०१

विश्वास-प्रस्तुतिः

स वा᳘ ऽअपः स᳘म्भरति॥
तद्य᳘दपः᳘ सम्भ᳘रति व्वी᳘र्यं[[!!]] वा ऽआ᳘पो व्वी᳘र्यमे᳘वैतद्र᳘समपाᳫँ᳭ स᳘म्भरति॥

मूलम् - श्रीधरादि

स वा᳘ ऽअपः स᳘म्भरति॥
तद्य᳘दपः᳘ सम्भ᳘रति व्वी᳘र्यं[[!!]] वा ऽआ᳘पो व्वी᳘र्यमे᳘वैतद्र᳘समपाᳫँ᳭ स᳘म्भरति॥

मूलम् - Weber

स वा᳘ अपः स᳘म्भरति॥
तद्य᳘दपः᳘ सम्भ᳘रति वीर्यं᳘ वा आ᳘पो वीर्य᳘मेॗवैतद्र᳘समपाᳫं स᳘म्भरति॥

मूलम् - विस्वरम्

अभिषेचनीयानामपां सम्भरणम् ।

स वा ऽअपः सम्भरति । तद्यदपः सम्भरति । वीर्यं वा ऽआपः । वीर्यमेवैतद्रसमपां सम्भरति ॥ १ ॥

सायणः

चतुर्थब्राह्मणे यजमानाभिषेकार्थं सप्तदशसङ्ख्याकानामपां सम्भरणमुच्यते । कात्यायनः अत्र कञ्चिद्विशेषं सूत्रयामास- “इडान्ते ऽपो गृह्णाति, यूपमुत्तरेण नैमित्तिकीरसम्भवाद्, गत्वेतराः, पृथक् पात्रेष्वौदुम्बरेषु" (का. श्रौ. सू. १५ । १०१-१०३) इति आतपवर्ष्याद्यान्युदकानि यूपस्योत्तरप्रदेशे निधाय गृह्णीयात् । इतराः सम्भविनीरपस्तु तत्र तत्र गत्वा गृह्णीयात् । तदिदमप्सम्भरणं विधत्ते- स वा अप इति । उदकसम्भरणं वीर्यात्मना प्रशंसति- तद्यदिति । अपां वीर्यरूपं रसमेव सम्भृतवान् भवतीत्यर्थः ॥ १ ॥

Eggeling
  1. He collects (various kinds of) water. The reason why he collects water, is that–water being vigour–he thereby collects vigour, the essence of die waters.

०२

विश्वास-प्रस्तुतिः

(त्यौ᳘) औ᳘दुम्बरे पात्रे[[!!]]॥
(त्रे᳘ ऽन्नं) अ᳘न्नं वा ऽऊर्गुदुम्ब᳘र ऽऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै[[!!]] त᳘स्मादौ᳘दुम्बरे पा᳘त्रे॥

मूलम् - श्रीधरादि

(त्यौ᳘) औ᳘दुम्बरे पात्रे[[!!]]॥
(त्रे᳘ ऽन्नं) अ᳘न्नं वा ऽऊर्गुदुम्ब᳘र ऽऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै[[!!]] त᳘स्मादौ᳘दुम्बरे पा᳘त्रे॥

मूलम् - Weber

औ᳘दुम्बरे पा᳘त्रे॥
अ᳘न्नं वा᳘ ऊर्गुदुम्ब᳘र ऊॗर्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरे पा᳘त्रे॥

मूलम् - विस्वरम्

औदुम्बरे पात्रे । अन्नं वा ऽऊर्गुदुम्बरः । ऊर्जो ऽन्नाद्यस्यावरुध्यै । तस्मादौदुम्बरे पात्रे ॥ २॥

सायणः

सम्भरणस्य पात्रविशेषं विधत्ते- औदुम्बर इति । ‘पात्रे’- इति जात्येकवचनम् । सर्वाणि सप्तदश पात्राणि औदुम्बराणि भवेयुः । तथा च सूत्रमुदाहृतम् । औदुम्बरत्वमन्नावरोधकत्वेन प्रशंसति- अन्नं वा इति ॥ २ ॥

Eggeling
  1. In a vessel of udumbara wood,–the udumbara (ficus glomerata) being sustenance, (that is) food—for the obtainment of sustenance, food: hence in an udumbara vessel (he mixes the different liquids).

०३

विश्वास-प्रस्तुतिः

स᳘ सारस्वती᳘रेव᳘ प्रथमा᳘ गृह्णाति॥
(त्य) अपो᳘ देवा म᳘धुमतीरगृभ्णन्नि᳘त्यपो᳘ देवा र᳘सवतीरगृह्णन्नि᳘त्ये᳘वैत᳘दाहो᳘र्जस्वती राज᳘स्वश्चि᳘ताना ऽइ᳘ति[[!!]] र᳘सवतीरि᳘त्ये᳘वैत᳘दाह यदाहो᳘र्जस्वतीरि᳘ति[[!!]] राज᳘स्वश्चि᳘ताना[[!!]] इ᳘ति याः प्र᳘ज्ञाता राज᳘स्व इ᳘त्ये᳘वैत᳘दाह या᳘भिर्मित्राव᳘रुणावभ्य᳘षिञ्चन्नि᳘त्येता᳘भिर्हि᳘ मित्राव᳘रुणावभ्य᳘षिञ्चन्या᳘भिरि᳘न्द्रम᳘नयन्नत्य᳘रातीरि᳘त्येता᳘भिर्ही᳘न्द्रं नाष्ट्रा र᳘क्षाᳫँ᳭स्यत्य᳘नयंस्ता᳘भि᳘रभिषिञ्चति[[!!]] व्वाग्वै स᳘रस्वती व्वा᳘चै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

स᳘ सारस्वती᳘रेव᳘ प्रथमा᳘ गृह्णाति॥
(त्य) अपो᳘ देवा म᳘धुमतीरगृभ्णन्नि᳘त्यपो᳘ देवा र᳘सवतीरगृह्णन्नि᳘त्ये᳘वैत᳘दाहो᳘र्जस्वती राज᳘स्वश्चि᳘ताना ऽइ᳘ति[[!!]] र᳘सवतीरि᳘त्ये᳘वैत᳘दाह यदाहो᳘र्जस्वतीरि᳘ति[[!!]] राज᳘स्वश्चि᳘ताना[[!!]] इ᳘ति याः प्र᳘ज्ञाता राज᳘स्व इ᳘त्ये᳘वैत᳘दाह या᳘भिर्मित्राव᳘रुणावभ्य᳘षिञ्चन्नि᳘त्येता᳘भिर्हि᳘ मित्राव᳘रुणावभ्य᳘षिञ्चन्या᳘भिरि᳘न्द्रम᳘नयन्नत्य᳘रातीरि᳘त्येता᳘भिर्ही᳘न्द्रं नाष्ट्रा र᳘क्षाᳫँ᳭स्यत्य᳘नयंस्ता᳘भि᳘रभिषिञ्चति[[!!]] व्वाग्वै स᳘रस्वती व्वा᳘चै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

स᳘ सारस्वती᳘रेव᳘ प्रथमा᳘ गृह्णाति॥
अपो᳘ देवा म᳘धुमतीरगृभ्णन्नि᳘त्यपो᳘ देवा र᳘सवतीरगृह्णन्नि᳘त्येॗवैत᳘दाहो᳘र्जस्वती राजस्व᳘श्चि᳘ताना इ᳘ति र᳘सवतीरि᳘त्येॗवैत᳘दाह यदाहो᳘र्जस्वती᳘रि᳘ति राजस्व᳘श्चि᳘ताना इ᳘ति याः प्र᳘ज्ञाता राज᳘स्व इ᳘त्येॗवैत᳘दाह या᳘भिर्मित्राव᳘रुणावभ्य᳘षिञ्चन्नि᳘त्येता᳘भिर्हि᳘ मित्राव᳘रुणावभ्य᳘षिञ्चन्या᳘भिरि᳘न्द्रम᳘नयन्नत्य᳘रातीरि᳘त्येता᳘भिर्ही᳘न्द्रं नाष्ट्रा र᳘क्षांस्यत्य᳘नयंस्ता᳘भिरभि᳘षिन्=चति वाग्वै स᳘रस्वती वा᳘चैॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

स सारस्वतीरेव प्रथमा गृह्णाति । “अपो देवा मधुमतीरगृभ्णन्”- इति । अपो देवा रसवतीरगृह्णन्नित्येवैतदाह । “ऊर्जस्वती राजस्वश्चितानाः" इति । रसवतीरित्येवैतदाह-यदाहोर्जस्वतीरिति । राजस्वश्चिताना इति । याः प्रज्ञाता राजस्व इत्येवैतदाह । “याभिर्मित्रावरुणावभ्यषिञ्चन्”- इति । एताभिर्हि मित्रावरुणावभ्यषिञ्चन् । “याभिरिन्द्रमनयन्नत्यरातीः"- (वा. सं. १० । १) इति । एताभिर्हीन्द्रं नाष्ट्रा रक्षांस्यत्यनयन् । ताभिरभिषिञ्चति । वाग्वै सरस्वतीवाचैवैनमेतदभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ ३ ॥

सायणः

जलसम्भरणे क्रमं विधत्ते- स सारस्वतीरेवेति । सरस्वत्यां नद्यां भवाः अपः प्रथमं गृह्णीयात् 1 । एव- शब्दो ऽन्ययोगव्यवच्छेदार्थः । तत्र मन्त्रं विधत्ते- अपो देवा इति । ‘मधुमतीः’ मधुररसवतीः, ‘ऊर्जस्वतीः’ विशिष्टान्नरसवतीः ‘राजस्वः’ राजानं सुवते, जनयन्ति, अनुजानन्तीति राजस्वः; ताः ‘चितानाः’ देवतात्वेन चेतयमानाः, ‘अपः’ उदकानि ‘देवाः’ ‘अगृभ्णन्’ भकारच्छान्दसः । ता अपो विशिनष्टि- ‘याभिः’ अद्भिः ‘मित्रावरुणौ’ अभ्यषिञ्चन् देवाः, ‘याभिः’ च ‘इन्द्रम्’ । ‘अरातीः’ अदानशीलाः शत्रुसेना ‘अत्यनयन्’ अतिक्रम्य नीतवन्त इति ॥

मन्त्रं प्रतिपादमनूद्यव्याचष्टे- अपो देवा इति । चिताना इत्यस्य व्याख्यानम्- ‘प्रज्ञाताः’- इति । शेषं निगदसिद्धम् । एतासामभिषेकार्थत्वं प्रशंसति- ताभिरभिषिञ्चतीति । यस्या अपो गृह्यन्ते, तां सरस्वतीं नदीं वागात्मना प्रशंसति- वाग्वै सरस्वतीति । सारस्वतीभिरद्भिरभिषेककरणेन वाचैवाभिषेकं कृतवान् भवतीत्यर्थः । एता वा एका इति । सारस्वत्यः ‘आपः’ ‘एकाः’ एकमुदकम् । एवं सारस्वतीरपो गृहीत्वा षोडशापो गृह्णीयात् ॥

