०१
विश्वास-प्रस्तुतिः
तं वै प्रा᳘ञ्चं ति᳘ष्ठन्तमभि᳘षिञ्चति॥
पुर᳘स्ताद्ब्राह्म᳘णो ऽभि᳘षिञ्चत्यध्वर्यु᳘र्वा यो᳘ वा ऽस्य पुरो᳘हितो भ᳘वति पश्चादि᳘तरे॥
मूलम् - श्रीधरादि
तं वै प्रा᳘ञ्चं ति᳘ष्ठन्तमभि᳘षिञ्चति॥
पुर᳘स्ताद्ब्राह्म᳘णो ऽभि᳘षिञ्चत्यध्वर्यु᳘र्वा यो᳘ वा ऽस्य पुरो᳘हितो भ᳘वति पश्चादि᳘तरे॥
मूलम् - Weber
तं वै प्रा᳘ञ्चं ति᳘ष्ठन्तमभि᳘षिञ्चति॥
पुर᳘स्ताद्ब्राह्मॗणो ऽभि᳘षिञ्चत्यध्वर्यु᳘र्वा यो᳘ वास्य पुरो᳘हितो भ᳘वति पश्चादि᳘तरे॥
मूलम् - विस्वरम्
तं वै प्राञ्चं तिष्ठन्तमभिषिञ्चति । पुरस्ताद्ब्राह्मणो ऽभिषिञ्चति, अध्वर्युर्वा, यो वा ऽस्य पुरोहितो भवति । पश्चादितरे ॥ १ ॥
सायणः
अथ द्वितीयब्राह्मणे ऽभिषेक उच्यते । अत्र कात्यायनः- “स्थितं प्राञ्चमभिषिञ्चति पुरोहितो ऽध्वर्युर्वा पुरस्तात् पालाशेन प्रथमम्, पश्चादितरे द्वितीयेन, स्वस्तृतीयेन, मित्र्यो राजन्यो वैश्यश्चतुर्थेन, सोमस्य त्वा द्युम्नेनेति प्रतिमन्त्रम्, अभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात्, क्षत्राणां क्षत्रपतिरेधीति चेमममुष्य”- (का. श्रौ. सू. १५ । १४९-१५२) ऊर्द्ध्वबाहुत्वेन स्थितं प्राङ्मुखं यजमानं पुरोहिताध्वर्य्वोरन्यतरो ब्राह्मणः सुन्वतः पुरोदेशे स्थित्वा पालाशेन पात्रेणाभिषिञ्चेत् । इतरे स्वादयस्त्रयो ऽभिषिच्यमानस्य पश्चाद्भागे स्थित्वा स्वस्वपात्रेणाभिषिञ्चेयुः । तत्र “सोमस्य”- इत्यादयश्चत्वारो मन्त्राश्चतुर्णाम् । तत्राभिषिञ्चामीति प्रथममन्त्रगतस्य पदस्योत्तरेषु त्रिष्वनुषङ्गः; साकाङ्क्षत्वान्मन्त्राणाम् । “क्षत्राणां क्षत्रपतिरेधि”- इति च सर्वत्रानुषज्यते, “इमं देवा असपत्नम्”– इत्येष मन्त्रश्च । तत्र ‘इमम्’ ‘अमुष्य’- इति स्थाने यष्टुस्तत्पितुश्च नाम गृह्णीयादिति सूत्रार्थः ॥
तमिमं क्रमेण विधत्ते- तं वै प्राञ्चमिति । तच्छब्दः प्रकृतवाची, उर्द्ध्वबाहुमित्यर्थः । ‘प्राञ्चं’ प्राङ्मुखं ‘तिष्ठन्तम्’ अभिषिञ्चेत्; ‘पुरस्ताद्’ अभिषिच्यमानस्य पुरोदेशे ‘ब्राह्मणः’ अभिषिञ्चेत्, ‘इतरे’ त्रयः ‘पश्चात्’ सुन्वतः पश्चिमभागे स्थित्वा अभिषिञ्चेयुः ॥ १ ॥
Eggeling
- He (the king) is anointed (sprinkled) whilst standing with his face turned towards the east. A Brāhman–either the Adhvaryu, or he who is his (the king’s) court chaplain–sprinkles him in front, from behind;–
०२
विश्वास-प्रस्तुतिः
सो᳘मस्य त्वा द्युम्नेनाभि᳘षिञ्चामी᳘ति॥
व्वी᳘र्येणैत᳘दाहाग्नेर्भ्रा᳘जसे᳘ति व्वी᳘र्येणै᳘वैत᳘दाह सू᳘र्यस्य व्व᳘र्चसे᳘ति व्वी᳘र्येणै᳘वैत᳘दाहे᳘न्द्रस्येन्द्रियेणे᳘ति व्वी᳘र्येणै᳘वैत᳘दाह क्षत्रा᳘णां क्षत्र᳘पतिरेधी᳘ति रा᳘ज्ञामधिराज᳘ ऽएधी᳘त्ये᳘वैत᳘दाहा᳘ति दिद्यू᳘न्पाहीती᳘षवो वै᳘ दिद्य᳘व ऽइषुवध᳘मे᳘वैनमेतद᳘तिनयति त᳘स्मादाहा᳘ति दिद्यू᳘न्पाही᳘ति॥
मूलम् - श्रीधरादि
सो᳘मस्य त्वा द्युम्नेनाभि᳘षिञ्चामी᳘ति॥
व्वी᳘र्येणैत᳘दाहाग्नेर्भ्रा᳘जसे᳘ति व्वी᳘र्येणै᳘वैत᳘दाह सू᳘र्यस्य व्व᳘र्चसे᳘ति व्वी᳘र्येणै᳘वैत᳘दाहे᳘न्द्रस्येन्द्रियेणे᳘ति व्वी᳘र्येणै᳘वैत᳘दाह क्षत्रा᳘णां क्षत्र᳘पतिरेधी᳘ति रा᳘ज्ञामधिराज᳘ ऽएधी᳘त्ये᳘वैत᳘दाहा᳘ति दिद्यू᳘न्पाहीती᳘षवो वै᳘ दिद्य᳘व ऽइषुवध᳘मे᳘वैनमेतद᳘तिनयति त᳘स्मादाहा᳘ति दिद्यू᳘न्पाही᳘ति॥
मूलम् - Weber
सो᳘मस्य त्वा द्युम्नेनाभि᳘षिञ्चामी᳘ति॥
वीॗर्येणैत᳘दाहाग्नेर्भ्रा᳘जसे᳘ति वीॗर्येणैॗवैत᳘दाह सू᳘र्यस्य व᳘र्चसे᳘ति वीॗर्येणैॗवैत᳘दाहे᳘न्द्रस्येन्द्रियेणे᳘ति वीॗर्येणैॗवैत᳘दाह क्षत्रा᳘णां क्षत्र᳘पतिरेधी᳘ति रा᳘ज्ञामधिराज᳘ एधी᳘त्येॗवैत᳘दाहा᳘ति दिद्यू᳘न्पाहीती᳘षवो वै᳘ दिद्य᳘व इषुबध᳘मेॗवैनमेतद᳘तिनयति तस्मादाहा᳘ति दिद्यू᳘न्पाही᳘ति॥
मूलम् - विस्वरम्
“सोमस्य त्वा द्युम्नेनाभिषिञ्चामि"- इति । वीर्येणैतदाह । “अग्रेर्भ्राजसा"- इति । वीर्येणैवैतदाह । “सूर्यस्य वर्चसा"- इति । वीर्येणैवैतदाह । “इन्द्रस्येन्द्रियेण” इति । वीर्येणैवैतदाह । “क्षत्राणां क्षत्रपतिरेधि"- इति । राज्ञामधिराज एधीत्येवैतदाह । “अति दिद्यून्पाहि"- (वा. सं. १० । १७) इति । इषवो वै दिद्यवः । इषुवधमेवैनमेतदतिनयति । तस्मादाह- अति दिद्यून्पाहीति ॥ २ ॥
