०१

विश्वास-प्रस्तुतिः

केशव᳘स्य पु᳘रुषस्य॥
लोहायस᳘मा᳘स्य ऽआ᳘विध्यत्य᳘वेष्टा[[!!]] दन्दशू᳘का ऽइ᳘ति स᳘र्व्वान्वा᳘ ऽएष᳘ मृत्यून᳘तिमुच्यते स᳘र्व्वान्वधान्यो᳘ राजसू᳘येन य᳘जते त᳘स्य ज᳘रैव᳘ मृत्युर्भवति[[!!]] तद्यो᳘ मृत्युर्यो᳘ व्वधस्त᳘मे᳘वैतद᳘तिनय᳘ति य᳘द्दन्दशू᳘कान्॥

मूलम् - श्रीधरादि

केशव᳘स्य पु᳘रुषस्य॥
लोहायस᳘मा᳘स्य ऽआ᳘विध्यत्य᳘वेष्टा[[!!]] दन्दशू᳘का ऽइ᳘ति स᳘र्व्वान्वा᳘ ऽएष᳘ मृत्यून᳘तिमुच्यते स᳘र्व्वान्वधान्यो᳘ राजसू᳘येन य᳘जते त᳘स्य ज᳘रैव᳘ मृत्युर्भवति[[!!]] तद्यो᳘ मृत्युर्यो᳘ व्वधस्त᳘मे᳘वैतद᳘तिनय᳘ति य᳘द्दन्दशू᳘कान्॥

मूलम् - Weber

केशव᳘स्य पु᳘रुषस्य॥
लोहायस᳘मास्य᳘ आ᳘विध्यत्य᳘वेष्टा दन्दशू᳘का इ᳘ति स᳘र्वान्वा᳘ एष᳘ मृत्यून᳘तिमुच्यते स᳘र्वान्बधान्यो᳘ राजसू᳘येन य᳘जते त᳘स्य जॗरैव᳘ मृत्यु᳘र्भवति तद्यो᳘ मृत्युर्यो᳘ बधस्त᳘मेॗवैतद᳘तिनयति य᳘द्दन्दशू᳘कान्॥

मूलम् - विस्वरम्

केशवस्य पुरुषस्य लोहायसमास्य ऽआविध्यति- “अवेष्टा दन्दशूकाः”- इति । सर्वान्वा ऽएष मृत्यूनतिमुच्यते, सर्वान् वधान् यो राजसूयेन यजते । तस्य जरैव मृत्युर्भवति । तद्यो मृत्युः, यो वधः- तमेवैतदतिनयति यद्दन्दशूकान् ॥ १ ॥

सायणः

यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

कात्यायन- “अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदो ऽन्त उपविष्टाय"- (का. श्रौ. सू. १५ । १४१) इति । सदसो मध्ये उपविष्टस्य केशवस्य क्लीबस्य वदने “अवेष्टा” इति मन्त्रेण ताम्रमर्पयेत् । तदिदं विधत्ते- केशवस्येति । ‘लोहायसं’ ताम्रम् ‘आविध्यति’ अर्पयेत् । ‘दन्दशूकाः दंशनशीलाः, मृत्यव इहाभिप्रेताः । ‘अवेष्टाः’ अवपूर्वो यजिर्नाशार्थे वर्त्तते, विनाशिता इति ॥

व्याचष्टे- सर्वान् वा इति । ‘यो राजसूयेन यजते’ स ‘सर्वान् मृत्यून्’ सर्वान् परकृतान् ‘बधान्’ अपि ‘अतिमुच्यते’ अतिक्रामेत् । सुन्वतो ‘मृत्युः’ नाम ‘जरा’ देहविदारकत्वात् । तस्माद्दन्दशूकपदेन मृत्यवो वधाश्च विवक्षिताः, तान् केशववदने ताम्रनिधानेन नाशितवान् भवतीति तात्पर्यार्थः ॥ १ ॥

Eggeling
  1. He puts a piece of copper 1 into the mouth of a long-haired man, with (Vāj. S. X, 10), ‘Removed by sacrifice are the mordacious.’ For verily he who performs the Rājasūya escapes all kinds of death, all murderous blows, and old age alone is his death: hence whatever kind of death, whatever murderous blow there is, past that he now guides him, as past the mordacious ones.

०२

विश्वास-प्रस्तुतिः

(न᳘) अ᳘थ य᳘त्केशव᳘स्य पु᳘रुषस्य॥
न वा᳘ ऽएष स्त्री न पु᳘मान्य᳘त्केशवः पु᳘रुषो यद᳘ह पु᳘मांस्ते᳘न न स्त्री य᳘दु केशवस्ते᳘नो न पु᳘मा᳘न्नैतद᳘यो न हि᳘रण्यं य᳘ल्लोहाय᳘सं नैते क्रि᳘मयो ना᳘क्रिमयो य᳘द्दन्दशू᳘का ऽअ᳘थ य᳘ल्लोहायसं भ᳘वति लो᳘हिता इव हि᳘ दन्दशू᳘कास्त᳘स्मात्केशव᳘स्य पु᳘रुषस्य॥

मूलम् - श्रीधरादि

(न᳘) अ᳘थ य᳘त्केशव᳘स्य पु᳘रुषस्य॥
न वा᳘ ऽएष स्त्री न पु᳘मान्य᳘त्केशवः पु᳘रुषो यद᳘ह पु᳘मांस्ते᳘न न स्त्री य᳘दु केशवस्ते᳘नो न पु᳘मा᳘न्नैतद᳘यो न हि᳘रण्यं य᳘ल्लोहाय᳘सं नैते क्रि᳘मयो ना᳘क्रिमयो य᳘द्दन्दशू᳘का ऽअ᳘थ य᳘ल्लोहायसं भ᳘वति लो᳘हिता इव हि᳘ दन्दशू᳘कास्त᳘स्मात्केशव᳘स्य पु᳘रुषस्य॥

मूलम् - Weber

अ᳘थ य᳘त्केशव᳘स्य पु᳘रुषस्य॥
न वा᳘ एष स्त्री न पु᳘मान्य᳘त्केशवः पु᳘रुषो यद᳘ह पु᳘मास्ते᳘न न स्त्री य᳘दु केशवस्ते᳘नो न पु᳘माॗन्नैतद᳘यो न हि᳘रण्यं य᳘ल्लोहायॗसं नैते क्रि᳘मयो ना᳘क्रिमयो य᳘द्दन्दशू᳘का अ᳘थ य᳘ल्लोहायसम् भ᳘वति लो᳘हिता इव हि᳘ दन्दशू᳘कास्त᳘स्मात्केशव᳘स्य पु᳘रुषस्य॥

मूलम् - विस्वरम्

अथ यत्केशवस्य पुरुषस्य । न वा ऽएष स्त्री, न पुमान्, यत्केशवः पुरुषः । यदह पुमान्- तेन न स्त्री । यदु केशवः- तेनो न पुमान् । नैतदयो, न हिरण्यम्- यल्लोहायसम् । नैते क्रिमयो- नाक्रिमयो- यद्दन्दशूकाः । अथ यल्लोहायसं भवति । लोहिता इव हि दन्दशूकाः । तस्मात्केशवस्य पुरुषस्य ॥ २ ॥

सायणः

केशवलोहायसदन्दशूकानामन्तरालवर्त्तित्वं सम्यगुपपादयति- अथ यत्केशवस्येति । एतद्वाक्यं परिस्रुत्क्रयणे व्याख्यातम् । दन्दशूकानामप्यन्तरालवर्त्तित्वं दर्शयति- नैते क्रिमय इति । दन्दशूकानामपि लोहितत्वात् लोहितायसेन भाव्यमित्यर्थः ॥ २ ॥

Eggeling
  1. And as to why it is of a long-haired man,–such a long-haired man is neither woman nor man; for being a male, he is not a woman, and being longhaired (a eunuch), he is not a man. And copper (or bronze) is neither iron nor gold; and those mordacious ones (snakes) are neither worms nor non-worms. And as to its being copper,–reddish

to be sure are mordacious ones: therefore (he throws it in the face) of a long-haired man.