तत्र विशेषं दर्शयामास कात्यायनः- “सारस्वतीर्गृह्णात्यपो देवा इति, जुहोत्युत्तरासु चतुर्गृहीतानि वृष्ण उर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति”- इति (का. श्रौ. सू. १५ । ११४ । ११५) । उत्तरासु षोडशसु चतुर्गृहीतेनाज्येन पूर्वं स्वाहान्तैर्मन्त्रैर्हुत्वा हुत्वा उत्तरेरुत्तरैस्तास्ता अपो गृह्णीयादित्यर्थः ॥ ३ ॥

Eggeling
  1. He first takes (water) 2 from the (river) Sarasvatī, with (Vāj. S. X, i), ‘The gods took honey-sweet water,’–whereby he says, ’the gods took water full of essence;’–‘sapful, deemed king-quickening,’–by ‘sapful’ he means to say, ‘full of essence;’ and by ‘deemed king-quickening’ he means to say, ‘(water) which is recognised as king-quickening;’–‘wherewith they anointed Mitra and Varuṇa,’ for therewith they did anoint (sprinkle) Mitra and Varuṇa;–‘wherewith they guided

Indra past his enemies,’ for therewith they indeed guided Indra past the fiends, the Rakshas. Therewith he sprinkles him,–Sarasvatī being (the goddess of) Speech: it is with speech he thereby sprinkles him. This is one kind of water: it is that he now brings.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाध्वर्युः᳘॥
(श्च) चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा᳘ ऽपो ऽभ्य᳘वैति तद्या᳘ ऽऊर्मी व्य᳘र्दतः पशौ᳘ वा पु᳘रुषे वा ऽभ्य᳘वेते तौ᳘ गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाध्वर्युः᳘॥
(श्च) चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा᳘ ऽपो ऽभ्य᳘वैति तद्या᳘ ऽऊर्मी व्य᳘र्दतः पशौ᳘ वा पु᳘रुषे वा ऽभ्य᳘वेते तौ᳘ गृह्णाति॥

मूलम् - Weber

अ᳘थाध्वर्युः᳟॥
चतुर्गृहीतमा᳘ज्यं गृहीॗत्वाॗपो ऽभ्य᳘वैति तद्या᳘ ऊर्मी व्य᳘र्दतः पशौ वा पु᳘रुषे वाभ्य᳘वेते तौ᳘ गृह्णाति॥

मूलम् - विस्वरम्

(२) अथाध्वर्युश्चतुर्गृहीतमाज्यं गृहीत्वा ऽपो ऽभ्यवैति । तद्या ऽऊर्मी व्यर्दतः । पशौ वा, पुरुषे वा ऽभ्यवेते- तौ गृह्णाति ॥ ४ ॥

सायणः

तदिदानीं क्रमेण विधास्यते- तत्र प्रथममूर्मिद्वयग्रहणं विधत्ते- अथाध्वर्युरिति 3 । चतुर्गृहीताज्येन सह ‘आपः’ वक्ष्यमाणाः षोडश ‘अभि’- लक्ष्य ‘अवैति’ गच्छतीति सर्वशेषः । ‘तत्’ तत्र नद्यां पशुपुरुषयोरन्यतरस्मिन् ‘अभ्यवेते’ अवगाढे सति ‘यौ ऊर्मी’ ‘व्यर्दतः’ विविधं पूर्वापरीभावेन गच्छतः ‘तौ गृह्णीयात्’ ॥ ४ ॥

Eggeling
  1. Thereupon the Adhvaryu, having taken ghee in four ladlings, steps down into the water, and takes the two waves which flow away (in different directions) after an animal or a man has stept (or plunged) into it.

०५

विश्वास-प्रस्तुतिः

स यः प्रा᳘ङुद᳘र्दति॥
तं᳘ गृह्णाति व्वृ᳘ष्ण ऽऊर्मि᳘रसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा व्वृष्ण᳘ ऽऊर्मि᳘रसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देहीति[[!!]]॥

मूलम् - श्रीधरादि

स यः प्रा᳘ङुद᳘र्दति॥
तं᳘ गृह्णाति व्वृ᳘ष्ण ऽऊर्मि᳘रसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा व्वृष्ण᳘ ऽऊर्मि᳘रसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देहीति[[!!]]॥

मूलम् - Weber

स यः प्राङ्गुद᳘र्दति॥
तं᳘ गृह्णाति वृ᳘ष्ण ऊर्मि᳘रसि राष्ट्रदा᳘ मे देहि स्वा᳘हा वृष्ण᳘ ऊर्मि᳘रसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति॥

मूलम् - विस्वरम्

स यः प्राङुदर्दति- तं गृह्णाति- “वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा, वृष्ण ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहि”- इति ॥ ५ ॥

सायणः

तत्रोर्मिद्वयस्यानियमेन समस्य वा ग्रहणे प्राप्ते क्रमं विधत्ते- स यः प्राङिति । ‘यः’ ऊर्मिः ‘प्राङ्’ प्राङ्मुखः ‘उदर्दति’ उद्गच्छेत्, ‘तं’ गृह्णीयात् ॥

तत्र हवनमन्त्रं ग्रहणमन्त्रं च विधत्ते- वृष्ण ऊर्मिरिति । स्वाहान्तो हवनमन्त्रः, द्वितीयो ग्रहणमन्त्र इति विभागः । अर्थस्तु हे ऊर्मे ‘वृष्णः’ वर्षितुः सेक्तुर्वा सम्बन्धी ‘ऊर्मिः’ भवसि । ‘राष्ट्रदाः’ त्वं तु स्वभावत एव राष्ट्रं जनपदं ददातीति राष्ट्रदाः । अतो ‘राष्ट्रं’ ‘मे’ मह्यं ‘देहि’ । ‘स्वाहा’- इति होमार्थः । द्वितीयो ऽप्येवं व्याख्येयः । तत्र ‘अमुष्मै’- इति विशेषः । एतन्नामकाय यजमानाय मह्यं देहीति तस्यार्थः । एवमुपरितना अपि मन्त्रा व्याख्येयाः ॥ ५ ॥

Eggeling
  1. The one which rises in front of him he catches up with (Vāj. S. X, 2), ‘Thou art the male’s wave, a bestower of kingship: bestow kingship on me, hail!–Thou art the male’s wave, a bestower of kingship: bestow kingship on N.N.!’

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यः᳘ प्रत्य᳘ङ्ङुद᳘र्दति॥
तं᳘ गृह्णाति व्वृषसे᳘नो ऽसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा व्वृषसे᳘नो ऽसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चति व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘दपामु᳘दर्दति पशौ᳘ वा पु᳘रुषे वा ऽभ्य᳘वेते व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का आ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यः᳘ प्रत्य᳘ङ्ङुद᳘र्दति॥
तं᳘ गृह्णाति व्वृषसे᳘नो ऽसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा व्वृषसे᳘नो ऽसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चति व्वी᳘र्यं[[!!]] वा᳘ ऽएत᳘दपामु᳘दर्दति पशौ᳘ वा पु᳘रुषे वा ऽभ्य᳘वेते व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का आ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ यः᳘ प्रत्य᳘ङ्ङुद᳘र्दति॥
तं᳘ गृह्णाति वृषसेॗनो ऽसि राष्ट्रदा᳘ राष्ट्र᳘म् मे देहि स्वा᳘हा वृषसेॗनो ऽसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चति वीर्यं᳘ वा᳘ एत᳘दपामु᳘दर्दति पशौ᳘ वा पु᳘रुषे वाभ्य᳘वेते वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

अथ यः प्रत्यङ्ङुदर्दति- तं गृह्णाति- “वृषसेनो ऽसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा, वृषसेनो ऽसि राष्ट्रदा राष्ट्रममुष्मै देहि”- (वा. सं. १० । २) इति । ताभिरभिषिञ्चति । वीर्यं वा ऽएतदुपामुदर्दति । पशौ वा पुरुषे वा ऽभ्यवेते । वीर्येणैवैनमेतदभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ ६ ॥

सायणः

द्वितीयस्योर्मेर्ग्रहणं विधत्ते- अथ यः प्रत्यङ्ङितिवृषसेन इति । ‘वृषसेनः’ “वृषु सेचने,” (धा. पा. भ्वा. प. २०९) सेनो नाम संहतिः; वर्षणशीलजलसङ्घो भवसि । शिष्टं पूर्ववत् ॥

ऊर्मिद्वयं जलवीर्यात्मना प्रशंसति- वीर्यं वा, इति । उभयोरप्यूर्म्योरेकत्वेन परिगणनमाह- एता वा एका आप इति ॥ ६ ॥

Eggeling
  1. He then catches up that (wave) which rises up behind him with, ‘Thou art the lord of a host of males, a bestower of kingship: bestow kingship on me, hail!–Thou art the lord of a host of males, a bestower of kingship: bestow kingship on N.N.!’ With that (water) he sprinkles; for indeed that is the vigour of the water which rises when either beast or man plunges into it: it is with vigour he thus sprinkles him. This is one kind of water: it is that he now brings.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ स्य᳘न्दमाना गृह्णाति॥
अर्थे᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा ऽर्थे᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्वी᳘र्येण वा᳘ ऽएताः᳘ स्यन्दन्ते त᳘स्मादेनाः स्य᳘न्दमाना न किं᳘चन प्र᳘तिधारयते व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ स्य᳘न्दमाना गृह्णाति॥
अर्थे᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा ऽर्थे᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्वी᳘र्येण वा᳘ ऽएताः᳘ स्यन्दन्ते त᳘स्मादेनाः स्य᳘न्दमाना न किं᳘चन प्र᳘तिधारयते व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ स्य᳘न्दमाना गृह्णाति॥
अर्थे᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हार्थे᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति वी᳘र्येण वा᳘ एताः᳘ स्यन्दन्ते त᳘स्मादेनाः स्य᳘न्दमाना न किं᳘चन प्र᳘तिधारयते वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(३) अथ स्यन्दमाना गृह्णाति- “अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, अर्थेत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त-” इति । ताभिरभिषिञ्चति । वीर्येण वा ऽएताः स्यन्दन्ते । तस्मादेनाः स्यन्दमाना न किंचन प्रतिधारयते । वीर्येणैवैनमेतदभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ ७ ॥

सायणः

प्रवहन्तीनामपां ग्रहणं विधत्ते- अथ स्यन्दमाना इति 4 । ‘स्यन्दमानाः’ प्रवहन्तीरपो गृह्णीयात् ॥