सायणः
तत्र मन्त्रान् सार्थवादं विधत्ते- सोमस्येति । हे यजमान ! ‘त्वा’ त्वां ‘सोमस्य’ ‘द्युम्नेन’ द्योतनशीलया दीप्त्या अभिषिञ्चामीत्येको मन्त्रः । “अग्नेर्भ्राजसा"- इत्यपरः । अभिषिञ्चामीत्यनुषज्यते; वाक्यस्य साकाङ्क्षत्वात् । “सूर्यस्य वर्च्चसा” इति तृतीयः । ‘वर्च्चसा’ रोचिषा । “इन्द्रस्येन्द्रियेण”- इति चतुर्थः । ‘इन्द्रियेण’ वीर्येण । सर्वशेषं मन्त्रभागद्वयमर्धपुरस्सरमाह- क्षत्राणामिति । ‘क्षत्राणां’ बहूनां क्षत्रियाणां राज्ञां वा ‘क्षत्रपतिः’ क्षत्रियस्य पतिः ‘एधि’ भव । आवृत्तिवृत्तिभ्यां स्वामित्वं बहुत्वं च विवक्ष्यते । ‘दिद्यून्’ बाधकानिषून् ‘अति’-क्रम्य ‘पाहि’ रक्ष, इषुभिर्न बाधो भवेदित्यर्थः ॥ २ ॥
Eggeling
- With (Vāj. S. X, 17), ‘With Soma’s glory I sprinkle thee,’–‘with vigour’ he thereby says; ‘With Agni’s glow . . . 1,’–‘with vigour’ he thereby says;–‘With Sūrya’s splendour . . .,’–‘with vigour’ he thereby says;–‘With Indra’s energy. . .,’–‘with vigour’ he thereby says;–‘Be thou the chieftain of chiefs!’–‘be thou the supreme king of kings’ he thereby says;–‘Guard (him) 2 against darts!’–darts meaning arrows, it is past murder by arrows that he thus guides him: therefore he says, ‘guard him against darts!’
०३
विश्वास-प्रस्तुतिः
(ती) इमं᳘ देवाः॥
(ऽ) असपत्न᳘ᳫँ᳘ सुवध्वमि᳘तीमं᳘ देवा ऽअभ्रातृव्य᳘ᳫँ᳘ सुवध्वमि᳘त्ये᳘वैत᳘दाह महते᳘ क्षत्रा᳘य महते ज्यै᳘ष्ठ्याये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति महते जा᳘नराज्याये᳘ति महते ज᳘नानाᳫँ᳭ राज्याये᳘त्ये᳘वैत᳘दाहे᳘न्द्रस्येन्द्रियाये᳘ति व्वी᳘र्याये᳘त्ये᳘वैत᳘दाह यदाहे᳘न्द्रस्येन्द्रियाये᳘तीम᳘ममु᳘ष्य पुत्र᳘ममु᳘ष्यै पुत्रमि᳘ति तद्य᳘दे᳘वास्य ज᳘न्म त᳘त ऽए᳘वैत᳘दाहास्यै᳘ व्विश ऽइ᳘ति य᳘स्यै व्विशो रा᳘जा भ᳘वत्येष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कं ब्राह्मणा᳘नाᳫँ᳭ राजे᳘ति त᳘दस्मा ऽइदᳫँ᳭ स᳘र्वमा᳘द्यं[[!!]] करोति ब्राह्मण᳘मे᳘वापो᳘द्धरति त᳘स्माद्ब्राह्म᳘णो ऽनाद्यः सो᳘मराजा हि भ᳘वति॥ [शतम् ३२००]
मूलम् - श्रीधरादि
(ती) इमं᳘ देवाः॥
(ऽ) असपत्न᳘ᳫँ᳘ सुवध्वमि᳘तीमं᳘ देवा ऽअभ्रातृव्य᳘ᳫँ᳘ सुवध्वमि᳘त्ये᳘वैत᳘दाह महते᳘ क्षत्रा᳘य महते ज्यै᳘ष्ठ्याये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति महते जा᳘नराज्याये᳘ति महते ज᳘नानाᳫँ᳭ राज्याये᳘त्ये᳘वैत᳘दाहे᳘न्द्रस्येन्द्रियाये᳘ति व्वी᳘र्याये᳘त्ये᳘वैत᳘दाह यदाहे᳘न्द्रस्येन्द्रियाये᳘तीम᳘ममु᳘ष्य पुत्र᳘ममु᳘ष्यै पुत्रमि᳘ति तद्य᳘दे᳘वास्य ज᳘न्म त᳘त ऽए᳘वैत᳘दाहास्यै᳘ व्विश ऽइ᳘ति य᳘स्यै व्विशो रा᳘जा भ᳘वत्येष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कं ब्राह्मणा᳘नाᳫँ᳭ राजे᳘ति त᳘दस्मा ऽइदᳫँ᳭ स᳘र्वमा᳘द्यं[[!!]] करोति ब्राह्मण᳘मे᳘वापो᳘द्धरति त᳘स्माद्ब्राह्म᳘णो ऽनाद्यः सो᳘मराजा हि भ᳘वति॥ [शतम् ३२००]
मूलम् - Weber
इमं᳘ देवाः॥
असपत्न᳘ᳫं᳘ सुवध्वमि᳘तीमं᳘ देवा अभ्रातृव्य᳘ᳫं᳘ सुवध्वमि᳘त्येॗवैत᳘दाह महते᳘ क्षत्रा᳘य महते ज्यै᳘ष्ठ्याये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति महते जा᳘नराज्याये᳘ति महते ज᳘नानाम् राज्याये᳘त्येॗवैत᳘दाहेन्द्रस्येन्द्रियाये᳘ति वीॗर्याये᳘त्येॗवैत᳘दाह यदाहे᳘न्द्रस्येन्द्रियाये᳘तीम᳘ममु᳘ष्य पुत्र᳘ममु᳘ष्यै पुत्रमि᳘ति तद्य᳘देॗवास्य ज᳘न्म त᳘त एॗवैत᳘दाहास्यै᳘ विश इ᳘ति य᳘स्यै विशो रा᳘जा भ᳘वत्येष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कम् ब्राह्मन्\आ᳘नां राजे᳘ति त᳘दस्मा इदᳫं स᳘र्वमाद्य᳘ करोति ब्राह्मण᳘मेवापो᳘द्धरति त᳘स्माद्ब्राह्मॗणो ऽनाद्यः सो᳘मराजा हि भ᳘वति॥
