०१

विश्वास-प्रस्तुतिः

मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] प्र᳘चरति॥
त᳘स्या ऽअ᳘निष्ट ऽएव᳘ स्विष्टकृ᳘द्भवत्य᳘थास्मा ऽआसन्दीमा᳘हरन्त्युपरिस᳘द्यं वा᳘ ऽएष᳘ जयति यो ज᳘यत्यन्तरिक्षस᳘द्यं त᳘देनमुपर्या᳘सीनमध᳘स्तादिमाः᳘ प्रजा ऽउ᳘पासते त᳘स्मादस्मा ऽआसन्दीमा᳘हरन्ति[[!!]] सैषा᳘ खादिरी व्वि᳘तृण्णा भवति᳘ येयं व्व᳘र्ध्रव्यूता भरता᳘नाम्॥

मूलम् - श्रीधरादि

मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] प्र᳘चरति॥
त᳘स्या ऽअ᳘निष्ट ऽएव᳘ स्विष्टकृ᳘द्भवत्य᳘थास्मा ऽआसन्दीमा᳘हरन्त्युपरिस᳘द्यं वा᳘ ऽएष᳘ जयति यो ज᳘यत्यन्तरिक्षस᳘द्यं त᳘देनमुपर्या᳘सीनमध᳘स्तादिमाः᳘ प्रजा ऽउ᳘पासते त᳘स्मादस्मा ऽआसन्दीमा᳘हरन्ति[[!!]] सैषा᳘ खादिरी व्वि᳘तृण्णा भवति᳘ येयं व्व᳘र्ध्रव्यूता भरता᳘नाम्॥

मूलम् - Weber

मैत्रावरुण्या᳘ पयस्य᳘या प्र᳘चरति॥
त᳘स्या अ᳘निष्ट एव᳘ स्विष्टकृ᳘द्भवत्य᳘थास्मा आसन्दीमा᳘हरन्त्युपरिस᳘द्यं वा᳘ एष᳘ जयति यो ज᳘यत्यन्तरिक्षस᳘द्यं त᳘देनमुपर्यासीनमध᳘स्तादिमाः᳘ प्रजा उ᳘पासते त᳘स्मादस्मा आसन्दीमा᳘हरन्तिॗ सैषा᳘ खादिरी वि᳘तृणा भवतिॗ येयं व᳘र्ध्रव्युता भरता᳘नाम् 1

मूलम् - विस्वरम्

मैत्रावरुण्या पयस्यया प्रचरति । तस्या अनिष्ट एव स्विष्टकृद्भवति । अथास्मा आसन्दीमाहरन्ति । उपरिसद्यं वा ऽएष जयति । यो जयत्यन्तरिक्षसद्यम् । तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते । तस्मादस्मा ऽआसन्दीमाहरन्ति । सैषा खादिरी वितृण्णा भवति- येयं वर्ध्रव्यूता भरतानाम् ॥ १ ॥

सायणः

अथ पयस्यायाः प्रचारं विधत्ते- मैत्रावरुण्येति 2 । तस्या अनिष्ट इति । ‘तस्याः’ पयस्यायाः स्विष्टकृत् ‘अनिष्टः’ अहुतो भवति, प्राक् स्विष्टकृत इत्यर्थः । विधत्ते- अथास्मा आसन्दीमिति । आसन्दीलक्षणं पूर्वमुक्तम् । आसन्द्याहरणं प्रशंसति- उपरिसद्यमिति । एतद्वाक्यं वाजपेये व्याख्यातम् (श. प. ५ । २। १ । २२ भा.) तस्याः वृक्षविशेषगुणान्तरं वाक्यभेदमङ्गीकृत्य विधत्ते- सैषा खादिरीति । ‘वितृण्णा’ सच्छिद्रा भवेत् । तस्या आसन्द्या रज्जुव्यूतत्वमस्ति, तत्र यजमानविशेषेण रज्जुविशेषं दर्शयति- येयमिति । ‘वर्ध्रव्यूता’ वर्ध्राश्चर्मरज्जवः, ताभिर्व्यूता सन्नद्धा भवति ‘भरतानाम्’ ‘अन्येषान्तु रज्जुमात्रम् । कात्यायनो निर्विशेषं सूत्रयामास- “खादिरीमासन्दीं रज्जुताम्" (का. श्रौ. सू. १५ । १८७) इति ॥ १ ॥

Eggeling
  1. He proceeds with the curds for Mitra-Varuṇa. Whilst the Svishṭakr̥t of it remains yet unoffered, they bring a throne-seat for him (the king); for truly he who gains a seat in the air, gains a seat above (others): thus these subjects of his sit below him who is seated above,–that is why they bring him a throne-seat. It is of khadira (acacia catechu) wood, and perforated, and bound with thongs as that of the Bhāratas.

०२

विश्वास-प्रस्तुतिः

ताम᳘ग्रेण॥
मैत्रावरुण᳘स्य धि᳘ष्ण्यं नि᳘दधाति स्यो᳘ना ऽसि सुष᳘दा ऽसी᳘ति शिवा᳘मे᳘वैत᳘च्छग्मां᳘ करोति॥

मूलम् - श्रीधरादि

ताम᳘ग्रेण॥
मैत्रावरुण᳘स्य धि᳘ष्ण्यं नि᳘दधाति स्यो᳘ना ऽसि सुष᳘दा ऽसी᳘ति शिवा᳘मे᳘वैत᳘च्छग्मां᳘ करोति॥

मूलम् - Weber

ताम᳘ग्रेण॥
मैत्रावरुण᳘स्य धि᳘ष्ण्यं नि᳘दधाति स्योॗनासि सुष᳘दासी᳘ति शिवा᳘मेॗवैत᳘छग्मां᳘ करोति॥

मूलम् - विस्वरम्

तामग्रेण मैत्रावरुणस्य धिष्ण्यं निदधाति । “स्योना ऽसि सुषदा ऽसि”- इति । शिवामेवै तच्छग्मां करोति ॥ २ ॥

सायणः

तस्या निधानप्रदेशं विधत्ते- तामग्रेणेति । मन्त्रं विधत्ते- स्योनेति 2 । हे आसन्दि ! ‘स्योना’ सुखरूपा ‘असि’, ‘सुषदा’ सुषदनयोग्या ‘असि’ । मन्त्रं विवृणोति- शिवामिति । ‘शग्मां’ सुखकरीम् ॥ २ ॥

Eggeling
  1. He places it (on the tiger’s skin), in front of the Maitrāvaruṇa’s hearth, with (Vāj. S. X, 26), ‘Thou art pleasant, thou art soft-seated!’–he thereby renders it kindly and auspicious.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाधीवासमा᳘स्तृणाति॥
क्षत्र᳘स्य यो᳘निरसी᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य यो᳘निस्ता᳘मे᳘वैत᳘त्करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाधीवासमा᳘स्तृणाति॥
क्षत्र᳘स्य यो᳘निरसी᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य यो᳘निस्ता᳘मे᳘वैत᳘त्करोति॥

मूलम् - Weber

अ᳘थाधीवासमा᳘स्तृणाति॥
क्षत्र᳘स्य यो᳘निरसी᳘ति तॗद्यैव᳘ क्षत्र᳘स्य यो᳘निस्ता᳘मेॗवैत᳘त्करोति॥

मूलम् - विस्वरम्

अथाधीवासमास्तृणाति- “क्षत्रस्य योनिरसि”- इति । तद्यैव क्षत्रस्य योनिस्तामेवैतत्करोति ॥ ३ ॥

सायणः

विधत्ते- अथाधीवासमिति 3 । ‘अधीवासः’ आस्तरणम्, चित्रकम्बलादिकम् । क्षत्रस्येति । एष मन्त्रो व्याख्यातः (श. प. ५ । ३ । ५ । २२ । भा.) ॥ ३ ॥

Eggeling
  1. He then spreads a mantle over it, with, ‘Thou art the womb (seat) of knighthood!’–he thus

makes it (the king’s throne) the very womb of knighthood.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमा᳘सादयति॥
स्योनामा᳘सीद सुष᳘दामा᳘सीदे᳘ति शिवा᳘ᳫँ᳘ शग्मामा᳘सीदे᳘त्ये᳘वैत᳘दाह क्षत्र᳘स्य यो᳘निमा᳘सीदे᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य यो᳘निस्त᳘स्यामे᳘वैनमेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमा᳘सादयति॥
स्योनामा᳘सीद सुष᳘दामा᳘सीदे᳘ति शिवा᳘ᳫँ᳘ शग्मामा᳘सीदे᳘त्ये᳘वैत᳘दाह क्षत्र᳘स्य यो᳘निमा᳘सीदे᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य यो᳘निस्त᳘स्यामे᳘वैनमेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थैनमा᳘सादयति॥
स्योनामा᳘सीद सुष᳘दामा᳘सीदे᳘ति शिवां᳘ शग्मामा᳘सीदे᳘त्येॗवैत᳘दाह क्षत्र᳘स्य यो᳘निमा᳘सीदे᳘ति तॗद्यैव᳘ क्षत्र᳘स्य यो᳘निस्त᳘स्यामेॗवैनमेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथैनमासादयति- “स्योनामासीद सुषदामासीद"- इति । शिवां शग्मामासीदेत्येवैतदाह । “क्षत्रस्य योनिमासीद”- (वा. सं. १० । २६) इति । तद्यैव क्षत्रस्य योनिस्तस्यामेवैनमेतद्दधाति ॥ ४ ॥

सायणः

अस्यां सुन्वत उपवेशनं समन्त्रकं विधत्ते- अथैनमिति । ‘आसादयति’ उपवेशयतीत्यर्थः 3 । हे यजमान ! ‘स्योनां’ सुखरूपाम् आसन्दीम् ‘आसीद’ आरोह, सुखसाधनयोग्यामधितिष्ठेत्यर्थः । “क्षत्रस्य योनिमासीद” इति उपवेशनमन्त्रस्योत्तरभागः । अधीवासस्तरणे ‘क्षत्रस्य योनिः’ अधीवासः, तमारोहेत्यर्थः ॥ ४ ॥

