᳘ण्यनुप्रा᳘विशत्॥
मूलम् - विस्वरम्
यद्वेवाष्टावग्निरूपाणि- अष्टाक्षरा गायत्री- तस्मादाहुः- गायत्रो ऽग्निरिति । सो ऽयं कुमारो रूपाण्यनुप्राविशत् । न वा अग्निं कुमारमिव पश्यन्ति- एतान्येवास्य रूपाणि पश्यन्ति । एतानि हि रूपाण्यनु प्राविशत् ॥ १९ ॥
सायणः
नामगतामष्टसङ्ख्यां गायत्र्यात्मना प्रशंसति- यद्वेवाष्टावग्निरूपाणीति । अतो ऽष्टनामवाच्यरूपाष्टकोपेतत्वादग्नेरपि गायत्रत्वं सम्पन्नमित्यर्थः । सो ऽयं कुमारो रूपाणीति । ‘कुमारः’ अग्निः स्वनामभिः रुद्रशर्वादिभिरष्टभिः प्रतिपाद्यानि, अग्न्युदकौषध्यादीनि अष्टौ रूपाणि अनुप्रविष्टवान् । स कुमारो ऽग्निः तत्तद्रूपेभ्यः पृथग्भूतो न दृश्यत इति तात्पर्यम् ॥ १९ ॥
Eggeling
- And because there are eight forms of Agni–
the Gāyatrī consisting of eight syllables–therefore they say, ‘Agni is Gāyatra.’ That boy entered into the forms one after another; for one never sees him as a mere boy (kumāra), but one sees those forms of his 10, for he assumed those forms one after another.
२०
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘मेत᳘ᳫँ᳘ संव्वत्सर᳘ ऽएव᳘ चिनुया᳘त्॥
(त्सं) संवत्सरे᳘ ऽनुब्रूयाद्द्व᳘योरि᳘त्यु है᳘क ऽआहुः संव्वत्सरे वै तद्रे᳘तो ऽसिञ्चन्त्स᳘ संव्वत्सरे᳘ कुमा᳘रो ऽजायत त᳘स्मा द्द्व᳘योरेव᳘ चिनुयाद्द्व᳘योर᳘नुब्रूयादि᳘ति संव्वत्सरे᳘ त्वेव᳘ चिनुया᳘त्संव्वत्सरे᳘ ऽनुब्रूयाद्यद्वाव रे᳘तः सिक्तं त᳘देव᳘ जायते तत्त᳘तो व्विक्रिय᳘माणमेव व्व᳘र्धमानᳫँ᳭ शेते त᳘स्मात्संव्वत्सर᳘ ऽएव᳘ चिनुया᳘त्संव्वत्सरे᳘ ऽनुब्रूयात्त᳘स्य चित᳘स्य ना᳘म करोति पाप्मा᳘न᳘मेवास्य तद᳘पहन्ति चित्र᳘नामानं करोति चि᳘त्रो ऽसी᳘ति स᳘र्व्वाणि हि᳘ चित्रा᳘ण्यग्निः[[!!]]॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘मेत᳘ᳫँ᳘ संव्वत्सर᳘ ऽएव᳘ चिनुया᳘त्॥
(त्सं) संवत्सरे᳘ ऽनुब्रूयाद्द्व᳘योरि᳘त्यु है᳘क ऽआहुः संव्वत्सरे वै तद्रे᳘तो ऽसिञ्चन्त्स᳘ संव्वत्सरे᳘ कुमा᳘रो ऽजायत त᳘स्मा द्द्व᳘योरेव᳘ चिनुयाद्द्व᳘योर᳘नुब्रूयादि᳘ति संव्वत्सरे᳘ त्वेव᳘ चिनुया᳘त्संव्वत्सरे᳘ ऽनुब्रूयाद्यद्वाव रे᳘तः सिक्तं त᳘देव᳘ जायते तत्त᳘तो व्विक्रिय᳘माणमेव व्व᳘र्धमानᳫँ᳭ शेते त᳘स्मात्संव्वत्सर᳘ ऽएव᳘ चिनुया᳘त्संव्वत्सरे᳘ ऽनुब्रूयात्त᳘स्य चित᳘स्य ना᳘म करोति पाप्मा᳘न᳘मेवास्य तद᳘पहन्ति चित्र᳘नामानं करोति चि᳘त्रो ऽसी᳘ति स᳘र्व्वाणि हि᳘ चित्रा᳘ण्यग्निः[[!!]]॥
मूलम् - Weber
त᳘मेत᳘ᳫं᳘ संवत्सर᳘ एव᳘ चिनुया᳘त्॥
