०१
विश्वास-प्रस्तुतिः
सो ऽकामयत प्रजा᳘पतिः॥
(र्भू᳘) भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति᳘ सो ऽग्नि᳘ना पृथिवीं᳘ मिथुनᳫँ᳭ स᳘मभवत्त᳘त ऽआण्डᳫँ᳭ स᳘मवर्त्तत त᳘द᳘भ्यमृशत्पु᳘ष्यत्वि᳘ति पु᳘ष्यतु भू᳘यो ऽस्त्वि᳘त्येव त᳘दब्रवीत्॥
मूलम् - श्रीधरादि
सो ऽकामयत प्रजा᳘पतिः॥
(र्भू᳘) भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति᳘ सो ऽग्नि᳘ना पृथिवीं᳘ मिथुनᳫँ᳭ स᳘मभवत्त᳘त ऽआण्डᳫँ᳭ स᳘मवर्त्तत त᳘द᳘भ्यमृशत्पु᳘ष्यत्वि᳘ति पु᳘ष्यतु भू᳘यो ऽस्त्वि᳘त्येव त᳘दब्रवीत्॥
मूलम् - Weber
सो ऽकामयत प्रजा᳘पतिः॥
भू᳘य एव᳘ स्यात्प्र᳘जायेते᳘तिॗ सो ऽग्नि᳘ना पृथिवी᳘म् मिथुनᳫं स᳘मभवत्त᳘त आण्डᳫं स᳘मवर्तत त᳘दभ्य᳘मृशत्पु᳘ष्यत्वि᳘ति पु᳘ष्यतु भू᳘यो ऽस्त्वि᳘त्येव त᳘दब्रवीत्॥
मूलम् - विस्वरम्
सो ऽकामयत प्रजापतिः- भूय एव स्यात्, प्रजायेतेति । सो ऽग्निना पृथिवीं मिथुनं समभवत् । तत आण्डं समवर्तत । तदभ्यमृशत्- पुष्यत्विति । पुष्यतु भूयो ऽस्तु इत्येव तदब्रवीत् ॥ १ ॥
सायणः
द्वितीयं ब्राह्मणे वाय्वन्तरिक्षादिसृष्टिः प्रजातिश्चित्याग्निरूपता चोच्यते- सो ऽकामयतेति । भूमिसृष्टेरनन्तरं प्रजापतिरिदं जगदधिकं भवेदिति कामयित्वा ‘अग्निना पृथिवीं’ मिथुनत्वेन समयोजयत् । तयोः संयोगेन ‘अण्डं’ जातम् । ‘तद् अभ्यमृशत्’ नानात्वेन पुष्टम्भवत्विति त्रिवारमण्डम मिलक्ष्य प्रजापतिः अब्रवीत् ॥ १ ॥
Eggeling
- That Prajāpati desired, ‘May it multiply, may it be reproduced!’ By means (or, in the form) of Agni he entered into union with the Earth: thence an egg arose. He touched it: ‘May it grow! May it grow and multiply!’ he said.
०२
विश्वास-प्रस्तुतिः
(त्स) स यो ग᳘र्भो ऽन्तरा᳘सीत्॥
(त्स᳘) स᳘ व्वायु᳘रसृज्यता᳘थ यद᳘श्रु सं᳘क्षरितमा᳘सीत्ता᳘नि व्व᳘याᳫँ᳭स्यभवन्न᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सीत्ता म᳘रीचयो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्त᳘दन्त᳘रिक्षमभवत्॥
मूलम् - श्रीधरादि
(त्स) स यो ग᳘र्भो ऽन्तरा᳘सीत्॥
(त्स᳘) स᳘ व्वायु᳘रसृज्यता᳘थ यद᳘श्रु सं᳘क्षरितमा᳘सीत्ता᳘नि व्व᳘याᳫँ᳭स्यभवन्न᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सीत्ता म᳘रीचयो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्त᳘दन्त᳘रिक्षमभवत्॥
मूलम् - Weber
स यो ग᳘र्भो ऽन्तरा᳘सीत्॥
स᳘ वायु᳘रसृज्यता᳘थ यद᳘श्रु सं᳘क्षरितमा᳘सीत्ता᳘नि व᳘यांस्यभवन्न᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीत्ता म᳘रीचयो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्त᳘दन्त᳘रिक्षमभवत्॥
मूलम् - विस्वरम्
स यो गर्भो ऽन्तरासीत्- स वायुरसृज्यत । अथ यदश्रु संक्षरितमासीत्- तानि वयांस्यभवन् । अथ यः कपाले रसो लिप्त आसीत् ; ता मरीचयो ऽभवन् । अथ यत्कपालमासीत्- तदन्तरिक्षमभवत् ॥ २ ॥
सायणः
तत्राहु- स यो गर्भो ऽन्तरासीदिति । यो गर्भान्तरजातः स वायुत्वेन सृष्टः । अथ गर्भोदक-कपाल लिप्तरस तत्कपालानि त्रीणि च पक्षिमरीच्यन्तरिक्षलोकात्मकानि अभूवन् ॥ २ ॥
Eggeling
- And the embryo which was inside was created as Vāyu (the wind). And the tear which had formed itself became those birds. And the juice which was adhering to the shell became those sun-motes. And that which was the shell became the air.
०३
विश्वास-प्रस्तुतिः
(त्सो) सो ऽकामयत॥
भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति स᳘ व्वायु᳘ना ऽन्त᳘रिक्षं मिथुनᳫँ᳭ स᳘मभवत्त᳘त आण्डᳫँ᳭[[!!]] स᳘मवर्तत त᳘दभ्य᳘मृशद्य᳘शो बिभृही᳘ति त᳘तो ऽसा᳘वादि᳘त्यो ऽसृज्यतैष वै यशो᳘ ऽथ यद᳘श्रु सं᳘क्षरितमा᳘सीत्सो᳘ ऽश्मा पृ᳘श्निरभवद᳘श्रुर्ह वै तमश्मेत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीत्ते᳘ रश्म᳘यो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्सा द्यौ᳘रभवत्॥
मूलम् - श्रीधरादि
(त्सो) सो ऽकामयत॥
भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति स᳘ व्वायु᳘ना ऽन्त᳘रिक्षं मिथुनᳫँ᳭ स᳘मभवत्त᳘त आण्डᳫँ᳭[[!!]] स᳘मवर्तत त᳘दभ्य᳘मृशद्य᳘शो बिभृही᳘ति त᳘तो ऽसा᳘वादि᳘त्यो ऽसृज्यतैष वै यशो᳘ ऽथ यद᳘श्रु सं᳘क्षरितमा᳘सीत्सो᳘ ऽश्मा पृ᳘श्निरभवद᳘श्रुर्ह वै तमश्मेत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीत्ते᳘ रश्म᳘यो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्सा द्यौ᳘रभवत्॥
मूलम् - Weber
सो ऽकामयत॥
भू᳘य एव᳘ स्यात्प्र᳘जायेते᳘ति स᳘ वायु᳘नान्त᳘रिक्षम् मिथुनᳫं स᳘मभवत्त᳘त आ᳘ण्डᳫं स᳘मवर्तत त᳘दभ्य᳘मृशद्य᳘शो बिभृही᳘ति त᳘तो ऽसा᳘वादिॗत्यो ऽसृज्यतैष वै यशो᳘ ऽथ यद᳘श्रु सं᳘क्षरितमा᳘सीत्सो᳘ ऽश्मा पृ᳘श्निरभवद᳘श्रुर्ह वै तमश्मेत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा अ᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीत्ते᳘ रश्म᳘यो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्सा द्यौ᳘रभवत्॥
मूलम् - विस्वरम्
सो ऽकामयत- भूय एव स्यात्प्रजायेतेति । स वायुना ऽन्तरिक्षं मिथुनं समभवत् । तत आण्डं समवर्तत । तदभ्यमृशद्- यशो बिभृहीति । ततो ऽसावादित्यो ऽसृज्यतं । एष वै यशः । अथ यदश्रु संक्षरितमासीत्- सो ऽश्मा पृश्निरभवत् । अश्रुर्ह वै तमश्मेत्याचक्षते परो ऽक्षम्- परो ऽक्षकामा हि देवाः । अथ यः कपाले रसो लिप्त असीत्-ते रश्मयो ऽभवन् । अथ यत्कपालमासीत्- सा द्यौरभवत् ॥ ३ ॥
सायणः
सो ऽकामयतेत्यादेरयमर्थः- वाय्वन्तरिक्षयोमिथुनत्वेन सङ्गात् एकम् ‘अण्डम्’ उत्पन्नम् । तस्मात् आदित्य उत्पन्नः; स ‘एषः’ आदित्यो ‘यशः‘ “यशो बिभ्रिहि”- ‘इति’ यशोरूपत्वेन धारणार्थं प्रजापतिना अण्डस्यावमृष्टत्वात्तत उत्पन्न आदित्यो यश इत्युच्यते । पूर्ववद् गर्भोदकादीनि त्रीणि मेघरश्मिद्युलोकात्मकानि जातानि । तदा ‘पृशिनः’ नानावर्णः, ‘अश्मा’ आकाशाच्छादको मेघः । “अश्नोतेरश्मा” इति नैरुक्ताः (निघं . १ । १० । ५ । ८ ) ॥ ३ ॥
Eggeling
- He desired, ‘May it multiply, may it reproduce itself!’ By means of Vāyu he entered into union with the Air: thence an egg arose. He touched it, saying, ‘Bear thou glory!’ From it yonder sun was created, for he indeed is glorious. And the tear which (aśru) formed itself became that variegated pebble (aśman); for ‘aśru’ indeed is what
they mystically call ‘aśman,’ for the gods love the mystic. And the juice which was adhering to the shell became those sunbeams. And that which was the shell became the sky.
०४
विश्वास-प्रस्तुतिः
(त्सो) सोकामयत॥
भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति स᳘ ऽआदित्ये᳘न दि᳘वं मिथुनᳫँ᳭ स᳘मभवत्त᳘त ऽआण्डᳫँ᳭ स᳘मवर्त्तत त᳘द᳘भ्यमृशद्रे᳘तो[[!!]] बिभृही᳘ति त᳘तश्चन्द्र᳘मा ऽअसृज्यतैष वै रेतो᳘ ऽथ यद᳘श्रु[[!!]] सं᳘क्षरितमा᳘सीत्ता᳘नि न᳘क्षत्राण्यभवन्न᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सीत्ता᳘ ऽअवान्तरदि᳘शो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्ता दि᳘शो ऽभवन्॥
मूलम् - श्रीधरादि
(त्सो) सोकामयत॥
भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति स᳘ ऽआदित्ये᳘न दि᳘वं मिथुनᳫँ᳭ स᳘मभवत्त᳘त ऽआण्डᳫँ᳭ स᳘मवर्त्तत त᳘द᳘भ्यमृशद्रे᳘तो[[!!]] बिभृही᳘ति त᳘तश्चन्द्र᳘मा ऽअसृज्यतैष वै रेतो᳘ ऽथ यद᳘श्रु[[!!]] सं᳘क्षरितमा᳘सीत्ता᳘नि न᳘क्षत्राण्यभवन्न᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सीत्ता᳘ ऽअवान्तरदि᳘शो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्ता दि᳘शो ऽभवन्॥
मूलम् - Weber
सो ऽकामयत॥
भू᳘य एव᳘ स्यात्प्र᳘जायेते᳘ति स᳘ आदित्ये᳘न दि᳘वम् मिथुनᳫं स᳘मभवत्त᳘त आ᳘ण्डᳫं स᳘मवर्तत त᳘दभ्य᳘मृशद्रे᳘तो बिभृही᳘ति त᳘तश्चन्द्र᳘मा असृज्यतैष वै रेतो᳘ ऽथ य᳘दश्रु सं᳘क्षरितमा᳘सीत्ता᳘नि न᳘क्षत्राण्यभवन्न᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीत्ता᳘ अवान्तरदि᳘शो ऽभवन्न᳘थ य᳘त्कपा᳘लमा᳘सीत्ता दि᳘शो ऽभवन्॥
मूलम् - विस्वरम्
सो ऽकामयत- भूय एव स्यात्प्रजायेतेति । स वायुना ऽन्तरिक्षं मिथुनं समभवत् । तत आण्डं समवर्तत । तदभ्यमृशद्- यशो बिभृहीति । ततो ऽसावादित्यो ऽसृज्यतं । एष वै यशः । अथ यदनु संक्षरित- मासीत्- तानि नक्षत्राण्यभवन् । अथ यः कपाले रसो लिप्त आसीत् । ता अवान्तरदिशो ऽभवन् । अथ यत्कपालमासीत्- ता दिशो ऽभवन् ॥ ४ ॥
सायणः
अथ तृतीयपर्याये आदित्यद्युलोकयोर्मिंथुनत्वेन गर्भः समजनि तं प्रजापतिः ‘रेतो बिभृहि’ - ‘इति’ तोरूपत्येन धारयेति गर्भमवसृष्टवान् । ततो ऽण्डात् यत् इमाः सृष्टाः, अत एव तस्य रेतस्त्वम्, सुधास्रवणात् । अत्रापि पूर्ववद् गर्भोदककपाललितरसतत्कपालानि नक्षत्रावान्तरदिङ्महादिगात्मकानि सम्पन्नानि ॥ ४ ॥
Eggeling
- He desired, ‘May it multiply, may it reproduce itself!’ By means of the Sun he entered into union with the Sky: thence an egg arose. He touched it, saying, ‘Bear thou seed!’ From it the moon was created, for he (the moon) is seed. And the tear which formed itself became those stars. And the juice which was adhering to the shell became those intermediate quarters; and that which was the shell became those (chief) quarters (points of the compass).
०५
विश्वास-प्रस्तुतिः
(न्त्स᳘) स᳘ ऽइमाल्ँ᳘लोका᳘न्त्सृ᳘ष्ट्वा ऽकामयत॥
ताः᳘ प्रजाः᳘ सृजेय या᳘ म ऽएषु᳘ लोके᳘षु स्युरि᳘ति॥
मूलम् - श्रीधरादि
(न्त्स᳘) स᳘ ऽइमाल्ँ᳘लोका᳘न्त्सृ᳘ष्ट्वा ऽकामयत॥
ताः᳘ प्रजाः᳘ सृजेय या᳘ म ऽएषु᳘ लोके᳘षु स्युरि᳘ति॥
मूलम् - Weber
स᳘ इमां᳘लोका᳘न्त्सृॗष्ट्वाकामयत॥
ताः᳘ प्रजाः᳘ सृजेय या᳘ म एषु लोके᳘षु स्युरि᳘ति॥
मूलम् - विस्वरम्
स इमाल्ँ लोकान्त्सृष्ट्वा ऽकामयत- ताः प्रजाः सृजेय या म ऽएषु लोकेषु स्युरिति ॥ ५ ॥
सायणः
स इमाल्ँ लोकान्त्सृष्ट्वेत्यादि । पुनश्च प्रजापतिः एषु लोकेषु प्रजाः सृजेयमिति विचार्य स्वकीय वाङ्मनसयो- मिथुनीभवनेन स्वयमष्टद्राप्सरूपगर्भवानभवत्, ततो ऽष्टभ्यो द्रप्सेभ्यः अष्टौ वसवः सञ्जाताः । तान् ‘वसून्’अस्यां ‘भूमौ’ ‘उपादधात्’ निहितवान् । पुनश्च वाङ्मनसयोः युग्मेन एकादश रुद्रान् सृष्ट्वा तान् अन्तरिक्षे स्थापितवान् । द्वादशादित्यांश्च सृष्ट्वा तान् द्युलोके उपदधातिस्म, विश्वान् देवान् दिक्षु निहितवान् ॥ ५-९ ॥
Eggeling
- Having created these worlds, he desired, ‘May I create such creatures as shall be mine in these worlds!’