Eggeling
  1. He then makes him sit down on it, with, ‘Seat thee on the pleasant one! seat thee on the soft-seated!’–whereby he says, ‘Seat thyself on the kindly and auspicious (seat)!’–‘Seat thee in the womb of knighthood!’–thus he places him in what is the very womb of knighthood.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थान्तरा᳘ᳫँ᳘ से ऽभिमृ᳘श्य जपति॥
नि᳘षसाद धृत᳘व्रत इ᳘ति धृत᳘व्रतो वै रा᳘जा न वा᳘ ऽएष स᳘र्व्वस्मा ऽइव व᳘दनाय न स᳘र्वस्मा ऽइव क᳘र्मणे य᳘देव᳘ साधु व्व᳘देद्य᳘त्साधु᳘ कुर्यात्त᳘स्मै वा᳘ ऽएष᳘ च श्रो᳘त्रियश्चैतौ᳘ ह वै द्वौ᳘ मनु᳘ष्येषु धृत᳘व्रतौ त᳘स्मादाह नि᳘षसाद धृत᳘व्रत ऽइ᳘ति व्व᳘रुणः प᳘स्त्यास्वे᳘ति व्वि᳘शो वै᳘ प᳘स्त्या व्विक्ष्वे᳘त्ये᳘वैत᳘दाह सा᳘म्राज्याय सुक्र᳘तुरि᳘ति राज्याये᳘त्ये᳘वैत᳘दाह यदा᳘ह सा᳘म्राज्याय सुक्र᳘तुरिति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थान्तरा᳘ᳫँ᳘ से ऽभिमृ᳘श्य जपति॥
नि᳘षसाद धृत᳘व्रत इ᳘ति धृत᳘व्रतो वै रा᳘जा न वा᳘ ऽएष स᳘र्व्वस्मा ऽइव व᳘दनाय न स᳘र्वस्मा ऽइव क᳘र्मणे य᳘देव᳘ साधु व्व᳘देद्य᳘त्साधु᳘ कुर्यात्त᳘स्मै वा᳘ ऽएष᳘ च श्रो᳘त्रियश्चैतौ᳘ ह वै द्वौ᳘ मनु᳘ष्येषु धृत᳘व्रतौ त᳘स्मादाह नि᳘षसाद धृत᳘व्रत ऽइ᳘ति व्व᳘रुणः प᳘स्त्यास्वे᳘ति व्वि᳘शो वै᳘ प᳘स्त्या व्विक्ष्वे᳘त्ये᳘वैत᳘दाह सा᳘म्राज्याय सुक्र᳘तुरि᳘ति राज्याये᳘त्ये᳘वैत᳘दाह यदा᳘ह सा᳘म्राज्याय सुक्र᳘तुरिति[[!!]]॥

मूलम् - Weber

अ᳘थान्तराॗᳫंॗसे ऽभिमृ᳘श्य जपति॥
नि᳘षसाद घृत᳘व्रत इ᳘ति घृत᳘व्रतो वै राजा न वा᳘ एष स᳘र्वस्मा इव व᳘दनाय न स᳘र्वस्मा इव क᳘र्मणे य᳘देव᳘ साधु व᳘देद्य᳘त्साधु᳘ कुर्यात्त᳘स्मै वा᳘ एष᳘ च श्रो᳘त्रियश्चैतौ᳘ ह वै द्वौ᳘ मनुष्येषु घृत᳘व्रतौ त᳘स्मादाह नि᳘षसाद घृत᳘व्रत इ᳘ति व᳘रुणः पॗस्त्यास्वे᳘ति वि᳘शो वै᳘ पॗस्त्या विक्ष्वे᳘त्येॗवैत᳘दाह सा᳘म्राज्याय सुक्र᳘तुरि᳘ति राज्याये᳘त्येॗवैत᳘दाह यदा᳘ह सा᳘म्राज्याय सुक्र᳘तुरि᳘ति॥

मूलम् - विस्वरम्

अथान्तरांसे ऽभिमृश्य जपति- “निषसाद धृतव्रतः”- इति । धृतव्रतो वै राजा । न वा ऽएष सर्वस्मा ऽइव वदनाय, न सर्वस्मा ऽइव कर्मणे । यदेव साधु वदेत्, यत् साधु कुर्यात्- तस्मै वा ऽएष च श्रोत्रियश्च । एतौ ह वै द्वौ- मनुष्येषु धृतव्रतौ । तस्मादाह- निषसाद धृतव्रत इति । “वरुणः पस्त्यास्वा”- इति । विशो वै पस्त्या । विक्ष्वेत्येवैतदाह- “साम्राज्याय सुक्रतुः”- (वा. सं. १० । २७) इति । राज्यायेत्येवैतदाह- यदाह साम्राज्याय सुक्रतुरिति ॥ ५ ॥

सायणः

हृदयदेशादिस्पर्शनपूर्वकं जपं विधत्ते- अथान्तरांस इति । ‘अन्तरांसे ’ अंसमध्ये ‘अभिमृश्य’ जपेत् 3 ॥ मन्त्रस्यायमर्थः- अयं यष्टा ‘धृतव्रतः’ स्वीकृतयज्ञः, नियमितवचनादिव्यापारो ‘वरुणः’ अनिष्टनिवारको भूत्वा ‘निषसाद’ अस्यामासन्द्यामुपरिदेशे । ‘पस्त्यासु’ बहुषु वैरिगृहेषु, ‘विक्षु’ प्रजासु चागत्य साम्राज्यं कर्त्तुं ‘सुक्रतुः’ शोभनसङ्कल्पो भवतु ॥

मन्त्रं प्रतिपादमनूद्य व्याचष्टे- धृतव्रतो वै राजेति । धृतव्रतत्वं दर्शयति- न वा एष, इति । ‘एषः’ सुन्वन् ‘सर्वस्मै’ ‘वदनाय’ वाक्याय, असम्बद्धप्रलापायेत्यर्थः । तथा अनुपयुक्तकर्मणे वा योग्यो न भवति । कस्मै योग्य इति तदाह- यदेवेति । तस्मै साधुवदनाय साधुकर्मणे च ‘एषः’ सुन्वन् राजा, ‘श्रोत्रियश्च’ ब्राह्मणः, उभावर्हौ भवतः । एतयोर्नियतव्रतत्वमाह- एतौ ह वा इति । ‘मनुष्येषु’ मध्ये ‘एतौ’ एव ‘धृतव्रतौ’ श्रोत्रियो ऽपि न बहुभाषो नासाधुकर्मकारी । ‘पस्त्या’- शब्दार्थमाह- विशो वा इति ॥ ५ ॥

Eggeling
  1. Having touched him on the chest, he then mutters (Vāj. S. X, 27; R̥k S. I, 25, 10), ‘He hath sat down, the upholder of the sacred law,’–the king indeed is the upholder of the sacred law, for he is not capable of all and every speech, nor of all and every deed; but that he should speak only what is right, and do what is right, of that he, as well as the Śrotriya (the Brāhman versed in sacred writ), is capable; for these two are the upholders of the sacred law among men: therefore he says, ‘He hath sat down, the upholder of the sacred law;’–‘Varuṇa, in the home-steads,’–the home-steads are the peasants (clans, people): ‘among the peasants’ he means to say;–‘for supreme rule, he the wise!’–‘for kingship’ he means to say when he says, ‘for supreme rule, he the wise.’

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्मै प᳘ञ्चाक्षा᳘न्पाणावा᳘वपति। (त्य) अभिभू᳘रस्येता᳘स्ते प᳘ञ्च दि᳘शः कल्पन्तामि᳘त्येष वा ऽअ᳘यानभिभूर्यत्क᳘लिरेष᳘ हि स᳘र्व्वान᳘यानभिभ᳘वति त᳘स्मादाहाभिभू᳘रसी᳘त्येता᳘स्ते प᳘ञ्च दि᳘शः कल्पन्तामि᳘ति प᳘ञ्च वै दि᳘शस्त᳘दस्मै स᳘र्व्वा ऽएव दि᳘शः कल्पयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्मै प᳘ञ्चाक्षा᳘न्पाणावा᳘वपति। (त्य) अभिभू᳘रस्येता᳘स्ते प᳘ञ्च दि᳘शः कल्पन्तामि᳘त्येष वा ऽअ᳘यानभिभूर्यत्क᳘लिरेष᳘ हि स᳘र्व्वान᳘यानभिभ᳘वति त᳘स्मादाहाभिभू᳘रसी᳘त्येता᳘स्ते प᳘ञ्च दि᳘शः कल्पन्तामि᳘ति प᳘ञ्च वै दि᳘शस्त᳘दस्मै स᳘र्व्वा ऽएव दि᳘शः कल्पयति॥

मूलम् - Weber

अ᳘थास्मै प᳘ञ्चाक्षा᳘न्पाणावा᳘वपति अभिभू᳘रस्येता᳘स्ते प᳘ञ्च दि᳘शः कल्पन्तामि᳘त्येष वा अ᳘यानभिभूर्यत्क᳘लिरेष हि स᳘र्वान᳘यानभिभ᳘वति त᳘स्मादाहाभिभू᳘रसी᳘त्येता᳘स्त प᳘ञ्च दि᳘शः कल्पन्तामि᳘ति प᳘ञ्च वै दि᳘शस्त᳘दस्मै स᳘र्वा एव दि᳘शः कल्पयति॥

मूलम् - विस्वरम्

अथास्मै पञ्चाक्षान् पाणावावपति- “अभिभूरस्येतास्ते पञ्च दिशः कल्पन्ताम्”- इति । एष वा ऽअयानभिभूः- यत्कलिः- एष हि सर्वानयानभिभवति । तस्मादाह- अभिभूरसीति । एतास्ते पञ्च दिशः कल्पन्तामिति । पञ्च वै दिशः । तदस्मै सर्वा एव दिशः कल्पयति ॥ ६ ॥

सायणः

यजमानहस्ते पञ्चाक्षावापं च विधत्ते- अथास्मा इति 4 । अक्षा नाम कपर्द्दकाः सुवर्णनिर्मिताः, विभीतकफलानि सौवर्णानि वेत्येके ते चाक्षा द्यूतस्थाने निवपनीयाः । तेषां चतुर्णामक्षाणां ‘कृत’-सञ्ज्ञा, पञ्चानां ‘कलि’ सञ्ज्ञा 5 । तथा च शाखान्तरे स्तोमसङ्ख्यायां कृतादिव्यवहारः कृतः- “ये वै चत्वारः स्तोमाः कृतं तत् अथ ये पञ्च कलिः सः”- इति । यदा पञ्चाप्यक्षा उत्ताना भवन्ति, तदा देवितुर्जयो भवति, पञ्चसु त्वेकरूपासु जय एव भविष्यतीत्यन्यत्रोक्तम् । अतः कलेः सर्वाक्षाभिभावुकत्वात्, सुन्वतो ऽपि जयापेक्षत्वात्पञ्चाक्षनिवाप इत्यर्थः । तथा च मन्त्रे कलिर्वा तत्सम्बन्धाद् यजमानो वा उच्यते । हे यजमान ! ‘अभिभूः’ इतरेषामक्षाणामभिभविता भवसि । तदर्थम् ‘एताः पञ्च दिशः कल्पन्ताम्’ स्वाधीना भवन्त्विति । मन्त्रं व्याचष्टे- एष वा अयानिति । अयशब्दो ऽक्षवाची; ‘कलिर्हि सर्वान् अयान् अभिभवति;’ अधिकसंख्यत्वात् एषो ऽपि यजमानस्तत्सम्बन्धादभिभावुको भवतीत्यर्थः ॥