०३

विश्वास-प्रस्तुतिः

(स्या᳘) अ᳘थैनं दि᳘शः समा᳘रोहयति॥
प्रा᳘चीमा᳘रोह गायत्री᳘ त्वा ऽवतु रथन्तरᳫँ᳭ सा᳘म त्रिवृत्स्तो᳘मो व्वसन्त᳘ ऽऋतुर्ब्र᳘ह्म द्र᳘विणम्॥

मूलम् - श्रीधरादि

(स्या᳘) अ᳘थैनं दि᳘शः समा᳘रोहयति॥
प्रा᳘चीमा᳘रोह गायत्री᳘ त्वा ऽवतु रथन्तरᳫँ᳭ सा᳘म त्रिवृत्स्तो᳘मो व्वसन्त᳘ ऽऋतुर्ब्र᳘ह्म द्र᳘विणम्॥

मूलम् - Weber

अ᳘थैनं दि᳘शः समा᳘रोहयति॥
प्रा᳘चीमा᳘रोह गायत्री᳘ त्वावतु रथन्तरᳫं सा᳘म त्रिवृत्स्तो᳘मो वसन्त᳘ ऋतुर्ब्र᳘ह्म द्र᳘विणम्॥

मूलम् - विस्वरम्

(१)- अथैनं दिशः समारोहयति- “प्राचीमारोह गायत्री त्वा ऽवतु रथन्तरं साम त्रिवृत्स्तोमो वसन्त ऋतुर्ब्रह्म द्रविणम् ।” ॥ ३ ॥

सायणः

सूत्रम्- “सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमाक्रम्य”- (का. सू. १५ । १४२ । १४३ ।) इति अध्वर्युः प्राच्यादिकाः पञ्च दिशो यजमानमाक्रमयन् “प्राचीमारोह”- इत्यादिकांस्तत्तद्दिक्प्रतिपादकान् मन्त्रान् वाचयेदित्यर्थः । तत्र दिगाक्रमणं विधत्ते- अथैनं दिश इति । ‘समारोहयति’ आक्रमेत् । प्राचीदिगाक्रमणमन्त्रं विधत्ते- प्राचीमारोहेति । हे यजमान ! ‘प्राचीम्’ ‘आरोह’ तथा स्थितं ‘त्वा’ त्वां छन्दसां मध्ये गायत्री ‘अवतु’ साम्नां मध्ये ‘रथन्तरं’ साम रक्षतु, स्तोमानां मध्ये ‘त्रिवृत्’ ऋङ्नवकात्मकः स्तोमः, ऋतूनां मध्ये वसन्ताख्य ऋतुः, ‘ब्रह्म’ त्वदीयं ‘द्रविणं,’ धनं रक्षतु; ब्रह्मरूपं धनं वा अवत्विति । एवमुत्तरत्रापि । “अभि त्वा शूर नोनुमः"- इत्यस्याम्- (सा. छ. आ. ३ । १ । ५१) ऋच्युत्पन्नं साम रथन्तरमित्युच्यते । “उपास्मै गायता नरः"- (सा. गा. आ. २ । १ । २१ ।) इति सूक्तत्रये आद्याभिस्तिसृभिर्मध्यमाभिरुत्तमाभिश्चोद्गातृगानेन त्रिरावृत्तस्त्रिवृत्स्तोमो भवति । (तां. ब्रा. १ । २ । १-३) ॥ ३ ॥

Eggeling
  1. He then makes him ascend the regions, with (Vāj. S. X, 10-14), ‘Ascend thou the East! May the Gāyatrī (metre) protect thee, the Rathantara-sāman, the threefold stoma, the spring season, the Priesthood, that precious treasure!’

०४

विश्वास-प्रस्तुतिः

द᳘क्षिणामा᳘रोह॥
त्रिष्टु᳘प्त्वा ऽवतु बृहत्सा᳘म पञ्चदश स्तो᳘मो ग्रीष्म᳘ ऽऋतुः᳘ क्षत्रं द्र᳘विणम्॥

मूलम् - श्रीधरादि

द᳘क्षिणामा᳘रोह॥
त्रिष्टु᳘प्त्वा ऽवतु बृहत्सा᳘म पञ्चदश स्तो᳘मो ग्रीष्म᳘ ऽऋतुः᳘ क्षत्रं द्र᳘विणम्॥

मूलम् - Weber

द᳘क्षिणामा᳘रोह॥
त्रिष्टु᳘प्त्वावतु बृहत्सा᳘म पञ्चदश स्तो᳘मो ग्रीष्म᳘ ऋतुः᳘ क्षत्रं द्र᳘विणम्॥

मूलम् - विस्वरम्

(२)- “दक्षिणामारोह त्रिष्टुप्त्वा ऽवतु बृहत्साम पञ्चदश स्तोमो ग्रीष्म ऋतुः क्षत्रं द्रविणम्” ॥ ४॥

सायणः

दक्षिणदिगाक्रमणं विधत्ते- दक्षिणामारोहेति । पूर्ववद् योजनीयम् । “त्वामिद्धि हवामहे”- इत्यस्यामृचि (सा. छ. ३ । १ । ५ । २) उत्पन्नं साम ‘बृहत्’ (सा. गा. अ. १ । १ । २७) पञ्चदशस्तोमकरणमेवम्- पूर्वोक्तत्रिवृत्स्तोमः खलु सूक्तत्रयनिष्पाद्यः; अन्ये तु स्तोमा एकैकेन त्र्यृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्र चायं क्रमः- प्रथमं पर्यायं पञ्चभिर्ऋग्भिर्गीयते । तद्यथा- प्रथमामृचं त्रिर्गायेत्, इतरे द्वे सकृत्- सकृत्; तृतीये तु उत्तमां त्रिर्गायेत्, आद्ये द्वे सकृत्- सकृदिति (तां. ब्रा. १ । २ । ४ । ६) ‘क्षत्रम्’ क्षत्रियः ॥ ४ ॥

Eggeling
  1. ‘Ascend thou the South! May the Trishṭubh protect thee, the Br̥hat-sāman, the fifteenfold stoma, the summer season, the Knighthood, that precious treasure!’

०५

विश्वास-प्रस्तुतिः

(म्प्र) प्रती᳘चीमा᳘रोह॥
ज᳘गती त्वा ऽवतु व्वैरूपᳫँ᳭ सा᳘म सप्तदश स्तो᳘मो व्वर्षा᳘ ऽऋतुर्व्विड्द्र᳘विणम्॥

मूलम् - श्रीधरादि

(म्प्र) प्रती᳘चीमा᳘रोह॥
ज᳘गती त्वा ऽवतु व्वैरूपᳫँ᳭ सा᳘म सप्तदश स्तो᳘मो व्वर्षा᳘ ऽऋतुर्व्विड्द्र᳘विणम्॥

मूलम् - Weber

प्रती᳘चीमा᳘रोह॥
ज᳘गती त्वावतु वैरूपᳫं सा᳘म सप्तदश स्तो᳘मो वर्षा᳘ ऋतुर्विड् द्र᳘विणम्॥

मूलम् - विस्वरम्

(३)- “प्रतीचीमारोह जगती त्वा ऽवतु वैरूपं साम सप्तदश स्तोमो वर्षा ऋतुः, विद् द्रविणम्” ॥ ५ ॥

सायणः

प्रतीच्या मन्त्रं विधत्ते- प्रतीचीमारोहेति । “यद् द्याव इन्द्र ते शतम्”- इत्यस्यामृचि (सा. छ. आ. ३ । २ । ४ । ६) उत्पन्नं साम ‘वैरूपम्’ (सा. गा. आ. १ । ३ । ६) सप्तदशस्तोमसम्पादनमेवम्- प्रथमपर्याये प्रथमामृचं त्रिर्गायेत्, द्वितीयपर्याये मध्यमां त्रिः, तृतीयपर्याये मध्यमामुत्तमाञ्च त्रिः, अन्याः सकृत्-सकृदिति (तां. ब्रा. १ । २ । ७-१३) वैश्यो जातिरित्यर्थः ॥ ५ ॥

Eggeling
  1. ‘Ascend thou the West! May the Jagatī protect thee, the Vairūpa-sāman, the seventeenfold stoma, the rainy season, the Peasantry, that precious treasure!’