०६
विश्वास-प्रस्तुतिः
स म᳘नसा व्वा᳘चं मिथुनᳫँ᳭ स᳘मभव᳘त्॥
(त्सो) सो ऽष्टौ᳘ द्रप्सा᳘न्गर्भ्यभव᳘त्ते ऽष्टौ[[!!]] व्व᳘सवो ऽसृज्यन्त ता᳘नस्यामु᳘पादधात्॥
मूलम् - श्रीधरादि
स म᳘नसा व्वा᳘चं मिथुनᳫँ᳭ स᳘मभव᳘त्॥
(त्सो) सो ऽष्टौ᳘ द्रप्सा᳘न्गर्भ्यभव᳘त्ते ऽष्टौ[[!!]] व्व᳘सवो ऽसृज्यन्त ता᳘नस्यामु᳘पादधात्॥
मूलम् - Weber
स म᳘नसा वा᳘चम् मिथुनᳫं स᳘मभवत्॥
सो ऽष्टौ᳘ द्रप्सा᳘न्गर्भ्य᳘भवॗत्ते ऽष्टौ व᳘सवो ऽसृज्यन्त ता᳘नस्यामुपादधात्॥
मूलम् - विस्वरम्
स मनसा वाचं मिथुनं समभवत् । सो ऽष्टौ द्रप्सान्गर्भ्यभवत् । ते ऽष्टौ वसवो ऽसृज्यन्त । तानस्यामुपादधात् ॥ ६ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- By his Mind (manas) he entered into union with Speech (vāc): he became pregnant with eight drops. They were created as those eight Vasus 1: he placed them on this (earth).
०७
विश्वास-प्रस्तुतिः
(त्स) स म᳘नसैव[[!!]]॥
व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवत्स ऽए᳘कादश द्रप्सा᳘न्गर्भ्यभवत्त ऽए᳘कादश[[!!]] रुद्रा᳘ ऽअसृज्यन्त ता᳘नन्त᳘रिक्ष ऽउ᳘पादधात्॥
मूलम् - श्रीधरादि
(त्स) स म᳘नसैव[[!!]]॥
व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवत्स ऽए᳘कादश द्रप्सा᳘न्गर्भ्यभवत्त ऽए᳘कादश[[!!]] रुद्रा᳘ ऽअसृज्यन्त ता᳘नन्त᳘रिक्ष ऽउ᳘पादधात्॥
मूलम् - Weber
स म᳘नसैव᳟॥
वा᳘चम् मिथुनᳫं स᳘मभवत्स ए᳘कादश द्रप्सा᳘न्गर्भ्य᳘भवत्त ए᳘कादश रुद्रा᳘ असृज्यन्त ता᳘नन्त᳘रिक्ष उ᳘पादधात्॥
मूलम् - विस्वरम्
स मनसैव वाचं मिथुनं समभवत् । स एकादश द्रप्सान्गर्भ्यभवत् । त ऽएकादश रुद्रा असृज्यन्त । तानन्तरिक्ष ऽउपादधात् ॥ ७ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- By his Mind he entered into union with Speech: he became pregnant with eleven drops. They were created as those eleven Rudras 2: he placed them in the air.
०८
विश्वास-प्रस्तुतिः
(त्स) स म᳘नसैव[[!!]]॥
व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवत्स द्वा᳘दश द्रप्सा᳘न्गर्भ्यभवत्ते[[!!]] द्वा᳘दशादित्या᳘ ऽअसृज्यन्त ता᳘न्दिव्यु᳘पादधात्॥
मूलम् - श्रीधरादि
(त्स) स म᳘नसैव[[!!]]॥
व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवत्स द्वा᳘दश द्रप्सा᳘न्गर्भ्यभवत्ते[[!!]] द्वा᳘दशादित्या᳘ ऽअसृज्यन्त ता᳘न्दिव्यु᳘पादधात्॥
मूलम् - Weber
स म᳘नसैव᳟॥
वा᳘चम् मिथुनᳫं स᳘मभवत्स द्वा᳘दश द्रप्सा᳘न्गर्भ्य᳘भवत्ते द्वा᳘दशादित्या᳘ असृज्यन्त ता᳘न्दिव्यु᳘पादधात्॥
मूलम् - विस्वरम्
स मनसैव वाचं मिथुनं समभवत् । स द्वादश द्रप्सान्गर्भ्यभवत् । ते द्वादशादित्या असृज्यन्त । तान्दिव्युपाधात् ॥ ८ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- By his Mind he entered into union with Speech: he became pregnant with twelve drops. They were created as the twelve Ādityas 3: he placed them in the sky.
०९
विश्वास-प्रस्तुतिः
(त्स) स मनसैव[[!!]]॥
व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवत्स᳘ गर्भ्य᳘भवत्स व्वि᳘श्वान्देवा᳘नसृजत ता᳘न्दिक्षू᳘पादधात्॥
मूलम् - श्रीधरादि
(त्स) स मनसैव[[!!]]॥
व्वा᳘चं मिथुनᳫँ᳭ स᳘मभवत्स᳘ गर्भ्य᳘भवत्स व्वि᳘श्वान्देवा᳘नसृजत ता᳘न्दिक्षू᳘पादधात्॥
मूलम् - Weber
स मनसैव᳟॥
वा᳘चम् मिथुनᳫं स᳘मभवत्स᳘ गर्भ्य᳘भवत्स वि᳘श्वान्देवा᳘नसृजत ता᳘न्दिक्षू᳘पादधात्॥
मूलम् - विस्वरम्
स मनसैव वाचं मिथुनं समभवत् । स गर्भ्यभवत् । स विश्वान्देवानसृजत । तान्दिक्षूपादधात् ॥ ९ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- By his Mind he entered into union with Speech: he became pregnant. He created the All-gods: he placed them in the quarters.
१०
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो ऽआहुः॥
(र)अग्नि᳘मेव᳘ सृष्टं व्व᳘सवो᳘ ऽन्वसृज्यन्त ता᳘नस्यामु᳘पादधाद्वायु᳘ᳫँ᳘ रुद्रास्ता᳘नन्त᳘रिक्ष ऽआदित्य᳘मादित्यास्ता᳘न्दिवि व्वि᳘श्वे देवा᳘श्चन्द्र᳘मसं ता᳘न्दिक्षू᳘पादधादिति[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो ऽआहुः॥
(र)अग्नि᳘मेव᳘ सृष्टं व्व᳘सवो᳘ ऽन्वसृज्यन्त ता᳘नस्यामु᳘पादधाद्वायु᳘ᳫँ᳘ रुद्रास्ता᳘नन्त᳘रिक्ष ऽआदित्य᳘मादित्यास्ता᳘न्दिवि व्वि᳘श्वे देवा᳘श्चन्द्र᳘मसं ता᳘न्दिक्षू᳘पादधादिति[[!!]]॥
मूलम् - Weber
अ᳘थो आहुः॥
अग्नि᳘मेव᳘ सृष्टं व᳘सवो᳘ ऽन्वसृज्यन्त ता᳘नस्यामु᳘पादधाद्वायुं᳘ रुद्रास्ता᳘नन्त᳘रिक्ष आदित्य᳘मादित्यास्ता᳘न्दिवि वि᳘श्वे देवा᳘श्चन्द्र᳘मसं ता᳘न्दिक्षू᳘पादधादि᳘ति॥
मूलम् - विस्वरम्
अथो ऽआहुः- अग्निमेव सृष्टं वसवो ऽन्वसृज्यन्त । तानस्पामुपादधात् (१) । वायुं रुद्राः । तानन्तरिक्षे (२) । आदित्यमादित्याः । तान्दिवि (३) । विश्वेदेवाश्वन्द्रमसम् । तान्दिक्षूपादधात् इति ॥ १० ॥
सायणः
अत्र केचिद् वसुरुद्रादित्यविश्वेदेवानामुत्पत्तिमग्निपूर्वां दर्शपन्ति- अथो आहुरग्निमेव सृष्टं वसवो ऽन्वसृज्यन्तेति । ‘इति’- शब्द एकीयपक्षसमाप्त्यर्थः ॥ १० ॥
Eggeling
- And so they say, ‘After Agni having been created, the Vasus were created: he placed them on this (earth);–after Vāyu, the Rudras: (he placed) them in the air;–after the sun, the Ādityas: (he placed) them in the sky;–after the moon, the All-gods 4: he placed them in the quarters.’
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरे᳘वेमाल्ँ᳘लोका᳘न्त्सृष्ट्वा᳘ पृथिव्यां प्र᳘त्यतिष्ठत्त᳘स्मा ऽइमा ऽओ᳘षधयो᳘ ऽन्नमपच्यन्त त᳘दाश्नात्स᳘ ग᳘र्भ्यभवत्स᳘[[!!]] ऊर्ध्वे᳘भ्य ऽएव᳘ प्राणे᳘भ्यो देवान᳘सृजत ये᳘ ऽवाञ्चः प्राणास्ते᳘भ्यो म᳘र्त्याः प्रजा ऽइत्य᳘तो यतमथा᳘ ऽसृजत त᳘था ऽसृजत प्रजा᳘पति᳘स्त्वे᳘वेदᳫँ᳭ स᳘र्व्वमसृजत य᳘दिदं किं᳘च॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरे᳘वेमाल्ँ᳘लोका᳘न्त्सृष्ट्वा᳘ पृथिव्यां प्र᳘त्यतिष्ठत्त᳘स्मा ऽइमा ऽओ᳘षधयो᳘ ऽन्नमपच्यन्त त᳘दाश्नात्स᳘ ग᳘र्भ्यभवत्स᳘[[!!]] ऊर्ध्वे᳘भ्य ऽएव᳘ प्राणे᳘भ्यो देवान᳘सृजत ये᳘ ऽवाञ्चः प्राणास्ते᳘भ्यो म᳘र्त्याः प्रजा ऽइत्य᳘तो यतमथा᳘ ऽसृजत त᳘था ऽसृजत प्रजा᳘पति᳘स्त्वे᳘वेदᳫँ᳭ स᳘र्व्वमसृजत य᳘दिदं किं᳘च॥
मूलम् - Weber
अ᳘थो आहुः॥
प्रजा᳘पतिरेॗवेमां᳘लोका᳘न्त्सृष्ट्वा᳘ पृथिव्याम् प्र᳘त्यतिष्ठत्त᳘स्मा इमा ओ᳘षधयो᳘ ऽन्नमपच्यन्त त᳘दाश्नात्स᳘ गर्भ्य᳘भवत्स ऊर्ध्वे᳘भ्य एव᳘ प्राणे᳘भ्यो देवान᳘सृजत ये᳘ वाञ्चः प्राणास्ते᳘भ्यो म᳘र्त्याः प्रजा इत्य᳘तो यतमथा᳘सृजत त᳘थासृजत प्रजा᳘पतिॗस्त्वेॗवेदᳫं स᳘र्वमसृजत य᳘दिदं किं᳘ च॥
मूलम् - विस्वरम्
अथो ऽआहुः- प्रजापतिरेवेमाल्ँ लोकान्त्सृष्ट्वा पृथिव्यां प्रत्यतिष्ठत् । तस्मा ऽइमा ओषधयो ऽन्नमपच्यन्त । तदाश्नात् । स गर्भ्यभवत् । स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत । ये ऽवाञ्चः प्राणाः- तेभ्यो मर्त्याः प्रजा इति । अतो यतमथा ऽसृजत- तथा ऽसृजत । प्रजापतिस्त्वेवेदं सर्वमसृजत- यदिदं किंच ॥ ११ ॥
सायणः
अथो आहुः प्रजापतिरेवेत्यादेरयमर्थः । ‘अथो’ अपरे ब्रह्मवादिनः एवम् ‘आहुः ।’ ‘प्रजापतिरेव’ लोकत्रयं ‘सृष्ट्वा,’ ‘प्रथिव्यां’ प्रतिष्ठितः सन् पक्वाः अन्नरूपा ओषधीः प्रश्य ‘गर्भी’ भूत्वा ‘सः’ ऊर्द्ध्वेभ्यः ‘प्राणेभ्यः’ ‘देवान्’ सृष्टवान् । अवाचीनेभ्यः प्राणेभ्यः ‘मर्त्याः प्रजा इति’ । सृष्टौ यद्यपि प्रकारविशेषो ऽस्ति, तथापि स्थावरजङ्गमात्मकस्य जगतः प्रजापतिसृष्टत्वं निश्चितमिति श्रुतिः स्वमतं निरूपयति- अतो यतमथेति । ‘यतमथा’ येन प्रकारेण सृष्टवान्, तेनैव प्रकारेण सृष्टिरस्तु, सर्वात्मना प्रजापतिरेवेदं सर्वमसृजदिति सत्यमित्यर्थः ॥ ११ ॥
Eggeling
- And so they say, ‘Prajāpati, having created these worlds, was firmly established on the earth. For him these plants were ripened 5 into food: that he ate. He became pregnant. From the upper vital airs he created the gods, and from the lower vital airs the mortal creatures.’ In whatever way he created thereafter, so he created; but indeed it was Prajāpati who created everything here, whatsoever exists.
१२
विश्वास-प्रस्तुतिः
स᳘ प्रजाः᳘ सृष्ट्वा[[!!]]॥
स᳘र्व्वमाजि᳘मित्वा᳘ व्य᳘स्रᳫँ᳭सत त᳘स्मादु हैतद्यः स᳘र्व्वमाजिमे᳘ति[[!!]] व्येव᳘ स्रᳫँ᳭सते त᳘स्माद्वि᳘स्रस्तात्प्राणो᳘ मध्यत ऽउ᳘दक्रामत्त᳘स्मिन्नेनमु᳘त्क्रान्ते देवा᳘ ऽअजहुः᳘॥
मूलम् - श्रीधरादि
स᳘ प्रजाः᳘ सृष्ट्वा[[!!]]॥
स᳘र्व्वमाजि᳘मित्वा᳘ व्य᳘स्रᳫँ᳭सत त᳘स्मादु हैतद्यः स᳘र्व्वमाजिमे᳘ति[[!!]] व्येव᳘ स्रᳫँ᳭सते त᳘स्माद्वि᳘स्रस्तात्प्राणो᳘ मध्यत ऽउ᳘दक्रामत्त᳘स्मिन्नेनमु᳘त्क्रान्ते देवा᳘ ऽअजहुः᳘॥
मूलम् - Weber
स᳘ प्रजाः᳘ सृष्ट्वा᳟॥
स᳘र्वमाजि᳘मित्वा व्य᳘स्रंसत त᳘स्मादु हैतद्यः स᳘र्वमाजिमे᳘तिॗ व्येव᳘ स्रंसते त᳘स्माद्वि᳘स्रस्तात्प्राणो᳘ मध्यत उ᳘दक्रामत्त᳘स्मिन्नेनमुत्क्रान्ते देवा᳘ अजहुः॥
मूलम् - विस्वरम्
स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत । तस्मादु हतद्- यः सर्वमाजिमेति व्येव स्रंसते । तस्माद्वित्रस्तात्प्राणो मध्यत उदक्रामत् । तस्मिन्नेनमुत्कान्ते देवा अजहुः ॥ १२ ॥
सायणः
अथैवं सर्वोत्पादकस्य प्रजापतेश्चित्याभिरूपेतामाख्यायिकामुखेन 6 दर्शयति-स प्रजाः सृष्ट्वा सर्वमाजिमित्वेति । ‘स प्रजाः सृष्ट्वा,’ ‘सर्वम्’ ‘आजिम्’ लक्ष्यम् प्रति एत्य, ‘व्यस्रंसत’ विस्रस्तः । सृष्टिकरणमेवात्र लक्ष्यो ऽवधिः, तत्र च विस्रस्त इत्यर्थः । तस्माल्लोके ऽपि आजिधावनेन श्राम्यति जनः । तस्मात् श्रान्तात् पुरुषान्मध्यप्रदेशात् प्राणा उत्क्रान्ताः, ‘तस्मिन्’ अपगते ‘देवाः’ इन्द्रियाणि ‘अजहुः’ त्यक्तवन्तः । “ओ हाक् त्यागे” ( धा. पा. जु. प. ८ ) ॥ १२ ॥
Eggeling
- Having created creatures he, having run the whole race, became relaxed 7; and therefore even now he who runs the whole race becomes indeed
relaxed. From him being thus relaxed, the vital air went out from within. When it had gone out of him the gods left him.