मूलम् - विस्वरम्
“इमं देवा असपत्नं सुवध्वम्”- इति । इमं देवा अभ्रातृव्यं सुवध्वमित्येवैतदाह । “महते क्षत्राय, महते ज्यैष्ठ्याय”- इति । नात्र तिरोहितमिवास्ति । “महते जानराज्याय”- इति । महते जनानां राज्यायेत्येवैतदाह । “इन्द्रस्येन्द्रियाय”- इति । वीर्यायेत्येवैतदाह- यदाह इन्द्रस्येन्द्रियायेति । “इमममुष्य पुत्रममुष्यै पुत्रम्”- इति । तद्यदेवास्य जन्म तत एवैतदाह । “अस्यै विशः"- इति । यस्यै विशो राजा भवति । “एष वो ऽमी राजा सोमो ऽस्माकं ब्राह्मणानां राजा”- (वा० सं० १० । १८) इति । तद् अस्मा ऽइदं सर्वमाद्यं करोति । ब्राह्मणमेवापोद्धरति । तस्माद्ब्राह्मणो ऽनाद्यः । सोमराजा हि भवति ॥ ३ ॥
सायणः
सर्वत्रानुषज्यमानं मन्त्रान्तं सार्थवादं विधत्ते- इमं देवा इति । अयं मन्त्रः पूर्वमेवार्थवादवाक्येन च सह विस्पष्टं व्याख्यातः (श. प. ५ । ३ । ३ । १२ भा.) ॥ ३ ॥
Eggeling
- [Vāj. S. X, 18] ‘Quicken him, O gods, to
be unrivalled!’–he thereby says, ‘Quicken him, O gods, so as to be without an enemy;’–‘For great chiefdom, for great lordship!’–in this there is nothing obscure;–‘For man-rule!’–‘for the ruling of men’ he thereby says;–‘For Indra’s lordly sway!’–‘for power’ he means to say, when he says, ‘for Indra’s lordly sway!’–‘Him, the son of such and such (a man), the son of such and such (a woman),’–whatever be his parentage regarding that he says this;–‘of such and such a people’–that is to say, of the people whose king he is;–‘This man, O ye (people), is your king, Soma is the king of us Brahmans!’–he thereby causes everything here to be food for him (the king); the Brāhman alone he excepts: therefore the Brāhman is not to be fed upon, for he has Soma for his king 3.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैत᳘मभिषेक᳘म्॥
(ङ्कृ) कृष्णविषाण᳘या ऽनुवि᳘मृष्टे व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘दपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति ये᳘नैनमेत᳘दभिषिञ्च᳘तीदं᳘ मे व्वी᳘र्यᳫँ᳭[[!!]] स᳘र्व्वमात्मा᳘नमु᳘पस्पृशादि᳘ति त᳘स्माद्वा᳘ ऽअनुवि᳘मृष्टे᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैत᳘मभिषेक᳘म्॥
(ङ्कृ) कृष्णविषाण᳘या ऽनुवि᳘मृष्टे व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘दपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति ये᳘नैनमेत᳘दभिषिञ्च᳘तीदं᳘ मे व्वी᳘र्यᳫँ᳭[[!!]] स᳘र्व्वमात्मा᳘नमु᳘पस्पृशादि᳘ति त᳘स्माद्वा᳘ ऽअनुवि᳘मृष्टे᳘॥
मूलम् - Weber
अ᳘थैत᳘मभिषेक᳘म्॥
कृष्णविषाण᳘यानुवि᳘मृष्टे वीर्यं᳘ वा᳘ एत᳘दपां र᳘सः स᳘म्भृतो भवति ये᳘नैनमेत᳘दभिषिञ्च᳘तीद᳘म् मे वीर्य᳘ᳫं᳘ स᳘र्वमात्मा᳘नमु᳘पस्पृशादि᳘ति त᳘स्माद्वा᳘ अनुवि᳘मृष्टे॥
मूलम् - विस्वरम्
अथैतमभिषेकं कृष्णविषाणया ऽनुविमृष्टे । वीर्यं वा ऽएतदपां रसः सम्भृतो भवति- येनैनमेतदभिषिञ्चति । इदं मे वीर्यं सर्वमात्मानमुपस्पृशादिति । तस्माद्वा ऽअनुविमृष्टे ॥ ४ ॥
सायणः
विधत्ते- अथैतमभिषेकमिति । एवं क्रियमाणम् ‘अभिषेकं’ स्वदेहपतितमभिषेकजलमित्यर्थः । ‘कृष्णविषाणया’ कण्डूयन्या ‘अनुविमृष्टे’ प्रलिम्पति यजमानः । तमिमं वीर्यसम्पादनरूपेण प्रशंसति- वीर्यं वा इति । इदमभिषेकजलरूपं ‘वीर्यं’ ‘मे’ मम ‘सर्वम् आत्मानम्’ ‘उपस्पृशात्’ उपस्पृशतु ‘इति’ बुद्ध्या विमार्जनं कुर्यादित्यर्थः ॥ ४ ॥
Eggeling
- He (the king) then rubs the sprinkled water
over himself with the horn of a black antelope; for that collected essence of the waters wherewith he now anoints him means vigour: ‘May this vigour of mine spread through my whole self,’ thus he thinks, and therefore he rubs it all over himself.
