०१

विश्वास-प्रस्तुतिः

अ᳘सद्वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(त्त᳘) त᳘दाहुः किं तद᳘सदासीदित्यृ᳘षयो वाव ते ऽग्रे᳘ ऽसदासीत्त᳘दाहुः[[!!]] के त ऽऋ᳘षय ऽइ᳘ति प्राणा वा ऽऋ᳘षयस्ते य᳘त्पु᳘रा ऽस्मात्स᳘र्व्वस्मादिद᳘मिच्छ᳘न्तः श्र᳘मेण त᳘पसा᳘ ऽऽरिषंस्त᳘स्मादृ᳘षयः॥

मूलम् - श्रीधरादि

अ᳘सद्वा᳘ ऽइदम᳘ग्र ऽआसीत्॥
(त्त᳘) त᳘दाहुः किं तद᳘सदासीदित्यृ᳘षयो वाव ते ऽग्रे᳘ ऽसदासीत्त᳘दाहुः[[!!]] के त ऽऋ᳘षय ऽइ᳘ति प्राणा वा ऽऋ᳘षयस्ते य᳘त्पु᳘रा ऽस्मात्स᳘र्व्वस्मादिद᳘मिच्छ᳘न्तः श्र᳘मेण त᳘पसा᳘ ऽऽरिषंस्त᳘स्मादृ᳘षयः॥

मूलम् - Weber

अ᳘सद्वा᳘ इदम᳘ग्र आसीत्॥
त᳘दाहुः किं तद᳘सदासीदित्यृ᳘षयो वाव ते ग्रे᳘ सदासी᳘त्त᳘दाहुः के त ऋ᳘षय इ᳘ति प्राणा वा ऋ᳘षयस्ते य᳘त्पुॗरास्मात्स᳘र्वस्मादिद᳘मिछ᳘न्तः श्र᳘मेण त᳘पसा᳘रिषंस्त᳘स्मादृ᳘षयः ध्यत᳘ इन्द्रिये᳘णैन्द्ध यदै᳘न्द्ध त᳘स्मादि᳘न्ध इ᳘न्धो ह वै तम्॥

मूलम् - विस्वरम्

अथाग्निचित्याब्राह्मणम् ।

असद्वा ऽइदमग्र ऽआसीत् । तदाहुः- किं तदसदासीदिति । ऋषयो वाव ते ऽग्रे ऽसदासीत् । तदाहुः- के ते ऋषय इति । प्राणा वा ऽऋषयः । ते यत्पुरा ऽऽस्मात्सर्वस्मादिदमिच्छन्तः श्रमेण तपसारिषन्- तस्मादृषयः ॥ १ ॥

सायणः

1 वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥

हिरण्यगर्भकर्त्तृकैव सृष्टिराम्नाता- असद्वा इदमग्र आसीदिति 2 ‘अग्रे’ प्रपञ्चसृष्टेः पुरा ‘इदं’ जगत् ‘असत्’ अव्यक्तनामरूपम् ‘आसीत्’ । श्रुतिः स्वयमेव ब्रह्मवादिविचारमुखेन असदर्थं निरूपयति- तदाहुः किं तदसदासीदिति । ‘तत्’ तदानीं ‘किम् असद् आसीत् इति’ इदानीन्तनानां ब्रह्मवादिनां विचारः । ‘अग्रे’ सृष्टेः पुरा ‘असत्’ ‘ते’ प्रसिद्धाः ‘ऋषयो वाव’ ऋषय एव ‘आसीत्’ । ऋषिशब्दार्थं प्रश्नोत्तराभ्यामाह- तदाहुः के त ऋषय इतीति । ‘ऋषयः प्राणा वै’ अतः सृष्टेरग्रे एव ‘असत्’ आसन् । केवललिङ्गशरीरमेवासीदित्यर्थः । प्राणानामृषिशब्दवाच्यत्वे प्रवृत्तिनिमित्तं दर्शयति- ते यत्पुरेति । ‘यत्’ यस्मात् कारणात् ‘अस्मात्’ जगतः ‘पुरा’ ‘इदं’ स्वसेव्यं जगत् ‘इच्छन्तः’ ‘श्रमेण’ ‘तपसा’ तपोरूपेण क्लेशेन पर्यालोचनेन ‘आरिषन्’ आर्षन् । “ऋषी गतौ” (धा. पा. तु. प. ७) । सर्वे गत्यर्था ज्ञानार्थाः, ज्ञातवन्तः । ‘तस्मात्’ ऋषयः इत्युच्यन्ते । “ऋषिर्दर्शनात् स्तोमान् ददर्शेत्यौपमन्यवः” इति हि यास्कः (निरु. २ । ३ । ३) ॥ १ ॥

Eggeling
  1. Verily, in the beginning there was here the non-existent 3. As to this they say, ‘What was that non-existent?’ The R̥shis, assuredly,–it is they that were the non-existent 4. As to this they say, ‘Who were those R̥shis?’ The R̥shis, doubtless, were the vital airs: inasmuch as before (the existence of) this universe, they, desiring it, wore themselves out (rish) with toil and austerity, therefore (they are called) R̥shis.

०२

विश्वास-प्रस्तुतिः

स᳘ यो ऽयं म᳘ध्ये प्राणः᳘॥
(ऽ) एष᳘ ऽएवे᳘न्द्रस्ता᳘नेष᳘ प्राणा᳘न्मध्यत᳘ ऽइन्द्रिये᳘णैन्द्ध यदै᳘न्द्ध त᳘स्मादि᳘न्ध ऽइ᳘न्धो ह वै तमि᳘न्द्र ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्त᳘ ऽइद्धाः᳘ सप्त ना᳘ना पु᳘रुषानसृजन्त᳘॥

मूलम् - श्रीधरादि

स᳘ यो ऽयं म᳘ध्ये प्राणः᳘॥
(ऽ) एष᳘ ऽएवे᳘न्द्रस्ता᳘नेष᳘ प्राणा᳘न्मध्यत᳘ ऽइन्द्रिये᳘णैन्द्ध यदै᳘न्द्ध त᳘स्मादि᳘न्ध ऽइ᳘न्धो ह वै तमि᳘न्द्र ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्त᳘ ऽइद्धाः᳘ सप्त ना᳘ना पु᳘रुषानसृजन्त᳘॥

मूलम् - Weber

सॗ यो यम् म᳘ध्ये प्राणः᳟॥
एष᳘ एवे᳘न्द्रस्ता᳘नेष᳘ प्राणा᳘न्मै᳘न्द्र इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवास्त᳘ इद्धाः᳘ सप्त ना᳘ना पु᳘रुषानसृजन्त᳟॥

मूलम् - विस्वरम्

स यो ऽयं मध्ये प्राणः- एष एवेन्द्रः । तानेष प्राणान्मध्यत इन्द्रियेणैन्द्ध । यदैन्द्ध- तस्मादिन्धः । इन्धो ह वै तमिन्द्र इत्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । त ऽइद्धाः सप्त नाना पुरुषानसृजन्त ॥ २ ॥

सायणः

मध्यमप्राणस्य सर्वेन्द्रियपोषणद्वारा इन्द्रशब्दवाच्यत्वमाह- स यो ऽयमिति । एतेषां प्राणानां ‘मध्ये’ ‘यः’ प्राणः, एष एव ‘इन्द्रः’ इत्युच्यते । तत्र प्रवृत्तिनिमित्तप्रदर्शनम्- तानेष प्राणान्मध्यत इति । मध्यप्रदेशे स्थितः प्राणः ‘इन्द्रियेण’ इन्द्रशब्दवाच्येन स्वबलेन ‘ऐन्ध’ । “ञिइन्धी दीप्तौ” (धा. पा. रु. प. ११) । लङि रूपम् । स्वबलप्रकाशेन स्वस्वव्यापारसमर्थानकरोदित्यर्थः । ‘तस्मात्’ इन्धनसम्बन्धात् ‘इन्द्र इति’ उच्यते, देवानां परोक्षनामप्रियत्वात् । प्राणस्य हि वागादीन्द्रियेषु स्वांशसद्भावः । एतस्यैव पोषकत्वं चान्यत्राम्नातम् “या ते तनूर्वाचि प्रतिष्ठिता, या श्रोत्रे या च चक्षुषि । यां च मनसि सन्तता, शिवां तां कुरु मोत्क्रमी” (अथ० प्र० उप० २ । १२ ।) इति । ‘त इद्धाः प्राणाः सप्त” ‘नाना’ नानाविधान् पुरुषान् शरीराणि स्वाश्रयत्वेन ‘असृजन्त’ ॥ २ ॥

Eggeling
  1. This same vital air in the midst doubtless is Indra. He, by his power (indriya), kindled those (other) vital airs from the midst; and inasmuch as he kindled (indh), he is the kindler (indha): the kindler 5 indeed,–him they call ‘Indra’ mystically

(esoterically), for the gods love the mystic. They (the vital airs), being kindled, created seven separate persons 6 (purusha).

