०१

विश्वास-प्रस्तुतिः

त᳘द्यो ऽस्य स्वो भ᳘वति॥
त᳘स्य शतं᳘ वा परःशता᳘ वा गा ऽउ᳘त्तरेणाहवनी᳘यᳫँ᳭ स᳘ᳫँ᳘स्थापयति तद्य᳘देवं᳘ करो᳘ति॥

मूलम् - श्रीधरादि

त᳘द्यो ऽस्य स्वो भ᳘वति॥
त᳘स्य शतं᳘ वा परःशता᳘ वा गा ऽउ᳘त्तरेणाहवनी᳘यᳫँ᳭ स᳘ᳫँ᳘स्थापयति तद्य᳘देवं᳘ करो᳘ति॥

मूलम् - Weber

तॗद्यो ऽस्य स्वो भ᳘वति॥
त᳘स्य शतं᳘ वा परःशता᳘ वा गा उ᳘त्तरेणाहवनी᳘यᳫं स्थापयति तद्य᳘देवं᳘ करो᳘ति॥

मूलम् - विस्वरम्

अथ अभिषेकोत्तरकर्माणि ।

तद्यो ऽस्य स्वो भवति- तस्य शतं वा परःशता वा गा उत्तरेणाहवनीयं संस्थापयति । तद् यदेवं करोति ॥ १ ॥

सायणः

कात्यायनः- “गवाँ शतमधिकं वा स्वस्याहवनीयस्योत्तरतः स्थापयति”- (का. श्रौ. सू. १५ । १६६) इति । ‘स्वस्य’ ज्ञातेः भ्रातुः, तदर्थमाहवनीयस्योत्तरप्रदेशे शतसङ्ख्या अधिका वा गाः स्थापयेदिति । तदिदं सार्थवादं विधत्ते- तद्यो ऽस्य स्वो भवतीति । ‘परःशताः’ शताधिका इत्यर्थः । ‘एवं’ पशुसंस्थापनरूपं कर्म ‘करोति’ इति ‘यत्’ एतत् ‘तत्’ ‘तथो’ तथैव, वरुणेन कृतत्वादित्युत्तरत्र सम्बन्धः ॥ १ ॥

Eggeling
  1. North of the Āhavanīya he places a hundred, or more than a hundred, cows of that relative of his. The reason why he does so is this:

०२

विश्वास-प्रस्तुतिः

व्व᳘रुणाद्ध वा᳘ ऽअभिषिषिचाना᳘त्॥
(दि) इन्द्रियं᳘ व्वी᳘र्यम᳘पचक्राम[[!!]] श᳘श्वद्य᳘ ऽए᳘षो ऽपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति[[!!]] ये᳘नैनमेत᳘दभिषिञ्च᳘ति᳘ सो ऽस्येन्द्रियं᳘ व्वी᳘र्यं[[!!]] नि᳘र्जघान त᳘त्पशुष्व᳘न्वविन्दत्त᳘स्मात्पश᳘वो य᳘शो य᳘देष्वन्व᳘विन्दत्त᳘त्पशु᳘ष्वनुवि᳘द्येन्द्रियं᳘ व्वी᳘र्यं पु᳘नरात्म᳘न्नधत्त᳘ तथो ऽए᳘वैष᳘ ऽएतन्ना᳘है᳘वास्मा᳘न्न्विन्द्रियं᳘[[!!]] व्वीर्य᳘मपक्रा᳘मति व्वरुणसवो वा᳘ ऽएष य᳘द्राजसू᳘यमिति व्व᳘रुणो ऽकरोदि᳘ति᳘ त्वे᳘वैष᳘ ऽएत᳘त्करोति॥

मूलम् - श्रीधरादि

व्व᳘रुणाद्ध वा᳘ ऽअभिषिषिचाना᳘त्॥
(दि) इन्द्रियं᳘ व्वी᳘र्यम᳘पचक्राम[[!!]] श᳘श्वद्य᳘ ऽए᳘षो ऽपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति[[!!]] ये᳘नैनमेत᳘दभिषिञ्च᳘ति᳘ सो ऽस्येन्द्रियं᳘ व्वी᳘र्यं[[!!]] नि᳘र्जघान त᳘त्पशुष्व᳘न्वविन्दत्त᳘स्मात्पश᳘वो य᳘शो य᳘देष्वन्व᳘विन्दत्त᳘त्पशु᳘ष्वनुवि᳘द्येन्द्रियं᳘ व्वी᳘र्यं पु᳘नरात्म᳘न्नधत्त᳘ तथो ऽए᳘वैष᳘ ऽएतन्ना᳘है᳘वास्मा᳘न्न्विन्द्रियं᳘[[!!]] व्वीर्य᳘मपक्रा᳘मति व्वरुणसवो वा᳘ ऽएष य᳘द्राजसू᳘यमिति व्व᳘रुणो ऽकरोदि᳘ति᳘ त्वे᳘वैष᳘ ऽएत᳘त्करोति॥

मूलम् - Weber

व᳘रुणाद्ध वा᳘ अभिषिषिचाना᳘त्॥
इन्द्रियं᳘ वीर्य᳘म᳘पचक्राम श᳘श्वद्य᳘ एॗषो ऽपां र᳘सः स᳘म्भृतो भ᳘वति 1 ये᳘नैनमेत᳘दभिषिञ्चतिॗ सो ऽस्येन्द्रियं᳘ वीर्यं᳘ नि᳘र्जघान त᳘त्पशुष्व᳘न्वविन्दत्त᳘स्मात्पश᳘वो य᳘शो य᳘देष्वन्व᳘विन्दत्त᳘त्पशु᳘ष्वनुवि᳘द्येन्द्रियं᳘ वीर्य᳘म् पु᳘नरात्म᳘न्नधत्त त᳘थो एॗवैष᳘ एतन्ना᳘हैॗवास्मान्न्विन्द्रियं᳘ वीर्य᳘मपक्रा᳘मति वरुणसवो वा᳘ एष य᳘द्राजसू᳘यमिति व᳘रुणो करोदि᳘ति त्वेॗवैष᳘ एत᳘त्करोति॥

मूलम् - विस्वरम्

वरुणाद्ध वा अभिषिषिचानादिन्द्रियं वीर्यमपचक्राम । शश्वद्य एषो ऽपां रसः सम्भृतो भवति- येनैनमेतदभिषिञ्चति- सो ऽस्येन्द्रियं वीर्यं निर्जघान । तत्पशुष्यन्वविन्दत् । तस्मात्पशवो यशः । यदेष्वन्वविन्दत् । तत् पशुष्वनुविद्येन्द्रियं वीर्यं पुनरात्मन्नधत्त । तथो ऽएवैष एतत् । नाहैवास्मान्न्विन्द्रियं वीर्यमपक्रामति । वरुणसवो वा ऽएष यद्राजसूयमिति । वरुणो ऽकरोदिति त्वेवैष एतत्करोति ॥ २ ॥

सायणः

वरुणादिति । पूर्वं राजसूये ऽभिषिच्यमानाद् ‘वरुणाद्’ ‘इन्द्रियं’ ‘वीर्यम्’ ‘अपचक्राम’ अपसृतम् । वीर्यापसरणे कारणमाह- शश्वद्य एष इति । ‘शश्वत्’ निश्चितं ‘सम्भृतः’ ‘अपां रसः’ ‘येन’ सम्भृतेन रसेन इदानीमध्वर्युः ‘अभिषिञ्चति’ ‘सः’ रसः ‘अस्य’ वरुणस्य ‘वीर्यं’ ‘निर्जघान’ हतवान् । वरुणः ‘पशुषु’ ‘अन्वविन्दत्’ अलभत । ‘तस्मात्’ पशूनां यशोरूपत्वम्; पशुत एव यशः- सम्भवात् । तल्लब्धं वीर्यं वरुणः ‘पुनः’ आत्मनि स्थापितवान् । ‘तथो’ तेनैव प्रकारेण ‘एषः’ यजमानो ऽपि ‘एतत्’ पशुसंस्थापनेन ‘इन्द्रियं’ ‘वीर्यम्’ आत्मनि धत्ते । तदेव व्यतिरेकमुखेनाह- नाहैवास्मादिति । ‘अह’ शब्दः प्रसिद्धिवाची । तस्मादेवं पशुनिधानरूपं कर्म कुर्वतः सुन्वतः सकाशात् ‘वीर्यम्’ ‘न अपक्रामति’ नापसरति । राजसूयमिति यत्, तद्वरुणसवः; राजसूये वरुण एवमकरोदिति बुध्या ‘एषः’ यजमानो ऽपि ‘एतत्’ ‘करोति’ ‘यत्’- इति सङ्ग्रहार्थः ॥ २ ॥

Eggeling
  1. When Varuṇa was consecrated, his energy, his vigour departed from him. Probably 2 that collected essence (life-sap) of the waters wherewith they were sprinkling him, drove out his energy, his vigour. He found it in the cattle, and because he found it in them, therefore cattle are an object of respect. And having found it in the cattle, he again took to himself his energy, his vigour. And in like manner this one;–that energy does not indeed depart from him, but he does it (thinking), ‘This Rājasūya is Varuṇa’s consecration, and Varuṇa did so.’

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ र᳘थमुपा᳘वहरति॥
यद्वै᳘ राज᳘न्यात्प᳘राग्भ᳘वति र᳘थेन वै तद᳘नुयुङ्क्ते त᳘स्माद्र᳘थमुपा᳘वहरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ र᳘थमुपा᳘वहरति॥
यद्वै᳘ राज᳘न्यात्प᳘राग्भ᳘वति र᳘थेन वै तद᳘नुयुङ्क्ते त᳘स्माद्र᳘थमुपा᳘वहरति॥

मूलम् - Weber

अ᳘थ र᳘थमुपा᳘वहरति॥
यद्वै᳘ राजॗन्यात्प᳘राग्भ᳘वति र᳘थेन वै तद᳘नुयुङ्क्ते त᳘स्माद्र᳘थमुपा᳘वहरति॥

मूलम् - विस्वरम्

अथ रथमुपावहरति । यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते । तस्माद्रथमुपावहरति ॥ ३ ॥

सायणः

अथ रथोपावहरणं विधत्ते- अथ रथमिति । स्थोपावहरणं प्रशंसति- यद्वै राजन्यादिति । ‘यद्’ वस्तु ‘राजन्यात्’ ‘पराक्’ पराचीनमवशम् अस्ति, ‘तत्’ एतत् अनेन ‘रथेन’ ‘अनुयुङ्क्ते’ अनुकूलं स्वाधीनं कुर्यात् । तस्माद् रथ उपावहर्त्तव्य इत्यर्थः ॥ ३ ॥

Eggeling
  1. He takes down the chariot (from the stand 3); for whatever turns away from the warrior (rājanya) that he overtakes with his chariot: for this reason he takes down the chariot.

०४

विश्वास-प्रस्तुतिः

स ऽउपा᳘वहरति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति व्व᳘ज्रो वै र᳘थ इ᳘न्द्रो वै य᳘जमानो द्वये᳘न वा᳘ ऽएष ऽइ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति॥

मूलम् - श्रीधरादि

स ऽउपा᳘वहरति॥
(ती᳘) इ᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति व्व᳘ज्रो वै र᳘थ इ᳘न्द्रो वै य᳘जमानो द्वये᳘न वा᳘ ऽएष ऽइ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति॥

मूलम् - Weber

स उपा᳘वहरति॥
इ᳘न्द्रस्य व᳘ज्रो ऽसी᳘ति व᳘ज्रो वै र᳘थ इ᳘न्द्रो वै य᳘जमानो द्वये᳘न वा᳘ एष इ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्तस्मादाहे᳘न्द्रस्य व᳘ज्रो ऽसी᳘ति॥

मूलम् - विस्वरम्

स उपावहरति- “इन्द्रस्य वज्रो ऽसि”- इति । वज्रो वै रथः । इन्द्रो वै यजमानः । द्वयेन वा ऽएष इन्द्रो भवति- यच्च क्षत्रियः, यदु च यजमानः । तस्मादाह- इन्द्रस्य वज्रो ऽसीति ॥ ४ ॥

सायणः

मन्त्रं विधत्ते- स उपावहरतीति 4इन्द्रस्येति । (श. प. ५ । १ । ४ । ३ । भा.) वाजपेये व्याख्यातः रथयजमानयोर्वज्रेन्द्रात्मकत्वमुपपादयति- वज्रो वा इति ॥ ४ ॥

Eggeling
  1. He takes it down with (Vāj. S. X, 21), ‘Thou art Indra’s thunderbolt!’ The chariot is indeed a thunderbolt; and the Sacrificer is Indra;–he is Indra for a twofold reason, namely because he is a

Kshatriya, and because he is a Sacrificer: therefore he says, ‘Indra’s thunderbolt thou art.’