पञ्चदिग्विजयसङ्कल्पसिद्धिमेव दर्शयति- पञ्च वै दिश इति ॥ ६ ॥

Eggeling
  1. He then throws the five dice 6 into his hand,

with (Vāj. S. X, 28), ‘Dominant thou art: may these five regions of thine prosper!’–now that

one, the Kali, is indeed dominant over the (other) dice, for that one dominates over all the dice: therefore he says, ‘Dominant thou art: may these five regions of thine prosper!’ for there are indeed five regions, and all the regions he thereby causes to prosper for him.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं पृष्ठत᳘स्तूष्णी᳘मेव᳘ दण्डै᳘र्घ्नन्ति॥
तं᳘ दण्डैर्घ्न᳘न्तो दण्डवधम᳘तिनयन्ति त᳘स्माद्रा᳘जा ऽदण्ड्यो[[!!]] य᳘देनं दण्डवध᳘मतिन᳘यन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं पृष्ठत᳘स्तूष्णी᳘मेव᳘ दण्डै᳘र्घ्नन्ति॥
तं᳘ दण्डैर्घ्न᳘न्तो दण्डवधम᳘तिनयन्ति त᳘स्माद्रा᳘जा ऽदण्ड्यो[[!!]] य᳘देनं दण्डवध᳘मतिन᳘यन्ति॥

मूलम् - Weber

अ᳘थैनम् पृष्ठत᳘स्तूष्णी᳘मेव᳘ दण्डै᳘र्घ्नन्ति॥
तं दण्डैर्घ्न᳘न्तो दण्डबधम᳘तिनयन्ति त᳘स्माद्रा᳘जा᳘दण्ड्यो य᳘देनं दण्डबध᳘मतिन᳘यन्ति॥

मूलम् - विस्वरम्

अथैनं पृष्ठतस्तूष्णीमेव दण्डैर्घ्नन्ति । तं दण्डैर्घ्नन्तो दण्डवधमतिनयन्ति । तस्माद्राजा ऽदण्ड्यो यदेनं दण्डवधमतिनयन्ति ॥ ७ ॥

सायणः

विधत्ते- अथैनमिति । ‘दण्डैः’ यज्ञियवृक्षकाष्ठैः ‘एनं’ सुन्वन्तं ‘पृष्ठतः’ पश्चाद्भागे ‘तूष्णीम्’ अमन्त्रकं ‘घ्नन्ति’ हन्युः । अत्र सूत्रकृत्समन्त्रकमवहननं शाखान्तरीयमन्त्रञ्च विकल्पेन दर्शयामास- “पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नन्ति पाप्मानं ते ऽपहन्मो ऽति त्वा वधं नयामीति वा”- (का. श्रौ. सू. १५ । १९१ । १९२) इति । तं दण्डैरिति । सुन्वतो दण्डवधेन अन्यकर्तृकस्य दण्डवधस्य प्रापणमेव कृतवन्तो भवन्ति, तस्माद् राज्ञो दण्डाभावः यथा राजा स्वा अपराद्धाः प्रजा दण्डयति, एवं स्वयं न दण्ड्य इत्यर्थः ॥ ७ ॥

Eggeling
  1. They (the Adhvaryu and his assistants) then silently strike him with sticks on the back;–by beating him with sticks (daṇḍa) they guide him safely over judicial punishment (daṇḍabadha): whence the king is exempt from punishment (adaṇḍya), because they guide him safely over judicial punishment.

०८

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ व्व᳘रं वृणीते॥
य᳘ᳫँ᳘ ह वै कं᳘ च सुषुवाणो व्व᳘रं वृणीते᳘ सो ऽस्मै स᳘र्वः स᳘मृध्यते त᳘स्माद्व᳘रं वृणीते॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ व्व᳘रं वृणीते॥
य᳘ᳫँ᳘ ह वै कं᳘ च सुषुवाणो व्व᳘रं वृणीते᳘ सो ऽस्मै स᳘र्वः स᳘मृध्यते त᳘स्माद्व᳘रं वृणीते॥

मूलम् - Weber

अ᳘थ व᳘रं वृणीते॥
य᳘ᳫं᳘ ह वै कं᳘ च सुषुवाणो व᳘रं वृणीतेॗ सो ऽस्मै स᳘र्वः स᳘मृध्यते त᳘स्माद्व᳘रं वृणीते॥

मूलम् - विस्वरम्

अथ वरं वृणीते । यं ह वै कं च सुषुवाणो वरं वृणीते सो ऽस्मै सर्वः समृध्यते । तस्माद्वरं वृणीते ॥ ८ ॥

सायणः

विधत्ते- अथ वरमिति । ‘वरं’ ‘वृणीते’ याचते, यजमानः कर्त्ता । वरवरणं प्रशंसति- यं ह वै कञ्चेति ॥ ८ ॥

Eggeling
  1. Thereupon he chooses a boon; and, verily, whatsoever boon he who has been anointed chooses, that is completely fulfilled for him: therefore he chooses a boon.

०९

विश्वास-प्रस्तुतिः

स ब्र᳘ह्मन्नि᳘त्येव᳘ प्रथममा᳘मन्त्रयते॥
ब्र᳘ह्म प्रथम᳘मभिव्या᳘हराणि ब्र᳘ह्मप्रसूतां व्वा᳘चं व्वदानी᳘ति त᳘स्माद् ब्र᳘ह्मन्नि᳘त्येव᳘ प्रथममा᳘मन्त्रयते त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याह सविता᳘ ऽसि सत्य᳘प्रसव ऽइ᳘ति व्वी᳘र्यमे᳘वास्मिन्नेत᳘द्दधाति सविता᳘रमेव᳘ सत्य᳘प्रसवं करोति॥

मूलम् - श्रीधरादि

स ब्र᳘ह्मन्नि᳘त्येव᳘ प्रथममा᳘मन्त्रयते॥
ब्र᳘ह्म प्रथम᳘मभिव्या᳘हराणि ब्र᳘ह्मप्रसूतां व्वा᳘चं व्वदानी᳘ति त᳘स्माद् ब्र᳘ह्मन्नि᳘त्येव᳘ प्रथममा᳘मन्त्रयते त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याह सविता᳘ ऽसि सत्य᳘प्रसव ऽइ᳘ति व्वी᳘र्यमे᳘वास्मिन्नेत᳘द्दधाति सविता᳘रमेव᳘ सत्य᳘प्रसवं करोति॥

मूलम् - Weber

स ब्र᳘ह्मन्नि᳘त्येव᳘ प्रथममा᳘मन्त्रयते॥
ब्र᳘ह्म प्रथम᳘मभिव्या᳘हराणि ब्र᳘ह्मप्रसूतां वा᳘चं वदानी᳘ति त᳘स्माद्ब्र᳘ह्मन्नि᳘त्येव प्रथममा᳘मन्त्रयते त्व᳘म् ब्रॗह्मासीती᳘तरः प्र᳘त्याह सविता᳘सि सत्य᳘प्रसव इ᳘ति वी᳘र्यमेॗवास्मिन्नेत᳘द्दधाति सविता᳘रमेव᳘ सत्य᳘प्रसवं करोति॥

मूलम् - विस्वरम्

“ब्रह्मन्”- इत्येव प्रथममामन्त्रयते- ब्रह्म प्रथममभिव्याहराणि । ब्रह्मप्रसूतां वाचं वदानीति । तस्माद्ब्रह्मन्नित्येव प्रथममामन्त्रयते । “त्वं ब्रह्मासि”- इतीतरः प्रत्याह । “सविता ऽसि सत्यप्रसवः”- इति । वीर्यमेवास्मिन्नेतद्दधाति । सवितारमेव सत्यप्रसवं करोति ॥ ९ ॥

सायणः

कात्यायनः- “वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः, प्रत्याह व्यत्यासँ सविता वरुण इन्द्रो रुद्र इति, त्वं ब्रह्मासीत्यादिभिः” (का. श्रौ. सू. १५ । १९३ । १९४) इति । अस्यार्थः- यजमानो वरं वृत्वा ब्रह्मन्निति पदं पञ्चकृत्वो वदेत् । तं सुन्वन्तं सवितृवरुणेन्द्ररुद्रवाचकैस्त्वं ब्रह्मासीत्यादिभिश्चतुर्भिर्मन्त्रैरितरः प्रतिवदेत्, पञ्चमामन्त्रणे केवलं त्वं ब्रह्मासीति प्रतिवदेदिति । तदिदं क्रमेण विधत्ते- स ब्रह्मन्निति । ‘प्रथमं’ पूर्वम् प्रथममिति । स्पष्टो ऽर्थः । प्रथमप्रतिवचनमन्त्रस्यायमर्थः- हे यजमान ! ‘त्वं ब्रह्मा असि’ ‘सत्यप्रसवः’ यथार्थाभ्यनुज्ञः ‘सविता असि’ ‘इति’ प्रथमामन्त्रयितारं सुन्वन्तं ब्रह्मा प्रतिब्रूयात्, सवित्रादिवाचकैः मन्त्रैः प्रतिवचनेन यजमानं तत्तद्देवतात्मकत्वेन कृतवान् भवतीत्यर्थः ॥ ९ ॥

Eggeling
  1. ‘O Brahman!’ thus he addresses (the priest) the first time 7, thinking, ‘I will first utter the (word)

Brahman, I will speak speech sped by the Brahman:’ this is why he first addresses him with ‘O Brahman!’ The other answers, ‘Thou art Brahman! Thou art Savitr̥ of true impulsion!’–he thereby lays vigour into him, and causes Savitr̥ to be of true impulsion.