०६

विश्वास-प्रस्तुतिः

(मु᳘) उ᳘दीचीमा᳘रोह॥
(ह्रा) अनुष्टु᳘प्त्वा ऽवतु व्वैराजᳫँ᳭ सा᳘मैकविᳫँ᳭श स्तो᳘मः शर᳘दृतुः फ᳘लं द्र᳘विणम्॥

मूलम् - श्रीधरादि

(मु᳘) उ᳘दीचीमा᳘रोह॥
(ह्रा) अनुष्टु᳘प्त्वा ऽवतु व्वैराजᳫँ᳭ सा᳘मैकविᳫँ᳭श स्तो᳘मः शर᳘दृतुः फ᳘लं द्र᳘विणम्॥

मूलम् - Weber

उ᳘दीचीमा᳘रोह॥
अनुष्टु᳘प्त्वावतु वैराजᳫं सा᳘मैकविंश स्तो᳘मः शरदृतुः फ᳘लं द्र᳘विणाम्॥

मूलम् - विस्वरम्

(४)- “उदीचीमारोहानुष्टुप्त्वा ऽवतु । वैराजं साम, एकविंश स्तोमः, शरदृतुः फलं द्रविणम्" ॥ ६ ॥

सायणः

उदीच्या मन्त्रं विधत्ते- उदीचीमारोहेति । “पिबा सोममिन्द्र मन्दतु त्वा”- इत्यस्यामृचि (सा. छ. आ. ५ । १ । १ । ८) उत्पन्नं साम ‘वैराजम्’ (सा. गा. गे २ । २ । ३१) एकविंशतिस्तोमनिष्पत्तिप्रकारस्त्वेवम्- प्रथमे पर्याये उत्तमां सकृद् गायेत्, द्वितीये पर्याये मध्यमां सकृद् गायेत्, तृतीये पर्याये सर्वत्रेतरास्त्रिस्त्रिरित्येवं कृते एकविंशः स्तोमो भवति । (तां. ब्रा. १ । २ । १४-१७) ॥ ६ ॥

Eggeling
  1. ‘Ascend thou the North! May the Anushṭubh protect thee, the Vairāja-sāman, the twenty-onefold stoma, the autumn season, fruit, that precious treasure!’

०७

विश्वास-प्रस्तुतिः

(मू) ऊर्ध्वामा᳘रोह॥
पङ्क्तिस्त्वा ऽवतु शाक्वररैवते सा᳘मनी त्रिणवत्रयस्त्रिᳫँ᳭शौ स्तो᳘मौ हेमन्तशिशिरा᳘वृतू व्व᳘र्चो द्र᳘विणमि᳘ति॥

मूलम् - श्रीधरादि

(मू) ऊर्ध्वामा᳘रोह॥
पङ्क्तिस्त्वा ऽवतु शाक्वररैवते सा᳘मनी त्रिणवत्रयस्त्रिᳫँ᳭शौ स्तो᳘मौ हेमन्तशिशिरा᳘वृतू व्व᳘र्चो द्र᳘विणमि᳘ति॥

मूलम् - Weber

ऊर्ध्वामा᳘रोह॥
पङ्क्तिस्त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिंशौ स्तो᳘मौ हेमन्तशिशिरा᳘वृतू व᳘र्चो द्र᳘विणमि᳘ति॥

मूलम् - विस्वरम्

(५)- “ऊर्ध्वामारोह पङ्क्तिस्त्वा ऽवतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिंशौ स्तोमौ हेमन्तशिशिरावृतू वर्चो द्रविणम्”- इति ॥ ७ ॥

सायणः

ऊर्ध्वाया मन्त्रं विधत्ते- ऊर्ध्वामारोहेति । “प्रोष्वस्मै पुरोरथम्”- इत्यस्यामृचि (सा. उ. आ. ९ । १ । १४ । १) उत्पन्नं साम ‘शाक्वरम्’ (सा. गा. उ. ५ । २ । ६ ।) “रेवतीर्नः सधमादः”- इत्यस्यामृचि (सा. छ. आ. २ । २ । १ । ९ ।) उत्पन्नं साम ‘रैवतम्’ (सा. गा. आ. १ । ५ । १७) । त्रिणवस्तोमनिष्पत्तिप्रकारस्त्वेवम्- प्रथमे पर्याये प्रथमां त्रिर्गायेत्, मध्यमां पञ्चकृत्वो गायेत्; उत्तमां सकृत्; द्वितीये पर्याये प्रथमां सकृत्, मध्यमां त्रिः, उत्तमां पञ्चकृत्वः, तृतीये पर्याये प्रथमां पञ्चकृत्वः, मध्यमां सकृत्, उत्तमां त्रिर्गायेदिति । सो ऽयं त्रिरावृत्तनवसङ्ख्योपेतत्वात् ‘त्रिणव’- नामकः स्तोमो भवति । (तां. ब्रा. १ ।- ३ । १ । २) । त्रयस्त्रिंशस्तोमनिष्पत्तिप्रकार उच्यते- प्रथमपर्याये प्रथमां त्रिः कृत्वः, मध्यमां सप्तकृत्वः, उत्तमां सकृत्; द्वितीये प्रथमां सकृत्, मध्यमां त्रिः, उत्तमां सप्तकृत्वः; तृतीये पर्याये प्रथमां सप्तकृत्वः, मध्यमां सकृत्, उत्तमां त्रिः । सो ऽयं त्रयस्त्रिंशस्तोमो नाम (तां. ब्रा. १ । ३ । ३-७) त्रिषु मन्त्रेषु ब्राह्मणक्षत्रियवैश्या धनरक्षकत्वेन धनरूपत्वेन वा कथिताः, चतुर्थे उदुम्बरादिफलस्य तद्रूपत्वम्, पञ्चमे ‘वर्च्चसः’ प्रख्यातशूरताकृतस्य तेजसो रक्षकत्वं तद्रूपत्वं चोक्तम् ॥ ७ ॥

Eggeling
  1. ‘Ascend thou the upper region! May the Paṅkti protect thee, the Sākvara and Raivata-sāmans, the thrice-ninefold and the three and thirtyfold stomas, the winter and dewy season, spiritual lustre, that precious treasure!’