०५

विश्वास-प्रस्तुतिः

त᳘मन्तर्व्वे᳘द्यभ्यवव᳘र्त्य[[!!]] युनक्ति॥
मित्राव᳘रुणयोस्त्वा प्रशास्त्रोः᳘ प्रशि᳘षा युनज्मी᳘ति बाहू वै᳘ मित्राव᳘रुणौ बाहु᳘भ्यां वै᳘ राज᳘न्यो मैत्रावरुणस्त᳘स्मादाह मित्राव᳘रुणयोस्त्वा प्रशास्त्रोः᳘ प्रशि᳘षा युनज्मी᳘ति॥

मूलम् - श्रीधरादि

त᳘मन्तर्व्वे᳘द्यभ्यवव᳘र्त्य[[!!]] युनक्ति॥
मित्राव᳘रुणयोस्त्वा प्रशास्त्रोः᳘ प्रशि᳘षा युनज्मी᳘ति बाहू वै᳘ मित्राव᳘रुणौ बाहु᳘भ्यां वै᳘ राज᳘न्यो मैत्रावरुणस्त᳘स्मादाह मित्राव᳘रुणयोस्त्वा प्रशास्त्रोः᳘ प्रशि᳘षा युनज्मी᳘ति॥

मूलम् - Weber

त᳘मन्तर्वेद्य᳘भ्यवव᳘र्त्य युनक्ति॥
मित्राव᳘रुणयोस्त्वा प्रशास्त्रोः᳘ प्रशि᳘षा युनज्मी᳘ति 5 बाहू वै᳘ मित्राव᳘रुणौ बाहु᳘भ्यां वै᳘ राजॗन्यो मैत्रावरुणस्त᳘स्मादाह मित्राव᳘रुणयोस्त्वा प्रशास्त्रोः᳘ प्रशि᳘षा युनज्मी᳘ति॥

मूलम् - विस्वरम्

तमन्तर्वेद्यभ्यववर्त्य युनक्ति- “मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि”- इति । बाहू वै मित्रावरुणौ । बाहुभ्यां वै राजन्यो मैत्रावरुणः । तस्मादाह- मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति ॥ ५ ॥

सायणः

रथस्य वज्रात्मकत्वमुक्तम् (श. प. ५ । १ । ४ । ३ ।), तस्य प्रदेशविधानपुरस्सरमश्वयोर्योजनं समन्त्रकं विधत्ते- तमन्तर्वेदीति 4 । ‘अन्तर्वेदि’ वेदिमध्ये ‘अभ्यावर्त्य’ अभिमुखमानीय दक्षिणस्यां वेदिश्रोणौ युञ्ज्यादित्यर्थः । हे रथ ! त्वां ‘प्रशास्त्रोः’ अनुशासकयोः आज्ञापयित्रोः ‘मित्रावरुणयोः’ ‘प्रशिषा’ प्रशासनेन यज्ञसम्बन्धनिमित्तं ‘युनज्मि’ अश्वैः संयोजयामि ‘इति’ । मित्रावरुणशब्दार्थमाह- बाहू वा इति ॥ ५ ॥

Eggeling
  1. Having turned it (so as to stand) inside the Vedi, he yokes it with, ‘I yoke thee by the direction of Mitra and Varuṇa, the directors 6;’ for Mitra and Varuṇa are the two arms, and by his arms the Rājanya belongs to Mitra and Varuṇa that is why he says, ‘I yoke thee by direction of Mitra and Varuṇa, the directors.’

०६

विश्वास-प्रस्तुतिः

तं᳘ चतुर्यु᳘जं युनक्ति॥
स᳘ जघ᳘नेन सदो᳘ ऽग्रेण शा᳘लां ये᳘नैव द᳘क्षिणा य᳘न्ति ते᳘न प्र᳘तिपद्यते तं᳘ जघ᳘नेन चा᳘त्वालम᳘ग्रेणा᳘ग्नीध्रमु᳘द्यच्छति॥

मूलम् - श्रीधरादि

तं᳘ चतुर्यु᳘जं युनक्ति॥
स᳘ जघ᳘नेन सदो᳘ ऽग्रेण शा᳘लां ये᳘नैव द᳘क्षिणा य᳘न्ति ते᳘न प्र᳘तिपद्यते तं᳘ जघ᳘नेन चा᳘त्वालम᳘ग्रेणा᳘ग्नीध्रमु᳘द्यच्छति॥

मूलम् - Weber

तं᳘ चतुर्यु᳘जं युनक्ति॥
स᳘ जघ᳘नेन सदो᳘ ऽग्रेण शा᳘लां ये᳘नैव द᳘क्षिणा य᳘न्ति ते᳘न प्र᳘तिपद्यते तं᳘ जघ᳘नेन चा᳘त्वालमग्रेणा᳘ग्नीध्रमु᳘द्यछति॥

मूलम् - विस्वरम्

तं चतुर्युजं युनक्ति । स जघनेन सदो ऽग्रेण शालां येनैव दक्षिणा यन्ति; तेन प्रतिपद्यते । तं जघनेन चात्वालम् अग्रेणाग्नीध्रमुद्यच्छति ॥ ६ ॥

सायणः

रथस्याश्वचतुष्टयोपेतत्वं विधत्ते- तं चतुर्युजमिति । दक्षिणापथेन गमनं विधत्ते- स जघनेनेति 7 । ‘सः’ अध्वर्युः ‘सदो जघनेन’ सदोमण्डपस्य पश्चिमभागे ‘शालामग्रेण’ प्राग्वंशस्याग्रभागे ‘येनैव’ येन मार्गेण ‘दक्षिणाः’ दक्षिणार्थं दीयमाना गावः ‘यन्ति’ गच्छन्ति, ‘तेन प्रतिपद्यते’ रथेन सहितं प्रविशेदित्यर्थः । “दक्षिणेन वेदिं दक्षिणा उपतिष्ठन्ते” इति चतुर्थकाण्डे दक्षिणागमनमुक्तम् (श. प. ४ । ३ । ४ । १४)। स्थसंस्थापनस्य प्रदेशविशेषं विधत्ते- तं जघनेनेति । आग्नीध्रचात्वालयोर्मध्यदेशे रथम् ‘उद्यच्छति’ ऊर्द्ध्वमुखं स्थापयेत् ॥ ६ ॥

Eggeling
  1. He yokes it with four (horses). He passes along by the same way as that on which the dakshiṇās 8 go,–behind the Sadas, and in front of the hall. He stops it behind the cātvāla, and in front of the Āgnīdhra.

०७

विश्वास-प्रस्तुतिः

तमा᳘तिष्ठति॥
(त्य᳘) अ᳘व्यथायै त्वा स्वधा᳘यै त्वेत्य᳘नार्त्यै त्वे᳘त्ये᳘वैत᳘दाह यदाहा᳘व्यथायै त्वे᳘ति स्वधा᳘यै त्वे᳘ति र᳘साय त्वे᳘त्ये᳘वैत᳘दाहा᳘रिष्टो ऽअ᳘र्जुन ऽइत्य᳘र्जुनो ह वै नामे᳘न्द्रो य᳘दस्य गु᳘ह्यं ना᳘म द्वये᳘न वा᳘ ऽएष ऽइ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहा᳘रिष्टो ऽअ᳘र्जुन इति[[!!]]॥

मूलम् - श्रीधरादि

तमा᳘तिष्ठति॥
(त्य᳘) अ᳘व्यथायै त्वा स्वधा᳘यै त्वेत्य᳘नार्त्यै त्वे᳘त्ये᳘वैत᳘दाह यदाहा᳘व्यथायै त्वे᳘ति स्वधा᳘यै त्वे᳘ति र᳘साय त्वे᳘त्ये᳘वैत᳘दाहा᳘रिष्टो ऽअ᳘र्जुन ऽइत्य᳘र्जुनो ह वै नामे᳘न्द्रो य᳘दस्य गु᳘ह्यं ना᳘म द्वये᳘न वा᳘ ऽएष ऽइ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहा᳘रिष्टो ऽअ᳘र्जुन इति[[!!]]॥

मूलम् - Weber

तमा᳘तिष्ठति॥
अ᳘व्यथायै त्वा स्वधा᳘यै त्वेत्य᳘नार्त्यै त्वे᳘त्येॗवैत᳘दाह यदाहा᳘व्यथायै त्वे᳘ति स्वधा᳘यै त्वे᳘ति र᳘साय त्वे᳘त्येॗवैत᳘दाहा᳘रिष्ठो अ᳘र्जुन इत्य᳘र्जुनो ह वै नामे᳘न्द्रो य᳘दस्य गह्यं ना᳘म द्वये᳘न वा᳘ एष इ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहा᳘रिष्टो अ᳘र्जुन इ᳘ति॥

मूलम् - विस्वरम्

तमातिष्ठति । “अव्यथायै त्वा स्वधायै त्वा” इति । अनार्त्यै त्वेत्येवैतदाह- यदाह- अव्यथायै त्वेति । स्वधायै त्वेति । रसाय त्वेत्येवैतदाह । “अरिष्टो ऽअर्जुनः"- इति । अर्जुनो ह वै नामेन्द्रो- यदस्य गुह्यं नाम । द्वयेन वा ऽएष इन्द्रो भवति- यच्च क्षत्रियो, यदु च यजमानः । तस्मादाह- अरिष्टो अर्जुन इति ॥ ७ ॥

सायणः

अथ यजमानस्य रथारोहणं समन्त्रकं विधत्ते- तमातिष्ठतीति । ‘आतिष्ठति’ आरोहेदित्यर्थः । ‘अव्यथायै’ “व्यथ भयसंचलनयोः” (धा. पा. भ्वा. प. ७६५ ।) अभयाय ‘त्वा’ त्वाम्, आतिष्ठामीति शेषः । ‘स्वधायै’ अन्नाय त्वामातिष्ठामि ‘इति’ । ‘अर्जुन इति’ इन्द्रस्य प्रियं नाम; इन्द्रात्मको ऽहमातिष्ठामीति सम्बन्धः ॥

मन्त्रं पदशो ऽनूद्य व्याचष्टे- अनार्त्त्यै त्वेति 7 । अर्जुनपदस्येन्द्रवाचकत्वं दर्शयति- अर्जुनो ह वा इति । ‘इन्द्रस्य’ ‘गुह्यं’ गूढं नामधेयम्, तस्मात् अर्जुन इन्द्रः ! अस्त्विन्द्रस्यार्जुननामधेयम्, प्रकृते किमायातमित्याशङ्क्य, यष्टुरिन्द्रात्मकत्वमाह- द्वयेन वा इति । क्षत्रसम्बन्धात् यष्टृत्वाच्च सुन्वत इन्द्रत्वम्; तस्मान्मन्त्रे अर्जुनपदेन यजमानाभिधानं युज्यत इत्यर्थः ॥ ७ ॥

Eggeling
  1. He mounts it with, ‘For unfeebleness (I mount) thee, for svadhā 9 (I mount) thee!’–by ‘for unfeebleness thee’ he means to say, ‘for a state free from afflictions (I mount) thee;’ by ‘for svadhā thee’ he means to say, ‘for life-sap (I mount) thee;’–‘I, the unharmed Arjuna!’ Now Indra is called Arjuna, which is his mystic name; and this (king) is Indra for a twofold reason, namely because he is a Kshatriya, and because he is a Sacrificer: therefore he says, ’the unharmed Arjuna.’

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दक्षिणायुग्यमु᳘पार्षति॥
मरु᳘तां प्रसवे᳘न जये᳘ति व्वि᳘शो वै᳘ मरु᳘तो व्विशा वै त᳘त्क्षत्रि᳘यो जयति यज्जि᳘गीषति त᳘स्मादाह मरु᳘तां प्रसवे᳘न जये᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दक्षिणायुग्यमु᳘पार्षति॥
मरु᳘तां प्रसवे᳘न जये᳘ति व्वि᳘शो वै᳘ मरु᳘तो व्विशा वै त᳘त्क्षत्रि᳘यो जयति यज्जि᳘गीषति त᳘स्मादाह मरु᳘तां प्रसवे᳘न जये᳘ति॥

मूलम् - Weber

अ᳘थ दक्षिणायुग्यमु᳘पार्षति॥
मरु᳘ताम् प्रसवे᳘न जये᳘ति वि᳘शो वै᳘ मरु᳘तो विशा वै त᳘त्क्षत्रि᳘यो जयति यज्जि᳘गीषति त᳘स्मादाह मरु᳘ताम् प्रसवे᳘न जये᳘ति॥

मूलम् - विस्वरम्

अथ दक्षिणायुग्यमुपार्षति- “मरुतां प्रसवेन जय”- इति । विशो वै मरुतः । विशा वै तत् क्षत्रियो जयति यज्जिगीषति । तस्मादाह- मरुतां प्रसवेन जयेति ॥ ८ ॥

सायणः

अथ दक्षिणभागे युक्तस्याश्वस्य प्राजनं समन्त्रकं विधत्ते- अथ दक्षिणेति 7 । ‘उपार्षति’ “ऋषी गतौ” (धातु. तु. प. ७ ।), प्राजतीत्यर्थः । हे अश्व ! ‘मरुतां’ विद्युद्रूपाणां ‘प्रसवेन’ प्रेरणया ‘जय’ सर्वं स्वाधीनं कुर्विति ॥

मन्त्रं व्याचष्टे- विशो वा इति । यद् राज्ञा जेतव्यमस्ति, तद् ‘विशा’ प्रजया ‘जयति’; तस्माद्विड्रूपमरुत्प्रतिपादनमन्त्रो युक्तः ॥ ८ ॥

Eggeling
  1. He then goads on the right yoke-horse, with, ‘Conquer thou by the impulse of the Maruts!’ For the Maruts are the clansmen, and it is by his

clan that the chieftain wins what he desires to win: therefore he says, ‘Conquer thou by the impulse of the Maruts!’