संवत्सरे᳘ ऽनुब्रूयाद्दू᳘योरित्यु है᳘क आहुः संवत्सरे वै तद्रे᳘तो ऽसिञ्चन्त्स᳘ संवत्सरे᳘ कुमाॗरो ऽजायत त᳘स्माद्दू᳘योरेव᳘ चिनुयाद्वू᳘योर᳘नुब्रूयादि᳘ति संवत्सरेॗ त्वेव᳘ चिनुया᳘त्संवत्सरे᳘ ऽनुब्रूयाद्यद्वाव रे᳘तः सिक्तं त᳘देव᳘ जायते तत्त᳘तो विक्रिय᳘माणमेव व᳘र्धमानं शेते त᳘स्मात्संवत्सर᳘ एव᳘ चिनुया᳘त्संवत्सरे᳘ ऽनुब्रूयात्त᳘स्य चित᳘स्य ना᳘म करोति पाप्मा᳘नॗमेवास्य तद᳘पहन्ति चित्र᳘नामानं करोति चिॗत्रो ऽसी᳘ति स᳘र्वाणि हि᳘ चित्रा᳘ण्यग्निः᳟॥
मूलम् - विस्वरम्
तमेतं सम्वत्सर ऽएव चिनुयात्, सम्वत्सरे ऽनुब्रूयात् । द्वयोरित्यु हैक ऽआहुः । सम्वत्सरे वै तद्रेतो ऽसिञ्चन्, स सम्वत्सरे कुमारो ऽजायत । तस्माद्द्वयोरेव चिनुयात्, द्वयोरनुब्रूयादिति । सम्वत्सरे त्वेव चिनुयात्, सम्वत्सरे ऽनुब्रूयाद् । यद्वाव रेतः सिक्तम्- तदेव जायते । तत् ततो विक्रियमाणमेव वर्धमानं शेते । तस्मात्सम्वत्सर ऽएव चिनुयात्, सम्वत्सरे ऽनुब्रूयात् । तस्य चितस्य नाम करोति- पाप्मानमेवास्य तदपहन्ति । चित्रनामानं करोति- चित्रो ऽसि- इति । सर्वाणि हि चित्राण्यग्निः ॥ २० ॥
सायणः
अथ संवत्सरपर्यन्तमुखाग्निधारणं कर्त्तव्यमिति दर्शयितुमाह- तमेतँ संवत्सर एव चिनुयादित्यादि । ‘संवत्सर एव’ संवत्सरपर्यन्तं स्थित्वेत्यर्थः । प्रसङ्गात् कञ्चिद्धर्मं दर्शयति- संवत्सरे ऽनुब्रूयादिति । वर्षपर्यन्तं गुरुसन्निधौ स्थित्वा अधीयत इति । “संवत्सरवासिने प्रब्रूयात्”- (ऐ. ब्रा. ५ । ३ । ३ । ब्रा. ४) इत्यैतरेयकम् । तत्र पक्षान्तरं दर्शयति- द्वयोरित्यु हैक आहुरिति । केचित् संवत्सरपर्यन्तमुख्यमग्निं धारयित्वा, ततः संवत्सरे चयनं कर्त्तव्यमित्याहुः । अनुवचनञ्च तथा करणीयमिति वदन्ति । तत्रोपपत्तिं दर्शयति- संवत्सरे वै तद्रेत इति । पूर्वं- ‘संवत्सरे’ उषसि । रेतो सिञ्चन् ‘स संवत्सरे कुमारो ऽजायत’ इति रेतस्सेकस्यैको वत्सरः, कुमारोत्पत्तावेक इति वर्षद्वयस्य समाम्नातत्वादिति । प्रथमं पक्षं सहेतुकं सिद्धान्तयति- संवत्सरे त्वेव चिनुयादिति । ‘तु’- शब्दो वर्षद्वयपक्षनिवृत्त्यर्थः । रेतस्सेकानन्तरमेव कललबुद्बुदपिण्डादिक्रमेण वर्षात् प्रागेव कुमारोत्पत्तेरित्यर्थः 11 ॥
तस्य चितस्य नामेति । चयनसम्बन्धाच्चित्रनाम सम्पन्नमिति तात्पर्यम् । चित्रत्वमग्नेरुपपादयति- सर्वाणि हि चित्राण्यग्निरिति । अग्न्युदकौषध्यादीनां रूपाणामग्न्यात्मकत्वात् तस्य चित्रत्वमिति । किञ्च यद्यत् चित्रवर्णं तत्तत् सर्वमग्निरेव; शुक्लभास्वररूपत्वात् तस्येति ॥ २० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (६-१-३) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये षष्ठे काण्डे प्रथमो ऽध्यायः समाप्तः ॥ ६-१ ॥
Eggeling