१३
विश्वास-प्रस्तुतिः
सो ऽग्नि᳘मब्रवीत्॥
(त्त्वं᳘) त्वं᳘ मा सं᳘धेही᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्व᳘या मा᳘ ऽचक्षान्तै यो वै᳘ पुत्रा᳘णाᳫँ᳭ रा᳘ध्यते ते᳘न पित᳘रं पितामहं᳘ पुत्रं पौ᳘त्रमा᳘चक्षते त्व᳘या मा᳘ ऽऽचक्षान्ता ऽअ᳘थ मा सं᳘धेही᳘ति तथे᳘ति त᳘मग्निः स᳘मदधात्त᳘स्मादेतं᳘ प्रजा᳘पतिᳫं᳭ स᳘न्तमग्निरित्या᳘चक्षत ऽआ᳘ ह वा᳘ ऽएनेन पित᳘रं पितामहं᳘ पुत्रम् पौ᳘त्रं चक्षते य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
सो ऽग्नि᳘मब्रवीत्॥
(त्त्वं᳘) त्वं᳘ मा सं᳘धेही᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्व᳘या मा᳘ ऽचक्षान्तै यो वै᳘ पुत्रा᳘णाᳫँ᳭ रा᳘ध्यते ते᳘न पित᳘रं पितामहं᳘ पुत्रं पौ᳘त्रमा᳘चक्षते त्व᳘या मा᳘ ऽऽचक्षान्ता ऽअ᳘थ मा सं᳘धेही᳘ति तथे᳘ति त᳘मग्निः स᳘मदधात्त᳘स्मादेतं᳘ प्रजा᳘पतिᳫं᳭ स᳘न्तमग्निरित्या᳘चक्षत ऽआ᳘ ह वा᳘ ऽएनेन पित᳘रं पितामहं᳘ पुत्रम् पौ᳘त्रं चक्षते य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
सो ऽग्नि᳘मब्रवीत्॥
त्व᳘म् मा सं᳘धेही᳘ति कि᳘ मे त᳘तो भविष्यती᳘ति त्व᳘या मा᳘चक्षान्तै यो वै᳘ पुत्रा᳘णां रा᳘ध्यते ते᳘न पित᳘रम् पितामह᳘म् पुत्रम् पौ᳘त्रमा᳘चक्षते त्व᳘या मा᳘चक्षान्ता अ᳘थ मा सं᳘धेही᳘ति तथे᳘ति त᳘मग्निः स᳘मदधात्त᳘स्मादेत᳘म् प्रजा᳘पतिᳫं स᳘न्तमग्निरित्या᳘चक्षत आ᳘ ह वा᳘ एनेन पित᳘रम् पितामह᳘म् पुत्रम् पौ᳘त्रं चक्षते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
सो ऽग्निमब्रवीत्- त्वं मा सन्धेहीति । किं मे ततो भविष्यतीति । त्वया मा ऽऽचक्षान्तै । यो वै पुत्राणां राध्यते- तेन पितरं पितामहं पुत्रं पौत्रमाचक्षते । त्वया मा ऽऽचक्षान्तै । अथ मा सन्धेहीति । तथेति । तमग्निः समदधात् । तस्मादेतं प्रजापतिं सन्तमग्निरित्याचक्षते । आ ह वा ऽएतेन पितरं पितामहं पुत्रं पौत्रं चक्षते- य एवं वेद ॥ १३ ॥
सायणः
सो ऽग्निमब्रवीदिति । ‘सः’ प्रजापति ‘अग्निम्’ अवोचत् । हे अग्ने ! ‘त्वं’ ‘मा’ मां ‘सन्धेहि’ उत्क्रान्तेन प्राणेन पुनः संहितं कुरु ‘इति‘ । एवं प्रजापतिना उक्ते सति, अग्निः अब्रवीत्,- ‘ततः’ त्वत्प्राणसन्धानाद्धेतोः ‘मे’ मम किं भविष्यति ? ‘इति’ । हे अग्ने ! ‘त्वया’ त्वन्नाम्ना ‘या’ माम् ‘आचक्षान्तै’ आचक्षीरन् । चष्टेः पञ्चमलकारे रूपम् । यथा लोके ‘पुत्राणां’ मध्ये ‘यो’ ‘राध्यते’ विद्यया बलेन वा प्रसिद्धो भवति, ‘तेन’ एव पुत्रेण पितृपितामहा व्यवहरन्ति, तस्यायं पिता पितामह इदि तस्यायं पुत्रः पौत्र इति । तस्मात् पुत्रस्य तव नाम्ना ममापि व्यपदेशो भवतु । अतः सन्धेहीत्युक्तम् । ‘अग्निः’ ‘तथा इति’ अङ्गीकृत्य तं ‘समदधात्’ । अतो ऽग्निना संहितत्वात् ‘एतं’ सर्वोत्पादकं ‘प्रजापतिम्’ एव सञ्चित्य ‘अग्निरित्याचक्षते’ वेदवादिनः । वेदितुः फलमाह- आ ह वा एतेनेति । ‘आङ्’- इत्युपसर्ग ‘चक्षते’- इत्यनेन सम्बध्यते । ‘ह वा’- इति निपातद्वयमेकार्थवाचि ॥ १३ ॥
Eggeling
- He said to Agni, ‘Restore me!’–‘What will then accrue to me?’ said he.–‘They shall call me after thee; for whichever of the sons succeeds (in life), after him they call the father, grandfather, son, and grandson: they shall call me after thee,–restore me, then!’–‘So be it!’ so (saying) Agni restored him: therefore, while being Prajāpati, they call him Agni; and verily, whosoever knows this, after him they call his father, grandfather, son, and grandson.
१४
विश्वास-प्रस्तुतिः
त᳘मब्रवीत्॥
(त्क᳘) क᳘स्मिंस्त्वो᳘पधास्यामी᳘ति हित᳘ ऽएवे᳘त्यब्रवीत्प्राणो वै᳘ हितं᳘ प्राणो हि स᳘र्व्वेभ्यो भूते᳘भ्यो हितस्तद्य᳘देनᳫं᳭ हित᳘ ऽउपा᳘दधात्त᳘स्मादाहो᳘पधास्याम्यु᳘पदधाम्यु᳘पाधामि᳘ति॥
मूलम् - श्रीधरादि
त᳘मब्रवीत्॥
(त्क᳘) क᳘स्मिंस्त्वो᳘पधास्यामी᳘ति हित᳘ ऽएवे᳘त्यब्रवीत्प्राणो वै᳘ हितं᳘ प्राणो हि स᳘र्व्वेभ्यो भूते᳘भ्यो हितस्तद्य᳘देनᳫं᳭ हित᳘ ऽउपा᳘दधात्त᳘स्मादाहो᳘पधास्याम्यु᳘पदधाम्यु᳘पाधामि᳘ति॥
मूलम् - Weber
त᳘मब्रवीत्॥
कस्मिस्त्वो᳘पधास्यामी᳘ति हित᳘ एवे᳘त्यब्रवीत्प्राणो वै᳘ हित᳘म् प्राणो हि स᳘र्वेभ्यो भूते᳘भ्यो हितस्तद्य᳘देनᳫं हित᳘ उपा᳘दधात्त᳘स्मादाहो᳘पधास्याम्यु᳘पदधामि᳘ति॥
मूलम् - विस्वरम्
तमब्रवीत्- कस्मिंस्त्वोषधास्यामीति । हित ऽएवेत्यब्रवीत् । प्राणो वै हितम् । प्राणो हि सर्वेभ्यो भूतेभ्यो हितः । तद्यदेनं हितउपाधात् तस्मादाह- उपधास्यामि, उपदधामि उपाधामिति ॥ १४॥
सायणः
सन्धानप्रकारं प्रश्नोत्तरेणाह- तमब्रवीत् कस्पिंस्त्वोषधास्यामीतीति । हे प्रजापते ! ‘कस्मिन्’ स्थाने ‘त्वा’ त्वाम् ’उपधास्यामि’ ‘इति’ अग्नेः प्रश्नः । ‘हित एव’ मा सन्धेहि । ‘इति’ उत्तरम् । हितशब्दार्थमाह- प्राणो वै हितमिति । प्राणस्य सर्वेभ्य इन्द्रियेभ्यो ऽतिशयितत्वात् हितत्वम् । तस्मिन् हितरूपे प्राणे ‘अग्निः‘ प्रजापतिं समाहितवान् । पूर्व मध्यतः प्राण उच्चक्राम, तमेव सन्धेहीति प्रजापतिनैवोक्तत्वात् । ‘तस्मात्’ इदानींतन अनुष्ठातारो ऽपि चित्युपधानसमये उपदधति भूतभविष्यद्वर्तमानप्रयोगं कुर्वन्तीत्यर्थः । ‘उपचास्यामि‘ इति भविष्यतः प्रयोगः, ‘उपदधामि‘- इति वर्त्तमानस्य, ‘उपाधाम्’- इति भूतस्य ॥ १४ ॥
Eggeling
१५
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कि᳘ᳫँ᳘ हितं किमु᳘पहितमि᳘ति[[!!]] प्राण᳘ ऽएव᳘ हितं व्वागु᳘पहितं प्राणे᳘ हीयं व्वागु᳘पेव हिता᳘ प्राण᳘स्त्वेव᳘ हितम᳘ङ्गान्यु᳘पहितं प्राणे᳘ हीमान्य᳘ङ्गान्यु᳘पेव हिता᳘नि᳘॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कि᳘ᳫँ᳘ हितं किमु᳘पहितमि᳘ति[[!!]] प्राण᳘ ऽएव᳘ हितं व्वागु᳘पहितं प्राणे᳘ हीयं व्वागु᳘पेव हिता᳘ प्राण᳘स्त्वेव᳘ हितम᳘ङ्गान्यु᳘पहितं प्राणे᳘ हीमान्य᳘ङ्गान्यु᳘पेव हिता᳘नि᳘॥
मूलम् - Weber
त᳘दाहुः॥
कि᳘ᳫं᳘ हितं किमुप᳘हितमि᳘ति प्राण᳘ एव᳘ हितं वागु᳘पहितम् प्राणेॗ हीयं वागु᳘पेव हिता᳘ प्राणॗस्त्वेव᳘ हितम᳘ङ्गान्यु᳘पहितम् प्राणेॗ हीमान्य᳘ङ्गान्यु᳘पेव हिता᳘नि॥
मूलम् - विस्वरम्
तदाहुः- किं हितम्, किमुपहितमिति । प्राण एव हितम्, वागुपहितम् । प्राणे हीयं वागुपेव हिता । प्राणस्त्वेव हितम्, अङ्गान्युपहितम् । प्राणे हीमान्यङ्गान्युपेव हितानि ॥ १५ ॥
सायणः
प्रसङ्गात् उपहितशब्दार्थ वक्तुं हितोपहितयोः स्वरूपं पृच्छति- तदाहुः किं हितमिति । उपादधादिति उपधानस्यातमुपवेयं चोक्तम्, तत्र प्राणस्य हितत्वं दर्शितम्, ‘उपहितमिति’ वाच उच्यते, प्राणे वाचमुपहितवानित्यर्थः । उपहितपदस्यार्थान्तरमाह- अङ्गानीति । प्राणवति पुरुषे ‘अङ्गानि’ ‘उपहितानि’ सन्निहितानि भवति । एवं प्रजापतेरग्निनामव्यपदेश्यत्वमुक्तम् ॥ १५ ॥
Eggeling
- As to this they say, ‘What is hita, and what is upahita?’ The vital air, forsooth, is the ‘hita,’ and speech is the ‘upahita,’ for it is on the vital air that this speech is based (upa-hitā). The vital air, again, is the ‘hita,’ and the limbs are the ‘upahita,’ for on the vital air these limbs are indeed based.
१६
विश्वास-प्रस्तुतिः
सो ऽस्यैष चि᳘त्य ऽआसीत्॥
(च्चे) चेत᳘व्यो᳘ ह्यस्या᳘सीत्त᳘स्माच्चि᳘त्यश्चि᳘त्य᳘ ऽउ ऽए᳘वायं[[!!]] य᳘जमानस्य भवति चेत᳘व्यो᳘ ह्यस्य[[!!]] भ᳘वति त᳘स्माद्वेव चि᳘त्यः॥
मूलम् - श्रीधरादि
सो ऽस्यैष चि᳘त्य ऽआसीत्॥
(च्चे) चेत᳘व्यो᳘ ह्यस्या᳘सीत्त᳘स्माच्चि᳘त्यश्चि᳘त्य᳘ ऽउ ऽए᳘वायं[[!!]] य᳘जमानस्य भवति चेत᳘व्यो᳘ ह्यस्य[[!!]] भ᳘वति त᳘स्माद्वेव चि᳘त्यः॥
मूलम् - Weber
सो ऽस्यैष चि᳘त्य आसीत्॥
चेत᳘व्यो ह्य᳘स्या᳘सीत्त᳘स्माच्चि᳘त्यश्चि᳘त्य उ एॗवायं य᳘जमानस्य भवति चेत᳘व्यो ह्य᳘स्य भ᳘वति त᳘स्माद्वेव चि᳘त्यः॥
मूलम् - विस्वरम्
सो ऽस्यैष चित्य आसीत् । चेतव्यो ह्यस्यासीत्- तस्माच्चित्यः । चित्य उ एवायं यजमानस्य भवति । चेतव्यो ह्यस्य भवति । तस्माद्वेव चित्यः ॥ १६ ॥
सायणः
चित्यत्वमपि दर्शयति- सो ऽस्यैष इति । ‘सः’ प्रजापतिः ‘अस्य’ अग्नेः ‘चित्यः’ ‘चेतव्यः‘ सन्धेयः, ‘तस्मात्’ स ‘चित्यः’ इत्यर्थः । इष्टकाचितिसम्बन्धादपि प्रजापतेश्चित्यत्वमाह- चित्य उ एवायमिति । ‘यजमानस्य’ अपि ‘अयम्’ एव ‘चेतव्यः’ इष्टकाभिरुपधेयः । ‘अस्य’ यजमानस्य । “कृत्यानां कर्तरि वा“- (पा. सू. २ । ३ । ७१ ) इति षष्ठी ॥ १६ ॥
Eggeling
- This, then, was his (Prajāpati’s) ‘citya’ (Agni to be set up on an altar-pile); for he had to be built up (ci) by him, and therefore was his ‘citya.’ And
so indeed he now is the Sacrificer’s ‘citya;’ for he is to be built up by him, and therefore is his ‘citya.’