०८

विश्वास-प्रस्तुतिः

तद्य᳘देनं दि᳘शः समारोह᳘यति॥
(त्यृ) ऋतूना᳘मे᳘वैत᳘द्रूप᳘मृतू᳘ने᳘वैनमेत᳘त्संव्वत्सर᳘ᳫँ᳘ समा᳘रोहयति स᳘ ऽऋतू᳘न्त्संव्वत्सर᳘ᳫँ᳘ समारु᳘ह्य स᳘र्वमे᳘वेद᳘मुप᳘र्युपरि भवत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति॥

मूलम् - श्रीधरादि

तद्य᳘देनं दि᳘शः समारोह᳘यति॥
(त्यृ) ऋतूना᳘मे᳘वैत᳘द्रूप᳘मृतू᳘ने᳘वैनमेत᳘त्संव्वत्सर᳘ᳫँ᳘ समा᳘रोहयति स᳘ ऽऋतू᳘न्त्संव्वत्सर᳘ᳫँ᳘ समारु᳘ह्य स᳘र्वमे᳘वेद᳘मुप᳘र्युपरि भवत्यर्व्वा᳘गे᳘वास्मादिदᳫँ᳭ स᳘र्व्वं भवति॥

मूलम् - Weber

तद्य᳘देनं दि᳘शः समारोह᳘यति॥
ऋतूना᳘मेॗवैत᳘द्रूप᳘मृतू᳘नेॗवैनमेत᳘त्संवत्सर᳘ᳫं᳘ समा᳘रोहयति स᳘ ऋतू᳘न्त्संवत्सर᳘ᳫं᳘ समारु᳘ह्य स᳘र्वमेॗवेद᳘मुपर्युपरि भवत्यर्वा᳘गैॗवास्मादिदᳫं स᳘र्वम् भवति॥

मूलम् - विस्वरम्

तद्यदेनं दिशः समारोहयति । ऋतूनामेवैतद्रूपम् । ऋतूनेवैनमेतत्सम्वत्सरं समारोहयति । स ऋतून्त्संवत्सरं समारुह्य सर्वमेवेदमुपर्युपरि भवति । अर्वागेवास्मादिदं सर्वं भवति ॥ ८ ॥

सायणः

दिशां समारोहणं समस्य संवत्सरारोहात्मना प्रशंसति- तद्यदेनमिति । पञ्चानां दिशां समारोहणम् ऋतुरूपत्वम् । ऋतूनामपि “हेमन्तशिशिरयोः समासेन” (ऐ. ब्रा. १ । १ । १) पञ्चसङ्ख्यात्मकत्वात् संवत्सरारोहणेन यजमानः ‘सर्वमेवेदं’ जगत् ‘उपर्युपरि भवति’ सर्वस्योपरि वर्त्तमानो भवति; कालस्य सर्वेषामुपरि भावात् । ‘अस्मात्’ सुन्वतः सकाशात् ‘इदं सर्वम्’ ‘अर्वाक्’ अर्वाचीनम् अधस्तनं ‘भवति’ इति ॥ ८ ॥

Eggeling
  1. And as to why he makes him ascend the quarters,–that is a form of the seasons: it is the seasons, the year, that he thereby makes him ascend; and having ascended the seasons, the year, he is high, high above everything here, and everything here is below him.

०९

विश्वास-प्रस्तुतिः

शार्दूलचर्म᳘णो जघनार्धे[[!!]]॥
सी᳘सं नि᳘हितं भवति त᳘त्पदा प्र᳘त्यस्यति प्र᳘त्यस्तं न᳘मुचेः शि᳘र ऽइ᳘ति न᳘मुचिर्ह वै ना᳘मासुर᳘ ऽआस तमि᳘न्द्रो नि᳘विव्याध त᳘स्य पदा शि᳘रो ऽभि᳘तष्ठौ स य᳘दभि᳘ष्ठित ऽउद᳘बाधत स᳘ ऽउच्छ्वङ्कस्त᳘स्य पदा शि᳘रः प्र᳘चिच्छेद त᳘तो र᳘क्षः स᳘मभवत्त᳘द्ध स्मैनम᳘नुभाषते क्व[[!!]] गमिष्यसि᳘ मे मोक्ष्यस ऽइ᳘ति॥

मूलम् - श्रीधरादि

शार्दूलचर्म᳘णो जघनार्धे[[!!]]॥
सी᳘सं नि᳘हितं भवति त᳘त्पदा प्र᳘त्यस्यति प्र᳘त्यस्तं न᳘मुचेः शि᳘र ऽइ᳘ति न᳘मुचिर्ह वै ना᳘मासुर᳘ ऽआस तमि᳘न्द्रो नि᳘विव्याध त᳘स्य पदा शि᳘रो ऽभि᳘तष्ठौ स य᳘दभि᳘ष्ठित ऽउद᳘बाधत स᳘ ऽउच्छ्वङ्कस्त᳘स्य पदा शि᳘रः प्र᳘चिच्छेद त᳘तो र᳘क्षः स᳘मभवत्त᳘द्ध स्मैनम᳘नुभाषते क्व[[!!]] गमिष्यसि᳘ मे मोक्ष्यस ऽइ᳘ति॥

मूलम् - Weber

शार्दूलचर्म᳘णो जघनार्धे᳟॥
सी᳘सं नि᳘हितम् भवति त᳘त्पदा प्र᳘त्यस्यति प्र᳘त्यस्तं न᳘मुचेः शि᳘र इ᳘ति न᳘मुचिर्ह वै ना᳘मासुर᳘ आस तमि᳘न्द्रो नि᳘विव्याध त᳘स्य पदा शि᳘रो ऽभि᳘तष्ठौ स य᳘दभि᳘ष्ठित उद᳘बाधत स᳘ उछ्वङ्कस्त᳘स्य पदा शि᳘रः प्र᳘चिछेद त᳘तो र᳘क्षः स᳘मभवत्त᳘द्ध स्मैनम᳘नुभाषते क्व᳘ गमिष्यसि क्व᳘ मे मोक्ष्यस इ᳘ति॥

मूलम् - विस्वरम्

शार्दूलचर्मणो जघनार्द्धे सीसं निहितं भवति । तत् पदा प्रत्यस्यति- “प्रत्यस्तं नमुचेः शिरः” (वा. सं. १० । १०-१४) इति । नमुचिर्ह वै नामासुर आस । तमिन्द्रो निविव्याध । तस्य पदा शिरो ऽभितष्ठौ । स यदभिष्ठित उदबाधत- स उच्छ्वङ्कः । तस्य पदा शिरः प्रचिच्छेद । ततो रक्षः समभवत् । तद्ध स्मैनमनुभाषते क्व गमिष्यसि, क्व मे मोक्ष्यस ऽइति ॥ ९ ॥

सायणः

पूर्वं मैत्रावरुणधिष्ण्यस्य पुरस्तादभिहितानामभिषेचनीयपात्राणामग्रे आस्तृतस्य शार्दूलचर्मणो ऽपरे ऽन्ते निहितस्य सीसस्य प्रासनमिदानीं विधत्ते- शार्दूलेति । ‘शार्दूलर्चम्मणः’ ‘जघनार्द्धे’ अपरभागे ‘सीसं निहितं भवति’ । निहितमिति निष्ठाप्रयोगेण पूर्वं चर्मास्तरणसमये एव सीसनिधानं सम्पन्नमिति मन्तव्यम् । तथैव कात्यायनः- “मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्म्मास्तृणाति सोमस्य त्विषिरिति, अपरे ऽन्ते सीसं निदधाति- (का. श्रौ. सू. १५ । १२२ । १२३) इति । अत्र तु “आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तं”- इत्येतावदेवासूत्रयत् (का. श्रौ. सू. १५ । १०३) ‘तत्’ सीसं ‘पदा’ पादेन “प्रत्यस्तम्”- इति मन्त्रेण निरस्येत् । ‘नमुचेः’ असुरस्य ‘शिरः’ ‘प्रत्यस्तं’ निरस्तमिति तस्यार्थः ॥

नमुचिशिरसः सीसेन निरासमाख्यायिकयोपपादयति- नमुचिर्ह वा इति । पूर्वमिन्द्रो नमुचिनाम्नो ऽसुरस्य ‘शिरः’ स्वेन पादेन ‘अभितष्ठौ’ आचक्रमे । ‘सः’ आक्रान्तः ‘उदबाधत’ । ‘उच्छ्वङ्कः’ उद्गतः श्वङ्कः । श्वङ्को नाम प्राणिविशेषः, श्वङ्कानीतशीर्ष्णीति ह्यन्यत्राम्नातम् ‘तस्य’ शिरः ‘पदा’ स्वीयेन पादेन ‘प्रचिच्छेद’ छिन्नवान्, ‘ततः’ छिन्नशिराः ‘रक्षः’ ‘राक्षसः समभवत्’ ‘तत्’ रक्षः ‘एनं’ घातकमिन्द्रम् ‘अनुभाषते’ वदति, हे इन्द्र ! ‘क्व गमिष्यसि’ ‘मे’ मत्तः सकाशात् ‘क्व मोक्ष्यसे’ मुक्तो भविष्यसि ‘इति’ वदति ॥ ९ ॥

Eggeling
  1. On the hind part of the tiger’s skin 2 a piece of

lead is laid down. He kicks it off with his foot, with (Vāj. S. X, 14), ‘Kicked off is Namuci’s head!’ Now there was once an Āsura, Namuci by name. Indra knocked him down, and trod with his foot upon him. And in that he, thus trodden upon, bulged out, that (is the origin of) a rupture. He tore off his head with his foot, and therefrom sprang a goblin (Rakshas). That one kept calling out to him, ‘Whither art thou going? Where wilt thou rid thyself of me?’

