०१
विश्वास-प्रस्तुतिः
व्व᳘रुणाद्ध वा᳘ ऽअभिषिषिचानाद्भर्गो᳘ ऽपचक्राम॥
व्वी᳘र्यं[[!!]] वै भ᳘र्ग ऽएष व्वि᳘ष्णुर्यज्ञः᳘[[!!]] सो ऽस्माद᳘पचक्राम श᳘श्वद्य᳘ ऽए᳘षो ऽपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति[[!!]] ये᳘नैनमेत᳘दभिषिञ्च᳘ति᳘ सो ऽस्य भ᳘र्गं नि᳘र्जघान॥
मूलम् - श्रीधरादि
व्व᳘रुणाद्ध वा᳘ ऽअभिषिषिचानाद्भर्गो᳘ ऽपचक्राम॥
व्वी᳘र्यं[[!!]] वै भ᳘र्ग ऽएष व्वि᳘ष्णुर्यज्ञः᳘[[!!]] सो ऽस्माद᳘पचक्राम श᳘श्वद्य᳘ ऽए᳘षो ऽपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति[[!!]] ये᳘नैनमेत᳘दभिषिञ्च᳘ति᳘ सो ऽस्य भ᳘र्गं नि᳘र्जघान॥
मूलम् - Weber
व᳘रुणाद्ध वा᳘ अभिषिषिचानाद्भर्गो᳘ ऽपचक्राम॥
वीर्यं᳘ वै भ᳘र्ग एष वि᳘ष्णुर्यॗज्ञः सो ऽस्माद᳘पचक्राम श᳘श्वद्य᳘ एॗषो ऽपां र᳘सः स᳘म्भृतो भ᳘वति 1 ये᳘नैनमेत᳘दभिषिञ्च᳘तिॗ सो ऽस्य भ᳘र्गं 2 नि᳘र्जघान॥
मूलम् - विस्वरम्
वरुणाद्ध वा ऽअभिषिषिचानाद्भर्गो ऽपचक्राम । वीर्यं वै भर्गः । एष विष्णुर्यज्ञः । सो ऽस्मादपचक्राम । शश्वद्- य एषो ऽपां रसः सम्भृतो भवति- येनैनमेतदभिषिञ्चति । सो ऽस्य भर्गं निर्जघान ॥ १ ॥
सायणः
अथ पञ्चमे ब्राह्मणे संसृपां हवींषि दशसङ्ख्याकानि दशपेयाख्यस्य सोमयागस्य दीक्षाः, उपसद्यागः, ऋत्विग्विशेषेण दक्षिणाश्च विधीयन्ते; तत्र हवींषि विधातुं प्रस्तौति- वरुणाद्ध वा इति । पूर्वमभिषिच्यमानाद् ‘वरुणात्’ सकाशात्, ‘भर्गः’ यज्ञरूपं वीर्यम् ‘अपचक्राम’ अपसृतम् । तदेव प्रतिपादयति- शश्वद्य एष इति ॥ १ ॥
Eggeling
- Now when Varuṇa was consecrated, his lustre departed from him,–lustre means vigour: that Vishṇu, the Sacrifice, it was he that departed from him,–probably that collected essence of the waters wherewith he is anointed on that occasion, drove out his lustre.
०२
विश्वास-प्रस्तुतिः
त᳘मेता᳘भिर्देव᳘ताभिरनुस᳘मसर्पत्॥
(त्स) सवित्रा᳘ प्रसवित्रा स᳘रस्वत्या व्वाचा त्व᳘ष्ट्रा रूपैः᳘ पूष्णा᳘ पशु᳘भिरिन्द्रेणास्मे बृ᳘हस्प᳘तिना ब्र᳘ह्मणा व्व᳘रुणेनौ᳘जसा ऽग्नि᳘ना ते᳘जसा सो᳘मेन रा᳘ज्ञा व्वि᳘ष्णुनैव᳘ दशम्या᳘ देव᳘तया᳘ ऽन्वविन्दत्॥
मूलम् - श्रीधरादि
त᳘मेता᳘भिर्देव᳘ताभिरनुस᳘मसर्पत्॥
(त्स) सवित्रा᳘ प्रसवित्रा स᳘रस्वत्या व्वाचा त्व᳘ष्ट्रा रूपैः᳘ पूष्णा᳘ पशु᳘भिरिन्द्रेणास्मे बृ᳘हस्प᳘तिना ब्र᳘ह्मणा व्व᳘रुणेनौ᳘जसा ऽग्नि᳘ना ते᳘जसा सो᳘मेन रा᳘ज्ञा व्वि᳘ष्णुनैव᳘ दशम्या᳘ देव᳘तया᳘ ऽन्वविन्दत्॥
मूलम् - Weber
त᳘मेता᳘भिर्देव᳘ताभिरनुस᳘मसर्पत्॥
सवित्रा᳘ प्रसवित्रा स᳘रस्वत्या वाचा त्व᳘ष्ट्रा रूपैः᳘ पूष्णः᳘ पशु᳘भिरिन्द्रेणास्मे बृ᳘हस्प᳘तिना ब्र᳘ह्मणा वरुणेनौ᳘जसाग्नि᳘ना ते᳘जसा सो᳘मेन रा᳘ज्ञा वि᳘ष्णुनैव᳘ दशम्या᳘ देव᳘तया᳘न्वविन्दत्॥
मूलम् - विस्वरम्
तमेताभिर्देवताभिरनुसमसर्पत् । “सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसा ऽग्निना तेजसा सोमेन राज्ञा विष्णुनैव दशम्या देवतया”- (वा० सं० १० । ३०) अन्वविन्दत् ॥ २ ॥
सायणः
तमेताभिरित्यादि । ‘तम्’ अपसृतम् भर्गम् ‘एताभिः’ वक्ष्यमाणाभिः सावित्रादिभिः ‘अनुसमसर्पत्’ वरुणो ऽनुक्रमेण प्राप्तवान् । तादृशदेवताः क्रमेण दर्शयति- सवित्रेति । ‘प्रसवित्रा’ प्रसवकारिणा ‘सवित्रा’ देवतया, ‘अन्वविन्दत्’- इति सर्वत्रानुषङ्गः । ‘वाचा’ वाग्रूपया ‘सरस्वत्या’, ‘रूपैः’ उपलक्षितेन ‘त्वष्ट्रा’, ‘पशुभिः’ उपलक्षितेन ‘पूष्णा’, ‘अस्मे’ अस्मै अपसृताय वीर्याय तदधीनकरणार्थम् ‘इन्द्रेण’; यद्वा, विभक्तिव्यत्ययः, अनेन वीर्येण वीर्यवता इन्द्रेण, ‘ब्रह्मणा’ ब्राह्मणजात्यभिमानिना ‘बृहस्पतिना’ ‘ओजसा वरुणेन’ स्वीयदेवतारूपेण, अतीतकल्पगतेन वरुणेन वा, ‘तेजसा अग्निना’ तेजोरूपेणाग्निना, ‘राज्ञा सोमेन’ ‘दशम्या’ दशसङ्ख्यापूरयित्र्या ‘विष्णुना’ ‘एव’ ‘देवतया’ ‘अन्वविन्दत्’ अपक्रान्तं वीर्यमिति ॥ २ ॥
Eggeling
- He stole after it with those deities 3,–with Savitr̥, the impeller (prasavitr̥); with Sarasvatī, speech; with Tvashṭr̥, the forms of being; with Pūshan, cattle; with Indra, on the part of him 4 (the Sacrificer); with Br̥haspati, holiness; with Varuṇa, might; with Agni, fiery spirit; with Soma, the King;
–but only through Vishṇu 5, the tenth deity, he found it.
