०१

विश्वास-प्रस्तुतिः

तं वै मा᳘ध्यन्दिने स᳘वने ऽभि᳘षिञ्चति॥
(त्ये) एष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनं मध्यत᳘ ऽए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति॥

मूलम् - श्रीधरादि

तं वै मा᳘ध्यन्दिने स᳘वने ऽभि᳘षिञ्चति॥
(त्ये) एष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनं मध्यत᳘ ऽए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति॥

मूलम् - Weber

तं वै मा᳘ध्यदिने स᳘वने ऽभि᳘षिञ्चति॥
एष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनम् मध्यत᳘ एॗवैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति॥

मूलम् - विस्वरम्

अथ अभिषेकः ।

तं वै माध्यन्दिने सवने ऽभिषिञ्चति । एष वै प्रजापतिः- य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनु प्रजायन्ते । तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति, मध्यतः सुवति ॥ १ ॥

सायणः

पञ्चमे ब्राह्मणे यजमानाभिषेकः, तत्रत्या धर्माश्च विधीयन्ते । तत्र यजमानाभिषेकं सकालं विधत्ते- तं वै माध्यन्दिन इति । माध्यन्दिनसवने क्रियमाणमभिषेकं प्रशंसति- एष वै प्रजापतिरिति । माध्यन्दिनसवने वै क्रियमाणेनाभिषेकेण ‘एवं’ यजमानं ‘मध्यतः एव’ यज्ञरूपप्रजापतिमध्ये एव निहितवान् भवति । ‘मध्यतः’ मध्ये ‘सुवति’ प्रेरयति, अध्वर्युरित्यर्थः ॥ १ ॥

Eggeling
  1. He consecrates him at the midday Soma-feast. Now Prajāpati is that sacrifice which is here performed, and whence these creatures have been

produced,–and so they are even now produced after this one: he thus places him in the very middle of that Prajāpati, and consecrates him in the middle.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘गृहीते माहेन्द्रे᳘॥
(न्द्र᳘) एष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केव᳘ल्यमेव[[!!]] स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘देनᳫँ᳭ स्व᳘ ऽए᳘वाय᳘तने ऽभि᳘षिञ्चति त᳘स्माद᳘गृहीते माहेन्द्रे[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘गृहीते माहेन्द्रे᳘॥
(न्द्र᳘) एष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केव᳘ल्यमेव[[!!]] स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘देनᳫँ᳭ स्व᳘ ऽए᳘वाय᳘तने ऽभि᳘षिञ्चति त᳘स्माद᳘गृहीते माहेन्द्रे[[!!]]॥

मूलम् - Weber

अ᳘गृहीते माहेन्द्रे᳟॥
एष वा इ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यं शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘देनᳫं स्व᳘ एॗवाय᳘तने ऽभि᳘षिञ्चति त᳘स्माद᳘गृहीते माहेन्द्रे᳟॥

मूलम् - विस्वरम्

अगृहीते माहेन्द्रे । एष वा ऽइन्द्रस्य निष्केवल्यो ग्रहः- यन्माहेन्द्रः । अप्यस्यैतन्निष्केवल्यमेव स्तोत्रम्- निष्केवल्यं शस्त्रम् । इन्द्रो वै यजमानः । तदेनं स्व ऽएवायतने ऽभिषिञ्चति । तस्मादगृहीते माहेन्द्रे ॥ २ ॥

सायणः

कालविशेषं विधत्ते- अगृहीत (का. श्रौ. सू. १५ । १२२) इति । ‘माहेन्द्रे’ ग्रहे ‘अग्रहीते’ सोमरसेनापूर्णे, मरुत्वतीयान्ते इत्यर्थः । माहेन्द्रग्रहणात् पूर्वं यजमानाभिषेकं स्वायतननिधानरूपेण प्रशंसति- एष वा इन्द्रस्येति । इदं प्रथमाध्याये व्याख्यातम् (श. प. ५ । १ । ३ । ४ भा.) ॥ २ ॥

Eggeling
  1. Before the Māhendra (cup) has been drawn,–for that Māhendra cup is Indra’s special (nishkevalya) cup, and so is that Nishkevalya Stotra (hymn) and Nishkevalya Śastra (recitation); and the Sacrificer is Indra: he thus consecrates him–in his own resting-place. Hence before the Māhendra (cup) has been drawn,–

०३

विश्वास-प्रस्तुतिः

(न्द्रे᳘ ऽग्रे) अ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यम्॥
(ᳫँ᳭) शार्दूलचर्मो᳘पस्तृणाति सो᳘मस्य त्वि᳘षिरसी᳘ति य᳘त्र वै सो᳘म ऽइ᳘न्द्रमत्य᳘पवत स यत्त᳘तः शार्दूलः᳘ सम᳘भवत्ते᳘न सो᳘मस्य त्वि᳘षिस्त᳘स्मादाह सो᳘मस्य त्वि᳘षिरसी᳘ति त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति शार्दूलत्विषि᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाह त᳘वेव मे त्वि᳘षिर्भूयादिति[[!!]]॥

मूलम् - श्रीधरादि

(न्द्रे᳘ ऽग्रे) अ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यम्॥
(ᳫँ᳭) शार्दूलचर्मो᳘पस्तृणाति सो᳘मस्य त्वि᳘षिरसी᳘ति य᳘त्र वै सो᳘म ऽइ᳘न्द्रमत्य᳘पवत स यत्त᳘तः शार्दूलः᳘ सम᳘भवत्ते᳘न सो᳘मस्य त्वि᳘षिस्त᳘स्मादाह सो᳘मस्य त्वि᳘षिरसी᳘ति त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति शार्दूलत्विषि᳘मे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाह त᳘वेव मे त्वि᳘षिर्भूयादिति[[!!]]॥

मूलम् - Weber

अ᳘ग्रेण मैत्रावरुण᳘स्य धि᳘ष्ण्यम्॥
शार्दूलचर्मो᳘पस्तृणाति सो᳘मस्य त्वि᳘षिरसी᳘ति य᳘त्र वै सो᳘म इ᳘न्द्रमत्य᳘पवत स यत्त᳘तः शार्दूलः᳘ सम᳘भवत्ते᳘न सो᳘मस्य त्वि᳘षिस्त᳘स्मादाह सो᳘मस्य त्वि᳘षिरसी᳘ति त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति शार्दूलत्विषि᳘मेॗवास्मिन्नेत᳘द्दधाति त᳘स्मादाह त᳘वेव मे त्वि᳘षिर्भूयादि᳘ति॥

मूलम् - विस्वरम्

अग्रेण मैत्रावरुणस्य धिष्ण्यं शार्दूलचर्मोपस्तृणाति- “सोमस्य त्विषिरसि”- इति । यत्र वै सोम इन्द्रमत्यपवत- स यत्ततः शार्दूलः समभवत्- तेन सोमस्य त्विषिः । तस्मादाह- सोमस्य त्विषिरसीति । “तवेव मे त्विषिर्भूयात्"- इति । शार्दूलत्विषिमेवास्मिन्नेतद्दधाति । तस्मादाह- तवेव मे त्विषिर्भूयादिति ॥ ३ ॥

सायणः

अत्र यदुक्तं कात्यायनेन- “मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधाति अनाधृष्टाः सीदतेति, पात्राणि च तूष्णीं पालाशौदुम्बरनैयग्रोधवटाश्वत्थान्यभिषेकाय”- (का. श्रौ. सू. १५ । ११८) इति । “मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्मास्तृणाति सोमस्य त्विषिरिति, अपरे ऽन्ते सीसं निदधाति, पार्थानामग्नये स्वाहेति षड् जुहोति प्रतिमन्त्रम्”- इति च । (का. श्रौ. सू. ११ । १२२-१२४) ॥

तदिदं क्रमेण विधित्सुर्व्याघ्रचर्मास्तरणं समन्त्रकं विधत्ते- अग्रेणेति । मैत्रावरुणधिष्ण्यस्य पूर्वभागे व्याघ्रचर्मास्तृणीयात् । हे चर्मन् ! ‘सोमस्य’ ‘त्विषिः’ दीप्तिः ‘असि’ । ‘तवेव’ यथा तव दीप्तिरस्ति, तथा ‘मे’ मम ‘त्विषिः’ दीप्तिः ‘भूयात्’ अस्त्विति ।

शार्दूलस्य सोमत्विषित्वमाख्यायिकामुखेनोपपादयति- यत्र वै सोम इति । पूर्वमिन्द्रेण पीयमानः, सोमः तम् ‘अत्यपवत’ शरीरादधो निरगच्छत् । स सोमो यदा अत्यपवत, ततः सो ऽतिपवितः सोमः शार्द्दूलः सम्भूतवान् । ‘तस्मात्’ शार्दूलस्य सोमकार्यत्वात्- तदीयत्वचः सोमत्विषित्वम् । “तवेव मे”- इति मन्त्रभागस्य तात्पर्यमाह- तवेव म इति । ‘एतत्’ एतेन मन्त्रभागकृतेन ‘अस्मिन्’ यजमाने शार्द्दूलदीप्तिमेव निहितवान् भवति ॥ ३ ॥

Eggeling
  1. He spreads a tiger-skin in front of the Maitrāvaruṇa’s hearth 1, with (Vāj. S. X, 5), ‘Thou art Soma’s beauty.’ For because when Soma flowed through Indra he (Indra) thereupon became a tiger, therefore he is Soma’s beauty: this is why he says, ‘Thou art Soma’s splendour;’–‘may my beauty become like unto thine!’ He thus bestows the tiger’s beauty on him: therefore he says, ‘May my beauty become like unto thine!’

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पार्था᳘नि जुहोति॥
पृ᳘थी ह वै᳘ व्वैन्यो᳘ मनु᳘ष्याणां प्रथ᳘मो ऽभि᳘षिषिचे᳘ सो ऽकामयत स᳘र्व्वमन्ना᳘द्यम᳘वरुन्धीये᳘ति त᳘स्मा ऽएता᳘न्यजुहवुः स᳘ ऽइदᳫँ᳭ स᳘र्वमन्ना᳘द्यम᳘वरुरुधे᳘ ऽपि ह स्मास्मा ऽआरण्या᳘न्पशू᳘नभि᳘ह्वयन्त्यसावे᳘हि रा᳘जा त्वा पक्ष्यत ऽइ᳘ति त᳘थेदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यम᳘वरुरुधे स᳘र्वᳫँ᳭ ह वा᳘ ऽअन्ना᳘द्यम᳘वरुन्द्धे य᳘स्यैवं᳘ विदु᳘ष ऽएता᳘नि हूय᳘न्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पार्था᳘नि जुहोति॥
पृ᳘थी ह वै᳘ व्वैन्यो᳘ मनु᳘ष्याणां प्रथ᳘मो ऽभि᳘षिषिचे᳘ सो ऽकामयत स᳘र्व्वमन्ना᳘द्यम᳘वरुन्धीये᳘ति त᳘स्मा ऽएता᳘न्यजुहवुः स᳘ ऽइदᳫँ᳭ स᳘र्वमन्ना᳘द्यम᳘वरुरुधे᳘ ऽपि ह स्मास्मा ऽआरण्या᳘न्पशू᳘नभि᳘ह्वयन्त्यसावे᳘हि रा᳘जा त्वा पक्ष्यत ऽइ᳘ति त᳘थेदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यम᳘वरुरुधे स᳘र्वᳫँ᳭ ह वा᳘ ऽअन्ना᳘द्यम᳘वरुन्द्धे य᳘स्यैवं᳘ विदु᳘ष ऽएता᳘नि हूय᳘न्ते॥

मूलम् - Weber

अ᳘थ पार्था᳘नि जुहोति॥
पृ᳘था ह वै᳘ वैन्यो᳘ मनुॗष्याणाम् प्रथॗमो ऽभि᳘षिषिचेॗ 2 सो ऽकामयत स᳘र्वमन्ना᳘द्यम᳘वरुन्धीये᳘ति त᳘स्मा एता᳘न्यजुहवुः स᳘ इदᳫं स᳘र्वमन्ना᳘द्यम᳘वरुरुधे᳘ ऽपि ह स्मास्मा आरण्या᳘न्पशू᳘नभि᳘ह्वयन्त्यसावे᳘हि रा᳘जा त्वा पक्ष्यत इ᳘ति त᳘थेदं त᳘र्वमन्ना᳘द्यम᳘वरुरुधे स᳘र्वᳫं ह वा᳘ अन्ना᳘द्यम᳘वरुन्द्धे य᳘स्यैवं᳘ विदु᳘ष एता᳘नि हूय᳘न्ते॥

मूलम् - विस्वरम्

अथ पार्थानि जुहोति । पृथी ह वै वैन्यो मनुष्याणां प्रथमो ऽभिषिषिचे। सो ऽकामयत- सर्वमन्नाद्यमवरुन्धीयेति तस्मा ऽएतान्यजुहवुः । स इदं सर्वमन्नाद्यमवरुरुधे । अपि ह स्मास्मा ऽआरण्यान्पशूनभिह्वयन्ति- असावेहि राजा त्वा पक्ष्यत ऽइति । तथेदं सर्वमन्नाद्यमवरुरुधे । सर्वं ह वा ऽअन्नाद्यमवरुन्द्धे- यस्यैवं विदुष एतानि हूयन्ते ॥ ४ ॥

सायणः

अथाभिषेकस्य पुरस्तात् पश्चाच्च क्रियमाणान् पार्थहोमान् विधत्ते- अथ पार्थानीति । ‘पार्थानि’ पृथिना ऽनुष्ठितानि । एतेषां पृथिसम्बन्धं दर्शयति- पृथी 3 हेति । ‘वैन्यः’ वेनो नाम राजा, तस्य पुत्रः ‘पृथीं’ नाम, ‘मनुष्याणां’ मध्ये ‘प्रथमः’ अभिषिक्तः । ‘सर्वम् अन्नाद्यम्’ ‘अवरुन्धीय’ स्वाधीनं कुर्याम् ‘इति’ कामयमानाय ‘तस्मै’ पृथये ‘एतानि’ पार्थानि ‘अजुहवुः’ अध्वयवः । ततः ‘सः’ राजा ‘इदं सर्वमन्नाद्यम्’ ‘अवरुरुधे’ स्वाधीनं कृतवान् । सर्वान्नावरोधकत्वं दर्शयति- अपि ह स्मेति । ‘अपि’ खलु ‘अस्मै’ यजमानाय, तदर्थम्, ‘आरण्यान्’ अरण्ये भवान् ‘पशून्’ ‘अभिह्वयन्ति’ । किम् ? इति । असाविति । तत्तन्मृगनाम्नः सम्बुद्ध्यन्तस्य सामान्यनिर्द्देशः । हे पशो ! ‘एहि’ आगच्छ, अयं ‘राजा’ ‘त्वा’ त्वां ‘पक्ष्यते’ भोक्तुं पक्वं करिष्यति ‘इति’ । सो ऽपि पशुः तद्वचः श्रुत्वा तत्समीपं स्वयमेवागच्छति । ‘तथा’ सति ग्राम्यारण्यभक्षणस्य सर्वस्यावश्यावरोधः । विदुषो ऽद्यतनस्यापि अनुष्ठातुस्तत्फलमाह- सर्वं ह वा इति ॥ ४ ॥

Eggeling
  1. He then offers the Pārtha oblations. Now Pr̥thin Vainya was consecrated first of men. He desired that he might appropriate to himself all food. They offered up for him those (oblations), and he appropriated to himself all the food here on earth. They would even call forest beasts to him, saying, ‘Come hither thou (beast) so and so, the king wants to cook thee!’ Thus he appropriated all food here on earth; and verily he appropriates to himself all food for whom that knows this those (oblations) are offered.

०५

विश्वास-प्रस्तुतिः

ता᳘नि वै द्वा᳘दश भवन्ति॥
द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य त᳘स्माद्द्वा᳘दश भवन्ति॥

मूलम् - श्रीधरादि

ता᳘नि वै द्वा᳘दश भवन्ति॥
द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य त᳘स्माद्द्वा᳘दश भवन्ति॥

मूलम् - Weber

ता᳘नि वै द्वा᳘दश भवन्ति॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य त᳘स्माद्द्वा᳘दश भवन्ति॥

मूलम् - विस्वरम्

तानि वै द्वादश भवन्ति । द्वादश वै मासाः सम्वत्सरस्य । तस्माद् द्वादश भवन्ति ॥ ५ ॥

सायणः

एतेषां सङ्ख्यां विधत्ते- तानि वै द्वादशेति । उक्तां सङ्ख्यां संवत्सरात्मना प्रशंसति- द्वादशेति ॥ ५ ॥

Eggeling
  1. There are twelve of them,–for there are

twelve months in the year: therefore there are twelve of them.