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ म᳘ध्ये ग᳘वामु᳘द्यच्छति॥
(त्या᳘) आ᳘पाम म᳘नसे᳘ति म᳘नसा वा᳘ ऽइद᳘ᳫँ᳭ स᳘र्व्वमाप्तं तन्म᳘नसै᳘वैतत्स᳘र्व्वमाप्नोति त᳘स्मादाहा᳘पाम᳘ मनसेति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ म᳘ध्ये ग᳘वामु᳘द्यच्छति॥
(त्या᳘) आ᳘पाम म᳘नसे᳘ति म᳘नसा वा᳘ ऽइद᳘ᳫँ᳭ स᳘र्व्वमाप्तं तन्म᳘नसै᳘वैतत्स᳘र्व्वमाप्नोति त᳘स्मादाहा᳘पाम᳘ मनसेति[[!!]]॥

मूलम् - Weber

अ᳘थ म᳘ध्ये ग᳘वामु᳘द्यछति॥
आ᳘पाम म᳘नसे᳘ति म᳘नसा वा᳘ इदᳫं स᳘र्वमाप्तं तन्म᳘नसैॗवैतत्स᳘र्वमाप्नोति त᳘स्मादाहा᳘पाम म᳘नसे᳘ति॥

मूलम् - विस्वरम्

अथ मध्ये गवामुद्यच्छति- “आपाम मनसा”- इति । मनसा वा ऽइदं सर्वमाप्तम् । तन्मनसैवैतत्सर्वमाप्नोति । तस्मादाह- आपाम मनसेति ॥ ९ ॥

सायणः

विधत्ते- अथ मध्य इति 10 । ‘गवां’ पूर्वं स्थापितानां ‘मध्ये’ ‘उद्यच्छति’ स्थापयति । ‘मनसा’ ‘आपाम’ आप्तवन्तो भवाम । आप्नोतेर्लुङि लृदित्त्वाच्च्लेरङि कृते रूपम् । मन्त्रस्य तात्पर्यमाह- मनसा वा इति ॥ ९ ॥

Eggeling
  1. He then stops (the chariot) in the midst of the cows 11, with, ‘May we obtain by the mind!’ For it is by the mind that everything here (that is obtained) is obtained; and by the mind therefore he now obtains everything: therefore he says, ‘May we obtain by the mind!’

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ धनुरार्त्न्या गामु᳘पस्पृशति॥
स᳘मिन्द्रियेणे᳘तीन्द्रियं वै᳘ व्वी᳘र्यं[[!!]] गा᳘व᳘ ऽइन्द्रिय᳘मे᳘वैत᳘द्वी᳘र्यमात्म᳘न्धत्ते᳘ ऽथाह[[!!]] जिना᳘मीमाः᳘ कुर्व्व᳘ ऽइमा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ धनुरार्त्न्या गामु᳘पस्पृशति॥
स᳘मिन्द्रियेणे᳘तीन्द्रियं वै᳘ व्वी᳘र्यं[[!!]] गा᳘व᳘ ऽइन्द्रिय᳘मे᳘वैत᳘द्वी᳘र्यमात्म᳘न्धत्ते᳘ ऽथाह[[!!]] जिना᳘मीमाः᳘ कुर्व्व᳘ ऽइमा ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ धनुरार्त्न्या गामु᳘पस्पृशति॥
स᳘मिन्द्रियेणे᳘तीन्द्रियं वै᳘ वीर्यं᳘ गा᳘व इन्द्रिय᳘मेॗवैत᳘द्वीर्य᳘मात्म᳘न्धत्ते᳘ ऽथाह जिना᳘मीमाः᳘ कुर्व᳘ इमा इ᳘ति॥

मूलम् - विस्वरम्

अथ धनुरार्त्न्या गामुपस्पृशति- “समिन्द्रियेण”- (वा. सं. १० । २१) इति । इन्द्रियं वै वीर्यम्- गावः । इन्द्रियमेवैतद्वीर्यमात्मन्धत्ते । अथाह- “जीनामीमाः कुर्व ऽइमाः” इति ॥ १० ॥

सायणः

अथ धनुष्कोट्या स्वानां स्थापितानां गवां मध्ये एकस्याः स्पर्शनं समन्त्रकं विधत्ते- धनुरिति (का. श्रौ. सू. १५ । १७३) । इन्द्रियेण बलेन सङ्गता भवामः । इन्द्रियं वा इति । “समिन्द्रियेण” इति मन्त्रेण गोरुपस्पर्शने इन्द्रियस्यैव वीर्यस्य धारणं कृतं भवतीत्यर्थः । शिष्टानां गवां स्वाधीनकरणार्थं ‘जिनामि’ इति ब्रूयात् । इदं ब्राह्मणोक्तं वाक्यम्, न तु मन्त्रः । तस्यायमर्थः- ‘इमाः’ गाः ‘जिनामि’, अपि चेमाः ‘कुर्वे’ स्वाधीनाः करवा इति । “ज्या वयोहानौ”, (धा. पा. क्र्या. प. २७) “ग्रहिज्या” इत्यादिना (पा. सू. ६ । १ । १६) सम्प्रसारणम् । अत्र सूत्रम्- “धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रियेणेति । जिनामीमाः कुर्व इमा इति चाह” (का. श्रौ. सू. १५ । १७३ । १७४) इति ॥ १० ॥

Eggeling
  1. He then touches a cow with the end of the bow, with, ‘Together with energy!’–energy means vigour, kine: it is energy, vigour, he thereby takes to himself. And he adds, ‘I overpower them, I seize them!’

११

विश्वास-प्रस्तुतिः

तद्यत्स्व᳘स्य गो᳘षूद्य᳘च्छति॥
यद्वै पु᳘रुषात्प᳘राग्भ᳘वति य᳘शो वा किं᳘चिद्वा स्व᳘ᳫँ᳘ है᳘वास्य त᳘त्प्रतमा᳘मिवाभ्य᳘पक्रामति तत्स्वा᳘दे᳘वैत᳘दिन्द्रियं᳘ व्वी᳘र्यं पु᳘नरात्म᳘न्धत्ते त᳘स्मात्स्व᳘स्य गोषू᳘द्यच्छति॥

मूलम् - श्रीधरादि

तद्यत्स्व᳘स्य गो᳘षूद्य᳘च्छति॥
यद्वै पु᳘रुषात्प᳘राग्भ᳘वति य᳘शो वा किं᳘चिद्वा स्व᳘ᳫँ᳘ है᳘वास्य त᳘त्प्रतमा᳘मिवाभ्य᳘पक्रामति तत्स्वा᳘दे᳘वैत᳘दिन्द्रियं᳘ व्वी᳘र्यं पु᳘नरात्म᳘न्धत्ते त᳘स्मात्स्व᳘स्य गोषू᳘द्यच्छति॥

मूलम् - Weber

तद्यत्स्व᳘स्य गो᳘षूद्य᳘छति॥
यद्वै पु᳘रुषात्प᳘राग्भ᳘वति य᳘शो वा किं᳘चिद्वा स्व᳘ᳫं᳘ हैवास्य त᳘त्प्रतमा᳘मिवाभ्य᳘पक्रामति तत्स्वा᳘देॗवैत᳘दिन्द्रियं᳘ वीर्य᳘म् पु᳘नरात्म᳘न्धत्ते त᳘स्मात्स्व᳘स्य गोषू᳘द्यछति॥

मूलम् - विस्वरम्

तद् यत्स्वस्य गोवूद्यच्छति, यद्वै पुरुषात्पराग्भवति यशो वा किञ्चिद्वा स्वं हैवास्य तत् । प्रतमामिवाभ्यपक्रामति । तत् स्वादेवैतदिन्द्रियं वीर्यं पुनरात्मन्धत्ते । तस्मात्स्वस्य गोषूद्यच्छति ॥ ११ ॥

सायणः

स्वानां स्थापितासु गोषु रथस्य स्थापनं प्रशंसति- तद्यदिति । ‘यद्’ वस्तु ‘पुरुषात्’ ‘पराक्’ पराधीनं बहिर्मुखं नष्टं ‘भवति’ । किं तत् ? तदाह- यशो वा किञ्चिदिति । तद् यशआदिक ‘किञ्चित्’ अन्यत् ‘स्वं’ स्वीयं वस्तु अभिलक्ष्य ‘प्रतमां’ प्रकर्षेण गच्छति । ‘तद्’ अनेन ‘अस्य’ ज्ञातेर्गोषु स्थापनेन पराङ्मुखं वीर्यं ‘स्वात्’ ज्ञातेः सकाशात् पुनः स्वाधीनं कृतवान् भवतीत्यर्थः ॥ ११ ॥

Eggeling
  1. Now as to why he stops amidst the cows of his relative,–whatever is tending away from a man, be it either fame, or anything else, that passes over to his relative foremost of all;–that energy, or vigour, he now takes again from his relative to himself: that is why he stops amidst the cows of his relative.

१२

विश्वास-प्रस्तुतिः

त᳘स्मै तावन्मात्री᳘र्व्वा भू᳘यसीर्व्वा प्र᳘तिददाति॥
न वा᳘ ऽएष᳘ क्रूरकर्म᳘णे भवति यद्य᳘जमानः क्रूर᳘मिव वा᳘ ऽएत᳘त्करोति यदा᳘ह जिना᳘मीमाः᳘ कुर्व्व᳘ ऽइमा ऽइ᳘ति त᳘द्यो हास्यैतद᳘क्रूरं कृत्ं᳘ भवति त᳘स्मात्तावन्मात्री᳘र्व्वा भू᳘यसीर्व्वा प्र᳘तिददाति॥

मूलम् - श्रीधरादि

त᳘स्मै तावन्मात्री᳘र्व्वा भू᳘यसीर्व्वा प्र᳘तिददाति॥
न वा᳘ ऽएष᳘ क्रूरकर्म᳘णे भवति यद्य᳘जमानः क्रूर᳘मिव वा᳘ ऽएत᳘त्करोति यदा᳘ह जिना᳘मीमाः᳘ कुर्व्व᳘ ऽइमा ऽइ᳘ति त᳘द्यो हास्यैतद᳘क्रूरं कृत्ं᳘ भवति त᳘स्मात्तावन्मात्री᳘र्व्वा भू᳘यसीर्व्वा प्र᳘तिददाति॥

मूलम् - Weber

त᳘स्मै तावन्मात्री᳘र्वा भू᳘यसीर्वा प्र᳘तिददाति॥
न वा᳘ एष᳘ क्रूरकर्म᳘णे भवति यद्य᳘जमानः क्रूर᳘मिव वा᳘ एत᳘त्करोति यदा᳘ह जिना᳘मीमाः᳘ कुर्व᳘ इमा इ᳘ति त᳘थो हास्यैतद᳘क्रूरं कृत᳘म् भवति त᳘स्मात्तावन्मात्री᳘र्वा भू᳘यसीर्वा प्र᳘तिददाति॥

मूलम् - विस्वरम्

तस्मै तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति । न वा ऽएष क्रूरकर्मणे भवति यद्यजमानः । क्रूरमिव वा ऽएतत्करोति यदाह- जिनामीमाः कुर्व ऽइमा इति । तथो हास्यैतदक्रूरं कृतं भवति । तस्मात्तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति ॥ १२ ॥

सायणः

अथ स्थापितानां गवां स्वामिने स्वाय, अन्यासां तावतीनां गवां प्रतिदानं दर्शयति- तस्मै तावन्मात्रीरिति 12 । यावासङ्ख्याकाः पूर्वमाहवनीयस्योत्तरतो गा अवस्थापिताः, ‘तावन्मात्रीः’ तावत् परिमाणं यासांताः तावन्मात्र्यः प्रमाणे मात्रच्-प्रत्ययः (पा. सू. १ । २ । ३७) “टिड्ढाणञ्” इति सूत्रेण ङीप् (पा. सू. ४ । १ । १५) । ‘भूयसीः’ ततो ऽप्यधिकाः । प्रतिदानं प्रशंसति- न वा एष क्रूरेति । यजमान इति । यत् एष क्रूरकर्मणे न भवति इत्यन्वयः । यजमानेनान्यस्य प्रीतिजनकं कर्म कर्त्तव्यम् । किं तत् क्रूरकर्मेति तद् दर्शयति- यदाह जिनामीति । तस्माद्गोस्वामिने स्वाय अन्यास्तावतीः ‘भूयसीर्वा’ गाश्च दत्त्वा वेदिमध्ये स्थितानां गवां स्वाधीनकरणेन क्रूरं कर्म न कृतं भवतीत्यर्थः ॥ १२ ॥

Eggeling
  1. In return he presents to him just as many (cows) 13, or more. For assuredly he, the Sacrificer,

is not capable of a cruel deed; but cruelly indeed he acts when he says, ‘I overpower them, I seize them;’ and thus that is done by him without cruelty: this is why, in return, he presents to him just as many (cows) or more.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दक्षिणाना᳘यच्छति॥
सो᳘ ऽग्रेण यू᳘पं द᳘क्षिणेन व्वे᳘दिं ये᳘नैव द᳘क्षिणा य᳘न्ति ते᳘न प्र᳘तिपद्यते तं᳘ जघ᳘नेन सदो᳘ ऽग्रेण शा᳘लामु᳘द्यच्छति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दक्षिणाना᳘यच्छति॥
सो᳘ ऽग्रेण यू᳘पं द᳘क्षिणेन व्वे᳘दिं ये᳘नैव द᳘क्षिणा य᳘न्ति ते᳘न प्र᳘तिपद्यते तं᳘ जघ᳘नेन सदो᳘ ऽग्रेण शा᳘लामु᳘द्यच्छति॥