०३

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्॥
(न्न) न वा᳘ ऽइत्थᳫँ᳭ स᳘न्तः शक्ष्यामः प्र᳘जनयितुमिमा᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषं करवामे᳘ति त᳘ ऽएता᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषमकुर्वन्य᳘दूर्ध्वं ना᳘भेस्तौ द्वौ᳘ समौ᳘ब्जन्यद᳘वाङ्ना᳘भेस्तौ द्वौ᳘ पक्षः पु᳘रुषः पक्षः पु᳘रुषः प्रतिष्ठै᳘क ऽआसीत्॥

मूलम् - श्रीधरादि

ते ऽब्रुवन्॥
(न्न) न वा᳘ ऽइत्थᳫँ᳭ स᳘न्तः शक्ष्यामः प्र᳘जनयितुमिमा᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषं करवामे᳘ति त᳘ ऽएता᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषमकुर्वन्य᳘दूर्ध्वं ना᳘भेस्तौ द्वौ᳘ समौ᳘ब्जन्यद᳘वाङ्ना᳘भेस्तौ द्वौ᳘ पक्षः पु᳘रुषः पक्षः पु᳘रुषः प्रतिष्ठै᳘क ऽआसीत्॥

मूलम् - Weber

ते ऽब्रुवन्॥
न वा᳘ इत्थᳫं स᳘न्तः शक्ष्यामः प्र᳘जनयितुमिमा᳘न्त्सप्त पु᳘रुषाने᳘कम् पु᳘रुषं करवामे᳘ति त᳘ एता᳘न्त्सप्त पु᳘रुषाने᳘कम् पु᳘रुषमकुर्वन्य᳘दूर्ध्वं ना᳘भेस्तौ द्वौ᳘ समौ᳘ब्जन्यद᳘वाङ्ना᳘भेस्तौ द्वौ᳘ पक्षः पु᳘रुषः पक्षः पु᳘रुषः प्रतिष्ठै᳘क आसीत्॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- न वा ऽइत्थं सन्तः शक्ष्यामः प्रजनयितुम्, इमान्त्सप्त पुरुषान् । एकं पुरुषं करवामेति । त एतान्त्सप्त पुरुषानेकं पुरुषमकुर्वन् । यदूर्ध्वं नाभेः तौ द्वौ समौब्जन् । यदवाङ् नाभेः तौ द्वौ । पक्षः पुरुषः, पक्षः पुरुषः, प्रतिष्ठैक आसीत् ॥ ३ ॥

सायणः

ते ऽब्रुवन्निति । ‘ते’ ऋषयः एकैकस्वस्वाश्रयप्रधानानि सप्तशरीराणि सृष्ट्वा परस्परम् अब्रुवन् । ‘इत्थं’ एकैकप्रधानशरीराः ‘सन्तः’ अचाक्षुषमिमं स्थूलं जगदुत्पादयितुं ‘न शक्ष्यामः’ न समर्था भवामः; अचक्षुषो वचनव्यापाराभावात्, अवचनस्य च दर्शनाभावान् एवमिन्द्रियाणां प्रतिनियतव्यापारत्वादभिन्नशरीरत्वे कर्मकर्तृत्वं नोपपद्यत इति । अतः ‘एकं पुरुषं’ सर्वेन्द्रियाश्रयं ‘करवामेति’ समालोच्य ‘एतान् सप्त पुरुषान्’ ‘एकम्’ एव ‘पुरुषम्’ ‘अकुर्वन्’ अकार्षुः । एकस्मिन् पुरुषे सप्तपुरुषसन्निवेशं दर्शयति- यदूर्ध्वमिति । नाभेरूर्ध्वम् ‘यत्’ अस्ति, तत्र ‘द्वौ’ पुरुषौ समौब्जन् “उब्ज आर्जवे” (धा. पा. तु. प. २३) “अर्जने” इति केचित् ॥ अर्जितवन्तः, स्थापितवन्तः ‘नाभेः’ ’ अवाङ्’ अधस्तनम्, तत्र ‘द्वौ’ पुरुषौ समौब्जन् इति मध्ये देहे चत्वारः पुरुषाः सम्पन्नाः । द्वौ पुरुषौ दक्षिणोत्तरपक्षौ सम्पन्नौ । ‘एकः पुरुषः’ ‘प्रतिष्ठा’ पुच्छमासीत् । एवं सप्तभिः पुरुषैः शिरोवर्जितस्य एकपुरुषस्य निष्पादनम् ॥ ३ ॥

Eggeling
  1. They said, ‘Surely, being thus, we shall not be able to generate: let us make these seven persons one Person!’ They made those seven persons one Person: they compressed two of them 7 (into) what is above the navel, and two of them (into) what is below the navel; (one) person was (one) wing (or side), (one) person was (the other) wing, and one person was the base (i.e. the feet).

०४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ᳘ यैते᳘षाᳫँ᳭ सप्तानां[[!!]] पु᳘रुषाणां श्रीः[[!!]]॥
(र्यो) यो र᳘स ऽआ᳘सीत्त᳘मूर्ध्व᳘ᳫँ᳘ समु᳘दौहंस्त᳘दस्य शि᳘रो ऽभवद्यच्छ्रि᳘यᳫँ᳭ समुदौ᳘हंस्त᳘स्माच्छ्रि᳘रस्त᳘स्मिन्नेत᳘स्मिन्प्राणा᳘ ऽअश्रयन्त त᳘स्माद्वे᳘वैतच्छिरो᳘ ऽथ य᳘त्प्राणा ऽअ᳘श्रयन्त त᳘स्मादु प्राणाः श्रियो᳘ ऽथ यत्स᳘र्वस्मिन्न᳘श्रयन्त त᳘स्मादु श᳘रीरम्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ᳘ यैते᳘षाᳫँ᳭ सप्तानां[[!!]] पु᳘रुषाणां श्रीः[[!!]]॥
(र्यो) यो र᳘स ऽआ᳘सीत्त᳘मूर्ध्व᳘ᳫँ᳘ समु᳘दौहंस्त᳘दस्य शि᳘रो ऽभवद्यच्छ्रि᳘यᳫँ᳭ समुदौ᳘हंस्त᳘स्माच्छ्रि᳘रस्त᳘स्मिन्नेत᳘स्मिन्प्राणा᳘ ऽअश्रयन्त त᳘स्माद्वे᳘वैतच्छिरो᳘ ऽथ य᳘त्प्राणा ऽअ᳘श्रयन्त त᳘स्मादु प्राणाः श्रियो᳘ ऽथ यत्स᳘र्वस्मिन्न᳘श्रयन्त त᳘स्मादु श᳘रीरम्॥

मूलम् - Weber

अ᳘थॗ यैते᳘षाᳫं सप्ता᳘नाम् पु᳘रुषाणां श्रीः᳟॥
यो र᳘स आ᳘सीत्त᳘मूर्ध्व᳘ᳫं᳘ समु᳘दौहस्त᳘दस्य शि᳘रो ऽभवद्यछ्रि᳘यᳫं समुदौ᳘हंस्त᳘स्माछि᳘रस्त᳘स्मिन्नेत᳘स्मिन्प्राणा᳘ अश्रयन्त त᳘स्माद्वेॗवैतछिरो᳘ ऽथ य᳘त्प्राणा अ᳘श्रयन्त त᳘स्मादु प्राणाः श्रियौ᳘ ऽथ यत्स᳘र्वस्मिन्न᳘श्रयन्त त᳘स्मादु श᳘रीरम्॥

मूलम् - विस्वरम्

अथ यैतेषां सप्तानां पुरुषाणां श्रीः, यो रस आसीत् तमूर्ध्वं समुदौहन्- तदस्य शिरो ऽभवत् । यच्छ्रियं समुदौहन् तस्माच्छिरः । तस्मिन्नेतस्मिन्प्राणा अश्रयन्त । तस्माद्वेवैतच्छिरः । अथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियः । अथ यत्सर्वस्मिन्नश्रयन्त तस्मादु शरीरम् ॥ ४ ॥

सायणः

शिरसो जननं दर्शयति- अथ यैतेषामिति । ‘एतेषां’ पुरुषाणां ‘श्रीः’ श्रीभूतः ‘यः’ ‘रसः’ सारः आसीत् ‘तम्’ ‘ऊदूर्ध्वम्’ उपरिभागे ‘समुदौहन्’ समुदितमकार्षुः, स एकीभूतः सारः ‘अस्य’ पुरुषस्य ‘शिरः अभवत्’ ‘तस्मात्;’ श्रीसमुदूहनात् ‘शिरः’- इति शब्दनिष्पत्तिः । प्रकारान्तरेण शिरःशब्दनिर्वचनमाह- तस्मिन्निति । ‘तस्मिन्’ श्रीसमुदूहनेन निष्पादिते शिरसि ‘प्राणाः’ चक्षुरादीन्द्रियाणि ‘अश्रयन्त’, श्रितानि, ‘तस्मात्’ प्राणसंश्रयणात् ‘शिरः’ इत्युच्यते; यस्माच्छिरसि ‘प्राणा अश्रयन्त’, ‘तस्मात्’ प्राणानामपि श्रीत्वम् “श्रिञ् सेवायाम्” (धा. पा. भ्वा. उ. ९२२) इत्यस्मात् व्युत्पत्तेः । ‘यत्’ यस्माच्च ‘एतस्मिन्’ सर्वस्मिन् देहे ते सर्वे ऽपि ‘अश्रयन्त’, ‘तस्मात्’ देहो ऽपि ‘शरीरम्’ उच्यते अत्र पूर्वोक्ताद्धेतोः शरीरशब्दव्युत्पत्तिः कार्या ॥ ४ ॥

Eggeling
  1. And what excellence, what life-sap (rasa) there was in those seven persons, that they concentrated above, that became his head. And because (in it) they concentrated the excellence (śrī), therefore it is (called) the head (śiras). It was thereto that the breaths resorted (śri): therefore also it is the head (śiras). And because the breaths did so resort (śri) thereto, therefore also the breaths (vital airs, and their organs) are elements of excellence (śrī). And because they resorted to the whole (system) therefore (this is called) body (śarīra).