तन्मन्त्रस्याप्ययमर्थः- हे आपः ! ‘अर्थतः’ अर्थः प्रयोजनं गच्छन्तीति तादृश्यः ‘स्थ’ भवथ । अत्र ‘दत्त’ इति विशेषः । प्रवहन्तीनामपां वीर्यात्मकत्वमाह- वीर्येणेति । यत आपो वीर्येणैव ‘स्यन्दन्ते’, ‘तस्मात्’ ‘स्यन्दमानाः’ ‘एनाः’ अपः ‘किञ्चन’ वस्त्वपि ‘प्रति’ मुखं ‘न धारयते’ न धृतम्भवति । यद्वा, प्रवहन्तीरपो न कश्चिदपि धारयितुं शक्नोतीत्यर्थः ॥ ७ ॥

Eggeling
  1. He then takes flowing (water) with (Vāj. S. X, 3), ‘Task-plying ye are, bestowers of kingship: bestow ye kingship on me, hail!–Task-plying ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles; for with vigour these (waters) flow, whence nothing stops them flowing along: it is

with vigour he thus sprinkles him. This is one kind of water: it is that he now brings.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ याः स्य᳘न्दमानानां प्रतीपᳫँ᳭ स्य᳘न्दन्ते॥
ता᳘ गृह्णात्यो᳘जस्वती स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वाहौ᳘जस्वती स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्वी᳘र्येण वा᳘ ऽएताः स्य᳘न्दमानानां प्रतीप᳘ᳫँ᳭ स्यन्दन्ते व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ याः स्य᳘न्दमानानां प्रतीपᳫँ᳭ स्य᳘न्दन्ते॥
ता᳘ गृह्णात्यो᳘जस्वती स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वाहौ᳘जस्वती स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्वी᳘र्येण वा᳘ ऽएताः स्य᳘न्दमानानां प्रतीप᳘ᳫँ᳭ स्यन्दन्ते व्वी᳘र्येणै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ याः स्य᳘न्दमानानाम् प्रतीपᳫं स्य᳘न्दन्ते॥
ता᳘ गृह्णात्यो᳘जस्वती स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वाहौ᳘जस्वती स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति वीॗर्येण वा᳘ एताः स्य᳘न्दमानानाम् प्रतीप᳘ᳫं᳘ स्यन्दन्ते वीॗर्येणैॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(४) अथ याः स्यन्दमानानां प्रतीपं स्यन्दन्ते- ता गृह्णाति- “ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, ओजस्वती स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । वीर्येण वा ऽएताः स्यन्दमानानां प्रतीपं स्यन्दन्ते । वीर्येणैवैनमेतदभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ ८ ॥

सायणः

प्रतिलोमं प्रवहन्तीनामपां ग्रहणं विधत्ते- अथ याः स्यन्दमानानामिति । ‘स्यन्दमानानाम्’ अपां मध्ये ‘प्रतीपं’ प्रतिकूलं ‘स्यन्दन्ते’ ‘ताः’ गृह्णीयात् 5 । ‘ओजस्वतीः’ बलवत्यः ‘स्थ’ । वीर्येणेत्यादि पूर्ववद् व्याख्येयम् ॥ ८ ॥

Eggeling
  1. He then takes such (water) as flows against the stream of the flowing water with, ‘Powerful ye are, bestowers of kingship: bestow ye kingship on me, hail!–Powerful ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles, for with vigour indeed those (waters) flow against the stream of the flowing ones: it is with vigour he thus sprinkles him. This is one kind of water: it is that he now brings.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थापयती᳘र्गृह्णाति॥
(त्या᳘) आ᳘पः परिवाहि᳘णी स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वाहा᳘ ऽपः परिवाहि᳘णी स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चत्येत᳘स्यै वा᳘ ऽए᳘षा ऽपच्छि᳘द्यै᳘षैव पु᳘नर्भ᳘वत्य᳘पि ह वा᳘ ऽअस्यान्यराष्ट्री᳘यो राष्ट्रे᳘ भवत्य᳘प्यन्यराष्ट्री᳘यम᳘वहरते त᳘था ऽस्मिन्भूमा᳘नं दधाति भू᳘म्नैवैनमेत᳘दभि᳘षिञ्चत्येता[[!!]] वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थापयती᳘र्गृह्णाति॥
(त्या᳘) आ᳘पः परिवाहि᳘णी स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वाहा᳘ ऽपः परिवाहि᳘णी स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चत्येत᳘स्यै वा᳘ ऽए᳘षा ऽपच्छि᳘द्यै᳘षैव पु᳘नर्भ᳘वत्य᳘पि ह वा᳘ ऽअस्यान्यराष्ट्री᳘यो राष्ट्रे᳘ भवत्य᳘प्यन्यराष्ट्री᳘यम᳘वहरते त᳘था ऽस्मिन्भूमा᳘नं दधाति भू᳘म्नैवैनमेत᳘दभि᳘षिञ्चत्येता[[!!]] वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थापयती᳘र्गृह्णाति॥
आ᳘पः परिवाहि᳘णी स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चत्येत᳘स्यै वा᳘ एॗषापछि᳘द्यैॗषैव पु᳘नर्भ᳘वत्य᳘पि ह वा᳘ अस्यान्यराष्ट्री᳘यो राष्ट्रे᳘ भवत्य᳘प्यन्यराष्ट्री᳘यम᳘वहरते त᳘थास्मिन्भूमा᳘नं दधाति भू᳘म्नैॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(५) अथापयतीर्गृह्णाति- “आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा” आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त"- इति । ताभिरभिषिञ्चति । एतस्यै वा ऽएषा ऽपच्छिद्यैषैव पुनर्भवति । अपि ह वा ऽअस्यान्यराष्ट्रीयो राष्ट्रे भवति । अप्यन्यराष्ट्रीयमवहरते । तथा ऽस्मिन्भूमानं दधाति । भूम्नैवैनमेतदभिषिञ्चति । एता वा ऽएका अपः । ता एवैतत् सम्भरति ॥ ९ ॥

सायणः

नद्याः सकाशाद् अपच्छिद्य गच्छन्तीनामपां ग्रहणं विधत्ते- अथापयतीरिति । ‘अपयतीः’ नदीप्रवाहं परित्यज्य पृथक् प्रवाहरूपेण याः स्यन्दन्ते अपयत्यः, ता गृह्णीयात् 5 । हे ‘आपः ।’ आप्नुवन्ति सर्वमित्यापः, ‘परिवाहिणीः’ परितः सर्वतो वाहो यासां ताः । यद्वा, ‘परिवाहिणीः ’ परित्यज्य पृथग् वहन्त्यः स्थ । तत्र स्वाहान्तो हवनमन्त्रः, उत्तरो ग्रहणमन्त्र इति प्रागुक्तम् । एवमुत्तरत्राप्यवगन्तव्यम् ॥

परिवाहिणीभिरभिषेकं प्रशंसति- एतस्यै वा इति । ‘एषा’ परिवाहिणी नदी, ‘एतस्याः’ महानद्याः सकाशाद् ‘अपच्छिद्य’ पृथक्कृत्य परिवहति, ततः ‘एषैव पुनर्भवति’ संसृष्टा परिणदी पुनरेषैव महानदी भवतीत्यर्थः, यस्मादपच्छिन्ना नदी पुनस्तां महानदीं प्राप्नोति । तस्मादस्यैताभिरद्भिरभिषिक्तस्यान्यराष्ट्रीयः पुरुषः ‘राष्ट्रे’ स्वराष्ट्रे भवति, अन्यराष्ट्रीयम् ‘अवहरते’ वशयति । यथा महानदी परिणदीसंसर्गेण भूयसी जाता, ‘तथा’ तस्मिन् राजनि अन्यराष्ट्रीयसमवधानेन ‘भूमानं’ भूयस्त्वं ‘दधाति’ ॥ ९ ॥

Eggeling
  1. He then takes (water) that flows off (the main current) with, ‘Overflowing waters ye are, bestowers of kingship: bestow ye kingship on me, hail!–Overflowing waters ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles. Now that (flow of water), after separating itself from that (main current), comes to be that again 6; and so there is in his kingdom even one belonging to some other kingdom, and even that man from another kingdom he absorbs: thus he (the Adhvaryu) bestows abundance upon him (the king), and it is with abundance that he thus consecrates him. This is one kind of water: it is that he now brings.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ नदीपतिं᳘ गृह्णाति॥
(त्य) अपां प᳘तिरसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा ऽपां प᳘तिरसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चत्यपां वा᳘ ऽएष प᳘तिर्य᳘न्नदीपति᳘र्व्विशा᳘मे᳘वैनमेतत्प᳘तिं करोत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ नदीपतिं᳘ गृह्णाति॥
(त्य) अपां प᳘तिरसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा ऽपां प᳘तिरसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चत्यपां वा᳘ ऽएष प᳘तिर्य᳘न्नदीपति᳘र्व्विशा᳘मे᳘वैनमेतत्प᳘तिं करोत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ नदीपतिं᳘ गृह्णाति॥
अपाम् प᳘तिरसि राष्ट्रदा᳘ राष्ट्र᳘म् मे देहि स्वा᳘हापाम् प᳘तिरसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चत्यपां वा᳘ एष प᳘तिर्य᳘न्नदीपति᳘र्विशा᳘मेॗवैनमेतत्प᳘तिं करोत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(६) अथ नदीपतिं गृह्णाति- “अपां पतिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा, अपां पतिरसि राष्ट्रदा राष्ट्रममुष्मै देहि"- इति । ताभिरभिषिञ्चति । यन्नदीपतिः । अपां वा ऽएष पतिः- यन्नदीपतिः । विशामेवैनमेतत्पतिं करोति । एता वा ऽएका आपः; ता एवैतत्सम्भरति ॥ १० ॥

सायणः

अथ समुद्रोदकग्रहणं विधत्ते- अथ नदीपतिं गृह्णातीति 7 । नदीपतिसमुद्रस्थितानामपामविशेषेण ग्रहणे प्राप्ते सूद्यानामुच्छलन्तीनामपां ग्रहणं कर्त्तव्यमिति विशेषः; “नदीपतेः सूद्याः”- इति श्रुत्यन्तरात् 8 । सुष्ठु उद्यन्ति ऊर्ध्वं यान्तीति सूद्याः, ता गृह्णीयादित्यर्थः । ‘अपाम्’ उदकानां पतिः पालकः ॥ १० ॥

Eggeling
  1. He then takes the lord of rivers (sea-water) with, ‘Thou art the lord of waters, a bestower of kingship: bestow thou kingship on me, hail!–Thou art the lord of waters, a bestower of kingship: bestow thou kingship on N.N.!’