०३
विश्वास-प्रस्तुतिः
(त्त) तद्य᳘देनमेता᳘भिर्देव᳘ताभिरनुसम᳘सर्पत्॥
(त्त᳘) त᳘स्मात्सᳫँ᳭सृ᳘पो नामा᳘थ य᳘द्दशमे᳘ ऽहन्प्र᳘सुतो भ᳘वति त᳘स्माद्दशपेयो᳘ ऽथो यद्द᳘शदशै᳘कैकं चमस᳘मनुप्र᳘सृप्ता भ᳘वन्ति त᳘स्माद्वेव᳘ दशपे᳘यः॥
मूलम् - श्रीधरादि
(त्त) तद्य᳘देनमेता᳘भिर्देव᳘ताभिरनुसम᳘सर्पत्॥
(त्त᳘) त᳘स्मात्सᳫँ᳭सृ᳘पो नामा᳘थ य᳘द्दशमे᳘ ऽहन्प्र᳘सुतो भ᳘वति त᳘स्माद्दशपेयो᳘ ऽथो यद्द᳘शदशै᳘कैकं चमस᳘मनुप्र᳘सृप्ता भ᳘वन्ति त᳘स्माद्वेव᳘ दशपे᳘यः॥
मूलम् - Weber
तद्य᳘देनमेता᳘भिर्देव᳘ताभिरनुसम᳘सर्पत्॥
त᳘स्मात्संसृ᳘पो नामा᳘थ य᳘द्दशमे᳘ ऽहन्प्र᳘सुतो भ᳘वति त᳘स्माद्दशपेयो᳘ ऽथो यद्द᳘श दशै᳘कैकं चमस᳘मनुप्र᳘सृप्ता भ᳘वन्ति त᳘स्माद्वेव᳘ दशपे᳘यः॥
मूलम् - विस्वरम्
तद् यदेनमेताभिर्द्देवताभिरनुसमसर्पत्- तस्मात्संसृपो नाम । अथ यद्दशमे ऽहन्प्रसुतो भवति- तस्माद् दशपेयः । अथो यद्दश- दशैकैकं चमसमनुप्रसृप्ता भवन्ति- तस्माद्वेव दशपेयः ॥ ३ ॥
सायणः
हविषां नाम निर्ब्रूते- तद्यदेनमेताभिरित्यादिना । ‘तत्’ तत्र यस्मात् ‘एताभिः’ ‘अनुसमसर्पत्’ अन्वविन्दत् सम्यक् सृप्यते प्राप्यते वीर्यमाभिरग्न्यादिभिर्देवताभिरिति ‘संसृपः’ देवताः, तासां हवींष्यपि तन्नामानि । अथ दशपेयं विधातुं तच्छब्दं निर्वक्ति- अथ यद् दशमे ऽहन्निति । पूर्वमुक्तानि दशसंसृपां हवींषि प्रत्येकमेकैकदिने कर्त्तव्यानि । तथाच सूत्रम्- “दशोत्तराणि संसृपां हवींषि निर्वपति, देवयजनान्तरमेकैकेनोत्सर्पति, शालायामन्त्यम्”- (का. श्रौ. सू. १५ । २१९-२२१) इति । तैत्तिरीये तु स्पष्टमुक्तम्- “अग्निना देवेन प्रथमे ऽहन्ननुप्रायुङ्क्त, सरस्वत्या वाचा द्वितीये, सवित्रा प्रसवेन तृतीये” इत्यादिना (तै. ब्रा. १ । ८ । १ । १) संसृप्शब्दवाच्याभ्यो दशभ्य इष्टिभ्य ऊर्द्ध्वं दशपेयार्थसोमाभिषवः । तथा च दशमे दिने दशपेयार्थसोमाभिषवप्रवृत्तेर्देशपेयत्वम् ॥ अयमत्र क्रमः- दशानां संसृपां हविषां मध्ये सप्त हवींषि प्रतिदिनं क्रमेणेकैकं कृत्वा सप्तमे दिने सप्तम्यामिष्टौ अतीतायाम् अष्टमं हविर्निर्वपेत् । अपराह्णे दशपेयस्य द्वादशपुण्डरीकस्रक्प्रतिमोकलक्षणां दीक्षां कृत्वा तदानीमेव प्रथमामुपसदं कृत्वा, तदन्ते संसृपामष्टमं हविर्निर्वपेत् । अष्टमे दिने उपसदन्ते संसृपां नवमं हविर्निरूप्य, नवमे दिवसे तृतीयोपसदन्ते संसृपां दशमं हविर्निरुप्य, तस्मिन्नेवाहनि अग्नीषोमीयपशुप्रचारं कुर्यात् । ततो दशमे ऽहनि सोमो ऽभिषूयते, हुतशेषश्च पीयत इति दशपेयत्वमिति ॥ निर्वचनान्तरं दर्शयति- अथ यद् दश-दशेति । एकैकस्मिन् पात्रे दशभिर्ब्राह्मणैः पातव्यः सोमरसो यस्मिन् काले स दशपेयो भक्षणकालः । “दशदशैकैकं चमसमनुभक्षयन्ति”- (का. श्रौ. सू. १५ । २३५) इति हि सूत्रम् ॥ ३ ॥
Eggeling
०४
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्द᳘) द᳘श पितामहा᳘न्त्सोमपा᳘न्त्संख्या᳘य प्र᳘सर्पेत्त᳘थो हास्य सोमपीथ᳘मश्नुते दशपे᳘यो ही᳘ति तद्वै ज्या द्वौ त्रीनि᳘त्येव᳘ पितामहा᳘न्त्सोमपा᳘न्विन्दन्ति त᳘स्मादेता᳘ ऽएव᳘ देव᳘ताः संख्या᳘य प्र᳘सर्पेत्॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्द᳘) द᳘श पितामहा᳘न्त्सोमपा᳘न्त्संख्या᳘य प्र᳘सर्पेत्त᳘थो हास्य सोमपीथ᳘मश्नुते दशपे᳘यो ही᳘ति तद्वै ज्या द्वौ त्रीनि᳘त्येव᳘ पितामहा᳘न्त्सोमपा᳘न्विन्दन्ति त᳘स्मादेता᳘ ऽएव᳘ देव᳘ताः संख्या᳘य प्र᳘सर्पेत्॥
मूलम् - Weber
त᳘दाहुः॥
द᳘श पितामहा᳘न्त्सोमपा᳘न्त्सख्या᳘य प्र᳘सर्पेत्त᳘थो हास्य सोमपीथ᳘मश्नुते दशपे᳘यो ही᳘ति तद्वै ज्या द्वौ त्रीनि᳘त्येव᳘ पितामहा᳘न्त्सोमपा᳘न्विन्दन्ति त᳘स्मादेता᳘ एव᳘ देव᳘ताः संख्या᳘य प्र᳘सर्पेत्॥
मूलम् - विस्वरम्
तदाहुः- दश पितामहान्त्सोमपान्सङ्ख्याय प्रसर्पेत् । तथो हास्य सोमपीथमश्नुते । दशपेयो हीति । तद्वै ज्या द्वौ त्रीनित्येव पितामहान्सोमपान्विन्दति । तस्मादेता एव देवताः सङ्ख्याय प्रसर्पेत् ॥ ४ ॥
सायणः
अत्र यदुक्तं सूत्रकृता दशपेयं प्रस्तुत्य- “पितामहदशगणं सोमपानां सङ्ख्याय सर्पणं सवित्रेति वा ऽनुवाकमुक्त्वा”- (का. श्रौ. सू. १५ । २३३ । २३४) इति । अस्यार्थः- भक्षणार्थं सदःप्रसर्पणकाले सोम्यानां शतसङ्ख्याकब्राह्मणानां मध्ये एकैकस्य पात्रस्य भक्षयितारो दश-दश पुरुषाः यजमानस्य दश सोमपान् ‘पितामहान्’ यजमानस्य पितामहः, तत्पितामहस्तत्पितामह इत्येवं पितामहदशगणं सङ्ख्याय गणयित्वा प्रसर्पेयुः । यद्वा “सवित्रा प्रसवित्रा सरस्वत्या वाचा”- (वा. सं. १० । ३०) इति संहितोक्तमन्त्रेण प्रसर्पणं कुर्यादिति ॥
अत्र पितामहगणनेन प्रसर्पणं पूर्वपक्षयति- तदाहुरिति । तद् दूषयति- तद् वै ज्येति । ‘ज्या’ ज्यानिः, निकृष्ट इत्यर्थः । अत्रोपत्तिमाह- द्वौ त्रीनिति । यदि पितामहान् जानीयुः, तर्हि ‘द्वौ त्रीन् एव’ जानीयुः, न सर्वान्; तस्मात् सवित्रादिदशदेवताः सङ्ख्याय प्रसर्पणं कुर्यादित्यर्थः ॥ ४ ॥
Eggeling
- Here now they say,–‘Let him steal forth after enumerating ten Soma-drinking grandfathers 8: it is thus that he obtains for himself the Soma-draught of this (Daśapeya), for it is a “drinking of ten.”’ But that is an overburdening 9, for people (will
be able to) obtain only two or three Soma-drinking grandfathers: hence let him steal forth after enumerating those same deities 10.