- One ought to build him (Agni, the fire-altar) up in (the space of) a year, and recite for a year. ‘For two (years),’ however, say some; ‘for in one year they laid the seed, and in one year that boy was born, therefore let him build for two (years), and recite for two (years).’ Let him, however, build for a year only, and recite for a year; for the same seed which is laid is brought forth; it then lies changing and growing: hence let him build for a year only, and recite for a year. To him (Agni) when built up (cita) he gives a name: whereby he keeps away evil from him. He calls him by a bright (citra) name 12, saying, ‘Thou art bright;’ for Agni is all bright things.
-
परस्मिन्ब्राह्मणे इति बोध्यम् । ↩︎
-
158:1 He means to say that he will leave this to be supplied in the enumeration of the subsequent creations. ↩︎
-
158:2 At sacrificial sessions the Sacrificer is called Gr̥hapati. On this, see IV, 6, 8, 3-5. ↩︎
-
159:1 On the legend regarding Prajāpati and his daughter Ushas, see I, 7, 4, 1 seq. ↩︎
-
अग्निँ हृदयाग्रेणाशनिँ हृदयाग्रेण पशुर्पति कृत्स्नहृदयेण भवं यक्ना ॥ शर्व्वं मतस्नाभ्यामीशानं मन्युना महादेवमन्तः- पर्शव्येनोग्रं देवं व्वनिष्ठुना" वा सं. ३९ । ८ इत्यत्रेति बोध्यम् । ↩︎
-
159:2 On this and several of the other names, see part i, p. 201. ↩︎
-
We expect शर्व instead of सर्व (oxyt.). ↩︎
-
159:3 As, when a horse gets much corn, it becomes spirited, ‘masterful.’ The St. Petersburg dictionary suggests the meaning, ’they become strong.’ It might also mean, ’they lord it (over the plants).’ ↩︎
-
160:1 That is, his state of being trivr̥t, or three times three. ↩︎
-
161:1 Tataś ca tatprabhr̥ti tam Agnim kumārarūpaṁ na kvacana paśyanti kiṁtv etāny etajgvalanādīni rūpāṇy apurushavidhāni paśyanti, Sāy. ↩︎
-
“शुकशोणितसंयोगान्मातृपितृसंयोगाच्च तत् कथमिदं शरीरं परं संयम्यते ? सोम्यो भवति, एकरात्रोषितं कललं भवति, पञ्चरात्राद् बुद्बुदाः, सप्तरात्रात् पेशी, द्विसप्तरात्रादर्बुदः, पञ्चविंशतिरात्रः स्वस्थितो घनो भवति, मासमात्रात् कठिनो भवति, द्विमासाभ्यन्तरे शिरः सम्पद्यते मासत्रयेण ग्रीवाव्यादेशो, मातचतुष्केण त्वग्व्यादेशः, पञ्चमे मासे नखरोमव्यादेशः, षष्ठे मुखनासिकाक्षिश्रोत्रं च सम्भवति, सप्तमे चलनसमर्थो भवति, अष्टमे बुद्ध्या ऽध्यवस्यति, नवमे सर्वाङ्गसम्पूर्णो भवति, दशमे मासे प्रजायते”- इत्यादि । निरु० १४-६ । ↩︎
-
161:2 Or, he calls him by the name of Citra (bright), that being the name by which he is actually to address the fire on the altar at the end of the performance. Kāty. XVIII, 6, 23. ↩︎