१७
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘देता वा᳘ ऽअस्य ताः[[!!]]॥
प᳘ञ्च त᳘न्वो᳘ व्यस्रᳫँ᳭सन्त[[!!]] लो᳘म त्व᳘ङ् माᳫँ᳭सम᳘स्थि मज्जा ता᳘ ऽए᳘वैताः प᳘ञ्च चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘त्येता᳘भिरे᳘वैनं[[!!]] त᳘त्तनू᳘भिश्चिनोति य᳘च्चिनोति[[!!]] त᳘स्माच्चि᳘तयः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘देता वा᳘ ऽअस्य ताः[[!!]]॥
प᳘ञ्च त᳘न्वो᳘ व्यस्रᳫँ᳭सन्त[[!!]] लो᳘म त्व᳘ङ् माᳫँ᳭सम᳘स्थि मज्जा ता᳘ ऽए᳘वैताः प᳘ञ्च चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘त्येता᳘भिरे᳘वैनं[[!!]] त᳘त्तनू᳘भिश्चिनोति य᳘च्चिनोति[[!!]] त᳘स्माच्चि᳘तयः॥
मूलम् - Weber
त᳘देता वा᳘ अस्य ताः᳟॥
प᳘ञ्च तॗन्वो व्य᳘स्रंसन्त लो᳘म त्व᳘ङ्नांसम᳘स्थि मज्जा ता᳘ एॗवैताः प᳘ञ्च चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘त्येता᳘भिॗरेवैनं त᳘त्तनू᳘भिश्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - विस्वरम्
तदेता वा ऽअस्य ताः पञ्च तन्वो व्यस्रंसन्त- लोम, त्वक्, मांसम्, अस्थि, मज्जा । ता एवैताः पञ्च चितयः । तद्यत्पञ्च चितीश्चिनोति- एताभिरेवैनं तत्तनूभिश्चिनोति । यच्चिनोति- तस्माच्चितयः ॥ १७ ॥
सायणः
प्रजापतिर्व्यस्रंसतेति यदुक्तम्, तदिदानीं चितिसङ्ख्याप्रदर्शनेन विशदयति- तदेता वा अस्येति । विस्रंसनसमये ‘अस्य’ तस्य लोमत्वङ्गमांसास्थिमज्जाख्याः ‘पञ्च’ चितयः उत्तरोत्तरक्रमेण पञ्चकक्ष्यात्मना चेतव्याः । यस्मादग्नौ पञ्च चितीः ‘चिनोति,‘ ‘तस्मात्’ पञ्चभिर्लोमादिभिरेव प्रजापतिं संहितवान् भवति । “चिञ् चयने”- (धा. पा. स्वा. उ. ५ ) इत्यस्माच्चितिशब्दनिष्पत्तिः ॥ १७ ॥
Eggeling
- Now it was those five bodily parts (tanu) of his (Prajāpati’s) that became relaxed,–hair, skin, flesh, bone, and marrow,–they are these five layers (of the fire-altar); and when he builds up the five layers, thereby he builds him up by those bodily parts; and inasmuch as he builds up (ci), therefore they are layers (citi).
१८
विश्वास-प्रस्तुतिः
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
संव्वत्सरः सो᳘ ऽथ या᳘ अस्यैताः प᳘ञ्च त᳘न्वो व्य᳘स्रᳫँ᳭सन्त᳘ ऽर्त्तवस्ते प᳘ञ्च वा᳘ ऽऋत᳘वः प᳘ञ्चैताश्चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘त्यृतु᳘भिरेवैनं त᳘च्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - श्रीधरादि
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
संव्वत्सरः सो᳘ ऽथ या᳘ अस्यैताः प᳘ञ्च त᳘न्वो व्य᳘स्रᳫँ᳭सन्त᳘ ऽर्त्तवस्ते प᳘ञ्च वा᳘ ऽऋत᳘वः प᳘ञ्चैताश्चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘त्यृतु᳘भिरेवैनं त᳘च्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - Weber
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
संवत्सरः सो᳘ ऽथ या᳘ अस्यैताः प᳘ञ्च त᳘न्वो व्य᳘श्रंसन्त ऽर्त᳘वस्ते प᳘ञ्च वा᳘ ऋत᳘वः प᳘ञ्चैताश्चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘त्यृतु᳘भिरेवैनं त᳘च्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - विस्वरम्
स यः स प्रजापतिर्व्यस्त्रंसत- सम्वत्सरः सः । अथ या अस्यैताः पञ्च तम्पो व्यवसन्त- ऋतवस्ते । पञ्च वा ऽऋतवः । पञ्चैताश्चितयः । तद्यत्वञ्च चितीश्चिनोति- दिग्भिभिरेवैनं तञ्चिनोति । यञ्चिनोति तस्माञ्चितयः ॥ १८ ॥
सायणः
स यः प्रजापतिरित्यादेरयमर्थः- प्रजापतेः संवत्सरात्मनो विस्रंसनसमये पञ्चर्तव एव विस्रस्ताः । “हेमन्तशिशिरयोः समासेन”- ( ऐ. ब्रा. १ । १ । १ । ) इति पञ्चसङ्ख्या । तथा सति पञ्चचितिचयनेन ‘एनं’ संवत्सररूपं प्रजापतिं पञ्चभिरृतुभिः संयोजितवान् भवति ॥ १८ ॥
Eggeling
- And that Prajāpati who became relaxed is the year; and those five bodily parts of his which became relaxed are the seasons; for there are five seasons, and five are those layers: when he builds up the five layers, he thereby builds him up with the seasons; and inasmuch as he builds up (lays down), therefore they are layers.
१९
विश्वास-प्रस्तुतिः
स यः स᳘ संव्वत्सरः᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ व्वायु᳘र्यो ऽयं प᳘वते᳘ ऽथ या᳘ ऽअस्य ता᳘ ऽऋत᳘वः प᳘ञ्च त᳘न्वो व्य᳘स्रᳫँ᳭सन्त दि᳘शस्ताः प᳘ञ्च वै दि᳘शः प᳘ञ्चैताश्चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘ति दिग्भि᳘रे᳘वैनं त᳘च्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - श्रीधरादि
स यः स᳘ संव्वत्सरः᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ व्वायु᳘र्यो ऽयं प᳘वते᳘ ऽथ या᳘ ऽअस्य ता᳘ ऽऋत᳘वः प᳘ञ्च त᳘न्वो व्य᳘स्रᳫँ᳭सन्त दि᳘शस्ताः प᳘ञ्च वै दि᳘शः प᳘ञ्चैताश्चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘ति दिग्भि᳘रे᳘वैनं त᳘च्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - Weber
स यः स᳘ संवत्सरः᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव स᳘ वायुॗर्यो ऽयम् प᳘वते᳘ ऽथ या᳘ अस्य ता᳘ ऋत᳘वः प᳘ञ्च तॗन्वो व्य᳘स्रंसन्त दि᳘शस्तॄः प᳘ञ्च वै दि᳘शः प᳘ञ्चैताश्चि᳘तयस्तद्यत्प᳘ञ्च चि᳘तीश्चिनो᳘ति दिग्भि᳘रेॗवैनं त᳘च्चिनोति य᳘च्चिनो᳘ति त᳘स्माच्चि᳘तयः॥
मूलम् - विस्वरम्
स यः स सम्वत्सरः प्रजापतिर्व्यस्रंसत- अयमेव स वायुः । यो ऽयं पवते । अथ या अस्य ता ऋतवः पञ्च तन्वो व्यस्त्रंसन्त- दिशस्ताः । पञ्च वै दिशः । पञ्चैताश्चितयः । तद्यत्पञ्च चितीश्चिनोति- दिग्भिरेवैनं तञ्चिनोति । यञ्चिनोति तस्माञ्चितयः ॥ १९ ॥
सायणः
प्रकारान्तरेण प्रशंसति- स यः स संवत्सरः प्रजापतिरिति । ‘यः’ संवत्सररूपः ‘प्रजापतिः’ विस्रस्तः ‘सः’ ‘अयमेव’ पवमानो ‘वायुः’ तस्य ‘दिशः’ एव ‘पञ्च‘ तन्वः । ऊर्द्ध्वदिक्सहिताः पञ्च महादिशः । ता एव विस्रस्ताः पञ्चचितिचयनेन ‘एनं’ वायुरूपं प्रजापतिं पञ्चभिर्दिग्भिरेव चितवान् ॥ १९ ॥
Eggeling
- And that Prajāpati, the year, who became relaxed, is that very Vāyu (wind) who blows yonder. And those five bodily parts of his, the seasons, which became relaxed, are the regions (or quarters) 10; for five in number are the regions, and five those layers: when he builds up the five layers, he builds him up with the regions; and inasmuch as he builds up, therefore they are layers.
२०
विश्वास-प्रस्तुतिः
(यो᳘ ऽथ) अ᳘थ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते॥
(तो ऽसौ) असौ स᳘ ऽआदित्यः स᳘ ऽएष᳘ ऽए᳘वै᳘षो ऽग्नि᳘श्चित᳘[[!!]] ऽएता᳘वन्नु तद्य᳘देनमग्निः᳘ सम᳘दधात्॥ [शतम् ३४००]
मूलम् - श्रीधरादि
(यो᳘ ऽथ) अ᳘थ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते॥
(तो ऽसौ) असौ स᳘ ऽआदित्यः स᳘ ऽएष᳘ ऽए᳘वै᳘षो ऽग्नि᳘श्चित᳘[[!!]] ऽएता᳘वन्नु तद्य᳘देनमग्निः᳘ सम᳘दधात्॥ [शतम् ३४००]
मूलम् - Weber
अ᳘थ य᳘श्चिॗते ऽग्नि᳘र्निधीय᳘ते॥
असौ स᳘ आदित्यः स᳘ एष᳘ एॗवैॗषो ऽग्निश्चि᳘त एता᳘वन्नु तद्य᳘देनमग्निः᳘ सम᳘दधात्॥
मूलम् - विस्वरम्
अथ यश्चिते ऽग्निर्निधीयते- असौ स आदित्यः । स एप एवैषो ऽग्निश्चितः । एतावन्तु तद्यदेनमग्निः समधात् ॥ २० ॥
सायणः
एवं प्रजापतेश्चित्याग्निरूपतामभिधाय तस्योपरि निधीयमानस्याहवनीयस्याग्नेरादित्यरूपतामाह- अथ यश्चित इति । ‘चिते’ अग्नौ ‘यः अग्निः’ आहवनीयः ‘निधीयते’ ‘स’ असौ आदित्यः । स एष एवेति, पुनः प्रदर्शनवचनम् । अत्र ‘चिते’ इति सप्तम्यन्तं पदम् । प्रजापतेरग्निना सन्धानप्रकारं निगमयति- एतावन्नु तदिति । ‘यत्’ उक्तप्रकारेण ‘अग्निः’ ‘एनं’ प्रजापतिं ‘समदधात्’ इति ॥ २० ॥
Eggeling
- And the Fire that is laid down on the built (altar), that is yonder Sun;–that same Agni is indeed (raised) on the altar, and that just because Agni had restored him (Prajāpati).
२१
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरेव व्वि᳘स्रस्तो देवा᳘नब्रवीत्सं᳘ मा धत्ते᳘ति ते᳘ देवा᳘ ऽअग्नि᳘मब्रुवंस्त्व᳘यीमं᳘ पित᳘रं प्रजा᳘पतिं भिषज्यामे᳘ति स वा᳘ ऽअह᳘मेत᳘स्मिन्त्स᳘र्व्वस्मिन्नेव᳘ व्विशानी᳘ति तथे᳘ति त᳘स्मादेतं᳘ प्रजा᳘पतिᳫँ᳭ स᳘न्तमग्निरित्या᳘चक्षते॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरेव व्वि᳘स्रस्तो देवा᳘नब्रवीत्सं᳘ मा धत्ते᳘ति ते᳘ देवा᳘ ऽअग्नि᳘मब्रुवंस्त्व᳘यीमं᳘ पित᳘रं प्रजा᳘पतिं भिषज्यामे᳘ति स वा᳘ ऽअह᳘मेत᳘स्मिन्त्स᳘र्व्वस्मिन्नेव᳘ व्विशानी᳘ति तथे᳘ति त᳘स्मादेतं᳘ प्रजा᳘पतिᳫँ᳭ स᳘न्तमग्निरित्या᳘चक्षते॥
मूलम् - Weber
अ᳘थो आहुः॥
प्रजा᳘पतिरेव वि᳘स्रस्तो देवा᳘नब्रवीत्स᳘म् मा धत्ते᳘ति ते᳘ देवा᳘ अग्नि᳘मब्रुवंस्त्व᳘यीम᳘म् पित᳘रम् प्रजा᳘पतिम् भिषज्यामे᳘ति स वा᳘ अह᳘मेत᳘स्मिन्त्स᳘र्वस्मिन्नेव᳘ विशानी᳘ति तथे᳘ति त᳘स्मादेत᳘म् प्रजा᳘पतिᳫं स᳘न्तमग्निरित्या᳘चक्षते॥
मूलम् - विस्वरम्
अथो आहुः- प्रजापतिरेव विस्रस्तो देवानब्रवीत्- सं मा धत्तेति । ते देवा अग्निमब्रुवन्- त्वयीमं पितरं प्रजापतिं भिषज्यामेति । स वा ऽअहमेतस्मिन्त्सर्वस्मिन्नेव विज्ञानीति । तथेति । तस्मादेतं प्रजापतिं सन्तमग्निरित्याचक्षते ॥ २१ ॥
सायणः
प्रजापतेर्देवैः संधानप्रकारमाह- अथो आहुः प्रजापतिरेवेति । पूर्वं प्रजायमानः प्रजाः सृष्ट्वा सर्वाजिवावमेन ‘विस्रस्तः’ सन् ‘देवान् अब्रवीत्’ । हे देवाः ! ‘मा सन्धत्त’ ‘इति’ । ‘ते’ एव ‘देवाः’ अग्निम् अब्रुवन् । हे अग्ने ! ‘त्वयि’ सर्वेषां ‘पितरं प्रजापतिं’ ‘भिषज्याम’ सन्धानं करवाम ‘इति’ । अथ ‘सः’ अग्निरपि देवान् अब्रवीत् । हे देवाः ! ‘सः’ ‘अहम्‘ ‘एतस्मिन्’ सर्वस्मिन् ‘जगति‘ ‘एव’ अन्तर्- ‘विशानि’ सर्वस्यान्तः प्रविष्टो भवानीत्युक्तम् । ‘तथा इति’ देवा अङ्गीचक्रुः । यतो देवा अग्नौ प्रजापतिमभिषज्यन्त । ‘तस्मात्’ एतस्य प्रजापतेरग्निनाम्ना व्यपदेशः ॥ २१ ॥
Eggeling
- But they say,–Prajāpati, when relaxed, said to the gods, ‘Restore me!’ The gods said to Agni, ‘In thee we will heal this our father Prajāpati.’–
‘Then I will enter into him, when whole,’ he said.–‘So be it!’ they said. Hence, while being Prajāpati, they yet call him Agni.