१०

विश्वास-प्रस्तुतिः

ब्र᳘ह्मन्नि᳘त्येव᳘ द्विती᳘यमा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याह व्व᳘रुणो ऽसि सत्यौ᳘जा इ᳘ति व्वी᳘र्यमे᳘वास्मिन्नेत᳘द्दधाति[[!!]] व्व᳘रुणमेव᳘ सत्यौ᳘जसं करोति॥

मूलम् - श्रीधरादि

ब्र᳘ह्मन्नि᳘त्येव᳘ द्विती᳘यमा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याह व्व᳘रुणो ऽसि सत्यौ᳘जा इ᳘ति व्वी᳘र्यमे᳘वास्मिन्नेत᳘द्दधाति[[!!]] व्व᳘रुणमेव᳘ सत्यौ᳘जसं करोति॥

मूलम् - Weber

ब्र᳘ह्मन्नि᳘त्येव᳘ द्विती᳘यमा᳘मन्त्रयते॥
त्व᳘म् ब्रॗह्मासीती᳘तरः प्र᳘त्याह व᳘रुणो ऽसि सत्यौ᳘जा इ᳘ति वीर्य᳘मेॗवास्मिन्नेत᳘द्दधाति व᳘रुणमेव᳘ सत्यौ᳘जसं करोति॥

मूलम् - विस्वरम्

“ब्रह्मन्”- इत्येव द्वितीयमामन्त्रयते । “त्वं ब्रह्मासि”- इतीतरः प्रत्याह । “वरुणो ऽसि सत्यौजाः”- इति । वीर्यमेवास्मिन्नेतद्दधाति । वरुणमेव सत्यौजसं करोति ॥ १० ॥

सायणः

द्वितीयादिषु मन्त्रेषु त्वं ब्रह्मासीति पूर्ववत् । ‘सत्यौजाः’ संत्यवीर्यः ‘वरुणः’ ‘असि’ विक्षु प्रजासु ‘ओजः’ बलं यस्य, यद्वा विश एवौजो यस्येति ‘विशौजाः’ तादृशः ‘इन्द्रः’ ‘असि’ । ‘देवतापक्षे मरुतो विशः तदात्मकाः, राजपक्षे प्रजाः’ । ‘सुशेवः’ सुमुखः ‘रुद्रः’ ‘असि’ रुद्रस्य सुशेवत्वं प्रशंसति- तद्वीर्याणीति । ईशानस्य सर्वसुखकरत्वात् पूर्वमन्त्रप्रतिवचनेन यजमाने स्थापितानि वीर्याणि शमयति वीर्यवन्तम् ‘एनं’ ‘रुद्रो ऽसि सुशेवः’ इति सुखत्वप्रतिपादनात् ॥ १०-१२ ॥

Eggeling
  1. ‘O Brahman!’ thus he addresses him the second time. The other answers, ‘Thou art Brahman! Thou art Varuṇa of true power!’–he thereby lays vigour into him, and causes Varuṇa to be of true power.

११

विश्वास-प्रस्तुतिः

ब्र᳘ह्मन्नि᳘त्येव᳘ तृती᳘यमा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याहे᳘न्द्रो ऽसि व्वि᳘शौजा ऽइ᳘ति व्वीर्य᳘मे᳘वास्मिन्नेत᳘द्दधाती᳘न्द्रमेव व्वि᳘शौजसं करोति॥

मूलम् - श्रीधरादि

ब्र᳘ह्मन्नि᳘त्येव᳘ तृती᳘यमा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याहे᳘न्द्रो ऽसि व्वि᳘शौजा ऽइ᳘ति व्वीर्य᳘मे᳘वास्मिन्नेत᳘द्दधाती᳘न्द्रमेव व्वि᳘शौजसं करोति॥

मूलम् - Weber

ब्र᳘ह्मन्नि᳘त्येव᳘ तृती᳘यमा᳘मन्त्रयते॥
त्व᳘म् ब्रॗह्मासीती᳘तरः प्र᳘त्याहे᳘न्द्रो ऽसि वि᳘शौजा इ᳘ति वीर्य᳘मेॗवास्मिन्नेत᳘द्दधाती᳘न्द्रमेव वि᳘शौजसं करोति॥

मूलम् - विस्वरम्

“ब्रह्मन्” इत्येव तृतीयमामन्त्रयते । “त्वं ब्रह्मासि” इतीतरः प्रत्याह । “इन्द्रो ऽसि विशौजाः”- इति । वीर्यमेवास्मिन्नेतद्दधाति । इन्द्रमेव विशौजसं करोति ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. ‘O Brahman!’ thus he addresses him the third time. The other answers, ‘Thou art Brahman! Thou art Indra, mighty through the people 8!’–he thereby lays vigour into him, and causes Indra to be mighty through the people.

१२

विश्वास-प्रस्तुतिः

ब्र᳘ह्मन्नि᳘त्येव᳘ चतुर्थमा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याह रुद्रो᳘ ऽसि सुशे᳘व ऽइ᳘ति त᳘द्वी᳘र्याण्ये᳘वास्मिन्नेतत्पू᳘र्व्वाणि दधात्य᳘थैनमेत᳘च्छम᳘यत्येव त᳘स्मादेष स᳘र्व्वस्ये᳘शानो मृडयति य᳘देनᳫँ᳭ शम᳘यति॥

मूलम् - श्रीधरादि

ब्र᳘ह्मन्नि᳘त्येव᳘ चतुर्थमा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरः प्र᳘त्याह रुद्रो᳘ ऽसि सुशे᳘व ऽइ᳘ति त᳘द्वी᳘र्याण्ये᳘वास्मिन्नेतत्पू᳘र्व्वाणि दधात्य᳘थैनमेत᳘च्छम᳘यत्येव त᳘स्मादेष स᳘र्व्वस्ये᳘शानो मृडयति य᳘देनᳫँ᳭ शम᳘यति॥

मूलम् - Weber

ब्र᳘ह्मन्नि᳘त्येव᳘ चतुर्थमा᳘मन्त्रयते॥
त्व᳘म् ब्रॗह्मासीती᳘तरः प्र᳘त्याह रुद्रो᳘ ऽसि सुशे᳘व इ᳘ति त᳘द्वीॗर्याण्येॗवास्मिन्नेतत्पू᳘र्वाणि दधात्य᳘थैनमेत᳘छम᳘यत्येव त᳘स्मादेष स᳘र्वस्ये᳘शानो मृडयति य᳘देनं शम᳘यति॥

मूलम् - विस्वरम्

“ब्रह्मन्”- इत्येव चतुर्थमामन्त्रयते । “त्वं ब्रह्मासि”- इतीतरः प्रत्याह । “रुद्रो ऽसि खुशेवः” इति । तद्- वीर्याण्येवास्मिन्नेतत् पूर्वाणि दधाति । अथैनमेतच्छमयत्येव । तस्मादेष सर्वस्येशानो मृडयति यदेनं शमयति ॥ १२ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. ‘O Brahman!’ thus he addresses him the

fourth time. The other answers, ‘Thou art Brahman! Thou art Rudra, the most kindly!’–he thereby lays into him (the king) those former energies, and he appeases him (Rudra); and he, Rudra, therefore, is gracious to every one, because he (the priest) appeases him.

१३

विश्वास-प्रस्तुतिः

ब्र᳘ह्मन्नि᳘त्येव᳘ पञ्चममा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरो᳘ ऽनिरुक्तं प्र᳘त्याह प᳘रिमितं वै नि᳘रुक्तं तत्प᳘रिमितमे᳘वास्मिन्नेतत्पू᳘र्व्वं व्वी᳘र्यं[[!!]] दधात्यथात्रा᳘निरुक्तं प्र᳘त्याहा᳘परिमितं वा ऽअ᳘निरुक्तं तद᳘परिमितमे᳘वास्मिन्नेतत्स᳘र्व्वं व्वी᳘र्यं[[!!]] दधाति त᳘स्मादत्रा᳘निरुक्तं प्र᳘त्याह॥

मूलम् - श्रीधरादि

ब्र᳘ह्मन्नि᳘त्येव᳘ पञ्चममा᳘मन्त्रयते॥
त्वं᳘ ब्र᳘ह्मासीती᳘तरो᳘ ऽनिरुक्तं प्र᳘त्याह प᳘रिमितं वै नि᳘रुक्तं तत्प᳘रिमितमे᳘वास्मिन्नेतत्पू᳘र्व्वं व्वी᳘र्यं[[!!]] दधात्यथात्रा᳘निरुक्तं प्र᳘त्याहा᳘परिमितं वा ऽअ᳘निरुक्तं तद᳘परिमितमे᳘वास्मिन्नेतत्स᳘र्व्वं व्वी᳘र्यं[[!!]] दधाति त᳘स्मादत्रा᳘निरुक्तं प्र᳘त्याह॥

मूलम् - Weber

ब्र᳘ह्मन्नि᳘त्येव᳘ पञ्चममा᳘मन्त्रयते॥
त्व᳘म् ब्रॗह्मासीती᳘तरो᳘ ऽनिरुक्तम् प्र᳘त्याह प᳘रिमितं वै नि᳘रुक्तं तत्प᳘रिमितमेॗवास्मिन्नेतत्पू᳘र्वं वीर्यं᳘ दधात्यथात्रा᳘निरुक्तम् प्र᳘त्याहा᳘परिमितं वा अ᳘निरुक्तं तद᳘परिमितमेॗवास्मिन्नेतत्स᳘र्वं वीर्यं᳘ दधाति त᳘स्मादत्रा᳘निरुक्तम् प्र᳘त्याह॥

मूलम् - विस्वरम्

“ब्रह्मन्” इत्येव पञ्चममामन्त्रयते- “त्वं ब्रह्मासि”- इतीरो ऽनिरुक्तं प्रत्याह । परिमितं वै निरुक्तम् । तत्परिमितमेवास्मिन्नेतत् पूर्वं वीर्यं दधाति । अथात्रानिरुक्तं प्रत्याह । अपरिमितं वा ऽअनिरुक्तम् । तद् अपरिमितमेवास्मिन्नेतत् सर्वं वीर्यं दधाति । तस्मादत्रानिरुक्तं प्रत्याह ॥ १३ ॥

सायणः

यजमानकर्तृकपञ्चमामन्त्रणस्य प्रतिवचने विशेषं दर्शयति- ब्रह्मन्नित्येवेति 9त्वं ब्रह्मासीति । ब्रह्मन्नित्यामन्त्रणे । ‘त्वं ब्रह्मासि’ ‘इति’ एतावदेव ‘अनिरुक्तम्’ कस्यचिदपि देवताविशेषस्य प्रतिपादकं वाक्यं प्रतिवदेत् । तत् प्रशंसति- अपरिमितमिति । ‘निरुक्तम्’ निःशेषेण वक्तुं योग्यं निरुक्तम् ‘परिमितम्’, तत्पूर्वमन्त्रेषु “सविता ऽसि” इत्यादिषु कृतम्; अत्रानिरुक्तप्रतिवचनेन यजमाने अपरिमितं वीर्यं निहितवान् भवतीति ॥ १३ ॥

Eggeling
  1. ‘O Brahman!’ thus he addresses him the fifth time. The other answers (undefinedly), ‘Thou art Brahman!’–undefined means unlimited: thus heretofore he laid limited vigour into him; but now he answers undefinedly; and undefined meaning unlimited, he thereby lays complete, unlimited vigour into him: therefore he answers here undefinedly.