०५

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स᳘ ऽएव पुरुषः[[!!]] प्रजा᳘पतिरभवत्॥
(त्स) स यः स पु᳘रुषः प्रजा᳘पतिर᳘भवदय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीय᳘ते॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स᳘ ऽएव पुरुषः[[!!]] प्रजा᳘पतिरभवत्॥
(त्स) स यः स पु᳘रुषः प्रजा᳘पतिर᳘भवदय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीय᳘ते॥

मूलम् - Weber

स᳘ एव पु᳘रुषः प्रजा᳘पतिरभवत्॥
स यः स पु᳘रुषः प्रजा᳘पतिर᳘भवदय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीय᳘ते॥

मूलम् - विस्वरम्

स एव पुरुषः प्रजापतिरभवत् । स यः स पुरुषः प्रजापतिरभवत्- अयमेव सः- यो ऽयमग्निश्चीयते ॥ ५ ॥

सायणः

य एव पुरुष इति । ‘सः’ एषः सप्तभिः पुरुषैर्निष्पन्न एकः पुरुषः ‘प्रजापतिः’ विराट् अभूत् । एवं लिङ्गशरीराभिमानिहिरण्यगर्भकर्तृका विराडुत्पत्तिरुक्ता, तस्य विराजो ऽग्निरूपतामाह- स यः पुरुष इति । ‘स प्रजापतिः’ एव ‘अयं’ चीयमानः ‘अग्निः’ इत्यर्थः ॥ ५ ॥

Eggeling
  1. That same Person became Prajāpati (lord of generation). And that Person which became Prajāpati is this very Agni (fire-altar), who is now (to be) built.

०६

विश्वास-प्रस्तुतिः

स वै᳘ सप्तपुरुषो᳘ भवति॥
सप्तपुरुषो᳘ ह्ययं[[!!]] पु᳘रुषो य᳘च्चत्वा᳘र आत्मा त्र᳘यः पक्षपुच्छा᳘नि चत्वा᳘रो हि त᳘स्य पु᳘रुषस्यात्मा त्र᳘यः पक्षपुच्छान्य᳘थ यदे᳘केन पु᳘रुषेणात्मा᳘नं व्वर्ध᳘यति ते᳘न व्वी᳘र्येणाय᳘मात्मा᳘ पक्षपुच्छान्यु᳘द्यच्छति॥

मूलम् - श्रीधरादि

स वै᳘ सप्तपुरुषो᳘ भवति॥
सप्तपुरुषो᳘ ह्ययं[[!!]] पु᳘रुषो य᳘च्चत्वा᳘र आत्मा त्र᳘यः पक्षपुच्छा᳘नि चत्वा᳘रो हि त᳘स्य पु᳘रुषस्यात्मा त्र᳘यः पक्षपुच्छान्य᳘थ यदे᳘केन पु᳘रुषेणात्मा᳘नं व्वर्ध᳘यति ते᳘न व्वी᳘र्येणाय᳘मात्मा᳘ पक्षपुच्छान्यु᳘द्यच्छति॥

मूलम् - Weber

स वै᳘ सप्तपुरुषो᳘ भवति॥
सप्तपुरुषो ह्य᳘यम् पु᳘रुषो य᳘च्च्त्वा᳘र आत्मा त्र᳘यः पक्षपुछा᳘नि चत्वा᳘रो हि त᳘स्य पु᳘रुषस्यात्मा त्र᳘यः पक्षपुछान्य᳘थ यदे᳘केन पु᳘रुषेणात्मा᳘नं वर्ध᳘यति ते᳘न वीॗर्येणाय᳘मात्मा᳘ पक्षपुछान्यु᳘द्यछति॥

मूलम् - विस्वरम्

स वै सप्तपुरुषो भवति । सप्तपुरुषो ह्ययं पुरुषः- यच्चत्वार आत्मा, त्रयः पक्षपुच्छानि । चत्वारो हि तस्य पुरुषस्यात्मा, त्रयः पक्षपुच्छानि । अथ यदेकेन पुरुषेणात्मानं वर्धयति- तेन वीर्येणायमात्मा पक्षपुच्छान्युद्यच्छति ॥ ६ ॥

सायणः

तदेव साम्यमाविष्करोति- स वै सप्तेति । ‘सः’ चीयमानः अग्निः सप्तपुरुषसम्मितो भवति, ‘हि’ यस्मात् ‘अयं पुरुषः’ प्रजापतिः सप्तपुरुषात्मकः । तस्य सप्तपुरुषात्मकत्वमिदानीमुक्तम्, तच्चीयमानाग्नावपि स्फोरयति 8- यच्चत्वार इत्यादिना । “हिरण्मयः शकुनिः ब्रह्मनाम इति पक्षित्वेन निरूपणात् पुच्छशब्दव्यवहारः ।” चित्याग्नेः सप्तपुरुषीयपुच्छत्वं दशमे वक्ष्यते (श. प. १० । २ । २ । ५) । आपस्तम्बेनाप्युक्तम्- “चतुर आत्मनि पुरुषान्मिमीते पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तर इति । तदु ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतो ऽग्निः” (आ. श्रौ. सू. १६ । १७) इति । अथ यदेकेनेत्यादेरयमर्थः- ‘यत्’ यस्मात् ‘आत्मानं’ मध्यदिशं पक्षपुच्छेभ्यः पुरुषत्रयसम्मितेभ्यो ऽपि ‘एकेन पुरुषेण वर्द्धयति’ तस्मात् ‘अयमात्मा’ चतुःपुरुषसम्मितत्वात् स्वेन ‘वीर्येण’ ‘पक्षपुच्छान्’ प्रयच्छति खलु ॥ ६ ॥

Eggeling
  1. He verily is composed of seven persons, for this Person (Agni) is composed of seven persons 9,

to wit, the body (trunk) of four, and the wings and tail of three; for the body of that (first) Person (was composed of) four, and the wings and tail of three. And inasmuch as he makes the body larger by one person, by that force the body raises the wings and tail.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते[[!!]]॥
यै᳘वैते᳘षाᳫँ᳭ सप्तानां पु᳘रुषाणाᳫँ᳭ श्रीर्यो र᳘सस्त᳘मेत᳘दूर्ध्व᳘ᳫँ᳘ समु᳘दूहन्ति त᳘दस्यैतच्छि᳘रस्त᳘स्मिन्नेत᳘स्मिन्त्स᳘र्व्वे देवाः᳘ श्रिता ऽअ᳘त्र हि स᳘र्व्वेभ्यो देवे᳘भ्यो जुह्वति[[!!]] त᳘स्माद्वे᳘वैतच्छि᳘रः᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते[[!!]]॥
यै᳘वैते᳘षाᳫँ᳭ सप्तानां पु᳘रुषाणाᳫँ᳭ श्रीर्यो र᳘सस्त᳘मेत᳘दूर्ध्व᳘ᳫँ᳘ समु᳘दूहन्ति त᳘दस्यैतच्छि᳘रस्त᳘स्मिन्नेत᳘स्मिन्त्स᳘र्व्वे देवाः᳘ श्रिता ऽअ᳘त्र हि स᳘र्व्वेभ्यो देवे᳘भ्यो जुह्वति[[!!]] त᳘स्माद्वे᳘वैतच्छि᳘रः᳘॥

मूलम् - Weber

अ᳘थ य᳘श्चिॗते ऽग्नि᳘र्निधीय᳘ते᳟᳟॥
यैॗवैते᳘षाᳫं सप्तानाम् पु᳘रुषाणां श्रीर्यो र᳘सस्त᳘मेत᳘दूर्ध्व᳘ᳫं᳘ समु᳘दूहन्ति त᳘दस्यैतछि᳘रस्त᳘स्मिन्त्स᳘र्वे देवाः᳘ श्रिता अ᳘त्र हि स᳘र्वेभ्यो देवे᳘भ्यो जु᳘ह्वति त᳘स्माद्वेॗवैतछि᳘रः॥

मूलम् - विस्वरम्

अथ यश्चिते ऽग्निर्निधीयते- यैवैतेषां सप्तानां पुरुषाणां श्रीः, यो रसः- तमेतदूर्ध्वं समुदूहन्ति- तदस्यैतच्छिरः- तस्मिन्नेतस्मिन्त्सर्वे देवाः श्रिताः । अत्र हि सर्वेभ्यो देवेभ्यो जुह्वति । तस्माद्वेवैतच्छिरः ॥ ७ ॥