०६

विश्वास-प्रस्तुतिः

ष᳘ट्पुर᳘स्तादभिषेक᳘स्य जुहो᳘ति॥
ष᳘डुप᳘रिष्टात्त᳘देनं मध्यत᳘ ए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति॥

मूलम् - श्रीधरादि

ष᳘ट्पुर᳘स्तादभिषेक᳘स्य जुहो᳘ति॥
ष᳘डुप᳘रिष्टात्त᳘देनं मध्यत᳘ ए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति॥

मूलम् - Weber

ष᳘ट् पुर᳘स्तादभिषेक᳘स्य जुहो᳘ति॥
ष᳘डुपरिष्टात्त᳘देनम् मध्यत᳘ एॗवैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति॥

मूलम् - विस्वरम्

षट् पुरस्तादभिषेकस्य जुहोति । षडुपरिष्टात् । तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति, मध्यतः सुवति ॥ ६ ॥

सायणः

एतेषां हवनकालं विधत्ते- षडिति । द्वादशानां पदार्थानां मध्ये पूर्वषट्कस्यान्ते “बृहस्पतये स्वाहा”- इति पठ्यते, उत्तरषट्कस्यादौ “इन्द्राय स्वाहा”- इति । तयोरुभयोर्मध्ये अभिषेकेण यजमानं ब्रह्मक्षत्रवीर्याभ्याम् उभयतः संवर्द्धितवान् भवतीत्यर्थः ॥ ६ ॥ ७ ॥

Eggeling
  1. Six he offers before, and six after, the consecration: he thereby places him in the very middle of that Prajāpati, and consecrates him in the middle.

०७

विश्वास-प्रस्तुतिः

स या᳘नि पुर᳘स्तादभिषेक᳘स्य जुहो᳘ति॥
बृ᳘हस्प᳘तिस्ते᳘षामुत्तमो᳘ भवत्य᳘थ या᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोती᳘न्द्रस्ते᳘षां प्रथमो᳘ भवति ब्र᳘ह्म वै बृ᳘हस्प᳘तिरिन्द्रियं᳘ व्वीर्य᳘मि᳘न्द्र ऽएता᳘भ्यामे᳘वैनमेत᳘द्वी᳘र्याभ्यामुभय᳘तः प᳘रिबृᳫँ᳭हति॥

मूलम् - श्रीधरादि

स या᳘नि पुर᳘स्तादभिषेक᳘स्य जुहो᳘ति॥
बृ᳘हस्प᳘तिस्ते᳘षामुत्तमो᳘ भवत्य᳘थ या᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोती᳘न्द्रस्ते᳘षां प्रथमो᳘ भवति ब्र᳘ह्म वै बृ᳘हस्प᳘तिरिन्द्रियं᳘ व्वीर्य᳘मि᳘न्द्र ऽएता᳘भ्यामे᳘वैनमेत᳘द्वी᳘र्याभ्यामुभय᳘तः प᳘रिबृᳫँ᳭हति॥

मूलम् - Weber

स या᳘नि पुर᳘स्तादभिषेक᳘स्य जुहो᳘ति॥
बृ᳘हस्प᳘तिस्ते᳘षामुत्तमो᳘ भवत्य᳘थ या᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोती᳘न्द्रस्ते᳘षाम् प्रथमो᳘ भवति ब्र᳘ह्म वै बृ᳘हस्प᳘तिरिन्द्रियं᳘ वीर्य᳘मि᳘न्द्र एताभ्यामे᳘वैनमेत᳘द्वीॗर्याभ्यामुभय᳘तः प᳘रिबृंहति॥

मूलम् - विस्वरम्

स यानि पुरस्तादभिषेकस्य जुहोति- बृहस्पतिस्तेषामुत्तमो भवति । अथ यान्युपरिष्टादभिषेकस्य जुहोति- इन्द्रस्तेषां प्रथमो भवति । ब्रह्म वै बृहस्पतिः । इन्द्रियं वीर्यम् । इन्द्र एताभ्यामेवैनमेतद्वीर्याभ्यामुभयतः परिबृंहति ॥ ७ ॥

सायणः

[व्याख्यानं षष्ठे]

Eggeling
  1. Now of those which he offers before the consecration, Br̥haspati is the last (recipient), and of those which he offers after the consecration, Indra is the first;–but Br̥haspati is priestly dignity (brahma), and Indra is might, vigour: with these two kinds of vigour he thus encloses him on both sides.

०८

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
या᳘नि पुर᳘स्तादभिषेक᳘स्य जुहो᳘त्यग्न᳘ये स्वाहे᳘ति ते᳘जो वा᳘ ऽअग्निस्ते᳘जसै᳘वैनमेत᳘दभि᳘षिञ्चति सो᳘माय स्वाहे᳘ति क्षत्रं वै सो᳘मः क्षत्रे᳘णै᳘वेनमेत᳘दभि᳘षिञ्चति[[!!]] सवित्रे स्वाहे᳘ति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूत ऽए᳘वैनमेत᳘दभि᳘षिञ्चति स᳘रस्वत्यै स्वाहे᳘ति व्वाग्वै स᳘रस्वती व्वा᳘चै᳘वैनमेत᳘दभि᳘षिञ्चति पूष्णे स्वाहे᳘ति पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरे᳘वैनमेत᳘दभि᳘षिञ्चति बृ᳘हस्प᳘तये स्वाहे᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता᳘नि पुर᳘स्तादभिषेक᳘स्य जुहोति ता᳘न्येता᳘न्यग्निनामानीत्या᳘चक्षते॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
या᳘नि पुर᳘स्तादभिषेक᳘स्य जुहो᳘त्यग्न᳘ये स्वाहे᳘ति ते᳘जो वा᳘ ऽअग्निस्ते᳘जसै᳘वैनमेत᳘दभि᳘षिञ्चति सो᳘माय स्वाहे᳘ति क्षत्रं वै सो᳘मः क्षत्रे᳘णै᳘वेनमेत᳘दभि᳘षिञ्चति[[!!]] सवित्रे स्वाहे᳘ति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूत ऽए᳘वैनमेत᳘दभि᳘षिञ्चति स᳘रस्वत्यै स्वाहे᳘ति व्वाग्वै स᳘रस्वती व्वा᳘चै᳘वैनमेत᳘दभि᳘षिञ्चति पूष्णे स्वाहे᳘ति पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरे᳘वैनमेत᳘दभि᳘षिञ्चति बृ᳘हस्प᳘तये स्वाहे᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता᳘नि पुर᳘स्तादभिषेक᳘स्य जुहोति ता᳘न्येता᳘न्यग्निनामानीत्या᳘चक्षते॥

मूलम् - Weber

स᳘ जुहोति॥
या᳘नि पुर᳘स्तादभिषेक᳘स्य जुहो᳘त्यग्न᳘ये स्वाहे᳘ति ते᳘जो वा᳘ अग्निस्ते᳘जसैॗवैनमेत᳘दभि᳘षिञ्चति सो᳘माय स्वा᳘हेति क्षत्रं वै सो᳘मः क्ष᳘त्रेणैॗवैनमेत᳘दभि᳘षिञ्चति सवित्रे स्वाहे᳘ति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूत एॗवैनमेत᳘दभि᳘षिञ्चति स᳘रस्वत्यै स्वाहे᳘ति वाग्वै स᳘रस्वती वा᳘चैॗवैनमेत᳘दभि᳘षिञ्चति पूष्णे स्वाहे᳘ति पश᳘वो वै᳘ पूषा᳘ पशु᳘भिरेॗवैनमेत᳘दभि᳘षिञ्चति बृ᳘हस्पतये स्वाहे᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मणैॗवैनमेत᳘दभि᳘षिञ्चत्येता᳘नि पुर᳘स्तादभिषेक᳘स्य जुहोति ता᳘न्येता᳘न्यग्निनामानीत्या᳘चक्षते॥

मूलम् - विस्वरम्

स जुहोति यानि । पुरस्तादभिषेकस्य जुहोति- “अग्नय स्वाहा”- इति । तेजो वा ऽअग्निः । तेजसैवैनमेतदभिषिञ्चति । “सोमाय स्वाहा”- इति । क्षत्रं वै सोमः । क्षत्रेणैवैनमेतदभिषिञ्चति । “सवित्रे स्वाहा”- इति । सविता वै देवानां प्रसविता । सवितृप्रसूत एवैनमेतदभिषिञ्चति । “सरस्वत्यै स्वाहा”- इति । वाग्वै सरस्वती । वाचैवैनमेतदभिषिञ्चति “पूष्णे स्वाहा”- इति । पशवो वै पूषा । पशुभिरेवैनमेतदभिषिञ्चति । “बृहस्पतये स्वाहा”- इति । ब्रह्म वै बृहस्पतिः । ब्रह्मणैवैनमेतदभिषिञ्चति । एतानि पुरस्तादभिषेकस्य जुहोति । तान्येतान्यग्निनामानीत्याचक्षते ॥ ८ ॥

सायणः

अभिषेकस्य पुरस्तात् कर्त्तव्यं होममनूद्य मन्त्रान् विधत्ते- स जुहोतीति । “अग्नये स्वाहा”- इत्यादयो मन्त्राः । तत्रैकैकमनूद्य स्तौति- तेजो वा अग्निरित्यादिना । अर्थवादवाक्येषु स्पष्टो ऽर्थः । सोमादिपदानां देवतान्तरवाचकत्वं व्युदस्यति- तान्येतान्यग्निनामानीति । ‘तानि’ पूर्वाणि पार्थानि ‘अग्निनामान्याचक्षते’, ब्रह्मवादिन इति शेषः; अग्नेः सर्वदेवतात्मकत्वादिति भावः ॥ ८ ॥

Eggeling
  1. Those which he offers before the consecration, he offers (resp.) with, ‘To Agni hail!’–Agni is brightness (tejas): with brightness he thus sprinkles (endows) him;–‘To Soma hail!’–Soma is princely power (kshatra): with princely power he thus sprinkles him;–‘To Savitr̥ hail!’–Savitr̥ is the impeller of the gods: impelled by Savitr̥ he thus consecrates him;–‘To Sarasvatī hail!’–Sarasvatī is Speech: he thus sprinkles him with Speech;–‘To Pūshan hail!’–Pūshan is cattle: with cattle he thus sprinkles him;–‘To Br̥haspati hail!’–Br̥haspati is priestly dignity: with priestly dignity he thus sprinkles him. These he offers before the consecration: these are called the Agni-named ones.

०९

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ जुहोति॥
या᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोती᳘न्द्राय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वा ऽइ᳘न्द्रो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चति घो᳘षाय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वै घो᳘षो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चति श्लो᳘काय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वै श्लो᳘को व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्य᳘ᳫँ᳘शाय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वा ऽअ᳘ᳫँ᳘शो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चति[[!!]] भ᳘गाय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वै भ᳘गो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्यर्यम्णे स्वाहे᳘ति त᳘देनमस्य स᳘र्व्वस्यार्यम᳘णं करोत्येता᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोति ता᳘न्येता᳘न्यादित्यनामानीत्या᳘चक्षते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ जुहोति॥
या᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोती᳘न्द्राय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वा ऽइ᳘न्द्रो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चति घो᳘षाय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वै घो᳘षो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चति श्लो᳘काय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वै श्लो᳘को व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्य᳘ᳫँ᳘शाय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वा ऽअ᳘ᳫँ᳘शो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चति[[!!]] भ᳘गाय स्वाहे᳘ति व्वी᳘र्यं[[!!]] वै भ᳘गो व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्यर्यम्णे स्वाहे᳘ति त᳘देनमस्य स᳘र्व्वस्यार्यम᳘णं करोत्येता᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोति ता᳘न्येता᳘न्यादित्यनामानीत्या᳘चक्षते॥

मूलम् - Weber

अ᳘थ जुहोति॥
या᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोती᳘न्द्राय स्वाहे᳘ति वीर्य᳘ वा इ᳘न्द्रो वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चति घो᳘षाय स्वाहे᳘ति वीर्यं᳘ वै घो᳘षो वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चति श्लो᳘काय स्वाहे᳘ति वीर्यं᳘ वै श्लो᳘को वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चत्यं᳘शाय स्वाहे᳘ति वीर्यं᳘ वा अं᳘शो वीॗर्येणैवैन᳘मेत᳘दभि᳘षिञ्चति भ᳘गाय स्वाहे᳘ति वीर्यं᳘ वै भा᳘गो वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चत्यर्यम्णे स्वाहे᳘ति त᳘देनमस्य स᳘र्वस्यार्यम᳘णं करोत्येता᳘न्युप᳘रिष्टादभिषेक᳘स्य जुहोति ता᳘न्येता᳘न्यादित्यनामानीत्या᳘चक्षते॥

मूलम् - विस्वरम्

अथ जुहोति- यान्युपरिष्टाभिषेकस्य जुहोति- “इन्द्राय स्वाहा”- इति । वीर्यं वा ऽइन्द्रः । वीर्येणैवैनमेतदभिषिञ्चति । “श्लोकाय स्वाहा”- इति । वीर्यं वै श्लोकः । वीर्यणैवैनमेतदभिषिञ्चति । “अंशाय स्वाहा”- इति । वीर्यं वा ऽअंशः । वीर्येणैवैनमेतदभिषिञ्चति । “भगाय स्वाहा”- इति । वीर्यं वै भगः । वीर्येणैवैनमेतदभिषिञ्चति । “अर्यम्णे स्वाहा”- (वा. सं. १० । ५) इति । तदेनमस्य सर्वस्यार्यमणं करोति । एतान्युपरिष्टादभिषेकस्य जुहोति । तान्येतान्यादित्यनामानीत्याचक्षते ॥ ९ ॥

सायणः

अभिषेकस्योपरिकर्त्तव्यं होममन्त्रमनूद्य मन्त्रान् सार्थवादं विधत्ते- अथ जुहोतीति । “इन्द्राय स्वाहा” इत्यादयो मन्त्राः । अत्रेन्द्रादयः पञ्च देवता अपि वीर्यात्मना स्तुताः । तदेनमस्य सर्वस्येति । अर्यमदेवत्यहोमेन ‘एनं’ यजमानं ‘सर्वस्य’ ‘अर्यमणं’ नियन्तारमधिपतिं कृतवान् भवतीत्यर्थः । इन्द्रादिषड्देवतावाचकानां पदानां देवतानानात्ववाचकत्वं व्युदस्यति- आदित्यनामानीति । इन्द्रादयः शब्दा आदित्यस्यैव मूर्तिभेदेनावस्थितस्य नामानि । पूर्वमग्निवाचकैर्नामभिर्होमेन भूलोके यजमानं निहितवान् भवति, अन्तत आदित्यवाचकैर्नामभिर्होमेन स्वर्गलोके ऽवस्थापितवान् भवतीत्युभयार्थवादवाक्यतात्पर्यार्थः ॥ ९ ॥

Eggeling
  1. Those which he offers after the consecration, he offers (resp.) with, ‘To Indra hail!’–Indra is vigour: with vigour he thus sprinkles him;–‘To the roar hail!’–roar means vigour: with vigour he thus sprinkles him;–‘To the noise hail! ’noise means vigour: with vigour he thus sprinkles him;–‘To Aṁśa hail!’–Aṁśa is vigour: with vigour he thus sprinkles him;–‘To Bhaga hail!’–Bhaga is vigour: with vigour he thus sprinkles

him;–‘To Aryaman hail!’–he thus makes him the friend (aryaman) of everything here. These he offers after the consecration: these are called the Āditya-named 4 ones.

१०

विश्वास-प्रस्तुतिः

(ते᳘ ऽग्रे) अ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यम्॥
(म) अभिषेचनी᳘यानि पा᳘त्राणि भवन्ति य᳘त्रैता ऽआ᳘पो ऽभिषेचनी᳘या भ᳘वन्ति॥

मूलम् - श्रीधरादि

(ते᳘ ऽग्रे) अ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यम्॥
(म) अभिषेचनी᳘यानि पा᳘त्राणि भवन्ति य᳘त्रैता ऽआ᳘पो ऽभिषेचनी᳘या भ᳘वन्ति॥

मूलम् - Weber

अ᳘ग्रेण मैत्रावरुण᳘स्य धि᳘ष्ण्यम्॥
अभिषेचनी᳘यानि पा᳘त्राणि भवन्ति य᳘त्रैता आ᳘पो ऽभिषेचनी᳘या भ᳘वन्ति॥

मूलम् - विस्वरम्

अग्रेण मैत्रावरुणस्य धिष्ण्यमभिषेचनीयानि पात्राणि भवन्ति- यत्रैता आपो ऽभिषेचनीयानि भवन्ति ॥ १० ॥

सायणः

अभिषेचनीयानां पात्राणामासादनप्रदेशं विधत्ते- अग्रेणेति । सूत्रन्तु पूर्वमुदाहृतम् । अभिषेचनीयशब्दं निर्वक्ति- यत्रेति । यत् तेषु ‘एताः’ विहिताः सप्तदश ‘आपः’ ‘अभिषेचनीयाः’ अभिषेक्तव्याः आसिच्यमानाः ‘भवन्ति’ तानि अभिषेचनीयानीति ॥ १० ॥

Eggeling
  1. In front of the Maitrāvaruṇa’s hearth are the (four) consecration vessels in which that consecration water is contained 5.