With that (water) he sprinkles him; and that lord of rivers (the ocean) being the same as the lord of waters, he thereby makes him (the king) the lord of the people. This is one kind of water: it is that he now brings.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ निवेष्यं᳘ गृह्णाति॥
(त्य) अपां ग᳘र्भो ऽसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा ऽपां ग᳘र्भो ऽसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चति ग᳘र्भं वा᳘ ऽएतदा᳘प ऽउपनि᳘वेष्टन्ते व्विशा᳘मे᳘वैनमेतद्ग᳘र्भं करोत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ निवेष्यं᳘ गृह्णाति॥
(त्य) अपां ग᳘र्भो ऽसि राष्ट्रदा᳘ राष्ट्रं᳘ मे देहि स्वा᳘हा ऽपां ग᳘र्भो ऽसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चति ग᳘र्भं वा᳘ ऽएतदा᳘प ऽउपनि᳘वेष्टन्ते व्विशा᳘मे᳘वैनमेतद्ग᳘र्भं करोत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ निवेष्यं᳘ गृह्णाति॥
अपां ग᳘र्भो ऽसि राष्ट्रदा᳘ राष्ट्र᳘म् मे देहि स्वा᳘हापां ग᳘र्भो ऽसि राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै देही᳘ति ता᳘भिरभि᳘षिञ्चति ग᳘र्भं वा᳘ एतदा᳘प उपनि᳘वेष्टन्ते विशा᳘मेॗवैनमेतद्ग᳘र्भं करोत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(७) अथ निवेष्यं गृह्णाति- “अपां गर्भो ऽसि राष्ट्रादा राष्ट्रे मे देहि स्वाहा, अपां गर्भो ऽसि राष्ट्रदा राष्ट्रममुष्मै देहि”- (वा० सं० १० । ३) इति । ताभिरभिषिञ्चति । गर्भं वा ऽएतदाप उपनिवेष्टन्ते । विशामेवैनमेतद्गर्भं करोति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ ११ ॥

सायणः

अथावर्त्तोदकग्रहणं विधत्ते- अथ निवेष्यमिति 7 । निवेष्यते आवर्त्त्यते ऽस्मिन् तृणादिकमिति ‘निवेष्यः’ आवर्त्तः । तत्रत्यमुदकं गृह्णीयात् । ‘अपाम्’ उदकानां ‘गर्भः’ अपत्यं भवति । “गर्भं वा एतद्”- इत्यादिष्वयमर्थः ॥ ११ ॥

Eggeling
  1. He then takes (water from) a whirlpool with, ‘Thou art the offspring of the waters, a bestower of kingship: bestow thou kingship on me, hail!–Thou art the offspring of the waters, a bestower of kingship: bestow thou kingship on N.N.!’ With that (water) he sprinkles. Now the waters enclose the offspring (embryo): he thus makes him the offspring of the people. This is one kind of water: it is that he now brings.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यः स्य᳘न्दमानानाᳫँ᳭ स्थावरो᳘ ह्रदो भ᳘वति॥
प्रत्याता᳘पे ता᳘ गृह्णाति सू᳘र्यत्वचस स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा सू᳘र्यत्वचस स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्व᳘र्चसै᳘वैनमे᳘तदभि᳘षिञ्चति सू᳘र्यत्वचसमे᳘वैनमेत᳘त्करोति व्वरु᳘ण्या वा᳘ ऽएता ऽआ᳘पो भवन्ति याः स्य᳘न्दमानानां न स्य᳘न्दन्ते व्वरुणसवो वा᳘ ऽएष य᳘द्राजसू᳘यं त᳘स्मादेता᳘भिरभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यः स्य᳘न्दमानानाᳫँ᳭ स्थावरो᳘ ह्रदो भ᳘वति॥
प्रत्याता᳘पे ता᳘ गृह्णाति सू᳘र्यत्वचस स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा सू᳘र्यत्वचस स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्व᳘र्चसै᳘वैनमे᳘तदभि᳘षिञ्चति सू᳘र्यत्वचसमे᳘वैनमेत᳘त्करोति व्वरु᳘ण्या वा᳘ ऽएता ऽआ᳘पो भवन्ति याः स्य᳘न्दमानानां न स्य᳘न्दन्ते व्वरुणसवो वा᳘ ऽएष य᳘द्राजसू᳘यं त᳘स्मादेता᳘भिरभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ यः स्य᳘न्दमानानाᳫं स्थावरो᳘ ह्रदो भ᳘वति॥
प्रत्यातापे ता᳘ गृह्णाति सू᳘र्यत्वचस स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वाहा सू᳘र्यत्वचस स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व᳘र्चसैॗवैनमे᳘तदभि᳘षिञ्चति सू᳘र्यत्वचसमे᳘वैनमेत᳘त्करोति वरुॗण्या वा᳘ एता आ᳘पो भवन्ति याः स्य᳘न्दमानानां न स्य᳘न्दन्ते वरुणसवो वा᳘ एष य᳘द्राजसू᳘यं त᳘स्मादेता᳘भिरभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(८) अथ यः स्यन्दमानानां स्थावरो हृदो भवति प्रत्यातापे- ता गृह्णाति- “सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । वर्चसैवैनमेतदभिषिञ्चति । सूर्यत्वचसमेवैनमेतत्करोति । वरुण्या वा ऽएता आपो भवन्ति- याः स्यन्दमानानां न स्यन्दन्ते । वरुणसवो वा ऽएष- यद्राजसूयम् । तस्मादेताभिरभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १२ ॥

सायणः

अथ यः स्यन्दमानानामिति । हे ‘आप’ ! ‘सूर्यत्वचसः’ सूर्यस्य त्वक् दीप्तिर्यासां ताः; यद्वा, सूर्यस्य त्वक् शरीरं प्रतिबिम्बरूपेण यासु तिष्ठति ताः; तथाविधाः ‘स्थः’ । वर्चसैवेति । ‘वर्चसा’ दीप्त्या अभिषिक्तवान् भवति । ‘सूर्यत्वचसं’ सूर्यसमानतेजस्कं कृतवान् भवति ॥

वरुण्या इति । स्थावरा आपो वरुणदेवत्या इत्यर्थः 9वरुणसव इति । ‘राजसूयम्’- इति यत् ‘एषः वरुणसवः’ वरुणाभिषेकः; वरुणो ऽभिषिच्यते यस्मिन्निति सः । अतो वरुणदेवत्याभिः हृद्याभिरद्भिरभिषेकः कर्त्तव्यः ॥ १२ ॥

Eggeling
  1. Then what standing pool of flowing water there is in a sunny spot, that (water) he takes with (Vāj. S. X, 4), ‘Sun-skinned ye are, bestowers of kingship: bestow ye kingship on me, hail!–Sun-skinned ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles: it is with lustre he thereby sprinkles him, and makes him sun-skinned. Now it is to Varuṇa that those waters belong which, (whilst being part) of flowing water, do not flow: and Varuṇa’s quickening (sava) is that Rājasūya: therefore he sprinkles him therewith. This is one kind of water: it is that he now brings.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘ ऽआत᳘पति व्व᳘र्षन्ति॥
ता᳘ गृह्णाति सू᳘र्यवर्चस स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा सू᳘र्यवर्चस स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्व᳘र्चसै᳘वैनमेत᳘दभि᳘षिञ्चति सू᳘र्यवर्चसमे᳘वैनमेत᳘त्करोति मे᳘ध्या वा᳘ ऽएता ऽआ᳘पो भ᳘वन्ति या᳘ ऽआत᳘पति व्व᳘र्षन्त्य᳘प्राप्ता᳘ हीमां भ᳘वन्त्य᳘थैना गृह्णा᳘ति मे᳘ध्यमे᳘वैनमेत᳘त्करोत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘ ऽआत᳘पति व्व᳘र्षन्ति॥
ता᳘ गृह्णाति सू᳘र्यवर्चस स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा सू᳘र्यवर्चस स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्व᳘र्चसै᳘वैनमेत᳘दभि᳘षिञ्चति सू᳘र्यवर्चसमे᳘वैनमेत᳘त्करोति मे᳘ध्या वा᳘ ऽएता ऽआ᳘पो भ᳘वन्ति या᳘ ऽआत᳘पति व्व᳘र्षन्त्य᳘प्राप्ता᳘ हीमां भ᳘वन्त्य᳘थैना गृह्णा᳘ति मे᳘ध्यमे᳘वैनमेत᳘त्करोत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ या᳘ आत᳘पति व᳘र्षन्ति॥
ता᳘ गृह्णाति सू᳘र्यवर्चस स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा सू᳘र्यवर्चस स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व᳘र्चसैॗवैनमेत᳘दभि᳘षिञ्चति सू᳘र्यवर्चसमेॗवैनमेत᳘त्करोति मे᳘ध्या वा᳘ एता आ᳘पो भवन्ति या᳘ आत᳘पति व᳘र्षन्त्य᳘प्राप्ताॗ हीमाम् भ᳘वन्त्य᳘थैना 10 गृह्णा᳘ति मे᳘ध्यमेवैनमेत᳘त्करोत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(९) अथ या आतपति वर्षन्ति- ता गृह्णाति- “सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त” इति । ताभिरभिषिञ्चति । वर्चसैवैनमेतदभिषिञ्चति । सूर्यवर्चसमेवैनमेतत्करोति । मेध्या वा ऽएता आपो भवन्ति- या आतपति वर्षन्ति । अप्राप्ता हीमां भवन्ति । अथैना गृह्णाति । मेध्यमेवैनमेतत्करोति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १३ ॥

सायणः

अथातपवर्ष्याग्रहणं विधत्ते- अथ या आतपतीति 9 । सूर्ये आतपति सति या वर्षन्ति, स्यन्दन्ते, ता गृह्णीयात् । “सूर्यवर्चस इत्यातपति वर्ष्याणाम्”- इति हि आपस्तम्बः (आ. श्रौ. सू. १८ । १३ । १०) । ‘सूर्यवर्चसः’ सूर्यदीप्तियुक्ताः । शिष्टं पूर्ववत् । मेध्या वा इति । सूर्यतेजसा युक्तत्वात् आतपवर्ष्याः शुद्धा इत्यर्थः । तासां ग्रहणे कञ्चिद् विशेषं विधत्ते- अप्राप्ता हीति । ‘इमां’ भूमिम् ‘अप्राप्ताः भवन्ति’, भूमौ न पतिता भवन्ति; ‘अथ’ तदानीमेव ‘एनाः’ अपः गृह्णीयात् ॥ १३ ॥