सायणः

एवं विराडात्मकस्य सप्तपुरुषसम्मितस्य चित्याग्नेः शिरो दर्शयितुमाह- अथ यश्चिते ऽग्निर्निधीयत इत्यादि । ‘चिते’ ऐष्टके, चिते ऽग्नौ । ‘अग्निः’ आहवनीयो निधीयते । ‘या वा एतेषां सप्तानां पुरुषाणां श्रीः’ ‘यः’ च ‘रसः’ स एवायमग्निरित्यध्याहारः । ‘एतद्’ अस्मिंश्चित्याग्नौ ‘तम्’ आहवनीयम् ‘ऊर्द्ध्वं समुदूहन्ति’ चित्याग्नेरण्डात्मकत्वात् तत्र निधीयमानस्याग्नेर्हिरण्यगर्भात्मत्वमित्यर्थः । एतच्चैतरेयिणः समामनन्ति- “एवं ह्येव बह्वृचा महदुक्थे मीमांसन्ते, एतमग्नावध्वर्यवः, एतं महाव्रते छन्दोगाः"- इति । आहवनीयस्य शिरोरूपत्वमिदानीमाह- तदस्यैतच्छिर इति । ‘अस्य’ चित्याग्नेः एष आहवनीयः ‘शिरः’ इत्यर्थः । अत्र शिरःशब्दस्य प्रवृत्तिमाह- तस्मिन्नेतस्मिन् सर्वे देवाः श्रिता इति । ‘तस्मिन्’ शिरोरूपे आहवनीये सर्वे देवाः श्रिताः । अत्र कथं देवानां श्रयणं तदाह- अत्र हीति । ‘अत्र’ अग्नौ ‘सर्वेभ्यो देवेभ्यः’ ‘जुह्वति’ ‘तस्मात्’ अग्निः श्रपणाश्रयत्वात् अस्य ‘शिरः’ इत्यर्थः ॥ ७ ॥

Eggeling
  1. And as to the fire which is deposited on the built (altar),–whatever excellence, whatever life-sap there was in those seven persons, that they now concentrate above, that is his (Prajāpati’s) head. On that same (head) all the gods are dependent (śrita), for it is there that offering is made to all the gods: therefore also it is the head (śiras).

०८

विश्वास-प्रस्तुतिः

सो ऽयं पु᳘रुषः प्रजा᳘पतिरकामयत॥ भू᳘यान्त्स्यां प्र᳘जायेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ श्रान्त᳘स्तेपानो ब्र᳘ह्मैव᳘ प्रथम᳘मसृजत त्रयो᳘मेव᳘ विद्या᳘ᳫँ᳘ सै᳘वास्मै प्रतिष्ठा ऽभवत्त᳘स्मादाहुर्ब्र᳘ह्मास्य स᳘र्व्वस्य प्रतिष्ठे᳘ति त᳘स्मादनू᳘च्य प्र᳘तितिष्ठति प्रतिष्ठा᳘ ह्येषा यद्ब्र᳘ह्म त᳘स्यां प्रतिष्ठा᳘यां प्र᳘तिष्ठितो ऽतप्यत᳘॥

मूलम् - श्रीधरादि

सो ऽयं पु᳘रुषः प्रजा᳘पतिरकामयत॥ भू᳘यान्त्स्यां प्र᳘जायेये᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ श्रान्त᳘स्तेपानो ब्र᳘ह्मैव᳘ प्रथम᳘मसृजत त्रयो᳘मेव᳘ विद्या᳘ᳫँ᳘ सै᳘वास्मै प्रतिष्ठा ऽभवत्त᳘स्मादाहुर्ब्र᳘ह्मास्य स᳘र्व्वस्य प्रतिष्ठे᳘ति त᳘स्मादनू᳘च्य प्र᳘तितिष्ठति प्रतिष्ठा᳘ ह्येषा यद्ब्र᳘ह्म त᳘स्यां प्रतिष्ठा᳘यां प्र᳘तिष्ठितो ऽतप्यत᳘॥

मूलम् - Weber

सो ऽयम् पु᳘रुषः प्रजा᳘पतिरकामयत भूयान्त्स्याम् प्रजायेये᳘ति सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ श्रान्त᳘स्तेपानो ब्र᳘ह्मैव᳘ प्रथम᳘मसृजत त्रयो᳘मेव᳘ विद्याॗᳫंॗ सैॗवास्मै प्रतिष्ठाभवत्त᳘स्मादाहुर्ब्र᳘ह्मास्य स᳘र्वस्य प्रतिष्ठे᳘ति त᳘स्मादनू᳘च्य प्र᳘तितिष्ठति प्रतिष्ठाॗ ह्येषा यद्ब्र᳘ह्म त᳘स्याम् प्रतिष्ठा᳘याम् प्र᳘तिष्ठितो ऽतप्यत॥

मूलम् - विस्वरम्

सो ऽयं पुरुषः प्रजापतिरकामयत- भूयान्त्स्याम्, प्रजायेयेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । स श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत- त्रयीमेव विद्याम् । सैवास्मै प्रतिष्ठा ऽभवत् । तस्मादाहुः- ‘ब्रह्मास्य सर्वस्य प्रतिष्ठा’ इति । तस्मादनूच्य प्रतितिष्ठति । प्रतिष्ठा ह्येषा- यद्ब्रह्म । तस्यां प्रतिष्ठायां प्रतिष्ठितो ऽतप्यत ॥ ८ ॥

सायणः

एवं विराडुत्पत्तिम्, तस्यैव चित्याग्निरूपत्वं चोक्त्वा तत्कर्त्तृकां चयनोपयुक्तां सृष्टिमाह- सो ऽयमिति । ‘सः पुरुषः प्रजापतिः’ एक एव सन् एवम् ‘अकामयत’ ‘अहमेव’ ‘भूयान्’ ‘स्याम्’ भवेयमिति । भवनम् उत्पत्तिः अग्निना न घटत इति तदाह- ‘प्रजायेय’ स्वयमेवोत्पद्यमानो भवेयम् ‘इति’ कामयित्वा ‘सः’ ‘अश्राम्यत्’ । “श्रमु तपसि खेदे च” (धा. पा. दि. प. ९८) । ‘स तपो ऽतप्यत’ कथमुत्पद्येयेति विचारितवानित्यर्थः । तपःपर्यालोचनेन ‘सः’ ‘ब्रह्मैव’ ‘प्रथमं’ सृष्टवान् । ‘तेपानः’ इति तपेर्लिटः कानचि रूपम् । ब्रह्मशब्दार्थमाह- त्रयीमिति । ‘सैव’ त्रयी विद्या ‘अस्मै’ प्रजापतेः ‘प्रतिष्ठा’ जाता, उत्तरसृष्टेरालम्बनं जातमित्यर्थः । प्रतिष्ठारूपत्वमेव विशदयति तस्मादाहुरिति । यतः ‘सर्वस्य’ त्रयी विद्या ‘प्रतिष्ठा’ ‘तस्मात्’ त्रयीम् ‘अनूच्य’ अधीत्य अनुष्ठाय च ‘प्रतितिष्ठति’ तस्यां प्रतिष्ठायामित्यादि स्पष्टम् ॥ ८ ॥

Eggeling
  1. Now this Person Prajāpati desired, ‘May I be more (than one), may I be reproduced!’ He toiled, he practised austerity. Being worn out with toil and austerity, he created first of all the Brahman (neut.), the triple science. It became to him a foundation: hence they say, ’the Brahman (Veda) is the foundation of everything here.’ Wherefore, having studied (the Veda) one rests on a foundation; for this, to wit, the Veda, is his foundation. Resting on that foundation, he (again) practised austerity.

०९

विश्वास-प्रस्तुतिः

सो᳘ ऽपो ऽसृजत॥
व्वाच᳘ ऽएव᳘ लोकाद्वा᳘गे᳘वास्य᳘ सा ऽसृज्यत᳘ सेदᳫँ᳘ स᳘र्व्वमाप्नोद्य᳘दिदं किं᳘ च यदा᳘प्नोत्त᳘स्मादा᳘पो यद᳘वृणोत्त᳘स्माद्वाः᳘॥

मूलम् - श्रीधरादि

सो᳘ ऽपो ऽसृजत॥
व्वाच᳘ ऽएव᳘ लोकाद्वा᳘गे᳘वास्य᳘ सा ऽसृज्यत᳘ सेदᳫँ᳘ स᳘र्व्वमाप्नोद्य᳘दिदं किं᳘ च यदा᳘प्नोत्त᳘स्मादा᳘पो यद᳘वृणोत्त᳘स्माद्वाः᳘॥

मूलम् - Weber

सोॗ ऽपो ऽसृजत॥
वाच᳘ एव᳘ लोकाद्वा᳘गेॗवास्यॗ सासृज्यतॗ सेदᳫं स᳘र्वमाप्नोद्य᳘दिदं किं᳘ च यदा᳘प्नोत्त᳘स्मादा᳘पो यद᳘वृणोत्त᳘स्माद्वाः॥

मूलम् - विस्वरम्

सो ऽपो ऽसृजत- वाच एव लोकात् । वागेवास्य सा ऽसृज्यत । सेदं सर्वमाप्नोत्- यदिदं किञ्च । यदाप्नोत्- तस्मादापः । यदवृणोत्- तस्माद्वाः ॥ ९ ॥

सायणः

सो ऽप इति । अथ ‘सः’ प्रजापतिः स्वयमेवोत्पद्य पुनः पर्यालोच्य ‘वाचो लोकात्’ उच्चारकात् मुखात् ‘अपः’ अबुपलक्षितानि पञ्च स्थूलभूतानि सृष्टवान् । विद्याध्ययनस्थानादुद्भूतत्वाद् वागेव सृष्टेत्यर्थः । अनेनापां वाक्छब्दव्यवहार्यत्वमुक्तमिति मन्तव्यम् । अपशब्दनिर्वचनमाह- सेदमिति । ‘सा’ वाक् सर्वव्यापकत्वात् ‘आपः’ उच्यन्ते, जगदावरणाच्चासां वाः- शब्दवाच्यत्वम् । वृणोतेरुत्पन्नो वाः शब्दः ॥ ९ ॥

Eggeling
  1. He created the waters out of Vāc (speech, that is) the world; for speech belonged to it 10: that was

created (set free). It pervaded everything here; and because it pervaded (āp) whatsoever there was here, therefore (it is called) water (āpaḥ); and because it covered (var), therefore also it (is called) water (vār).