१०

विश्वास-प्रस्तुतिः

तत्सी᳘सेना᳘पजघान॥
त᳘स्मात्सी᳘सं मृदु᳘ सृत᳘जवᳫँ᳭ हि स᳘र्व्वेण हि᳘ व्वी᳘र्येणापजघा᳘न त᳘स्माद्धि᳘रण्यरूपᳫँ᳭ सन्न कि᳘यच्च᳘नार्हति सृत᳘जवᳫँ᳭ हि स᳘र्व्वेण हि᳘ व्वी᳘र्येणापजघा᳘न तद्वै स त᳘न्नाष्ट्रा᳘ र᳘क्षाᳫँ᳭स्य᳘पजघान त᳘थो ऽए᳘वैष᳘ ऽएत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭स्यतो᳘ ऽपहन्ति॥

मूलम् - श्रीधरादि

तत्सी᳘सेना᳘पजघान॥
त᳘स्मात्सी᳘सं मृदु᳘ सृत᳘जवᳫँ᳭ हि स᳘र्व्वेण हि᳘ व्वी᳘र्येणापजघा᳘न त᳘स्माद्धि᳘रण्यरूपᳫँ᳭ सन्न कि᳘यच्च᳘नार्हति सृत᳘जवᳫँ᳭ हि स᳘र्व्वेण हि᳘ व्वी᳘र्येणापजघा᳘न तद्वै स त᳘न्नाष्ट्रा᳘ र᳘क्षाᳫँ᳭स्य᳘पजघान त᳘थो ऽए᳘वैष᳘ ऽएत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭स्यतो᳘ ऽपहन्ति॥

मूलम् - Weber

तत्सी᳘सेना᳘पजघान॥
त᳘स्मात्सी᳘सम् मृदु᳘ सृत᳘जवᳫं हि स᳘र्वेण हि᳘ वीॗर्येणापजघा᳘न त᳘स्माद्धि᳘रण्यरूपᳫं सन्न कि᳘यच्चॗनार्हति सृत᳘जवᳫं हि स᳘र्वेण हि᳘ वीॗर्येणापजघा᳘न तद्वै स त᳘न्नाष्ट्रा र᳘क्षांस्य᳘पजघान त᳘थो एॗवैष᳘ एत᳘न्नाष्ट्रा र᳘क्षांस्यतो᳘ ऽपहन्ति॥

मूलम् - विस्वरम्

तत् सीसेनापजघान । तस्मात्सीसं मृदु । सृतजवं हि । सर्वेण हि वीर्येणापजघान । तस्माद्धिरण्यरूपं सन्न कियच्चनार्हति । सृतजवं हि । सर्वेण हि वीर्येणापजघान । तद्वै स तन्नाष्ट्रा रक्षांस्यपजघान । तथो एवैष एतन्नाष्ट्रा रक्षांस्यतो ऽपहन्ति ॥ १० ॥

सायणः

तत्सीसेनेति । ‘तत्’ रक्षः, एतद्वदन्तं राक्षसं ‘सीसेन अपजघान’ । ‘तस्मात्’ ‘सीसं’ ‘मृदु’ जातम् । ‘हि’ यस्मात् ‘सृतजवं’ गतवेगम् । तत्त्वमुपपादयति- सर्वेण हीति । तस्माद् गतसारमेतत् सीसं ‘हिरण्यरूपं’ रजतरूपं ‘सत्’ अपि ‘कियञ्चन’ कियदपि मूल्यं ‘नार्हति’ न लभते । रजतस्यापि हिरण्यशब्दव्यवहारो ऽस्ति; “यदश्र्वशीयत तद्रजतं हिरण्यमभवत्" (तै. सं. १ । ५ । १ । १-२) इति तैत्तिरीयश्रुतेः । अतः पूर्वं रक्षसः सीसेन हतत्वादिदानीमपि सीसप्रासनेन रक्षांसि हतानि भवन्तीत्यर्थः ॥ १० ॥

Eggeling
  1. He beat it off with (a disk of) lead: hence lead is soft, for it has lost its spring, as it beat off (the goblin) with all its might. Hence also, while being like gold, it is not worth anything; for it has lost its spring, as it beat off (the goblin) with all its might. And so, indeed, he (Indra) thereby beat off the fiends, the Rakshas; and in like manner this one (the king) thereby beats off the fiends, the Rakshas.

११

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थैनᳫँ᳭ शार्दूलचर्मा᳘रोहयति॥
सो᳘मस्य त्वि᳘षिरसी᳘ति य᳘त्र वै सो᳘म ऽइ᳘न्द्रमत्य᳘पवत स यत्त᳘तः शार्दूलः᳘ सम᳘भवत्ते᳘न सो᳘मस्य त्वि᳘षिस्त᳘स्मादाह सो᳘मस्य त्वि᳘षिरसी᳘ति त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति शार्दूलत्विषि᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाह त᳘वेव मे त्वि᳘षिर्भूयादिति[[!!]]॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थैनᳫँ᳭ शार्दूलचर्मा᳘रोहयति॥
सो᳘मस्य त्वि᳘षिरसी᳘ति य᳘त्र वै सो᳘म ऽइ᳘न्द्रमत्य᳘पवत स यत्त᳘तः शार्दूलः᳘ सम᳘भवत्ते᳘न सो᳘मस्य त्वि᳘षिस्त᳘स्मादाह सो᳘मस्य त्वि᳘षिरसी᳘ति त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति शार्दूलत्विषि᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाह त᳘वेव मे त्वि᳘षिर्भूयादिति[[!!]]॥

मूलम् - Weber

अ᳘थैनं शार्दूलचर्मा᳘रोहयति॥
सो᳘मस्य त्वि᳘षिरसी᳘ति य᳘त्र वै सो᳘म इ᳘न्द्रमत्य᳘पवत स यत्त᳘तः शार्दूलः᳘ सम᳘भवत्ते᳘न सो᳘मस्य त्वि᳘षिस्त᳘स्मादाह सो᳘मस्य त्वि᳘षिरसी᳘ति त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति शार्दूलत्विषि᳘मेॗवास्मिन्नेत᳘द्दधाति त᳘स्मादाह त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति॥

मूलम् - विस्वरम्

अथैनं शार्दूलचर्मारोहयति- “सोमस्य त्विषिरसि”- इति । यत्र वै सोम इन्द्रमत्यपवत- स यत्ततः शार्दूलः समभवत्- तेन सोमस्य त्विषिः । तस्मादाह- सोमस्य त्विषिरसि इति । “तवेव मे त्विषिर्भूयात्”- (वा. सं. १० । १५) इति । शार्दूलत्विषिमेवास्मिन्नेतद्दधाति । तस्मादाह- तवेव मे त्विषिर्भूयादिति ॥ ११ ॥

सायणः

विधत्ते- अथैनमिति 3 । ‘आरोहयति’ आक्रामयति । सोमस्य त्विषिरित्यादि । पूर्वं व्याख्यातम् (श. प. ब्रा. ५ । ३ । ५ । ३) ॥ ११ ॥

Eggeling
  1. He then makes him step upon the tiger’s skin, with (Vāj. S. X, 15), ‘Thou art Soma’s beauty;’–For because when Soma flowed through Indra, he (Indra) thereupon became a tiger, and therefore he is Soma’s beauty: this is why he says, ‘Thou art Soma’s beauty;’–‘May my beauty be like unto thine!’–The tiger’s beauty he thereby bestows upon him: therefore he says, ‘May my beauty be like unto thine!’