०५
विश्वास-प्रस्तुतिः
सो ऽनुवि᳘मृष्टे॥
प्र प᳘र्वतस्य व्वृषभ᳘स्य पृष्ठादि᳘ति य᳘था ऽयं प᳘र्वतो ऽतिष्ठा᳘वा य᳘थ ऽर्षभः᳘ पशू᳘नतिष्ठा᳘वैवं वा᳘ ऽएष᳘ इदᳫँ᳭ स᳘र्वम᳘तितिष्ठत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति यो᳘ राजसू᳘येन य᳘जते त᳘स्मादाह प्र प᳘र्वतस्य व्वृषभ᳘स्य पृष्ठान्ना᳘वश्चरन्ति स्वसि᳘च ऽइयानाः[[!!]]। ता आ᳘ववृत्रन्नधरागु᳘दक्ता अ᳘हिं बु᳘ध्न्यम᳘नुरी᳘यमाणा ऽइति[[!!]]॥
मूलम् - श्रीधरादि
सो ऽनुवि᳘मृष्टे॥
प्र प᳘र्वतस्य व्वृषभ᳘स्य पृष्ठादि᳘ति य᳘था ऽयं प᳘र्वतो ऽतिष्ठा᳘वा य᳘थ ऽर्षभः᳘ पशू᳘नतिष्ठा᳘वैवं वा᳘ ऽएष᳘ इदᳫँ᳭ स᳘र्वम᳘तितिष्ठत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति यो᳘ राजसू᳘येन य᳘जते त᳘स्मादाह प्र प᳘र्वतस्य व्वृषभ᳘स्य पृष्ठान्ना᳘वश्चरन्ति स्वसि᳘च ऽइयानाः[[!!]]। ता आ᳘ववृत्रन्नधरागु᳘दक्ता अ᳘हिं बु᳘ध्न्यम᳘नुरी᳘यमाणा ऽइति[[!!]]॥
मूलम् - Weber
सो ऽनुवि᳘मृष्टे॥
प्र प᳘र्वतस्य वृषभ᳘स्य पृष्ठादि᳘ति य᳘थायम् प᳘र्वतो ऽतिष्ठा᳘वा य᳘थर्षभः᳘ पशू᳘नतिष्ठा᳘वैवं वा᳘ एष᳘ इदᳫं स᳘र्वम᳘तितिष्ठत्यर्वा᳘गेॗवास्मादिदᳫं स᳘र्वम् भवति यो᳘ राजसू᳘येन य᳘जते त᳘स्मादाह प्र प᳘र्वतस्य वृषभस्य पृष्ठान्ना᳘वश्चरन्ति स्वसि᳘च इयानाः᳘ ता आ᳘ववृत्रन्नधरागु᳘दक्ता अ᳘हिम् बुध्न्य᳘मनु री᳘यमाणा इति॥
मूलम् - विस्वरम्
सो ऽनु विमृष्टे- “प्र पर्वतस्य वृषभस्य पृष्ठात्" इति । यथा ऽयं पर्वतो ऽतिष्ठावा, यथ ऽर्षभः पशूनतिष्ठावा । एवं वा एष इदं सर्वमतितिष्ठति । अर्वागेवास्मादिदं सर्वं भवति यो राजसूयेन यजते । तस्मादाह- प्र पर्वतस्य वृषभस्य पृष्ठात् । “नावश्चरन्ति स्वसिच इयानाः, ता आववृत्रन्नधरागुदक्ता अहिं बुध्न्यमनुरीयमाणाः”- इति ॥ ५ ॥
सायणः
तत्र मन्त्रं विधत्ते- सो ऽनुविमृष्टे प्र पर्वतस्येति 4 । या आपो ‘वृषभस्य’ वर्षणक्षमस्य ‘पर्वतस्य’ । पर्वत इति मेघनाम (निघं ० १ । १० । ९) । मेघस्य ‘पृष्ठात्’ ‘नावः’ नाव्या इत्यर्थः, ‘प्रचरन्ति’ । कीदृश्यः ‘स्वसिचः’ स्वमात्मीयं यजमानशरीरं सिञ्चन्तीति स्वसिचः । ‘इयानाः’ गच्छन्त्यः, बाहुल्येन सर्वत्र प्रवहन्त्यः; ‘ताः’ आपः ‘उदक्ताः’ उत्क्षिप्ताः । उत्पूर्वस्याञ्चतेर्निष्ठायां रूपम् । इदानीम् ‘अधराग्’ अधोभागे ‘अहिम्’ आरभ्येति; अहिरुत्तमाङ्गम् । ‘बुध्न्यम्’ बुध्नस्य पादस्याग्रभागो बुध्न्यः, तम् शिरःप्रभृति पादपर्यन्तम् ‘अनु’ अनुक्रमेण ‘रीयमाणाः’ लेपरूपेण स्रवन्त्यः ‘आववृत्रन्’ यजमानशरीरं सम्यगावृत्य स्थिताः, तिष्ठन्तीति इत्याध्यात्मिको ऽर्थः । आधिदैविकस्तु ‘पर्वतः’ आदित्यः, ‘वृषभस्य’ ‘पृष्ठात्’ ‘इयानाः’ निर्गच्छन्त्यः, ‘नावः’ नाव्या आपः ‘चरन्ति’ । तथा च श्रुतिः- “नाव्या उ एव यजुष्मत्य इष्टकाः” इत्युपक्रम्य, “षष्टिश्च ह वै त्रीणि च शतान्यादित्य नाव्या अभिक्षरन्ति”- (श. प. ब्रा. १० । ५ । ४ । १४) इति । ‘ताः’ प्रावृट्काले ‘आववृत्रन्’ ‘आवर्त्तन्ते; ‘अधराग्’आदित्यमण्डलाद् भूमिं प्रति अधोगमनशीलाः, ‘उदक्’ ‘ताः’ पूर्वं भूमेः सकाशात् आदित्यमण्डलं प्रति ‘उदक्’ ऊर्द्ध्वगमनशीलाः ‘अहिम्’ मेघम् ‘बुध्नम्’ अन्तरिक्षम्, तत्र भवम् ‘बुध्न्यं’ मध्यमस्थानम् ‘अनुरीयमाणाः’ अनुप्रविश्य तस्मान्निर्गच्छन्त्यः, भूमिं प्राप्नुवन्तीति शेषः ॥
मन्त्रस्य प्रथमपादस्य तात्पर्यमाह- यथा ऽयं पर्वत इति । ‘यथा पर्वतः’ ‘अतिष्ठावा’ सर्वमतिक्रम्य स्थाता । तिष्ठते “आतो मनिन्”- इति (पा. सू. ३ । २ । ७४) इत्यादिना वनिप् । ‘यथा ऋषभः’ पशूनतिक्रम्य तिष्ठति, एवमेष राजा तिष्ठति, सर्वस्योपरि भवति । ‘अस्माद्’ यजमानात् ‘इदं’ सर्वम् ‘अर्वाक्’ भवति ‘तस्मात्’ प्रपर्वतस्येति पाठः प्रशस्त इत्यर्थः ॥ ५ ॥
Eggeling
- He rubs it over himself, with (Vāj. S. X, 19), Forth from the back of the mountain, of the bull,’–even as the mountain stands out here, even as the bull stands out beyond the cattle, so does he who performs the Rājasūya stand out beyond everything here, and everything here is below him: therefore he says, ‘Forth from the back of the mountain, of the bull,’–‘The ships keep moving, the self-pouring; they, the upwards bent, have turned back downwards, flowing after the dragon of the deep 5.’