१०

विश्वास-प्रस्तुतिः

सो ऽकामयत॥
(ता᳘) आ᳘भ्यो ऽद्भ्यो᳘ ऽधि प्र᳘जायेये᳘ति᳘ सो ऽन᳘या त्रय्या᳘ विद्य᳘या स᳘हापः प्रा᳘विशत्त᳘त ऽआण्डᳫँ᳭ स᳘मवर्तत त᳘द᳘भ्यमृशदस्त्वित्य᳘स्तु[[!!]] भू᳘यो ऽस्त्वि᳘त्येव त᳘दब्रवीत्त᳘तो ब्र᳘ह्मैव᳘ प्रथम᳘मसृज्यत त्र᳘य्येव᳘ व्विद्या त᳘स्मादाहुर्ब्र᳘ह्मास्य स᳘र्व्वस्य प्रथमजमित्य᳘पि हि त᳘स्मात्पु᳘रुषाद्ब्र᳘ह्मैव पू᳘र्व्वम᳘सृज्यत त᳘दस्य तन्मु᳘खमे᳘वासृज्यत त᳘स्मादनूचान᳘माहुरग्नि᳘कल्प ऽइ᳘ति मु᳘ख᳘ᳫँ᳘ ह्येत᳘दग्नेर्यद्ब्रह्म[[!!]]॥

मूलम् - श्रीधरादि

सो ऽकामयत॥
(ता᳘) आ᳘भ्यो ऽद्भ्यो᳘ ऽधि प्र᳘जायेये᳘ति᳘ सो ऽन᳘या त्रय्या᳘ विद्य᳘या स᳘हापः प्रा᳘विशत्त᳘त ऽआण्डᳫँ᳭ स᳘मवर्तत त᳘द᳘भ्यमृशदस्त्वित्य᳘स्तु[[!!]] भू᳘यो ऽस्त्वि᳘त्येव त᳘दब्रवीत्त᳘तो ब्र᳘ह्मैव᳘ प्रथम᳘मसृज्यत त्र᳘य्येव᳘ व्विद्या त᳘स्मादाहुर्ब्र᳘ह्मास्य स᳘र्व्वस्य प्रथमजमित्य᳘पि हि त᳘स्मात्पु᳘रुषाद्ब्र᳘ह्मैव पू᳘र्व्वम᳘सृज्यत त᳘दस्य तन्मु᳘खमे᳘वासृज्यत त᳘स्मादनूचान᳘माहुरग्नि᳘कल्प ऽइ᳘ति मु᳘ख᳘ᳫँ᳘ ह्येत᳘दग्नेर्यद्ब्रह्म[[!!]]॥

मूलम् - Weber

सो ऽकामयत॥
आॗभ्यो ऽद्भ्यो᳘ ऽधि प्र᳘जायेये᳘तिॗ सो ऽन᳘या त्रय्या᳘ विद्य᳘या सॗहापः प्रा᳘विशत्त᳘त आण्डᳫं स᳘मवर्तत त᳘दभ्य᳘मृशदस्त्वित्य᳘स्तु भू᳘यो ऽस्त्वि᳘त्येव त᳘दब्रवीत्त᳘तो ब्र᳘ह्मैव᳘ प्रथम᳘मसृज्यत त्रॗय्येव᳘ विद्या त᳘स्मादाहुर्ब्र᳘ह्मास्य स᳘र्वस्य प्रथमजमित्य᳘पि हि त᳘स्मात्पु᳘रुषाद्ब्र᳘ह्मैव पू᳘र्वम᳘सृज्यत त᳘दस्य तन्मु᳘खमेॗवासृज्यत त᳘स्मादनूचान᳘माहुरग्नि᳘कल्प इ᳘ति मुॗखᳫं ह्येत᳘दग्नेर्यद्ब्र᳘ह्म॥

मूलम् - विस्वरम्

सो ऽकामयत- ‘आभ्यो ऽद्भ्यो ऽधि प्रजायेय’ इति । सो ऽनया त्रय्या विद्यया सहापः प्राविशत् । तत आण्डं समवर्तत । तदभ्यमृशत्- ‘अस्तु’ इति । अस्तु- भूयो ऽस्त्वित्येव तदब्रवीत् । ततो ब्रह्मैव प्रथममसृज्यत- त्रय्येव विद्या । तस्मादाहु- ‘ब्रह्मास्य सर्वस्य प्रथमजम्’ इति । अपि हि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यत- तदस्य तन्मुखमेवासृज्यत । तस्मादनूचानमाहुः- ‘अग्निकल्पः’ इति । मुखं ह्येतदग्नेः- यद्ब्रह्म ॥ १० ॥

सायणः

सो ऽकामयतेति । ‘आभ्यो ऽद्भ्यो ऽधि प्रजायेयेति’ विचार्य ‘त्रय्या विद्यया सह’ सृष्टाः ‘अपः’ प्रविष्टवान् । ‘ततः आण्डं समवर्त्तत’ । ‘तत् अस्तु इति अभ्यमृशत्’ । अस्त्विति शब्दो वक्ष्यमाणसृष्टिनिर्देशार्थः । ‘अस्तु इति’ वक्ष्यमाणप्रकारेण भवतु, ‘भूयः’ बहुलञ्च ‘अस्त्विति’ त्रिवारं प्रजापतिरेतदण्डमभिलक्ष्याब्रवीत् । यस्मात् प्रथमं मुखाद् वागुच्चारिता, तस्माद् ‘ब्रह्म’ वेदः प्रथममुत्पन्नः । अतः प्रथमोत्पन्नं वेदं यो ऽधीते तदर्थमनुतिष्ठति च, तम् ‘अनूचानमग्निकल्प इति आहुः’ । ‘हि’ यस्मात् ‘अग्नेः’ चित्याग्निरूपस्य प्रजापतेः ‘ब्रह्म’ वेदो ‘मुखं’ भवति ॥ १० ॥

Eggeling
  1. He desired, ‘May I be reproduced from these waters!’ He entered the waters with that triple science. Thence an egg arose. He touched it. ‘Let it exist! let it exist and multiply!’ so he said. From it the Brahman (neut.) was first created, the triple science. Hence they say, ‘The Brahman (n.) is the first-born of this All.’ For even before that Person the Brahman was created 11: it was created as his mouth. Hence they say of him who has studied the Veda, that ‘he is like Agni;’ for it, the Brahman (Veda), is Agni’s mouth.

११

विश्वास-प्रस्तुतिः

(ह्मा᳘) अ᳘थ᳘ यो ग᳘र्भो ऽन्तरा᳘सी᳘त्॥
(त्सो) सो ऽग्रि᳘रसृज्यत स य᳘दस्य स᳘र्वस्या᳘ग्रम᳘सृज्यत त᳘स्मादग्नि᳘रग्नि᳘र्ह वै त᳘मग्निरित्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यद᳘श्रु सं᳘क्षरितमा᳘सीत्सो᳘ ऽश्रुरभवद᳘श्रुर्ह वै तम᳘श्व ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यद᳘रसदिव स रा᳘सभो ऽभवद᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सी᳘त्सो᳘ ऽजो ऽभवद᳘थ य᳘त्कपा᳘लमा᳘सीत्सा᳘ पृथि᳘व्यभव᳘त्[[!!]]॥

मूलम् - श्रीधरादि

(ह्मा᳘) अ᳘थ᳘ यो ग᳘र्भो ऽन्तरा᳘सी᳘त्॥
(त्सो) सो ऽग्रि᳘रसृज्यत स य᳘दस्य स᳘र्वस्या᳘ग्रम᳘सृज्यत त᳘स्मादग्नि᳘रग्नि᳘र्ह वै त᳘मग्निरित्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यद᳘श्रु सं᳘क्षरितमा᳘सीत्सो᳘ ऽश्रुरभवद᳘श्रुर्ह वै तम᳘श्व ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यद᳘रसदिव स रा᳘सभो ऽभवद᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त ऽआ᳘सी᳘त्सो᳘ ऽजो ऽभवद᳘थ य᳘त्कपा᳘लमा᳘सीत्सा᳘ पृथि᳘व्यभव᳘त्[[!!]]॥