मूलम् - Weber

अ᳘थ दक्षिणाना᳘यछति॥
सो᳘ ऽग्रेण यू᳘पं द᳘क्षिणेन वे᳘दिं ये᳘नैव द᳘क्षिणा य᳘न्ति ते᳘न प्र᳘तिपद्यते तं᳘ जघ᳘नेन सदो᳘ ऽग्रेण शा᳘लामु᳘द्यछति॥

मूलम् - विस्वरम्

अथ दक्षिणानायच्छति । सो ऽग्रेण यूपं दक्षिणेन वेदिम्- येनैव दक्षिणा यन्ति- तेन प्रतिपद्यते । तं जघनेन सदः, अग्रेण शालामुद्यच्छति ॥ १३ ॥

सायणः

आहवनीयस्योत्तरतः स्थापितानां गवां मध्ये दक्षिणतो ऽश्वानां स्थापनं विधत्ते- अथ दक्षिणानिति । यूपस्य पूर्वतो वेदेर्दक्षिणतः ‘दक्षिणान्’ दक्षिणदिङ्मुखानश्वान् आयच्छेत् । अथान्तःपात्यदेशे रथस्य स्थापनं विधातुमुदग्गमनमार्गमाह- सो ऽग्रेणेति । अनेन मार्गेण रथं प्रदक्षिणमावर्त्य । येनैव दक्षिणा इति । दक्षिणागमनमार्गस्तु पूर्वमेवोक्तः । सदसः पश्चिमे, शालायाः पूर्वदेशे रथम् ‘उद्यच्छति’ स्थापयेत् | हि- “पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति” ॥ १३ ॥

Eggeling
  1. He then pulls the right-side (horses, or reins). He passes along on the same way as that on which the dakshiṇā (cows) go,–in front of the sacrificial post, and along the south of the Vedi. Behind the Sadas, and in front of the hall, he stops that (car).

१४

विश्वास-प्रस्तुतिः

मा᳘ त ऽइन्द्र ते व्वयं᳘ तुराषाट्॥
(ड᳘) अ᳘युक्तासो ऽअब्रह्म᳘ता व्वि᳘दसाम॥ ति᳘ष्ठा र᳘थम᳘धि यं᳘ व्वज्रहस्ता᳘ रश्मी᳘न्देव यमसे स्व᳘श्वानित्यु᳘द्यच्छत्ये᳘वैत᳘या ऽभी᳘शवो वै᳘ रश्म᳘यस्त᳘स्मादाहा᳘ रश्मी᳘न्देव यमसे स्व᳘श्वानित्य᳘थ रथविमोचनी᳘यानि जुहोति प्रीतो र᳘थो व्वि᳘मुच्याता ऽइ᳘ति त᳘स्माद्रथविमोचनी᳘यानि जुहोति॥

मूलम् - श्रीधरादि

मा᳘ त ऽइन्द्र ते व्वयं᳘ तुराषाट्॥
(ड᳘) अ᳘युक्तासो ऽअब्रह्म᳘ता व्वि᳘दसाम॥ ति᳘ष्ठा र᳘थम᳘धि यं᳘ व्वज्रहस्ता᳘ रश्मी᳘न्देव यमसे स्व᳘श्वानित्यु᳘द्यच्छत्ये᳘वैत᳘या ऽभी᳘शवो वै᳘ रश्म᳘यस्त᳘स्मादाहा᳘ रश्मी᳘न्देव यमसे स्व᳘श्वानित्य᳘थ रथविमोचनी᳘यानि जुहोति प्रीतो र᳘थो व्वि᳘मुच्याता ऽइ᳘ति त᳘स्माद्रथविमोचनी᳘यानि जुहोति॥

मूलम् - Weber

मा᳘ न इन्द्र ते वयं᳘ तुराषाट्॥
अ᳘युक्तासो अब्रह्म᳘ता वि᳘दसाम ति᳘ष्ठा र᳘थम᳘धि यं᳘ वज्रहस्ता᳘ रश्मी᳘न्देव यमसे स्व᳘श्वानित्यु᳘द्यछत्येॗवैत᳘याभीशवो वै᳘ रश्म᳘यस्त᳘स्मादाहा᳘ रश्मी᳘न्देव यमसे स्व᳘श्वानित्य᳘थ रथविमोचनी᳘यानि जुहोति प्रीतो र᳘थो वि᳘मुच्याता इ᳘ति त᳘स्माद्रथविमोचनी᳘यानि जुहोति॥

मूलम् - विस्वरम्

“मा त इन्द्र ते वयं तुराषाट्, अयुक्तासो ऽअब्रह्मता विदसाम । तिष्ठा रथमधि यं वज्रहस्ता रश्मीन्देव यमसे स्वश्वान्”- (वा. सं. १० । २२) इति । उद्यच्छत्येवैतया । अभीशवो वै रश्मयः । तस्मादाह- आ रश्मीन्देव यमसे स्वश्वानिति । अथ रथविमोचनीयानि जुहोति । प्रीतो रथो विमुच्याता ऽइति । तस्माद्रथविमोचनीयानि जुहोति ॥ १४ ॥

सायणः

मा त इति मन्त्रस्यायमर्थः;- हे ‘वज्रहस्त !’ ‘यं रथम्’ ‘अधितिष्ठ’ अधितिष्ठसि, हे ‘देव !’ यस्मिंश्च त्वमवस्थितः ‘स्वश्वान्’ शोभनाश्वान् ‘रश्मीन्’ ‘आयमसे’ नियच्छसि । हे ‘तुराषाट् !’ तूर्णं सहत इति तुराषाट्, तस्य सम्बुद्धिः, हे ‘इन्द्र !’ ‘ते’ तव स्वभूते ‘रथे’ ‘अयुक्तासः’ संयोगरहिता वयम् ‘अब्रह्मता’ अब्रह्मत्वम् ‘विदसाम’ । विदेर्लेटि सिचि, “लेटो ऽडाटौ” (पा. सू. ३ । ४ । ७ । २ । १ । ३४ ।; ३ । ४ । ९७ ।; ३ । ४ । ९४) “इत्यडाटौ” च, विदेम । तव रथे अयुक्ताः वयं ब्रह्मवर्च्चसम् न लभामहे, किन्तु युक्ताः सन्तो ब्रह्मवर्च्चसमेव लभेमहीत्यर्थः । रश्मिपदस्यार्थमाह- अभीशव इति ॥

रथविमोचनीयहोमं विधत्ते- अथ रथेति 14 । रथ होमेन ‘प्रीतः’ सन् ‘विमुच्यातै’ विमुक्तो भवत्विति ॥ १४ ॥

Eggeling
  1. [Vāj. S. X, 22], ‘Lest, O Indra, overpowerer of the mighty, we be wanting thee, heedless through ungodliness,–mount thou, O divine wielder of the thunderbolt, the chariot which thou restrainest (as well as its) well-horsed reins 15.’ With this (verse) he stops (the chariot);–reins (raśmi) means bridle (abhīśu): therefore he says, ‘Thou restrainest the well-horsed reins 16.’ Thereupon he offers the (four oblations) relating to the unyoking of the chariot. ‘Well-pleased the chariot shall be when unyoked,’ he thinks, and therefore he offers the (oblations) relating to the unyoking of the chariot.

१५

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
(त्य) अग्न᳘ये गृह᳘पतये स्वाहे᳘ति स य᳘दे᳘वाग्नेयᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति व्व᳘हा वा᳘ ऽआग्नेया र᳘थस्य व्व᳘हाने᳘वैते᳘न प्रीणाति श्रीर्व्वै᳘ गार्हपतं या᳘वतोयावत ऽई᳘ष्टे तच्छ्रि᳘यमे᳘वास्यैत᳘द्गार्हपत᳘ᳫँ᳘ राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
(त्य) अग्न᳘ये गृह᳘पतये स्वाहे᳘ति स य᳘दे᳘वाग्नेयᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति व्व᳘हा वा᳘ ऽआग्नेया र᳘थस्य व्व᳘हाने᳘वैते᳘न प्रीणाति श्रीर्व्वै᳘ गार्हपतं या᳘वतोयावत ऽई᳘ष्टे तच्छ्रि᳘यमे᳘वास्यैत᳘द्गार्हपत᳘ᳫँ᳘ राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - Weber

स᳘ जुहोति॥
अग्न᳘ये गृह᳘पतये स्वाहे᳘ति स य᳘देॗवाग्नेयं र᳘थस्य त᳘देॗवैते᳘न प्रीणाति व᳘हा वा᳘ आग्नेया र᳘थस्य व᳘हानेॗवैते᳘न प्रीणाति श्रीर्वै᳘ गार्हपतं या᳘वतो-यावत ई᳘ष्टे तछ्रि᳘यमेॗवास्यैत᳘द्गार्हपतं᳘ राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - विस्वरम्

स जुहोति- “अग्नये गृहपतये स्वाहा”- (वा. सं. १० । २३) इति । स यदेवाग्नेयं रथस्य तदेवैतेन प्रीणाति । वहा वा ऽआग्नेयाः रथस्य । वहानेवैतेन प्रीणाति । श्रीर्वै गार्हपतम् । यावतो-यावत ईष्टे- तच्छ्रियमेवास्यैतद्गार्हपतं राज्यमभिविमुच्यते ॥ १५ ॥

सायणः

होममनूद्य चतुरो मन्त्रान् सार्थवादं पृथग् विधत्ते- स जुहोत्यग्नय इति । चतुर्णां मन्त्राणामयमर्थः- ‘गृहपतये अग्नये’ ‘स्वाहा’ सुहुतमस्तु । ‘वनस्पतये’ वनस्पतिगुणकाय ‘सोमाय स्वाहा’ ‘मरुतां’ सम्बन्धिने ‘ओजसे’ बलाय ‘स्वाहा’ । ‘इन्द्रस्य’ स्वभूताय ‘इन्द्रियाय’ वीर्याय ‘स्वाहा’ इति ॥ तत्र प्रथममन्त्रं प्रशंसति- यदेवाग्नेयमिति । मन्त्रैकदेशेनाग्निपदेन रथस्य आग्नेयमङ्गं प्रीणितवान् भवति । स्थस्याग्नेयमङ्गं दर्शयति- वहा वा इति । अश्वैरुह्यमानस्य युगस्य प्रान्तप्रदेशा वहाः, ते आग्नेयाः; “अग्निदग्धमिवैषां वहं भवति”- (श. प. १ । १ । २ । ९) इति श्रुतेः । अग्निदग्धत्वसाम्यात् रथे ऽपि वहा आग्नेयाः । प्रथमहोममन्त्रे ‘अग्नये’ इत्येकदेशपाठेन रथाङ्गप्रीणनम् । ‘गृहपतये’ इति भागं प्रशंसति- श्रीर्वा इति । ‘गार्हपतं’ गृहपतित्वं नाम ‘श्रीः’; यतः पुरुषो ‘यावतः’ धनस्य पुरुषस्य वा ‘ईष्टे’ ‘तत्’ एतेन गृहपतय इति मन्त्रभागपठनेन यजमानस्य गार्हपतलक्षणं राज्यमभिलक्ष्य रथो विमुक्तो भवतीत्यर्थः । एवमुत्तरेषु मन्त्रेषु एकदेशेन रथाङ्गप्रीणनम्, अपरेण यजमानफलार्थं रथविमोक उच्यत इति ॥ १५ ॥

Eggeling
  1. He offers with (Vāj. S. X, 23), ‘To Agni, the House-lord, hail!’ He thereby pleases the part of the chariot relating to Agni; and it is the shoulder-pieces of the chariot that relate to Agni it is the shoulder-pieces (of the yoke) he thereby pleases. And the house-lord’s position means prosperity: as much as he (the king) rules over, for

the prosperity, the house-lordship, of that his kingship is thereby rendered free (unopposed).