१४

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ सुमङ्ग᳘लनामानᳫँ᳭ ह्वयति॥
ब᳘हुकार श्रे᳘यस्कर भू᳘यस्करे᳘ति य᳘ ऽएवं᳘नामा भ᳘वति कल्या᳘णमे᳘वैत᳘न्मानुष्यै᳘ व्वाचो᳘ व्वदति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ सुमङ्ग᳘लनामानᳫँ᳭ ह्वयति॥
ब᳘हुकार श्रे᳘यस्कर भू᳘यस्करे᳘ति य᳘ ऽएवं᳘नामा भ᳘वति कल्या᳘णमे᳘वैत᳘न्मानुष्यै᳘ व्वाचो᳘ व्वदति॥

मूलम् - Weber

अ᳘थ सुमङ्ग᳘लनामानᳫं ह्वयति॥
ब᳘हुकार श्रे᳘यस्कर भू᳘यस्करेति य᳘ एवं᳘नामा भ᳘वति कल्या᳘णमेॗवैत᳘न्मानुष्यै᳘ वाचो᳘ वदति॥

मूलम् - विस्वरम्

अथ सुमङ्गलनामानं ह्वयति- “बहुकार श्रेयस्कर भूयस्कर” इति । य एवंनामा भवति कल्याणमेवैतन्मानुष्यै वाचो वदति ॥ १४ ॥

सायणः

विधत्ते- अथ सुमंगलेति 10 । सुमङ्गलनामानमाहूय बहुकारति मन्त्रेण यजमानं कीर्तयेत् । पदत्रयं सम्बुध्यन्तम् । बहु करोतीति बहुकारः । “कर्म्मण्यण्” (पा. सू. ३ । २ । १) श्रेयः करोतीति श्रेयस्करः । “कृञो हेतुताच्छील्यानुलोम्येषु” (पा. सू. ३ । २ । २०) इति टच् भूयो भूयो महत्तरं करोतीति भूयस्करः । य एवमिति । ‘यः’ पुरुषो लोके प्रियंकरनामा ‘भवति’, स ‘मानुष्यै’ मानुष्याः ‘वाचः’ ‘कल्याणं’ सर्वेषां प्रियमेव ‘वदति’ ॥ १४ ॥

Eggeling
  1. He then hails him as one bearing auspicious names,–‘Much-worker, better-worker, more-worker 11!’ Whoever bears such names speaks auspiciously even with a human voice.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्मै ब्राह्मण स्फ्यं प्र᳘यच्छति॥
(त्य) अध्वर्यु᳘र्व्वा यो᳘ व्वा ऽस्य पुरो᳘हितो भ᳘वती᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति व्व᳘ज्रो वै स्फ्यः स᳘ ऽएते᳘न व्व᳘ज्रेण ब्राह्मणो रा᳘जानमात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते यो वै रा᳘जा ब्राह्मणाद᳘बलीयानमि᳘त्रेभ्यो वै स ब᳘लीयान्भवति त᳘दमि᳘त्रेभ्य ऽए᳘वैनमेतद्ब᳘लीयाᳫँ᳭सं करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्मै ब्राह्मण स्फ्यं प्र᳘यच्छति॥
(त्य) अध्वर्यु᳘र्व्वा यो᳘ व्वा ऽस्य पुरो᳘हितो भ᳘वती᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति व्व᳘ज्रो वै स्फ्यः स᳘ ऽएते᳘न व्व᳘ज्रेण ब्राह्मणो रा᳘जानमात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते यो वै रा᳘जा ब्राह्मणाद᳘बलीयानमि᳘त्रेभ्यो वै स ब᳘लीयान्भवति त᳘दमि᳘त्रेभ्य ऽए᳘वैनमेतद्ब᳘लीयाᳫँ᳭सं करोति॥

मूलम् - Weber

अ᳘थास्मै ब्राह्मण स्फ्यम् प्र᳘यछति॥
अध्वर्यु᳘र्वा यो᳘ वास्य पुरो᳘हितो भवती᳘न्द्रस्य व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति व᳘ज्रो वै स्फ्यः स᳘ एते᳘न व᳘ज्रेण ब्राह्मणो रा᳘जानमात्मनो᳘ ऽबलीयांसं कुरुते यो वै रा᳘जा ब्राह्मणाद᳘बलीयानमि᳘त्रेभ्यो वै स ब᳘लीयान्भवति त᳘दमि᳘त्रेभ्य एॗवैनमेतद्ब᳘लीयांसं करोति॥

मूलम् - विस्वरम्

अथास्मै ब्राह्मणः स्वयं प्रयच्छति, अध्वर्युर्वा, यो वा ऽस्य पुरोहितो भवति । “इन्द्रस्य वज्रो ऽसि तेन मे रध्य” (वा. सं. १० । २८)- इति । वज्रो वै स्फ्यः । स एतेन वज्रेण ब्राह्मणो राजानमात्मनो ऽबलीयांसं कुरुते । यो वै राजा ब्राह्मणादबलीयान्- अमित्रेभ्यो वै स बलीयान्भवति । तद् अमित्रेभ्य एवैनमेतद्बलीयांसं करोति ॥ १५ ॥

सायणः

अत्र कात्यायनः उत्तरं तन्त्रं संगृह्य दर्शितवान्- “स्फ्यमस्मै प्रयच्छति पुरोहितो ऽध्वर्युर्वा इन्द्रस्य वज्र इति, राजा राजभ्राता सूतस्थपत्योरन्यतरो ग्रामणीः सजातश्चैवं पूर्वः पूर्व उत्तरस्मै” (का. श्रौ. सू. १५ । १९७ । १९८) इति । तदिदं क्रमेण विधत्ते- अथास्मा इत्यादिना । ‘अस्मै’ सुन्वते ‘स्फ्यं’ ‘ब्राह्मणः’ दद्यात् । हे स्फ्य ! ‘इन्द्रस्य वज्रो ऽसि’ । “स्फ्यस्तृतीयम्, रथस्तृतीयम्” (तै. सं. ५ । २ । ६ । २) इति श्रुतेः । तेन कारणेन ‘मे’ मम “रध्य रध्यतिर्वशगमने” (निरु. १० । ४ । ३) मदीयाय यजमानाय सर्वं वशीकुरु । यद्वा, ‘रध्य’ द्यूतस्थानपरिलेखनरूपं कार्यं साधयेति ॥

मन्त्रस्य तात्पर्यमाह- वज्रो वा इति । अयमर्थः- ब्राह्मणो राज्ञे वज्ररूपस्फ्यप्रदानेन स्वस्मादबलीयांसमपि राजानं बलवत्तरं कृतवान् भवति । तदेवाह- यो वा इति । ‘यः’ खलु राजन्यो ‘ब्राह्मणात्’ हीनबलः, ‘सः’ ‘अमित्रेभ्यः’ शत्रुभ्यो बलवत्तरः भवति; तस्मात् ब्राह्मणः स्फ्यप्रदानेन शत्रुभ्यो ऽधिकबलं कृतवान् भवतीत्यर्थः ॥

एवमुत्तरत्रापि योग्यम् । सूतग्रामणीसजाता व्याख्याताः (श. प. ५ । ३ । १ । ५ । ६) राजादिषु सजातान्तेषु स्फ्यप्रदानं सम्भूय प्रशंसति- तद्यदेवमिति । ‘णपवस्यसं’ पापिष्ठं कर्म ‘नेदसत्’ न भवेत्, किन्तु यथापूर्वं भवेदिति बुद्ध्या प्रदानमित्यर्थः ॥ १५-१९ ॥

Eggeling
  1. A Brāhmaṇa then hands to him the sacrificial (wooden) sword,–either the Adhvaryu, or he who is his (the king’s) domestic chaplain–with, ‘Indra’s thunderbolt thou art: therewith serve me!’–the sacrificial sword being a thunderbolt, that Brāhmaṇa, by means of that thunderbolt, makes the king to be weaker than himself; for indeed the king who is weaker than a Brāhmaṇa, is stronger than his enemies: thus he thereby makes him stronger than his enemies.

१६

विश्वास-प्रस्तुतिः

तᳫँ᳭ राजा राजभ्रात्रे प्र᳘यच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न राजा᳘ राजभ्रात᳘रमात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते॥

मूलम् - श्रीधरादि

तᳫँ᳭ राजा राजभ्रात्रे प्र᳘यच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न राजा᳘ राजभ्रात᳘रमात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते॥

मूलम् - Weber

तं राजा राजभ्रात्रे प्र᳘यछति॥
इ᳘न्द्रस्य व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न राजा᳘ राजभ्रात᳘रमात्मनो᳘ ऽबलीयांसं कुरुते॥

मूलम् - विस्वरम्

तं राजा राजभ्रात्रे प्रयच्छति- “इन्द्रस्य वज्रो ऽसि तेन मे रध्य”- (वा. सं. २० । २८) इति । तेन राजा राजभ्रातरमात्मनो ऽबलीयांसं कुरुते ॥ १६ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. The king hands it to the king’s brother, with, ‘Indra’s thunderbolt thou art: therewith serve me!’ Thereby the king makes his brother to be weaker than himself.

१७

विश्वास-प्रस्तुतिः

त᳘ᳫँ᳘ राजभ्राता᳘ सूता᳘य᳘ वा स्थप᳘तये वा प्रयच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न राजभ्राता᳘ सूतं᳘ वा स्थप᳘तिं वा ऽऽत्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते॥

मूलम् - श्रीधरादि

त᳘ᳫँ᳘ राजभ्राता᳘ सूता᳘य᳘ वा स्थप᳘तये वा प्रयच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न राजभ्राता᳘ सूतं᳘ वा स्थप᳘तिं वा ऽऽत्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते॥

मूलम् - Weber

तं᳘ राजभ्राता᳘ सूता᳘य वा स्थप᳘तये वा प्रयछति॥
इ᳘न्द्रस्य व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न राजभ्राता᳘ सूतं᳘ वा स्थप᳘तिं वात्मनो᳘ ऽबलीयांसं कुरुते॥

मूलम् - विस्वरम्

तं राजभ्राता सुताय वा स्थपतये वा प्रयच्छति- “इन्द्रस्य वज्रो ऽसि तेन मे रध्य"- इति । तेन राजभ्राता सूतं वा स्थपतिं वा ऽऽत्मनो ऽबलीयांसं कुरुते ॥ १७ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. The king’s brother hands it either to the

Sūta (minstrel and chronicler), or to the Governor, with, ‘Indra’s thunderbolt thou art: therewith serve me!’ Thereby the king’s brother makes the Sūta, or the Governor, to be weaker than himself.