११

विश्वास-प्रस्तुतिः

पा᳘लाशं भवति॥
ते᳘न ब्राह्म᳘णो ऽभि᳘षिञ्चति ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणै᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

पा᳘लाशं भवति॥
ते᳘न ब्राह्म᳘णो ऽभि᳘षिञ्चति ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणै᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - Weber

पा᳘लाशम् भवति॥
ते᳘न ब्राह्मॗणो ऽभि᳘षिञ्चति ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैॗवैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - विस्वरम्

पालाशं भवति । तेन ब्राह्मणो ऽभिषिञ्चति । ब्रह्म वै पलाशः । ब्रह्मणैवैनमेतदभिषिञ्चति ॥ ११ ॥

सायणः

तानि पात्राणि अभिषेक्तृविशेषसहितानि क्रमेण विधत्ते 6- पालाशमिति । ‘पालाशम्’ पलाशशाखानिर्मितमेकं पात्रम् । ‘तेन’ पात्रेण ‘ब्राह्मणः’ यजमानमभिषिञ्चेत् । पालाशेनैव ब्राह्मणकर्तृकयजमनाभिषेककरणे कारणमाह- ब्रह्म वा इति । ‘पलाशः’ ‘ब्रह्म वै’ वृक्षेषु ब्राह्मणजातिः ॥ ११ ॥

Eggeling
  1. There is a palāśa (butea frondosa) one: with (the water of) that (vessel) a Brāhman sprinkles;–the Palāśa tree is priestly dignity (brahman): it is with priestly dignity that he sprinkles (endows) him.

१२

विश्वास-प्रस्तुतिः

(त्यौ᳘) औ᳘दुम्बरं भवति॥
ते᳘न᳘ स्वो ऽभि᳘षिञ्चत्य᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऽऊर्ग्वै स्वं या᳘वद्वै पु᳘रुषस्य स्वं भ᳘वति᳘ नैव ता᳘वदशनायति ते᳘नोर्क्स्वं त᳘स्मादौ᳘दुम्बरेण᳘ स्वो ऽभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

(त्यौ᳘) औ᳘दुम्बरं भवति॥
ते᳘न᳘ स्वो ऽभि᳘षिञ्चत्य᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऽऊर्ग्वै स्वं या᳘वद्वै पु᳘रुषस्य स्वं भ᳘वति᳘ नैव ता᳘वदशनायति ते᳘नोर्क्स्वं त᳘स्मादौ᳘दुम्बरेण᳘ स्वो ऽभि᳘षिञ्चति॥

मूलम् - Weber

औ᳘दुम्बरम् भवति॥
ते᳘नॗ स्वो ऽभि᳘षिञ्चत्य᳘न्नं वा ऊ᳘र्गुदुम्ब᳘र ऊर्ग्वै स्वं या᳘वद्वै पु᳘रुषस्य स्वम् भ᳘वतिॗ नैव ता᳘वदशनायति ते᳘नोर्क्स्वं त᳘स्मादौ᳘दुम्बरेणॗ स्वो ऽभि᳘षिञ्चति॥

मूलम् - विस्वरम्

औदुम्बरं भवति । तेन स्वो ऽभिषिञ्चति । अन्नं वा ऽऊर्गुदुम्बरः । ऊर्ग्वै स्वम् । यावद्वै पुरुषस्य स्वं भवति- नैव तावदशनायति । तेनोर्क् स्वम् । तस्मादौदुम्बरेण स्वो ऽभिषिञ्चति ॥ १२ ॥

सायणः

औदुम्बरमिति । ‘औदुम्बरम्’ उदुम्बरनिर्मितं पात्रं द्वितीयम् । ‘तेन’ पात्रेण ‘स्वः’ ज्ञातिः भ्राता अभिषेकं कुर्यात् । तत्रोपपत्तिं दर्शयति- अन्नं वा इति । उदुम्बरस्यान्नसाधनत्वात् तदुक्तम् । अन्नमेव पुरुषस्य ‘स्वं’ धनं यतः, अतो ऽस्य ‘पुरुषस्य यावत् स्वं भवति’ ‘तावत्’ ‘न एव अशनायति’ क्षुधितो न भवतीत्यर्थः; धनस्य विद्यमानत्वात् । अतो ऽन्नस्य स्वत्वादन्नसाधनेनौदुम्बरपात्रेण ‘स्वः’ ज्ञातिर्भ्राता एवाभिषिञ्चेत् ॥ १२ ॥

Eggeling
  1. There is an udumbara (ficus glomerata) one: therewith one of his own (kinsmen, or brothers) sprinkles. The udumbara tree means sustenance, (that is) food, and the ‘own’ means sustenance, for as far as a man’s own goes, so far he does not hunger: thereby his ‘own’ is sustenance, and therefore one of his own (kinsmen) sprinkles with an udumbara (vessel).

१३

विश्वास-प्रस्तुतिः

नै᳘यग्रोधपादं भवति॥
ते᳘न मि᳘त्र्यो राज᳘न्यो ऽभि᳘षिञ्चति पद्भिर्व्वै᳘ न्यग्रो᳘धः प्र᳘तिष्ठितो मित्रे᳘ण वै᳘ राज᳘न्यः[[!!]] प्र᳘तिष्ठितस्त᳘स्मान्नै᳘यग्रोधपादेन मि᳘त्र्यो राज᳘न्यो ऽभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

नै᳘यग्रोधपादं भवति॥
ते᳘न मि᳘त्र्यो राज᳘न्यो ऽभि᳘षिञ्चति पद्भिर्व्वै᳘ न्यग्रो᳘धः प्र᳘तिष्ठितो मित्रे᳘ण वै᳘ राज᳘न्यः[[!!]] प्र᳘तिष्ठितस्त᳘स्मान्नै᳘यग्रोधपादेन मि᳘त्र्यो राज᳘न्यो ऽभि᳘षिञ्चति॥

मूलम् - Weber

नै᳘यग्रोधपादम् भवति॥
ते᳘न मिॗत्र्यो राजॗन्यो ऽभि᳘षिञ्चति पद्भिर्वै᳘ न्यग्रो᳘धः प्र᳘तिष्ठितो मित्रे᳘ण वै᳘ राजन्यः᳘ प्र᳘तिष्ठितस्त᳘स्मान्नै᳘यग्रोधपादेन मिॗत्र्यो राजॗन्यो ऽभि᳘षिञ्चति॥

मूलम् - विस्वरम्

नैयग्रोधपादं भवति । तेन मित्र्यो राजन्यो ऽभिषिञ्चति । पद्भिर्वै न्यग्रोधः प्रतिष्ठितः । मित्रेण वै राजन्यः प्रतिष्ठितः । तस्मान्नैयग्रोधपादेन मित्रयो राजन्यो ऽभिषिञ्चति ॥ १३ ॥

सायणः

नैयग्रोधपादमिति । तृतीयं ‘नैयग्रोधपादम्’ । न्यग्रोधो नाम वटः, तस्य पादः शाखावरोहः, तेन निर्मितं नैयग्रोधपादम् । ‘तेन’ ‘मित्र्यः’ सखिकर्म्मणि साधुः सखा ‘राजन्यः’ अभिषिञ्चेत् । तत्र हेतुमाह- पद्भिरिति । न्यग्रोधस्य पादैरेव प्रतिष्ठा दृश्यते; राजापि हितोपदेशकैराप्तैः सखिभिः प्रतिष्ठितो भवति, नान्यथा; अतस्तेन पात्रेण मित्रकर्त्तृकमभिषेककरणं युक्तमित्यर्थः ॥ १३ ॥

Eggeling
  1. There is one made of the foot (stem) of the nyagrodha (ficus indica): therewith a friendly (mitrya) Rājanya sprinkles: for by its feet 7 the

nyagrodha tree is supported, and by the friend (mitra) the Rājanya (nobleman or king) is supported: therefore a friendly Rājanya sprinkles with (the water of a vessel) made of the foot of a nyagrodha.

१४

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘श्वत्थं भवति॥
ते᳘न व्वै᳘श्यो ऽभि᳘षिञ्चति स य᳘दे᳘वा᳘दो ऽश्वत्थे ति᳘ष्ठत ऽइ᳘न्द्रो मरु᳘त ऽउपा᳘मन्त्रयत त᳘स्मादा᳘श्वत्थेन व्वै᳘श्यो ऽभि᳘षिञ्चत्येता᳘न्यभिषेचनी᳘यानि पा᳘त्राणि भवन्ति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘श्वत्थं भवति॥
ते᳘न व्वै᳘श्यो ऽभि᳘षिञ्चति स य᳘दे᳘वा᳘दो ऽश्वत्थे ति᳘ष्ठत ऽइ᳘न्द्रो मरु᳘त ऽउपा᳘मन्त्रयत त᳘स्मादा᳘श्वत्थेन व्वै᳘श्यो ऽभि᳘षिञ्चत्येता᳘न्यभिषेचनी᳘यानि पा᳘त्राणि भवन्ति॥

मूलम् - Weber

आ᳘श्वत्थम् भवति॥
ते᳘न वै᳘श्यो ऽभि᳘षिञ्चति स य᳘देॗवाॗदो ऽश्वत्थे ति᳘ष्ठत इ᳘न्द्रो मरु᳘त उपा᳘मन्त्रयत त᳘स्मादा᳘श्वत्थेन वै᳘श्यो ऽभि᳘षिञ्चत्येता᳘न्यभिषेचनी᳘यानि पा᳘त्राणि भवन्ति॥

मूलम् - विस्वरम्

आश्वत्थं भवति । तेन वैश्यो ऽभिषिञ्चति । स यदेवादो ऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत । तस्मादाश्वत्थेन वैश्यो ऽऽभिषिञ्चति । एतान्यभिषेचनीयानि पात्राणि भवन्ति ॥ १४ ॥

सायणः

आश्वत्थमिति । चतुर्थम् ‘आश्वत्थम्’ अश्वत्थनिर्मितम्, तेन ‘वैश्यः’ अभिषिञ्चेत् । अश्वत्थस्य वैश्यसम्बन्धं दर्शयति- स यदेवेति । व्याख्यातम् । विड्रूपाणां मरुतामश्वत्थे ऽवस्थानाद्वैश्यस्य तत्सम्बन्धः ॥ १४ ॥

Eggeling
  1. There is an aśvattha (ficus religiosa) one: therewith a Vaiśya sprinkles. Because Indra on that (former) occasion called upon the Maruts staying on the Aśvattha tree 8, therefore a Vaiśya sprinkles with an aśvattha (vessel). These are the consecration vessels.

१५

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ पवि᳘त्रे करोति॥
पवि᳘त्रे स्थो व्वैष्ण᳘व्यावि᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुस्त᳘योर्हि᳘रण्यं प्र᳘वयति ता᳘भ्यामेता᳘ ऽअभिषेचनी᳘या ऽअप ऽउ᳘त्पुनाति तद्यद्धि᳘रण्यं प्रव᳘यत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दास्वमृ᳘तमा᳘युर्दधाति त᳘स्माद्धि᳘रण्यं प्र᳘वयति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ पवि᳘त्रे करोति॥
पवि᳘त्रे स्थो व्वैष्ण᳘व्यावि᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुस्त᳘योर्हि᳘रण्यं प्र᳘वयति ता᳘भ्यामेता᳘ ऽअभिषेचनी᳘या ऽअप ऽउ᳘त्पुनाति तद्यद्धि᳘रण्यं प्रव᳘यत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दास्वमृ᳘तमा᳘युर्दधाति त᳘स्माद्धि᳘रण्यं प्र᳘वयति॥

मूलम् - Weber

अ᳘थ पवि᳘त्रे करोति॥
पवि᳘त्रे स्थो वैष्णॗव्यावि᳘तिॗ सो ऽसा᳘वेव ब᳘न्धुस्त᳘योर्हि᳘रण्यम् प्र᳘वयति ता᳘भ्यामेता᳘ अभिषेचनी᳘या अप उ᳘त्पुनाति तद्यद्धि᳘रण्यम् प्रव᳘यत्यमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दा स्वमृ᳘तमा᳘युर्दधाति त᳘स्माद्धि᳘रण्यम् प्र᳘वयति॥

मूलम् - विस्वरम्

अथ पवित्रे करोति । “पवित्रे स्थो वैष्णव्यौ”- इति । सो ऽसावेव बन्धुः । तयोर्हिरण्यं प्रवयति । ताभ्यामेता अभिषेचनीया अप उत्पुनाति । तद्यद्धिरण्यं प्रवयति । अमृतमायुर्हिरण्यम् । तदास्वमृतमायुर्दधाति । तस्माद्धिरण्यं प्रवयति ॥ १५ ॥

सायणः

अथ पवित्रकरणं विधत्ते- अथ पवित्रे इति 9 । ‘हे पवित्रे !’ ‘वैष्णव्यौ’ विष्णुर्यज्ञः, तत्सम्बन्धिन्यौ दर्भनाड्यौ ‘स्थः’ भवथः, इति मन्त्रस्यार्थः । दर्भनाड्योर्विष्णुसम्बन्धप्रतिपादकमर्थवादवाक्यमतिदिशति- सो ऽसावेव बन्धुरिति । ‘बन्धुः’ वाक्यशेषः । ‘असौ’ विप्रकृष्टः । प्रथमकाण्डे पवित्रकरणसमये समाम्नातः (श. प. १ । १ । ३ । १) । तत्र ह्येवमाम्नातम्- “पवित्रे स्थो वैष्णव्याविति, यज्ञो वै विष्णुर्यज्ञिये स्थ इत्येवैतदाह” इत्यादिना ॥

तयोर्दर्भयोर्हिरण्यग्रथनं विधत्ते- तयोरिति 10 । दर्भयोस्तयोरिति सप्तमी । तत्र ‘हिरण्यं’ ‘प्रवयति’ । “वेञ् तन्तुसन्ताने” (धा. पा. भ्वा. प. १०३१) संग्रथ्नीयादित्यर्थः विधत्ते- ताभ्यामिति । तच्छब्देन हिरण्यप्रोते पवित्रे लक्ष्येते, ‘ताभ्याम्’ ‘एताः’ उक्ताः ‘अपः उत्पुनीयात्’ । हिरण्यग्रथनमनूद्य प्रशंसति- तद्यद्धिरण्यमिति । अमृतमिति । ‘आसु’ अप्स्वित्यर्थः ॥ १५ ॥

Eggeling
  1. He then prepares two strainers (pavitra), with (Vāj. S. X, 6), ‘Purifiers ye are, Vishṇu’s own;’–the significance is the same (as before 11). He weaves gold (threads) into them. With them he purifies those consecration waters. As to why he weaves gold (threads) in,–gold is immortal life: that immortal life he lays into these (waters), and hence he weaves gold (threads) in.