०५
विश्वास-प्रस्तुतिः
(दे) एता᳘भिर्व्वै᳘ देव᳘ताभिर्व्व᳘रुण ऽएत᳘स्य सोमपीथ᳘माश्नुत॥
त᳘थो ऽऽए᳘वैष᳘ ऽएता᳘भिरेव᳘ देव᳘ताभिरेत᳘स्य सोमपीथ᳘मश्नुते त᳘स्मादेता᳘ ऽएव᳘ देव᳘ताः संख्या᳘य प्र᳘सर्पेद᳘थ य᳘दै᳘वैषोदवसानीये᳘ष्टिः संति᳘ष्ठत ऽएत᳘स्याभिषेचनी᳘यस्य॥
मूलम् - श्रीधरादि
(दे) एता᳘भिर्व्वै᳘ देव᳘ताभिर्व्व᳘रुण ऽएत᳘स्य सोमपीथ᳘माश्नुत॥
त᳘थो ऽऽए᳘वैष᳘ ऽएता᳘भिरेव᳘ देव᳘ताभिरेत᳘स्य सोमपीथ᳘मश्नुते त᳘स्मादेता᳘ ऽएव᳘ देव᳘ताः संख्या᳘य प्र᳘सर्पेद᳘थ य᳘दै᳘वैषोदवसानीये᳘ष्टिः संति᳘ष्ठत ऽएत᳘स्याभिषेचनी᳘यस्य॥
मूलम् - Weber
एता᳘भिर्वै᳘ देव᳘ताभिर्व᳘रुण एत᳘स्य सोमपीथ᳘माश्नुत॥
त᳘थो एॗवैष᳘ एता᳘भिरेव᳘ देव᳘ताभिरेत᳘स्य सोमपीथ᳘मश्नुते त᳘स्मादेता᳘ एव᳘ देव᳘ताः संख्या᳘य प्र᳘सर्पेद᳘थ यॗदैॗवैषोदवसानीये᳘ष्टिः संति᳘ष्ठत एत᳘स्याभिषेचनी᳘यस्य॥
मूलम् - विस्वरम्
एताभिर्वै देवताभिर्वरुण एतस्य सोमपीथमाश्नुत । तथो ऽएवैष एताभिरेव देवताभिरेतस्य सोमपीथमश्नुते । तस्मादेता एव देवताः सङ्ख्याय प्रसर्पेत् । अथ यदैवैषोदवसानीयेष्टिः सन्तिष्ठत ऽएतस्याभिषेचनीयस्य ॥ ५ ॥
सायणः
तदिदं वरुणवृत्तान्तेन प्रशंसति- एताभिर्वा इति । संसृप्शब्दवाच्यहविर्निर्वापकालं दर्शयति- अथ यदैवैनेति । ‘अभिषेचनीयस्य’ एतदाख्यस्य सोमयागस्य ‘उदवसानीयेष्टिः’ ‘यदा’ ‘सन्तिष्ठते’ समाप्यते ॥ ५ ॥
Eggeling
- For, surely, it was by those same deities that Varuṇa obtained the Soma-draught of that (Consecration-ceremony); and in like manner does this one now obtain the Soma-draught of that (ceremony): let him therefore steal forth after enumerating those same deities. Now as soon as the completing oblation 11 of that Consecration-ceremony comes to an end,–
०६
विश्वास-प्रस्तुतिः
(स्या᳘) अ᳘थैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपति॥
सावित्रं द्वा᳘दशकपालं व्वा ऽष्टा᳘कपालं वा पुरोडा᳘शᳫँ᳭ सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूत ऽएव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एत᳘त्सवितृ᳘प्रसूत ऽए᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(स्या᳘) अ᳘थैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपति॥
सावित्रं द्वा᳘दशकपालं व्वा ऽष्टा᳘कपालं वा पुरोडा᳘शᳫँ᳭ सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूत ऽएव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एत᳘त्सवितृ᳘प्रसूत ऽए᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थैता᳘नि हवीं᳘षि नि᳘र्वपति॥
सावित्रं द्वा᳘दशकपालं वाष्टा᳘कपालं वा पुरोडा᳘शᳫं सविता वै᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूत एव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो एॗवैष᳘ एत᳘त्सवितृ᳘प्रसूत एॗवानुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथैतानि हवींषि निर्वपति । सावित्रं द्वादशकपालं वा ऽष्टाकपालं वा पुरोडाशम् । सविता वै देवानां प्रसविता, सवितृप्रसूत एव तद् वरुणो ऽनुसमसर्पत् । तथो ऽएवैष एतत्सवितृप्रसूत एवानुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ ६ ॥
सायणः
अथैतानीति । ‘अथ’ तदनन्तरम् ‘एतानि हवींषि’ निर्वपेदित्यर्थः । तत्प्रकारः कात्यायनेन स्पष्टीकृतः- “सावित्र-सारस्वत-त्वाष्ट्र-पौष्णैन्द्र-बार्हस्पत्य-वारुणाग्नेय सौम्य-वैष्णवानि यथोक्तं प्रतीष्टिपुण्डरीकाणि प्रयच्छति, हिरण्मयानि वोत्तमासु तिसृषु पञ्च तेषां स्रजं प्रतिमुञ्चते तद्दीक्षो भवति”- (का. श्रौ. सू. १५ । २२२–२२७) इति । सप्तम्यां ब्रह्मागारात् सोममाहृत्यासन्द्यभिमर्शनादि करोत्युपसद्देवताहवींषि निर्वपत्युपसदं त इच्छन्निति । उक्तानां दशसङ्ख्याकानां हविषां मध्ये सप्त हवींषि पूर्वमिष्टितन्त्रेण कृत्वा, सप्त हिरण्मयपुण्डरीकाणि दत्त्वा, उत्तरासु तिसृषु पञ्च दत्त्वा, द्वादश पुण्डरीकस्रक्प्रतिमोकदक्षिणां दशपेयदीक्षां कृत्वा, सप्तम्यां संसृव्यागसम्बन्धिन्यां सप्तमदिने क्रियमाणायां वारुण्यामिष्टावतीतायां पूर्वमेवामिवेचनीयपदशपेययोरपि द्विधा सोमं क्रीत्वा दशपेयार्थं ब्रह्मागारे स्थापितं सोममाहृत्य, आसन्द्यभिमर्शनाद्यातिध्यान्तं कृत्वा, संसृपां हविषां मध्ये अन्त्यानि आग्नेय-सौम्य-वैष्णवानि त्रीणि हवींषि उपसत्प्रतिनिधित्वेन कर्त्तव्यानि । उपसदामप्यग्निसोमविष्णु देवता अन्तिमत्वात्, तथाप्यग्नीषोमयोरेकस्याप्यभावे दशसंख्यापूरणाभावात् तयोरपि दशमत्वमुच्यते । ‘तत्र’ तिसृषु देवतासु तद्देवत्यहविःषु ‘पञ्च पुण्डरीकाणि’ देयानि भवन्तीत्येतत् ॥
अथ द्वादशपेयस्य दीक्षां विधत्ते- तां द्वादशेति । दत्तानि सप्त, अन्तिमहविस्त्रये दास्यमानानि पञ्चेति द्वादश पुण्डरीकाणि भवन्ति । प्रकृतौ “अप्सु स्नात्यपो ऽश्नाति”- इत्यादिना यद्दीक्षामात्रं विहितम्, तदत्रापवदितुं दत्तदास्यमानपुण्डरीकस्रक्प्रतिमोको विहितः । सूत्रन्तु पूर्वमुदाहृतम् । आपस्तम्बेन तु विशेष उक्तः- “अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुच्चते”- (आ. श्रौ. सू. १९ । २० । १४) इति । प्रतिमोचयेदित्यर्थ ॥ ६-१३ ॥
Eggeling
- He prepares those (saṁsr̥p) oblations,–a cake on twelve, or eight, potsherds for Savitr̥; for Savitr̥ is the impeller of the gods: impelled by Savitr̥, Varuṇa on that occasion stole along; and in like manner does this one now steal along impelled by Savitr̥. At this (oblation) he presents one lotus-flower 12.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सारस्वतं᳘ चरुं नि᳘र्व्वपति॥
व्वाग्वै स᳘रस्वती व्वा᳘चैव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एत᳘द्वा᳘चै᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सारस्वतं᳘ चरुं नि᳘र्व्वपति॥
व्वाग्वै स᳘रस्वती व्वा᳘चैव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एत᳘द्वा᳘चै᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थ सारस्वतं᳘ चरुं नि᳘र्वपति॥
वाग्वै स᳘रस्वती वाॗचैव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो एॗवैष᳘ एत᳘द्वाॗचैॗवानुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथ सारस्वतं चरुं निर्वपति । वाग्वै सरस्वती । वाचैव तद्वरुणो ऽनुसमसर्पत् । तथो ऽएवैष एतद्वाचैवानुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He then prepares a (rice) pap for Sarasvatī,–for Sarasvatī is speech, and it was with speech that Varuṇa on that occasion stole along; and in like manner does this one now steal along with speech. At this (oblation) he presents one lotus-flower.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ त्वाष्ट्रं द᳘शकपालं पुरोडा᳘शं नि᳘र्व्वपति॥
त्व᳘ष्टा वै᳘ रूपा᳘णामीष्टे त्व᳘ष्ट्रैव त᳘द्रूपैर्व्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एतत्त्व᳘ष्ट्रैव᳘ रूपै᳘रनुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ त्वाष्ट्रं द᳘शकपालं पुरोडा᳘शं नि᳘र्व्वपति॥
त्व᳘ष्टा वै᳘ रूपा᳘णामीष्टे त्व᳘ष्ट्रैव त᳘द्रूपैर्व्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एतत्त्व᳘ष्ट्रैव᳘ रूपै᳘रनुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थ त्वाष्ट्रं द᳘शकपालम् पुरोडा᳘शं नि᳘र्वपति॥
त्व᳘ष्टा वै᳘ रूपा᳘णामीष्टे त्व᳘ष्ट्रैव त᳘द्रूपैर्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो एॗवैष᳘ एतत्त्व᳘ष्ट्रैव᳘ रूपै᳘रनुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथ त्वाष्ट्रं दशकपालं पुरोडाशं निर्वपति । त्वष्टा वै रूपाणामीष्टे । त्वष्ट्रैव तद्रूपैर्वरुणो ऽनुसमसर्पत् । तथो ऽएवैष एतत्त्वष्ट्रैव रूपैरनुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ ८ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He then prepares a cake on ten potsherds for Tvashṭr̥,–for Tvashṭr̥ (the fashioner, creator) rules over living forms, and with Tvashṭr̥, the living forms, Varuṇa on that occasion stole along; and in
like manner does this one now steal along with Tvashṭr̥, the living forms. At this (oblation) he presents one lotus-flower.