१६

विश्वास-प्रस्तुतिः

सो᳘माय व्व᳘नस्प᳘तये स्वाहे᳘ति॥
द्वया᳘नि वै᳘ व्वानस्पत्या᳘नि चक्रा᳘णि र᳘थ्यानि चानसा᳘नि च ते᳘भ्यो᳘ न्वे᳘वैत᳘दुभ᳘येभ्यो᳘ ऽरिष्टिं कुरुते सो᳘मो वै व्व᳘नस्प᳘तिः स य᳘देव᳘ व्वानस्पत्यᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति दा᳘रूणि वै᳘ व्वानस्पत्या᳘नि र᳘थस्य दा᳘रूण्ये᳘वैते᳘न प्रीणाति क्षत्रं वै सो᳘मः क्षत्र᳘मे᳘वास्यैत᳘द्राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - श्रीधरादि

सो᳘माय व्व᳘नस्प᳘तये स्वाहे᳘ति॥
द्वया᳘नि वै᳘ व्वानस्पत्या᳘नि चक्रा᳘णि र᳘थ्यानि चानसा᳘नि च ते᳘भ्यो᳘ न्वे᳘वैत᳘दुभ᳘येभ्यो᳘ ऽरिष्टिं कुरुते सो᳘मो वै व्व᳘नस्प᳘तिः स य᳘देव᳘ व्वानस्पत्यᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति दा᳘रूणि वै᳘ व्वानस्पत्या᳘नि र᳘थस्य दा᳘रूण्ये᳘वैते᳘न प्रीणाति क्षत्रं वै सो᳘मः क्षत्र᳘मे᳘वास्यैत᳘द्राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - Weber

सो᳘माय व᳘नस्प᳘तये स्वाहे᳘ति॥
द्वया᳘नि वै᳘ वानस्पत्या᳘नि चक्रा᳘णि र᳘थ्यानि चानसा᳘नि च ते᳘भ्योॗ न्वेॗवैत᳘दुभ᳘येभ्यो᳘ ऽरिष्टिं कुरुते सो᳘मो वै व᳘नस्प᳘तिः स य᳘देव᳘ वानस्पत्यं र᳘थस्य त᳘देॗवैते᳘न प्रीणाति दा᳘रूणि वै᳘ वानस्पत्या᳘नि र᳘थस्य दा᳘रूण्येॗवैते᳘न प्रीणाति क्षत्रं वै सो᳘मः क्षत्र᳘मेॗवास्यैत᳘द्राज्यमभिवि᳘मुच्यते॥

मूलम् - विस्वरम्

सोमाय वनस्पतये स्वाहा"- (वा. सं. १० । २३) इति । द्वयानि वै वानस्पत्यानि चक्राणि-रथ्यानि च आनसानि च । तेभ्यो न्वेवैतदुभयेभ्यो ऽरिष्टिं कुरुते । सोमो वै वनस्पतिः । स यदेव वानस्पत्यं रथस्य- तदेवैतेन प्रीणाति । दारूणि वै वानस्पत्यानि रथस्य । दारूण्येवैतेन प्रीणाति । क्षत्रं वै सोमः । क्षत्रमेवास्यैतद्राज्यमभिविमुच्यते ॥ १६ ॥

सायणः

सोमायेति । द्वयानीति । वनस्पतिनिर्मितानि ‘चक्राणि’ ‘द्वयानि’ ‘द्विप्रकाराणि’ ‘रथ्यानि’ रथसम्बन्धीनि, ‘आनसानि’ अनस्सम्बन्धीनि ‘च’ इति । तदेतेन “सोमाय वनस्पतये”- इति मन्त्रपाठेन उभयविधेभ्यो रथ्यानसचक्रेभ्यः, तदर्थम्, ‘अरिष्टिम्’ अहिंसां कृतवान् भवति । सोमस्य वनस्पतित्वात् ओषधिपोषकत्वात् वनस्पतिपदेन रथस्य दारुविनिर्मितान्यङ्गानि प्रीणयति । सोमस्य क्षत्ररूपत्वम्, राजत्वाद् बलसम्पादकत्वाद्वा । तस्मात्सोमपदेन क्षत्रियसम्बन्धि स्वाराज्यमभिलक्ष्य रथो विमुक्तो भवतीत्यर्थः ॥ १६ ॥

Eggeling
  1. ‘To Soma, the wood-lord (tree), hail!’ There are two kinds of (objects) coming from trees, the wheels of chariots and waggons, for both of these he thereby ensures safety. And the wood-lord (tree) being Soma,–whatever part of the chariot comes from the tree, that he thereby pleases. Now the parts of the chariot coming from trees are the wooden pieces of the chariot: hence it is the wooden pieces he thereby pleases. And Soma being the nobility, it is over the nobility that his kingship is thereby rendered free.

१७

विश्वास-प्रस्तुतिः

मरु᳘तामो᳘जसे स्वाहे᳘ति॥
स य᳘देव᳘ मारुतᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति चत्वारो᳘ ऽश्वा र᳘थः पञ्चमो द्वौ᳘ सव्यष्टृसारथी ते᳘ सप्त᳘ सप्त᳘ सप्त वै᳘ मारुतो᳘ गणः स᳘र्व्वमे᳘वैते᳘न र᳘थं प्रीणाति व्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शमे᳘वास्यैत᳘द्राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - श्रीधरादि

मरु᳘तामो᳘जसे स्वाहे᳘ति॥
स य᳘देव᳘ मारुतᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति चत्वारो᳘ ऽश्वा र᳘थः पञ्चमो द्वौ᳘ सव्यष्टृसारथी ते᳘ सप्त᳘ सप्त᳘ सप्त वै᳘ मारुतो᳘ गणः स᳘र्व्वमे᳘वैते᳘न र᳘थं प्रीणाति व्वि᳘शो वै᳘ मरु᳘तो व्वि᳘शमे᳘वास्यैत᳘द्राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - Weber

मरु᳘तामो᳘जसे स्वाहे᳘ति॥
स य᳘देव᳘ मारुतं र᳘थस्य त᳘देॗवैते᳘न प्रीणाति चत्वारो᳘ ऽश्वा र᳘थः पञ्चमो द्वौ᳘ सव्यष्ठृसारथी ते सप्त᳘ सप्त᳘-सप्त व᳘ मारुतो᳘ गणः स᳘र्वमेॗवैते᳘न र᳘थम् प्रीणाति वि᳘शो वै मरु᳘तो वि᳘शमेॗवास्यैत᳘द्राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - विस्वरम्

“मरुतामोजसे स्वाहा”- (वा० सं० १० । ३२) इति । स यदेव मारुतं रथस्य- तदेवैतेन प्रीणाति । चत्वारो ऽश्वाः, रथः पञ्चमो, द्वौ सव्यष्टृसारथी- ते सप्त । सप्त सप्त वै मारुतो गणः । सर्वमेवैतेन रथं प्रीणाति । विशो वै मरुतः । विशमेवास्यैतद्राज्यमभिविमुच्यते ॥ १७ ॥

सायणः

मरुतामिति । तृतीये ऽत्र मन्त्रे मरुतामिति पदेन रथस्यैव प्रीणनम् । रथस्य मारुतत्वं सम्पादयति- चत्वारो ऽश्वा इति । रथस्थाश्वचतुष्टयम्, ‘रथः’ स्वयं पञ्चमः, ‘द्वौ सव्यष्टृसारथी’ सव्यदक्षिणभागयोरवस्थितौ द्वौ सारथी इति ‘सप्त’ सङ्ख्या अस्ति; मरुतामपि सप्तगणात्मकत्वात् सप्तसंख्याकत्वम्; अतः सप्तसंख्यासाम्यान्मरुतामिति पदेन रथस्यैव प्रीणनं कृतं भवतीत्यर्थः । मरुत्पदमेव यजमानस्य फलार्थमपि प्रशंसति- विशो वा इति ॥ १७ ॥

Eggeling
  1. ‘To the strength of the Maruts, hail!’ He thereby pleases the part of the chariot belonging to the Maruts,–there are four horses, the chariot the fifth, and the warrior (chariot-fighter) and charioteer two–these are seven, and the host of the Maruts consists of (troops of) seven each: he thereby pleases the whole chariot; and the Maruts being the peasants, it is over the peasantry that his kingship is thereby rendered free.

१८

विश्वास-प्रस्तुतिः

(त ऽ) इ᳘न्द्रस्येन्द्रिया᳘य स्वाहे᳘ति॥
स य᳘दे᳘वैन्द्रᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति सव्यष्ठा वा᳘ ऽऐन्द्रो र᳘थस्य सव्यष्ठा᳘रमे᳘वैते᳘न प्रीणातीन्द्रियं वै᳘ व्वी᳘र्यमि᳘न्द्र[[!!]] ऽइन्द्रियमे᳘वास्यैत᳘द्वी᳘र्यᳫँ᳭[[!!]] राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - श्रीधरादि

(त ऽ) इ᳘न्द्रस्येन्द्रिया᳘य स्वाहे᳘ति॥
स य᳘दे᳘वैन्द्रᳫँ᳭ र᳘थस्य त᳘दे᳘वैते᳘न प्रीणाति सव्यष्ठा वा᳘ ऽऐन्द्रो र᳘थस्य सव्यष्ठा᳘रमे᳘वैते᳘न प्रीणातीन्द्रियं वै᳘ व्वी᳘र्यमि᳘न्द्र[[!!]] ऽइन्द्रियमे᳘वास्यैत᳘द्वी᳘र्यᳫँ᳭[[!!]] राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - Weber

इ᳘न्द्रस्येन्द्रिया᳘य स्वाहे᳘ति॥
स य᳘देॗवैन्द्रं र᳘थस्य त᳘देॗवैते᳘न प्रीणाति सव्यष्ठा वा᳘ ऐन्द्रो र᳘थस्य सव्यष्ठा᳘रमेॗवैते᳘न प्रीणातीन्द्रियं वै᳘ वीर्य᳘मि᳘न्द्र इन्द्रिय᳘मेॗवास्यैत᳘द्वीर्यं᳘ राज्य᳘मभिवि᳘मुच्यते॥

मूलम् - विस्वरम्

“इन्द्रस्येन्द्रियाय स्वाहा” (वा० सं० १० । २३) इति । स यदेवैन्द्रं रथस्य- तदेवैतेन प्रीणाति । सव्यष्ठा वा ऽऐन्द्रो रथस्य । सव्यष्ठारमेवैतेन प्रीणाति । इन्द्रियं वै वीर्यम्- इन्द्र इन्द्रियमेवास्यैतद्वीर्यं राज्यमभिविमुच्यते ॥ १८ ॥

सायणः

इन्द्रस्येति । अत्र चतुर्थमन्त्रे इन्द्रपदेन रथस्य सारथिप्रीणनम् । सव्यभागे तिष्ठतीति ‘सव्यष्ठा’ । तिष्ठतेरौणादिक ऋकारप्रत्ययः । किञ्च, कित्त्वादाल्लोपः, “अम्बाम्बगोभूमि” (पा. सू. ८ । ३ । ९७) इति सूत्रे ‘स्थास्थिन् स्थॄणाम्’ इति वचनात् षत्वम् ॥ १८ ॥

Eggeling
  1. ‘To Indra’s energy, hail!’ He thereby pleases the part of the chariot that belongs to Indra. Now the warrior relates to Indra, and it is the warrior he thereby pleases. And Indra’s energy (indriya) means the vigour in Indra 17: it is in regard to energy, vigour, that his kingship is thereby rendered free.

१९

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ व्वा᳘राह्या ऽउपान᳘हा ऽउ᳘पमुञ्चते॥
(ते ऽग्नौ᳘) अग्नौ᳘ ह वै᳘ देवा᳘ घृतकुम्भं᳘ प्रवेशयां᳘ चक्रुस्त᳘तो व्वराहः स᳘म्बभूव त᳘स्माद्वराहो᳘ मेदुरो᳘ घृताद्धि स᳘म्भूतस्त᳘स्माद्वराहे गा᳘वः सं᳘जानते स्व᳘मे᳘वैतद्र᳘समभिसं᳘जानते त᳘त्पशूना᳘मे᳘वैतद्र᳘से प्र᳘तितिष्ठति त᳘स्माद्वा᳘राह्या ऽउपान᳘हा ऽउ᳘पमुञ्चते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ व्वा᳘राह्या ऽउपान᳘हा ऽउ᳘पमुञ्चते॥
(ते ऽग्नौ᳘) अग्नौ᳘ ह वै᳘ देवा᳘ घृतकुम्भं᳘ प्रवेशयां᳘ चक्रुस्त᳘तो व्वराहः स᳘म्बभूव त᳘स्माद्वराहो᳘ मेदुरो᳘ घृताद्धि स᳘म्भूतस्त᳘स्माद्वराहे गा᳘वः सं᳘जानते स्व᳘मे᳘वैतद्र᳘समभिसं᳘जानते त᳘त्पशूना᳘मे᳘वैतद्र᳘से प्र᳘तितिष्ठति त᳘स्माद्वा᳘राह्या ऽउपान᳘हा ऽउ᳘पमुञ्चते॥

मूलम् - Weber

अ᳘थ वा᳘राह्या उपान᳘हा उ᳘पमुञ्चते॥
अग्नौ᳘ ह वै᳘ देवा᳘ घृतकुम्भ᳘म् प्रवेशयां᳘ चक्रुस्त᳘तो वराहः स᳘म्बभूव त᳘स्माद्वराहो᳘ मेदुरो᳘ घृताद्धि स᳘म्भूतस्त᳘स्माद्वराहे गा᳘वः सं᳘जानते स्व᳘मेॗवैतद्र᳘समभिसं᳘जानते त᳘त्पशूना᳘मेॗवैतद्र᳘से प्र᳘तितिष्ठति त᳘स्माद्वा᳘राह्या उपान᳘हा उ᳘पमुञ्चते॥

मूलम् - विस्वरम्

अथ वाराह्या ऽउपानहा ऽउपमुञ्चते । अग्नौ ह वै देवा घृतकुम्भं प्रवेशयांचक्रुः । ततो वराहः सम्बभूव । तस्माद्वराहो मेदुरः । घृताद्धि सम्भूतः । तस्माद्वराहे गावः सञ्जानते । स्वमेवैतद्रसमभिसंजानते । तत्- पशूनामेवैतद्रसे प्रतितिष्ठति । तस्माद्वाराह्या उपानहा ऽउपमुञ्चते ॥ १९ ॥

सायणः

विधत्ते- अथ वाराह्या इति । ‘वाराह्यौ’ वराहचर्मनिर्मिते ‘उपानहौ’ ‘उपमुञ्चते’ । कात्यायनेन पशूनां रसो ऽसीति मन्त्रेण वाराह्योरुपानहोरुपमोको (ऐ. ब्रा. ६ । ४ । ७) विहितः 18 । तत्र मन्त्रे वराहस्य पशुरसत्वमभिधीयते, तदुपपादयति- अग्नौ ह वै देवा इति । पूर्वं देवा घृतकुम्भमग्नौ प्रासुः, तस्माद् वराह उत्पन्नः; अतो घृतोत्पन्नत्वाद् वराहस्य ‘मेदुरत्वं’ मांसलत्वम् । तस्मिन् ‘वराहे’ ‘गावः’ ‘सञ्जानते’ संवदन्ते; स्वीयरसभूतघृतोत्पन्नत्वात् । तस्माद् वाराह्योरुपानहोरुपमोकेन पशुरस एव स्वयं प्रतिष्ठितो भवतीत्यर्थः ॥ १९ ॥

Eggeling
  1. He then puts on shoes of boar’s skin. Now the gods once put a pot of ghee on the fire. Therefrom a boar was produced: hence the boar is fat,

for it was produced from ghee. Hence also cows readily take to a boar: it is indeed their own essence (life-sap, blood) they are readily taking to. Thus he firmly establishes himself in the essence of the cattle: therefore he puts on shoes of boar’s skin.