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमन्त᳘रेव᳘ शार्दूलचर्म᳘णि॥ व्विष्णुक्रमा᳘न्क्रमयति व्वि᳘ष्णोर्व्विक्र᳘मणमसि व्वि᳘ष्णोर्व्वि᳘क्रान्तमसि व्वि᳘ष्णोः क्रान्त᳘मसी᳘तीमे वै᳘ लोका व्वि᳘ष्णोर्व्विक्र᳘मणं व्वि᳘ष्णोर्व्वि᳘क्रान्तं व्वि᳘ष्णोः क्रान्तं त᳘दिमा᳘नेव᳘ लोका᳘न्त्समारु᳘ह्य स᳘र्व्वमे᳘वेद᳘मुप᳘र्यु᳘परि भवत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमन्त᳘रेव᳘ शार्दूलचर्म᳘णि॥ व्विष्णुक्रमा᳘न्क्रमयति व्वि᳘ष्णोर्व्विक्र᳘मणमसि व्वि᳘ष्णोर्व्वि᳘क्रान्तमसि व्वि᳘ष्णोः क्रान्त᳘मसी᳘तीमे वै᳘ लोका व्वि᳘ष्णोर्व्विक्र᳘मणं व्वि᳘ष्णोर्व्वि᳘क्रान्तं व्वि᳘ष्णोः क्रान्तं त᳘दिमा᳘नेव᳘ लोका᳘न्त्समारु᳘ह्य स᳘र्व्वमे᳘वेद᳘मुप᳘र्यु᳘परि भवत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति॥
मूलम् - Weber
अ᳘थैनमन्त᳘रेव᳘ शार्दूलचर्म᳘णि विष्णुक्रमा᳘न्क्रमयति॥
विष्णोर्विक्र᳘मणमसि वि᳘ष्णोर्वि᳘क्रान्तमसि वि᳘ष्णोः क्रान्त᳘मसी᳘तीमे वै᳘ लोका वि᳘ष्णोर्विक्र᳘मणं वि᳘ष्णोर्वि᳘क्रान्तं वि᳘ष्णोः क्रान्तं त᳘दिमा᳘नेव᳘ लोका᳘न्त्समारु᳘ह्य स᳘र्वमेॗवेद᳘मुप᳘र्युपरि भवत्यर्वा᳘गेॗवास्मादिदᳫं स᳘र्वम् भवति॥
मूलम् - विस्वरम्
अथैनमन्तरेव शार्दूलचर्मणि विष्णुक्रमान् क्रमयति- “विष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि"- (वा. सं. १० । १९) इति । इमे वै लोका विष्णोर्विक्रमणम्, विष्णोर्विक्रान्तम्, विष्णोः क्रान्तम् । तदिमानेव लोकान्त्समारुह्य सर्वमेवेदमुपर्युपरि भवति । अर्वागेवास्मादिदं सर्वं भवति ॥ ६ ॥
सायणः
विधत्ते- अथैनमिति 6 । शार्दूलचर्ममध्ये एव यजमानं त्रीन् विष्णुक्रमान् क्रमयेदध्वर्युः । तत्र मन्त्रत्रयं विधत्ते- विष्णोरिति । एकैकस्य क्रमणस्यैकैको मन्त्र इत्यर्थः । ‘विष्णोः’ यज्ञस्य यच्च ‘विक्रमणं’ यच्च ‘विक्रान्तं’ यच्च ‘क्रान्तम्,’ तत्सर्वं त्वमसीति योजनीयाः । क्रमणत्रयं लोकत्रयात्मना प्रशंसति- इमे वै लोका इति ॥ ६ ॥
Eggeling
- He then makes him step the (three) Vishṇu-steps within (the extent of) the tiger’s skin, with, ‘Vishṇu’s outstepping thou art! Vishṇu’s outstep thou art! Vishṇu’s step thou art!’ Now Vishṇu’s outstepping (vikramaṇa), Vishṇu’s outstep (vikrānta), and Vishṇu’s step (krānta) 7 are these (three) worlds: thus having ascended these worlds, he is high above everything here, and everything here is below him.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ब्राह्मण᳘स्य पा᳘त्रे॥
सᳫँ᳭स्रवा᳘न्त्सम᳘वनयति त᳘द्ब्राह्मणᳫँ᳭ रा᳘जानम᳘नु य᳘शः करोति त᳘स्माद्ब्राह्मणो रा᳘जानम᳘नुय᳘शः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ब्राह्मण᳘स्य पा᳘त्रे॥
सᳫँ᳭स्रवा᳘न्त्सम᳘वनयति त᳘द्ब्राह्मणᳫँ᳭ रा᳘जानम᳘नु य᳘शः करोति त᳘स्माद्ब्राह्मणो रा᳘जानम᳘नुय᳘शः॥
मूलम् - Weber
अ᳘थ ब्राह्मण᳘स्य पा᳘त्रे॥
संस्रवा᳘न्त्सम᳘वनयति त᳘द्ब्राह्मणं रा᳘जानम᳘नु यशः करोति त᳘स्माद्ब्राह्मणो रा᳘जानम᳘नु य᳘शः॥
मूलम् - विस्वरम्
अथ ब्राह्मणस्य पात्रे संस्रवान्त्समवनयति । तद्ब्राह्मणं राजानमनु यशः करोति । तस्माद्ब्राह्मणो राजानमनु यशः ॥ ७ ॥
सायणः
अथ स्वमित्रवैश्यपात्रत्रयशेषाणां पालाशपात्रे व्यासेचनं विधत्ते- अथ ब्राह्मणस्येति 6 । तद् ब्राह्मणमिति । ‘तत्’ तेन व्यवनयनेन ‘राजानम्’ ‘अनु’ पश्चाद् ‘ब्राह्मणं’ ‘यशः’ यशस्विनं कृतवान् भवति । लोके हि राजा कीर्तिमान्, ब्राह्मणो ऽपि तदनन्तरं कीर्तिमानित्युच्यते ॥ ७ ॥
Eggeling
- He then pours the remainders (of the water) together into the Brāhman’s vessel: he thereby makes the Brāhman an object of respect after the king, whence the Brāhman is an object of respect after the king.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) त᳘द्यो ऽस्य पुत्रः᳘ प्रिय᳘तमो भ᳘वति॥
त᳘स्मा ऽएतत्पा᳘त्रं प्र᳘यच्छतीदं᳘ मे ऽयं᳘ व्वी᳘र्यं पु᳘त्रो ऽनुसं᳘तनवदिति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) त᳘द्यो ऽस्य पुत्रः᳘ प्रिय᳘तमो भ᳘वति॥
त᳘स्मा ऽएतत्पा᳘त्रं प्र᳘यच्छतीदं᳘ मे ऽयं᳘ व्वी᳘र्यं पु᳘त्रो ऽनुसं᳘तनवदिति[[!!]]॥
मूलम् - Weber
तॗद्यो ऽस्य पुत्रः᳘ प्रिय᳘तमो भ᳘वति॥
त᳘स्मा एतत्पा᳘त्रम् प्र᳘यछतीद᳘म् मे ऽयं᳘ वीर्य᳘म् पुॗत्रो ऽनुसं᳘तनवदि᳘ति॥