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पौष्णं᳘ चरुं नि᳘र्व्वपति॥
पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एत᳘त्पशु᳘भिरे᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पौष्णं᳘ चरुं नि᳘र्व्वपति॥
पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एत᳘त्पशु᳘भिरे᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थ पौष्णं᳘ चरुं नि᳘र्वपति॥
पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो एॗवैष᳘ एत᳘त्पशु᳘भिरेॗवानुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथ पौष्णं चरुं निर्वपति । पशवो वै पूषा । पशुभिरेव तद्वरुणो ऽनुसमसर्पत् । तथो ऽएवैष एतत्पशुभिरेवानुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ ९ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He then prepares a pap for Pūshan;–for Pūshan is cattle, and with cattle Varuṇa on that occasion stole along; and in like manner does this one now steal along with cattle. At this (oblation) he presents one lotus-flower.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैन्द्रमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति॥
(ती) इन्द्रियं वै᳘ व्वीर्य᳘मि᳘न्द्र ऽइन्द्रिये᳘णैव त᳘द्वी᳘र्येण व्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ ऽएत᳘दिन्द्रिये᳘णैव᳘ व्वी᳘र्येणानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैन्द्रमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति॥
(ती) इन्द्रियं वै᳘ व्वीर्य᳘मि᳘न्द्र ऽइन्द्रिये᳘णैव त᳘द्वी᳘र्येण व्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ ऽएत᳘दिन्द्रिये᳘णैव᳘ व्वी᳘र्येणानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थैन्द्रमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपति॥
इन्द्रियं वै᳘ वीर्य᳘मि᳘न्द्र इन्द्रिये᳘णैव त᳘द्वीॗर्येण व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो एॗवैष᳘ एत᳘दिन्द्रिये᳘णैव᳘ वीॗर्येणानुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथैन्द्रमेकादशकपालं पुरोडाशं निर्वपति । इन्द्रियं वै वीर्यमिन्द्रः । इन्द्रियेणैव तद् वीर्येण वरुणो ऽनुसमसर्पत् । तथो ऽएवैष एतदिन्द्रियेणैव वीर्येणानुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ १० ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He then prepares a cake on eleven potsherds for Indra;–for Indriya means energy, vigour, and with vigour Varuṇa on that occasion stole along; and in like manner does this one now steal along with energy, with vigour. At this (oblation) he presents one lotus-flower.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ बार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एतद्ब्र᳘ह्मणै᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ बार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो ऽए᳘वैष᳘ एतद्ब्र᳘ह्मणै᳘वानुस᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थ बार्हस्पत्यं᳘ चरुं नि᳘र्वपति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैव तद्व᳘रुणो ऽनुस᳘मसर्पत्त᳘थो एॗवैष᳘ एतद्ब्र᳘ह्मणैॗवानुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथ बार्हस्पत्यं चरुं निर्वपति । ब्रह्म वै बृहस्पतिः । ब्रह्मणैवैतद्वरुणो ऽनुसमसर्पत् । तथो ऽएवैष एतद्ब्रह्मणैवानुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ ११ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He then prepares a pap for Br̥haspati;–for Br̥haspati means holiness, and with holiness Varuṇa on that occasion stole along; and in likes manner does this one now steal along with holiness. At this (oblation) he presents one lotus-flower.
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ व्वारुणं᳘ यवम᳘यं चरुं नि᳘र्व्वपति॥
स ये᳘नैवौ᳘जसेमाः᳘ प्रजा व्व᳘रुणो᳘ ऽगृह्णात्ते᳘नैव तदो᳘जसा व्व᳘रुणो ऽनुस᳘मसर्पत्ते᳘नो ए᳘वैष तदो᳘जसा ऽनु स᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ व्वारुणं᳘ यवम᳘यं चरुं नि᳘र्व्वपति॥
स ये᳘नैवौ᳘जसेमाः᳘ प्रजा व्व᳘रुणो᳘ ऽगृह्णात्ते᳘नैव तदो᳘जसा व्व᳘रुणो ऽनुस᳘मसर्पत्ते᳘नो ए᳘वैष तदो᳘जसा ऽनु स᳘ᳫँ᳘सर्पति तत्रै᳘कं पुण्ड᳘रीकं प्र᳘यच्छति॥
मूलम् - Weber
अ᳘थ वारुणं᳘ यवम᳘यं चरुं नि᳘र्वपति॥
स ये᳘नैवौ᳘जसेमाः᳘ प्रजा व᳘रुणो᳘ ऽगृह्णात्ते᳘नैव तदो᳘जसा व᳘रुणो ऽनुस᳘मसर्पत्ते᳘नो एॗवैष तदो᳘जसानुस᳘ᳫं᳘सर्पति तत्रै᳘कम् पुण्ड᳘रीकम् प्र᳘यछति॥
मूलम् - विस्वरम्
अथ वारुणं यवमयं चरुं निर्वपति । स येनैवौजसेमाः प्रजा वरुणो ऽगृह्णात्- तेनैव तदोजसा वरुणो ऽनुसमसर्पत् । तेनो ऽएवैष तदोजसा ऽनुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति ॥ १२ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He then prepares a barley pap for Varuṇa;–with what vehemence Varuṇa seized the creatures, with that vehemence Varuṇa on that occasion stole along; and in like manner does this one now steal along with vehemence. At this (oblation) he presents one lotus-flower.
१३
विश्वास-प्रस्तुतिः
(त्यु) उपस᳘दो दश᳘म्यो देव᳘ताः॥
(स्त᳘) त᳘त्र प᳘ञ्च पुण्ड᳘रीकाण्यु᳘पप्र᳘यच्छति तां द्वा᳘दशपुण्डरीकाᳫँ᳭ स्र᳘जं प्र᳘तिमुञ्चते सा᳘ दीक्षा त᳘या दीक्ष᳘या दीक्षते॥
मूलम् - श्रीधरादि
(त्यु) उपस᳘दो दश᳘म्यो देव᳘ताः॥
(स्त᳘) त᳘त्र प᳘ञ्च पुण्ड᳘रीकाण्यु᳘पप्र᳘यच्छति तां द्वा᳘दशपुण्डरीकाᳫँ᳭ स्र᳘जं प्र᳘तिमुञ्चते सा᳘ दीक्षा त᳘या दीक्ष᳘या दीक्षते॥
मूलम् - Weber
उपस᳘दो दशॗम्यो देव᳘ताः॥
त᳘त्र प᳘ञ्च पुण्ड᳘रीकाण्युपप्र᳘यछति तां द्वा᳘दशपुण्डरीकाᳫं स्र᳘ज प्र᳘तिमुञ्चते सा᳘ दीक्षा त᳘या दीक्ष᳘या दीक्षते॥
मूलम् - विस्वरम्
उपसदो दशभ्यो देवताः । तत्र पञ्च पुण्डरीकाण्युपप्रयच्छति । तां द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते- सा दीक्षा । तया दीक्षा दीक्षते ॥ १३ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- The deities of the Upasad are the (eighth, ninth, and) tenth 13. At these (oblations) he presents
five lotus-flowers. That wreath of twelve lotus-flowers he puts on himself; that is the initiation: by that initiation he initiates himself.