२०

विश्वास-प्रस्तुतिः

(ते᳘ ऽथे) अ᳘थेमां᳘ प्रत्यवे᳘क्षमाणो जपति॥
पृ᳘थिवि मातर्मा᳘ मा हिᳫँ᳭सी᳘र्मो ऽअहं त्वामि᳘ति व्व᳘रुणाद्ध वा᳘ ऽअभिषिषिचाना᳘त्पृथिवी᳘ बिभया᳘ञ्चकार महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं᳘ नावदृणीयादि᳘ति व्व᳘रुण ऽउ ह पृथिव्यै᳘ बिभया᳘ञ्चकार यद्वै᳘ मेयं᳘ नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यमकुरुत न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥

मूलम् - श्रीधरादि

(ते᳘ ऽथे) अ᳘थेमां᳘ प्रत्यवे᳘क्षमाणो जपति॥
पृ᳘थिवि मातर्मा᳘ मा हिᳫँ᳭सी᳘र्मो ऽअहं त्वामि᳘ति व्व᳘रुणाद्ध वा᳘ ऽअभिषिषिचाना᳘त्पृथिवी᳘ बिभया᳘ञ्चकार महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं᳘ नावदृणीयादि᳘ति व्व᳘रुण ऽउ ह पृथिव्यै᳘ बिभया᳘ञ्चकार यद्वै᳘ मेयं᳘ नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यमकुरुत न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥

मूलम् - Weber

अ᳘थेमा᳘म् प्रत्यवे᳘क्षमाणो जपति॥
पृ᳘थिवि मातर्मा᳘ मा हिंसीॗर्मो अहं त्वामि᳘ति व᳘रुणाद्ध वा᳘ अभिषिषिचाना᳘त्पृथिवी᳘ बिभयां᳘ चकार महद्वा᳘ अय᳘मभूॗद्यो ऽभ्य᳘षेचि यद्वै᳘ मायं नावदृणीयादि᳘ति व᳘रुण उ ह पृथिव्यै᳘ बिभयां᳘ चकार यद्वै᳘ मेयं᳘ नावधून्वीते᳘ति त᳘दन᳘यैॗवैत᳘न्मित्रधे᳘यमकुरुत न हि᳘ माता᳘ पुत्र᳘ᳫं᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥

मूलम् - विस्वरम्

अथेमां प्रत्यवेक्षमाणो जपति- “पृथिवि मातर्मा मा हिंसीः, मो ऽअहं त्वाम्”- (वा० सं० १० । २३) इति । वरुणाद्ध वा ऽअभिषिषिचानात्पृथिवी विभयाञ्चकार- महद्वा ऽअयमभूद्, यो ऽभ्यषेचि । यद्वै मा ऽयं नावदृणीयादिति । वरुण उ ह पृथिव्यै बिभयाञ्चकार- यद्वै मेयं नावधून्वीतेति । तदनयैवैतन्मित्रधेयमकुरुत । न हि माता पुत्रं हिनस्ति, न पुत्रो मातरम् ॥ २० ॥

सायणः

अथेमामिति 18 । ‘पृथिवि’ ‘मातः !’ सर्वेषां निर्मात्रि, पृथिव्या मातृत्वम् “द्यौः पिता पृथिवी माता" इति (ऋ. सं. १ । १६४ । ३३) श्रुत्यन्तरेषु श्रूयते । ‘मा’ मां ‘मा हिंसीः’ मा वधिष्ठाः, ‘अहम्’ अपि ‘त्वां’ नैव हिंसिषमिति मन्त्रार्थः । “वरुणाद्ध वा अभिषिषिचानात्” इत्यादिकः, “न हि माता पुत्रं हिनस्ति, न पुत्रो मातरम्”- इत्यन्तो वाक्यसन्दर्भो वाजपेये भूम्यवेक्षणप्रसङ्गे व्याख्यातः (श. प. ५ । २ । १ । १८ भाष्ये) ॥ २० ॥ २१ ॥

Eggeling
  1. Looking down on this (earth) he then mutters, ‘O mother Earth, injure me not, nor I thee!’ For the Earth was once afraid of Varuṇa, when he had been consecrated, thinking, ‘Something great surely has he become now that he has been consecrated: I fear lest he may rend me asunder!’ And Varuṇa also was afraid of the Earth, thinking, ‘I fear lest she may shake me off!’ Hence by that (formula) he entered into a friendly relation with her; for a mother does not injure her son, nor does a son injure his mother.

२१

विश्वास-प्रस्तुतिः

व्वरुणसवो वा᳘ ऽएष य᳘द्राजसू᳘यम्॥
पृथि᳘व्यु हैत᳘स्माद्बिभेति महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं᳘ नावदृणीयादि᳘त्येष᳘ ऽउ हास्यै᳘ बिभेति यद्वै᳘ मेयं᳘[[!!]] नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यं कुरुते न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रं त᳘स्मादेवं᳘ जपति॥

मूलम् - श्रीधरादि

व्वरुणसवो वा᳘ ऽएष य᳘द्राजसू᳘यम्॥
पृथि᳘व्यु हैत᳘स्माद्बिभेति महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं᳘ नावदृणीयादि᳘त्येष᳘ ऽउ हास्यै᳘ बिभेति यद्वै᳘ मेयं᳘[[!!]] नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यं कुरुते न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रं त᳘स्मादेवं᳘ जपति॥

मूलम् - Weber

वरुणसवो वा᳘ एष य᳘द्राजसू᳘यम्॥
पृथिॗव्यु हैत᳘स्माद्बिभेति महद्वा᳘ अय᳘मभूॗद्यो ऽभ्य᳘षेचि यद्वै᳘ माॗयं नावदृणीयादि᳘त्येष᳘ उ हास्यै᳘ बिभेति यद्वै᳘ मेॗयं नावधून्वीते᳘ति त᳘दन᳘यैॗवैत᳘न्मित्रधे᳘यं कुरुते न हि᳘ माता᳘ पुत्र᳘ᳫं᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रं त᳘स्मादेवं᳘ जपति॥

मूलम् - विस्वरम्

वरुणसवो वा ऽएषः- यद्राजसूयम् । पृथिव्यु हैतस्माद्विभेति- महद्वा ऽअयमभूद्- यो ऽभ्यषेच, द्वै मा ऽयं नावणीयादिति । एष उ हास्यै विभेति यद्वै मेयं नावधन्वी मधे कुरुते। न हि माता पुत्रं हिनस्ति, न पुत्रो मातरम्, तस्मादेवं जपति ॥ २१ ॥

सायणः

[व्याख्यानं विंशतितमे]

Eggeling
  1. Now this Rājasūya is Varuṇa’s consecration; and the Earth is afraid of him, thinking, ‘Something great surely has he become now that he has been consecrated: I fear lest he may rend me asunder!’ And he also is afraid of her, thinking, ‘I fear lest she may shake me off.’ Hence he thereby enters into a friendly relation with her; for a mother does not injure her son, nor does a son injure his mother: therefore he mutters thus.

२२

विश्वास-प्रस्तुतिः

सो᳘ ऽवतिष्ठति॥
हᳫँ᳭सः᳘ शुचिषद्व᳘सुरन्तरिक्षसद्धो᳘ता व्वेदिषद᳘तिथिर्दुरोणस᳘त्॥
नृष᳘द्वरस᳘दृतस᳘द्व्योमस᳘दब्जा᳘ गोजा᳘ ऽऋतजा᳘ ऽअद्रिजा᳘ ऽऋतं᳘ बृहदि᳘त्येताम᳘तिच्छन्दसं ज᳘पन्नेषा वै स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि यद᳘तिच्छन्दास्त᳘थैनं पाप्मा᳘ नान्व᳘वतिष्ठति॥

मूलम् - श्रीधरादि

सो᳘ ऽवतिष्ठति॥
हᳫँ᳭सः᳘ शुचिषद्व᳘सुरन्तरिक्षसद्धो᳘ता व्वेदिषद᳘तिथिर्दुरोणस᳘त्॥
नृष᳘द्वरस᳘दृतस᳘द्व्योमस᳘दब्जा᳘ गोजा᳘ ऽऋतजा᳘ ऽअद्रिजा᳘ ऽऋतं᳘ बृहदि᳘त्येताम᳘तिच्छन्दसं ज᳘पन्नेषा वै स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि यद᳘तिच्छन्दास्त᳘थैनं पाप्मा᳘ नान्व᳘वतिष्ठति॥

मूलम् - Weber

सो᳘ ऽवतिष्ठति॥
हंसः᳘ शुचिषद्व᳘सुरन्तरिक्षसद्धो᳘ता वेदिषद᳘तिथिर्दुरोणस᳘त्॥
नृष᳘द्वरस᳘दृतस᳘द्व्योमस᳘दब्जा᳘ गोजा᳘ ऋतजा᳘ अद्रिजा᳘ ऋत᳘म् बृहदित्येताम᳘तिछन्दसं ज᳘पन्नेषा वै स᳘र्वाणि छ᳘न्दांसि यद᳘तिछन्दास्त᳘थैनम् पाप्माॗ नान्व᳘वतिष्ठति॥

मूलम् - विस्वरम्

सो ऽवतिष्ठति- “हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्”- (वा. सं. १० । २४) इति । एतामतिच्छन्दसं जपन् । एषा वै सर्वाणि- छन्दांसि यदतिच्छन्दाः । तथैनं पाप्मा नान्ववतिष्ठति ॥ २२ ॥

सायणः

रथादवरोहणं विधत्ते सो ऽवतिष्ठतीति 19 । अवरुह्य तिष्ठतीति अवशब्दस्य रुहिकर्मणा समन्वये “समवप्रविभ्यः स्थः” इति (पा. सू. १ । ३ । २२) आत्मनेपदं न भवति; तिष्ठतिक्रियायोगाभावेन प्रेत्युपसर्गसंज्ञाय । अभावात्, अन्यथा आत्मनेपदं दुर्निवारं स्यात् । अथवा व्यत्ययेन परस्मैपदम् ॥

हंस इति । मन्त्रस्यायमर्थः- हन्ति पृथिवीमिति ‘हंसः’ रथः, शुचौ देवयजने रथवाहने च सीदतीति ‘शुचिषत्’, तस्योपरि यजमानं वासयतीति ‘वसुः’, तरुगुल्माद्यनवरुद्धे ऽन्तरिक्षे सीदतीति ‘अन्तरिक्षसत्’, ‘होता’ होतृसमानः, तदेव कथमित्युच्यते- वेद्यां सीदतीति ‘वेदिषत्’, ‘अतिथिः’ अतिथिसदृशः, तदपि कथमित्युच्यते- दुरोणेषु गृहेषु सीदतीति ‘दुरोणसत्’ यो यस्तमारोढुं नयति तस्य गृहे सीदति, नृषु मनुष्येषूपकारं कर्तुं सीदतीति ‘नृषत्’, वरे श्रेष्ठे राजादिगृहे सीदतीति ‘वरसत्’, ऋते यज्ञे वाजपेयादौ सीदतीति ‘ऋतसत्’ सूर्यं वोढुं व्योमनि आकाशे सीदतीति ‘व्योमसत्’ । “अप्सुयोनिर्वा अश्वः” इति श्रुतेः (श. प. १३ । २ । २ । १९) अद्भ्यो जातैरश्वैरुपेतत्वात् ‘अब्जाः’, गोशब्दवाच्याद् वज्राज्जायत इति ‘गोजाः’, एतच्च “स्फ्यस्तृतीयँ रथस्तृतीयम्” इत्याम्नातम् (तै. सं. ५ । २ । ६ । २) । ऋतार्थं यज्ञार्थं जातत्वात् ‘ऋतजाः’ अद्रिभ्यो दृढकाष्ठेभ्यो जातत्वात् ‘अद्रिजाः’ । ईदृशो रथो ‘बृहत्’ प्रौढं राजसूयाख्यम्, ‘ऋतं’ यज्ञं सम्पादयत्विति रथपक्षे ऽर्थः ॥