२२
विश्वास-प्रस्तुतिः
तं᳘ देवा᳘ ऽअग्नावा᳘हुतिभिरभिषज्यन्॥
(ज्यंस्ते) ते यां᳘ यामा᳘हुतिम᳘जुहवुः सा᳘ सैनं पक्वे᳘ष्टका भूत्वा ऽप्यपद्यत तद्य᳘दिष्टा᳘त्सम᳘भवंस्त᳘स्मादि᳘ष्टकास्त᳘स्मादग्निने᳘ष्टकाः पचन्त्या᳘हुतीरे᳘वैनास्त᳘त्कुर्व्वन्ति᳘॥
मूलम् - श्रीधरादि
तं᳘ देवा᳘ ऽअग्नावा᳘हुतिभिरभिषज्यन्॥
(ज्यंस्ते) ते यां᳘ यामा᳘हुतिम᳘जुहवुः सा᳘ सैनं पक्वे᳘ष्टका भूत्वा ऽप्यपद्यत तद्य᳘दिष्टा᳘त्सम᳘भवंस्त᳘स्मादि᳘ष्टकास्त᳘स्मादग्निने᳘ष्टकाः पचन्त्या᳘हुतीरे᳘वैनास्त᳘त्कुर्व्वन्ति᳘॥
मूलम् - Weber
तं देवा᳘ अग्नावा᳘हुतिभिरभिषज्यन्॥
ते यां᳘ यामा᳘हुतिम᳘जुहवुः सा᳘-सैनम् पक्वे᳘ष्टका भूत्वाप्यपद्यत तद्य᳘दिष्टा᳘त्सम᳘भवंस्त᳘स्मादि᳘ष्टकास्त᳘स्मादग्निने᳘ष्टकाः पचन्त्या᳘हुतीरेॗवैनास्त᳘त्कुर्वन्ति॥
मूलम् - विस्वरम्
तं देवा अग्नावाहुतिभिरभिषज्यन् । ते यां- यामाहुतिमजुहवुः- सा- सैनं पक्वेष्टका भूत्वा ऽप्यपद्यत । तयदिष्टात्समभवन् । तस्मादिष्टकाः । तस्मादग्निनेष्टकाः पचन्ति । आहुतीरेवैनास्तत्कुर्वन्ति ॥ २२ ॥
सायणः
भैषज्यकरणप्रकारं दर्शयति- तं देवा अभावाहुतिभिरिति । ‘तं’ प्रजापतिम् आहुतिकरणेन समाहितवन्तः । अत्र या आहुतय इष्टाः तास्ताश्चित्याग्निरूपप्रजापतिकेष्टका भूत्वा प्रतिपद्य प्रीयमाणाः स्युरित्यर्थः । इष्टकाशब्दस्य निर्वचनं दर्शयति- तद्यदिष्टादिति । इष्टात् होमात् जाता इतीष्टकाः, ‘तस्मात्‘ इदानीन्तना अपि अनुष्ठातारः ‘अग्निना‘ इष्टकाः पचन्ति’ तथा सति ‘एनाः’ इष्टकाः ‘आहुतीरेव’ कृतवन्तो भवन्तीत्यर्थः ॥ २२ ॥
Eggeling
- In the fire the gods healed him by means of oblations; and whatever oblation they offered that became a baked brick and passed into him. And because they were produced from what was offered (ishṭa), therefore they are bricks (ishṭakā). And hence they bake the bricks by means of the fire, for it is oblations they thus make.
२३
विश्वास-प्रस्तुतिः
सो ऽब्रवीत्॥
(द्या᳘) या᳘वद्यावद्वै᳘ जुहुथ ता᳘वत्तावन्मे कं᳘ भवती᳘ति तद्य᳘दस्मा ऽइष्टे कम᳘भवत्त᳘स्माद्वेवे᳘ष्टकाः॥
मूलम् - श्रीधरादि
सो ऽब्रवीत्॥
(द्या᳘) या᳘वद्यावद्वै᳘ जुहुथ ता᳘वत्तावन्मे कं᳘ भवती᳘ति तद्य᳘दस्मा ऽइष्टे कम᳘भवत्त᳘स्माद्वेवे᳘ष्टकाः॥
मूलम् - Weber
सो ऽब्रवीत्॥
या᳘वद्यावद्वै᳘ जुहुथ ता᳘वत्तावन्म क᳘म् भवती᳘ति तद्य᳘दस्मा इष्टे कम᳘भवत्त᳘स्माद्वेवे᳘ष्टकाः॥
मूलम् - विस्वरम्
सो ऽब्रवीत्- यावद् यावद्वै जुहुथ- तावत्तावन्मे कं भवतीति । तद् यदस्मा ऽइष्टे कमभवत्- तस्माद्वेवेष्टकाः ॥ २३ ॥
सायणः
इष्टकापदे ‘इष्ट’- इति ‘क’- इति च शब्दद्वयस्वरूपं दृश्यते, तत्र इष्ट- शब्दस्वरूपस्य निर्वाहं प्रदर्श्य ‘क’- शब्दस्वरूपस्य प्रवृत्तिनिमित्तं दर्शयति- सो ऽब्रवीदिति । ‘सः’ प्रजापतिः देवान् ‘अब्रवीत्’ हे देवाः । युष्माभिरग्नौ ‘यावद्यावद्’ हुतम्, ‘तावत्तावत्’ ‘मे’ मम ‘कं’ सुखं ‘भवति’ ‘इति’ । तस्मात् ‘इष्टे’ होमे ‘कं’ सुखम् अभूत् ब्रह्मणः इति इष्टकानामनिरुक्तिः ॥ २३ ॥
Eggeling
- He spake, ‘Even as much as ye offer, even so much is my happiness:’ and inasmuch as for him there was happiness (ka) in what was offered (ishṭa), therefore also they are bricks (ishṭakā).
२४
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘द्ध स्माहा᳘क्ताक्ष्यः॥
(क्ष्यो) य᳘ एव य᳘जुष्मतीर्भू᳘यसीरि᳘ष्टका व्विद्या᳘त्सो ऽग्निं᳘ चिनुयाद्भू᳘य ऽएव त᳘त्पित᳘रं प्रजा᳘पतिं भिषज्यतीति[[!!]]॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘द्ध स्माहा᳘क्ताक्ष्यः॥
(क्ष्यो) य᳘ एव य᳘जुष्मतीर्भू᳘यसीरि᳘ष्टका व्विद्या᳘त्सो ऽग्निं᳘ चिनुयाद्भू᳘य ऽएव त᳘त्पित᳘रं प्रजा᳘पतिं भिषज्यतीति[[!!]]॥
मूलम् - Weber
त᳘द्ध स्माहा᳘क्ताक्ष्यः॥
य᳘ एव य᳘जुष्मतीर्भू᳘वसीरि᳘ष्टका विद्याॗत्सो ऽग्निं᳘ चिनुयाद्भू᳘य एव त᳘त्पित᳘रम् प्रजा᳘पतिम् भिषज्यती᳘ति॥
मूलम् - विस्वरम्
तद्ध स्माहाक्ताक्ष्यः- य एव यजुष्मतीर्भूयसीरिष्टका विद्यात् सो ऽग्निं चिनुयात् । भूय एव तत्- पितरं प्रजापतिं भिषज्यतीति ॥ २४ ॥
सायणः
अथेष्टकाचयनयज्ञमन्त्रैरुपधेया इष्टका यजुष्मत्यः, ताचेतव्याः; अवशिष्टे ऽवकाशे लोकम्पृणेष्टकाः । इत्यादिना मन्त्रेण उपधेया इष्टका लोकम्पृणाः । “लोकम्पूण च्छिद्रं पृण”- (वा. सं. १५ । ५९) तत्र यजुष्मतीनां भूयस्त्वम्, लोकम्पृणानामल्पत्वम् ‘अक्ताक्ष्यः’ आचार्यो मन्यते, लोकम्पृणानां भूयस्त्वम् ‘तांड्य’ मन्यते । तत्र चोभयत्र द्वावप्युपपत्ती वर्णयित्वा तयोर्व्यपदेशेन तन्मतं प्रदर्शयन्ती श्रुतिः पक्षान्तरं दर्शयति- तद्ध स्माहाक्ताक्ष्य इति । ‘यः’ पुरुषो ‘यजुष्मतीः इष्टकाः भूयसीः’ जानीयात्, ‘सः’ एव ‘अग्निं चिनुयात्’ ‘तत्’ तथा सति ‘पितरं प्रजापतिं’ ‘भूयः’ अधिकं संहितवान् भवति, इत्यक्ताक्ष्यमतम् ॥
अथ हेति । क्षत्रं वै यजुष्मत्य इत्यादि । यजुष्मतीनां क्षत्रत्वम्, क्षत्रियस्य यजुर्वेदोत्पन्नत्वात्; लोकम्पृणानान्तु विलम् कामपूरकत्वात् । यथा लोके ‘अत्तुः’ क्षत्रियस्य अन्नरूपविशो बाहुल्ये राष्ट्रसमृद्धिर्भवति, तथा लोकम्पृणानां बाहुल्ये यजमानस्यानुष्ठानमेव समृद्धं भवतीति ताण्ड्यमतम् ॥
तदेतद् दूषयति- एतदु हेति । ‘एतत्’ उक्तं तयोः ‘वचः’ वचनमात्रम्, “अन्या त्वेव अतः स्थितिः"- इति श्रुतेः स्वमतप्रदर्शनम् । अनुष्ठानप्रकारार्थो ऽत्र ‘तु’ शब्दः, ‘एव शब्दः’ वैलक्षण्यार्थः । अनुष्ठानप्रकारस्तु उत्तरत्र वक्ष्यते ॥ २४ ॥ २५ ॥
Eggeling
- Here now Āktākshya used to say, ‘Only he who knows abundant bricks possessed of (special) prayers, should build up the fire (altar): abundantly indeed he then heals Father Prajāpati.’
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ह स्माह ता᳘ण्ड्यः॥
क्षत्रं वै य᳘जुष्मत्य ऽइ᳘ष्टका व्वि᳘शो लोकम्पृणा᳘ ऽअत्ता वै᳘ क्षत्रियो᳘ ऽन्नं व्विड्य᳘त्र वा᳘ ऽअत्तुर᳘न्नं भू᳘यो भ᳘वति त᳘द्राष्ट्रᳫँ᳭ स᳘मृद्धं भवति त᳘देधते त᳘स्माल्लोकम्पृणा᳘ ऽएव भू᳘यसीरु᳘पदध्यादि᳘त्येतदु᳘ ह त᳘योर्व्व᳘चो ऽन्या᳘ त्वेवा᳘त स्थि᳘तिः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ह स्माह ता᳘ण्ड्यः॥
क्षत्रं वै य᳘जुष्मत्य ऽइ᳘ष्टका व्वि᳘शो लोकम्पृणा᳘ ऽअत्ता वै᳘ क्षत्रियो᳘ ऽन्नं व्विड्य᳘त्र वा᳘ ऽअत्तुर᳘न्नं भू᳘यो भ᳘वति त᳘द्राष्ट्रᳫँ᳭ स᳘मृद्धं भवति त᳘देधते त᳘स्माल्लोकम्पृणा᳘ ऽएव भू᳘यसीरु᳘पदध्यादि᳘त्येतदु᳘ ह त᳘योर्व्व᳘चो ऽन्या᳘ त्वेवा᳘त स्थि᳘तिः॥
मूलम् - Weber
अ᳘थ ह स्माह ता᳘ण्ड्यः॥
क्षत्रं वै य᳘जुष्मत्य इ᳘ष्टका वि᳘शो लोकम्पृणा᳘ अत्ता वै᳘ क्षत्रियो᳘ ऽन्नं विड्य᳘त्र वा᳘ अत्तुर᳘न्न भू᳘यो भ᳘वति त᳘द्राष्ट्रᳫं स᳘मृद्धम् भवति त᳘देधते त᳘स्माल्लोकम्पृणा᳘ एव भू᳘यसीरु᳘पदध्यादि᳘त्येतद᳘ह त᳘योर्व᳘चो ऽन्याॗ त्वेवा᳘त स्थि᳘तिः॥
मूलम् - विस्वरम्
अथ ह स्माह ताण्ड्यः- क्षत्रं वै यजुष्मत्य इष्टकाः, विशो लोकम्पृणाः । अत्ता वै क्षत्रियः, अन्नं विट् । यत्र वा ऽअत्तुरन्नं भूयो भवति- तद्राष्ट्रं समृद्धं भवति, तदेधते । तस्माल्लोकम्पृणा एव भूयसीरुपदध्यादिति । एतदु ह तयोर्वचः- अन्या त्वेवातः स्थितिः ॥ २५ ॥
सायणः
[व्याख्यानं चतुर्विंशतितमे]
Eggeling
- But Tāṇḍya used to say, ‘Surely the bricks possessed of prayers are the nobility, and the space-fillers 11 are the peasants; and the noble is the feeder, and the peasantry the food; and where there is abundant food for the feeder, that realm is indeed prosperous and thrives: let him therefore pile up abundant space-fillers!’ Such then was the speech of those two, but the settled practice is different therefrom.
२६
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ पिता᳘ पुत्रः[[!!]]॥
(त्रो) य᳘दे᳘षो ऽग्निम᳘सृजत ते᳘नै᳘षो ऽग्नेः᳘ पिता य᳘देत᳘मग्निः᳘ सम᳘दधात्ते᳘नैत᳘स्याग्निः᳘ पिता य᳘देष᳘ देवान᳘सृजत ते᳘नैष᳘ देवा᳘नां पिता य᳘देतं᳘ देवाः᳘ सम᳘दधुस्ते᳘नैत᳘स्य᳘ देवाः᳘ पित᳘रः॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ पिता᳘ पुत्रः[[!!]]॥
(त्रो) य᳘दे᳘षो ऽग्निम᳘सृजत ते᳘नै᳘षो ऽग्नेः᳘ पिता य᳘देत᳘मग्निः᳘ सम᳘दधात्ते᳘नैत᳘स्याग्निः᳘ पिता य᳘देष᳘ देवान᳘सृजत ते᳘नैष᳘ देवा᳘नां पिता य᳘देतं᳘ देवाः᳘ सम᳘दधुस्ते᳘नैत᳘स्य᳘ देवाः᳘ पित᳘रः॥
मूलम् - Weber
स᳘ एष᳘ पिता᳘ पुत्रः᳟॥
य᳘देॗषो ऽग्निम᳘सृजत ते᳘नैॗषो ऽग्नेः᳘ पिता य᳘देत᳘मग्निः᳘ सम᳘दधात्ते᳘नैत᳘स्याग्निः᳘ पिता य᳘देष᳘ देवान᳘सृजत ते᳘नैष᳘ देवा᳘नाम् पिता यदेतं देवाः᳘ सम᳘दधुस्ते᳘नैत᳘स्य देवाः᳘ पित᳘रः॥
मूलम् - विस्वरम्
स एष पिता पुत्रः यदेषो ऽग्निमसृजत- तेनैषो ऽग्नेः पिता । यदेतमग्निः समदधात् तेनैतस्याग्निः पिता । यदेष देवानसृजत- तेनैष देवानां पिता । यदेतं देवाः समदधुः- तेनैतस्य देवाः पितरः ॥ २६ ॥
सायणः
प्रजापतेरग्निना देवैश्च सन्धाने कृते यो ऽर्थः सम्पद्यते तं दर्शयति- स एष पितेति । अग्नेः पितृत्वं पुत्रत्वं च भवति, देवानामपि तथैवोभयम् । प्रजापतिसृष्टत्वात् अग्नेर्देवानाञ्च पुत्रत्वम्; तैर्भैषज्यकरणात् तेषां प्रजापतिपितृत्वम् ॥ २६ ॥
Eggeling
- Now that father (Prajāpati) is (also) the son:
inasmuch as he created Agni, thereby he is Agni’s father; and inasmuch as Agni restored him, thereby Agni is his (Prajāpati’s) father; and inasmuch as he created the gods, thereby he is the father of the gods; and inasmuch as the gods restored him, thereby the gods are his fathers.