मूलम् - Weber

अ᳘थ यो ग᳘र्भो ऽन्तरासीत्॥
सो ऽग्रि᳘रसृज्यत 12 स य᳘दस्य स᳘र्वस्या᳘ग्रम᳘सृज्यत त᳘स्मादग्रि᳘रग्रि᳘र्ह वै त᳘मग्निरित्या᳘चछते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा अ᳘थ यद᳘श्रु सं᳘क्षरितमा᳘सीत्सो᳘ ऽश्रुरभवद᳘श्रुर्ह वै तम᳘श्व इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा अ᳘थ यद᳘रसदिव स रा᳘सभो ऽभवद᳘थ यः᳘ कपा᳘ले र᳘सो लिप्त आ᳘सीॗत्सोॗ ऽजो ऽभवद᳘थ य᳘त्कपा᳘लमा᳘सीत्सा᳘ पृथिव्य᳘भवत्॥

मूलम् - विस्वरम्

अथ यो गर्भो ऽन्तरासीत्- सो ऽग्निरसृज्यत । स यदस्य सर्वस्याग्रमसृज्यत- तस्मादग्निः । अग्निर्ह वै तमग्निरित्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । अथ यदश्रु संक्षरितमासीत्- सो ऽश्रुरभवत् । अश्रुर्ह वै तमश्व इत्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । अथ यदरसदिव- स रासभो ऽभवत् । अथ यः कपाले रसो लिप्त आसीत्- सो ऽजो ऽभवत् । अथ यत्कपालमासीत्- सा पृथिव्यभवत् ॥ ११ ॥

सायणः

अथ यो गर्भ इति । ततः ‘यः’ जातगर्भः, ‘सः’ ‘अग्निः असृज्यत’ तस्मात् ‘सर्वस्य’ स्थूलप्रपञ्चस्य ‘अग्रम्’ आदौ सृष्टत्वात् अग्निरित्युच्यते । ‘तम्’ अग्निम् इदानीन्तना अग्निनाम्ना व्यवहारं कुर्वन्ति । तत्र गर्भे ‘यत्’ यदा ‘अश्रु संक्षरितं’ गर्भनिर्गमनकाले हि जलं स्रवति, ‘सः अश्रुः’ ‘तम् अश्वः इति आचक्षते’ यदा गर्भः ‘अरसत्’ ध्वनिमकरोत्, तदा ‘रासभो ऽभवत्’ । रसतेर्ध्वन्यर्थादुत्पन्नो रासभशब्दः । ‘कपाले’ अण्डकपाले ‘विलिप्तः’ संसृष्टो ‘रसः’, ‘सः’ ‘अजो’ नाम पशुः ‘अभवत्’ भिन्नकपालमेव ‘पृथिवी’ आसीत् । एवमण्डादुत्पन्नानामेषा ऽग्न्यश्वरासभाजानां पशूनां सृष्टिरुक्ता ॥ ११ ॥

Eggeling
  1. Now the embryo which was inside was created as the foremost (agri): inasmuch as it was created foremost (agram) of this All, therefore (it is called) Agri: Agri, indeed, is he whom they mystically call 13 Agni; for the gods love the mystic. And the tear (aśru, n.) which had formed itself 14 became the ‘aśru’ (m.): ‘aśru’ indeed is what they mystically call ‘aśva’ (horse), for the gods love the

mystic. And that which, as it were, cried 15 (ras), became the ass (rāsabha). And the juice which was adhering to the shell (of the egg) became the he-goat (aja 16). And that which was the shell became the earth.

१२

विश्वास-प्रस्तुतिः

(त्सो) सो ऽकामयत॥
(ता᳘) आ᳘भ्यो ऽद्भ्यो᳘ ऽधीमां प्र᳘जनयेयमि᳘ति ता᳘ᳫँ᳘ संक्लि᳘श्याप्सु प्रा᳘विध्यत्त᳘स्यै यः प᳘राङ्र᳘सो ऽत्य᳘क्षरत्स᳘ कू᳘र्मो ऽभवद᳘थ य᳘दूर्ध्व᳘मुदौ᳘क्ष्यतेदं तद्य᳘दिद᳘मूर्ध्व᳘मद्भ्यो᳘ ऽधि जा᳘यते᳘ सेयᳫँ᳭ स᳘र्व्वाप᳘ ऽए᳘वानु᳘व्यैत्त᳘दिदमे᳘कमेव᳘ रूपᳫँ᳭ स᳘मदृश्यता᳘प ऽएव᳘॥

मूलम् - श्रीधरादि

(त्सो) सो ऽकामयत॥
(ता᳘) आ᳘भ्यो ऽद्भ्यो᳘ ऽधीमां प्र᳘जनयेयमि᳘ति ता᳘ᳫँ᳘ संक्लि᳘श्याप्सु प्रा᳘विध्यत्त᳘स्यै यः प᳘राङ्र᳘सो ऽत्य᳘क्षरत्स᳘ कू᳘र्मो ऽभवद᳘थ य᳘दूर्ध्व᳘मुदौ᳘क्ष्यतेदं तद्य᳘दिद᳘मूर्ध्व᳘मद्भ्यो᳘ ऽधि जा᳘यते᳘ सेयᳫँ᳭ स᳘र्व्वाप᳘ ऽए᳘वानु᳘व्यैत्त᳘दिदमे᳘कमेव᳘ रूपᳫँ᳭ स᳘मदृश्यता᳘प ऽएव᳘॥

मूलम् - Weber

सो ऽकामयत॥
आभ्यो ऽद्यो᳘ ऽधीमाम् प्र᳘जनयेयमि᳘ति ता᳘ᳫं᳘ संक्ŀ̥श्याप्सु प्रा᳘विध्यत्त᳘स्यै यः प᳘राङ् र᳘सो ऽत्य᳘क्षरत्स᳘ कूॗर्मो ऽभवद᳘थ य᳘दूर्ध्व᳘मुदौ᳘क्ष्यतेदं तद्य᳘दिद᳘मूर्ध्व᳘मद्भ्यो᳘ ऽधि जा᳘यतेॗ सेयᳫं स᳘र्वाप᳘ एॗवानुॗव्यैत्त᳘दिदमे᳘कमेव᳘ रूपᳫं स᳘मदृश्यता᳘प एव॥

मूलम् - विस्वरम्

सो ऽकामयत- ‘आभ्यो ऽद्भ्यो ऽधीमां प्रजनयेयम्’ इति । तां संक्लिश्याप्सु प्राविध्यत् । तस्यै यः पराङ् रसो ऽत्यक्षरत्- स कूर्मो ऽभवत् । अथ यदूर्ध्वमुदौक्ष्यत- इदं तद्- यदिदमूर्ध्वमद्भ्यो ऽधि जायते । सेयं सर्वाप एवानुव्यैत् । तदिदमेकमेव रूपं समदृश्यत आप एव ॥ १२ ॥

सायणः

अथ कपालं पृथिव्यभवदिति यदुक्तम्, तस्माद् बहुधोत्पत्तिं वक्तुमाह- सो ऽकामयतेति । पुनः प्रजापतिः ‘अद्भ्यः अधि’ अप्सु उदकेषु ‘इमां’ भूमिं ‘प्रजनयेयम्’ विशेषेणोत्पादयेयम् ‘इति’ विचार्य ‘तां’ पृथिवीं ‘सङ्क्लिश्य’ चूर्णीकृत्य ‘अप्सु’ ‘प्राविध्यत्’ आलोडयामास ‘तस्यै’ पृथिव्याः ‘यः’ ‘रसः’ ‘पराङ् अत्यक्षरत्,’ ‘स कूर्मो ऽभवत्’ यत् ऊर्द्ध्वं समूहितो रसः ‘तत्’ ‘इदम्’ अब्रूपम् अभवत् । यस्माद् भूमिरुदकेषु प्रविद्धा, तस्मात् ‘एकं रूपमेव’ भेदो न दृश्यते, आप एव केवलं दृश्यन्ते ॥ १२ ॥

Eggeling
  1. He desired, ‘May I generate, this (earth) from these waters!’ He compressed it 17 and threw it into the water. The juice which flowed from it became a tortoise; and that which was spirted upwards (became) what is produced above here over the wafers. This whole (earth) dissolved itself all over the water: all this (universe) appeared as one form only, namely, water.