१४
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ यद्द्वा᳘दश भ᳘वन्ति॥
द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वेणै᳘वैनमेत᳘द्दीक्षयति या᳘नि पुण्ड᳘रीकाणि ता᳘नि दिवो᳘ रूपं ता᳘नि न᳘क्षत्राणाᳫँ᳭ रूपं ये व्व᳘धका᳘स्ते ऽन्त᳘रिक्षस्य रूपं या᳘नि बि᳘सानि ता᳘न्यस्यै त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ यद्द्वा᳘दश भ᳘वन्ति॥
द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वेणै᳘वैनमेत᳘द्दीक्षयति या᳘नि पुण्ड᳘रीकाणि ता᳘नि दिवो᳘ रूपं ता᳘नि न᳘क्षत्राणाᳫँ᳭ रूपं ये व्व᳘धका᳘स्ते ऽन्त᳘रिक्षस्य रूपं या᳘नि बि᳘सानि ता᳘न्यस्यै त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति॥
मूलम् - Weber
अ᳘थ यद्द्वा᳘दश भ᳘वन्ति॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य स᳘र्वं वै᳘ संवत्सरः स᳘र्वेणैॗवैनमेत᳘द्दीक्षयति या᳘नि पुण्ड᳘रीकाणि ता᳘नि दिवो᳘ रूपं ता᳘नि न᳘क्षत्राणां रूपं ये व᳘धकाॗस्ते ऽन्त᳘रिक्षस्य रूपं या᳘नि बि᳘सानि ता᳘न्यस्यै त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति॥
मूलम् - विस्वरम्
अथ यद्द्वादश भवन्ति । द्वादश वै मासाः सम्वत्सरस्य । सर्वं वै सम्वत्सरः । सर्वेणैवैनमेतद्दीक्षयति । यानि पुण्डरीकाणि- तानि दिवो रूपम्, तानि नक्षत्राणां रूपम् । ये वधकास्ते ऽन्तरिक्षस्य रूपम् । यानि बिसानि- तान्यस्यै । तदेनमेषु लोकेष्वधि दीक्षयति ॥ १४ ॥
सायणः
पुण्डरीकगतां सङ्ख्यां सम्भूय मासात्मकसम्वत्सरात्मना प्रशंसति- अथ यद्द्वादशेति । अतस्तावत्सङ्ख्याविशिष्टपद्मैर्दीक्षाकरणेन सर्वात्मसंवत्सरेण यजमानं दीक्षायुक्तं कृतवान् भवति । प्रकारान्तरेण प्रशंसति- यानीति । पद्मगतपत्रनालबिसानां स्वर्गान्तरिक्षभूम्याख्यलोकत्रयात्मकत्वात्तत्प्रतिमोकलक्षणदीक्षाकरणेन ‘एनं’ यजमानम् ‘एषु’ त्रिषु ‘लोकेषु’ दीक्षितवान् भवतीत्यर्थः ॥ १४ ॥
Eggeling
- And as to why there are twelve (flowers),–there being twelve months in the year, and the year being All, it is by the All that he thus initiates him: what flowers there are of the lotus, they are a form (an image) of the sky, they are a form of the stars; and what seed-stalks there are, they are a form of the air; and what suckers there are, they are a form of this (earth): thus he initiates him (to rule) over these worlds.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ रा᳘जानं क्रीत्वा᳘॥
द्वे᳘धोपन᳘ह्य प᳘रिवहन्ति त᳘तो ऽर्ध᳘मासन्द्या᳘मासा᳘द्य प्र᳘चरत्य᳘थ य᳘ ऽए᳘षो ऽर्धो᳘ ब्रह्म᳘णो गृहे नि᳘हितो भ᳘वति त᳘मासन्द्या᳘मासा᳘द्यातिथ्ये᳘न प्र᳘चरति य᳘दातिथ्ये᳘न प्रच᳘रत्य᳘थोपस᳘द्भिः प्र᳘चरति य᳘दोपस᳘द्भिः प्रच᳘रति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ रा᳘जानं क्रीत्वा᳘॥
द्वे᳘धोपन᳘ह्य प᳘रिवहन्ति त᳘तो ऽर्ध᳘मासन्द्या᳘मासा᳘द्य प्र᳘चरत्य᳘थ य᳘ ऽए᳘षो ऽर्धो᳘ ब्रह्म᳘णो गृहे नि᳘हितो भ᳘वति त᳘मासन्द्या᳘मासा᳘द्यातिथ्ये᳘न प्र᳘चरति य᳘दातिथ्ये᳘न प्रच᳘रत्य᳘थोपस᳘द्भिः प्र᳘चरति य᳘दोपस᳘द्भिः प्रच᳘रति॥
मूलम् - Weber
अ᳘थ रा᳘जानं क्रीत्वा᳟॥
द्वेॗधोपन᳘ह्य प᳘रिवहन्ति त᳘तो ऽर्ध᳘मासन्द्या᳘मासा᳘द्य प्र᳘चरत्य᳘थ य᳘ एॗषो ऽर्धो᳘ ब्रह्म᳘णो गृहे नि᳘हितो भ᳘वति त᳘मासन्द्या᳘मासा᳘द्यातिथ्ये᳘न प्र᳘चरति यॗदातिथ्ये᳘न प्रच᳘रत्य᳘थोपस᳘द्भिः प्र᳘चरति यॗदोपसद्भिः प्रच᳘रति॥
मूलम् - विस्वरम्
अथ राजानं क्रीत्वा द्वेधोपनह्य परिवहन्ति । ततो ऽर्धमासन्द्यामासाद्य प्रचरति । अथ य एषो ऽर्धो ब्रह्मणो गृहे निहितो भवति- तमासन्द्यामासाद्य आतिथ्येन प्रचरति । यदातिथ्येन प्रचरति- अथोपसद्भिः प्रचरति । यदोपसद्भिः प्रचरति ॥ १५ ॥
सायणः
अथ राजानं क्रीत्वेत्यादेरयमर्थः- पूर्वमभिषेचनीयदीक्षान्ते राजानं ‘क्रीत्वा’ ‘द्वेधोपनह्य, ‘तत्रैकं दशपेयार्थं पर्युह्य ब्रह्मागारे स्थापयित्वा, एकेनाभिषेचनीये प्रचारः कृतः; अथ दशपेये ब्रह्मगृहे स्थापितं तं सोममाहृत्य, ‘आसन्द्यामासाद्य,’ आतिथ्यया प्रचरेयुः; तदनन्तरमुपसद्यागः । तत्राग्निसोमविष्णुदेवताकोपसत्प्रतिनिधित्वेन संसृब्यागसम्बन्धिनामुत्तमानां त्रयाणामाग्नेयसौम्यवैष्णवानामेव निर्वापं पूर्वपक्षयति- यदोपसद्भिः प्रचरतीति ॥ १५ ॥
Eggeling
- And having bought the King (Soma) 14, and
tied him up in two parts, they drive him around. Having then placed one-half on the throne-seat, he proceeds therewith. Having then placed on the throne-seat that portion which was deposited in the Brahman’s house, he proceeds with the guest-meal. Whilst he is proceeding with the guest-meal, he performs the Upasads. Whilst he is performing the Upasads,–
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपति॥
(त्या) आग्नेय᳘मष्टा᳘कपालं पुरोडा᳘शᳫँ᳭ सौम्यं᳘ चरुं᳘ व्वैष्णवं त्रि᳘कपालं वा पुरोडा᳘शं चरुं᳘ वा ते᳘न यथे᳘ष्ट्यैवं᳘ यजते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपति॥
(त्या) आग्नेय᳘मष्टा᳘कपालं पुरोडा᳘शᳫँ᳭ सौम्यं᳘ चरुं᳘ व्वैष्णवं त्रि᳘कपालं वा पुरोडा᳘शं चरुं᳘ वा ते᳘न यथे᳘ष्ट्यैवं᳘ यजते॥
मूलम् - Weber
अ᳘थैता᳘नि हवीं᳘षि नि᳘र्वपति॥
आग्नेय᳘मष्टा᳘कपालम् पुरोडा᳘शᳫं सौम्यं᳘ चरुं᳘ वैष्णवं त्रि᳘कपालं वा पुरोडा᳘शं चरुं᳘ वा ते᳘न यथे᳘ष्ट्यैवं᳘ 15 यजते॥
मूलम् - विस्वरम्
अथैतानि हवींषि निर्वपति- आग्नेयमष्टाकपालं पुरोडाशम्, सौम्यं चरुम्, वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा यथेष्ट्या एवं यजते ॥ १६ ॥
सायणः
अथैतानि हवींषि निर्वपत्याग्नेयमिति । तेन यथेष्ट्येति । एकैकोपसत्स्थाने ‘तेन’ एकेन हविषा ‘यथेष्ट्या’ इष्टितन्त्रेण कुर्यात् । उपसत्त्रयार्थमेतद्धविस्त्रयं कर्त्तव्यमिति शाखान्तरीयः पक्षः (आप. श्रौ. सू. १८ । २० । १८) ॥ १६ ॥
Eggeling
- He prepares those (three) oblations,–a cake on eight potsherds for Agni; a pap for Soma; and a cake on three potsherds, or a pap, for Vishṇu. Thus he performs the sacrifice in this way, if it pleases him.