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ रुक्म᳘मध᳘स्तादु᳘पास्यति॥
मृत्योः᳘ पाही᳘त्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ रुक्म᳘मध᳘स्तादु᳘पास्यति॥
मृत्योः᳘ पाही᳘त्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति॥

मूलम् - Weber

अ᳘थ रुक्म᳘मध᳘स्तादु᳘पास्यति॥
मृत्योः᳘ पाही᳘त्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त आ᳘युषि प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

अथ रुक्ममधस्तादुपास्यति- “मृत्योः पाहि”- इति । अमृतमायुर्हिरण्यम् । तदमृत ऽआयुषि प्रतितिष्ठति ॥ १२ ॥

सायणः

विधत्ते- अथ रुक्ममिति । ‘रुक्मं’ 3 हिरण्यम्- ‘अधस्तात्’ अधःप्रदेशे ‘उपास्यति’ निदध्यात् । अत्र सूत्रम्- “रुक्ममधः पदं कुरुते मृत्योरिति” (का. श्रौ. सू. १५ । १४५) हे रुक्म ! ‘मृत्योः’ सकाशात् ‘पाहि’ पालय; एनमित्यर्थसिद्धम् । रुक्मस्य मृत्युपरिहारकत्वमुपपादयति- अमृतमिति । हिरण्यममृतमायुः; हिरण्यदानेन अपमृत्योः परिहर्तुं शक्यत्वात् आयुर्दत्वम् । तस्मात् असौ यजमानः पादस्याधःप्रदेशे रुक्मनिधानेन आयुषि एव प्रतिष्ठितवान् भवतीत्यर्थः ॥ १२ ॥

Eggeling
  1. Below (the king’s foot) he throws a (small) gold plate, with, ‘Save (him) from death!’–Gold is immortal life: he thus takes his stand on immortal life.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ रुक्मः᳘ शत᳘वितृण्णो वा भ᳘वति॥
न᳘ववितृण्णो वा स य᳘दि शत᳘वितृण्णः शता᳘युर्व्वा᳘ ऽअयं पु᳘रुषः शत᳘तेजाः शत᳘वीर्यस्त᳘स्माच्छत᳘वितृण्णो य᳘द्यु न᳘ववितृण्णो न᳘वेमे पु᳘रुषे प्राणास्त᳘स्मान्न᳘ववितृण्णः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ रुक्मः᳘ शत᳘वितृण्णो वा भ᳘वति॥
न᳘ववितृण्णो वा स य᳘दि शत᳘वितृण्णः शता᳘युर्व्वा᳘ ऽअयं पु᳘रुषः शत᳘तेजाः शत᳘वीर्यस्त᳘स्माच्छत᳘वितृण्णो य᳘द्यु न᳘ववितृण्णो न᳘वेमे पु᳘रुषे प्राणास्त᳘स्मान्न᳘ववितृण्णः॥

मूलम् - Weber

अ᳘थ रुक्मः᳘ शत᳘वितृणो वा भ᳘वति॥
न᳘ववितृणो वा स य᳘दि शत᳘वितृणः शता᳘युर्वा᳘ अयम् पु᳘रुषः शत᳘तेजाः शत᳘वीर्यस्त᳘स्माछत᳘वितृणो य᳘द्यु न᳘ववितृणो न᳘वेमे पु᳘रुषे प्राणास्त᳘स्मान्न᳘ववितृणः॥

मूलम् - विस्वरम्

अथ रुक्मः शतवितृण्णो वा भवति, नववितृण्णो वा । स यदि शतवितृण्णः, शतायुर्वा ऽअयं पुरुषः- शततेजाः शतवीर्यः । तस्माच्छतविवृण्णः । य नववितृण्णः- नवेमे पुरुषे प्राणाः- तस्मान्नववितृण्णः ॥ १३ ॥

सायणः

शिरसि निधीयमानस्य रुक्मस्य कञ्चिद्गुणं विधत्ते- अथ रुक्ममिति 3 । ‘शतवितृण्णः’ शतच्छिद्रः, ‘नववितृण्णः’ नवच्छिद्रः ‘वा’ भवेत् । तदुभयं क्रमेणायुःप्राणात्मना प्रशंसति- स यदि शतेति । आयुरनुसारेण तेजोवीर्ययोरपि शतसंख्याकत्वं द्रष्टव्यम् ॥ १३ ॥

Eggeling
  1. Then there is (another) gold plate, perforated either with a hundred, or with nine, holes. If with

a hundred holes,–man here lives up to a hundred (years), and has a hundred energies, a hundred powers; therefore it is perforated with a hundred holes. And if with nine holes,–there are in man those nine vital airs: therefore it is perforated with nine holes.

१४

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘मुप᳘रिष्टाच्छीर्ष्णो नि᳘दधाति॥
(त्यो᳘) ओ᳘जो ऽसि स᳘हो स्यमृ᳘तमसी᳘त्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दस्मिन्नमृ᳘तमा᳘युर्दधाति तद्य᳘द्रुक्मा᳘ ऽउभय᳘तो भ᳘वतो ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तेनै᳘वैनमेतदा᳘युषोभय᳘तः प᳘रिबृᳫँ᳭हति त᳘स्माद्रुक्मा᳘ ऽउभय᳘तो भवतः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘मुप᳘रिष्टाच्छीर्ष्णो नि᳘दधाति॥
(त्यो᳘) ओ᳘जो ऽसि स᳘हो स्यमृ᳘तमसी᳘त्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दस्मिन्नमृ᳘तमा᳘युर्दधाति तद्य᳘द्रुक्मा᳘ ऽउभय᳘तो भ᳘वतो ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तेनै᳘वैनमेतदा᳘युषोभय᳘तः प᳘रिबृᳫँ᳭हति त᳘स्माद्रुक्मा᳘ ऽउभय᳘तो भवतः॥

मूलम् - Weber

त᳘मुप᳘रिष्टाछीर्ष्णो नि᳘दधाति॥
ओ᳘जो ऽसि स᳘हो स्यमृ᳘तमसी᳘त्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दस्मिन्नमृ᳘तमा᳘युर्दधाति तद्य᳘द्रुक्मा᳘ उभय᳘तो भ᳘वतो ऽमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘तेनैॗवैनमेतदा᳘युषोभय᳘तः प᳘रिबृंहति त᳘स्माद्रुक्मा᳘ उभय᳘तो भवतः॥

मूलम् - विस्वरम्

तमुपरिष्टाच्छीर्ष्णो निदधाति- “ओजो ऽसि सहो ऽस्यमृतमसि”- (वा० सं० १० । १५) इति । अमृतमायुर्हिरण्यम् । तदस्मिन्नमृतमायुर्दधाति । तद् यद्रुक्मा ऽउभयतो भवतः- अमृतमायुर्हिरण्यम् । तदमृतेनैवैनमेतदायुषोभयतः परिबृंहति । तस्माद्रुक्मा ऽउभयतो भवतः ॥ १४ ॥

सायणः

तस्य शिरसि निधानं विधत्ते- तमुपरिष्टादिति । ‘शीर्ष्णः’ इति षष्ठी । ‘ओजः’ इति मनोबलम् । ‘सहः’ इति बाह्येन्द्रियबलम् । ‘अमृतम्’ इति प्राणबलम्; “प्राणो वा अमृतम्” इति श्रुतेः । हे रुक्म ! तत् त्रितयरूपो ऽसीति मन्त्रार्थः । अधस्तादुपरिष्टाच्च रुक्मनिधानमायुःप्रवृद्धिरूपेण प्रशंसति- तद्यद्रुक्मा उभयत इति । रुक्मशब्दात् प्रथमाद्विवचनस्यावादेशे कृते “लोपः शाकल्यस्य” (पा. सू. ८ । ३ । १९) इति वकारलोपः । उभयतो रुक्मनिधानेन ‘एनं’ यजमानम् अमृतरूपेण ‘आयुषा’ ‘उभयतः’ ‘परिबृंहति’ संवर्द्धितवान् भवति ॥ १४ ॥

Eggeling
  1. That (gold plate) he lays upon his head, with, ‘Might thou art, victory thou art, immortality thou art!’ Gold being immortal life, he thus lays immortal life into him. And as to why there are gold plates on both sides,–gold being immortal life,–he thus encloses him on both sides with immortal life: this is why there are gold plates on both sides.