१३

विश्वास-प्रस्तुतिः

सो ऽकामयत॥
भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ श्रान्त᳘स्तेपानः फे᳘नमसृजत᳘ सो ऽवेदन्यद्वा᳘ ऽएत᳘द्रूपं भू᳘यो वै᳘ भवति श्रा᳘म्याण्येवे᳘ति स᳘ श्रान्त᳘स्तेपानो मृ᳘दᳫँ᳭ शु᳘ष्कापमूषसिकतᳫँ᳭ श᳘र्कराम᳘श्मानम᳘यो हि᳘रण्यमोषधिवनस्प᳘त्यसृजत[[!!]] ते᳘नेमां᳘ पृथिवीं प्रा᳘च्छादयत्॥

मूलम् - श्रीधरादि

सो ऽकामयत॥
भू᳘य ऽएव᳘ स्यात्प्र᳘जायेते᳘ति᳘ सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ श्रान्त᳘स्तेपानः फे᳘नमसृजत᳘ सो ऽवेदन्यद्वा᳘ ऽएत᳘द्रूपं भू᳘यो वै᳘ भवति श्रा᳘म्याण्येवे᳘ति स᳘ श्रान्त᳘स्तेपानो मृ᳘दᳫँ᳭ शु᳘ष्कापमूषसिकतᳫँ᳭ श᳘र्कराम᳘श्मानम᳘यो हि᳘रण्यमोषधिवनस्प᳘त्यसृजत[[!!]] ते᳘नेमां᳘ पृथिवीं प्रा᳘च्छादयत्॥

मूलम् - Weber

सो ऽकामयत॥
भू᳘य एव᳘ स्यात्प्र᳘जायेते᳘तिॗ सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ श्रान्त᳘स्तेपानः फे᳘नमसृजतॗ सो ऽवेदन्यद्वा᳘ एत᳘द्रूपम् भू᳘यो वै᳘ भवति श्रा᳘म्याण्येवे᳘ति स᳘ श्रान्त᳘स्तेपानो मृ᳘दं शु᳘ष्कापमूषसिकतं श᳘र्कराम᳘श्मानम᳘यो हि᳘रण्यमोषधिवनस्पत्य᳘सृजत ते᳘नेमा᳘म् पृथिवीम् प्रा᳘छादयत्॥

मूलम् - विस्वरम्

सो ऽकामयत- भूय एव स्यात्, प्रजायेतेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । स श्रान्तस्तेपानः फेनमसृजत । सो ऽवेद्- अन्यद्वा ऽएतद्रूपम् । भूयो वै भवति । श्राम्याण्येवेति । स श्रान्तस्तेपानो मृदम्, शुष्कापमूषसिकतम्, शर्कराम्, अश्मानम्, अयः, हिरण्यम्, ओषधिवनस्पति असृजत । तेनेमां पृथिवीं प्राच्छादयत् ॥ १३ ॥

सायणः

सो ऽकामयत भूय इति । ततः प्रजापतिरियं पृथिवी ‘भूयः स्यात्’ बहुधोत्पद्येतेति विचार्य ताभ्यो ऽद्भ्यः ‘फेनं’ सृष्टवान् । पुनरपि विदित्वा शुष्कार्द्रभावेन द्विविधां मृत्तिकां, ‘सिकतं’ वालुकाः, ‘शर्कराः’ अल्पपाषाणान्, अश्मानं स्थूलपाषाणम्, ‘अयः’ ‘हिरण्यं’ सुवर्णम्, ओषधयश्च वनस्पतयश्च एकवद्भावान्नपुंसकम्- ओषधिवनस्पतीति । एतैः शुष्कार्द्रमृदादिभिर्नवभिः ‘इमां’ भूमिमाच्छादितवान् ॥ १३ ॥

Eggeling
  1. He desired, ‘May it become more than one, may it reproduce itself!’ He toiled and practised austerity; and worn out with toil and austerity, he created foam. He was aware that ’this indeed looks different, it is becoming more (than one): I must toil, indeed!’ Worn out with toil and austerity, he created clay, mud, saline soil and sand, gravel (pebble), rock, ore, gold, plants and trees: therewith he clothed this earth.

१४

विश्वास-प्रस्तुतिः

(त्ता) ता वा᳘ ऽएता न᳘व सृ᳘ष्टयः॥
(ऽ) इय᳘मसृज्यत त᳘स्मादाहुस्त्रिवृ᳘दग्निरि᳘तीय᳘ᳫँ᳘ ह्यग्नि᳘रस्यै[[!!]] हि स᳘र्व्वो ऽग्नि᳘श्चीयते[[!!]]॥

मूलम् - श्रीधरादि

(त्ता) ता वा᳘ ऽएता न᳘व सृ᳘ष्टयः॥
(ऽ) इय᳘मसृज्यत त᳘स्मादाहुस्त्रिवृ᳘दग्निरि᳘तीय᳘ᳫँ᳘ ह्यग्नि᳘रस्यै[[!!]] हि स᳘र्व्वो ऽग्नि᳘श्चीयते[[!!]]॥

मूलम् - Weber

ता वा᳘ एता न᳘व सृ᳘ष्टयः॥
इय᳘मसृज्यत त᳘स्मादाहुस्त्रिवृ᳘दग्निरि᳘तीयᳫं ह्य᳘ग्नि᳘रस्यै हि स᳘र्वो ऽग्नि᳘श्चीय᳘ते॥

मूलम् - विस्वरम्

ता वा ऽएता नव सृष्टयः । इयमसृज्यत । तस्मादाहुः- त्रिवृदग्निरिति । इयं ह्यग्निः । अस्यै हि सर्वो ऽग्निश्चीयते ॥ १४ ॥

सायणः

ता वा एता इति । ‘एता एव’ शुष्कमृदादिभिर्नव सृष्टय एव ‘इयम्’ भूमिः । तस्मात् एतां ‘त्रिवृदग्निः’- ‘इति’ ‘आहुः’ । स्तोत्रियात्मकस्य स्तोत्रस्य त्रिवृदिति 18 सञ्ज्ञा । अत्र तु संख्यामात्रवाचि । अस्यां भूमौ अग्नेर्वासात् आधाराधेययोरभेदोपचारेण ‘अस्यै’ अस्याः ‘अग्निः’ ‘हयं’ नवसृष्ट्यात्मिका प्रतिष्ठा भूमिरित्युच्यते ॥ १४ ॥

Eggeling
  1. This (earth), then, was created as (consisting of) these same nine creations. Hence they say, ‘Threefold (three times three) is Agni;’ for Agni is this (earth), since thereof the whole Agni (fire-altar) is constructed.

१५

विश्वास-प्रस्तुतिः

(ते᳘ ऽभू) अ᳘भूद्वा᳘ ऽइयं᳘ प्रतिष्ठे᳘ति॥
तद्भू᳘मिरभवत्ता᳘मप्रथयत्सा᳘ पृथिव्य᳘भव᳘त्सेयᳫँ᳭ स᳘र्व्वा कृत्स्ना म᳘न्यमाना ऽगायद्यद᳘गायत्त᳘स्मादियं᳘ गायत्र्य᳘थो ऽआहुरग्नि᳘रे᳘वास्यै पृष्ठे स᳘र्व्वः कृत्स्नो म᳘न्यमानो ऽगायद्यद᳘गायत्त᳘स्मादग्नि᳘र्गायत्र ऽइ᳘ति त᳘स्मादु हैतद्यः स᳘र्व्वः कृत्स्नो म᳘न्यते गा᳘यति वैव᳘ गीते᳘ वा रमते᳘॥

मूलम् - श्रीधरादि

(ते᳘ ऽभू) अ᳘भूद्वा᳘ ऽइयं᳘ प्रतिष्ठे᳘ति॥
तद्भू᳘मिरभवत्ता᳘मप्रथयत्सा᳘ पृथिव्य᳘भव᳘त्सेयᳫँ᳭ स᳘र्व्वा कृत्स्ना म᳘न्यमाना ऽगायद्यद᳘गायत्त᳘स्मादियं᳘ गायत्र्य᳘थो ऽआहुरग्नि᳘रे᳘वास्यै पृष्ठे स᳘र्व्वः कृत्स्नो म᳘न्यमानो ऽगायद्यद᳘गायत्त᳘स्मादग्नि᳘र्गायत्र ऽइ᳘ति त᳘स्मादु हैतद्यः स᳘र्व्वः कृत्स्नो म᳘न्यते गा᳘यति वैव᳘ गीते᳘ वा रमते᳘॥

मूलम् - Weber

अ᳘भूद्वा᳘ इय᳘म् प्रतिष्ठे᳘ति॥
तद्भू᳘मिरभवत्ता᳘मप्रथयत्सा᳘ पृथिव्य᳘भवॗत्सेयᳫं स᳘र्वा कृत्स्ना म᳘न्यमानागायद्यद᳘गायत्त᳘स्मादियं᳘ गायत्र्य᳘थो आहुरग्नि᳘रेॗवास्यै पृष्ठे स᳘र्वः कृत्स्नो म᳘न्यमानो ऽगायद्यद᳘गायत्त᳘स्मादग्नि᳘र्गायत्र इ᳘ति त᳘स्मादु हैतद्यः स᳘र्वः कृत्स्नो म᳘न्यते गा᳘यति वैव᳘ गीते᳘ वा रमते॥

मूलम् - विस्वरम्

अभूद्वा ऽइयं प्रतिष्ठेति- तद्भूमिरभवत् । तामप्रथयत्- सा पृथिव्यभवत् । सेयं सर्वा कृत्स्ना मन्यमाना ऽगायत् । यदगायत्- तस्मादियं गायत्री । अथो ऽआहुः- अग्निरेवास्यै पृष्ठे सर्वः कृत्स्नो मन्यमानो ऽगायत् । यदगायत्- तस्मादग्निर्गायत्र इति । तस्मादु हैतद्यः सर्वः कृत्स्नो मन्यते- गायति वैव, गीते वा रमते ॥ १५ ॥