Eggeling
  1. He then catches such (water) as it rains while the sun shines, with, ‘Lustrous as the sun ye are, bestowers of kingship: bestow ye kingship on me, hail!–Lustrous as the sun ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With this (water) he sprinkles: it is with lustre he thereby sprinkles him, and lustrous

as the sun he thereby makes him. And pure indeed is such water as it rains while the sun shines, for before it has reached this (earth), he catches it: he thus makes him pure thereby. This is one kind of water: it is that he now brings.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वैशन्ती᳘र्गृह्णाति॥
मा᳘न्दा स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा मा᳘न्दा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्वि᳘शमे᳘वास्मा ऽएत᳘त्स्थावराम᳘नपक्रमिणीं करोत्येता वा ऽए᳘का आ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वैशन्ती᳘र्गृह्णाति॥
मा᳘न्दा स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा मा᳘न्दा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति व्वि᳘शमे᳘वास्मा ऽएत᳘त्स्थावराम᳘नपक्रमिणीं करोत्येता वा ऽए᳘का आ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ वैशन्ती᳘र्गृह्णाति॥
मा᳘न्दा स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा मा᳘न्दा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति वि᳘शमेॗवास्मा एत᳘त्स्थावराम᳘नपक्रमिणीं करोत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१०) अथ वैशन्तीर्गृह्णाति- “मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, मान्दा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति विशमेवास्मा ऽएतत् स्थावरामनपक्रमिणीं करोति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १४ ॥

सायणः

अथ सरस्यानामपां ग्रहणं विधत्ते- अथ वैशन्तीरिति । वैशन्तो ऽल्पसरः, तत्र भवा अपो गृह्णीयात् 11 । हे आपः ! ‘मान्दाः स्थ’ प्रवाहाभावात् मन्दस्वभावाः स्थ । यद्वा, मन्दते रूपम् । भूतानि यत्र मन्दन्त इति मान्दाः । विशमेवेति । मान्दाभिः अद्भिरभिषेकेण ‘अस्मै’ ‘विशं’ प्रजां ‘स्थावरां’ स्थिराम् अनपक्रमिणीं स्वाधीनां कृतवान् भवतीत्यर्थः ॥ १४ ॥

Eggeling
  1. He then takes (water) from a pond with, ‘Pleasing ye are, bestowers of kingship: bestow ye kingship on me!–Pleasing ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles: he thereby makes the people steady and faithful to him. This is one kind of water: it is that he now brings.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ कू᳘प्या गृह्णाति॥
व्व्रजक्षि᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा व्व्रजक्षि᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति तद्या᳘ इमां प᳘रेणा᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरत्यपा᳘मु चैव᳘ सर्व्वत्वा᳘य त᳘स्मादेता᳘भिरभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ कू᳘प्या गृह्णाति॥
व्व्रजक्षि᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा व्व्रजक्षि᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति तद्या᳘ इमां प᳘रेणा᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरत्यपा᳘मु चैव᳘ सर्व्वत्वा᳘य त᳘स्मादेता᳘भिरभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ कू᳘प्या गृह्णाति॥
व्रजक्षि᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा व्रजक्षि᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति तद्या᳘ इमाम् प᳘रेणा᳘पस्ता᳘ एॗवैतत्स᳘म्भरत्यपा᳘मु चैव᳘ सर्वत्वा᳘य त᳘स्मादेता᳘भिरभि᳘श्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(११) अथ कूप्या गृह्णाति- “व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, व्रजक्षित स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । तद् या इमां परेणापस्ताः- एवैतत्संभरति । अपामु चैव सर्वत्वाय । तस्मादेताभिरभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १५ ॥

सायणः

कूप्यानामपां ग्रहणं विधत्ते- अथ कूप्या इति । कूपे भवाः कूप्याः । व्रजक्षितः स्थेति । ‘व्रजः’- इति मेघनामसु पठितः, (निघं. १ । १० । ११) इह तूदकधारणसामान्यात् कूपो ऽभिधीयते व्रजे कूपे क्षितः निवसन्त्यः। “क्षि निवासगत्योः"- (धा. पा. तु. प. १२६) क्विप् । कूपस्थाः स्थ । तद्या इमामिति । ‘इमां’ भूमिं ‘परेण’ भूमेरधस्ताद् विप्रकृष्टे देशे कूपे स्थिताः अपः गृह्णीयात् । किमर्थं भूमिस्थितानामपां ग्रहणम् ? तत्राह- अपामु चेति । ‘अपां सर्वत्वाय’ सर्वेषामुदकानां समष्ट्या इत्यर्थः ॥ १५ ॥

Eggeling
  1. He then draws (water) from a well with, ‘Fold-dwellers ye are, bestowers of kingship: bestow ye kingship on me, hail!–Fold-dwellers ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With this (water) he sprinkles. He thereby brings (some of) the water which is beyond this (earth), and also (he does so) for the completeness of the waters, this is why he sprinkles him therewith. This is one kind of water: it is that he now brings.

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रुष्वा[[!!]] गृह्णाति॥
व्वा᳘शा स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा व्वा᳘शा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्तेति ता᳘भिरभि᳘षिञ्चत्यन्ना᳘द्येनै᳘वैनमेत᳘दभि᳘षिञ्चत्यन्ना᳘द्यमे᳘वास्मिन्नेत᳘द्दधातीदं वा᳘ ऽअसा᳘वादित्य᳘ उद्य᳘न्नेव य᳘था ऽय᳘मग्नि᳘र्निर्द᳘हेदेवमो᳘षधीरन्ना᳘द्यं नि᳘र्दहति त᳘देता आ᳘पो ऽभ्यवय᳘त्यः शमयन्ति न᳘ ह वा᳘ ऽइ᳘हान्ना᳘द्यं प᳘रिशिष्यते य᳘देता ऽआ᳘पो᳘ नाभ्यवेयु᳘रन्ना᳘द्येनै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रुष्वा[[!!]] गृह्णाति॥
व्वा᳘शा स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा व्वा᳘शा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्तेति ता᳘भिरभि᳘षिञ्चत्यन्ना᳘द्येनै᳘वैनमेत᳘दभि᳘षिञ्चत्यन्ना᳘द्यमे᳘वास्मिन्नेत᳘द्दधातीदं वा᳘ ऽअसा᳘वादित्य᳘ उद्य᳘न्नेव य᳘था ऽय᳘मग्नि᳘र्निर्द᳘हेदेवमो᳘षधीरन्ना᳘द्यं नि᳘र्दहति त᳘देता आ᳘पो ऽभ्यवय᳘त्यः शमयन्ति न᳘ ह वा᳘ ऽइ᳘हान्ना᳘द्यं प᳘रिशिष्यते य᳘देता ऽआ᳘पो᳘ नाभ्यवेयु᳘रन्ना᳘द्येनै᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ प्रु᳘ष्वा गृह्णाति॥
वा᳘शा स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा वा᳘शा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्तेति ता᳘भिरभि᳘षिञ्चत्यन्ना᳘द्येनैॗवैनमेत᳘दभि᳘षिञ्चत्यन्ना᳘द्यमेॗवास्मिन्नेत᳘द्दधातीदं वा᳘ असा᳘वादित्य᳘ उद्य᳘न्नेव य᳘थाय᳘मग्नि᳘र्निर्द᳘हेदेवमो᳘षधीरन्ना᳘द्यं नि᳘र्दहति त᳘देता आ᳘पो ऽभ्यवय᳘त्यः शमयन्ति न᳘ ह वा᳘ इॗहान्ना᳘द्यं प᳘रिशिष्यते य᳘देता आ᳘पोॗ नाभ्यवेयु᳘रन्ना᳘द्येनैॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१२) अथ प्रुष्वा गृह्णाति- “वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, वाशा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । अन्नाद्येनैवैनमेतदभिषिञ्चति । अन्नाद्यमेवास्मिन्नेतद्दधाति । इदं वा ऽअसावादित्य उद्यन्नेव- यथा ऽयमग्निर्निर्दहेद् एवमोषधीरन्नाद्यं निर्दहति । तदेता आपो ऽभ्यवयत्यः शमयन्ति। न ह वा ऽइहान्नाद्यं परिशिष्येत । यदेता आपो नाभ्यवेयुः । अन्नाद्येनैवैनमेतदभिषिञ्चति । एता वा एका आपः ता एवैतत्सम्भरति ॥ १६ ॥

सायणः

अथ नीहारोदकानां ग्रहणं विधत्ते- अथ प्रुष्वा इति 12 ‘प्रुष्वाः’ नीहारा हे आपः ‘वाशाः स्थ’ । “वश कान्तौ” (धा. पा. अ. प. ७०) सर्वैः काम्यमाना भवथ । यद्वा, वश्याः स्थ नीहारो हि नदीप्रवाहवन्मनुष्यादिगतिं न प्रतिबध्नाति, अतो वश्यत्वम् । प्रुष्वाणामन्नाद्यात्मकत्वमुपपादयति- इदं वा असाविति । ‘उद्यन्’ ‘असौ’ अन्तरिक्षे दृश्यमानः ‘आदित्यः’ ‘इदम्’ ओषधिरूपम् ‘अन्नाद्यं’ निर्दहति । अन्नं च तदाद्यमदनीयं चेत्यन्नाद्यम् । तत्र दृष्टान्तः- यथा ऽयमग्निर्निर्दहेदेवमित्यादि । ‘तत्’ तदा सस्यानामातपजातम्लानिसमये नीहारगताः ‘आपः’ ‘अभ्यवयत्यः’ । सव्यतिरेकं दर्शयति- न ह वेत्यादिना । तस्मादोषधिवर्द्धनहेतुभूताभिः प्रुष्वाभिरद्भिः अभिषेकेण यजमाने अन्नाद्यमेव निहितवान् भवतीत्यर्थः ॥ १६ ॥

Eggeling
  1. He then takes dew-drops 13 with, ‘Devoted 14

ye are, bestowers of kingship: bestow ye kingship on me, hail!–Devoted ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles: it is with food he thereby consecrates him, and food he thereby bestows upon him, For even as this fire burns up (the wood) so does that sun yonder, even in rising, burn up the plants, the food. But those waters coming down, quench that (heat), for if those waters were not to come down, there would be no food left remaining here: it is with food he thus sprinkles him. This is one kind of water: it is that he now brings.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ म᳘धु गृह्णाति॥
श᳘विष्ठा स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा श᳘विष्ठा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चत्यपां᳘ चै᳘वैनमेतदो᳘षधीनां च र᳘सेनाभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ म᳘धु गृह्णाति॥
श᳘विष्ठा स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा श᳘विष्ठा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चत्यपां᳘ चै᳘वैनमेतदो᳘षधीनां च र᳘सेनाभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ म᳘धु गृह्णाति॥
श᳘विष्टा स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा श᳘विष्ठा स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चत्यपां᳘ चैॗवैनमेतदो᳘षधीनां च र᳘सेनाभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१३) अथ मधु गृह्णाति । “शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, शविष्ठा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । अपां चैवैनमेतदोषधीनां च रसेनाभिषिश्वति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १७ ॥

सायणः

अथ मधुनो ग्रहणं विधत्ते- अथ मध्विति । हे ‘मधु !’ द्रवरूपा आपः ‘शविष्ठाः’ बलवत्तमा ‘स्थ’ अपाञ्चैवेति । ‘एतत्’ एताभिः मधुद्रवरूपाभिरद्भिः अभिषेकेण ‘अपां च ओषधीनाञ्च’ ‘रसेन’ अभिषिक्तवान् भवति; मधुनो द्व्यात्मकत्वादित्यर्थः ॥ १७ ॥

Eggeling
  1. He then takes honey with, ‘Most powerful ye are, bestowers of kingship: bestow ye kingship on me, hail!–Most powerful ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With this (water) he sprinkles, and it is by the essence of the waters and plants that he thereby sprinkles him. This is one kind of water: it is that he now brings.