१७
विश्वास-प्रस्तुतिः
त᳘दु त᳘था न᳘ कुर्यात्॥
(द्ध᳘) ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष᳘ यज्ञपथाद्य᳘ ऽउपसत्पथादे᳘ति त᳘स्मादुपसत्पथा᳘देव᳘ नेयात्॥
मूलम् - श्रीधरादि
त᳘दु त᳘था न᳘ कुर्यात्॥
(द्ध᳘) ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष᳘ यज्ञपथाद्य᳘ ऽउपसत्पथादे᳘ति त᳘स्मादुपसत्पथा᳘देव᳘ नेयात्॥
मूलम् - Weber
त᳘दु त᳘था न᳘ कुर्यात्॥
ह्व᳘लति वा᳘ एष यो᳘ यज्ञपथादेत्ये᳘ति वा एष᳘ यज्ञपथाद्य᳘ उपसत्पथादे᳘ति त᳘स्मादुपसत्पथा᳘देवॗ नेयात्॥
मूलम् - विस्वरम्
तदु तथा न कुर्यात् । ह्वलति वा एषः- यो यज्ञपथादेति । एति वा ऽएष यज्ञपथाद्- य उपसत्पथादेति । तस्मादुपसत्पथादेव नेयात् ॥ १७ ॥
सायणः
तमिमं निराकरोति- तदु तथेति । ‘तत्’ ‘तथा’ ‘न कुर्यात्’ । ‘एषः ह्वलति वै’ प्रच्युतो भवेत् । एतच्छब्दार्थमाह- यो यज्ञपथादेतीति । ‘एति’ अपगच्छति । तदेव पुनर्दर्शयति- एति वा एष इति । तस्मात् ‘उपसत्पथात्’ उपसन्मार्गात् ‘नेयात्’ न प्रच्युतो भवेत्, तत उपसदो न पृथक् कुर्यात् । तदन्ते एतानि संसृपामन्तिमानि हवींषि त्रीणि चेष्टितन्त्रेण पृथक् कुर्यात् । अत एव सूत्रकार उपसद्यागान्ते एतेषां निर्वापं विकल्पेन दर्शयामास- “उपसदन्त इच्छन्” (का. श्रौ. सू. १५ । २३२) इति ॥ १७ ॥
Eggeling
- But let him not do it in this way; for he who departs from the path of the sacrifice stumbles, and he who departs from the path of the Upasads certainly departs from the path of the sacrifice: let him therefore not depart from the path of the Upasads.
१८
विश्वास-प्रस्तुतिः
(त्स) स य᳘दग्निं य᳘जति॥
(त्य) अग्नि᳘नै᳘वैतत्ते᳘जसा ऽनुस᳘ᳫँ᳘सर्पत्य᳘थ यत्सो᳘मं य᳘जति सो᳘मेनै᳘वैतद्रा᳘ज्ञा ऽनुस᳘ᳫँ᳘सर्पत्य᳘थ यद्वि᳘ष्णुं य᳘जति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
(त्स) स य᳘दग्निं य᳘जति॥
(त्य) अग्नि᳘नै᳘वैतत्ते᳘जसा ऽनुस᳘ᳫँ᳘सर्पत्य᳘थ यत्सो᳘मं य᳘जति सो᳘मेनै᳘वैतद्रा᳘ज्ञा ऽनुस᳘ᳫँ᳘सर्पत्य᳘थ यद्वि᳘ष्णुं य᳘जति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - Weber
स य᳘दग्निं य᳘जति॥
अग्नि᳘नैॗवैतत्ते᳘जसानुस᳘ᳫं᳘सर्पत्य᳘थ यत्सो᳘मं य᳘जति सो᳘मेनैॗवैतद्रा᳘ज्ञानुस᳘ᳫं᳘सर्पत्य᳘थ यद्वि᳘ष्णुं य᳘जति यज्ञो वै वि᳘ष्णुस्त᳘द्यज्ञ᳘म् प्रत्य᳘क्षमाप्नोति त᳘म् प्रत्य᳘क्षमाॗप्त्वात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
स यदग्निं यजति- अग्निनैवैतत्तेजसा ऽनुसंसर्पति । अथ यत् सोमं यजति- सोमेनैवैतद्राज्ञा ऽनुसंसर्पति- अथ यद्विष्णुं यजति । यज्ञो वै विष्णुः । तद्यज्ञं प्रत्यक्षमाप्नोति । तं प्रत्यक्षमाप्त्वा ऽऽत्मन्कुरुते ॥ १८ ॥
सायणः
तदुपसद्देवताहविषामाग्नेयसौम्य-वैष्णवानां संसृपां हविषामनिर्वापे तद्धेतुकसर्पणस्यासिद्धिमाशङ्क्य निरस्यति- स यदग्निमिति । उपसद्यागैरेव अग्निसोमविष्णव इष्टाः; तदानीमेव तैः संसर्पणं जातमिति ॥ १८ ॥
Eggeling
- Now when he offers to Agni, he steals along with Agni, with fiery spirit; and when he offers to Soma, he steals along with Soma, the King; and when he offers to Vishṇu,–Vishṇu being the sacrifice,–he visibly obtains the sacrifice, and having visibly obtained it, he makes it his own (or, takes it in).
१९
विश्वास-प्रस्तुतिः
स᳘ एष᳘ सप्तद᳘शो ऽग्निष्टोमो᳘ भवति॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
स᳘ एष᳘ सप्तद᳘शो ऽग्निष्टोमो᳘ भवति॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - Weber
स᳘ एष᳘ सप्तदॗशो ऽग्निष्टोमो᳘ भवति॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञ᳘म् प्रत्य᳘क्षमाप्नोति त᳘म् प्रत्य᳘क्षमाॗप्त्वात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
स एष सप्तदशो ऽग्निष्टोमो भवति । सप्तदशो वै प्रजापतिः । प्रजापतिर्यज्ञः । तद्यज्ञं प्रत्यक्षमाप्नोति । तं प्रत्यक्षमाप्त्वा ऽऽत्मन्कुरुते ॥ १९ ॥
सायणः
दशपेयस्य सोमसंस्थारूपं विधत्ते- स एष सप्तदश इति । ‘स एषः’ दशपेयः क्रतुः सप्तदशस्तोमसाध्यो ऽग्निष्टोमसंस्थो भवतीत्यर्थः । “सप्तदशं स्तोत्रं भवति” (तै. सं. १ । ८ । १८ । १) इति हि तैत्तिरीयकम् ॥ १९ ॥
Eggeling
- This same (Daśapeya) is an Agnishṭoma sacrifice (performed) with the seventeenfold (stoma) 16 for Prajāpati is seventeenfold, and Prajāpati is the
sacrifice 17: thus he visibly obtains the sacrifice, and having visibly obtained it, he makes it his own.