सूर्यपक्षे त्वयमर्थः- हन्ति गच्छतीति ‘हंसः’ आदित्यः, शुचौ निर्मले मण्डले सीदतीति ‘शुचिषत्’, ‘वसुः’ निवासहेतुः, प्राणात्मकवायुरूपेणान्तरिक्षे सीदतीति ‘अन्तरिक्षसत्’, अग्निरूपेण वेद्यां सीदतीति ‘वेदिषत्’, अप्सु सुक्ष्मभूतेषु जायत इति ‘अब्जाः’, गोषु पृथिवीप्रधानेषु स्थूलभूतेषु जायत इति ‘गोजाः’ ऋते सत्यभूते मण्डले जायत इति ‘ऋतजाः’ अद्रौ पाषाणे वा मेघे उदकरूपेण जायत इति अद्रिजाः । ‘ऋतम्’ “ऋ गतौ” (धा. पा. भ्वा. प. ९६१) सर्वत्र व्याप्तं ज्ञानात्मकम् ‘बृहत्’ “बृहि वृद्धौ” (धा. पा. भ्वा. प. ७३५) प्रवृद्धम्, परमानन्दलक्षणमिति ॥

मन्त्रगतं छन्दोविशेषं प्रशंसति- एतामतिछन्दसमिति । हंसमन्त्रस्यातिजगतीच्छन्दः, सा च गायत्र्यादीनि च्छन्दांसि अतिक्रम्य वर्त्तत इति तस्या अतिच्छन्दस्त्वम् । सर्वासामेव च्छन्दसां तत्रान्तर्भावात् सर्वच्छन्दोरूपत्वम्, तस्मात् सर्वच्छन्दो ऽतिक्रमणात् ‘एतां’ जपित्वा, अवरोहन्तम् ‘एनम्’ यजमानम् ‘अनु’ ‘पाप्मा’ नावतिष्ठति’ नावरोहति, पाप्मानमतिक्रामेदित्यर्थः ॥ २२ ॥

Eggeling
  1. He steps down (from the chariot), muttering this atichandas verse (Vāj. S. X, 24; R̥k S. IV, 40, 5), ‘The swan dwelling in the light, the Vasu dwelling in the air, the priest seated on the altar, the guest dwelling in the retreat (house),–the man-dwelling, the space-dwelling 20, the law-dwelling, the sphere-dwelling, the water-born,

cow-born, law-born, rock-born (is) the great law.’ For that atichandas (or excessive metre) comprises all the metres: thus evil does not descend along with him.

२३

विश्वास-प्रस्तुतिः

तं न᳘ संग्रही᳘ता ऽन्व᳘वतिष्ठेत्॥
(न्ने) नेत्तं᳘ लोक᳘मन्ववति᳘ष्ठाद्य᳘ᳫँ᳘ सुषुवा᳘णो ऽन्ववा᳘स्थादि᳘ति तᳫँ᳭ स᳘रथमेव᳘ रथवा᳘हन ऽआ᳘दधति त᳘तो ऽवाङ᳘पप्रवते त᳘था तं᳘ लो᳘कं नान्व᳘वतिष्ठति य᳘ᳫँ᳘ सुषुवा᳘णो ऽन्ववा᳘स्थात्॥

मूलम् - श्रीधरादि

तं न᳘ संग्रही᳘ता ऽन्व᳘वतिष्ठेत्॥
(न्ने) नेत्तं᳘ लोक᳘मन्ववति᳘ष्ठाद्य᳘ᳫँ᳘ सुषुवा᳘णो ऽन्ववा᳘स्थादि᳘ति तᳫँ᳭ स᳘रथमेव᳘ रथवा᳘हन ऽआ᳘दधति त᳘तो ऽवाङ᳘पप्रवते त᳘था तं᳘ लो᳘कं नान्व᳘वतिष्ठति य᳘ᳫँ᳘ सुषुवा᳘णो ऽन्ववा᳘स्थात्॥

मूलम् - Weber

तं न᳘ संग्रहीॗतान्व᳘वतिष्ठेत्॥
नेत्तं᳘ लोक᳘मन्ववति᳘ष्ठाद्य᳘ᳫं᳘ सुषुवाॗणो ऽन्ववा᳘स्थादि᳘ति तᳫं स᳘रथमेव᳘ रथवा᳘हन 21 आ᳘दधति त᳘तो ऽवाङ᳘पप्रवते त᳘था तं᳘ लोॗकं नान्व᳘वतिष्ठति य᳘ᳫं᳘ सुषुवाॗणो ऽन्ववा᳘स्थात्॥

मूलम् - विस्वरम्

तं न सङ्ग्रहीता ऽन्ववतिष्ठेत्- नेत् तं लोकमन्ववतिष्ठाद्- यं सुषुवाणो ऽन्ववास्थादिति । तं सरथमेव रथवाहन ऽआदधाति । ततो ऽवाङपप्रवते । तथा तं लोकं नान्ववतिष्ठति- यं सुषुवाणो ऽन्ववास्थात् ॥ २३ ॥

सायणः

सयन्तृकस्य रथस्य रथवाहने ऽनसि स्थापनं विधातुं यन्तुरवस्थानं निषेधति- तन्नेति 22 । सम्यक् प्रग्रहं गृह्णातीति ‘सङ्ग्रहीता’ ’ सारथिः सः, ‘तं’ यजमानम् ‘अनु’ ‘नावतिष्ठेत्’ नावरोहेत् । तत्र कारणमाह- नेदिति । सुन्वन् यं लोकं प्राप्नोति, तं लोकं सारथिरपि न प्राप्नुयादिति । तं सरथमिति । ‘रथवाहने’ रथस्थापनसाधने ‘अनसि’ ‘तम्’ सयन्तृकं ‘रथम्’ ‘आदधाति’ निदध्यात् । तथा च तैत्तिरीयकम्- “यदुभौ सहावतिष्ठेतां समानं लोकमियातां सह संग्रहीत्रा रथवाहने रथमादधाति सुवर्गादेवैनं लोकादन्तर्दधाति” (तै. ब्रा. १ । ७ । ९ । ६) तत ‘इति’ । ‘ततः’ पश्चाद् यन्ता ‘अवाङ्’ अवाङ्मुखः सन् ‘अपप्रवते’ “प्रुङ् गतौ” (धा.पा. स्वा. प. ९८२) इति । धातुः, अवरोहतीत्यर्थः । तथा च सूत्रितम्- “शालाया दक्षिणतो ऽपप्रवते यन्ता”- (का. श्रौ. सू. १५ । १७९) इति ॥ २३ ॥

Eggeling
  1. Let not the charioteer get down along with (or, after) him, lest he should descend on the same world on which the anointed (king) has just descended. They put him up, along with the chariot, on the car-stand. Thence he leaps down: thus he does not descend on the same world on which the anointed has just descended 23.

२४

विश्वास-प्रस्तुतिः

(दु᳘) उ᳘त्तरेणाहवनी᳘यं पूर्व्वाग्निरु᳘द्वृतो भवति॥
स᳘ रथवा᳘हनस्य द᳘क्षिणम᳘न्वनुष्यन्द᳘ᳫँ᳘ शत᳘मानौ प्रवृत्तावा᳘बध्नाति॥

मूलम् - श्रीधरादि

(दु᳘) उ᳘त्तरेणाहवनी᳘यं पूर्व्वाग्निरु᳘द्वृतो भवति॥
स᳘ रथवा᳘हनस्य द᳘क्षिणम᳘न्वनुष्यन्द᳘ᳫँ᳘ शत᳘मानौ प्रवृत्तावा᳘बध्नाति॥

मूलम् - Weber

उ᳘त्तरेणाहवनी᳘यम् पूर्वाग्निरु᳘द्वृतो 24 भवति॥
स᳘ रथवा᳘हनस्य द᳘क्षिणम᳘न्वनुष्यन्दं᳘ शत᳘मानौ प्रवृत्तावा᳘बध्नाति॥

मूलम् - विस्वरम्

उत्तरेणाहवनीयं पूर्वाग्निरुद्वृत्तो भवति । स रथवाहनस्य दक्षिणमन्वनुष्यन्दं शतमानौ प्रवृत्तावाबध्नाति ॥ २४ ॥

सायणः

पूर्वं स्वस्य भ्रातुरर्थाय गोः स्थापनकाले पूर्वाग्निवहनस्याहवनीयस्योत्तरतः स्थापनं सूत्रकृतोक्तम्- “गवां शतमधिकं वा स्वस्याहवनीयस्योत्तरतः स्थापयति, पूर्वाग्निवहञ्च साग्नि” (का. श्रौ. सू. १५ । १६६ । १६७) इति । तदिदानीं विधत्ते- उत्तरेणाहवनीयामिति । पूर्वाग्निरिति । शान्तिपौष्टिकार्थीयो ऽग्निः ‘पूर्वाग्निः,’ ‘सः’ अनसा ‘उद्धृतः’ ऊद्वृत्तः वृत्तः स्थापितो ‘भवति’ ॥

अथ रथवाहनस्य दक्षिणे अंशे शतमानयोरासञ्जनम्, वर्त्मनि औदुम्बर्याः शाखाया उपगूहनञ्च विधत्ते- स रथेति । ‘दक्षिणम्’ अनुष्यन्दं प्रान्तमनु ‘प्रवृत्तौ’ वर्त्तुलौ ‘शतमानौ’ शतमानपरिमितौ द्वौ रुक्मौ ‘आबध्नाति’ आसजेत् 25 ॥ २४ ॥

Eggeling
  1. North of the Āhavanīya is the original fire, taken up (from the hearth 26). Behind the right hind-wheel of the cart-stand he fastens two round śatamānas 27.

२५

विश्वास-प्रस्तुतिः

(त्यौ᳘) औ᳘दुम्बरीᳫँ᳭ शा᳘खामु᳘पगूहति॥
त᳘योरन्यतरमु᳘पस्पृशती᳘यदस्या᳘युरस्या᳘युर्म᳘यि धेहि यु᳘ङ्ङसि व्व᳘र्चो ऽसि व्व᳘र्चो म᳘यि धेही᳘ति तदा᳘युर्व्व᳘र्च ऽआत्म᳘न्धत्ते॥

मूलम् - श्रीधरादि

(त्यौ᳘) औ᳘दुम्बरीᳫँ᳭ शा᳘खामु᳘पगूहति॥
त᳘योरन्यतरमु᳘पस्पृशती᳘यदस्या᳘युरस्या᳘युर्म᳘यि धेहि यु᳘ङ्ङसि व्व᳘र्चो ऽसि व्व᳘र्चो म᳘यि धेही᳘ति तदा᳘युर्व्व᳘र्च ऽआत्म᳘न्धत्ते॥

मूलम् - Weber

औ᳘दुम्बरीं शा᳘खामु᳘पगूहति॥
त᳘योरन्यतरमु᳘पस्पृशती᳘यदस्या᳘युरस्या᳘युर्म᳘यि धेहि यु᳘ङ्ङसि व᳘र्चो म᳘यि धेही᳘ति तदा᳘युर्व᳘र्च आत्म᳘न्धत्ते॥

मूलम् - विस्वरम्

औदुम्बरीं शाखामुपगूहति । तयोरन्यतरमुपस्पृशति- “इयदस्यायुरस्यायुर्मयि धेहि । युङ्ङसि वर्चो ऽसि वर्चो मयि धेहि"- इति । तद् आयुर्वर्च आत्मन्धत्ते ॥ २५ ॥

सायणः

औदुम्बरीमिति । तयोः शतमानयोरन्यतरस्योपस्पर्शनं समन्त्रकं विधत्ते- तयोरिति । कात्यायनस्तु 25 मन्त्रद्वयं कृत्वा उभयोरपि स्पर्शने विनियोगमुक्तवान् “उपस्पृशति शतमानावियदसीत्येकं युङ्ङसीत्यपरम्” 28 इति । ‘इयदसि’ एतावत्परिमाणो ऽसि । अत्र तत्परिमाणं हस्तेनाभिधीयते; स्वल्पपरिमितत्वात् । ‘आयुरसि’ आयुः-स्वरूपो ऽसि; “आयुर्हिरण्यम्” (तै. ब्रा. १ । ७ । ६ । ३) इति श्रुतेः । तस्मात् ‘आयुर्मयि धेहि’ यो हि यदात्मको भवति, स एव तद् दातुमुत्सहते । ‘युङ्ङसि’ “युजिर् योगे” (धा. पा. रु. उ. ७ ।) यज्ञं युनक्तीति ‘युङ्,’ तथाविधः ‘असि‘ ‘वर्च्चः’ तेजः ‘असि’ । तरमाद् ‘वर्च्चो मयि धेहि’ मन्त्रस्यार्थं सङ्कलय्याह- तदायुर्वर्च्च इति ॥ २५ ॥

Eggeling
  1. He then hides an udumbara (ficus glomerata) branch (in the wheel-track). He touches one of those two (plates), with (Vāj. S. X, 25), ‘So great thou art, life thou art: bestow life upon me! A yoke-mate thou art, lustre thou art: bestow lustre upon me!’ He thereby takes life and lustre to himself.