१८

विश्वास-प्रस्तुतिः

त᳘ᳫँ᳘ सूतो᳘ वा स्थप᳘तिर्व्वा ग्राम᳘ण्ये प्र᳘यच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न सूतो᳘ वा स्थप᳘तिर्व्वा ग्राम᳘ण्यमात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते॥

मूलम् - श्रीधरादि

त᳘ᳫँ᳘ सूतो᳘ वा स्थप᳘तिर्व्वा ग्राम᳘ण्ये प्र᳘यच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न सूतो᳘ वा स्थप᳘तिर्व्वा ग्राम᳘ण्यमात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते॥

मूलम् - Weber

त᳘ᳫं᳘ सूतो᳘ वा स्थप᳘तिर्वा ग्रामॗण्ये प्र᳘यछति॥
इ᳘न्द्रस्य व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न सूतो᳘ वा स्थप᳘तिर्वा ग्रामण्य᳘मात्मनो᳘ ऽबलीयांसं कुरुते॥

मूलम् - विस्वरम्

तं सूतो वा स्थपतिर्वा ग्रामण्ये प्रयच्छति- “इन्द्रस्य वज्रो ऽसि तेन मे रध्य”- इति । तेन सूतो वा स्थपतिर्वा ग्रामण्यमात्मनो ऽबलीयांसं कुरुते ॥ १८ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. The Sūta, or the Governor, hands it to the Grāmaṇī (village-headman 12), with, ‘Indra’s thunderbolt thou art: therewith serve me!’ Thereby the Sūta, or the Governor, makes the headman to be weaker than himself.

१९

विश्वास-प्रस्तुतिः

तं᳘ ग्रामणीः᳘ सजाता᳘य प्रयच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न ग्रामणीः᳘ सजात᳘मात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते तद्य᳘देव᳘ᳫँ᳘ सम्प्रय᳘च्छन्ते ने᳘त्पापवस्यसम᳘सद्यथापूर्व्व᳘मसदि᳘ति त᳘स्मादेव᳘ᳫँ᳘ सम्प्र᳘यच्छन्ते॥

मूलम् - श्रीधरादि

तं᳘ ग्रामणीः᳘ सजाता᳘य प्रयच्छति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न ग्रामणीः᳘ सजात᳘मात्मनो᳘ ऽबलीयाᳫँ᳭सं कुरुते तद्य᳘देव᳘ᳫँ᳘ सम्प्रय᳘च्छन्ते ने᳘त्पापवस्यसम᳘सद्यथापूर्व्व᳘मसदि᳘ति त᳘स्मादेव᳘ᳫँ᳘ सम्प्र᳘यच्छन्ते॥

मूलम् - Weber

तं᳘ ग्रामणीः᳘ सजाता᳘य प्रयछति॥
इन्द्रस्य वज्रो ऽसि ते᳘न मे रध्ये᳘ति ते᳘न ग्रामणीः᳘ सजात᳘मात्मनो᳘ ऽबलीयांसं कुरुते तद्य᳘देव᳘ᳫं᳘ सम्प्रय᳘छन्ते ने᳘त्पापवस्यसम᳘सद्यथापूर्व᳘मसदि᳘ति त᳘स्मादेव᳘ᳫं᳘ सम्प्र᳘यछन्ते॥

मूलम् - विस्वरम्

तं ग्रामणीः सजाताय प्रयच्छति- “इन्द्रस्य वज्रो ऽसि तेन मे रध्य”- इति । तेन ग्रामणीः सजातमात्मनो ऽबलीयांसं कुरुते । तद् यदेवं सम्प्रयच्छन्ते- नेत् पापवस्यसमसद्, यथापूर्वमसदिति । तस्मादेवं सम्प्रयच्छन्ते ॥ १९ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. The Grāmaṇī hands it to a tribesman 13, with, ‘Indra’s thunderbolt thou art: therewith serve me!’ Thereby the headman makes the tribesman to be weaker than himself. And as to why they mutually hand it on in this way, they do so lest there should be a confusion of classes, and in order that (society) may be in the proper order.

२०

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ सजात᳘श्च प्रतिप्रस्थाता᳘ च॥
(चै) एते᳘न स्फ्ये᳘न पूर्व्वाग्नौ᳘ शुक्र᳘स्य पुरोरु᳘चा ऽधिदे᳘वनं कुरुतो ऽत्ता वै᳘ शु᳘क्रो ऽत्ता᳘रमे᳘वैत᳘त्कुरुतः॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ सजात᳘श्च प्रतिप्रस्थाता᳘ च॥
(चै) एते᳘न स्फ्ये᳘न पूर्व्वाग्नौ᳘ शुक्र᳘स्य पुरोरु᳘चा ऽधिदे᳘वनं कुरुतो ऽत्ता वै᳘ शु᳘क्रो ऽत्ता᳘रमे᳘वैत᳘त्कुरुतः॥

मूलम् - Weber

अ᳘थ सजात᳘श्च प्रतिप्रस्थाता᳘ च॥
एते᳘न सफ्ये᳘न पूर्वाग्नौ᳘ शुक्र᳘स्य पुरोरु᳘चाधिदे᳘वनं कुरुतो ऽत्ता वै᳘ शुॗक्रो ऽत्ता᳘रमेॗवैत᳘त्कुरुतः॥

मूलम् - विस्वरम्

अथ सजातश्च प्रतिप्रस्थाता चैतेन स्फ्येन पूर्वाग्नौ शुक्रस्य पुरोरुचा ऽधिदेवनं कुरुतः । अत्ता वै शुक्रः । अत्तारमेवैतत्कुरुतः ॥ २० ॥

सायणः

अथ द्यूतस्थानकरणं च सविशेषं समन्त्रकञ्च विधत्ते- अथ सजातश्चेति । आहवनीयस्योत्तरप्रदेशे स्थापितः स पूर्वाग्निः, तस्मिन् तत्संस्पृष्टम् अधिदीव्यन्त्यत्रेति ‘अधिदेवनम्’ द्यूतभूमिः, तां शुक्रग्रहस्य पुरोरुचा “तं प्रज्ञथा पूर्वथा विश्वथेमथा”- इत्यनया (वा. सं. ७ । १२) (ऋ. सं. ५ । ४४ । १) ‘कुरुतः’ । अत एव सूत्रम्- “प्रत्तेन सजातः प्रतिप्रस्थाता च पूर्वाग्निसहितां शुक्रपुरोरुचा द्यूतभूमिं कुरुतः”- (का. श्रौ. सू. १५ । १९९) ॥ चतुर्थकाण्डे द्वितीये ऽध्याये शुक्रामन्थिग्रहयोरत्त्राद्यभावेन स्तुतयोः पुरोरुग्द्वयं विहितम्; तदर्थस्तु तत्रैव व्याख्यात इति नेह पुनर्व्याख्यायते (श. प. ४ । २ । १ । ३ । १०) । शुक्रस्यात्तत्वात् तन्मन्त्रेण द्यूतभूमिकरणाद् यजमानमत्तारं कृतवन्तौ भवतः ॥ २० ॥

Eggeling
  1. Thereupon the tribesman and the Pratiprasthātr̥ 14, with that sacrificial sword, prepare the gaming-ground, (close) by the original fire 15, with the puroruc verse of the Śukra 16. The Śukra is the eater: he thereby makes (him) the eater.

२१

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ मन्थि᳘नः पुरोरु᳘चा वि᳘मितं वि᳘मिनुतः॥
(ऽ) आ᳘द्यो वै᳘ मन्थी त᳘दत्ता᳘रमे᳘वैत᳘त्कृत्वा᳘ ऽथास्मा ऽएत᳘दा᳘द्यं[[!!]] जनयतस्त᳘स्मान्मन्थि᳘नः पुरोरु᳘चा व्वि᳘मितं व्वि᳘मिनुतः॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ मन्थि᳘नः पुरोरु᳘चा वि᳘मितं वि᳘मिनुतः॥
(ऽ) आ᳘द्यो वै᳘ मन्थी त᳘दत्ता᳘रमे᳘वैत᳘त्कृत्वा᳘ ऽथास्मा ऽएत᳘दा᳘द्यं[[!!]] जनयतस्त᳘स्मान्मन्थि᳘नः पुरोरु᳘चा व्वि᳘मितं व्वि᳘मिनुतः॥

मूलम् - Weber

अ᳘थ मन्थि᳘नः पुरोरु᳘चा वि᳘मितं वि᳘मिनुतः॥
आॗद्यो वै᳘ मन्थी त᳘दत्ता᳘रमेॗवैत᳘त्कृत्वा᳘थास्मा एत᳘दाद्यं᳘ जनयतस्त᳘स्मान्मन्थि᳘नः पुरोरु᳘चा वि᳘मितं वि᳘मिनुतः॥

मूलम् - विस्वरम्

अथ मन्थिनः पुरोरुचा विमितं विमिनुतः । आद्यो वै मन्थी । तदत्तारमेवैतत्कृत्वा ऽथास्मा ऽएतदाद्यं जनयतः । तस्मान्मन्थिनः पुरोरुचा विमितं विमिनुतः ॥ २१ ॥

सायणः

अथ मन्थिन इति 17 । मन्थिग्रहपुरोरुचा “अयं वेनश्चोदयत् पृश्निगर्भा’- (वा. सं. ७ । १६) इत्यनया ‘विमितं’ विमिन्वन्त्यत्रेति विमितं चतुर्द्वारं चतुरस्रं मण्डपं तद् ‘विमिनुतः’ कुरुतः । आद्यो वा इत्यादेरयमर्थः- मन्थिन आद्यत्वात् तन्मन्त्रेण विमितकरणादत्तृभूताय यजमानाय आद्यं सम्पादितवन्तौ भवत इत्यर्थः ॥ २१ ॥

Eggeling
  1. With the puroruc verse of the Manthin 18 they then put up a shed (vimita). The Manthin cup is

he that is to be eaten,–thus having first made (him) the feeder, they now make for him one to be fed upon: that is why they put up a shed with the puroruc verse of the Manthin cup.