१५

विश्वास-प्रस्तुतिः

(तो᳘ ऽथ) अ᳘थ बाहू ऽउ᳘द्गृह्णाति॥
हि᳘रण्यरूपा ऽउष᳘सो व्विरोक᳘ ऽउभा᳘विन्द्रा ऽउ᳘दिथः सू᳘र्यश्च॥ आ᳘रोहतं व्वरुण मित्र ग᳘र्तं त᳘तश्चक्षाथाम᳘दि᳘तिं दितिं[[!!]] चे᳘ति बाहू वै᳘ मित्राव᳘रुणौ पु᳘रुषो ग᳘र्तस्त᳘स्मादाहा᳘रोहतं व्वरुण मित्र ग᳘र्तमि᳘ति त᳘तश्चक्षाथाम᳘दितिं दि᳘तिं चे᳘ति त᳘तः पश्यतᳫँ᳭ स्वं चा᳘रणं चे᳘त्ये᳘वैत᳘दाह᳘॥

मूलम् - श्रीधरादि

(तो᳘ ऽथ) अ᳘थ बाहू ऽउ᳘द्गृह्णाति॥
हि᳘रण्यरूपा ऽउष᳘सो व्विरोक᳘ ऽउभा᳘विन्द्रा ऽउ᳘दिथः सू᳘र्यश्च॥ आ᳘रोहतं व्वरुण मित्र ग᳘र्तं त᳘तश्चक्षाथाम᳘दि᳘तिं दितिं[[!!]] चे᳘ति बाहू वै᳘ मित्राव᳘रुणौ पु᳘रुषो ग᳘र्तस्त᳘स्मादाहा᳘रोहतं व्वरुण मित्र ग᳘र्तमि᳘ति त᳘तश्चक्षाथाम᳘दितिं दि᳘तिं चे᳘ति त᳘तः पश्यतᳫँ᳭ स्वं चा᳘रणं चे᳘त्ये᳘वैत᳘दाह᳘॥

मूलम् - Weber

अ᳘थ बाहू उ᳘द्गृह्णाति॥
हि᳘रण्यरूपा उष᳘सो विरोक᳘ उभा᳘विन्द्रो उ᳘दिथः सू᳘र्यश्च आ᳘रोहतं वरुण मित्र ग᳘र्तं त᳘तश्चक्षाथाम᳘दितिं दि᳘तिं चे᳘ति बाहू वै᳘ मित्राव᳘रुणौ ग᳘र्तस्त᳘स्मादाहा᳘रोहतं वरुण मित्र ग᳘र्तमि᳘ति त᳘तश्चक्षाथाम᳘दितिं दि᳘तिं चे᳘ति त᳘तः पश्यतᳫं स्वं चा᳘रणं चे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ बाहू ऽउद्गृह्णाति- “हिरण्यरूपा ऽउषसो विरोक ऽउभाविन्द्रा ऽउदिथः सूर्यश्च । आरोहतं वरुण ! मित्र ! गर्तम्, ततश्चाक्षथाम्- अदितिम्, दितिं च" इति । बाहू वै मित्रावरुणौ, पुरुषो गर्तः । तस्मादाह- आरोहतं वरुण मित्र गर्तमिति । ततश्चक्षाथामदितिं दितिं चेति । ततः पश्यतं स्वं चारणञ्चेत्येवैतदाह ॥ १५ ॥

सायणः

विधत्ते- अथ बाहू इति । ‘उद्गृह्णाति’ यजमानः ऊर्द्धौ प्रसारितौ कुर्यात् । अत्र “मित्रो ऽसि वरुणो ऽसि”- स्वयमेव मन्त्रो बाहूद्ग्रहणे विधास्यते, तत्र पूर्वपक्षत्वेन मन्त्रं पठति- हिरण्यरूपाविति । अत एव कात्यायनो विकल्पेन सूत्रयामास- “बाहू उद्गृह्णाति हिरण्यरूपा इति मित्रो ऽसि वरुणो ऽसीति वा”- (का. श्रौ. सू. १५ । १४७ । १४८) इति । हिरण्येति मन्त्रस्य अयमाध्यात्मिको ऽर्थः । हे वरुण ! हे मित्र ! बाहुद्वयस्य पृथक् सम्बुद्धिः । ‘हिरण्यरूपौ’ हितरमणीयरूपौ, हिरण्यस्वरूपौ वा सालङ्कारत्वात् । ‘इन्द्रौ’ परमैश्वर्यसम्पन्नौ उभौ युवाम् ‘उषसः’ ‘विरोके’ विरोचने ‘उदिथः’ ‘सूर्यश्च’ उद्गतः । एतेर्लटि मध्यमद्विवचने रूपम् । हे मित्रावरुणौ ! बाहूरूपौ ‘गर्तं’ पुरुषम् ‘आरोहतम्’ पुरुषस्योपरि भवतमित्यर्थः । ‘ततः’ अनन्तरम् ‘अदितिम्’ अखण्डनीयाम्, पृथिवीरूपां स्वीयां प्रजां ‘चक्षाथाम्’ पश्येताम् । ‘दितिं’ खण्डनीयाम्, परामेताञ्च । तस्य तद्बाहुद्वयमेव स्वबलं रक्षति, परबलं हन्ति, अत एवमुच्यत इत्यध्यात्मविषयो ऽर्थः ॥

आधिदैविके त्वयं विशेषः- ‘गर्तः’ रथः; हे ‘मित्रावरुणौ !’ हे देवते ! रथम् ‘आरोहतम्’ । ‘ततः’ रथारोहणानन्तरम् ‘अदितिम्’ अदीनं समर्थं विहितस्य कर्मणः कर्त्तारं पुरुषं प्रपश्यतम्, ‘दितिं’ दीनं विवेकरहितमनुष्ठातारं च पश्यतमिति । तमिमं मन्त्रं बाहुद्वयपरत्वेन व्याचष्टे- बाहू वै मित्रेति । अन्तिमपादस्यार्थमाह- ततः पश्यतमिति । ‘स्वं’ स्वीयम् ‘अरणम्’ अरमणीयम्, परं च पश्यतमिति । ‘अदिति’ शब्दस्य स्वो ऽर्थः ‘दिति’ शब्दस्य परो ऽर्थः इति विभागः ॥ १५ ॥

Eggeling
  1. He then lifts up his arms, with (Vāj. S. X, 16 4), ‘Golden-bodied, ye two lords rise like the sun: mount ye the chariot, O Mitra and Varuṇa, and thence behold Aditi and Diti!’ Mitra and Varuṇa verily are the two arms, and the chariot (-seat) is the man: therefore he says, ‘Mount ye the chariot, O Mitra and Varuṇa!’–’thence behold Aditi and Diti!’ By this he means to say, ‘See ye your own (property) and that of others’’