२७
विश्वास-प्रस्तुतिः
(०) उभ᳘यᳫँ᳭ हैत᳘द्भवति॥
पिता᳘ च पुत्र᳘श्च प्रजा᳘पतिश्चाग्नि᳘श्चाग्नि᳘श्च प्रजापतिश्च[[!!]] प्रजा᳘पतिश्च देवा᳘श्च देवा᳘श्च प्रजा᳘पतिश्च य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
(०) उभ᳘यᳫँ᳭ हैत᳘द्भवति॥
पिता᳘ च पुत्र᳘श्च प्रजा᳘पतिश्चाग्नि᳘श्चाग्नि᳘श्च प्रजापतिश्च[[!!]] प्रजा᳘पतिश्च देवा᳘श्च देवा᳘श्च प्रजा᳘पतिश्च य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
उभ᳘यᳫं हैत᳘द्भवति॥
पिता᳘ च पुत्र᳘श्च प्रजा᳘पतिश्चाग्नि᳘श्चाग्नि᳘श्च प्रजा᳘पतिश्च प्रजा᳘पतिश्च देवा᳘श्च प्रजा᳘पतिश्च य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
उभयं हैतद्भवति- पिता च पुत्रश्च । प्रजापतिश्चाग्निश्च अग्निश्च प्रजापतिश्च । प्रजापतिश्च देवाश्च । देवाश्च प्रजापतिश्च- य एवं वेद ॥ २७ ॥
सायणः
वेदितुः फलमाह- उभयं हैतद् भवतीति । ‘यः’ ‘एवम्’ अर्थं ‘वेद,’ सः ‘एतत्’ ‘उभयं भवति,’ पितापुत्रात्मको भवतीत्यर्थः । पितृत्वं पुत्रत्वं च उभयत्र अग्निदेवपक्षे समानम् । तत्राग्निपक्षे ऽयं विशेषः,- पितां प्रजापतिर्भवति, पुत्रो ऽग्निर्भवति; अग्निः पिता भवति, सन्धायकत्वात्; प्रजापतिः पुत्रो भवति संहितत्वात् । देवपक्षे ऽप्येवं विशेषं दर्शयितुं “प्रजापतिश्च देवाश्च” इत्युपन्यासः । य एवं वेदेति । पितृरूपप्रजापतित्वम् पुत्ररूपाग्नित्वम्; पुत्रभूतप्रजापतित्वम् पितृभूताग्नित्वं चेत्यादिक्रमेण सम्पद्यत इत्यर्थः ॥ २७ ॥
Eggeling
- Twofold verily is this,–father and son, Prajāpati and Agni, Agni and Prajāpati, Prajāpati and the gods, the gods and Prajāpati–(for) whosoever knows this.
२८
विश्वास-प्रस्तुतिः
स ऽउ᳘पदधाति॥
त᳘या देव᳘तये᳘ति व्वाग्वै सा᳘ देव᳘ता ऽङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रुवा᳘ सीदे᳘ति स्थिरा᳘ सीदे᳘त्येतद᳘थो प्र᳘तिष्ठिता सीदे᳘ति व्वाचा᳘ चै᳘वैनमेत᳘त्प्राणे᳘न च चिनोति व्वाग्वा᳘ ऽअग्निः᳘ प्राण ऽइ᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘च्चिनोतीन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘च्चिनोति॥
मूलम् - श्रीधरादि
स ऽउ᳘पदधाति॥
त᳘या देव᳘तये᳘ति व्वाग्वै सा᳘ देव᳘ता ऽङ्गिरस्वदि᳘ति प्राणो वा ऽअ᳘ङ्गिरा ध्रुवा᳘ सीदे᳘ति स्थिरा᳘ सीदे᳘त्येतद᳘थो प्र᳘तिष्ठिता सीदे᳘ति व्वाचा᳘ चै᳘वैनमेत᳘त्प्राणे᳘न च चिनोति व्वाग्वा᳘ ऽअग्निः᳘ प्राण ऽइ᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘च्चिनोतीन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘च्चिनोति॥
मूलम् - Weber
स उ᳘पदधाति॥
त᳘या देव᳘तये᳘ति वाग्वै सा᳘ देव᳘ताङ्गिरस्वदि᳘ति प्राणो वा अ᳘ङ्गिरा ध्रुवा᳘ सीदे᳘ति स्थिरा᳘ सीदे᳘त्येतद᳘थो प्र᳘तिष्ठिता सीदे᳘ति वाचा᳘ चैॗवैनमेत᳘त्प्राणे᳘न च चिनोति वाग्वा᳘ अग्निः᳘ प्राण इ᳘न्द्र ऐन्द्राॗग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘च्चिनोतीन्द्राग्नी वै स᳘र्वे देवाः᳘ सर्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘च्चिनोति॥
मूलम् - विस्वरम्
स उपदधाति- “तया देवतया”- इति । वाग्वै सा देवता । ”अङ्गिरस्वद्"- इति । प्राणो वा ऽअङ्गिराः । ”ध्रुवा सीद"- इति । स्थिरा सीदेत्येतद्, अथो प्रतिष्ठिता सीदेति । वाचा चैवैनमेतत् प्राणेन च चिनोति । वाग्वा ऽअग्निः प्राण इन्द्रः । ऐन्द्राग्नो ऽग्निः । यावानग्निः । यावत्यस्य मात्रा- तावतैवैनमेतच्चिनोति । इन्द्राग्नी वै सर्वे देवाः । सर्वदेवत्यो ऽग्निः । यावानग्निः, यावत्यस्य मात्रा- तावतैवैनमेतच्चिनोति ॥ २८ ॥
सायणः
पूर्वं प्रजापतेरग्निना सन्धानसमये वाचं प्राणे निहितवानित्युक्तम् “प्राण एव हितं वागुपहितम्”- (अस्मिन्नेव ब्राह्मणे पञ्चदश्यां कण्डिकायाम्) इत्यादिना, तमिममर्थमिष्टकोपधानमन्त्रे ऽपि दर्शयति- स उपदधाति तया देवतयेति । “तया देवतया ऽङ्गिरस्वद् ध्रुवा सीद"- (वा. सं. १४ । १४) इत्ययं मन्त्र इष्टकोपधाने समाम्नायते तत्र तच्छब्देन सर्वत्र प्रसिद्धा ऋगादिमिरुद्यमाना वाक् उच्यते, अङ्गिरः पदेन संज्ञानप्राणः । (श. प. १४ । ४ । १ । २१) हे इष्टके ‘तया’ वाचा ‘देवतया’ ‘अङ्गिरस्वत्’ इति क्रियाविशेषणम् । प्राणयुक्तं यथा भवति तथा । “तसौ मत्वर्थे”- (पा. सू. १ । ४ । १९) इति भसंज्ञायां पदसंज्ञानिबन्धेन- रुत्वाभावः । ध्रुवा सीदेति । ‘ध्रुवा’ ‘स्थिरा’ सती ‘सीद’ । अतो यदनेनोपदध्यात् तद् यजमानं वाक्- प्राणाभ्यां चितवान् भवतीत्यर्थः (श. प. ८ । ३ । २ । ३) । प्रकारान्तरेण वाक्प्राणौ प्रशंसति- वाग्वा अग्निरिति । “अग्निर्वाग् भूत्वा मुखं प्राविशद्” (ऐ. आ. २ । ४ । २-४) इति श्रुतेः । अत्र वाचो ऽग्नित्वम् प्राणस्येन्द्रत्वं प्रागुक्तम् । इन्द्राग्निदेवत्यो ऽग्निचित्यनामक इत्यर्थः । ‘यावान्’ यत्परिमाणः ‘अग्निः’ यावती ‘यत्परिमाणा’ अस्य ‘अग्नेः’ मात्रा ‘शरीरम्’ तावता ‘शरीरेण’ ‘एनं’ चित्याग्निं ‘चिनोति’ चितवान् भवति । “तया देवतया”- इति मन्त्रेणोपधानेन वाक्प्राणाभ्याम् अग्नीन्द्ररूपाभ्याम् इन्द्राग्निदेवत्यमग्निं चितवानित्यर्थः । कथं नानादेवत्याग्नरैन्द्राग्नत्वमित्याशङ्क्य इन्द्राग्नी सर्वदेवतात्मना प्रशंसति- इन्द्राग्नी वै सर्वे देवा इति । अग्निर्वै देवानामवम इन्द्रः परमस्तावन्तरेण अन्या देवताः, ता इन्द्रग्निभ्यां गृह्यन्ते- इति तयोः सर्वात्मकत्वात् तद्देवत्यो ऽग्निचित्यनामापि सर्वदेवत्यः । अतः अग्निः ‘यावान्’ ‘अस्य’ अग्नेः ‘यावती मात्रा,’ तस्य तावन्तं सर्वदेवत्यमग्निं “तया देवतया” इति मन्त्रेण उपधानेन कृतवान् भातीति ॥ २८ ॥
Eggeling
- He builds up with 12, ‘By that deity’–that deity, doubtless, is Vāc (speech),–‘Aṅgiras-like,’–Aṅgiras, doubtless, is the breath;–’lie thou steady!’–that is, ’lie thou firm;’ or ’lie thou firmly established.’ It is both with speech and with breath that he builds; for Agni is speech, and Indra is the breath; and the fire (agni) relates to Indra and Agni: as great as Agni is, as great as is his measure, by so much he thus builds him up. And again, Indra and Agni are all the gods, (for) Agni belongs to all deities: thus as great as Agni is, as great as is his measure, by so much he thus builds him up.
२९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
क᳘स्मादस्या᳘ ऽअग्नि᳘श्चीयत ऽइ᳘ति य᳘त्र वै सा᳘ देव᳘ता व्य᳘स्रᳫँ᳭सत त᳘दिमा᳘मेव र᳘सेना᳘नु व्यक्ष᳘रत्तं[[!!]] य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘देनमस्या᳘ ऽएवा᳘धि स᳘मभर᳘न्त्सैषै᳘कैवे᳘ष्टकेय᳘मे᳘वेय᳘ᳫँ᳘ ह्यग्नि᳘रस्यै[[!!]] हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते᳘ सेयं च᳘तुःस्रक्तिर्दि᳘शो᳘ ह्यस्यै᳘[[!!]] स्रक्त᳘यस्त᳘स्माच्च᳘तुःस्रक्तय ऽइ᳘ष्टका भवन्तीमाᳫँ᳭ ह्य᳘नुस᳘र्व्वा ऽइ᳘ष्टकाः॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
क᳘स्मादस्या᳘ ऽअग्नि᳘श्चीयत ऽइ᳘ति य᳘त्र वै सा᳘ देव᳘ता व्य᳘स्रᳫँ᳭सत त᳘दिमा᳘मेव र᳘सेना᳘नु व्यक्ष᳘रत्तं[[!!]] य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘देनमस्या᳘ ऽएवा᳘धि स᳘मभर᳘न्त्सैषै᳘कैवे᳘ष्टकेय᳘मे᳘वेय᳘ᳫँ᳘ ह्यग्नि᳘रस्यै[[!!]] हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते᳘ सेयं च᳘तुःस्रक्तिर्दि᳘शो᳘ ह्यस्यै᳘[[!!]] स्रक्त᳘यस्त᳘स्माच्च᳘तुःस्रक्तय ऽइ᳘ष्टका भवन्तीमाᳫँ᳭ ह्य᳘नुस᳘र्व्वा ऽइ᳘ष्टकाः॥
मूलम् - Weber
त᳘दाहुः॥
क᳘स्मादस्या᳘ अग्नि᳘श्चीयत इ᳘ति य᳘त्र वै सा᳘ देव᳘ता व्य᳘स्रंसत त᳘दिमा᳘मेव र᳘सेना᳘नु व्य᳘क्षरत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘देनमस्या᳘ एवा᳘धि स᳘मभरॗन्त्सैषै᳘कैवे᳘ष्टकेय᳘मेॗवेयᳫं ह्य᳘ग्नि᳘रस्यै हि स᳘र्वो ऽग्नि᳘श्चीय᳘तेॗ सेयं च᳘तुःस्रक्तिर्दि᳘शो ह्य᳘स्यै᳘ स्रक्त᳘यस्त᳘स्माच्च᳘तुःक्रक्तय इ᳘ष्टका भवन्तीमाᳫं ह्य᳘नु स᳘र्वा इ᳘ष्टकाः॥
मूलम् - विस्वरम्
तदाहुः- कस्मादस्या ऽअग्निश्चीयत ऽइति । यत्र वै सा देवता व्यस्रंसत- तामिमामेव रसेनानु व्यक्षरत् । तं यत्र देवाः समस्कुर्वन्- तदेनमस्या ऽएवाधि समभरन् । सैषैकैवेष्टका- इयमेव । इयं ह्यग्निः । अस्यै हि सर्वो ऽग्निश्चीयते । सेयं चतुःस्रक्तिः । दिशो ह्यस्यै स्रुक्तयः । तस्माच्चतुःस्रक्तय इष्टका भवन्ति । इमां ह्यनु सर्वा इष्टकाः ॥ २९ ॥
सायणः
अथ भूमावेवेष्टकाचयनं कर्त्तव्यमित्यत्र कञ्चित् प्रश्नमुपपादयति- तदाहुः- कस्मादिति । ‘कस्मात्’ हेतोः ‘अस्यै’ अस्याः भूमेरुपरि ‘अग्निः चीयते’ इति ‘प्रश्नः‘ । उत्तरम्;- ‘यत्र’ यदा ‘सा देवता‘ प्रजापतिः विश्वं ‘व्यस्रंसत’ विस्रस्तवान्, ‘तत्’ तत्र इमाम् ‘भूमिम्’ एव ‘रसेन’ अनुव्यक्षरत् ‘सिक्तवान्‘ । ‘तम्’ प्रजापतिं विस्रस्तं ‘यत्र’ ‘देवाः’ ‘समस्कुर्वन्’ ‘तत्’ तत्र अस्यामेव ‘एनम्’ अग्निं सम्भृतवन्तः । तस्माद् भूमावेव चयनं कर्त्तव्यमित्यर्थः । तस्या इष्टकाया गुणं दर्शयति- सैषैकैवेष्टकेति । भूमेर्दिग्रूपचतुःस्रक्तियुक्तत्वादिदानीन्तनैरनुष्ठातृभिरपि इष्टकाः चतुःस्रक्तयः कार्या इत्यर्थः ॥ २९ ॥
Eggeling
- Here now they say, ‘Wherefore is Agni (the fire-altar) built of this (earth)?’ But, surely, when that deity (Prajāpati) became relaxed (fell asunder), he flowed along this (earth) in the shape of his life-sap; and when the gods restored him (put him together), they gathered him up from this earth: this earth then is that one brick 13, for Agni is this earth, since
it is thereof 14 that the whole Agni is built up. Now this earth is four-cornered, for the quarters are her corners: hence the bricks are four-cornered; for all the bricks are after the manner of this earth.