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ गो᳘र्व्विजा᳘यमानाया ऽउ᳘ल्ब्या गृह्णाति॥
श᳘क्वरी स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा श᳘क्वरी स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशु᳘भिरे᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ गो᳘र्व्विजा᳘यमानाया ऽउ᳘ल्ब्या गृह्णाति॥
श᳘क्वरी स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा श᳘क्वरी स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशु᳘भिरे᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ गो᳘र्विजा᳘यमानाया उ᳘ल्ब्या गृह्णाति॥
श᳘क्वरो स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा श᳘क्वरी स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशु᳘भिरेॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१४) अथ गोर्विजायमानाया उल्ब्या गृह्णाति- “शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, शक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १८ ॥

सायणः

अथ गोरुल्ब्यानां ग्रहणं विधत्ते- अथ गोरिति 15 । ‘विजायमानायाः’ प्रसूयमानायाः ‘गोः’ “उल्ब्याः” उल्बे गर्भवेष्टने भवाः अपः गृह्णीयात् । हे आपः ! ‘शक्वरीः’ गर्भरक्षणे शक्ताः समर्था भवथ ।

पशुभिरिति । पशुसम्बन्धिनीभिरेताभिरद्भिः अभिषेकेण ‘पशुभिः एवं’ एनं सुन्वन्तमभिषिक्तवान् भवतीत्यर्थः ॥ १८ ॥

Eggeling
  1. He then takes embryonic (waters) of a calving cow with, ‘Mighty ye are, bestowers of kingship: bestow ye kingship on me, hail!–Mighty ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles: it is with cattle he thereby consecrates him. This is one kind of water: it is that he now brings.

१९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प᳘यो गृह्णाति॥
जनभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा जनभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशु᳘भिरे᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प᳘यो गृह्णाति॥
जनभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा जनभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशु᳘भिरे᳘वैनमेत᳘दभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ प᳘यो गृह्णाति॥
जनभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा जनभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशु᳘भिरेॗवैनमेत᳘दभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१५) अथ पयो गृह्णाति- “जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, जनभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त"- इति । ताभिरभिषिञ्चति । पशुभिरेवैनमेतदभिषिञ्चति । एता वा ऽएका आपः । ता एवैतत्सम्भरति ॥ १९ ॥

सायणः

अथ पयसां ग्रहणं विधत्ते- अथ पय 15 इति । हे क्षीरात्मिका आपः ! ‘जनभृतः स्थ’ जनान् बिभ्रतीति जनभृतः; क्षीरेण हि प्राणिजातं पुष्यते ॥ १९ ॥

Eggeling
  1. He then takes milk with, ‘Man-supporting ye are, bestowers of kingship: bestow ye kingship on me, hail!–Man-supporting ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles:

it is with cattle he thereby consecrates him. This is one kind of water: it is that he now brings.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ घृतं᳘ गृह्णाति॥
व्विश्वभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा व्विश्वभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशूना᳘मे᳘वैनमेतद्र᳘सेनाभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ घृतं᳘ गृह्णाति॥
व्विश्वभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्रं᳘ मे दत्त स्वा᳘हा व्विश्वभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशूना᳘मे᳘वैनमेतद्र᳘सेनाभि᳘षिञ्चत्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ घृतं᳘ गृह्णाति॥
विश्वभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘म् मे दत्त स्वा᳘हा विश्वभृ᳘त स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘ति ता᳘भिरभि᳘षिञ्चति पशूना᳘मेॗवैनमेतद्र᳘सेनाभि᳘षिञ्चत्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१६) अथ घृतं गृह्णाति- “विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा, विश्वभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । ताभिरभिषिञ्चति । पशूनामेवैनमेतद्रसेनाभिषिञ्चति । एता वा ऽएका आपः सा एवैतत्सम्भरति ॥ २० ॥

सायणः

अथ घृतस्य ग्रहणं विधत्ते- अथ घृतमिति । ‘विश्वभृतः स्थ’ हे घृतद्रवरूपाः आपः ! विश्वपोषिका भवथ । पशूनामिति । घृतस्य पशुरसत्वं क्षीरादिद्वारा प्रसिद्धम् ॥ २० ॥

Eggeling
  1. He then takes clarified butter with, ‘All-supporting ye are, bestowers of kingship: bestow ye kingship on me, hail!–All-supporting ye are, bestowers of kingship: bestow ye kingship on N.N.!’ With that (water) he sprinkles: it is with the essence of cattle he thereby consecrates him. This is one kind of water: it is that he now brings.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ म᳘रीचीः॥
(र) अञ्जलि᳘ना संगृह्या᳘पिसृजत्या᳘पः स्वरा᳘ज स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘त्येता वा ऽआ᳘पः स्वरा᳘जो यन्म᳘रीचयस्ता यत्स्य᳘न्दन्त ऽइवा᳘न्यो᳘ ऽन्य᳘स्या ऽए᳘वैत᳘च्छ्रिया ऽअ᳘तिष्ठमाना ऽउत्तराधरा᳘ ऽइव भ᳘वन्त्यो यन्ति स्वा᳘राज्यमे᳘वास्मिन्नेत᳘द्दधात्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ म᳘रीचीः॥
(र) अञ्जलि᳘ना संगृह्या᳘पिसृजत्या᳘पः स्वरा᳘ज स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘त्येता वा ऽआ᳘पः स्वरा᳘जो यन्म᳘रीचयस्ता यत्स्य᳘न्दन्त ऽइवा᳘न्यो᳘ ऽन्य᳘स्या ऽए᳘वैत᳘च्छ्रिया ऽअ᳘तिष्ठमाना ऽउत्तराधरा᳘ ऽइव भ᳘वन्त्यो यन्ति स्वा᳘राज्यमे᳘वास्मिन्नेत᳘द्दधात्येता वा ऽए᳘का ऽआ᳘पस्ता᳘ ऽए᳘वैतत्स᳘म्भरति॥

मूलम् - Weber

अ᳘थ म᳘रीचीः॥
अञ्जलि᳘ना संगृह्या᳘पिसृजत्या᳘पः स्वरा᳘ज स्थ राष्ट्रदा᳘ राष्ट्र᳘ममु᳘ष्मै दत्ते᳘त्येता वा आ᳘पः स्वरा᳘जो यन्म᳘रीचयस्ता यत्स्य᳘न्दन्त इवाॗन्यो ऽन्य᳘स्या एॗवैत᳘छ्रिया अ᳘तिष्ठमाना उत्तराधरा᳘ इव भ᳘वन्त्यो यन्ति स्वा᳘राज्यमेॗवास्मिन्नेत᳘द्दधात्येता वा ए᳘का आ᳘पस्ता᳘ एॗवैतत्स᳘म्भरति॥

मूलम् - विस्वरम्

(१७) अथ मरीचीरञ्जलिना सङ्गृह्यापिसृजति- “आपः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त”- इति । एता वा ऽआपः स्वराजो- यन्मरीचयः । ता यत्स्यन्दन्त ऽइवान्यो ऽन्यस्या एवैतच्छ्रिया ऽअतिष्ठमाना उत्तराधरा इव भवन्त्यो यन्ति- स्वाराज्यमेवास्मिन्नेतद्दधाति । एता वा एका आपः । ता एवैतत्सम्भरति ॥ २१ ॥

सायणः

एतदेव सारस्वतवर्जं चतुर्गृहीताज्येन पूर्वं हुत्वा-हुत्वा पञ्चदशानामपां ग्रहणं विहितम्, अथान्तिमस्य जलस्य ग्रहणं सविशेषं विधत्ते- अथ मरीचीरिति । ‘मरीचीः’ ‘अञ्जलिना’ पात्रेण ‘सङ्गृह्य’ गृहीत्वा ‘अपिसृजति’ । सर्वासु गृहीतासु अप्सु संसृजेदित्यर्थः । अत्र सूत्रम्- “आपः स्वराज इति मरीचीगृहीत्वा ऽञ्जलिना सर्वासु संसृजति”- (का. श्रौ. सू. १५ । ११६ ।) इति हे मरीचिरूपा आपः ! ‘स्वराजः स्थ’ स्वयमेव राजमाना भवथ । अत्र होमाभावात् स्वाहान्तः पूर्वो मन्त्रो न पठितः । कथं मरीचीनामप्त्वेन परिगणनमिति तदुपपादयति- एता वा आप इति । ‘मरीचयः’ इति ‘यत्,’ ‘एताः’ ‘स्वराजः’ स्वयमेव दीप्यमानाः ‘आपः’ । ता यत् स्यन्दन्त इति । ‘यत्’ यस्मात् ‘ताः’ मरीचयः ‘स्यन्दन्त इव’ प्रवहन्तीव । ‘इव’- शब्दः उपमार्थे साक्षात् प्रवहणाभावात् । यथा जलसङ्घा उपर्युपरिभावेन वर्त्तन्ते, तद्वदेता मरीचयः ‘अन्यो ऽन्यस्याः’ मरीचेः ‘श्रियै’ शोभायै ‘अतिष्ठमानाः’ स्थातुमसहिष्णवः ‘उत्तराधरा इव भवन्त्यः’ ‘यन्ति’ गच्छन्ति । अतो जलसाम्यादप्त्वेन परिगणनमित्यर्थः । मरीचीनां ग्रहणं स्वाराज्यहेतुत्वेन प्रशंसति- स्वाराज्यमिति । यतो ‘मरीचयः’ स्वराज आपः ॥ २१ ॥

Eggeling
  1. Having then caught up (moist) sun-motes with the hollow of his hands, he mixes them (with the other kinds of water), with, ‘Self-ruling waters ye are, bestowers of kingship: bestow ye kingship on N.N.!’ For those sun-motes are indeed self-ruling waters, since they are flowing, as it were, and, not yielding to one another’s superiority, keep being now higher now lower: he thus thereby bestows self-ruling power upon him. This is one kind of water: it is that he now brings.