मूलम् - विस्वरम्
तद्यो ऽस्य पुत्रः प्रियतमो भवति । तस्म ऽएतत्पात्रं प्रयच्छति- “इदं मे ऽयं वीर्यं पुत्रो ऽनुसंतनवत्”- इति ॥ ८ ॥
सायणः
विधत्ते- तद् यो ऽस्येति 8 । ‘एतत्’ संस्रवैः प्रातिक्तं ब्राह्मणस्य पालाशपात्रं राज्ञः प्रियतमाय पुत्राय प्रयच्छेत् । प्रदाने ब्राह्मणोक्तं मन्त्रमाह- इदं म इति । अत एव कात्यायनो मन्त्रं पपाठ- “पुत्राय प्रयच्छति प्रियतमायेदं मे कर्मेदं वीर्यं पुत्रो ऽनुसन्तनोतु” (का. श्रौ. सू. १५ । १६३) ‘अयं’ मे पुत्रः, ‘मे’ मम वीर्यरूपं कर्म ‘अनुसन्तनोतु’ विस्तारयत्विति ॥ ८ ॥
Eggeling
- And to him who is his (the king’s) dearest son, he hands that vessel, thinking, ‘May this son of mine perpetuate this vigour of mine!’
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यमन्वा᳘रब्धे जुहोति॥
प्र᳘जापते न त्व᳘देता᳘न्यन्यो व्वि᳘श्वा रूपा᳘णि प᳘रि ता᳘ बभूव॥ य᳘त्कामास्ते जुहुमस्त᳘न्नो ऽअस्त्वय᳘ममु᳘ष्य पिते᳘ति तद्यः᳘ पुत्रस्तं᳘ पित᳘रं करो᳘ति यः᳘ पिता तं᳘ पुत्रं त᳘देनयोर्व्वी᳘र्ये व्य᳘तिषजत्यसा᳘वस्य᳘ पिते᳘ति तद्यः᳘ पिता तं᳘ पित᳘रं करो᳘ति यः᳘ पुत्रस्तं᳘ पुत्रं त᳘देनयोर्व्वी᳘र्ये व्यतिष᳘ज्य[[!!]] पु᳘नरेव᳘ यथायथं᳘ करोति व्वय᳘ᳫँ᳘ स्याम प᳘तयो रयीणाᳫँ᳭ स्वाहे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण ऽआशि᳘षमे᳘वैतदा᳘शास्ते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यमन्वा᳘रब्धे जुहोति॥
प्र᳘जापते न त्व᳘देता᳘न्यन्यो व्वि᳘श्वा रूपा᳘णि प᳘रि ता᳘ बभूव॥ य᳘त्कामास्ते जुहुमस्त᳘न्नो ऽअस्त्वय᳘ममु᳘ष्य पिते᳘ति तद्यः᳘ पुत्रस्तं᳘ पित᳘रं करो᳘ति यः᳘ पिता तं᳘ पुत्रं त᳘देनयोर्व्वी᳘र्ये व्य᳘तिषजत्यसा᳘वस्य᳘ पिते᳘ति तद्यः᳘ पिता तं᳘ पित᳘रं करो᳘ति यः᳘ पुत्रस्तं᳘ पुत्रं त᳘देनयोर्व्वी᳘र्ये व्यतिष᳘ज्य[[!!]] पु᳘नरेव᳘ यथायथं᳘ करोति व्वय᳘ᳫँ᳘ स्याम प᳘तयो रयीणाᳫँ᳭ स्वाहे᳘त्याशी᳘रे᳘वै᳘षैत᳘स्य क᳘र्मण ऽआशि᳘षमे᳘वैतदा᳘शास्ते॥
मूलम् - Weber
अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यमन्वा᳘रब्धे जुहोति॥
प्र᳘जापते न त्व᳘देता᳘न्यन्यो वि᳘श्वा रूपा᳘णि प᳘रि ता᳘ बभूव य᳘त्कामास्ते जुहुमस्त᳘न्नो अस्त्वय᳘ममु᳘ष्य पिते᳘ति तद्यः᳘ पुत्रस्त᳘म् पित᳘रं करो᳘ति यः᳘ पिता त᳘म् पुत्रं त᳘देनयोर्वीॗर्ये व्य᳘तिषजत्यसा᳘वस्य᳘ पिते᳘ति तद्यः᳘ पिता त᳘म् पित᳘रं करो᳘ति यः᳘ पुत्रस्त᳘म् पुत्रं त᳘देनयोर्वीॗर्ये व्य᳘तिषज्य पु᳘नरेव᳘ यथायथं᳘ करोति वय᳘ᳫं᳘ स्याम प᳘तयो रयीणाᳫं स्वाहे᳘त्याशी᳘रेॗवैॗषैत᳘स्य क᳘र्मण आशि᳘षमेॗवैतदा᳘शास्ते॥
मूलम् - विस्वरम्
अथ प्रतिपरेत्य गार्हपत्यमन्वारब्धे जुहोति- “प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास्ते जुहुमः; तन्नो ऽअस्त्वयममुष्य पिता”- इति । तद् यः पुत्रस्तं पितरं करोति । यः पिता तं पुत्रम् । तदेनयोर्वीर्ये व्यतिषजति । “असावस्य पिता”- इति । तद् यः पिता, तं पितरं करोति । यः पुत्रस्तं पुत्रम् । तदेनयोर्वीर्ये व्यतिषज्य पुनरेव यथायथं करोति । “वयं स्याम पतयो रयीणां स्वाहा”- इति । आशीरेवैषैतस्य कर्मणः । आशिषमेवैतदाशास्ते ॥ ९ ॥
सायणः
विधत्ते- अथ प्रतीति । ‘गार्हपत्यं प्रतिपरेत्य’- प्रत्यङ्मुखो गत्वा ‘अन्वारब्धे’ प्रकृतत्वात्पुत्र इति गम्यते । अत्र सूत्रम् ‘शालाद्वार्ये जुहोति पुत्रो ऽन्वारब्धे प्रजापत इति’ (का. श्रौ. सू. १५ । १६४) इति । मन्त्रस्यार्थः- हे ‘प्रजापते !’ ‘त्वदन्यः’ को ऽपि पुरुषः उत्पन्नानि तानि ‘एतानि’ ‘विश्वा’ विश्वानि ‘न परि बभूव’ ‘परिभवितुं’ व्याप्तुं समर्थो ऽभूत् । परिपूर्वो भवतिर्व्याप्त्यर्थे वर्त्तते । अतस्तेन वयं ‘यत्कामा जुहुमः,’ ‘तत्’ फलमस्माकम् ‘अस्तु’ । वयं धनानां पतयः स्यामेति । अत्र तृतीयपादान्ते ‘अयम् अमुष्य पिता’, ‘असौ अस्य पिता’ ‘इति’ मन्त्रभाग आम्नातः । ‘अयं’ पुत्रः अभिमन्युः, ‘अमुष्य’ अर्जुनस्य ‘पिता’ ‘इति’ पूर्वं पितृशब्दं पुत्रे कृत्वा ब्रूयात्, पश्चात् ‘असौ पिता’ अर्जुनः ‘अस्य’ पुत्रस्याभिमन्योः ‘पिता’ इति यथायथं ब्रूयादित्यर्थः । अत एव कात्यायनः- " “प्रजापत इति पुत्रयजमानयोर्नाम गृह्णाति पितृशब्दं पुत्रे कृत्वा यथायथं पश्चात्”- (का. श्रौ. सू. १५ । १६४) इति । तमिमं पादत्रयपुरस्सरं पठति- प्रजापत इति । तत्रायममुष्य पितेत्यस्यार्थमाह- तद्यः पुत्रः इति । पुत्रं पितरं, पितरं पुत्रं कृत्वा पठेदित्यर्थः । तदेतेन पुत्रस्य पितृकरणेन पितुश्च पुत्रकरणेन एनयोः पितापुत्रयोः वीर्ये ‘व्यतिषजति’ परस्परं संसृष्टे कृतवान् भवति । असावस्य पितेत्यस्यार्थमाह- तद्यः पितेति । अत्र पितुरेव पितृत्वम्, पुत्रस्यैव पुत्रत्वम् । अनेनैतयोर्वीर्ये पूर्वं व्यतिषज्य पश्चाद् यथा पुत्रस्य वीर्यं पुत्र एव, पितुर्वीर्यं पितर्येव कृतवान् भवतीत्यर्थः । अन्तिमपादस्याशीःपरत्वं दर्शयति- आशीरेवैषेति ॥ ९ ॥