सायणः

अभूद्वा इति । भवतेर्हि भूमिशब्दनिष्पत्तिः । तस्याः प्रथमाद् बहुधा विस्तरणात् पृथिवीत्वम् 19 । “प्रथेः षिवन्सम्प्रसारणं च” । (उ. पा. १ । ४८ । सू.) इति । प्रथेः षिवनि सम्प्रसारणं च पृथिवीशब्दनिष्पत्तिः । ‘सेयम्’ भूमिः ‘कृत्स्ना’ स्वयं सम्पूर्णा ऽजनिषीति मन्यमाना ‘अगायत्’ गानमकरोत्, अतो गानादेव भूमेर्गायत्रीत्वम् । तत्र अस्यां भूमौ अग्निरपि स्वयं सम्पूर्णः स्थित इति मन्यमानो ऽगायत् अतस्तस्याप्यग्नेः गायत्र इति नाम सम्पन्नम् । “के गै शब्दे” (धा. पा. भ्वा. प. ९४१, ९४२) । अस्माद् गायत्रशब्दनिष्पत्तिः । अतः ‘एतद्’ इदानीं लोके ‘यः’ कश्चन पुरुषो धनपश्वादिभिः ‘कृत्स्नः’ अहमिति ‘मन्यते’ सः परकृते ‘गीते’ ‘रमते वा’ ‘गायति वा’ स्वयं गायति चेत्यर्थः । तस्मात् सम्पूर्णत्वेनाभिमन्यमानाया भूमेरग्नेश्च गायत्रत्वं सम्पन्नमिति तात्पर्यम् ॥ १५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये षष्ठकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (६-१-१) ॥

Eggeling
  1. ‘This (earth) has indeed become (bhū) a foundation!’ (he thought): hence it became the earth (bhūmi). He spread it out (prath), and it

became the broad one (or earth, pr̥thivī). And she (the earth), thinking herself quite perfect 20, sang; and inasmuch as she sang (gā), therefore she is Gāyatrī. But they also say, ‘It was Agni, indeed, on her (the earth’s) back, who thinking himself quite perfect, sang; and inasmuch as he sang (gā), therefore Agni is Gāyatra.’ And hence whosoever thinks himself quite perfect, either sings or delights in song 21.


  1. अस्य षष्ठकाण्डस्य श्रीहरिस्वामिनो भाष्यं बिकानेरदरबारलाइब्रेरीतः सम्प्राप्तम् । परन्तु तदतीवाशुद्धमिति कृत्वा नात्र मुद्राप्यते । यदि केषाञ्चिन्महाभागानां सविधे शुद्धं भाष्यमास्ते तैः कृपया दीयते च तदा ऽन्ते परिशिष्टरूपेण मुद्रापयित्वा संयोजयामो ऽथवा ऽवसरान्तरे स्वतन्त्रतया मुद्रापयाम इति सादरं निवेदयामः ॥ कल्याणस्थलक्ष्मीवेंकटेशप्रेसाध्यक्षाः । ↩︎

  2. इहैवोपरिष्टात् पुनरिदमाम्नात्यते- “नैवेह किञ्चनाग्र आसीत्, मृत्युनैवेदमावृतमासीद्” (श. ब्रा. १० । ६ । ५) । आत्मैवेदमग्र ऽआसीत्" (बृ. उ. १४ । १ । २ । १) इत्यादि । छान्दोग्यब्राह्मणे त्वेवं श्रुतम्- “सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम् । तद्धैक आहुः । असदेवेदमग्र आसीदेकमेवाद्वितीयम् । तस्मादसतः सज्जायते ॥ १ ॥ कुतस्तु खलु सोम्यैवँ स्यादिति होवाच, कथमसतः सज्जायेतेति । सत्येव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥ तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजो ऽसृजत”- इत्यादि ८ प्र० २ ख० १-४ । एवमार्च्चाभ्याम्नाये चैवमाद्यर्चः पर्यालोच्याः- “नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुहकस्य शर्म्मन्नम्भः किमासीद् गहनं गभीरम् ॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह आसीत् प्रकेतः । आनीद ततं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥ इत्यादयः ऋ० सं० १०. १२९. १-७ ॥ ↩︎

  3. 143:1 Or, perhaps, In the beginning this (universe) was indeed nonexistent. Thus J. Muir, Or. S. T. IV, p. 22, of which translation of this cosmogonic myth considerable use has been made here. It need scarcely be remarked that ‘idam’ is constantly used in an adverbial sense in the Brāhmaṇa. ↩︎

  4. 143:2 In the original, ’the non-existent’ is the subject of the clause, not the predicate as would appear from the translation. A similar transposition seems often advisable in English, for the sake of emphasis, and on other grounds. Muir’s rendering, ‘The Rishis say that in the beginning there was non-existence,’ is a mistake. ↩︎

  5. 143:3 The nominative here is striking, and vivid, cf. paragraph 11 below. In corresponding passages of the preceding books, the accusative would stand here; ej. II, 1, 2, 4, saptarshīn u ha sma vai purarkshā ity ācakshate; similarly III, 1, 2, 3. ↩︎

  6. 144:1 That is, living beings or souls, individualities, which, in their combined form, are here imagined to take the shape of a bird. Muir’s rendering, ‘males,’ can scarcely commend itself. ↩︎

  7. 144:2 Literally, ’those two.’ ↩︎

  8. ‘स्फुर, स्फुरणे’ तु. प. १०९ धातोर्णिचि रूपम् । ↩︎

  9. 144:3 The fire-altar is usually constructed so as to measure seven man’s lengths square; the particular length being that of the Sacrificer. This, however, is the smallest size allowed for an altar, there being altogether ninety-five different sizes specified, varying between seven and 101 man’s lengths square. ↩︎

  10. 145:1 Or, perhaps, to him (Prajāpati). Sāyaṇa merely says,–vāg evāsya sāsr̥jyata, vāk sahakāri rasanam abhavat, tad asr̥jyatety arthaḥ; sā vāk sahakāri rasanam prājāpatya(ṁ) sr̥shṭaṁ sad idaṁ sarvam āpnot.–On the part which Vāc (the personification of the Brahman or Veda) takes by the side of Prajāpati in the creation of the universe, and the parallelism between Vāc and λόγοσ, see Weber, Ind. Stud. IX, p. 473 seq.; Muir, Or. S. T. V, p. 391. Thus Pañc. Br. XX, 14, 2, ‘Prajāpati alone existed here. He had Vāc indeed as his own, as a second to him.’ ↩︎

  11. 146:1 Muir takes this differently,–Further, (as) the Veda was first created from that Male, therefore it was created his mouth. This translation, however, takes no account of the particle ‘hi.’ ↩︎

  12. सोऽग्नि᳘रसृज्यत ABC first hand. ↩︎

  13. 146:2 For the construction, see above, paragraph 2, with note 3. ↩︎

  14. 146:3 Literally, which had flowed together. It is explained as the embryonic liquid in the amnion, or innermost membrane enveloping the foetus. ↩︎

  15. 147:1 ? Or, that part (of the egg) which made a noise (in cracking). ↩︎

  16. 147:2 The word ‘aja’ is apparently fancifully taken here in the sense of ‘unborn (a-ja).’ ↩︎

  17. 147:3 That is, the earth when as yet in the form of the egg-shell. ↩︎

  18. “तिसृभ्यो हि करोति स प्रथमया तिसृभ्यो हि करोति स मध्यमया तिसृभ्यो हि करोति स उत्तमयोद्यतौ त्रिवृतौ विष्टुतिः” (तांड्य ब्रा. २ । १) अस्यायमर्थः- उपास्मै गायतेत्यादीमानि तृचात्मकानि त्रीणि सूक्तानि सन्ति तेषु तिसृभिर्ऋग्भिर्गायेत् । काभिस्तिसृभिः ? प्रथमया त्रिष्वपि सूक्तेषु या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति । सो ऽयं प्रथमपर्यायः । द्वितीये पर्याये सूक्तत्रयगता योत्तमा तथा गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसम्बन्धिनी विशिष्टा स्तुतिः संपद्यते । सेयं स्तुतिः त्रिवृत्स्तोमस्य स्वरूपम् । इति वा. सं. १० । १० इत्यत्र महीधरः । ↩︎

  19. “प्रथनात्पृथिवीत्याहुः” इति निरु. १ । ४ । २। ↩︎

  20. 148:1 Abhimāninīstrīvigrahā yasmād agāyad tasmād iyaṁ Gāyatrī, Sāy.–‘Because, like a haughty woman, she (the earth) sang, therefore she is Gāyatrī.’ ↩︎

  21. 148:2 On this illustration, which might either be taken as applying to men in easy circumstances, not troubled with cares;–or, perhaps, to a new-born child which cries out lustily, and likes to be sung to,–Sāyaṇa only remarks,–tasmād u haitad iti svabhāvānuvādaḥ, kāryadharmeṇa kāraṇadharmānupādanāya. ↩︎