२२

विश्वास-प्रस्तुतिः

(तो᳘ ऽथा) अ᳘थाध्वर्युः᳘॥
(श्च) चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा ऽधिदे᳘वने हि᳘रण्यं निधा᳘य जुहोत्यग्निः᳘ पृथुर्ध᳘र्मणस्प᳘तिर्जुषाणो᳘ ऽअग्निः᳘ पृथुर्ध᳘र्मणस्प᳘तिरा᳘ज्यस्य व्वेतु स्वाहे᳘ति॥

मूलम् - श्रीधरादि

(तो᳘ ऽथा) अ᳘थाध्वर्युः᳘॥
(श्च) चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा ऽधिदे᳘वने हि᳘रण्यं निधा᳘य जुहोत्यग्निः᳘ पृथुर्ध᳘र्मणस्प᳘तिर्जुषाणो᳘ ऽअग्निः᳘ पृथुर्ध᳘र्मणस्प᳘तिरा᳘ज्यस्य व्वेतु स्वाहे᳘ति॥

मूलम् - Weber

अ᳘थाध्वर्युः᳟॥
चतुर्गृहीतमा᳘ज्यं गृहीॗत्वाधिदे᳘वने हि᳘रण्यं निधा᳘य जुहोत्यग्निः᳘ पृथुर्ध᳘र्मणस्प᳘तिर्जुषाणो᳘ अग्निः᳘ पृथुर्ध᳘र्मणस्प᳘तिरा᳘ज्यस्य वेतु स्वाहे᳘ति॥

मूलम् - विस्वरम्

अथाध्वर्युश्चतुर्गृहीतमाज्यं गृहीत्वा ऽधिदेवने हिरण्यं निधाय जुहोति- “अग्निः पृथुर्धर्मणस्पतिर्जुषाणो ऽग्निः पृथुर्धर्मणस्पतिराज्यस्य वेतु स्वाहा”- इति ॥ २२ ॥

सायणः

अथाधिदेवने हिरण्यनिधानपूर्वकं होमं समन्त्रकं विधत्ते- अथाध्वर्युरिति 17 । यज्ञे देवानां प्रथनात् ‘पृथुः’, सः ‘धर्मणस्पतिः’ धर्म्मणः धारणस्य पतिः, अतो देवतोद्देशेन हूयमानं हविः ‘जुषाणः’ सेवमानः ‘अग्निः’ । ‘पृथुर्द्धर्मणस्पतिः’- इति पुनर्वचनमादरार्थम्, विध्यनुवादाभिप्रायं वा । ‘आज्यस्य’ घृतस्य । कर्मणि षष्ठी । आज्यं ‘वेतु’ पिबतु । “वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु” (धा. पा. अ. प. ३८ ।) ‘स्वाहा’- इति होमार्थः ॥ २२ ॥

Eggeling
  1. The Adhvaryu then takes clarified butter in four ladlings, places a piece of gold on the gaming-ground, and offers with (Vāj. S. X, 29), ‘May ample Agni, the lord of rites, delighted,–may ample Agni, the lord of rites, accept of the butter, hail!’

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाक्षान्नि᳘वपति॥
स्वा᳘हाकृताः सू᳘र्यस्य रश्मि᳘भिर्यतध्वᳫँ᳭ सजाता᳘नां मध्यमे᳘ष्ठ्याये᳘त्येष वा᳘ ऽअग्निः᳘ पृथुर्य᳘दधिदे᳘वनं त᳘स्यैते᳘ ऽङ्गारा य᳘दक्षास्त᳘मे᳘वैते᳘न प्रीणाति त᳘स्य ह वा᳘ ऽएषा᳘ ऽनुमता गृहे᳘षु हन्यते यो᳘ वा राजसू᳘येन य᳘जते यो᳘ वैत᳘देवं व्वे᳘दैते᳘ष्वक्षे᳘ष्वाह गां᳘ दीव्यध्वमि᳘ति पूर्व्वाग्निवा᳘हौ द᳘क्षिणा॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाक्षान्नि᳘वपति॥
स्वा᳘हाकृताः सू᳘र्यस्य रश्मि᳘भिर्यतध्वᳫँ᳭ सजाता᳘नां मध्यमे᳘ष्ठ्याये᳘त्येष वा᳘ ऽअग्निः᳘ पृथुर्य᳘दधिदे᳘वनं त᳘स्यैते᳘ ऽङ्गारा य᳘दक्षास्त᳘मे᳘वैते᳘न प्रीणाति त᳘स्य ह वा᳘ ऽएषा᳘ ऽनुमता गृहे᳘षु हन्यते यो᳘ वा राजसू᳘येन य᳘जते यो᳘ वैत᳘देवं व्वे᳘दैते᳘ष्वक्षे᳘ष्वाह गां᳘ दीव्यध्वमि᳘ति पूर्व्वाग्निवा᳘हौ द᳘क्षिणा॥

मूलम् - Weber

अ᳘थाक्षान्नि᳘वपति॥
स्वा᳘हाकृताः सू᳘र्यस्य रश्मि᳘भिर्यतध्वᳫं सजाता᳘नाम् मध्यमे᳘ष्ठ्याये᳘त्येष वा᳘ अग्निः᳘ पृथुर्य᳘दधिदे᳘वनं त᳘स्यैते᳘ ऽङ्गारा य᳘दक्षास्त᳘मेॗवैते᳘न प्रीणाति त᳘स्य ह वा᳘ एषा᳘नुमता गृहे᳘षु हन्यते यो᳘ वा राजसू᳘येन य᳘जते यो᳘ वैत᳘देवं वे᳘दैते᳘ष्वक्षेष्वाह गां᳘ दीव्यध्वमि᳘ति पूर्वाग्निवा᳘हौ 19 द᳘क्षिणा॥

मूलम् - विस्वरम्

अथाक्षान्निवपति- “स्वाहाकृताः सूर्यस्य रश्मिभिर्यतध्वम् । सजातानां मध्यमेष्ठ्याय”- (वा० सं० १० । २९) इति । एष वा ऽअग्निः पृथुः । यदधिदेवनम् । तस्यैते ऽङ्गाराः- यदक्षाः । तमेवैतेन प्रीणाति । तस्य ह वा ऽएषा ऽनुमता गृहेषु हन्यते- यो वा राजसूयेन यजते, यो वैतदेवं वेद । एतेष्वक्षेष्वाह-गां दीव्यध्वमिति । पूर्वाग्निवाहौ दक्षिणा ॥ २३ ॥

सायणः

तत्र विमिते अक्षनिवापं समन्त्रकं विधत्ते- अथाक्षानिति । ‘स्वाहाकृताः’ स्वाहाकारपूर्विकया आहुत्या तर्पिताः । हे अक्षाः ! ‘सजातानां’ समानजन्मनां भ्रातॄणां ‘मध्यमेष्ठ्याय’ मध्यमप्रदेशे यजमानावस्थानाय ‘सूर्यस्य रश्मिभिः’ ‘यतध्वम्’ सङ्गता भवतेति ॥

मन्त्रवत्कर्मकरणं प्रायेण कस्यैचिद् देवतायै भवति, अतो द्यूतभूमावक्षनिवापस्य देवतासन्तर्पकत्वं दर्शयति- एष वा अग्निरिति । ‘अधिदेवनं’ द्यूतस्थानम् । तदेवोपपादयति- तस्यैत इति । ‘तस्य’ अग्नेः ‘अङ्गाराः’ एव देवनसाधनभूताः ‘अक्षाः’ तस्मात् तेनाक्षनिधानेन अग्निमेव प्रीणितवान् भवतीति ॥

अत्र यदुक्तं सूत्रे- “अक्षान् निवपति स्वाहाकृता इति, गां दीव्यध्वमित्याह”- इति “सजाताय कलिंगां” इति च (का. श्रौ. सू. १५ । २०२-२०५) देवनकाले गामेव पणत्वेन कृत्वा, “गां दीव्यध्वम्”- इति द्यूतकरणप्रैषं ब्रूयात् । ततो ऽस्य पणत्वेनाङ्गीकृतां गामानीय घ्नन्ति । “हन्तिश्च आहननमात्रार्थो न मारणार्थः” (का. श्रौ. सू. १५ । २०५ भा.) । तदिदं विधत्ते- तस्य ह वा इति । यो राजसूयेन यजते, यो वा एतत् कर्म वेत्ति, तस्य गृहेष्वेषा गौः ‘अनुमता’ अङ्गीकृता ‘हन्यते’ । अत्र गोप्रसक्तिं दर्शयति- एतेष्वक्षेष्विति । द्यूतकर्मणो दक्षिणां विधत्ते- पूर्वाग्नीति । पूर्वाग्निम् आहवनीयं वहत इति पूर्वाग्निवाहौ तावनड्वाहौ ‘दक्षिणा’ 20 । आपस्तम्बो ऽप्याह- “पष्ठौही विदीव्यन्त ओदनमुद्ब्रुवते, तदेतस्य कर्मणः पूर्वाग्निवाहौ दक्षिणा, तौ ब्रह्मणे देयौ”- (आ. श्रौ. सू. १९ । १९ । २,३) इति ।

तदिदं देवनं सन्निधिबलादभिषेचनीयाख्यसोमयागमध्यगतमपि महाप्रकरणबलात् इष्टिपशुसोमयागात्मकराजसूयशेष इति गम्यते, प्रकरणेन सन्निधेर्बाध इति हि सिद्धान्तितम् (मी. जै. सू. ३ । ३ । १४) ॥ २३ ॥

Eggeling
  1. He (the Adhvaryu) throws down the dice, with, ‘Hallowed by Svāhā, strive ye with Sūrya’s rays for the middlemost place among brethren!’ For that gaming-ground is the same as ‘ample Agni,’ and those dice are his coals, thus it is him (Agni) he thereby pleases; and assuredly in the house of him who offers the Rājasūya, or who so knows this, the striking 21 of that cow is approved of. On those dice he says, ‘Play for the cow!’ The two draught oxen of the original (hall-door) fire are the sacrificial fee.

२४

विश्वास-प्रस्तुतिः

(णा᳘ ऽथा) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रिय᳘त ऽएष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनं मध्यत᳘ ऽए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति त᳘स्माद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रियत ऽआश्रा᳘व्याहाग्नि᳘ᳫँ᳘ स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(णा᳘ ऽथा) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रिय᳘त ऽएष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनं मध्यत᳘ ऽए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति त᳘स्माद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रियत ऽआश्रा᳘व्याहाग्नि᳘ᳫँ᳘ स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती एतत्क᳘र्म क्रिय᳘त एष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनम् मध्यत᳘ एॗवैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति त᳘स्माद᳘न्तरेणा᳘हुती एतत्क᳘र्म क्रियत आश्रा᳘व्याहाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथाह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’- इति । तद् यदन्तरेणाहुती ऽएतत्कर्म क्रियते । एष वै प्रजापतिः- य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनु प्रजायन्ते । तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति, मध्यतः सुवति । तस्मादन्तरेणाहुती ऽएतत्कर्म क्रियते । आश्राव्याह । ‘अग्निं स्विष्टकृतं यज’- इति । वषट्कृते जुहोति ॥ २४ ॥

सायणः

अथ पयस्यास्विष्टकृदिडादिकं दर्शयति- अथाहाग्नय इति । प्रधानसौविष्टकृतहविषोर्मध्ये यद् देवनादिकं कृतम्, तत् प्रजापतिमध्यनिधानरूपेण प्रशंसति- तद् यदन्तरेणेति । आश्राव्याहेत्यादि । स्पष्टम् (तै. सं. १ । ८ । १६) ॥ २४ ॥

Eggeling
  1. He then says, ‘Pronounce the invitatory prayer to Agni Svishṭakr̥t!’ And as to why that ceremony is performed between two oblations,–verily, Prajāpati is that sacrifice which is here performed, and from which these creatures have been produced,–and, indeed, they are even now produced after this one;–thus he places him (the Sacrificer) in the very middle of that Prajāpati, and consecrates him in the very middle: that is why that ceremony is performed between two oblations.