३०
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्य᳘) य᳘देवमे᳘केष्टको᳘ ऽथ कथं प᳘ञ्चेष्टक ऽइ᳘ती᳘यं न्वेव᳘ प्रथमा᳘ मृन्मयी᳘ष्टका तद्यत्किं चा᳘त्र मृन्म᳘यमुपद᳘धात्ये᳘कैव से᳘ष्टका᳘ ऽथ य᳘त्पशुशीर्षा᳘ण्युपद᳘धाति सा᳘ पश्विष्टका᳘ ऽथ य᳘द्रु᳘क्मपुरुषा᳘ ऽउपद᳘धाति य᳘द्धिरण्यशकलैः᳘ प्रोक्ष᳘ति सा᳘ हिरण्येष्टका᳘ ऽथ यत्स्रु᳘चा उपद᳘धाति य᳘दुलूखलमुसले याः᳘ समि᳘ध ऽआद᳘धाति सा᳘ वानस्पत्ये᳘ष्टका᳘ ऽथ य᳘त्पुष्करपर्ण᳘मुपद᳘धाति य᳘त्कूर्मं यद्द᳘धि म᳘धु घृतं यत्किंचात्रा᳘न्नमुपद᳘धाति᳘ सैवा᳘न्नं पञ्चमी᳘ष्टकैव᳘मु प᳘ञ्चेष्टकः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्य᳘) य᳘देवमे᳘केष्टको᳘ ऽथ कथं प᳘ञ्चेष्टक ऽइ᳘ती᳘यं न्वेव᳘ प्रथमा᳘ मृन्मयी᳘ष्टका तद्यत्किं चा᳘त्र मृन्म᳘यमुपद᳘धात्ये᳘कैव से᳘ष्टका᳘ ऽथ य᳘त्पशुशीर्षा᳘ण्युपद᳘धाति सा᳘ पश्विष्टका᳘ ऽथ य᳘द्रु᳘क्मपुरुषा᳘ ऽउपद᳘धाति य᳘द्धिरण्यशकलैः᳘ प्रोक्ष᳘ति सा᳘ हिरण्येष्टका᳘ ऽथ यत्स्रु᳘चा उपद᳘धाति य᳘दुलूखलमुसले याः᳘ समि᳘ध ऽआद᳘धाति सा᳘ वानस्पत्ये᳘ष्टका᳘ ऽथ य᳘त्पुष्करपर्ण᳘मुपद᳘धाति य᳘त्कूर्मं यद्द᳘धि म᳘धु घृतं यत्किंचात्रा᳘न्नमुपद᳘धाति᳘ सैवा᳘न्नं पञ्चमी᳘ष्टकैव᳘मु प᳘ञ्चेष्टकः॥
मूलम् - Weber
त᳘दाहुः॥
य᳘देवमे᳘केष्टको᳘ ऽथ कथम् प᳘ञ्चेष्टक इ᳘तीॗयं न्वेव᳘ प्रथमा᳘ मृन्मयी᳘ष्टका तद्यत्किं चा᳘त्र मृन्म᳘यमुपद᳘धात्ये᳘कैव से᳘ष्टका᳘थ य᳘त्पशुशीर्षा᳘ण्युपद᳘धाति सा᳘ पश्विष्टका᳘थ य᳘द्रुक्भपुरुषा᳘ उपद᳘धाति य᳘द्धिरण्यशकलैः᳘ प्रोक्ष᳘ति सा᳘ हिरण्येष्टका᳘थ यत्स्रु᳘चा उपद᳘धाति य᳘दुलूखलमुसले याः᳘ समि᳘ध आद᳘धाति सा᳘ वानस्पत्ये᳘ष्टका᳘थ य᳘त्पुष्करपर्ण᳘मुपद᳘धाति य᳘त्कूर्मं यद्द᳘धि म᳘धु घृतं यत्किं चात्रा᳘न्नमुपद᳘धाति सैवा᳘न्नं पञ्चमी᳘ष्टकैव᳘मु प᳘ञ्चेष्टकः॥
मूलम् - विस्वरम्
तदाहुः- यदेवमेकेष्टकः- अथ कथं पञ्चेष्टक इति । इयं त्वेव प्रथमा मृन्मयीष्टका । तद् यत्किंचात्र मृन्मयमुपदधाति- एकैव सेष्टका । अथ यत् पशुशीर्षाण्युपदधाति- सा पश्विष्टका । अथ यदुक्मपुरुषा ऽउपदधाति, यद्धिरण्यशकलैः प्रोक्षति- सा हिरण्येष्टका । अथ यत् स्रुचा ऽउपदधाति, यदुलूखलमुसले । याः समिध आदधाति- सा वानस्पत्येष्टका । अथ यत् पुष्करपर्णमुपदधाति, यत्कूर्मम्, यद्दधि, मधु, घृतम् । यत्किंचात्रान्नमुपदधाति- सैवान्नं- पञ्चमीष्टका । एवमु पञ्चेष्टकः ॥ ३० ॥
सायणः
पञ्चचितिको ऽग्निरिति चयने पञ्चेष्टकाश्चेतव्या इति प्रसिद्धिरस्ति, 15 अत्र भूमिरूपैकैवेष्टका ऽभिहिता, कथं पञ्चेष्टका भवन्तीति, तमिमं प्रश्नोत्तराभ्यां दर्शयति- तदाहुर्यदेवमिति । पञ्चेष्टका अपि सम्पादयति- इयं न्वेव प्रथमेति । तत्र यत् किञ्चिन्मृन्मयपात्रादिकमुपदध्यात् सा मृन्मयीष्टका, पुरुषाश्वादिपञ्चपशुशीर्षोपधानेन पश्विष्टका । रुक्मं हिरण्यम्, तत्र पुरुषं स्वर्णनिर्म्मितं चोपदधाति; उपहिता इष्टका ‘हिरण्यशकलैः प्रोक्षति;’ अतो ऽत्र हिरण्यसंस्पर्शादेषा हिरण्येष्टकेत्युच्यते । स्रुगाद्युपधानेन वानस्पत्येष्टका; वनस्पतिविकारत्वात् स्रुगादीनाम् । पुष्करपर्णाद्युपधानमन्नेष्टका; तत्र दधिघृतादीनामन्नत्वात् । इति ‘पञ्चेष्टकाः’ चेतव्याः । तत्र मार्त्तिक्य इष्टका एका एव पश्वादिसम्बन्धात्पञ्च भवन्तीति तात्पर्यम् ॥ ३० ॥
Eggeling
- As to this they say, ‘But if he (Agni) thus consists of one brick, how then (comes he to be) a five-bricked 16 one?’ Now surely the first brick of clay is this earth,–whatever made of clay he places on that (altar) that is that one brick. And when he puts thereon the heads of the animal victims 17, that is the animal-brick. And when he puts on the gold plate and man 18, when he scatters gold shavings thereon, that is the golden brick. And when he puts on two spoonfuls (of ghee) 19 when he puts on the mortar and pestle 20, and fire-sticks, that is the wood-brick. And when he puts on a lotus-leaf (petal), a tortoise 21, sour curds, honey, ghee, and whatever other food he puts on, that is the fifth brick, the food. Thus, then, it is a five-bricked (Agni).
३१
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
कतर᳘त ऽइ᳘ष्टकायाः शि᳘र ऽइ᳘ति य᳘त ऽउपस्पृ᳘श्य य᳘जुर्व्वदती᳘त्यु है᳘क ऽआहुः स᳘ स्वयमातृण्णा᳘या ऽएवा᳘र्धादुपस्पृ᳘श्य य᳘जुर्व्वदेत्त᳘थो हास्यैताः स᳘र्व्वाः स्वयमातृण्णा᳘मभ्या᳘वृत्ता भवन्ती᳘ति न त᳘था कुर्याद᳘ङ्गानि वा᳘ ऽअस्यैता᳘नि प᳘रूᳫँ᳭षि यदि᳘ष्टका य᳘था वा ऽअ᳘ङ्गे ऽङ्गे प᳘र्व्वन्पर्व्वञ्छि᳘रः कुर्या᳘त्तादृक्तद्यो वाव᳘ चि᳘ते ऽग्नि᳘र्निधीय᳘ते त᳘दे᳘वैता᳘साᳫँ᳭ स᳘र्वासाᳫँ᳭ शि᳘रः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
कतर᳘त ऽइ᳘ष्टकायाः शि᳘र ऽइ᳘ति य᳘त ऽउपस्पृ᳘श्य य᳘जुर्व्वदती᳘त्यु है᳘क ऽआहुः स᳘ स्वयमातृण्णा᳘या ऽएवा᳘र्धादुपस्पृ᳘श्य य᳘जुर्व्वदेत्त᳘थो हास्यैताः स᳘र्व्वाः स्वयमातृण्णा᳘मभ्या᳘वृत्ता भवन्ती᳘ति न त᳘था कुर्याद᳘ङ्गानि वा᳘ ऽअस्यैता᳘नि प᳘रूᳫँ᳭षि यदि᳘ष्टका य᳘था वा ऽअ᳘ङ्गे ऽङ्गे प᳘र्व्वन्पर्व्वञ्छि᳘रः कुर्या᳘त्तादृक्तद्यो वाव᳘ चि᳘ते ऽग्नि᳘र्निधीय᳘ते त᳘दे᳘वैता᳘साᳫँ᳭ स᳘र्वासाᳫँ᳭ शि᳘रः॥
मूलम् - Weber
त᳘दाहुः॥
कतर᳘त इ᳘ष्टकायाः शि᳘र इ᳘ति य᳘त उपस्पृ᳘श्य य᳘जुर्व᳘दती᳘त्यु है᳘क आहुः स᳘ स्वयमातृणा᳘या एवा᳘र्धादुपस्पृ᳘श्य यजुर्वदेत्त᳘थो हास्यैताः स᳘र्वाः स्वयमातृणा᳘मभ्या᳘वृत्ता भवन्ती᳘ति न त᳘था कुर्याद᳘ङ्गानि वा᳘ अस्यैता᳘नि प᳘रूंषि यदि᳘ष्टका य᳘था वा अ᳘ङ्गे ऽङ्गे प᳘र्वन्पर्वञ्छि᳘रः कुर्या᳘त्तादृत्कद्यो वाव᳘ चिॗते ऽग्नि᳘र्निधीय᳘ते त᳘देॗवैता᳘साᳫं स᳘र्वासां शि᳘रः॥
मूलम् - विस्वरम्
तदाहुः- कतरत इष्टकायाः शिर इति । यत उपस्पृश्य यजुर्वदतीत्यु हैक ऽआहुः । स स्वय- मातृष्णाया एवार्धादुपस्पृश्य- यजुर्वदेत् । तथो हास्यैताः सर्वाः स्वयमातृष्णामभ्यावृत्ता भवन्तीति । न तथा कुर्यात् । अङ्गानि वा ऽअस्यैतानि परूंषि- यदिष्टकाः । यथा वा ऽअङ्गे ऽङ्गे पर्वन्पर्वञ्छिरः कुर्यात्- तादृक्तत् । यो वाव चिते ऽग्निर्निधीयते- तदेवैतासां सर्वासां शिरः ॥ ३१ ॥
सायणः
चितानामिष्टकानामाहवनीयाग्निरेव शिर इति सिद्धान्तयितुं पूर्वपक्षं सोपपत्तिकमाह- तदाहुः कतरत इति । ‘इष्टकायाः‘ ‘कतरतः’ कस्मिन् प्रदेशे ‘शिरः’ तिष्ठतीति प्रश्नः । उत्तरम्; ‘यतः‘ यस्मिन् प्रदेशे इष्टकाः ‘उपस्पृश्य‘ ‘यजुः’ वदेत्, तदेव शिरः इति केषाञ्चिन्मतम् । उपस्पर्शनप्रदेशं च स स्वयमेवाह- स स्वयमिति । ‘स्वयमातृण्णायाः’ अक्षिमच्छिद्रयुक्तायाः शिलायाः ‘अर्द्धात्’ समीपात् प्रदेशे ‘उपस्पृश्य’ ‘यजुः’ मन्त्रं ‘वदेत्’ । तथो हास्येति । तथा सति शिर इष्टकाः ‘स्वयमातृण्णाम्’ ‘अभि‘- लक्ष्य ‘आवृत्ता भवन्ति‘ ‘इति‘ । तद्दूषयति- न तथा कुर्यादिति । इष्टका इति यत् एतानि ‘अस्य’ अग्नेः ‘अङ्गानि’ ‘परूंषि’ पर्वाणि; तथा सति प्रतीष्टकं यजुरुपस्पर्शनेन शिरःकरणे प्रतिपर्व शिरः कृतवान् भवति, तच्चानिष्टम् अतः स्वाभिमतं शिरो दर्शयति- यो वावेति । बिलप्रदेशे ‘अग्निः’ आहवनीयो निहितो भवति, ‘तदेव‘ ‘एतासाम्’ इष्टकानां ‘शिरः’ इति उच्यते ॥ ३१ ॥
Eggeling
- As to this they say, ‘On which side is the head of the brick?’–‘Where he touches it and says a prayer,’ so say some, ‘on one end of the naturally perforated (brick) 22 alone indeed should he
say a prayer while touching it, but thus all those (bricks) of his are turned towards the naturally perforated one.’ Let him not do so, for those bricks doubtless are his (Agni’s) limbs, his joints; and it would be just as if he were to put a head on each limb, on each joint. But indeed, the fire which is deposited on the pile, that is the head of all those (bricks).
३२
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
कति[[!!]] पश᳘वो ऽग्ना ऽउ᳘पधीयन्त ऽइ᳘ति पञ्चे᳘ति᳘ न्वेव᳘ ब्रूयात्प᳘ञ्च᳘ ह्येता᳘न्पशू᳘नुपद᳘धाति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
कति[[!!]] पश᳘वो ऽग्ना ऽउ᳘पधीयन्त ऽइ᳘ति पञ्चे᳘ति᳘ न्वेव᳘ ब्रूयात्प᳘ञ्च᳘ ह्येता᳘न्पशू᳘नुपद᳘धाति॥
मूलम् - Weber
त᳘दाहुः॥
क᳘ति पश᳘वो ऽग्ना उ᳘पधीयन्त इ᳘ति पञ्चे᳘तिॗ न्वेव᳘ ब्रूयात्प᳘ञ्चॗ ह्येता᳘न्पशू᳘नुपद᳘धाति॥
मूलम् - विस्वरम्
तदाहुः- कति पशवो ऽग्ना ऽउपधीयन्त ऽइति । पञ्चेति न्वेव ब्रूयात् । पञ्च ह्येतान्पशूनुपदधाति ॥ ३२ ॥
सायणः
चयने पशुशीर्षोपधानात् पश्विष्टकेत्युक्तम्, तत्र पशूनां सङ्ख्याप्रतिवचनव्याजेन इष्टकानां लोकद्वयात्मकताम्, अग्नेः सर्वलोकात्मकतां चाह- तदाहुः कति पशवो ऽग्ना उपधीयन्त इतीति । कति पशवो ऽग्नावुपधेयाः ? इति पृष्टे ‘पञ्च’ ‘इति’ प्रतिवदेत् । पुरुषो ऽश्वो गौरविरज इति पञ्च पशवः । मृदादिभिश्चित्यन्ते तासामुपधीयमानो ऽग्निः सर्वलोकात्मकः प्रजापतिरिति ॥ ३२ ॥
Eggeling
- Here they say, ‘How many animal victims are laid upon the fire (altar)?’–Let him say ‘Five,’ for he does lay thereon those five victims.
३३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थो ऽए᳘क ऽइ᳘ति ब्रूयात्॥
(द᳘) अ᳘विरि᳘तीयं वा ऽअ᳘विरिय᳘ᳫँ᳘[[!!]] हीमाः स᳘र्व्वाः प्रजा ऽअ᳘वतीय᳘मु वा᳘ ऽअग्नि᳘रस्यै हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते त᳘स्मादे᳘क ऽइ᳘ति ब्रूयात्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थो ऽए᳘क ऽइ᳘ति ब्रूयात्॥
(द᳘) अ᳘विरि᳘तीयं वा ऽअ᳘विरिय᳘ᳫँ᳘[[!!]] हीमाः स᳘र्व्वाः प्रजा ऽअ᳘वतीय᳘मु वा᳘ ऽअग्नि᳘रस्यै हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘ते त᳘स्मादे᳘क ऽइ᳘ति ब्रूयात्॥
मूलम् - Weber
अ᳘थो ए᳘क इ᳘ति ब्रूयात्॥
अ᳘विरि᳘तीयं वा अ᳘विरिॗयᳫं हीमाः स᳘र्वाः प्रजा अ᳘वतीय᳘मु वा᳘ अग्नि᳘रस्यै हि स᳘र्वो ऽग्नि᳘श्चीय᳘ते त᳘स्मादे᳘क इ᳘ति ब्रूयात्॥
मूलम् - विस्वरम्
अथो ऽएक इति ब्रूयात्- अविरिति । इयं वा ऽअविः । इयं हीमाः सर्वाः प्रजा अवति । इयमु वा ऽअग्निः । अस्यै हि सर्वो ऽग्निश्चीयते । तस्मादेक इति ब्रूयात् ॥ ३३ ॥
सायणः
प्रागुत्पवनात्पूर्वं पश्विष्टकापात्रं पशुमिति मत्वा पञ्चेति प्रतिवचनं दत्तम्, इदानीन्तु मृत्तिकोदकसम्पादनीयानामिष्टकानां पशुरूपत्वं प्रश्नोत्तराभ्यां दर्शयति- अथो एक इति । पूर्वं पञ्च पशव इत्युक्तम्, इदानीमविनामक एको वा पशुर्भवतीति प्रतिब्रूयात् । अविशब्दार्थमाह- इयमिति । भूमिरेव सर्वप्रजापोषकत्वादविरित्युच्यते । अवतेरविशब्दनिष्पत्तिः । भूमिरेवेष्टकारूपा अग्निश्चित्यनामा; ‘हि’ यतः ‘अस्यै’ अस्यां भूमौ ‘सर्वो ऽग्निश्चीयते,’ ‘तस्माद्’ भूमेरेकत्वाद् ‘एकः’ अविनामा पशुरेवेत्यर्थः ॥ ३३ ॥
Eggeling
- Or, ‘One,’ he may say; ‘a ewe;’ for a ewe (avi) is this earth, since she favours (av) all these creatures. And the fire (altar) also is this earth, for the whole fire (altar) is built up thereof: hence he may say, ‘One.’