१६

विश्वास-प्रस्तुतिः

स ऽउ᳘त्पुनाति॥
सवितु᳘र्व्वः प्रसव ऽउ᳘त्पुनाम्य᳘च्छिद्रेण पवि᳘त्रेण सू᳘र्यस्य रश्मि᳘भिरि᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुर᳘निभृष्टमसि व्वाचो ब᳘न्धुस्तपोजा ऽइत्य᳘नाधृष्टा स्थ र᳘क्षोभिरि᳘त्ये᳘वैत᳘दाह यदाहा᳘निभृष्टमसी᳘ति व्वाचो ब᳘न्धुरि᳘ति या᳘वद्वै᳘ प्राणेष्वा᳘पो भ᳘वन्ति ता᳘वद्वाचा᳘ व्वदति त᳘स्मादाह व्वाचो ब᳘न्धुरि᳘ति॥

मूलम् - श्रीधरादि

स ऽउ᳘त्पुनाति॥
सवितु᳘र्व्वः प्रसव ऽउ᳘त्पुनाम्य᳘च्छिद्रेण पवि᳘त्रेण सू᳘र्यस्य रश्मि᳘भिरि᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुर᳘निभृष्टमसि व्वाचो ब᳘न्धुस्तपोजा ऽइत्य᳘नाधृष्टा स्थ र᳘क्षोभिरि᳘त्ये᳘वैत᳘दाह यदाहा᳘निभृष्टमसी᳘ति व्वाचो ब᳘न्धुरि᳘ति या᳘वद्वै᳘ प्राणेष्वा᳘पो भ᳘वन्ति ता᳘वद्वाचा᳘ व्वदति त᳘स्मादाह व्वाचो ब᳘न्धुरि᳘ति॥

मूलम् - Weber

स उ᳘त्पुनाति॥
सवितु᳘र्वः प्रसव उ᳘त्पुनाम्य᳘छिद्रेण पवि᳘त्रेण सू᳘र्यस्य रश्मि᳘भिरि᳘तिॗ सो ऽसा᳘वेव ब᳘न्धुर᳘निभृष्टमसि वाचो ब᳘न्धुस्तपोजा इत्य᳘नाधृष्टा स्थ र᳘क्षोभिरि᳘त्येॗवैत᳘दाह यदाहा᳘निभृष्टमसी᳘ति वाचो ब᳘न्धुरि᳘ति या᳘वद्वै᳘ प्राणेष्वा᳘पो भ᳘वन्ति ता᳘वद्वाचा᳘ वदति त᳘स्मादाह वाचो ब᳘न्धुरि᳘ति॥

मूलम् - विस्वरम्

स उत्पुनाति- “सवितुर्वः प्रसव ऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः” इति । सो ऽसावेव बन्धुः । “अनिभृष्टमसि वाचो बन्धुस्तपोजाः”- इति । अनाधृष्टा स्थ रक्षोभिरित्येवैतदाह-यदाह अनिभृष्टमसीति । वाचो बन्धुरिति । यावद्वै प्राणेष्वापो भवन्ति- तावद्वाचा वदति । तस्मादाह वाचो बन्धुरिति ॥ १६ ॥

सायणः

उत्पवनमनूद्य मन्त्रं विधत्ते- स उत्पुनातीति 12 । “सवितुर्वः” इति मन्त्रस्य पूर्वभागो व्याख्यातः । हे उदक ! ‘अनिभृष्टम्’, “भ्रस्ज पाके” (धा. पा. तु. प. ४) यवादिवद् वह्निसंयोगे ऽपि न नितरां भृष्टं, न विनश्यतीति यावत्; रक्षोभिर्वा न बाधितं भवतीत्यर्थः । ‘वाचो बन्धुः’ वाग्व्यवहारस्य कारणम् । ‘तपोजाः’ “तप सन्तापे” (धा. पा. भ्वा. प. १०१०) तपःशब्देनाग्निरुच्यते, तस्माज्जातः । ‘सोमस्य’ ‘दात्रं’ दानसाधनम्भवसि । उदकसम्बन्धादेव सोमरसनिष्पत्तिः; तादृशो रस एव हूयते, अतः सोमस्य दानसाधनभूता भवत । स्वाहाकारेण पूताः स्थ । अत्र स्वाहाशब्दो न होमार्थः; मन्त्रान्ते पाठाभावात् । ‘राजस्वः’ राजानं सुवते जनयन्तीति राजस्वः राजोत्पादका इत्यर्थः ॥

मन्त्रं भागशो ऽनूद्य व्याख्यास्यन् सवितुर्व इति मन्त्रभागस्य प्रथमकाण्डे उत्पवनसमये समाम्नातमर्थवादब्राह्मणमतिदिशति- सो ऽसाविति । तत्र ह्येवमाम्नातम्- “सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति, सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतदुत्पुनात्यच्छिद्रेण पवित्रेणति, योवा अयं पवत एषो ऽच्छिद्रं पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरिति, एते वा उत्पवितारो यत्सूर्यस्य रश्मयः, तस्मादाह सूर्यस्य रश्मिभिरिति” (श. प. १ । १ । ३ । ६) इति । अनिभृष्टमसीति । सामान्यविवक्षयैकवचान्तत्वेन प्रयुक्तम् । अपां बहुत्वेन बहुवचनान्ततया व्याचष्टे- अनाधृष्टाः स्थेति । अपां वाग्बन्धुत्वमुपपादयति- यावद्वै प्राणेष्विति । ‘प्राणेषु’ मुखनासिकादिषु यावदपां सद्भावः, तावत् पुरुषा वाचं वदति; तद्विरहे शुष्का जिह्वा शब्दानुच्चारयितुं न शक्नोतीत्यर्थः ॥

तपोजा इति । अपां परम्परया अग्निजनकत्वं दर्शयति- अग्नेर्वा इति ॥

सोमदानसाधनत्वमुदकस्य निरूपयति- यदा वा एनमिति । ‘यदा’ यस्मिन् काले ‘एनं’ सोमम् ‘एताभिः’ अद्भिः ‘अभिषुण्वन्ति’ अभिषवं कुर्वन्ति, अध्वर्यवः । ‘अथ’ अभिषवानन्तरम् ‘आहुतिर्भवति’ ॥ १६-१८ ॥

Eggeling
  1. He purifies with, ‘By the impulse of Savitr̥ I purify you with a flawless purifier, with the rays of the sun.’ The significance is the same (as before 13). ‘Not downfallen thou art, the friend of Speech, born of heat,’–unimpaired by the Rakshas he means to say when he says, ’not downfallen;’–’the friend of Speech’–as long as there is water in the vital airs, so long (man) speaks with speech: therefore he says, ’the friend of Speech.’

१७

विश्वास-प्रस्तुतिः

तपोजा ऽइ᳘ति॥
(त्य) अग्नेर्व्वै᳘ धूमो᳘ जायते धूमा᳘दभ्र᳘मभ्राद्वृ᳘ष्टिरग्नेर्व्वा ऽएता᳘ जायन्ते त᳘स्मादाह तपोजा इ᳘ति॥

मूलम् - श्रीधरादि

तपोजा ऽइ᳘ति॥
(त्य) अग्नेर्व्वै᳘ धूमो᳘ जायते धूमा᳘दभ्र᳘मभ्राद्वृ᳘ष्टिरग्नेर्व्वा ऽएता᳘ जायन्ते त᳘स्मादाह तपोजा इ᳘ति॥

मूलम् - Weber

तपोजा इ᳘ति॥
अग्निर्वै᳘ धूमो᳘ जायते धूमा᳘दभ्र᳘मभ्राद्वृ᳘ष्टिरग्नेर्वा᳘ एता᳘ जायन्ते त᳘स्मादाह तपोजा इ᳘ति॥

मूलम् - विस्वरम्

तपोजा इति । अग्नेर्वै धूमो जायते, धूमादभ्रम्, अभ्राद्वृष्टिः । अग्नेर्वा ऽएता जायन्ते । तस्मादाह- तपोजा इति ॥ १७ ॥

सायणः

[व्याख्यानं षोडदशे]

Eggeling
  1. ‘Born of heat’ he says, for from fire springs smoke, from smoke the cloud, from the cloud rain,–it is from fire that these are produced: hence he says, ‘born of heat.’

१८

विश्वास-प्रस्तुतिः

सो᳘मस्य दात्र᳘मसी᳘ति॥
यदा वा᳘ ऽएनमेता᳘भि᳘रभिषुण्वन्त्यथा᳘हुतिर्भवति त᳘स्मादाह सो᳘मस्य दात्र᳘मसी᳘ति स्वा᳘हा राज᳘स्व[[!!]] इ᳘ति त᳘देनाः स्वाहाकारे᳘णैवो᳘त्पुनाति॥

मूलम् - श्रीधरादि

सो᳘मस्य दात्र᳘मसी᳘ति॥
यदा वा᳘ ऽएनमेता᳘भि᳘रभिषुण्वन्त्यथा᳘हुतिर्भवति त᳘स्मादाह सो᳘मस्य दात्र᳘मसी᳘ति स्वा᳘हा राज᳘स्व[[!!]] इ᳘ति त᳘देनाः स्वाहाकारे᳘णैवो᳘त्पुनाति॥

मूलम् - Weber

सो᳘मस्य दात्र᳘मसी᳘ति॥
यदा वा᳘ एनमेता᳘भिरभिषुण्वन्त्यथा᳘हुतिर्भवति 14 त᳘स्मादाह सो᳘मस्य दात्र᳘मसी᳘ति स्वा᳘हा राजस्व᳘ इ᳘ति त᳘देनाः स्वाहाकारे᳘णैवो᳘त्पुनाति॥

मूलम् - विस्वरम्

“सोमस्य दात्रमसि”- इति । यदा वा ऽएनमेताभिरभिषुण्वन्ति- अथाहुतिर्भवति । तस्मादाह- सोमस्य दात्रमसीति । “स्वाहा राजस्वः”- (वा. सं. १० । ६) इति । तदेनाः स्वाहाकारेणैवोत्पुनाति ॥ १८ ॥

सायणः

[व्याख्यानं षोडदशे]

Eggeling
  1. ‘Soma’s portion thou art;’ for when they consecrate him with those (waters), then there is an oblation: therefore he says ‘Soma’s portion thou art;’–‘Hail, spiriters of kings!’–it is with ‘Hail’ that he thus purifies them.

१९

विश्वास-प्रस्तुतिः

ता᳘ ऽएते᳘षु पा᳘त्रेषु व्या᳘नयति॥
सधमा᳘दो द्युम्नि᳘नीरा᳘प ऽएता ऽइत्य᳘नतिमानिन्य ऽइ᳘त्ये᳘वैत᳘दाह यदा᳘ह सधमा᳘द इ᳘ति द्युम्नि᳘नीरा᳘प ऽएता ऽइ᳘ति व्वी᳘र्यवत्य[[!!]] इ᳘त्ये᳘वैत᳘दाहा᳘नाधृष्टा ऽअप᳘स्यो व्व᳘साना ऽइत्य᳘नाधृष्टा स्थ र᳘क्षोभिरि᳘त्ये᳘वैत᳘दाह यदाहा᳘नाधृष्टा ऽअप᳘स्यो व्व᳘साना ऽइ᳘ति प᳘स्त्यासु चक्रे व्व᳘रुणः सध᳘स्थमि᳘ति व्वि᳘शो वै᳘ प᳘स्त्या व्विक्षु᳘ चक्रे व्व᳘रुणः प्रतिष्ठामि᳘त्ये᳘वैत᳘दाहापाᳫँ᳭ शि᳘शुर्मातृ᳘तमास्वन्तरि᳘त्यपां वा᳘ ऽएष शि᳘शुर्भवति यो᳘ राजसू᳘येन यजते त᳘स्मादाहापाᳫँ᳭ शि᳘शुर्मातृ᳘तमास्वन्तरि᳘ति॥

मूलम् - श्रीधरादि

ता᳘ ऽएते᳘षु पा᳘त्रेषु व्या᳘नयति॥
सधमा᳘दो द्युम्नि᳘नीरा᳘प ऽएता ऽइत्य᳘नतिमानिन्य ऽइ᳘त्ये᳘वैत᳘दाह यदा᳘ह सधमा᳘द इ᳘ति द्युम्नि᳘नीरा᳘प ऽएता ऽइ᳘ति व्वी᳘र्यवत्य[[!!]] इ᳘त्ये᳘वैत᳘दाहा᳘नाधृष्टा ऽअप᳘स्यो व्व᳘साना ऽइत्य᳘नाधृष्टा स्थ र᳘क्षोभिरि᳘त्ये᳘वैत᳘दाह यदाहा᳘नाधृष्टा ऽअप᳘स्यो व्व᳘साना ऽइ᳘ति प᳘स्त्यासु चक्रे व्व᳘रुणः सध᳘स्थमि᳘ति व्वि᳘शो वै᳘ प᳘स्त्या व्विक्षु᳘ चक्रे व्व᳘रुणः प्रतिष्ठामि᳘त्ये᳘वैत᳘दाहापाᳫँ᳭ शि᳘शुर्मातृ᳘तमास्वन्तरि᳘त्यपां वा᳘ ऽएष शि᳘शुर्भवति यो᳘ राजसू᳘येन यजते त᳘स्मादाहापाᳫँ᳭ शि᳘शुर्मातृ᳘तमास्वन्तरि᳘ति॥

मूलम् - Weber

ता᳘ एते᳘षु पा᳘त्रेषु व्या᳘नयति॥
सधमा᳘दो द्युम्नि᳘नीरा᳘प एता इत्य᳘नतिमानिन्य इ᳘त्येॗवैत᳘दाह यदा᳘ह सधमा᳘द इ᳘ति द्युम्नि᳘नीरा᳘प एता इ᳘ति वीर्य᳘वत्य इ᳘त्येॗवैत᳘दाहा᳘नाधृष्टा अपॗस्यो व᳘साना इत्य᳘नाधृष्टा स्थ र᳘क्षोभिरि᳘त्येॗवैत᳘दाह यदाहा᳘नाधृष्टा अपॗस्यो व᳘साना इ᳘ति पॗस्त्यासु चक्रे व᳘रुणः सध᳘स्थमि᳘ति वि᳘शो वै᳘ पॗस्त्या विक्षु᳘ चक्रे व᳘रुणः प्रतिष्ठामि᳘त्येॗवैत᳘दाहापां शि᳘शुर्मातृ᳘तमास्वन्तरि᳘ति॥

मूलम् - विस्वरम्

ता एतेषु पात्रेषु व्यानयति- “सधमादो द्युम्निनीराप एताः”- इति । अनतिमानिन्य इत्येवैतदाह- यदाह- सधमाद इति । द्युम्निनीराप एताः इति । वीर्यवत्य इत्येवैतदाह । “अनाधृष्टा अपस्यो वसानाः”- इति । अनाधृष्टा स्थ रक्षाभिरित्येवैतदाह- यदाह अनाधृष्टा अपस्यो वसाना इति । “पस्त्यासु चक्रे वरुणः सधस्थम्”- इति । विशो वै पस्त्या । विक्षु चक्रे वरुणः प्रतिष्ठामित्येवैतदाह । “अपां शिशुर्मातृतमास्वन्तः”- (वा. सं १० । ७) इति । अपां वा ऽएष शिशुर्भवति- यो राजसूयेन यजते तस्मादाह- अपां शिशुर्मातृतमास्वन्तरिति ॥ १९ ॥

सायणः

विधत्ते- ता एतेष्विति । ‘एतेषु’ अभिषेचनीयेषु ‘पात्रेषु’ ‘एताः’ उक्ताः ‘अपः’ ‘व्यानयति’ आसिञ्चेदित्यर्थः 15 । ‘सधमादः’ सह माद्यन्तीति सधमादः, परस्परमनतिमानिन्यं इत्यर्थः । “सधमादस्थयोश्छन्दसि” (पा. सू. ६ । ३ । ९६) इति सहस्य सधादेशः । ‘द्युम्निनीः’ वीर्यवत्यः ‘एता आपः’ । ‘रक्षोभिः’ ‘अनाधृष्टाः’ अनभिभूताः, ‘अपस्यः’ अप इति कर्म्मनाम (निघं. २ । १ । १ ।) राजसूयाख्यं कर्म इच्छन्त्यः, ‘वसानाः’ “वस आच्छादने” (धा पा. अदा. आ. १३) आच्छादयन्त्यो या आपः, सन्तीति शेषः । तासु अतिशयेन मातृभूतासु ‘पस्त्यासु’ ‘पस्त्या’ इति गृहनाम (निघं. ३ । ४ । ३ ।) गृहावस्थितास्वप्सु ‘अन्तः’ मध्ये ‘सधस्थं’ सहस्थानं ‘प्रतिष्ठाम्’, ‘अपां शिशुः’ वरुणः; राजसूये ऽद्भिरभिषिक्तत्वात् तज्जन्यत्वमुच्यते । तथाविधो वरुणः ‘चक्रे’ कृतवानिति । यद्वा, ‘पस्त्यासु’ गृहावस्थितासु ‘विक्षु’ प्रजास्विति व्याख्येयम् । मन्त्रं प्रतिपादमनूद्य तात्पर्यपुरस्सरं व्याचष्टे- अनतिमानिन्य इति ॥ १९ ॥

Eggeling
  1. He distributes them over those (consecration) vessels, with (Vāj. S. X, 7), ‘Playmates are these glorious waters;’–’not overbearing’ he means to say, when he says ‘playmates;’ and by ’these glorious waters’ he means to say ’the powerful ones;’–‘unimpaired, active, enveloping,’ he thereby means to say ‘ye are unimpaired by the Rakshas;’–‘In the habitations Varuṇa hath made a home;’–the habitations are the people (clans): ‘in the people Varuṇa has made a support’ he thereby says;–‘he, the child of the waters, in the best of mothers;’–for he who performs the Rājasūya is indeed the child of the waters: therefore he says, ’the child of the waters, in the best of mothers.’