१६

विश्वास-प्रस्तुतिः

नैतेनो᳘द्गृह्णीयात्॥
(न्मि᳘) मि᳘त्रो ऽसि व्व᳘रुणो ऽसी᳘त्येवो᳘द्गृह्णीयाद्बाहू वै᳘ मित्राव᳘रुणौ बाहु᳘भ्यां वै᳘ राज᳘न्यो मैत्रावरुणस्त᳘स्मान्मि᳘त्रो ऽसि व्व᳘रुणो ऽसी᳘त्येवो᳘द्गृह्णीयात्॥

मूलम् - श्रीधरादि

नैतेनो᳘द्गृह्णीयात्॥
(न्मि᳘) मि᳘त्रो ऽसि व्व᳘रुणो ऽसी᳘त्येवो᳘द्गृह्णीयाद्बाहू वै᳘ मित्राव᳘रुणौ बाहु᳘भ्यां वै᳘ राज᳘न्यो मैत्रावरुणस्त᳘स्मान्मि᳘त्रो ऽसि व्व᳘रुणो ऽसी᳘त्येवो᳘द्गृह्णीयात्॥

मूलम् - Weber

नैतेनो᳘द्गृह्णीयात्॥
मिॗत्रो ऽसि व᳘रुणो ऽसी᳘त्येवो᳘द्गृह्णीयाद्बाहू वै᳘ मित्राव᳘रुणौ बाहु᳘भ्यां वै᳘ राजॗन्यो मैत्रावरुणस्त᳘स्मान्मिॗत्रो ऽसि व᳘रुणो ऽसी᳘त्येवो᳘द्गृह्णीयात्॥

मूलम् - विस्वरम्

नैतेनोद्गृह्णणीयात् । “मित्रो ऽसि वरुणो ऽसि”- (वा० सं० १० । १६ ।) इत्येवोद्गृह्णीयात् । बाहू वै मित्रावरुणौ । बाहुभ्यां वै राजन्यो मैत्रावरुणः । तस्मान्मित्रो ऽसि वरुणो ऽसीत्येवोद्गृह्णीयात् ॥ १६ ॥

सायणः

एतेन मन्त्रेणोद्ग्रहणं दूषयति- नैतेनेति । स्वमतमाह- मित्रो ऽसीति । एवकारो ऽन्यमन्त्रनिवृत्त्यर्थः । मन्त्रस्तु पूर्वं व्याख्यातः । तमिमं मन्त्रं प्रशंसति बाहू वै मित्रेति ॥ १६ ॥

Eggeling
  1. Let him not lift up (the king’s arms) with that one, but let him rather lift them up with, ‘Thou art Mitra, thou art Varuṇa;’ for Mitra-Varuṇa are the two arms, and by his arms the Rājanya belongs to Mitra and Varuṇa: let him therefore lift up his arms with, ‘Thou art Mitra, thou art Varuṇa.’

१७

विश्वास-प्रस्तुतिः

(त्त) तद्य᳘दैनमूर्ध्व᳘बाहुमभिषिञ्च᳘ति॥
व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘द्राज᳘न्यस्य[[!!]] य᳘द्बाहू᳘ वी᳘र्यं[[!!]] वा᳘ ऽएत᳘दपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति ये᳘नैनमेत᳘दभिषिञ्च᳘ति[[!!]] ने᳘न्म ऽइदं᳘ व्वी᳘र्यं[[!!]] व्वी᳘र्यमपाᳫँ᳭ र᳘सः स᳘म्भृतो बाहू᳘ व्लिनादि᳘ति त᳘स्मादेनमूर्ध्व᳘बाहुमभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

(त्त) तद्य᳘दैनमूर्ध्व᳘बाहुमभिषिञ्च᳘ति॥
व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘द्राज᳘न्यस्य[[!!]] य᳘द्बाहू᳘ वी᳘र्यं[[!!]] वा᳘ ऽएत᳘दपाᳫँ᳭ र᳘सः स᳘म्भृतो भवति ये᳘नैनमेत᳘दभिषिञ्च᳘ति[[!!]] ने᳘न्म ऽइदं᳘ व्वी᳘र्यं[[!!]] व्वी᳘र्यमपाᳫँ᳭ र᳘सः स᳘म्भृतो बाहू᳘ व्लिनादि᳘ति त᳘स्मादेनमूर्ध्व᳘बाहुमभि᳘षिञ्चति॥

मूलम् - Weber

तद्य᳘देनमूर्ध्व᳘बाहुमभिषिञ्च᳘ति॥
वीर्यं᳘ वा᳘ एत᳘द्राजन्य᳘स्य य᳘द्बाहू᳘ वीर्यं᳘ वा᳘ एत᳘दपां र᳘सः स᳘म्भृतो भवति ये᳘नैनमेत᳘दभि᳘षिञ्चति ने᳘न्म इदं᳘ वीर्यं᳘ वीर्य᳘मपां र᳘सः स᳘म्भृतो बाहू᳘व्लिनादि᳘ति त᳘स्मादेनमूर्ध्व᳘बाहुमभि᳘षिञ्चति॥

मूलम् - विस्वरम्

तद् यदेनमूर्ध्वबाहुमभिषिञ्चति । वीर्यं वा ऽएतद्राजन्यस्य यद्बाहू । वीर्यं वा ऽएतदपां रसः सम्भृतो भवति- येनैनमेतदभिषिञ्चति । नेन्म ऽइदं वीर्यम् । वीर्यमपां रसः सम्भृतो बाहू व्लिनादिति । तस्मादेनमूर्ध्वबाहुमभिषिञ्चति ॥ १७ ॥

सायणः

एवमूर्द्ध्वबाहुत्वेनैव स्थितस्य यजमानस्याभिषेको विधास्यते, तमिमं पुनः प्रशंसति- तद्यदेनमिति । एवकारो भिन्नक्रमः ऊर्द्ध्वबाहुमेवेति योजना । राजन्यस्य बाहू एव वीर्ये । अभिषेचनीयपात्रेषु व्यासिक्तानामपां रसो ऽपि वीर्यम्; वीर्यापादकत्वात् । अतः तेन रसेनाभिषेके ऊर्द्ध्वबाहुत्वमेव युक्तमित्यर्थः । तस्य कारणमाह- नेन्म इति । ‘मे’ मम ‘इदं वीर्यं’ वीर्यरूपौ ‘बाहू’ कर्म, वीर्यरूपः ‘अपां रसः’ ‘नेत् व्लिनात्’ न वर्जयेत् ‘इति’ अतो हेतोः ‘ऊर्द्ध्वबाहुम्’ एव अभिषिञ्चेदित्यर्थः ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्यप्रकाशे माध्यन्दिनशतपथब्राह्मगभाष्ये पञ्चमकाण्डे चतुर्था ऽध्याये प्रथमं ब्राह्मणम् ॥ (५ । ४ । १) ॥

Eggeling
  1. And as to why he anoints him (standing) with upstretched arms;–those arms in truth are the Rājanya’s power, and power also is that collected essence of the waters wherewith he now anoints him: ‘Lest that power, the collected essence of the waters, weigh down (paralyze) this power of mine, the arms,’ thus he thinks, and therefore he anoints him (standing) with upstretched arms.

  1. 90:1 Lohāyasa, literally, ‘red metal,’ apparently either copper, or an alloy of copper and some other metal,–The eunuch is sitting in the Sadas. ↩︎

  2. 91:1 This was spread out in front of the Maitrāvaruṇa’s hearth, see V, 3, 5, 3. ↩︎

  3. व्याघ्रचर्म्मारोहयति सोमस्य त्विषिरिति । का. श्रौ. सू. १५ । १४४ । ↩︎ ↩︎ ↩︎

  4. 93:1 In R̥k S. V, 62, 8 the verse runs as follows:–At the glow of the dawn, at the rising of the sun, ye, O Mitra and Varuṇa, mount your golden-formed, iron-pillared chariot; thence ye behold Aditi and Diti (? the boundless space and the bounded). ↩︎