२६

विश्वास-प्रस्तुतिः

(त्ते ऽथौ᳘) अथौ᳘दुम्बरीᳫँ᳭ शा᳘खामु᳘पस्पृशति॥
(त्यू᳘) ऊ᳘र्गस्यूर्जं[[!!]] म᳘यि धेही᳘ति तदू᳘र्जमात्म᳘न्धत्ते त᳘स्यैत᳘स्य क᳘र्मण ऽएता᳘वेव᳘ शत᳘मानौ प्रवृत्तौ द᳘क्षिणा तौ᳘ ब्रह्म᳘णे ददाति ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपाय᳘ति त᳘स्मात्तौ᳘ ब्रह्म᳘णे ददाति॥

मूलम् - श्रीधरादि

(त्ते ऽथौ᳘) अथौ᳘दुम्बरीᳫँ᳭ शा᳘खामु᳘पस्पृशति॥
(त्यू᳘) ऊ᳘र्गस्यूर्जं[[!!]] म᳘यि धेही᳘ति तदू᳘र्जमात्म᳘न्धत्ते त᳘स्यैत᳘स्य क᳘र्मण ऽएता᳘वेव᳘ शत᳘मानौ प्रवृत्तौ द᳘क्षिणा तौ᳘ ब्रह्म᳘णे ददाति ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपाय᳘ति त᳘स्मात्तौ᳘ ब्रह्म᳘णे ददाति॥

मूलम् - Weber

अथौ᳘दुम्बरीं शा᳘खामु᳘पस्पृशति॥
ऊ᳘र्गस्यू᳘र्जम् म᳘यि धेही᳘ति तदू᳘र्जमात्म᳘न्धत्ते त᳘स्यैत᳘स्य क᳘र्मण एता᳘वेव᳘ शत᳘मानौ प्रवृत्तौ द᳘क्षिणा तौ᳘ ब्रह्म᳘णे ददाति ब्रह्मा हि᳘ यज्ञं᳘ दक्षिण᳘तो ऽभिगोपाय᳘ति त᳘स्मात्तौ᳘ ब्रह्म᳘णे ददाति॥

मूलम् - विस्वरम्

अथौदुम्बरीं शाखामुपस्पृशति- “ऊर्गस्यूर्जं मयि धेहि”- इति । तद् ऊर्जमात्मन्धत्ते । तस्यैतस्य कर्मण एतावेव शतमानौ प्रवृत्तौ दक्षिणा । तौ ब्रह्मणे ददाति । ब्रह्मा हि यज्ञं दक्षिणतो ऽभिगोपायति । तस्मात्तौ ब्रह्मणे ददाति ॥ २६ ॥

सायणः

शाखाया उपस्पर्शनं समन्त्रं विधत्ते- औदुम्बरीमिति 29 । ‘ऊर्क्’ अन्नम् ‘असि’ । तस्मात् ‘मयि’ ‘ऊर्जम्’ अन्नं ‘धेहि’ इति । एतयोर्दानं विधत्ते- तस्यैतस्येति । ब्रह्मणे दानं प्रशंसति- ब्रह्मा हि यज्ञमिति ॥ २६ ॥

Eggeling
  1. He then touches the udumbara branch, with, ‘Sustenance thou art: bestow sustenance upon me!’ He thereby takes sustenance (strength) to himself. Those same two round śatamānas are the fee for this ceremony. He gives them to the

Brahman priest, for the Brahman protects the sacrifice from the south: therefore he gives them to the Brahman.

२७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यम्॥
मैत्रावरुणी᳘ पय᳘स्या नि᳘हिता भवति ता᳘मस्य बाहू᳘ ऽअभ्युपा᳘वहरती᳘न्द्रस्य वां व्वीर्यकृ᳘तो बाहू᳘ ऽअभ्युपा᳘वहरामी᳘ति पशूनां वा᳘ ऽएष र᳘सो य᳘त्पय᳘स्या त᳘त्पशूना᳘मे᳘वास्यैतद्र᳘सं बाहू ऽअभ्युपा᳘वहरति[[!!]] तद्य᳘न्मैत्रावरुणी भ᳘वति मित्राव᳘रुणा ऽउ हि᳘ बाहू तस्मान्मैत्रावरुणी᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यम्॥
मैत्रावरुणी᳘ पय᳘स्या नि᳘हिता भवति ता᳘मस्य बाहू᳘ ऽअभ्युपा᳘वहरती᳘न्द्रस्य वां व्वीर्यकृ᳘तो बाहू᳘ ऽअभ्युपा᳘वहरामी᳘ति पशूनां वा᳘ ऽएष र᳘सो य᳘त्पय᳘स्या त᳘त्पशूना᳘मे᳘वास्यैतद्र᳘सं बाहू ऽअभ्युपा᳘वहरति[[!!]] तद्य᳘न्मैत्रावरुणी भ᳘वति मित्राव᳘रुणा ऽउ हि᳘ बाहू तस्मान्मैत्रावरुणी᳘ भवति॥

मूलम् - Weber

अ᳘ग्रेण मैत्रावरुण᳘स्य धि᳘ष्ण्यम्॥
मैत्रावरुणी᳘ पयॗस्या नि᳘हिता भवति ता᳘मस्य बाहू᳘ अभ्युपा᳘वहरती᳘न्द्रस्य वां वीर्यकृ᳘तो बाहू᳘ अभ्युपा᳘वहरामी᳘ति पशूनां वा᳘ एष र᳘सो य᳘त्पयॗस्या त᳘त्पशूना᳘मेॗवास्यैतद्र᳘सम् बाहू᳘ अभ्युपा᳘वहरति तद्य᳘न्मैत्रावरुणी भ᳘वति मित्राव᳘रुणा उ हि᳘ बाहू तस्मान्मैत्रावरुणी᳘ भवति॥

मूलम् - विस्वरम्

अग्रेण मैत्रावरुणस्य धिष्ण्यं मैत्रावरुणी पयस्या निहिता भवति । तामस्य बाहू ऽअभ्युपावहरति । “इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपावहरामि”- (वा० सं० १० । २५) इति । पशूनां वा ऽएष रसो- यत्पयस्या । तत्- पशूनामेवास्यैतत् रसं बाहू ऽअभ्युपावहरति । तद्यन्मैत्रा वरुणी भवति । मित्रावरुणा ऽउ हि बाहू । तस्मान्मैत्रावरुणी भवति ॥ २७ ॥

सायणः

विधत्ते- अग्रेण मैत्रेति । मैत्रावरुणधिष्ण्यस्य पूर्वभागे व्याघ्रचर्मदेशे मित्रावरुणदेवत्या ‘पयस्या’ आमिक्षा ‘निहिता भवति’ । तस्यां यजमानबाह्वोरवहरणं विधत्ते- तामस्य बाहू इति 29 । ‘अस्य’ सुन्वतो ‘बाहू’ ‘ताम्’ ‘अभि’ लक्ष्य ‘उपावहरति’ प्रसारयति । हे ‘बाहू !’ ‘वीर्यकृतः’ वीर्यकारिणः ‘इन्द्रस्य’ यजमानस्य सम्बन्धिनौ ‘वां’ युवां ‘बाहू’ ‘अभ्युपावहरामि’ ‘अभि’ लक्ष्य स्थापयामि बाहप्रक्षेपं प्रशंसति- पशूनां वा इति । पयस्यायाः पशुरसात्मकत्वात् पशुरसमभिलक्ष्य बाहू स्थापितवान् भवतीति । पयस्याया मैत्रावरुणत्वं प्रशंसति- तद्यन्मैत्रावरुणीति ॥ २७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे चतुर्था ऽध्याये तृतीयं ब्राह्मणम् ॥ (५-४-३) ॥

Eggeling
  1. In front of the Maitrāvaruṇa’s hearth the dish of curds for Mitra and Varuṇa has been deposited. He draws down to it his (the Sacrificer’s) two arms 30, with, ‘I draw you down, the arms of Indra, the doer of mighty deeds.’ Now curds are the essence of cattle: hence it is to the essence of cattle that he thereby brings down his (the Sacrificer’s) arms. And as to its being for Mitra-Varuṇa, it is because Mitra and Varuṇa are the two arms.

  1. स᳘म्भृतो भवति A. B sec. m. C. स᳘म्भृतो भ᳘वति B prima manu. ↩︎

  2. 98:2 I am now inclined to think that some such meaning as ‘probably, perhaps’ (more nearly, German ‘wohl’), fits all the passages (in the Brāhmaṇas at all events) where śaśvat occurs. ↩︎

  3. 98:3 See above, V, 1, 4, 3 seq. ↩︎

  4. व्वाजपेयवद्रथमवहृत्य का. श्रौ. सू. १५ । १६८ । मरुत्वतीयांत इंद्रस्य व्वज्र इति रथावहरणम् । का. श्रौ. सू. १४ । ५७ ॥ ↩︎ ↩︎

  5. युनय्मी᳘ति AC. ↩︎

  6. 99:1 Praśāstr̥, ’the director,’ is also another name for the Maitrāvaruṇa priest. ↩︎

  7. दक्षिणापथेन यात्वा ऽपरेण चात्वालँ स्थापयति । का. श्रौ. सू. १५ । १६९ । ↩︎ ↩︎ ↩︎

  8. 99:2 That is, the cows given to priests as sacrificial fee. For particulars regarding the passage by which they are driven to their destination, see part ii, p. 344, note 1. ↩︎

  9. 99:3 Probably here ‘for well-being;’ the author, however, evidently takes it here in the sense of ‘invigorating potion,’ the drink offered to the deceased ancestors. ↩︎

  10. गवाम्मध्य स्थापयत्यापामेति । का. श्रौ. सू. १५ । १७२ । ↩︎

  11. 100:1 In the ceremonial of the Black Yajus a sham-fight takes place here. East or north of the sacrificial ground a Rājanya has posted himself with bow in hand. The king discharges the arrows at him, with, ‘Obtained is the mind!’ and having thus, as it were, overpowered the enemy, ne wheels round in a sunwise direction, with, ‘I (have become endowed) with energy, with vigour!’ He then puts on shoes of boar’s skin, with, ‘Thou art the mettle of cattle,’ gets down from the chariot, and puts on ornaments of silver, copper (as Sāyaṇa here interprets audumbara), and gold (afterwards to be given to the Brahman). Then follow the oblations relating to the unyoking of the chariot. Taitt. S. I, 8, 15, with commentary. ↩︎

  12. तावद्भूयो वा गोस्वामिने दत्त्वा । का. श्रौ. सू. १५ । १७५ । ↩︎

  13. 100:2 Viz. as many as he has taken from him, a hundred or more. ↩︎

  14. अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमंत्रम् । का० श्रौ० सू० १५ । १७६ । ↩︎

  15. 101:1 For a different version of this somewhat awkwardly constructed verse, see R̥k S. V, 33, 3. ↩︎

  16. 101:2 The explanation is given because the word has also the meaning ‘ray.’ ↩︎

  17. 102:1 ? Or, means vigour, Indra. ↩︎

  18. पशूनाँ रसो ऽसीति व्वराहोपानहा उपमुंचते । का. श्रौ. सू. १५ । १७६ । ↩︎ ↩︎

  19. अवरोहति हँ सः शुचिषदिति । का० श्रौ० सू० १५ । १७८ । ↩︎

  20. 103:1 Or perhaps, ‘in the best place (vara).’ See VI, 7, 3, 11. ↩︎

  21. रथवाहण ABC. and thus also the mss. of Kâtyâyana. See पाणि ८. ४. ८. ↩︎

  22. विमुच्य सयंतृकँ रथवाहने करोत्यनस्तत्कर्म । का. श्रौ. सू. १५ । १७९ । ↩︎

  23. 104:1 According to Taitt. Br. I, 7, 9, 6, the king, on returning to the Vedi, is supposed to have ascended to the heavenly world (suvargaloka), from which the charioteer is to be excluded by this expedient. ↩︎

  24. ग्निरु᳘द्वृत्तो C. ग्निरु᳘द्वृतो A. B sec. m. and a marginal gloss at Kâty. १५.६.२८. ग्निरु᳘धृतो B pr. m. from उधृ instead of उद्धृ. ↩︎

  25. रथवाहनस्य दक्षिणें ऽते शतमानावासजति व्वृत्तौ । का. श्रौ. सू. १५ । १८१ । ↩︎ ↩︎

  26. 104:2 The Āhavanīya of the hall (the so-called ‘hall-door fire’) has been lifted and placed on a cart. ↩︎

  27. 104:3 Or, two round (gold) plates, weighing a hundred mina (or berries of Guñjā, or Abrus Precatorius, the average weight of which is stated to be 1 5/16 grains Troy). ↩︎

  28. अनुषर्त्ममौदुंबरी शाखामुपभूहति । उपस्पृशति । शतमानावियदसीति । का० श्रौ० सू० १५ । १८२ ॥ ↩︎

  29. तौ ब्रह्मणे दत्त्वोर्गसीति । शाखामुपस्पृशति । का. श्रौ. सू. १७ । १८३ । ↩︎ ↩︎

  30. 105:1 Whilst this is done, the king stands on the tiger’s skin, and the Adhvaryu hands him his bow and arrows. Thereupon the dish of curds is taken to the uttaravedi to be proceeded with. Kāty. Śr. XV, 6, 34-35. ↩︎