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं व्वा᳘साᳫँ᳭सि प᳘रिधापयति॥
त᳘त्तार्प्यमि᳘ति व्वा᳘सो भवति त᳘स्मिन्त्स᳘र्वाणि यज्ञरूपा᳘णि नि᳘ष्यूतानि भवन्ति त᳘देनं प᳘रिधापयति क्षत्रस्यो᳘ल्बमसी᳘ति तद्य᳘देव᳘ क्षत्रस्यो᳘ल्बं त᳘त ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं व्वा᳘साᳫँ᳭सि प᳘रिधापयति॥
त᳘त्तार्प्यमि᳘ति व्वा᳘सो भवति त᳘स्मिन्त्स᳘र्वाणि यज्ञरूपा᳘णि नि᳘ष्यूतानि भवन्ति त᳘देनं प᳘रिधापयति क्षत्रस्यो᳘ल्बमसी᳘ति तद्य᳘देव᳘ क्षत्रस्यो᳘ल्बं त᳘त ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - Weber

अ᳘थैनं वा᳘सांसि प᳘रिधापयति॥
त᳘त्तार्प्यमि᳘ति वा᳘सो भवति त᳘स्मिन्त्स᳘र्वाणि यज्ञरूपा᳘णि नि᳘ष्यूतानि भवन्ति त᳘देनम् प᳘रिधापयति क्षत्रस्यो᳘ल्बमसी᳘ति तद्य᳘देव᳘ क्षत्रस्यो᳘ल्बं त᳘त एॗवैनमेत᳘ज्जनयति॥

मूलम् - विस्वरम्

अथैनं वासांसि परिधापयति । तत् तार्प्यमिति वासो भवति । तस्मिन् सर्वाणि यज्ञरूपाणि निष्यूतानि भवन्ति । तदेनं परिधापयति- “क्षत्रस्योल्बमसि”- इति । तद्यदेव क्षत्रस्योल्बम्- तत एवैनमेतज्जनयति ॥ २० ॥

सायणः

विधत्ते अथैनं वासांसीति । ‘एनं’ यजमानं ‘वासांसि’ तार्प्यपाड्वाधिवासोष्णीषाणि परिधापयेदिति सामान्यविधिः । तत्तात्पर्यार्थकथनपुरस्सरं विधत्ते- तत्तार्प्यमिति । ‘तत्’ तत्र, तेषु प्रथमं ‘तार्प्यमिति’ वासः; न त्वन्यत् कम्बलादिकमित्यर्थः । अत एव कात्यायनः- “तार्प्यं परिधापयति, क्षौमं, त्रिपाणं वा, घृतोन्नमेके- (का. श्रौ. सू. १५ । १२७ । १३०)- इति । तृपानामौषधिविशेषः, तत्तन्तुनिर्मितम्, क्षौमं वस्त्रं ‘तार्प्यम् त्रिः कृत्वः पायितम् त्रिपाणम्’, ‘घृतोन्नम्’ “उन्दी क्लेदने” (धातु. रु. प. २०) घृतसिक्तमिति ‘एके आचार्या वदन्ति’ ॥ तत्र कञ्चिद् विशेषं विधत्ते- तस्मिन्त्सर्वाणीति 16 । ‘यज्ञरूपाणि’ स्रुक्चमसादीनि ‘सर्वाणि’ तस्मिन् ‘स्यूतानि’ भवेयुः । तार्प्यस्य परिधापने मन्त्रं विधत्ते- क्षत्रस्येति । हे तार्प्य ! ‘क्षत्रस्य’ राज्ञो यजमानस्य गर्भत्वेनोपचर्य्यमाणस्य ‘उल्बम्’ आवरणम् ‘असि’ “उल्बावृतो गर्भः” इति छन्दोगा आमनन्ति । उल्बत्वं साधयति- तद्यदेवेति । ‘यद् उल्बं’ तस्मादेव ‘एनं’ यजमानम् ‘एतत्’ एतेन तार्प्यपरिधापनेन उत्पादितवान् भवति ॥ २० ॥

Eggeling
  1. He then makes him (the king) put on garments. There is that one called tārpya 17; therein are

wrought 18 all forms of sacrifice: that he makes him put on, with (Vāj. S. X, 8), ‘Thou art the inner caul of knighthood (kshatra)!’ He thus causes him to be born from out of what is the inner caul (amnion) of knighthood.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं पा᳘ण्ड्वं प᳘रिधापयति॥
क्षत्र᳘स्य जरा᳘य्वसी᳘ति तद्य᳘देव᳘ क्षत्र᳘स्य जरा᳘यु त᳘त ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं पा᳘ण्ड्वं प᳘रिधापयति॥
क्षत्र᳘स्य जरा᳘य्वसी᳘ति तद्य᳘देव᳘ क्षत्र᳘स्य जरा᳘यु त᳘त ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - Weber

अ᳘थैनम् पा᳘ण्ड्वम् प᳘रिधापयति॥
क्षत्र᳘स्य जरा᳘य्वसी᳘ति तद्य᳘देव᳘ क्षत्र᳘स्य जरा᳘यु त᳘त एॗवैनमेत᳘ज्जनयति॥

मूलम् - विस्वरम्

अथैनं पाण्ड्वं परिधापयति- “क्षत्रस्य जराय्वसि”- इति । तद्यदेव क्षत्रस्य जरायु- तत एवैनमेतज्जनयति ॥ २१ ॥

सायणः

विधत्ते- अथैनमिति । ‘पाण्ड्वम्’ पाण्डुरम्, श्वेतं कम्बलं परिधापयेत्, तार्प्यस्योपरि प्रावृणुयादित्यर्थः 19 ‘पाण्ड्वः’- शब्दार्थ उक्तः । तदिदं पाण्डुरं द्वितीयम्; श्येतं पाण्डुरभित्याचक्षते । हे पाण्डुर- कम्बल ! ‘क्षत्रस्य’ पूर्वोक्तविशेषणस्य ‘जरायु’ जरायुस्थानीयम् ‘असि’- इति । ‘एतेन’ पाण्डुरपरिधापनेन । ‘ततः’ जरायोः ॥ २१ ॥

Eggeling
  1. He then makes him put on one of undyed wool, with, ‘Thou art the outer caul of knighthood!’ He thus causes him to be born from what is the outer caul (chorion) of knighthood.

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाधीवासं प्र᳘तिमुञ्चति॥
क्षत्र᳘स्य यो᳘निरसी᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य यो᳘निस्त᳘स्या ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाधीवासं प्र᳘तिमुञ्चति॥
क्षत्र᳘स्य यो᳘निरसी᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य यो᳘निस्त᳘स्या ऽए᳘वैनमेत᳘ज्जनयति॥

मूलम् - Weber

अ᳘थाधीवासम् प्र᳘तिमुञ्चति॥
क्षत्र᳘स्य यो᳘निरसी᳘ति तॗद्यैव᳘ क्षत्र᳘स्य यो᳘निस्त᳘स्या एॗवैनमेत᳘ज्जनयति॥

मूलम् - विस्वरम्

अथाधीवासं प्रतिमुञ्चति- “क्षत्रस्य योनिरसि”- इति । तद्यैव क्षत्रस्य योनिः- तस्या एवैनमेतज्जनयति ॥ २२ ॥

सायणः

विधत्ते- अथाधीवासमिति 19 । अधि उपरि वसनीयमाच्छादनीयं वस्त्रम् ‘अधीवासम्,’ तत् प्रतिमुञ्चेत् । तार्प्यमुपसंव्याय पाण्डुरमुत्तरीयवदाच्छाद्य, ‘अधीवासं’ कञ्चुकादिकम्, उपरि प्रतिमुञ्चेदित्यर्थः । हे वस्त्र ! ‘क्षत्रस्य’ ‘योनिः’ योनिस्थानीयम् ‘असि’ इति । गर्भरूपयजमानस्य एतानि त्रीणि वस्त्राणि उल्ब-जरायु-योनिरूपत्वेन प्रशस्तानीति समुदितो ऽर्थः ॥ २२ ॥

Eggeling
  1. He then throws over the mantle, with, ‘Thou art the womb of knighthood!’ He thus causes him to be born from what is the womb of knighthood.

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोष्णी᳘षᳫँ᳭ सᳫँ᳭हृ᳘त्य॥
पुर᳘स्ताद᳘वगूहति क्षत्र᳘स्य ना᳘भिरसी᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य ना᳘भिस्ता᳘मे᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोष्णी᳘षᳫँ᳭ सᳫँ᳭हृ᳘त्य॥
पुर᳘स्ताद᳘वगूहति क्षत्र᳘स्य ना᳘भिरसी᳘ति त᳘द्यैव᳘ क्षत्र᳘स्य ना᳘भिस्ता᳘मे᳘वास्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थोष्णी᳘षᳫं संहृ᳘त्य 20
पुर᳘स्ताद᳘वगूहति क्षत्र᳘स्य ना᳘भिरसी᳘ति तॗद्यैव᳘ क्षत्र᳘स्य ना᳘भिस्ता᳘मेॗवास्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथोष्णीषं संहृत्य पुरस्तादवगूहति- “क्षत्रस्य नाभिरसि”- इति । तद्यैव क्षत्रस्य नाभिः- तामेवास्मिन्नेतद्दधाति ॥ २३ ॥

सायणः

उष्णीषवेष्टनं विधत्ते- अथोष्णीषमिति 19 । ‘उष्णीषं संहृत्य’ निवीतरूपेण कण्ठे ऽवसज्य ‘पुरस्तात्’ पूर्वभागे नाभिदेशे ‘अवगूहति’ उष्णीषान्तं नीवीस्थाने ग्रथयेदित्यर्थः । तन्मन्त्रस्यायमर्थः- ‘क्षत्रस्य’ ‘नाभिः’ नाभिस्थानीयम् ‘असि’ इति ॥ २३ ॥

Eggeling
  1. He then draws the head-band together, and conceals it (tucks it under) in front 21, with, ‘Thou art the navel of knighthood!’ He thus places him in what is the navel of knighthood.

२४

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
समन्तं प᳘रिवेष्टयन्ति ना᳘भिर्व्वा᳘ ऽअस्यैषा᳘ समन्तं वा᳘ ऽइयं ना᳘भिः प᳘र्येती᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्पुर᳘स्तादेवा᳘वगूहेत्पुर᳘स्ता᳘द्धीयं ना᳘भिस्तद्य᳘देनं व्वा᳘साᳫँ᳭सि प᳘रिधापयति[[!!]] जन᳘यत्ये᳘वैनमेत᳘ज्जात᳘मभि᳘षिञ्चानी᳘ति त᳘स्मादेनं व्वा᳘साᳫँ᳭सि प᳘रिधापयति॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
समन्तं प᳘रिवेष्टयन्ति ना᳘भिर्व्वा᳘ ऽअस्यैषा᳘ समन्तं वा᳘ ऽइयं ना᳘भिः प᳘र्येती᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्पुर᳘स्तादेवा᳘वगूहेत्पुर᳘स्ता᳘द्धीयं ना᳘भिस्तद्य᳘देनं व्वा᳘साᳫँ᳭सि प᳘रिधापयति[[!!]] जन᳘यत्ये᳘वैनमेत᳘ज्जात᳘मभि᳘षिञ्चानी᳘ति त᳘स्मादेनं व्वा᳘साᳫँ᳭सि प᳘रिधापयति॥

मूलम् - Weber

तद्धै᳘के॥
समन्तम् प᳘रिवेष्टयन्ति ना᳘भिर्वा᳘ अस्यैषा᳘ समन्तं वा᳘ इयं ना᳘भिः प᳘र्येती᳘ति व᳘दन्तस्त᳘दु त᳘थान᳘ कुर्यात्पुर᳘स्तादेवा᳘वगूहेत्पुर᳘स्ताॗद्धीयं ना᳘भिस्तद्य᳘देनं वा᳘सांसि परिधाप᳘यति जन᳘यत्येॗवैनमेत᳘ज्जात᳘मभि᳘षिञ्चानी᳘ति त᳘स्मादेनं वा᳘सांसि प᳘रिधापयति॥

मूलम् - विस्वरम्

तद्धैके समन्तं परिवेष्टयन्ति । नाभिर्वा ऽअस्यैषा । समन्तं वा ऽइयं नाभिः पर्येतीति वदन्तः । तद् तथा न कुर्यात् । पुरस्तादेवावगूहेत् । पुरस्ताद्धीयं नाभिः । तद्यदेनं वासांसि परिधापयति-जनयत्येवैनमेतद्- जातमभिषिञ्चानीति । तस्मादेनं वासांसि परिधापयति ॥ २४ ॥

सायणः

उक्तमुष्णीषाग्रस्य पूर्वदेशे ऽवगूहनं द्रढयितुं पूर्वपक्षं सोपपत्तिकमनुवदति- तद्वैक 22 इति । ‘एके’ शाखान्तरानुसारिणः ‘तत्’ उष्णीषं ‘समन्तं’ सर्वतो नाभिदेशे ‘परिवेष्टयन्ति’ । तदुपपादयति- नाभिर्वा इति । ‘अस्य’ क्षत्रियस्य ‘एषा’ उष्णीषरूपा ‘नाभिः’ अपि ‘समन्तं’ ‘पर्येति’ परिवेष्टिता भवति । अतः “क्षत्रस्य नाभिरसि”- इति मन्त्रे उष्णीषस्य नाभित्ववचनात् तत्साम्याय समन्ताद् वेष्टनमुक्तमित्येकेषां मतम् । तद्दूषयति- तदु तथेति । उक्तं स्वमतं निगमयति- पुरस्तादेवेति । तत्र हेतुमाह- पुरस्ताद्धीयमिति । तार्प्यादिवासःपरिधापनं सम्भूय प्रशंसति- तद्यदेनं वासांसीति । ‘एतत्’ एतेन वासःपरिधापनेन ‘एनं’ यजमानं ‘जनयति’ उत्पादितवान् भवति; तेषां वाससामुल्बजरायुयोनिरूपत्वोक्तेः । किमर्थं जननमिति तत्राह- जातमभीति । ‘जातं’ यजमानम् ‘अभिषिञ्चानि’ अभिषिक्तं करवाणि ‘इति’ बुद्ध्या ‘वासांसि परिधापयति’ परिधापयेदित्यर्थः 23 ॥ २४ ॥

Eggeling
  1. Now some wind it quite round about (the navel) saying, ’that (band) is his navel, and this navel goes all round.’ But let him not do this, but let him merely tuck it under in front, for this navel is in front. And as to why he makes him put on the garments;–he thereby causes him to be born 24,

thinking, ‘I will anoint him when born:’ that is why he makes him put on the garments.

२५

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
नि᳘दधत्येता᳘नि व्वा᳘साᳫँ᳭स्य᳘थैनं पु᳘नर्दीक्षितव᳘सनं प᳘रिधापयन्ति त᳘दु त᳘था न᳘ कुर्याद᳘ङ्गानि वा᳘ ऽअस्य जनूर्व्वा᳘साᳫँ᳭स्य᳘ङ्गैर्हैनᳫँ᳭ सज᳘न्वा त᳘न्वा᳘ व्यर्धयति व्वरु᳘ण्यं[[!!]] दीक्षितव᳘सनᳫँ᳭ स᳘ ऽएते᳘षामेवै᳘कं वा᳘ससां प᳘रिदधीत᳘ तदेनम᳘ङ्गैर्ज᳘न्वा[[!!]] त᳘न्वा स᳘मर्धयति व्वरुण्यं᳘ दीक्षितव᳘सनं त᳘देनं व्वरु᳘ण्याद्दीक्षितव᳘सनात्प्र᳘मुञ्चति॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
नि᳘दधत्येता᳘नि व्वा᳘साᳫँ᳭स्य᳘थैनं पु᳘नर्दीक्षितव᳘सनं प᳘रिधापयन्ति त᳘दु त᳘था न᳘ कुर्याद᳘ङ्गानि वा᳘ ऽअस्य जनूर्व्वा᳘साᳫँ᳭स्य᳘ङ्गैर्हैनᳫँ᳭ सज᳘न्वा त᳘न्वा᳘ व्यर्धयति व्वरु᳘ण्यं[[!!]] दीक्षितव᳘सनᳫँ᳭ स᳘ ऽएते᳘षामेवै᳘कं वा᳘ससां प᳘रिदधीत᳘ तदेनम᳘ङ्गैर्ज᳘न्वा[[!!]] त᳘न्वा स᳘मर्धयति व्वरुण्यं᳘ दीक्षितव᳘सनं त᳘देनं व्वरु᳘ण्याद्दीक्षितव᳘सनात्प्र᳘मुञ्चति॥

मूलम् - Weber

तद्धैके॥
नि᳘दधत्येता᳘नि वा᳘सांस्य᳘थैनम् पु᳘नर्दीक्षितव᳘सनम् प᳘रिधापयन्ति त᳘दु त᳘था न᳘ कुर्याद᳘ङ्गानि वा᳘ अस्य जनूर्वा᳘सांस्य᳘ङ्गैर्हैनᳫं सजॗन्वा 25 तॗन्वा व्यर्धयन्ति वरुण्यं᳘ दीक्षितव᳘सनᳫं स᳘ एते᳘षामेवै᳘कं वा᳘ससाम् प᳘रिदधीत त᳘देनम᳘ङ्गैर्जॗन्वा तॗन्वा स᳘मर्धयति वरुण्यं᳘ दीक्षितव᳘सनं त᳘देनं वरुॗण्याद्दीक्षितव᳘सनात्प्र᳘मुञ्चति॥

मूलम् - विस्वरम्

तद्धैके- निदधत्येतानि वासांसि- अथैनं पुनर्दीक्षितवसनं परिधापयन्ति । तदु तथा न कुर्यात् । अङ्गानि वा ऽअस्य जनूर्वासांसि । अङ्गैर्हैनं सजन्वा तन्वा व्यर्धयन्ति । वरुण्यं दीक्षितवसनम् । स एतेषामेवैकं वाससां परिदधीत । तदेनमङ्गैर्जन्वा तन्वा समर्धयति । वरुण्यं दीक्षितवसनम् । तदेनं वरुण्याद्दीक्षितवसनात्प्रमुञ्चति ॥ २५ ॥