Having called for the Śraushaṭ, he says, ‘Pronounce the offering-formula to Agni Svishṭakr̥t,’ and offers as the Vashaṭ is uttered.

२५

विश्वास-प्रस्तुतिः

(त्य) अथे᳘डामा᳘दधाति॥
(त्यु᳘) उ᳘पहूतायामि᳘डायामप᳘ ऽउपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपा᳘करोति त᳘ᳫँ᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ ऽउपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥

मूलम् - श्रीधरादि

(त्य) अथे᳘डामा᳘दधाति॥
(त्यु᳘) उ᳘पहूतायामि᳘डायामप᳘ ऽउपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपा᳘करोति त᳘ᳫँ᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ ऽउपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥

मूलम् - Weber

अथे᳘डामा᳘दधाति॥
उ᳘पहूतायामि᳘डायामप᳘ उपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपा᳘करोति त᳘ᳫं᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ उपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥

मूलम् - विस्वरम्

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्र ग्रहं गृह्णाति । माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति । तं स्तोत्राय प्रमीवति । स उपावरोहति । सो ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य ॥ २५ ॥

सायणः

अथेडामादधातीति 22 (श. प. १ । २ । २ । १९) कण्डिका वाजपेये व्याख्याता ॥ २५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे चतुर्थाध्याये चतुर्थं ब्राह्मणम् ॥ ५-४-४ ॥

Eggeling
  1. He then puts the iḍā on (the fire). After the invocation of Iḍā, he touches water and draws the Māhendra cup. Having drawn the Māhendra cup, he sets the chant agoing. He urges him (the Sacrificer) forward to the chant: he gets down (from the throne-seat); he is in attendance at the chant (stotra), in attendance at the recitation (śastra).

  1. भरतानां C. ↩︎

  2. पयस्यया प्रचरति प्राक् स्विष्टकृतः । का. श्रौ. सू. १५ । १८६ । ↩︎ ↩︎

  3. अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति । का० श्रौ० सू० १५ । १८८ । ↩︎ ↩︎ ↩︎

  4. अभिभूरित्यस्मै पंचाक्षान् पाणावाधाय । का० श्रौ० सू० १५ । १९१ । ↩︎

  5. कृतादि वा विदध्याद्राजप्रभृतिभ्यः सजाताय कलिंगाम् । का० श्रौ० सू० १५ । २०४ । २०५ । ↩︎

  6. 106:1 The allusions to the game of dice in the early literature are not sufficiently definite to enable us to form a clear idea as to the manner in which the game was played. Sāyaṇa, on our passage (as on Taitt. S. I, 8, 16), remarks that the dice here used consisted either of gold cowries (shells) or of gold (dice shaped like) Vibhītaka nuts. That the (brown) fruit of the Vibhītaka tree (Terminalia Bellerica)–being of about the size of a nutmeg, nearly round, with five slightly flattened sides–was commonly used for this purpose in early times, we know from the Rig-veda; but we do not know in what manner the dice were marked in those days. According to the commentators, the game is played with five dice, four of which are called kr̥ta, whilst the fifth is called kali; and if all the dice fall uniformly (ekarūpa)–i.e. with the marked sides either upwards or downwards–then the player wins, and in that case the kali is said to overrule the other dice. In this case the kali would seem to represent the king. Kāty. Śr. XV, 7, 18-19, however, admits of another mode of playing, by which the kali represents the sajāta (tribesman), whilst the king and those that come after him (in the enumeration in paragraphs 15-20) play the kr̥ta, &c, To understand this mode, we have probably to turn to Chandog. Up. IV, 1, 4, where it is said of the saint Raikva, that everything good fell to him, just as the lower dice (or casts) submit to the conquering kr̥ta. Here the commentators assign the names kr̥ta, tretā, dvāpara, and kali to different sides of the die, marked respectively with 4, 3, 2, and 1 marks (aṅka).–In Taitt. Br. I, 7, 10 the game at dice, at the Rājasūya, is referred to as follows:–With, ‘This king has overcome the regions,’ he hands (to the king) five dice; for these are all the dice: he thereby renders him invincible. They engage (to play) for a dish of rice (odana), for that is (a symbol of) the chief: he thus makes him obtain every prosperity. He addresses them (with the epithets of) ‘far-famed, most prosperous, true king.’ The Commentary and Sūtras then supply the following explanations:–The keeper of the dice (akshāvāpa), having (marked off and) raised the gambling-ground (by means of the wooden sword), and sprinkled it, throws down more than a hundred–or more than a thousand–gold dice. From them he takes five dice and hands them to the king: these, as representing the five regions, are taken to include all those dice. These explanations, so far from clearing up the doubtful points, seem rather to add to them. It may be noted, however, that in the well-known hymn, R̥k S. X, 34, in which the gambler’s state of mind is pictured in very expressive language, the dice of the game are apparently spoken of as tripañkāśa vrāta, or ’the troop of fifty-three’ (or thrice five, according to Ludwig’s rather improbable conjecture). For other particulars see R. Roth, Zeitsch. d. deutsch. morg. Ges. II, p. 122; A. Weber, Ind. Stud. I, p. 284. According to Goldstücker (s.v. abhishecanīya) this game of dice is intended to symbolize the victory of the present age, or kali-yuga, over the former ages; but the commentator rather takes it as symbolizing the king’s dig-vijaya, or victorious sway in every quarter. ↩︎

  7. 108:1 If it were not for the clear and unmistakable interpretation of the commentators on the Brāhmaṇa and Kātyāyana, one might feel inclined to translate, ’thus he addresses the first–the second,’ &c., so as to bring it into accord with the practice of the Black Yajus. This practice is as follows (Taitt. S. I, 8, 16, with commentary).–The priest moves the previously uplifted arms of the Sacrificer down to the Vaiśvadeva dish of curds (cf. above, V, 4, 3, 27), with, ‘Thou art Mitra!–thou art Varuṇa!’ He then places the khādira throne-seat on the vedi, covers it with a leathern (or fur) cover, with, ‘Thou art the navel of the Kshatra, the womb of the Kshatra,’ and makes the king sit down with, ‘Seat thee on the pleasant one, seat thee on the soft-seated!’ The king sits down, with, ‘May it not injure thee! may it not injure me!’ The priest then addresses him, with, ‘He hath sat down, the upholder of the sacred law, Varuṇa in the homesteads, for supreme rule, he the wise!’ The priests and Ratnins (see V, 3, 1, 1 seq.) then sit down in a circle round the king in. order to do homage to him,–the Adhvaryu being seated towards the east, the Brahman towards the south, the Hotr̥ towards the west, the Udgātr̥ towards the north. The king then addresses the Adhvaryu, with, ‘O Brahman, (Om)!’ That priest replies, ‘Thou, O king, art Brahman, thou art Savitr̥ of true impulsion.’ In the same way the king addresses the Brahman, ‘O Brahman!’ and that priest replies, ‘Thou, O king, art Brahman, thou art Indra, of true energy!’ Then the Hotr̥, who replies, ‘. . . thou art Mitra, the most kindly!’–the Udgātr̥: ‘. . . thou art Varuṇa, of true laws!’ Thereupon the Brahman hands the sacrificial sword to the king, with, ‘Indra’s thunderbolt thou art!’ He then hands to him five dice, with, ‘This king has overcome the regions!’ see next note.–The charioteer, treasurer, and chamberlain are invited by the king (to the game?) by auspicious epithets (‘far-famed one,’ ‘most prosperous one,’ ’true king’). Thereupon the Hotr̥ recites the story of Śunaḥśepa, whereupon follows the offering of the svishṭakr̥t of the cake of the Maruts, and the dish of curds to the Viśve Devāḥ. ↩︎

  8. 109:1 Or, he whose strength is the people (viś, viśa),–that is, the Maruts, in the case of Indra, and the subjects or peasantry in that of the king. Sāy. ↩︎

  9. आदिनैवांत्यम् । का. श्रौ. सू. १५ । १९५ । ↩︎

  10. बहुकारेति च ह्वयत्येवंनामानम् । का० श्रौ० सू० १५ । १९६ । ↩︎

  11. 110:1 That is, increaser of the prosperity of himself and his people. ↩︎

  12. 111:1 See p. 60, note 1. ↩︎

  13. 111:2 The sajāta would seem to be one of the peasant proprietors or ‘sharers’ constituting the village ‘brotherhood’ ruled over by the headman, and often actually belonging to the same family as the latter (Gaugenosse, clansman). ↩︎

  14. 111:3 The first assistant of the Adhvaryu. ↩︎

  15. 111:4 That is, north of the Āhavanīya fire, where the cart stands, containing the original (hall-door) fire. ↩︎

  16. 111:5 For this verse (Vāj. S. VII, 12; R̥k S. V, 44, 1), preceding the ordinary formula with which the Soma-cups are drawn, see IV, 2, 1, 9 (part ii, p. 280). ↩︎

  17. मंथिनो विमितम् । का० श्रौ० सू० १५ । २०० । ↩︎ ↩︎

  18. 111:6 Vāj. S. VII, 16; R̥k S. X, 723, 7; see IV, 2, 7, 70. ↩︎

  19. पूर्वाग्निवाहौ Sây. ↩︎

  20. पूर्वाग्निवाहौ दक्षिणा । का. श्रौ. सू. १५ । २०६ । ↩︎

  21. 112:1 Thus (not the slaying) according to the commentary on Kāty. Sr. XV, 7, 20, hantiś cāhananamātro na māraṇārthaḥ.–The cow is the one staked by the tribesman (sajāta). ↩︎

  22. पयस्यास्विष्टकृदिडं करोति माहेंद्रादि च । का० श्रौ० सू० १५ । २०७ । ↩︎