Eggeling
- He then returns to the Gārhapatya fire, (his son) holding on to him behind, and offers, with (Vāj. S. X, 20), ‘O Prajāpati, than thee none other hath encompassed all these forms: for whatsoever object we sacrifice, let that accrue unto us!–This one is the father of N.N.!’–him who is the son, he makes the father, and him who is the father, he makes the son 9: he thereby links together the vigour of both of them.–‘N.N. is the father of this one!’ him who is the father, he makes the father, and him who is the son, he makes the son: after linking together the vigour of these two, he puts it again in the proper way,–‘May we be the lords of riches, hail!’–this is the blessing of that ceremony a blessing he thereby invokes.
१०
विश्वास-प्रस्तुतिः
(स्ते᳘ ऽथ) अ᳘थ य᳘ ऽएष᳘ सᳫँ᳭स्रवो᳘ ऽतिरिक्तो भ᳘वति। त᳘माग्नीध्री᳘ये जुहोत्य᳘तिरिक्तो वा᳘ ऽएष᳘ सᳫँ᳭स्रवो᳘ भवत्य᳘तिरिक्त ऽआग्नीध्री᳘यो गा᳘र्हपत्ये हवी᳘ᳫँ᳘षि श्रप᳘यन्त्याहवनी᳘ये जुह्वत्य᳘थैषो᳘ ऽतिरिक्तस्तद᳘तिरिक्त ऽए᳘वैतद᳘तिरिक्तं दधात्युत्तरार्धे᳘ जुहोत्येष᳘ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्धे᳘ जुहोति स᳘ जुहोति रु᳘द्र य᳘त्ते क्रि᳘वि प᳘रं ना᳘म त᳘स्मिन्हुत᳘मस्यमेष्ट᳘मसि स्वाहे᳘ति॥
मूलम् - श्रीधरादि
(स्ते᳘ ऽथ) अ᳘थ य᳘ ऽएष᳘ सᳫँ᳭स्रवो᳘ ऽतिरिक्तो भ᳘वति। त᳘माग्नीध्री᳘ये जुहोत्य᳘तिरिक्तो वा᳘ ऽएष᳘ सᳫँ᳭स्रवो᳘ भवत्य᳘तिरिक्त ऽआग्नीध्री᳘यो गा᳘र्हपत्ये हवी᳘ᳫँ᳘षि श्रप᳘यन्त्याहवनी᳘ये जुह्वत्य᳘थैषो᳘ ऽतिरिक्तस्तद᳘तिरिक्त ऽए᳘वैतद᳘तिरिक्तं दधात्युत्तरार्धे᳘ जुहोत्येष᳘ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्धे᳘ जुहोति स᳘ जुहोति रु᳘द्र य᳘त्ते क्रि᳘वि प᳘रं ना᳘म त᳘स्मिन्हुत᳘मस्यमेष्ट᳘मसि स्वाहे᳘ति॥
मूलम् - Weber
अ᳘थ य एष᳘ संस्रवो᳘ ऽतिरिक्तो भ᳘वति त᳘माग्नीध्री᳘ये जुहोत्य᳘तिरिक्तो वा᳘ एष᳘ संस्रवो᳘ भवत्य᳘तिरिक्त आग्नीध्री᳘यो गा᳘र्हपत्ये हवीं᳘षि श्रप᳘यन्त्याहवनीये जुह्वत्य᳘थैषो᳘ ऽतिरिक्तंतद᳘तिरिक्त एॗवैतद᳘तिरिक्तं दधात्युत्तरार्धे᳘ जुहोत्येषॗ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्धे᳘ जुहोति स᳘ जुहोति रु᳘द्र य᳘त्ते क्रि᳘वि प᳘रं ना᳘म त᳘स्मिन्हुत᳘मस्यमेष्ट᳘मसि स्वाहे᳘ति॥
मूलम् - विस्वरम्
अथ य एष संस्रवो ऽतिरिक्तो भवति- तमाग्नीध्रीये जुहोति । अतिरिक्तो वा ऽएष संस्रवो भवति, अतिरिक्त आग्नीध्रीयः । गार्हपत्ये हवींषि श्रपयन्ति । आहवनीये जुह्वति । अथैषो ऽतिरिक्तः । तस्मादतिरिक्त ऽ एवैतदतिरिक्तं दधाति । उत्तरार्द्धे जुहोति । एषा ह्येतस्य देवस्य दिक् । तस्मादुत्तरार्धे जुहोति । स जुहोति- “रुद्र यत्ते क्रिवि परं नाम- तस्मिन् हुतमस्यमेष्टमसि स्वाहा”- (वा० सं० १० । २०) इति ॥ १० ॥
सायणः
पालाशपात्रशेषस्य आग्नीध्रीये ऋचा हवनं विधत्ते- अथ य एष संस्रव इति 10 । अतिरिक्तस्य शेषस्य आग्नीध्रीये हवनस्योपपत्तिं दर्शयति- अतिरिक्त इति । तदेवोपपादयति- गार्हपत्ये हवीᳫँषीति । गार्हपत्ये सर्वेषां हविषां श्रपणम, आहवनीये तेषां होमः; अतः श्रपणहवनयोरनुपयुक्तत्वादाग्नीध्रीयो ऽतिरिक्त इत्यर्थः । प्रदेशविशेषं विधत्ते- उत्तरार्द्ध इति । अस्य रुद्रसम्बन्धं दर्शयति- एषा हीति । ‘एतस्य देवस्य’ रुद्रस्येत्यर्थः । होममनूद्य मन्त्रं विधत्ते- स जुहोतीति । हे ‘रुद्र !’ रुत् सांसारिकं दुःखं द्रावयतीति, तस्य सम्बुद्धिः । ‘ते’ तव ‘परम्’ उत्कृष्टं ‘यत् नाम’ “नमः शिवाय”- “पशुपतये”- इत्यादि श्रुतिप्रसिद्धम् (वा. सं. १६ । ४० । ४१) (तै. सं. ४ । ५ । ८ । १) ‘क्रिवि’ “कृवि हिंसाकरणयोः” (धा. पा. भ्वा. प. ५९८) विरोधिनो हिंसकमरि, ‘तस्मिन्’ नाम्नि ‘हुतमसि’ अभिषेकशेषभूतमुख्यपात्रस्थजल ! त्वं हुतं भवेति जलं सम्बुध्यार्थ उन्नेयः । अमेष्टमसीति । ‘अमा’- शब्दो ऽत्र गृहवचनः । मदीये गृहे त्वम् इष्टं भव । ‘स्वाहा’ सुहुतमस्त्विति (तै. सं. १ । ८ । १४ । १-२) ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे चतुर्था ऽध्याये द्वितीयं ब्राह्मणम् ॥ (५-४-२) ॥