सायणः

पूर्वं निहितस्य दीक्षितवसनस्य परित्यागं विधित्सुरेकेषां मतमुपन्यस्यात । यद्वा, अयमपरः सम्बन्धः- विहितानां तार्प्यादीनां परिधापनादिकमेव द्रढयितुं पूर्वपक्षयति- तद्धैक इति । ‘एके’ शाखिनः एकवारं परिधापितानि ‘एतानि वासांसि’ ‘निदधति’ विसृज्य निदध्युः । ‘अथ’ तदानीमेव तार्प्यादिवसनकाले निहितं ‘दीक्षितवसनम्’ ‘एतं’ यजमानं ‘पुनः परिधापयन्ति’ । पुनःपरिधापनकालस्तु सूत्रकृता दर्शितः- “दीक्षितवसननिवृत्तिर्विरोधात्, माहेन्द्रादौ वा पुनः परिधानं निधायैतानि - (का. श्रौ. सू. १५ । १३५) इति । तद् दूषयति- तदु तथेति । अङ्गानि वा इति । ‘वासांसि’ इति यत् तानि ‘अस्य’ यजमानस्य ‘जनूः अङ्गानि’ सहोत्पन्नानि । तार्प्यादीनां वाससामुल्ब-जरायुप्रभृत्यात्मकत्वादङ्गत्वम् । उल्बादीनां तु गर्भावस्थायां सह निवासादङ्गत्वमुपचरितम् ॥

यद्वा, अयमर्थः- ‘वासांसि जनूरङ्गानि’ सहोत्पन्नानि त्वग्रूपाण्यङ्गानि । ‘वै’ शब्दः प्रसिद्धिद्योतकः । तृतीयकाण्डे दीक्षाप्रकरणे “अथ वासः परिधत्ते”- इत्युपक्रम्याम्नातम्- “तस्मिन्नेतां त्वचमदधुः वास एव तस्मान्नान्यः पुरुषाद् वासो बिभर्ति”- (श. प. ३ । १ । २ । १३-१६) इति । अतो वासोभिः परिधापनेन ‘जन्वा’ ‘तन्वा’ सहोत्पन्नैः शरीररूपैः ‘अङ्गैः’ समर्धितवान् भवति । अङ्गसमुदाय एव हि तनूः, शरीरेण तदङ्गैश्च संवर्द्धितवान् भवति । दीक्षितवसनस्य परित्यागं दर्शयितुं तस्य दुष्टत्वमाह- वरुण्यमिति । वरुणगृहीतं दुष्टमित्यर्थः ॥ स एतेषामित्यादिकस्यायमर्थः- उक्तानां वाससामेकेन तार्प्येण प्रथमातिक्रमे कारणाभावात् । यद्वा ‘एकम्’ प्रथममित्यर्थः । प्रथमन्तु तार्प्यम्, तेन परिधापनं कर्त्तव्यम् । न तु दीक्षितवसनस्य पुनःपरिधापनमित्यर्थः ॥ २५ ॥

Eggeling
  1. Now some put off those garments 26, and make him put on again the garment of initiation. But let him not do this; for, the limbs 27 being his natural vestments, they deprive him of his limbs, of his native bodily form. The garment of initiation belongs to Varuṇa. Let him put on one of those same garments: he (the priest) thereby causes him to be furnished with his limbs, his native bodily form. The garment of initiation belongs to Varuṇa: he thus saves him from the Varuṇic garment of initiation.

२६

विश्वास-प्रस्तुतिः

स य᳘त्रावभृथ᳘मभ्यवै᳘ति॥
त᳘देतद᳘प्यभ्य᳘वहरन्ति तत्स᳘लोम क्रियते स᳘ ऽएते᳘षामेवै᳘कं व्वा᳘ससां परिधा᳘योदै᳘ति ता᳘नि व्वशा᳘यै वा व्वपा᳘याᳫँ᳭ हुता᳘यां दद्या᳘दुदवसानी᳘यायां वे᳘ष्टौ॥

मूलम् - श्रीधरादि

स य᳘त्रावभृथ᳘मभ्यवै᳘ति॥
त᳘देतद᳘प्यभ्य᳘वहरन्ति तत्स᳘लोम क्रियते स᳘ ऽएते᳘षामेवै᳘कं व्वा᳘ससां परिधा᳘योदै᳘ति ता᳘नि व्वशा᳘यै वा व्वपा᳘याᳫँ᳭ हुता᳘यां दद्या᳘दुदवसानी᳘यायां वे᳘ष्टौ॥

मूलम् - Weber

स य᳘त्रावभृथ᳘मभ्यवै᳘ति॥
त᳘देत᳘दभ्य᳘वहरन्ति तत्स᳘लोम क्रियते स᳘ एते᳘षामेवै᳘कं वा᳘ससाम् परिधा᳘योदै᳘ति ता᳘नि वशा᳘यै वा वपा᳘याᳫं हुता᳘यां दद्या᳘दुदवसानी᳘यायां वे᳘ष्टौ॥

मूलम् - विस्वरम्

स यत्रावभृथमभ्यवैति । तदेतदप्यभ्यवहरन्ति । तत् सलोम क्रियते । स एतेषामेवैकं वाससां परिधायोदैति । तानि वशायै वा वपायां हुतायां दद्यात्, उदवसानीयायां वेष्टौ ॥ २६ ॥

सायणः

विहितस्य दीक्षितवसनस्य अवभृथे प्रासनं विधत्ते- स यत्रेति । ‘अवभृथम्’ ‘अभ्यवहरन्ति’ आहरेयुः, अप्सु प्रक्षिपेयुरित्यर्थः । ‘तत्’ तथा सति ‘सलोम क्रियते’ प्रकृतिगतमनुसृतं भवतीत्यर्थः । प्रकृतौ तु दीक्षितवसनस्य अवभृथे परित्याग उक्तः । स एतेषामित्यादि । माहेन्द्रादौ दीक्षितवसनस्य पुनः परिधानं कृतम्, तदा तार्प्यादीनामेकैकेनैव परिहितेन वाससा अवभृथावतरणमुत्तरणं च कर्त्तव्यमित्यर्थः । ‘उदैति’ उत्तरेत् । तेषां वाससां दानकालं विधत्ते- तानि वशाया इति । अनुबन्ध्यावशाया वपायागकाले वा ऽध्वर्यवे ‘दद्यात्’ । अवसाने कर्त्तव्या उदवसानीयेष्टिः, तस्यां वा दद्यात् । अत एव कात्यायनः- “अवभृथमेकेन तार्प्यादीनि चेदुदैत्येकेन, दीक्षितवसनं च प्रास्यति, अनूबन्ध्यावपाहोमान्ते दद्यादेनानि, उदवसानीयायां वा”- (का. श्रौ. सू. १५ । २०९-२१३) इति ॥ २६ ॥

Eggeling
  1. And when he enters the bath 28 they throw it into (the water). This is a congruous 29 performance. After putting on one of those same garments he comes out (of the bath). Let him give away those (garments) either when the omentum of the barren cow has been offered 30, or at the completing oblation 31.

२७

विश्वास-प्रस्तुतिः

(ष्टाव᳘) अ᳘थ ध᳘नुर᳘धितनोति॥
(ती᳘) इ᳘न्द्रस्य व्वा᳘र्त्रघ्नमसी᳘ति व्वा᳘र्त्रघ्नं वै ध᳘नुरि᳘न्द्रो वै य᳘जमानो द्वये᳘न वा᳘ ऽएष ऽइ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व्वा᳘र्त्रघ्नमसीति॥

मूलम् - श्रीधरादि

(ष्टाव᳘) अ᳘थ ध᳘नुर᳘धितनोति॥
(ती᳘) इ᳘न्द्रस्य व्वा᳘र्त्रघ्नमसी᳘ति व्वा᳘र्त्रघ्नं वै ध᳘नुरि᳘न्द्रो वै य᳘जमानो द्वये᳘न वा᳘ ऽएष ऽइ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व्वा᳘र्त्रघ्नमसीति॥

मूलम् - Weber

अ᳘थ ध᳘नुर᳘धितनोति॥
इ᳘न्द्रस्य वा᳘र्त्रघ्नमसी᳘ति वा᳘र्त्रघ्नं वै ध᳘नुरि᳘न्द्रो वै य᳘जमानो द्वये᳘न वा᳘ एष इ᳘न्द्रो भवति य᳘च्च क्षत्रि᳘यो य᳘दु च य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य वा᳘र्त्रघ्नमसीति॥

मूलम् - विस्वरम्

अथ धनुरधितनोति- “इन्द्रस्य वार्त्रघ्नमसि”- इति । वार्त्रघ्नं वै धनुः । इन्द्रो वै यजमानः । द्वयेन वा ऽएष इन्द्रो भवति- यच्च क्षत्रियो, यदु च यजमानः । तस्मादाह- इन्द्रस्य वार्त्रघ्नमसीति ॥ २७ ॥

सायणः

अथ धनुरधीति 32 । ‘अधितनोति’ आतनोतीत्यर्थः । मन्त्रस्यायमर्थः- हे धनुः ! त्वम् ‘इन्द्रस्य’ ‘वार्त्रघ्नं’ वृत्रहननसाधनमायुधम् ‘असि’ भवसि । इन्द्रशब्दार्थमाह- इन्द्रो वा इति । कथं यजमानस्येन्द्रत्वमिति तदुपपादयति- द्वयेनेति । क्षत्रिय इति यत्, यजमान इति च यत्, तेन द्वयेनेत्यर्थः । क्षत्रं नाम बलम्; तत्सम्बन्धात्, यष्टृत्वाच्चेत्यर्थः । इन्द्रस्य यजमानत्वं प्रागुक्तम् ॥ २७ ॥

Eggeling
  1. He (the Adhvaryu) then strings the bow, with, ‘Thou art Indra’s Vr̥tra-killer;’ for the bow

is indeed a Vr̥tra-killer, and the Sacrificer is Indra,–he is Indra in a twofold way, both as a Kshatriya, and as Sacrificer: therefore he says, ‘Thou art Indra’s Vr̥tra-killer.’

२८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ बाहू व्वि᳘मार्ष्टि॥
मित्र᳘स्यासि व्व᳘रुणस्यासी᳘ति बाह्वोर्वै ध᳘नुर्बाहु᳘भ्यां वै᳘ राज᳘न्यो मैत्रावरुणस्त᳘स्मादाह मित्र᳘स्यासि व्व᳘रुणस्यासी᳘ति त᳘दस्मै प्र᳘यच्छति त्व᳘या ऽयं᳘ व्वृत्रं᳘ व्वधेदि᳘ति त्व᳘या ऽयं᳘ द्विष᳘न्तं भ्रा᳘तृव्यं व्वधेदि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ बाहू व्वि᳘मार्ष्टि॥
मित्र᳘स्यासि व्व᳘रुणस्यासी᳘ति बाह्वोर्वै ध᳘नुर्बाहु᳘भ्यां वै᳘ राज᳘न्यो मैत्रावरुणस्त᳘स्मादाह मित्र᳘स्यासि व्व᳘रुणस्यासी᳘ति त᳘दस्मै प्र᳘यच्छति त्व᳘या ऽयं᳘ व्वृत्रं᳘ व्वधेदि᳘ति त्व᳘या ऽयं᳘ द्विष᳘न्तं भ्रा᳘तृव्यं व्वधेदि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ बाहू वि᳘मार्ष्टि॥
मित्र᳘स्यासि व᳘रुणस्यासी᳘ति बाह्वोर्वै ध᳘नुर्बाहु᳘भ्यां वै᳘ राजॗन्यो मैत्रावरुणस्त᳘स्मादाह मित्र᳘स्यासि व᳘रुणस्यासी᳘ति त᳘दस्मै प्र᳘यछति त्व᳘यायं᳘ वृत्र᳘म् बधेदि᳘ति त्व᳘यायं᳘ द्विष᳘न्तम् भ्रा᳘तृव्यम् बधेदि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ बाहू विमार्ष्टि । “मित्रस्यासि वरुणस्यासि”- इति । बाह्वोर्वै धनुः । बाहुभ्यां वै राजन्यो मैत्रावरुणः । तस्मादाह- मित्रस्यासि वरुणस्यासीति । तदस्मै प्रयच्छति- “त्वया ऽयं वृत्रं वधेत्”- इति । त्वया ऽयं द्विषन्तं भ्रातृव्यं वधेदित्येवैतदाह ॥ २८ ॥

सायणः

विधत्ते- अथ बाहू इति 32 । हे बाहो ! ‘मित्रस्य’ ‘असि’ भवसि । तथा ऽपरं बाहुं प्रत्याह- वरुणस्यासीति । बाहुद्वयं विसृज्यात् । कर्कोपाध्यायेन तु बाहुशब्दस्य धनुष्कोटिपरत्वं व्याख्यातम् 33 । तमिमं प्रशंसति- बाह्वोरिति । बाहुभ्यां खलु मित्रवरुणसम्बन्धी राजन्यो भवति; बाहुवीर्यसद्भावो राज्ञो लक्षणमित्यर्थः । धनुःप्रदानं समन्त्रकं विधत्ते- तदस्मा इति 34 । हे धनुः ! ‘त्वया’ साधनेन ‘अयं’ यजमानो ‘वृत्रं’ शत्रुं ‘वधेत्’ हिंस्यादिति । मन्त्रं व्याचष्टे- त्वया ऽयं द्विषन्तमिति ॥ २८ ॥

Eggeling
  1. He then strokes the two arms 35, with, ‘Mitra’s thou art,–Varuṇa’s thou art;’ for the bow is within the two arms, and by his two arms the Rājanya pertains to Mitra and Varuṇa: therefore he says, ‘Mitra’s thou art, Varuṇa’s thou art.’ He hands it to him, with, ‘May he slay Vr̥tra by thee!’ whereby he means to say, ‘May he slay by thee his spiteful enemy!’

२९

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थास्मै तिस्र इ᳘षूः प्र᳘यच्छति॥
स य᳘या प्रथम᳘या सम᳘र्पणेन पराभिन᳘त्ति सै᳘का᳘ सेयं᳘ पृथिवी᳘ सैषा᳘ दृबा नामा᳘थ य᳘या व्विद्धः᳘ शयित्वा जी᳘वति वा म्रिय᳘ते वा सा᳘ द्विती᳘या त᳘दिद᳘मन्त᳘रिक्ष᳘ᳫँ᳘ सैषा᳘ रुजा नामा᳘थ यया᳘ ऽपैव᳘ राध्नो᳘ति सा᳘ तृती᳘या᳘ सा ऽसौ द्यौः᳘ सैषा᳘ क्षुमा ना᳘मैता हि वै᳘ तिस्र ऽइ᳘षवस्त᳘स्मादस्मै तिस्र ऽइ᳘षूः प्र᳘यच्छति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थास्मै तिस्र इ᳘षूः प्र᳘यच्छति॥
स य᳘या प्रथम᳘या सम᳘र्पणेन पराभिन᳘त्ति सै᳘का᳘ सेयं᳘ पृथिवी᳘ सैषा᳘ दृबा नामा᳘थ य᳘या व्विद्धः᳘ शयित्वा जी᳘वति वा म्रिय᳘ते वा सा᳘ द्विती᳘या त᳘दिद᳘मन्त᳘रिक्ष᳘ᳫँ᳘ सैषा᳘ रुजा नामा᳘थ यया᳘ ऽपैव᳘ राध्नो᳘ति सा᳘ तृती᳘या᳘ सा ऽसौ द्यौः᳘ सैषा᳘ क्षुमा ना᳘मैता हि वै᳘ तिस्र ऽइ᳘षवस्त᳘स्मादस्मै तिस्र ऽइ᳘षूः प्र᳘यच्छति॥

मूलम् - Weber

अ᳘थास्मै तिस्र इ᳘षूः प्र᳘यछति॥
स य᳘या प्रथम᳘या सम᳘र्पणेन पराभिन᳘त्ति 36 सै᳘काॗ सेय᳘म् पृथिवीॗ सैषा᳘ दृबा नामा᳘थ य᳘या विद्धः᳘ शयित्वा जी᳘वति वा म्रिय᳘ते वा सा᳘ द्विती᳘या त᳘दिद᳘मन्त᳘रिॗक्षᳫं सैषा᳘ रुजा नामा᳘थ यया᳘पैव᳘ राध्नो᳘ति सा᳘ तृती᳘याॗ सासौ द्यौःॗ सैषा᳘ क्षुमा ना᳘मैता हि वै᳘ तिस्र इ᳘षवस्त᳘स्मादस्मै तिस्र इ᳘षूः प्र᳘यछति॥

मूलम् - विस्वरम्

अथास्मै तिस्र इषूः प्रयच्छति । स यया प्रथमया समर्पणेन पराभिनत्ति सैका । सेयं पृथिवी सैषा दृबा नाम । अथ यया विद्धः शयित्वा जीवति वा म्रियते वा- सा द्वितीया । तदिदमन्तरिक्षम् । सैषा रुजा नाम । अथ यया ऽपैव राध्नोति- सा तृतीया । सा ऽसौ द्यौः । सैषा क्षुमा नाम । एता हि वै तिस्र इषवः । तस्मादस्मै तिस्र इषूः प्रयच्छति ॥ २९ ॥