२०
विश्वास-प्रस्तुतिः
त᳘स्य द्वा᳘दश प्रथम᳘गर्भाः॥ षष्ठौ᳘ह्यो द᳘क्षिणा द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
त᳘स्य द्वा᳘दश प्रथम᳘गर्भाः॥ षष्ठौ᳘ह्यो द᳘क्षिणा द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - Weber
त᳘स्य द्वा᳘दश प्रथम᳘गर्भाः पष्ठौॗह्यो द᳘क्षिणा॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्तद्यज्ञ᳘म् प्रत्य᳘क्षमाप्नोति त᳘म् प्रत्य᳘क्षमाॗप्त्वात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
तस्य द्वादश प्रथमगर्भाः पष्ठौह्यो दक्षिणा । द्वादश वै मासाः सम्वत्सरस्य । सम्वत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । तद् यज्ञं प्रत्यक्षमाप्नोति । तं प्रत्यक्षमाप्त्वा ऽऽत्मन्कुरुते ॥ २० ॥
सायणः
गर्भिणीनां गवां दानं विधत्ते- तस्य द्वादशेति 18 । ता द्वादशसङ्ख्याका गाः ब्रह्मणे दद्यादित्युत्तरेण (२२ क०) सम्बन्धः । संख्यां सम्भूय संवत्सरात्मना स्तौति- द्वादश वै मासा इति ॥ २० ॥
Eggeling
- Twelve heifers with first calf are the sacrificial fee for this (sacrifice); for twelve months there are in the year, and the year is Prajāpati, and Prajāpati is the sacrifice: thus he visibly obtains the sacrifice, and having visibly obtained it, he makes it his own.
२१
विश्वास-प्रस्तुतिः
ता᳘सां द्वा᳘दश ग᳘र्भाः॥
(स्ता) ताश्च᳘तुर्विᳫँ᳭शतिश्च᳘तुर्विᳫँ᳭शतिर्व्वै᳘ संव्वत्सर᳘स्यार्धमासाः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
ता᳘सां द्वा᳘दश ग᳘र्भाः॥
(स्ता) ताश्च᳘तुर्विᳫँ᳭शतिश्च᳘तुर्विᳫँ᳭शतिर्व्वै᳘ संव्वत्सर᳘स्यार्धमासाः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - Weber
ता᳘सां द्वा᳘दश ग᳘र्भाः॥
ताश्च᳘तुर्विंशतिश्च᳘तुर्विंशतिर्वै᳘ संवत्सर᳘स्यार्धमासाः᳘ संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञ᳘म् प्रत्य᳘क्षमाप्नोति त᳘म् प्रत्य᳘क्षमाॗप्त्वात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
तासां द्वादश गर्भाः । ताश्चतुर्विंशतिः । चतुर्विंशतिर्वै सम्वत्सरस्यार्धमासाः । सम्वत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । तद् यज्ञं प्रत्यक्षमाप्नोति । तं प्रत्यक्षमाप्त्वा ऽऽत्मन्कुरुते ॥ २१ ॥
सायणः
प्रकारान्तरेणापि प्रशंसति- तासां द्वादश गर्भा इति । ता गावो द्वादश, तासां गर्भा अपि द्वादश, मिलित्वा चतुर्विंशतिः, संवत्सरस्यापि चतुर्विंशतिरर्द्धमासाः, तस्मात् संवत्सरात्मत्वेन ता बालगर्भा गावः प्रशस्ता इत्यर्थः ॥ २१ ॥
Eggeling
- These (heifers) have twelve embryo calves,–that makes twenty-four; for twenty-four half-moons there are in the year, and the year is Prajāpati, and Prajāpati is the sacrifice: thus he visibly obtains the sacrifice, and having visibly obtained it, he makes it his own.
२२
विश्वास-प्रस्तुतिः
ता᳘ ब्रह्म᳘णे ददाति॥
ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपाय᳘ति त᳘स्मात्ता᳘ ब्रह्म᳘णे ददाति हिरण्म᳘यीᳫँ᳭ स्र᳘जमुद्गात्रे᳘ रुक्मᳫँ᳭ हो᳘त्रे हिरण्म᳘यौ प्राकाशा᳘वध्वर्यु᳘भ्याम᳘श्वं प्रस्तोत्रे᳘ व्वशां᳘ मैत्रावरुणा᳘य ऽर्षभं᳘ ब्राह्मणाच्छᳫँ᳭सि᳘ने व्वा᳘ससी नेष्टापोतृ᳘भ्यामन्यतर᳘तो युक्तं यवाचित᳘मच्छावाका᳘य गा᳘मग्नी᳘धे॥
मूलम् - श्रीधरादि
ता᳘ ब्रह्म᳘णे ददाति॥
ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपाय᳘ति त᳘स्मात्ता᳘ ब्रह्म᳘णे ददाति हिरण्म᳘यीᳫँ᳭ स्र᳘जमुद्गात्रे᳘ रुक्मᳫँ᳭ हो᳘त्रे हिरण्म᳘यौ प्राकाशा᳘वध्वर्यु᳘भ्याम᳘श्वं प्रस्तोत्रे᳘ व्वशां᳘ मैत्रावरुणा᳘य ऽर्षभं᳘ ब्राह्मणाच्छᳫँ᳭सि᳘ने व्वा᳘ससी नेष्टापोतृ᳘भ्यामन्यतर᳘तो युक्तं यवाचित᳘मच्छावाका᳘य गा᳘मग्नी᳘धे॥
मूलम् - Weber
ता᳘ ब्रह्म᳘णे ददाति॥
ब्रह्मा हि᳘ यज्ञं᳘ दक्षिणॗतो ऽभिगोपाय᳘ति त᳘स्मात्ता᳘ ब्रह्म᳘णे ददाति हिरण्म᳘यीᳫं स्र᳘जमुद्गात्रे᳘ रुक्मᳫं हो᳘त्रे हिरण्मयौ प्राकाशा᳘वध्वर्यु᳘भ्याम᳘श्वम् प्रस्तोत्रे᳘ वशा᳘म् मैत्रावरुणा᳘यर्षभ᳘म् ब्राह्मणाछंसि᳘ने वा᳘ससी नेष्टापोतृ᳘भ्यामन्यतर᳘तोयुक्तं यवाचित᳘मछावाका᳘य गा᳘मग्नी᳘धे॥
मूलम् - विस्वरम्
ता ब्रह्मणे ददाति । ब्रह्मा हि यज्ञं दक्षिणतो गोपायति । तस्मात्ता ब्रह्मणे ददाति । हिरण्मयीं स्रजमुद्गात्रे । रुक्मं होत्रे । हिरण्मयौ प्राकाशावध्वर्युभ्याम् । अश्वं प्रस्तोत्रे । वशां मैत्रावरुणाय । ऋषभं ब्राह्मणाच्छंसिने । वाससी नेष्टापोतृभ्याम् । अन्यतरतो युक्तं यवाचितमच्छावाकाय । गामग्नीधे ॥ २२ ॥
सायणः
ता ब्रह्मणे ददातीति । हिरण्यस्रजो दानं विधत्ते- हिरण्मयीमिति 18 । ददातीत्यनुवर्तते ॥
वर्त्तुलस्य स्वर्णाभरणस्य दानं विधत्ते- रुक्मं होत्र इति (का. श्रौ. सू. १५ । २४०) । द्वाभ्यां प्रत्येकं प्राकाशदानं विधत्ते- हिरण्मयाविति । प्राकाशौ दीपस्तम्भावित्येके, सुवर्णदर्पणावित्यपरे । अश्वदानं विधत्ते- अश्वं प्रस्तोत्र इति । वन्ध्याया गोर्दानं विधत्ते- वशामिति (का. श्रौ. सू. १५ । २४०) । रेतस्सेचनसमर्थस्य गोर्दानं विधत्ते- ऋषभमिति । द्वाभ्यां प्रत्येकं वस्त्रदानं विधत्ते- वाससी इति । एकेनानडुहा युक्तस्य यवपूर्णस्य शकटस्य दानं विधत्ते- अन्यतरत इति । अनडुहो दानं विधत्ते- गामग्नीध इति । “अनड्वाहमग्नीधे” इति हि सूत्रितम् 19 (का. श्रौ. सू. १५ । २४०) । “अनड्वाहमग्नीधे वह्निर्वा अनड्वान्” इति हि तैत्तिरीयकम् (तै. ब्रा. १ । ८ । २ । ५) ॥ २२ ॥
Eggeling
- He gives them to the Brahman, for the Brahman guards the sacrifice from the south: therefore he gives them to the Brahman. To the Udgātr̥ (chanter) he gives the gold wreath, to the Hotr̥ the gold plate, to the two Adhvaryus two golden mirrors, to the Prastotr̥ (presenter) a horse, to the Maitrāvaruṇa a sterile cow, to the Brāhmaṇāchaṁsin a bull, to the Neshṭr̥ and Potr̥ two garments, to the Achāvāka (a cart) laden with barley, and yoked (with an ox) on one side, to the Agnīdh an ox 20.