Eggeling
- And any residue that is left over, he offers in the Āgnīdhrīya; for redundant is that residue, and redundant also is the Āgnīdhrīya,–in the Gārhapatya they cook the oblations, and in the Āhavanīya they offer, but that one is redundant: thus he puts the redundant to the redundant. He offers it on the north part (of the hearth), for that is the region of that god (Rudra): hence he offers it on the north
part. He offers with, ‘O Rudra, whatever potent 11, highest name is thine, therein thou art an offering, thou art a home-offering, hail!’
-
94:1 While the preceding formula is used by the priest, the present and two succeeding ones (each with the words ‘. . . I sprinkle thee; guard him against darts!’) are pronounced by the other three persons specified in V, 3, 5, 12-14, each sprinkling the king with the water in his respective vessel. ↩︎
-
94:2 Mahīdhara explains: ‘O Soma, protect him, the Sacrificer, in overcoming the enemy’s missiles.’ ↩︎
-
95:1 Either at this juncture, or after the game at dice, the Hotr̥ recites the legend of Śunaḥśepha, as given Ait. Br. VII, 13-18.–‘King Hariścandra, of the race of Ikshvāku, being childless, made a vow that if he obtained a son he would sacrifice him to Varuṇa. A son was born, who received the name of Rohita, but the father postponed, under various pretexts, the fulfilment of his vow. When at length he resolved to perform the sacrifice, Rohita refused to be the victim, and went out into the forest, where he lived for six years. He then met a poor Brāhman R̥shi called Ajīgarta, who had three sons, and Rohita purchased from Ajīgarta, for a hundred cows, the second son, named Śunaḥśepha, to be the substitute for himself in the sacrifice. Varuṇa approved of the substitute, and the sacrifice was about to be performed, the father receiving another hundred cows for binding his son to the sacrificial post, and a third hundred for agreeing to slaughter him. Sunaḥśepha, however, saved himself by reciting verses in honour of different deities, and was received into the family of Viśvāmitra, who was one of the officiating priests.’ Dowson, Dict. of Hindu Mythology. ↩︎
-
कंडूयन्या ऽभिषेकेण प्रलिंपते प्र पर्वतस्येति । का. श्रौ. सू. १५ । १६१ । ↩︎
-
96:1 Ahi Budhnya, the Πύθων ὄφις of Hellenic mythology (St. Petersburg dict.). ↩︎
-
चर्मणि त्रिर्व्विक्रमपति व्विष्णोरिति प्रतिमंत्रम् । का. श्रौ. सू. १५ । १६२ । ↩︎ ↩︎
-
96:2 In the Black Yajus ritual the three steps are called ‘krama, krānta, and vikrānta.’ ↩︎
-
पुत्राय प्रयच्छति का. श्रौ. सू. १५ । १६३ । ↩︎
-
97:1 By way of illustration, Mahīdhara explains what would have happened at the inauguration of king Daśaratha (of Ayodhyā), the father of Rāma; viz. in that case the first formula would run,–‘Rāma is the father of Daśaratha;’ and the second–‘Daśaratha is the father of Rāma.’ According to the ceremonial of the Black Yajus the offering of the residue takes place at the house (first of the favourite son, according to Āpastamba, and then) of the queen. Taitt. S., vol. ii, p. 154. ↩︎
-
आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्द्धे । का. श्रौ. सू. १५ । १६५ । ↩︎
-
98:1 The meaning of krivi (krayi, Taitt. S.) is doubtful. Mahīdhara derives it from ‘kar’ (to make or injure), in the sense of either ’efficacious,’ or ‘destructive.’–A Grantha MS. of the Kāṇva text reads kavi, ‘wise.’ ↩︎