सायणः

अथेषुत्रयदानं विधत्ते- अथास्मा इति । ‘तिस्रः’- इति । लोकत्रयात्मकत्वेन शस्तानामिषूणां लक्षणं सञ्ज्ञां च दर्शयति- स ययेति । ‘समर्पणेन’ परित्यागमात्रेण ‘यया’ ‘परान् भिनत्ति’ शत्रून् विदारयति, तस्या एकस्याः ‘दृबा’- नामधेयायाः पृथिव्यात्मकत्वेन प्राशस्त्यमित्यर्थः । ‘यया’ विद्धस्य ताडितस्य जीवने सन्देहः, तस्या ‘रुजा’- नाम्न्या अन्तरिक्षात्मकत्वम् । यया राजा शत्रुम् ‘अपराध्नोति’ हिनस्त्येव, तस्याः ‘क्षुमा’- नामधेयायाः तृतीयलोकात्मकत्वेन प्राशस्त्यमित्यर्थः । अत्र कञ्चिद् विशेषं कात्यायनः सूत्रयामास- “दृबा ऽसीति प्रतिमन्त्रमादाय तिस्र इषूः प्रयच्छति” (का. श्रौ. सू. १५ । १३९)- इति । तेषां मन्त्राणामयमर्थः । दृबा, “दृ विदारणे”- (धा. पा. क्र्या. प. २१) दृणातीति ‘दृवा’ विदारिका ‘असि’ इति । दृप्यतेर्वा रूपम् । इति प्रथमेषुग्रहणम् । ‘रुजा’ “रुजो भङ्गे” (धा. पा. तु. प. १३५) भङ्गहेतुरिषुरसि । अनेन द्वितीयशरग्रहणम् । ‘क्षुमा’ “क्षुप विधूनने” 37 (सौत्रो धातुः) क्षुपतीति क्षुपा, पकारस्य स्थाने मकारः; शत्रुक्षुपणकारिणी इषुरसि । अनेन तृतीयशरग्रहणम् । एवमादाय दद्यात् ॥ २९ ॥

Eggeling
  1. He then hands him three arrows. That first-one by which he pierces on shooting 38, that is one, that one is this earth, that one is called ‘dr̥bā.’ And the one by which (the enemy) being pierced lies either living or dead, that is the second, that is this air, that is called ‘rujā.’ And the one with which he misses (his aim) 39, that is the third, that is yonder sky, that is called ‘kshumā.’ For these are the three (kinds of) arrows: therefore he hands him three arrows.

३०

विश्वास-प्रस्तुतिः

ताः प्र᳘यच्छति॥
पा᳘तैनं प्रा᳘ञ्चं पा᳘तैनं प्रत्य᳘ञ्चं पा᳘तैनं तिर्य᳘ञ्चं दिग्भ्यः᳘ पाते᳘ति त᳘दस्मै स᳘र्व्वा एव दि᳘शो ऽशरव्याः᳘ करोति तद्य᳘दस्मै ध᳘नुः प्रय᳘च्छति व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘द्राज᳘न्यस्य[[!!]] यद्ध᳘नुर्व्वी᳘र्यवन्तमभि᳘षिञ्चानी᳘ति[[!!]] त᳘स्माद्वा᳘ ऽअस्मा ऽआ᳘युधं प्र᳘यच्छति॥

मूलम् - श्रीधरादि

ताः प्र᳘यच्छति॥
पा᳘तैनं प्रा᳘ञ्चं पा᳘तैनं प्रत्य᳘ञ्चं पा᳘तैनं तिर्य᳘ञ्चं दिग्भ्यः᳘ पाते᳘ति त᳘दस्मै स᳘र्व्वा एव दि᳘शो ऽशरव्याः᳘ करोति तद्य᳘दस्मै ध᳘नुः प्रय᳘च्छति व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘द्राज᳘न्यस्य[[!!]] यद्ध᳘नुर्व्वी᳘र्यवन्तमभि᳘षिञ्चानी᳘ति[[!!]] त᳘स्माद्वा᳘ ऽअस्मा ऽआ᳘युधं प्र᳘यच्छति॥

मूलम् - Weber

ताः प्र᳘यछति॥
पाॗतैनम् प्रा᳘ञ्चम् पाॗतैनम् प्रत्य᳘ञ्चम् पाॗतैनं तिर्य᳘ञ्चं दिग्भ्यः᳘ पाते᳘ति त᳘दस्मै स᳘र्वा एव दि᳘शो ऽशरव्याः᳘ करोति तद्य᳘दस्मै ध᳘नुः प्रय᳘छति वीर्यं᳘ वा᳘ एत᳘द्राजन्य᳘स्य यद्ध᳘नुर्वीर्य᳘वन्तमभि᳘षिञ्चानी᳘ति त᳘स्माद्वा᳘ अस्मा आ᳘युधम् प्र᳘यछति॥

मूलम् - विस्वरम्

ताः प्रयच्छति- “पातैनं प्राञ्चम्, पातैनं प्रत्यञ्चम्, पातैनं तिर्यञ्चम्, दिग्भ्यः पात”- (वा. सं. १० । ८)- इति । तदस्मै सर्वा एव दिशो ऽशरव्याः करोति । तद् यदस्मै धनुः प्रयच्छति । वीर्यं वा ऽएतद्राजन्यस्य- यद्धनुः । वीर्यवन्तमभिषिञ्चानीति । तस्माद्वा ऽअस्मा आयुधं प्रयच्छति ॥ ३० ॥

सायणः

इषुदानमनूद्य मन्त्रं विधत्ते- ताः प्रयच्छतीति । ‘एनं’ यजमान ‘प्राञ्चम्’ प्रागञ्चनम्, प्राग् गन्तारम् हे इषवः ‘पात’ पालयत । ‘प्रत्यञ्चम्’ प्रत्यग्गन्तारम्, ‘तिर्यञ्चम्’ तिर्यग्गन्तारम्, किं बहुना ‘दिग्भ्यः’ सर्वाभ्य ‘पात’ इति । तदस्मा इति । ‘अशरव्याः’ अहिंसकाः; शरव्यं शरलक्ष्यम्, तद्रहिताः ‘करोति’ । अनेन सर्वास्वपि दिक्षु परकीयशरलक्ष्यत्वं निवर्त्त्यते । इमं मन्त्रभिष्वभिमर्शने ऽपि कात्यायनो विनियुक्तवान्- “पातैनमित्यभिमृशति” 40 (का. श्रौ. सू. १५ । १३९) इति । आपस्तम्बो ऽपि- “पात मा प्रत्यञ्चमिति प्रदीयमानामनुमन्त्रयते” (आ. श्रौ. सू. १८ । । १४ । १३) इति । ॥ ३० ॥

Eggeling
  1. These he hands to him with, ‘Protect ye him in front 41!–Protect ye him from behind!–Protect ye him from the side!–Protect ye

him from (all) quarters!’ Thus he makes all the quarters safe from arrows for him. And as to why he hands the bow to him;–this, the bow, truly is the nobleman’s strength: it is because he thinks, ‘I will consecrate him when endowed with strength!’ that he hands the weapon to him 42.

३१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमावि᳘दो व्वाचयति॥
(त्या) आवि᳘र्मर्या ऽइत्य᳘निरुक्तं प्रजा᳘पतिर्व्वा ऽअ᳘निरुक्तस्त᳘देनं प्रजा᳘पतय ऽआ᳘वेदयति᳘ सो ऽस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमावि᳘दो व्वाचयति॥
(त्या) आवि᳘र्मर्या ऽइत्य᳘निरुक्तं प्रजा᳘पतिर्व्वा ऽअ᳘निरुक्तस्त᳘देनं प्रजा᳘पतय ऽआ᳘वेदयति᳘ सो ऽस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - Weber

अ᳘थैनमावि᳘दो वाचयति॥
आवि᳘र्मर्या इत्य᳘निरुक्तम् प्रजा᳘पतिर्वा अ᳘निरुक्तस्त᳘देनम् प्रजा᳘पतय आ᳘वेदयतिॗ सो ऽस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - विस्वरम्

अथैनमाविदो वाचयति- “आविर्मर्याः”- इत्यनिरुक्तम् । प्रजापतिर्वा ऽअनिरुक्तः । तदेनं प्रजापतय ऽआवेदयति । सो ऽस्मै सवमनुमन्यते । तेनानुमतः सूयते ॥ ३१ ॥

सायणः

विधत्ते- अथैनमाविद इति 40 । आवित्त-पदयुक्ताः सप्त मन्त्राः ‘आविदः’ तान् वाचयतीत्यर्थः । आवेदयन्ति ज्ञापयन्ति देवताभ्य एनं यजमानमित्याविदो मन्त्राः ॥ तत्र मन्त्रान् विधत्ते- आविर्मर्या इति । आविर्मर्याः ‘इत्यनिरुक्तम्’ साक्षाद् देवतावाचकपदरहितं मन्त्रं वाचयेदित्यर्थः । हे ‘मर्याः’ ! मरणयोग्या मनुष्याः ! ‘आविः’ प्रकाशो ऽभूत् । अनेन कस्यै देवतायै यजमानमावेदितवान् भवतीत्याशङ्क्य तां देवतां दर्शयति- प्रजापतिरिति । ‘प्रजापतिः’ खलु ‘अनिरुक्तः’ ईदृश इति वक्तुमनर्हः; तस्मादनेन यजुषा अनिरुक्तेन अनिरुक्तात्मने ‘प्रजापतये’ ‘एनं’ यजमानम् आवेदितवान् भवतीत्यर्थः । आवेदनस्य फलमाह- सो ऽस्मा इति । ‘सः’ आवेदितः ज्ञापितः प्रजापतिः ‘अस्मै’ सुन्वते ‘सवम्’ अभिषेकम् ‘अनुमन्यते’ ‘तेन’ प्रजापतिना ‘अनुमतः’ अनुज्ञातः ‘सूयते’ अभिषिच्यते । एवमुत्तरत्रापि व्याख्येयम् ॥ ३१ ॥

Eggeling
  1. Thereupon he makes him pronounce the āvid formulas 43 (Vāj. S. X, 9), ‘In sight, ye mortals! This is mysterious for mysterious is Prajāpati: he thus announces him to Prajāpati, and this one approves of his consecration; and approved by him he is consecrated.

३२

विश्वास-प्रस्तुतिः

(त ऽआ᳘) आ᳘वित्तो ऽअग्नि᳘र्गृह᳘पतिरि᳘ति॥
ब्र᳘ह्म वा᳘ ऽअग्निस्त᳘देनं ब्र᳘ह्मण ऽआ᳘वेदयति त᳘दस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त ऽआ᳘) आ᳘वित्तो ऽअग्नि᳘र्गृह᳘पतिरि᳘ति॥
ब्र᳘ह्म वा᳘ ऽअग्निस्त᳘देनं ब्र᳘ह्मण ऽआ᳘वेदयति त᳘दस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - Weber

आ᳘वित्तो अग्नि᳘र्गृह᳘पतिरि᳘ति॥
ब्र᳘ह्म अग्निस्त᳘देनम् ब्र᳘ह्मण आ᳘वेदयति त᳘दस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - विस्वरम्

“आवित्तो ऽअग्निर्गृहपतिः”- इति । ब्रह्म वा ऽअग्निः । तदेनं ब्रह्मण ऽआवेदयति । तदस्मै सवमनुमन्यते । तेनानुमतः सूयते ॥ ३२ ॥

सायणः

आवित्तो ऽअग्निर्गृहपतिरिति । गृहपतिगुणकः ‘अग्निः’ ‘आवित्तः’ आवेदितः, ज्ञापितः । “वित्तो भोगप्रत्यययोः”- (पा. सू. । ८ । २ । ५८) इति निपातितः । अग्नये यजमानं ज्ञापितवानित्यर्थः ॥ ३२ ॥

Eggeling
  1. ‘Present is Agni, the house-lord;’—Agni is the priesthood (brahman); he thus announces him to the priesthood; and it approves of his consecration, and approved by it he is consecrated.

३३

विश्वास-प्रस्तुतिः

(त ऽआ᳘) आ᳘वित्त ऽइ᳘न्द्रो व्वृद्ध᳘श्रवा ऽइ᳘ति॥
क्षत्रं वा ऽइ᳘न्द्रस्त᳘देनं क्षत्राया᳘वेदयति त᳘दस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त ऽआ᳘) आ᳘वित्त ऽइ᳘न्द्रो व्वृद्ध᳘श्रवा ऽइ᳘ति॥
क्षत्रं वा ऽइ᳘न्द्रस्त᳘देनं क्षत्राया᳘वेदयति त᳘दस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - Weber

आ᳘वित्तो इ᳘न्द्रो वृद्ध᳘श्रवा इ᳘ति॥
क्षत्रं वा इ᳘न्द्रस्त᳘देनं क्षत्राया᳘वेदयति त᳘दस्मै सवम᳘नुमन्यते तेना᳘नुमतः सूयते॥

मूलम् - विस्वरम्

“आवित्त ऽइन्द्रो वृद्धश्रवाः”- इति । क्षत्रं वा ऽइन्द्रः । तदेनं क्षत्रायावेदयति । तदस्मै सवमनुमन्यते । तेनानुमतः सूयते ॥ ३३ ॥

सायणः

अवित्त ऽइन्द्र इति । ‘वृद्धश्रवाः’ । “श्रव इत्यन्ननाम, श्रूयते इति श्रवः” इति हि यास्कः (निरु १० । १ । ३ ।) वृद्धं प्रभूतमन्नं यस्य ॥ ३३ ॥

Eggeling

33 ‘Present is Indra, the far-famed;’–Indra is the nobility: he thus announces him to the nobility; and, it approves of his consecration, and approved by it he is consecrated.

३४

विश्वास-प्रस्तुतिः

(त ऽ) आ᳘वित्तौ मित्राव᳘रुणौ धृत᳘व्रतावि᳘ति॥
प्राणोदानौ वै᳘ मित्राव᳘रुणौ त᳘देनं प्राणोदाना᳘भ्यामा᳘वेदयति ता᳘वस्मै सवम᳘नुमन्येते ता᳘भ्याम᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त ऽ) आ᳘वित्तौ मित्राव᳘रुणौ धृत᳘व्रतावि᳘ति॥
प्राणोदानौ वै᳘ मित्राव᳘रुणौ त᳘देनं प्राणोदाना᳘भ्यामा᳘वेदयति ता᳘वस्मै सवम᳘नुमन्येते ता᳘भ्याम᳘नुमतः सूयते॥

मूलम् - Weber

आ᳘वित्तौ मित्राव᳘रुणौ धृत᳘व्रतावि᳘ति॥
प्राणोदानौ वै᳘ मित्राव᳘रुणौ त᳘देनम् प्राणोदाना᳘भ्यामा᳘वेदयति ता᳘वस्मै सवम᳘नुमन्येते ता᳘भ्याम᳘नुमतः सूयते॥

मूलम् - विस्वरम्

“आवित्तौ मित्रावरुणौ धृतव्रतौ”- इति । प्राणोदानौ वै मित्रावरुणौ, तदेनं प्राणोदानाभ्यामावेदयति । तावस्मै सवमनुमन्येते । ताभ्यामनुमतः सूयते ॥ ३४ ॥

सायणः

आवित्तौ मित्रावरुणाविति । ‘धृतव्रतौ’ व्रतमिति कर्मनाम (निघं. २ । १ । ७) अवधीरितकर्माणौ ॥ ३४ ॥

Eggeling
  1. ‘Present are Mitra and Varuṇa, the upholders of the law;’–Mitra and Varuṇa are the out-breathing and in-breathing: he thus announces him to the out-breathing and in-breathing, and they approve of his consecration, and approved by them he is consecrated.

३५

विश्वास-प्रस्तुतिः

(त ऽ) आ᳘वित्तः पूषा᳘ व्विश्व᳘वेदा ऽइ᳘ति॥
पश᳘वो वै᳘ पूषा त᳘देनं पशु᳘भ्य ऽआ᳘वेदयति᳘ ते ऽस्मै सवम᳘नुमन्यन्ते तैर᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त ऽ) आ᳘वित्तः पूषा᳘ व्विश्व᳘वेदा ऽइ᳘ति॥
पश᳘वो वै᳘ पूषा त᳘देनं पशु᳘भ्य ऽआ᳘वेदयति᳘ ते ऽस्मै सवम᳘नुमन्यन्ते तैर᳘नुमतः सूयते॥

मूलम् - Weber

आ᳘वित्तः पूषा᳘ विश्व᳘वेदा इ᳘ति॥
पश᳘वो वै᳘ पूषा त᳘देनम् पशु᳘भ्य आ᳘वेदयतिॗ ते ऽस्मै सवम᳘नुमन्यन्ते तैर᳘नुमतः सू॥

मूलम् - विस्वरम्

“आवित्तः पूषा विश्ववेदाः”- इति । पशवो वै पूषा । तदेनं पशुभ्य आवेदयति । ते ऽस्मै सवमनुमन्यन्ते । तैरनुमतः सूयते ॥ ३५ ॥

सायणः

आवित्तः पूषा इति । ‘विश्ववेदाः’ सर्वधनः ॥ ३५ ॥

Eggeling
  1. ‘Present is Pūshan, the all-possessing;’

Pūshan is (the lord of) cattle: he thus announces him to the cattle, and they approve of his consecration; and approved by them he is consecrated.