२३
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः[[!!]]॥
(०) द्वा᳘दश वा त्र᳘योदश वा द᳘क्षिणा भवन्ति द्वा᳘दश वा वै त्र᳘योदश वा संव्वत्सर᳘स्य मा᳘साः संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः[[!!]]॥
(०) द्वा᳘दश वा त्र᳘योदश वा द᳘क्षिणा भवन्ति द्वा᳘दश वा वै त्र᳘योदश वा संव्वत्सर᳘स्य मा᳘साः संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति तं᳘ प्रत्य᳘क्षमा᳘प्त्वा ऽऽत्म᳘न्कुरुते॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
द्वा᳘दश वा त्र᳘योदश वा द᳘क्षिणा भवन्ति द्वा᳘दश वा वै त्र᳘योदश वा संवत्सर᳘स्य मा᳘साः संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यज्ञ᳘म् प्रत्य᳘क्षमाप्नोति त᳘म् प्रत्य᳘क्षमाॗप्त्वात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
ता वा ऽएताः द्वादश वा त्रयोदश वा दक्षिणा भवन्ति । द्वादश वा वै त्रयोदश वा सम्वत्सरस्य मासाः । सम्वत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । तद् यज्ञं प्रत्यक्षमाप्नोति । तम्प्रत्यक्षमाप्त्वा ऽऽत्मन् कुरुते ॥ २३ ॥
सायणः
ता एता दक्षिणाः सम्भूय संवत्सरात्मना प्रशंसति- ता वा एता द्वादशेति । पष्ठौह्यादयो ऽनडुदन्ता द्वादश दक्षिणाः; बालगर्भिणीनां गवां दक्षिणात्वाद्वालगर्भिणीनामपि दक्षिणात्वेन परिगणने त्रयोदश भवन्ति; संवत्सरस्यापि द्वादश चैत्रादयः अधिकमासेन सह त्रयोदश मासा भवन्ति । तस्मादेताभिर्दक्षिणाभिर्यज्ञरूपं संवत्सरमेवाप्तवान् भवतीत्यर्थः ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे चतुर्थाध्याये पञ्चमं ब्राह्मणम् ॥ (५-४ ५) ॥
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे चतुर्थाध्यायः समाप्तः ॥५-४॥
Eggeling
- Now there are here either twelve or thirteen 21 presents,–for either twelve or thirteen are there months in the year, and the year is Prajāpati, and Prajāpati is the sacrifice: thus he visibly obtains the sacrifice, and having visibly obtained it he makes it his own.
-
स᳘म्भृतो भवति ABC. ↩︎
-
सोऽस्य᳘ गर्भं A. B pr. m. Sây. सोऽस्य भ᳘र्गं B sec. m. C. Bodl. Wils. 452. ↩︎
-
113:1 In the Black Yajus ritual the order of deities to whom the ‘saṁsr̥pāṁ havīṁshi’ are offered is as follows,–Agni, Sarasvatī, Savitr̥, Pūshan, Br̥haspati, Indra, Varuṇa, Soma, Tvashṭr̥, Vishṇu. Cf. Taitt. S. I, 8, 17; Taitt. Br. I, 8, 1. ↩︎
-
113:2 Or, with Indra, for (the lost vigour) itself. Hardly, ‘for us.’ The Kāṇva text has ‘indreṇāsmai,’ and so Sāyaṇa (MS. I. O 657): asmai apasr̥tāya vīryāya tadadhīnakaraṇārtham indreṇa; yad vā vibhaktivyatyayaḥ, anena vīryeṇa vīryavatā indreṇa. ↩︎
-
114:1 It seems rather strange that Varuṇa and Vishṇu should be included amongst the deities, with whose help Varuṇa sought to recover his vigour, or Vishṇu the sacrifice; but–’Twere to consider too curiously, to consider so. ↩︎
-
114:2 That is, daśa (ten) and peya (drink, beverage). ↩︎
-
114:3 For an explanation of the noiseless mode of moving with bent bodies, called sarpaṇam, ‘creeping,’ see part ii, pp. 299, 450. It is in this way they are to move when they betake themselves to the respective fire-places for performing the saṁsr̥p oblations; as they also do when betaking themselves to the Sadas to drink the cups of Soma at the Soma-feast on the next day. When libations of Soma-juice are made from the ten cups (camasa, see part ii, p. 287), each cup is to be followed by ten Brāhmans who then take part in consuming the liquor in the Sadas–there being thus altogether one hundred Brāhmans taking part in these potations. The contents of the Sacrificer’s cup, on the other hand, may be drunk by ten Rajanyas (i.e. himself and nine others). See Kāty. XV, 8, 18-20; Taitt. S., vol. ii, p. 179. ↩︎
-
114:4 Sāyaṇa takes this literally as meaning that he is to call out the name of the Sacrificer’s grandfather, then the grandfather of that one and so on. The commentary on Kāty. XV, 8, 16, on the other hand, apparently takes it to mean ten forefathers of the Sacrificer who have performed Soma-sacrifices, from the grandfather upwards. ↩︎
-
114:5 That is, an excessive demand, or, a weighing down, or crushing of the Sacrificer, making it impossible for him to perform the ceremony at all. ↩︎
-
115:1 That is to say, after pronouncing the mantra, Vāj. S. X, 30. agreeing partly with paragraph 2 above, viz. beginning, ‘By Savitr̥, the impeller; by Sarasvatī, speech,’ . . . and ending, ‘by Vishṇu, the tenth deity, impelled I steal forth.’ ↩︎
-
115:2 For the Udavasānīyā ishṭi, see part ii, p. 389. ↩︎
-
115:3 The lotus-flowers presented on this occasion are gold ones, according to Sāyaṇa, or optionally ordinary white or gold ones, according to Kāty. XV, 8, 5-6. ↩︎
-
116:1 For the Upasad, or preliminary oblations of ghee to Agni, Soma, and Vishṇu, to be performed twice daily for (usually) three days preceding an ordinary Soma-sacrifice, see part ii, p. 104. At the Daśapeya, the ten Saṁsr̥p-oblations take as it were the place of the ordinary Upasads, the latter being performed on the last three preliminary days along with, and to the same deities as, the last three Saṁsr̥p-oblations; or, according to some authorities, being substituted for them. There seems also some difference of opinion as to the exact time when the other preliminary ceremonies–the procession and entrance of king Soma, the guest-meal, &c.–are to take place, see paragraph 15.–According to Kāty. XV, 8,14, these ceremonies are to take place on the seventh day (which the commentator, however, takes to mean the seventh day of the light fortnight of Caitra; the first seven Saṁsr̥p-oblations being, according to him, performed on the day before). The Kāṇvas, however, perform these offerings on separate days.–The Taittirīya authorities seem also to be at variance with each other as to the exact relation of the Upasads and the last three Saṁsr̥p-oblations, the deities of the two being, according to their scheme, only partly identical. According to Āpastamba (and Taitt. Br.) the first seven Saṁsr̥ps are performed on so many days and, moreover, one Dīkshā on the seventh day. Then on the last three days the Saṁsr̥ps and Upasads are combined in this way, that the eighth day’s Saṁsr̥p is performed previous to, the ninth between, the tenth after the two daily Upasad-performances.–Each of the ten oblations also requires a special set of fires for its performance, the first being laid down immediately north of the one used for the Abhishecanīya ceremony, the second immediately north of the first, &c. the last Saṁsr̥p-oblation being performed in the fire-shed (śālā) of the Daśapeya proper. Kāty. XV, 8, 2-3; cf. Taitt. S., vol. ii, p. 176. ↩︎
-
117:1 Namely, at the beginning of the Abhishecanīya, or Consecration-ceremony, when Soma-plants are purchased sufficient to last for both that ceremony and the succeeding Daśapeya; the portion destined for the latter ceremony being meanwhile deposited in the Brahman’s house. ↩︎
-
यथेष्टि Sây. see २. ३. ७. णा᳘य ऋषभं A. B sec. m. ↩︎
-
118:1 All the chants (stotra) of the Daśapeya are to be executed in the seventeenfold mode of chanting, or Saptadaśa-stoma; for an example of which see part ii, p. 315, note 1. ↩︎
-
119:1 See p. 8, note 1. ↩︎
-
ब्रह्मणे ददात्यँ शुवद्दक्षिणा । का. श्रौ. सू, १५ । २३९ । ↩︎ ↩︎
-
“गौश्चानडुद्भवति” इति काण्वपाठात् । इति कर्कभाष्ये । सूत्रन्तु “गामग्नीधे” इत्येव । ↩︎
-
119:2 The text has ‘gam agnīdhe,’ i.e. either ‘a bull,’ or ‘a cow. So also Katy. XV. 8, 27. Sāyaṇa, however, refers to another authority,–anaḍvāham agnīdha iti sūtritam, . . . vahnir vā anaḍvan iti hi taittirīyakam. ↩︎
-
119:3 That is, according to Sāyaṇa, counting the unborn calves. ↩︎