२२

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः᳘॥
सप्त᳘दशापः स᳘म्भरति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘स्मात्सप्त᳘दशापः स᳘म्भरति॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः᳘॥
सप्त᳘दशापः स᳘म्भरति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘स्मात्सप्त᳘दशापः स᳘म्भरति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
सप्त᳘दशापः स᳘म्भरति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘स्मात्सप्त᳘दशापः स᳘म्भरति 16

मूलम् - विस्वरम्

ता वा ऽएताः सप्तदशापः सम्भरति । सप्तदशो वै प्रजापतिः । प्रजापतिर्यज्ञः । तस्मात्सप्तदशापः सम्भरति ॥ २२ ॥

सायणः

सम्भृतानामपां सप्तदशसङ्ख्यां प्रजापत्यात्मना स्तौति- ता वा एताः सप्तदशेति । प्रजापतेः सप्तदशत्वं प्रागुक्तम् (श. प. ५ । १ । २ । ११ । भाष्ये) ॥ २२ ॥

Eggeling
  1. These then are seventeen (kinds of) water he brings together, for Prajāpati is seventeenfold, and Prajāpati is the sacrifice: that is why he brings together seventeen kinds of water.

२३

विश्वास-प्रस्तुतिः

षो᳘डश ता ऽआ᳘पो या᳘ ऽअभिजुहो᳘ति॥
षो᳘डशा᳘हुतीर्जुहोति ता द्वा᳘त्रिᳫँ᳭ शद्द्वयी᳘षु न᳘ जुहोति सारस्वती᳘षु च म᳘रीचिषु च ताश्च᳘तुस्त्रिᳫँ᳭शत्त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शस्त᳘देनं प्रजा᳘पतिं करोति॥

मूलम् - श्रीधरादि

षो᳘डश ता ऽआ᳘पो या᳘ ऽअभिजुहो᳘ति॥
षो᳘डशा᳘हुतीर्जुहोति ता द्वा᳘त्रिᳫँ᳭ शद्द्वयी᳘षु न᳘ जुहोति सारस्वती᳘षु च म᳘रीचिषु च ताश्च᳘तुस्त्रिᳫँ᳭शत्त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शस्त᳘देनं प्रजा᳘पतिं करोति॥

मूलम् - Weber

षो᳘डश ता आ᳘पो या᳘ अभिजुहो᳘ति॥
षो᳘डशा᳘हुतीर्जुहोति ता द्वा᳘त्रिंशद्द्वयी᳘षु न᳘ जुहोति सारस्वती᳘षु च म᳘रीचिषु च ताश्च᳘तुस्त्रिंशत्त्र᳘यस्त्रिंशद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिंशस्त᳘देनम् प्रजा᳘पतिं करोति॥

मूलम् - विस्वरम्

षोडश ता आपो- या अभिजुहोति । षोडशाहुतीर्जुहोति । ता द्वात्रिंशत् । द्वयीषु न जुहोति- सारस्वतीषु च मरीचिषु च । ताश्चतुस्त्रिंशत् । त्रयस्त्रिंशद्वै देवाः, प्रजापतिश्चतुस्त्रिंशः । तदेनं प्रजापतिं करोति ॥ २३ ॥

सायणः

अथोक्तानां सारस्वतीप्रभृतिमरीच्यन्तानामपामाहुतीनां च सङ्ख्यां समस्य प्रजापत्यात्मना प्रशंसति- षोडश ता आप इति । ‘याः’ ‘आपः’ अभिलक्ष्य जुहोति, ‘ताः’ ‘षोडश’ ऊर्मिद्वयस्य विवेके षोडशसङ्ख्याकाः भवन्ति; आहुतयो ऽपि षोडश; आहुतिभिः रहिताः सारस्वत्यो मरीचय इति द्वय्यः; ताः सम्भूय चतुस्त्रिंशत् सम्पद्यते । अत्र चतुस्त्रिंशत्सम्पत्त्या चतुस्त्रिंशदेवतात्मकं प्रजापतिमेव कृतवान् भवतीति तत्करणं प्रशस्तमित्यर्थः ॥ २३ ॥

Eggeling
  1. Now sixteen kinds of water are those he offers upon; and he offers sixteen oblations: that makes thirty-two. On two of them he does not offer, viz. on the water from the Sarasvatī and on the sun-motes: that makes thirty-four. For three and thirty are the gods, and Prajāpati is the thirty-fourth: he thus makes him to be Prajāpati (the lord of creatures).

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्धुत्वा᳘ हुत्वा गृह्णा᳘ति॥
व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रेणै᳘वैतदा᳘ज्येन स्पृत्वा᳘ स्पृत्वा स्वीकृ᳘त्य गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्धुत्वा᳘ हुत्वा गृह्णा᳘ति॥
व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रेणै᳘वैतदा᳘ज्येन स्पृत्वा᳘ स्पृत्वा स्वीकृ᳘त्य गृह्णाति॥

मूलम् - Weber

अ᳘थ य᳘द्धुत्वा᳘-हुत्वा गृह्णा᳘ति॥
व᳘ज्रो वा आ᳘ज्यं व᳘ज्रेणैॗवैतदा᳘ज्येन स्पृत्वा᳘-स्पृत्वा स्वीकृ᳘त्य गृह्णाति॥

मूलम् - विस्वरम्

अथ यद्धुत्वा-हुत्वा गृह्णाति । वज्रो वा ऽआज्यम् । वज्रेणैवैतदाज्येन स्पृत्वा स्पृत्वा स्वीकृत्य गृह्णाति ॥ २४ ॥

सायणः

होमपूर्वकं ग्रहणं प्रशंसति- अथ यद्धुत्वा हुत्वेति । आज्यस्य वज्रात्मकत्वश्रुतिः प्रागुदाहृता (श. प. १ । ५ । ३ । ४ ।) वज्ररूपेण ‘आज्येन’ ‘स्पृत्वा स्पृत्वा’ हिंसित्वा हिंसित्वा, ततः ‘स्त्रीकृत्य’ स्वाधीनं कृत्वा गृह्णानो भवेत् । यथा लोके राजादिः प्रबलं शत्रुप्रभृतिं जनं प्रथमं बाधित्वा पश्चात् स्वाधीनं करोति, तद्वदित्यर्थः ॥ २४ ॥

Eggeling
  1. And as to why he takes (water) each time after offering,–the ghee, to be sure, is a thunderbolt:

having won them, one by one, by means of that thunderbolt, the ghee, and made them his own, he takes them.

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्सारस्वती᳘षु न᳘ जुहो᳘ति॥
व्वाग्वै स᳘रस्वती व्व᳘ज्र ऽआ᳘ज्यं ने᳘द्व᳘ज्रेणा᳘ज्येन व्वा᳘चᳫँ᳭ हिन᳘सानी᳘ति त᳘स्मात्सारस्वती᳘षु न᳘ जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्सारस्वती᳘षु न᳘ जुहो᳘ति॥
व्वाग्वै स᳘रस्वती व्व᳘ज्र ऽआ᳘ज्यं ने᳘द्व᳘ज्रेणा᳘ज्येन व्वा᳘चᳫँ᳭ हिन᳘सानी᳘ति त᳘स्मात्सारस्वती᳘षु न᳘ जुहोति॥

मूलम् - Weber

अ᳘थ य᳘त्सारस्वती᳘षु न᳘ जुहो᳘ति॥
वाग्वै स᳘रस्वती व᳘ज्र आ᳘ज्यं ने᳘द्व᳘ज्रेणा᳘ज्येन वा᳘चᳫं हिन᳘सानी᳘ति त᳘स्मात्सारस्वती᳘षु न᳘ जुहोति॥

मूलम् - विस्वरम्

अथ यत्- सारस्वतीषु न जुहोति । वाग्वै सरस्वती । वज्र आज्यम् । नेद्वज्रेणाज्येन वाचं हिनसानीति । तस्मात् सारस्वतीषु न जुहोति ॥ २५ ॥

सायणः

सारस्वतीषु मरीचिषु च होमाभावे कारणमाह- अथ यदिति । सरस्वत्या वाक्त्वात् वाचो वज्रेण हिंसा मा भूदिति न होतव्यम् ॥ २५ ॥

Eggeling
  1. And as to why he does not offer on the (water) from the Sarasvatī,–Sarasvatī, to be sure, is (the goddess of) Speech, and the ghee is a thunderbolt: ‘Lest I should injure (the goddess of) Speech! thus (he thinks, and) therefore he does not offer on the water from the Sarasvatī.

२६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यन्म᳘रीचिषु न᳘ जुहो᳘ति॥
नेद᳘नद्धेवैतामा᳘हुतिं जुह᳘वानी᳘ति त᳘स्मान्म᳘रीचिषु न᳘ जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यन्म᳘रीचिषु न᳘ जुहो᳘ति॥
नेद᳘नद्धेवैतामा᳘हुतिं जुह᳘वानी᳘ति त᳘स्मान्म᳘रीचिषु न᳘ जुहोति॥

मूलम् - Weber

अ᳘थ यन्म᳘रीचिषु न᳘ जुहो᳘ति॥
नेद᳘नद्धेवैतामा᳘हुतिं जुह᳘वानी᳘ति त᳘स्मान्म᳘रीचिषु न᳘ जुहोति॥

मूलम् - विस्वरम्

अथ यन्मरीचिषु न जुहोति । नेदनद्धेवैतामाहुतिं जुहवानीति । तस्मान्मरीचिषु न जुहोति ॥ २६ ॥

सायणः

अथ यन्मरीचिष्विति । मरीचिष्वपि ‘अनद्धा’ अस्थाने तासां होमाधिकरणत्वासम्भवान्न होतव्यमित्यर्थः । ‘नेत्’ इति निपातः परिभये (निरु. १ । ३ । ५) ‘जुहवानि’ इत्यनेन सम्बध्यते ॥ २६ ॥

Eggeling
  1. And as to why he does not offer on the sun-motes: ‘Lest I should offer that oblation in a doubtful way 17!’ thus (he thinks, and) therefore he does not offer on the sun-motes.