३६

विश्वास-प्रस्तुतिः

(त ऽ) आ᳘वित्ते द्या᳘वापृथिवी᳘ व्विश्व᳘शम्भुवावि᳘ति॥
त᳘देनमाभ्यां द्या᳘वापृथिवी᳘भ्यामा᳘वेदयति ते᳘ ऽअस्मै सवम᳘नुमन्येते ता᳘भ्याम᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त ऽ) आ᳘वित्ते द्या᳘वापृथिवी᳘ व्विश्व᳘शम्भुवावि᳘ति॥
त᳘देनमाभ्यां द्या᳘वापृथिवी᳘भ्यामा᳘वेदयति ते᳘ ऽअस्मै सवम᳘नुमन्येते ता᳘भ्याम᳘नुमतः सूयते॥

मूलम् - Weber

आ᳘वित्ते द्या᳘वापृथिवी᳘ विश्व᳘शम्भुवावि᳘ति॥
त᳘देनमाभ्यां द्या᳘वापृथिवी᳘भ्यामा᳘वेदयति ते᳘ अस्मै सवम᳘नुमन्येते ता᳘भ्याम᳘नुमतः सूयते॥

मूलम् - विस्वरम्

“आवित्ते द्यावापृथिवी विश्वशम्भुवौ”- इति । तदेनमाभ्यां द्यावापृथिवीभ्यामावेदयति । ते ऽअस्मै सवमनुमन्येते । ताभ्यामनुमतः सूयते ॥ ३६ ॥

सायणः

आवित्ते द्यावापृथिवी इति । विश्वशम्भुवौ सर्वस्य जगतः सुखस्य भावयित्र्यौ ॥ ३६ ॥

Eggeling
  1. ‘Present are Heaven and Earth, the all-propitious;’–he thus announces him to those two, the heaven and the earth, and they approve of his consecration; and approved by them he is consecrated.

३७

विश्वास-प्रस्तुतिः

(त ऽ) आ᳘वित्ता᳘ ऽदितिरु᳘रुशर्मे᳘ति॥
(ती) इयं वै᳘ पृथिव्य᳘दितिस्त᳘देनमस्यै᳘ पृथिव्या ऽआ᳘वेदयति᳘ सा ऽस्मै सवम᳘नुमन्यते तया᳘ ऽनुमतः सूयते तद्या᳘भ्य ऽए᳘वैनमेत᳘द्देव᳘ताभ्य ऽआवेद᳘यति[[!!]] ता᳘ ऽअस्मै सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते॥

मूलम् - श्रीधरादि

(त ऽ) आ᳘वित्ता᳘ ऽदितिरु᳘रुशर्मे᳘ति॥
(ती) इयं वै᳘ पृथिव्य᳘दितिस्त᳘देनमस्यै᳘ पृथिव्या ऽआ᳘वेदयति᳘ सा ऽस्मै सवम᳘नुमन्यते तया᳘ ऽनुमतः सूयते तद्या᳘भ्य ऽए᳘वैनमेत᳘द्देव᳘ताभ्य ऽआवेद᳘यति[[!!]] ता᳘ ऽअस्मै सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते॥

मूलम् - Weber

आ᳘वित्ता᳘दितिरु᳘रुशर्मे᳘ति॥
इयं वै᳘ पृथिव्य᳘दितिस्त᳘देनमस्मै᳘ पृथिव्या आ᳘वेदयतिॗ सास्मै सवम᳘नुमन्यते तया᳘नुमतः सूयते तद्या᳘भ्य ए᳘वैनमेत᳘द्देवता᳘भ्य आवेद᳘यति ता᳘ अस्मै सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते॥

मूलम् - विस्वरम्

“अवित्ता ऽदितिरुरुशर्मा”- (वा. सं. १० । ९) इति । इयं वै पृथिव्यदितिः । तदेनमस्यै पृथिव्या ऽआवेदयति । सा ऽस्मै सवमनुमन्यते तया ऽनुमतः सूयते । तद्याभ्य एवैनमेतद्देवताभ्य आवेदयति । ता अस्मै सवमनुमन्यन्ते । ताभिरनुमतः सूयते ॥ ३७ ॥

सायणः

आवित्ता ऽदितिरिति । ‘उरुशर्म्मा’ प्रभूतं सुखं यस्याः, ‘अदितिः’ अखण्डनीया देवमाता । भूमिरेव काञ्चिन्मूर्तिं धृत्वा देवमाता ऽदितिरित्युच्यते । एता देवताः सम्भूय प्रशंसति- तद्याभ्य एवैनामिति ॥ ३७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे तृतीयाध्याये पञ्चमं ब्राह्मणम् ॥ (५-३-५) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे तृतीयाध्यायः समाप्तः ॥ ५-३ ॥

Eggeling
  1. ‘Present is Aditi, of wide shelter;’–Aditi is this earth: he thus announces him to this earth, and she approves of his consecration, and approved by her he is consecrated. Thus to whatever deities he announces him, they approve of his consecration, and approved by them he is consecrated.

  1. 81:1 Viz. before the ‘waters’ deposited there, according to V, 3, 4, 28. ↩︎

  2. भिषिषिंचे AC. भिषिषिचे B. ↩︎

  3. अत्र मूले ‘पृथी ह वै वैन्यः’- इति पाठमनुलक्ष्य भाष्यकारेण ‘पृथी हेति’ इति प्रतीकमुपात्तम् । अयं पुराणप्रसिद्धवैन्यपृथुराजवाचको हि ‘पृथिन्’ शब्दः ‘पृथि’ शब्दो वा भवितुमर्हति । यतस्तद्वाचकयोः ‘पृथिन्,- पृथि’ शब्दयोर्वेदमन्त्रेषु प्रयोगो दृश्यते । तत्र ‘इ’ कारान्त ‘पृथि’ शब्दस्य- “याभिर्व्यश्वमुत पृथिमावतम्” (ऋ. १ । १ । १२ । १५) इत्यत्र “पृथिमेतत्संज्ञं राजर्षिम्” इति भाष्यम्, किंच- “पृथी यद्वा वैन्यः सादनेषु्” (ऋ. ८ । ९ । १० ।) इत्यत्र “वेनस्य पुत्रः पृथ्येतत्संज्ञो राजर्षिः” इति च भाष्यम् । एवं चेतन्मन्त्रद्वयप्रयोगात्- ‘पृथिन्,- पृथि’ शब्दौ वेदे वैन्यवाचकौ सिद्धौ । तथा च स्वरपाठकाराः- “पृथुरिति प्राप्ते छान्दसो वर्णव्यत्ययः” इति स्पष्टमेव वदन्ति । एवं विमर्शे क्रियमाणे ऽत्र भाष्ये- “पृथी हेति” इति, ‘पृथी नाम’ इति प्रयोगस्तु- इन्नन्त ‘पृथिन्’ शब्दाभिप्रायेण; अग्रे ‘पृथये’ इति चतुर्थ्यन्तपदप्रयोग इकारान्त ‘पृथि’ शब्दाभिप्रायेण स्यादिति सुचिरं विचिन्त्य यथालब्ध एष पाठो भाष्ये संरक्षितो ऽस्तीति समवधेयं सुधीभिः । ‘पृथुर्ह वै’ इति मूलपाठस्तु लेखकप्रमादात् । ↩︎

  4. 83:1 Viz. because three of the recipients of these libations–Aṁśa, Bhaga and Aryaman–belong to the deities called Ādityas, or sons of Aditi. ↩︎

  5. 83:2 The water in the Udumbara vessel is now distributed into these four (smaller) vessels. ↩︎

  6. पात्राणि च तूष्णीं पालाशौदुंबरनैयग्रोधपादाश्वत्थान्यभिषेकाय । का. श्रौ. सू. १५ । ११८ । ↩︎

  7. 83:3 That is, by its pendant branches. It is well known that the ficus indica, or banyan-tree, as it is ordinarily called, has the habit of bending its branches down to the ground, which then strike root and develop new secondary trunks, so that a single tree may in course of time form a large grove. Hence the name here used for the tree (nyag-rodha, the downward-growing one). ‘A family tends to multiply families around it, till it becomes the centre of a tribe, just as the banyan tends to surround itself with a forest of its own offspring.’ Maclennan, Primitive Marriage, p. 269. ↩︎

  8. 84:1 See above, p. 34, note 1. The Maruts are constantly identified with the Viś, or people (peasants, &c.) generally, whilst Indra is taken as the divine representative of the ruling class (the king and nobleman). ↩︎

  9. पवित्रे कृत्वा । का० श्रौ० सू० १५ । १२५ । ↩︎

  10. हिरण्यमेनयोः प्रवयति । का० श्रौ० सू० १५ । १२५ । ↩︎

  11. 84:2 See I, 1, 3, 1 (part i, p. 19). ↩︎

  12. ताभ्यामुत्पुनात्यपः सवितुर्व्व इति । का. श्रौ. सू. १५ । १२५ । ↩︎

  13. 84:3 See I, 1, 3, 6 (part i, p. 21). ↩︎

  14. भिरभिषु᳘ण्व ABC. ↩︎

  15. अभिषेचनीयेष्वेना व्यानयति सधमाद इति । का. श्रौ. सू. १५ । १२६ । ↩︎

  16. याज्ञरूपस्यूतं यज्ञरूपाणी स्रुक्चमसादीनी यज्ञपात्राणीत्यर्थः । का. श्रौ. सू. १५ । १३१ । ↩︎

  17. 85:1 This is variously explained, by Kātyāyana and Sāyaṇa, as a linen one, or simply one soaked in ghee, or a tripāṇa one–i.e. one made of triparṇa plants, or a thrice saturated one (with ghee)–or one woven out of materials derived from the tr̥pā plant. It is quite evident that they did not exactly know what to make of it. Indeed, it would almost seem as if the author of the Brāhmaṇa himself was already doubtful as to the meaning of the term. Goldstücker (s.v. abhishecanīya) perhaps rightly takes it to mean a silk under-garment. ↩︎

  18. 86:1 According to the commentators, figures of sacrificial spoons, cups, &c., are sewn in by means of a needle. ↩︎

  19. पांड्वं च निवस्ते । का० श्रौ० सू० । १५ । १३२ । ↩︎ ↩︎ ↩︎

  20. सᳫहत्य A. ↩︎

  21. 86:2 The commentators do not seem to be quite in accord in regard to this particular item of the ceremonial. The most natural explanation, however, seems to be this: the head-band (turban, ushṇīsha) is wound (? once) round the head and tied behind; the ends being then drawn over the shoulders so as to hang down from the neck in the manner of a brahmanical cord (or like the ribbon of an order); and being finally tucked in under the mantle somewhere near the navel. ↩︎

  22. निवीते ऽवगूहते नाभिदेशे परिहरते वा । का. श्रौ. सू. १५ । १३३ । ↩︎

  23. तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमंत्रम् । का० श्रौ० सू० । १५ । १३४ । ↩︎

  24. 86:3 Viz. inasmuch as the garments are intended to symbolically represent the vestures of the embryo and stages of birth. ↩︎

  25. सजन्वा C. सज᳘न्वा AB. ↩︎

  26. 87:1 This change of garments takes place optionally when the Māhendra libation is about to be offered. Katy. XV, 5, 16; 7, 23-26. ↩︎

  27. 87:2 That is, according to Sāyaṇa, the skin, &c. ↩︎

  28. 87:3 That is, at the end of the Rājasūya. In case of the change of garments before the Māhendra libation, the king keeps on the initiation garment in entering and coming out of the bath. This paragraph is of course put in here by anticipation, merely in order to state all that relates to the garments. ↩︎

  29. 87:4 Viz. inasmuch as it is in accordance with what is done at an ordinary Soma-sacrifice, at the end of which the Sacrificer and his wife enter the bath and come forth with fresh garments. See part ii, p. 385. In the present case the king is to enter the bath clothed in one of those three garments, and in coming out he is to put on another of them. ↩︎

  30. 87:5 See part ii, pp. 391-2. ↩︎

  31. 87:6 For the Udavasānīyā-ishṭi, see ib. p. 389. ↩︎

  32. इंद्रस्य व्वात्रघ्नमिति धनुरातनोति । का. श्रौ. सू. १५ । १३६ । ↩︎ ↩︎

  33. कर्कभाष्ये- ‘बाहू धनुःकोट्यायुच्येते’ इति पाठः । ↩︎

  34. धनुः प्रयच्छति त्वया ऽयमिति । का० श्रौ० सू० । १५ । १३८ ॥ ↩︎

  35. 88:1 Viz. the arms of the king, as it would seem, according to Sāyaṇa; but the arms (or ends) of the bow, according to Karka and Mahīdhara. ↩︎

  36. परान्भिनत्ति Sây. (?) ↩︎

  37. “महीधरेण तु ‘क्ष्मायी विधूनने’ क्ष्मायति शत्रून् कम्पयति इति क्षुमा”- इति व्याख्यातम् । ↩︎

  38. 88:2 Literally, on fixing (the arrow on the string); or perhaps, on hitting (the enemy). ↩︎

  39. 88:3 Sāyaṇa takes apa-rādhnoti in the sense of ‘he hurts (or hits)’ the enemy. In the Kāṇva text (Grantha MS.) the three arrows are called rujā, dr̥vā, and kshupā resp. ↩︎

  40. इमं मंत्रमिष्वभिमर्शने ऽपीत्यादितः प्रदीयमानामनुमंत्रयते इतीत्यंतं भाष्यं चिंत्यम् । तद्यथा । शतपथं चानुसृत्य सूत्ररचनाशैलीशीलता आचार्येण भगवता कात्यायनेन तथैव सूत्रितम्- “दृबासीति प्रतिमंत्रमादाय तिस्र इषूः प्रयच्छति पातैनमिति प्रतिमंत्रम्” इति । पितृभूतिकर्कदेवयाज्ञिकानंतदेवप्रभृतिभाष्यकृद्भाष्याण्यपि सूत्रानुसारीण्येव । पद्धतिकृतां पद्धत्यस्तादृश्यः । एतादृक्स्थितावपि स्वस्यापस्तंबीयत्वात् तदभिमानितया कात्यायनस्य कृष्णयजुःशाखानुयायित्वप्रदर्शनाय पूर्ववदक्षरतारतम्यसंध्यवकाशमालोच्य आर्षमपि सूत्रमन्यथा ऽचीक्लृपत् । इति । एतदतिसाहसदृढीकरणाय अस्मिन्नेव ब्राह्मणे एकोनत्रिंशकण्डिकाव्याख्याने अत्र कंचिद्विशेषं कात्यायनः सूत्रयामास दृबासीति प्रतिमंत्रमादाय तिस्र इषूः प्रयच्छतीति अवतरितम् । स विशेषस्तु इमं मंत्रमिष्वभिमर्शने ऽपीत्यादिना ग्रंथेन त्रिंशत्तमकंडिकायां व्याख्याने उद्घाटितः । स्वयमेव अपीति वदता पातैनमिति मंत्राणामिषुप्रदाने विनियोगमंगीकृत्य इष्वभिमर्शने विकल्पप्रदर्शनं कृतं तद्विकल्पदर्शनं (एवमन्यथाकृतौ) भाष्यकृतां चेतोभयास्पदमिति स्पष्टमेव द्योतयतीति । अतः एकोनत्रिंशकंडिकायां अत्र कंचिद्विशेषमिति त्रीणि पदानि विहाय कात्यायनः सूत्रयामास दृबासीति प्रतिमंत्रमादाय तिस्र इषूः प्रयच्छति पातैनमिति प्रतिमंत्रमिति । युक्तमेव । इमं मंत्रमित्यादि अनुमंत्रयते इत्यंतम् । ↩︎ ↩︎

  41. 88:4 Or perhaps,–whilst (he is) moving forward,–whilst moving backward,–whilst moving sideways. ↩︎

  42. 89:1 For a sham fight with arrows forming part of the ceremony in the Black Yajus ritual, see p. 100. note 1. ↩︎

  43. 89:2 That is, as would seem, the formulas of information (or perhaps of announcement, introduction); the first of these formulas beginning with āvis (in sight), the others with the participle āvitta, i.e. ‘obtained, present;’ Sāyaṇa and Mahīdhara, however, taking it in the sense of ‘informed,’–a meaning which, indeed, the word may perhaps have been intended to convey in these formulas. ↩︎