३४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो द्वावि᳘ति ब्रूयात्॥
(द᳘) अ᳘वी ऽइ᳘तीयं᳘ चासौ᳘ चेमे᳘ हीमाः स᳘र्व्वाः प्रजा ऽअ᳘वतो यन्मृ᳘दियं तद्यदा᳘पो ऽसौ तन्मृच्चा᳘पश्चे᳘ष्टका भवन्ति त᳘स्माद् द्वावि᳘ति ब्रूयात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो द्वावि᳘ति ब्रूयात्॥
(द᳘) अ᳘वी ऽइ᳘तीयं᳘ चासौ᳘ चेमे᳘ हीमाः स᳘र्व्वाः प्रजा ऽअ᳘वतो यन्मृ᳘दियं तद्यदा᳘पो ऽसौ तन्मृच्चा᳘पश्चे᳘ष्टका भवन्ति त᳘स्माद् द्वावि᳘ति ब्रूयात्॥
मूलम् - Weber
अ᳘थो द्वावि᳘ति ब्रूयात्॥
अ᳘वी इ᳘तीयं᳘ चासौ᳘ चेमेॗ हीमाः स᳘र्वाः प्रजा अ᳘वतो यन्मृ᳘दियं तद्यदा᳘पो ऽसौ तन्मृच्चा᳘पश्चेष्टका भवन्ति त᳘स्माद्दावि᳘ति ब्रूयात्॥
मूलम् - विस्वरम्
अथो द्वाविति ब्रूयात्- अवी ऽइति- इयं चासौ च । इमे हीमाः सर्वाः प्रजा अवतः । यन्मृद्- इयं तत् । यदापः- असौ तत् । मृच्चापश्चेष्टका भवन्ति । तस्माद्द्वाविति ब्रूयात् ॥ ३४ ॥
सायणः
यथा मृत्तिका इष्टकासाधनम्, एवमापो ऽपि; तासां पशुत्वमाह- अथो द्वाविति ब्रूयादिति । अथवा ‘द्वौ’ अविनामानौ पशू ‘इति’ ‘ब्रूयात्’ । अविशब्दार्थं निरूपयति- इयञ्चासौ चेति । ‘इयं’ भूमिरेको ऽविः ‘असौ’ द्युलोको ऽपरो ऽविः; सस्पवृष्टिभ्यां भूमिद्युलोकयोः सर्वपोषकत्वात् अवित्वम् । मृत्तिका इयं भूमिः, आपो ऽसौ द्युलोकः; ततो भवनात् मृज्जलसम्पाद्या इष्टकाः अतो द्वाववी इति प्रतिवदेत् । अत्र मृज्जलयोरविशब्दवाच्यत्वात् तयोर्लोकद्वयात्मकत्वं सिद्धमित्यर्थः ॥ ३४ ॥
Eggeling
- Or, ‘Two,’ he may say, ’two sheep;’ for sheep, indeed, are both this (earth) and that (sky), since these two favour all these creatures;–what clay (there is in the brick) that is this earth; and what water there is that is that sky; and the bricks consist of clay and water: therefore he may say, ‘Two.’
३५
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो गौरि᳘ति ब्रूयात्॥
(दि) इमे वै᳘ लोका गौर्यद्धि किं᳘ च ग᳘च्छतीमांस्त᳘ल्लोका᳘न्गच्छतीम᳘ ऽउ लोका᳘ ऽए᳘षो ऽग्नि᳘श्चितस्त᳘स्माद्गौरि᳘ति ब्रूयात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो गौरि᳘ति ब्रूयात्॥
(दि) इमे वै᳘ लोका गौर्यद्धि किं᳘ च ग᳘च्छतीमांस्त᳘ल्लोका᳘न्गच्छतीम᳘ ऽउ लोका᳘ ऽए᳘षो ऽग्नि᳘श्चितस्त᳘स्माद्गौरि᳘ति ब्रूयात्॥
मूलम् - Weber
अ᳘थो गौरि᳘ति ब्रूयात्॥
इमे वै᳘ लोका गौर्यद्धि किं᳘ च ग᳘छतीमांस्त᳘ल्लोका᳘न्गछतीम᳘ उ लोका᳘ एॗषो ऽग्नि᳘श्चितस्त᳘स्माद्गौरि᳘ति ब्रूयात्॥
मूलम् - विस्वरम्
अथो गौरिति ब्रूयात् । इमे वै लोका गौः । यद्धि किंच गच्छाति- इमांस्तल्लोकान्गच्छति । इम ऽउ लोकाः- एषो ऽग्निः । तस्माद्गौरिति ब्रूयात् ॥ ३५ ॥
सायणः
पशुद्वित्वप्रतिवचनेन लोकद्वयात्मकेष्टकचितस्याग्नेः सर्वलोकात्मकत्वमाह- अथो गौरिति प्रतिब्रूयादिति । इमे वै लोका गौरिति । ‘यद्धि किञ्च‘- इत्यादिना गोत्वोपपादनम् । सर्वैर्गम्यमात्वेन इमे लोका गौः । कर्मार्थे गमेर्डोः प्रत्ययः (पा. उ. सू. २२५) । यतः चीयमानो ऽग्निः सर्वलोकात्मकः, स चैकः तस्माद् गौरेकः पशुरिति प्रतिवदेत् ॥ ३५ ॥
Eggeling
- Or he may say, ‘A cow (or bullock, go);–’the cow forsooth means these worlds, for whatever walks (gam) that walks in these worlds 23; and that
fire also is these worlds: therefore he may say, ‘A cow.’
३६
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘दाहुः॥
क᳘स्मै का᳘मायाग्नि᳘श्चीयत ऽइ᳘ति सुपर्णो᳘ मा भूत्वा दि᳘वं वहादि᳘त्यु है᳘क ऽआहुर्न त᳘था विद्यादेतद्वै᳘ रूपं᳘ कृत्वा᳘ प्राणाः᳘ प्रजा᳘पतिरभवन्ने᳘त᳘द्रूपं᳘ कृत्वा᳘ प्रजा᳘पतिर्देवा᳘नसृजतैत᳘द्रूपं᳘ कृत्वा᳘ देवा᳘ ऽअमृ᳘ता ऽअभवंस्तद्य᳘दे᳘वैते᳘न प्राणा ऽअ᳘भवन्य᳘त्प्रजा᳘पतिर्य᳘द्देवास्त᳘दे᳘वैते᳘न भवति॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘दाहुः॥
क᳘स्मै का᳘मायाग्नि᳘श्चीयत ऽइ᳘ति सुपर्णो᳘ मा भूत्वा दि᳘वं वहादि᳘त्यु है᳘क ऽआहुर्न त᳘था विद्यादेतद्वै᳘ रूपं᳘ कृत्वा᳘ प्राणाः᳘ प्रजा᳘पतिरभवन्ने᳘त᳘द्रूपं᳘ कृत्वा᳘ प्रजा᳘पतिर्देवा᳘नसृजतैत᳘द्रूपं᳘ कृत्वा᳘ देवा᳘ ऽअमृ᳘ता ऽअभवंस्तद्य᳘दे᳘वैते᳘न प्राणा ऽअ᳘भवन्य᳘त्प्रजा᳘पतिर्य᳘द्देवास्त᳘दे᳘वैते᳘न भवति॥
मूलम् - Weber
त᳘दाहुः॥
क᳘स्मै का᳘मायाग्नि᳘श्चीयत इ᳘ति सुपर्णो᳘ मा भूत्वा दि᳘वं वहादि᳘त्यु है᳘क आहुर्न त᳘था विद्यादेतद्वै᳘ रूपं᳘ कृत्वा᳘ प्राणाः᳘ प्रजा᳘पतिरभवन्नेत᳘द्रूपं᳘ कृत्वा᳘ प्रजा᳘पतिर्देवा᳘नसृजतैत᳘द्रूपं᳘ कृत्वा᳘ देवा᳘ अमृ᳘ता अभवंस्तद्य᳘देॗवैते᳘न प्राणा अ᳘भवन्य᳘त्प्रजा᳘पतिर्य᳘द्देवास्त᳘देॗवैते᳘न भवति॥
मूलम् - विस्वरम्
तदाहुः- कस्मै कामायाग्निश्चीयत ऽइति । सुपर्णो मा भूत्वा दिवं वहादित्यु हैक ऽआहुः । न तथा विद्यात् । एतद्वै रूपं कृत्वा प्राणाः प्रजापतिरभवन् । एतद्रूपं कृत्वा प्रजापतिर्देवानसृजत, एतद्रूपं कृत्वा देवा अमृता अभवन् । तद्यदेवैतेन प्राणा अभवन्, यत् प्रजापतिः, यद्देवाः- तदेवैतेन भवति ॥ ३६ ॥
सायणः
अग्निचयनम्य प्रजापतिमवनमेव न प्रयोजनमिति विवक्षुः पूर्वं प्रयोजनं पृच्छति- तदाहुरिति । ‘कस्मै’ ‘कामाय’ प्रयोजनाय ‘अग्निः‘ ‘चीयते’ इति फलप्रश्नः । तत्र फलान्तरं पूर्वपक्षयति- सुपर्ण इति । चीयमानो ऽग्निः ‘सुपर्ण’ पक्षी भूत्वा । अग्नेः पक्षिरूपत्वं द्वितीयब्राह्मणे समाम्नातम् ( श. प. । ६ । १। २। १ ) । ‘मा’ मा चितवन्तं यजमानं ‘दिवं‘ स्वर्गं ‘वहात्’ प्रापयेत् ‘इति’ केषाञ्चिन्मतं तन्निराकरोति- न तथेति । ‘एतद्रूपं’ पक्षिरूपं ‘कृत्वा‘ सप्त ‘प्राणाः’ प्रजापत्यात्मना सम्पन्नाः । ‘प्रजापतिः’ अपि तद्रूपधारी ‘देवान्’ सृष्टवान् । ते ऽपि तदात्मना अमृतत्वं प्राप्नुवन् तस्मात् प्राणसम्पादितप्रजापतिभवनमेव चयनस्य फलमित्यर्थः ॥ ३६ ॥
इति श्रीसायणाचार्यविरचिते माधवीय वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (६-१-२) ॥
Eggeling
- As to this they say, ‘For what object is this fire (altar) built? Having become a bird, he (Agni) shall bear me to the sky!’ so say some; but let him not think so; for by assuming that form, the vital airs became Prajāpati 24; by assuming that form, Prajāpati created the gods 25; by assuming that form, the gods became immortal and what thereby the vital airs, and Prajāpati, and the gods became, that indeed he (the Sacrificer) thereby becomes.
-
149:1 As here, this class of deities–whose sphere of action are the terrestrial regions–was associated with Agni, the guardian of the earth, at III, 4, 2, 1. ↩︎
-
149:2 Another class of (storm) deities, here associated with Vāyu, the wind, the guardian of the air-region. ↩︎
-
149:3 This class of deities (of light) are here associated with the Sun, who indeed is called the Āditya in paragraphs 4 and 10 (instead of Sūrya). ↩︎
-
150:1 Professor Weber (Ind. Stud. XIII, p. 268) has drawn attention to the discrepancy between this passage and III, 4, 2, 1, where the Viśve Devāḥ (with Br̥haspati) are denied the privilege of forming a special class of deities,–this being one of many points of difference, doctrinal as well as linguistic, between Books 1-5 and 6-10. ↩︎
-
150:2 Professor Delbrück, Altind. Synt. p. 147, reads ‘apacanta,’–the plants matured fruit. ↩︎
-
सप्तमाष्टमकाण्डयोः प्रतिपादितो ऽग्निचयनविस्तार इह समालोचनीयः । ↩︎
-
150:3 Literally, he fell asunder, or to pieces, became disjointed. Hence, when the gods ‘restored’ Prajāpati (the lord of generation, identified with the sacrifice, and with Agni, the fire), the verb used is śaṁskr̥; ’to put together;’ and this putting together, or restoration, of Prajāpati is symbolically identified with the building up of the fire-altar. ↩︎
-
151:1 Upa-dhā. Paragraphs 14 and 15 involve a double meaning of the word hita, the past participle of dhā, to put,–viz. put, set, or suitable, beneficial. ↩︎
-
151:2 Or, ‘I shall put on,’ &c., upa-dhā, the verb used of the putting on of bricks in building up the altar. Cf. II, 1, 2, 15. ↩︎
-
152:1 That is, the four quarters, or cardinal points of the compass; and the upper region, or rather the upward (or perpendicular) direction. ↩︎
-
153:1 In contradistinction to the yajushmatī (prayerful) bricks, which bear special names, and have special formulas attached to them; lokam-pr̥ṇā (space-filling ones) is the technical term for those bricks which have no special prayers belonging to them, but are piled up with a common formula (Vāj. S. XII, 54; Sat. Br. VIII, 7, 2, 1 seq.), beginning ’lokam pr̥ṇa chidram pr̥na,’ ‘fill the space, fill the gap!’ ↩︎
-
154:1 This is the formula (Vāj. S. XII, 53) with which the so-called ‘sādanam’ or ‘settling’ of the bricks is performed. See VII, 1, 1, 30. ↩︎
-
154:2 That is, the first brick which the wife of the Sacrificer herself forms, and which is called Ashāḍḥā. See VI, 3, 1, 1; 5, 3, 1. ↩︎
-
155:1 Viz. by means of the clay bricks, and the loose soil put between the layers. ↩︎
-
अष्टमकाण्डे पञ्चमे ऽध्याये इति बोध्यम् । ↩︎
-
155:2 Sāyaṇa only refers here to the fact that the sacrifice (yajña) is called ‘pāṅkta,’ ’the fivefold.’ ↩︎
-
155:3 See VII, 5, 2, 1 seq. ↩︎
-
155:4 See VII, 4, 1, 15 seq. ↩︎
-
155:5 See VII, 4, 1, 32 seq. ↩︎
-
155:6 See VII, 5, 1, 12 seq. ↩︎
-
155:7 See VII, 5, 1, 1 seq. ↩︎
-
155:8 Apparently some kind of porous stone. Three such perforated stones or ‘bricks’ are used in the construction of the fire-altar; viz. one which is laid on the gold man in the centre of the bottom layer (a sāman relating to bhūs, the earth, being pronounced on it while touching it); the second in the centre of the third layer; and the third one being laid upon the centre of the completed fifth layer. They are meant to represent the three worlds, the holes being intended to afford to the Sacrificer (represented by the gold man) a passage to the highest regions. See VI, 2, 3, 1 seq. ↩︎
-
156:1 It is not quite clear whether the author indulges in etymological trifling (go–gū). The Bombay MS. of Sāyaṇa reads,–imāṁstallokān gacchatīti kavana(?gavana)karmasādhanaṁ gośabdaṁ darśayati. ↩︎
-
157:1 See VI, 1, 1, 2 seq., where the seven vital airs are represented as assuming the form of a bird–the Purusha Prajāpati. ↩︎
-
157:2 See paragraphs 7-11. ↩︎