२७

विश्वास-प्रस्तुतिः

ताः᳘ सार्धमौ᳘दुम्बरे पा᳘त्रे सम᳘वनयति॥
म᳘धुमतीर्म᳘धुमतीभिः पृच्यन्तामि᳘ति र᳘सवती र᳘सवतीभिः पृच्यन्तामि᳘त्ये᳘वैत᳘दाह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय व्वन्वाना इ᳘ति त᳘त्परो᳘ ऽक्षं क्षत्रं य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘ह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय व्वन्वाना इ᳘ति॥

मूलम् - श्रीधरादि

ताः᳘ सार्धमौ᳘दुम्बरे पा᳘त्रे सम᳘वनयति॥
म᳘धुमतीर्म᳘धुमतीभिः पृच्यन्तामि᳘ति र᳘सवती र᳘सवतीभिः पृच्यन्तामि᳘त्ये᳘वैत᳘दाह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय व्वन्वाना इ᳘ति त᳘त्परो᳘ ऽक्षं क्षत्रं य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘ह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय व्वन्वाना इ᳘ति॥

मूलम् - Weber

ताः᳘ सार्धमौ᳘दुम्बरे पात्रे सम᳘वनयति॥
म᳘धुमतीर्म᳘धुमतीभिः पृच्यन्तामि᳘ति र᳘सवती र᳘सवतीभिः पृच्यन्तामि᳘त्येॗवैत᳘दाह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय वन्वाना इ᳘ति त᳘त्परो᳘ ऽक्षं य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘ह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय वन्वाना इ᳘ति॥

मूलम् - विस्वरम्

ताः सार्धमौदुम्बरे पात्रे समवनयति- “मधुमतीर्मधुमतीभिः पृच्यन्ताम्” इति । रसवती रसवतीभिः पृच्यन्तामित्येवैतदाह । “महि क्षत्रं क्षत्रियाय वन्वानाः"- इति । तत् परो ऽक्षं क्षत्रं यजमानायाशिषमाशास्ते यदाह- महि क्षत्रं क्षत्रियाय वन्वाना इति ॥ २७ ॥

सायणः

विधत्ते- ताः सार्द्धमिति । ‘ताः’ विहिताः, पृथक् पृथक् पात्रे गृहीताः आपः ‘सार्द्धं’ सम्भूय एकस्मिन् ‘पात्रे’ ‘समवनयति’ आसिञ्चेदित्यर्थः 18 । ‘मधुमतीः’ मधुररसवत्यः आपः मधुमतीभिः अद्भिः ‘पृच्यन्ताम्’ । “पृची सम्पर्के” (धा. पा. रु. आ. ११) सम्पृच्यन्ताम् । ता विशिनष्टि- ‘महि’ महत् ‘क्षत्रं’ बलं क्षत्रियकुलं वा ‘क्षत्रियाय’ यजमानाय ‘वन्वानाः’ दातुं याचमानाः कामयमाना इति । मन्त्रमनूद्य व्याचष्टे- मधुमतीरित्यादि । ‘महि क्षत्रं क्षत्रियाय वन्वानाः’ इति यदाह, ‘तत्’ तेन ‘यजमानाय’ ‘परोक्षं’ ‘क्षत्रम्’ आशासनमाशासितवान् भवतीति योजना । ‘क्षत्रियाय’ इति तात्स्थ्याभिधानाद् ‘वन्वानाः’ इति याचनाभिधानाद्वा, आशिषः परोक्षत्वमित्यर्थः ॥ २७ ॥

Eggeling
  1. He pours them together into an udumbara vessel with, ‘Let the honey-sweet mix with the honey-sweet!’–‘Let those full of essence mix with those full of essence!’ he thereby says;–‘Winning great power (kshatra) for the Kshatriya!’ in saying this he prays in a covert way for power to the Sacrificer.

२८

विश्वास-प्रस्तुतिः

ता ऽअ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यᳫँ᳭ सादयति॥
(त्य᳘) अ᳘नाधृष्टाः सीदत सहौ᳘जस ऽइत्य᳘नाधृष्टाः सीदत र᳘क्षोभिरित्ये᳘वैत᳘दाह[[!!]] सहौ᳘जस इ᳘ति स᳘वीर्या ऽइ᳘त्ये᳘वैत᳘दाह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय द᳘धतीरि᳘ति त᳘त्प्रत्य᳘क्षं क्षत्रं य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘ह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय द᳘धतीरि᳘ति॥

मूलम् - श्रीधरादि

ता ऽअ᳘ग्रेण᳘ मैत्रावरुणस्य[[!!]] धि᳘ष्ण्यᳫँ᳭ सादयति॥
(त्य᳘) अ᳘नाधृष्टाः सीदत सहौ᳘जस ऽइत्य᳘नाधृष्टाः सीदत र᳘क्षोभिरित्ये᳘वैत᳘दाह[[!!]] सहौ᳘जस इ᳘ति स᳘वीर्या ऽइ᳘त्ये᳘वैत᳘दाह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय द᳘धतीरि᳘ति त᳘त्प्रत्य᳘क्षं क्षत्रं य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘ह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय द᳘धतीरि᳘ति॥

मूलम् - Weber

ता अ᳘ग्रेण मैत्रावरुण᳘स्य धि᳘ष्ण्यᳫं सादयति॥
अ᳘नाधृष्टाः सीदत सहौ᳘जस इत्य᳘नाधृष्टाः सीदत र᳘क्षोभिरि᳘त्येॗवैत᳘दाह सहौ᳘जस इ᳘ति स᳘वीर्या इ᳘त्येॗवैत᳘दाह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय द᳘धतीरि᳘ति त᳘त्प्रत्य᳘क्षं क्षत्रं य᳘जमानायाशि᳘षमा᳘शास्ते यदा᳘ह म᳘हि क्षत्रं᳘ क्षत्रि᳘याय द᳘धतीरि᳘ति॥

मूलम् - विस्वरम्

ता अग्रेण मैत्रावरुणस्य धिष्ण्यं सादयति- “अनाधृष्टाः सीदत सहौजसः” इति । अनाधृष्टाः सीदत रक्षोभिरित्येवैतदाह । सहौजस इति- सवीर्या इत्येवैतदाह । “महि क्षत्रं क्षत्रियाय दधतीः"- (वा. सं. १० । ४) इति । तत् प्रत्यक्षं क्षत्रं यजमानायाशिषमाशास्ते- यदाह- महि क्षत्रं क्षत्रियाय दधतीरिति ॥ २८ ॥

सायणः

संसृष्टानामपां मैत्रावरुणधिष्ण्यस्य पुरोदेशे सादनं समन्त्रकं विधत्ते- ता अग्रेणेति 18 । हे आपः ! ‘अनाधृष्टाः’ रक्षोभिरबाधिताः, ‘सहौजसः’ ओजसा बलेन सहिताः, सवीर्याः ‘सीदत’ उपविशत । ‘महि’ महत्, ‘क्षत्रं’ बलं क्षत्रियत्वं वा, ‘क्षत्रियाय’ ‘दधतीः’ दधत्यः, धारयन्त्यः, प्रयच्छन्त्य इति । मन्त्रं व्याचष्टे- अनाधृष्टा इति ।

‘दधतीः’ इति प्रदानस्य साक्षादुक्तेः प्रत्यक्षत्वमाशिषः, ‘सीदत’- इति मध्यमपुरुषप्रयोगादेति वेदितव्यम् ॥ २८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे तृतीया ऽध्याये चतुर्थं ब्राह्मणम् ॥ (५-३-४) ॥

Eggeling
  1. He deposits them in front of the Maitrāvaruṇa’s hearth, with, ‘Unimpaired rest ye, the strengthful!’–‘unimpaired by the Rakshas rest ye!’ he thereby says; and by ‘strengthful’ he means to say ‘powerful; ‘bestowing great power on the Kshatriya;’–in saying this he prays in an overt way for power to the Sacrificer.

  1. गत्वेतराः पृथक्पात्रेष्वौदुंबरेषु सारस्वतीः । ३ । अवगाह्यावगाढात्पशोः पुरुषाद्वा पूर्व्वापरा ऊर्मीः । ४ । स्यंदमानाः । ५ । प्रतिलोमाः । ६ । अपयतीः । ७ । नदीपतिँ सूद्याः । ८ । काष्ठं वोच्छ्रितोढम् । ९ । निवेष्येन । १० । स्यंदमानानाँ स्थावराः प्रत्यातापे । ११ । अंतरिक्षात्प्रतिगृह्या आतपवर्ण्याः । १२ । सरस्याः कूप्याः प्रष्वा मधुगौरुल्ब्याः पयोघृतम् । १३ । सरस्वतीर्गृहात्यपो देवा इति ॥ ११४ ॥ का. श्रौ. सू. १५ । १०३-११४ । ↩︎

  2. 73:1 This water gathered from an adjacent river and pond, with some admixture of genuine water from the sacred river Sarasvatī-whence the whole water is also called ‘sārasvatya āpaḥ’–is to be used partly in the place of the ordinary Vasatīvarī water, and partly for the consecration or anointment (sprinkling) of the king. The different kinds of water or liquids are first taken in separate vessels of palāśa (butea frondosa) wood, and then poured together into the udumbara vessel. ↩︎

  3. अवगाह्यावगाढात्पशोः पुरुषाद्वा पूर्वापरा ऊर्म्मीः । का. श्रौ. सू. १५ । १०४ । ↩︎

  4. स्यंदमानाः । का. श्रौ. सू. १५ । १०५ । ↩︎

  5. प्रतिलोमाः । का० श्रौ० सू० १५ । १०६ । ↩︎ ↩︎

  6. 75:1 That is to say, it ultimately flows back and mingles again with the main current. ↩︎

  7. नदीपतिँ सूद्याः । १५ । १०८। ↩︎ ↩︎

  8. काष्ठं वोच्छ्रितोढम् १५ । १०९ । ↩︎

  9. स्यंदमानानाँ स्थावराः प्रत्यातापे । का० श्रौ० सू० । १५ । १११ । ↩︎ ↩︎

  10. हीमां भव ABC. हीमां भव Sây. ↩︎

  11. सरस्याः कृप्याः । का० श्रौ० सू० १५ । ११३ । ↩︎

  12. प्रुष्वाः । का. श्रौ. सू. १५ । ११३ । ↩︎

  13. 77:1 Sāyaṇa explains ‘prushvā’ by ’nīhārāḥ’ (mist water), the commentators on Kāty. XV, 4, 38, by ‘hoar-frost.’ ↩︎

  14. 77:2 It is difficult to see in what sense the author takes vāśa. While Mahīdhara (Vāj. S. X, 4) explains it by ‘pleasing’ or ‘desirable’ (uśyante janaiḥ kāmyantennanishpattihetutrāt); Sāyaṇa leaves a choice between that meaning (sarvaiḥ kāmyamānā) and that of ‘obedient, submissive’ (yadvā vaśyā stha, nīhāro hi nadīpravāhavan manushyādigatim na pratibadhnāti, ato vaśyatvam prushvāṇām annādyātmakatvam upapādayati; MS. I. O. 657). The St. Petersburg dictionary gives the meaning ‘submissive,’ but leaves it doubtful whether it may not be derived from vaśa, ‘fat, grease.’ ↩︎

  15. मधु गोरुरुल्ब्याः । का. श्रौ. सू. १५ । ११३ । ↩︎ ↩︎

  16. स᳘म्भरति ॥ २४ ॥ काण्डस्यार्धं २३६ ॥ शतपथस्यार्धम् ॥ १२००० ॥ A. सम्भरति ॥२४॥ शतपथस्यार्धं ॥ B. ॥ ३१२९ ॥ marginal gloss in B. In C. is no such indication of the शथपथ’s one half here ending, an indication, which I must remark is in direct conflict with the present bulk of the work, but which if it could be proved to be correct might contribute to trace some of its parts to a more modern origin, or at least to a later annexation to the whole, than the rest. ↩︎

  17. 80:1 On account of the doubtful nature of the watery sun-motes. ↩︎

  18. औदुम्बरे पात्रे समासिञ्चत्येता मधुमतीरिति । का० श्रौ० सू० १५ । ११७ । ↩︎ ↩︎