०१

विश्वास-प्रस्तुतिः

स वै᳘ दीक्षते॥
स᳘ ऽउपवस᳘थे ऽग्नीषोमी᳘यं पशुमा᳘लभते त᳘स्य व्वप᳘या प्रच᳘र्याग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति तद᳘नु देव᳘स्वाᳫँ᳭ हवी᳘ᳫँ᳭षि नि᳘रुप्यन्ते॥

मूलम् - श्रीधरादि

स वै᳘ दीक्षते॥
स᳘ ऽउपवस᳘थे ऽग्नीषोमी᳘यं पशुमा᳘लभते त᳘स्य व्वप᳘या प्रच᳘र्याग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति तद᳘नु देव᳘स्वाᳫँ᳭ हवी᳘ᳫँ᳭षि नि᳘रुप्यन्ते॥

मूलम् - Weber

स वै᳘ दीक्षते॥
स᳘ उपवसॗथे ऽग्नीषोमी᳘यम् पशुमा᳘लभते त᳘स्य वप᳘या प्रच᳘र्याग्नीसोमी᳘यमे᳘कादशकपालम् पुरोडा᳘शम् नि᳘र्वपति तद᳘नु देवॗस्वाᳫं 1 हवीं᳘षि नि᳘रुप्यन्ते॥

मूलम् - विस्वरम्

दीक्षणीययागाः ।

स वै दीक्षते । स उपवसथे ऽग्नीषोमीयं पशुमालभते । तस्य वपया प्रचर्याग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति । तदनु देवस्वां हवींषि निरूप्यन्ते ॥ १ ॥

सायणः

एवं पवित्राख्यात् प्रथमसोमयागादनन्तरभावीनि आनुमतादीनि इष्टिदर्वीहोमात्मकानि संवत्सरपर्यन्तमनुष्ठेयानि कर्म्माण्यनुक्रान्तानि (श. प. ५ । २ । ३। २) । अथ द्वितीयस्याभिषेचनीयाख्यस्य सोमयागस्य प्रयोगो ऽभिधास्यते; तत्राभिषेचनीयस्य चोदकप्राप्तां दीक्षामाह- स वै दीक्षत इति । तत्कालः सूत्रे दर्शितः- “फाल्गुनीपक्षयजनीये ऽभिषेचनीयाय दीक्षते” (का. श्रौ. सू १५ । ८०) इति ॥

देवस्वां हवींषि विधित्सुस्तेषामग्नीषोमीयपशुपुरोडाशानन्तरभावित्वं वक्तुमाह- स उपवसथ इति । ‘उपवसथः’ सुत्यादिवसात् पूर्वमहः, अग्नीषोमीयं पशुपुरोडाशं निरुप्य, तदनु देवस्वां हवींषि निर्वपेत् 2 । सुवन्त्यनुजानन्तीति सुवः, देवाश्च ते सुवश्चेति देवसुवः, तेषां ‘देवस्वाम्’; “ओः सुपि” (पा. सू. ४ । ४ । ८३) इति यणादेशः । प्रसवितृत्वं चैषामाम्नायते- “देवसुवामेतानि हवींषि भवन्ति, एतावन्तो वै देवानां सवाः, त एवास्मै सवान् प्रयच्छन्ति, त एनं सुवन्ते” (तै. ब्रा. १ । ७ । ४) इति ॥ १ ॥

Eggeling
  1. He performs the initiation ceremony. On the day of preparation he seizes the victim for Agni

and Soma. Having performed the offering of the omentum thereof; he prepares a cake on eleven potsherds for Agni and Soma 3. Thereupon the offerings of the Divine Quickeners (Devasū) are prepared.

०२

विश्वास-प्रस्तुतिः

सवित्रे᳘ सत्य᳘प्रसवाय॥
द्वा᳘दशकपालं वा ऽष्टा᳘कपालं वा पुरोडा᳘शं नि᳘र्व्वपति प्ला᳘शुकानां व्व्री᳘हीणा᳘ᳫँ᳘ सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूतः सूया ऽइत्य᳘थ यत्प्ला᳘शुकानां व्व्रीहीणां᳘ क्षिप्रे᳘ मा प्र᳘सुवानिति[[!!]]॥

मूलम् - श्रीधरादि

सवित्रे᳘ सत्य᳘प्रसवाय॥
द्वा᳘दशकपालं वा ऽष्टा᳘कपालं वा पुरोडा᳘शं नि᳘र्व्वपति प्ला᳘शुकानां व्व्री᳘हीणा᳘ᳫँ᳘ सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूतः सूया ऽइत्य᳘थ यत्प्ला᳘शुकानां व्व्रीहीणां᳘ क्षिप्रे᳘ मा प्र᳘सुवानिति[[!!]]॥

मूलम् - Weber

सवित्रे᳘ सत्य᳘प्रसवाय॥
द्वा᳘दशकपालं वाष्टा᳘कपालं वा पुरोडा᳘शं नि᳘र्वपति प्ला᳘शुकानां व्री᳘हीणा᳘ᳫं᳘ सविता वा᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूतः सूया इत्य᳘थ यत्प्ला᳘शुकानां व्रीहीणां᳘ क्षिप्रे᳘ मा प्र᳘सुवानि᳘ति॥

मूलम् - विस्वरम्

सवित्रे सत्यप्रसवाय द्वादशकपालं वा ऽष्टाकपालं पुरोडाशं निर्वपति- प्लाशुकानां व्रीहीणाम् । सविता वै देवानां प्रसविता । सवितृप्रसूतः सूया ऽइति । अथ यत् प्लाशुकानां व्रीहीणां- क्षिप्रे मा प्रसुवानिति ॥ २ ॥

सायणः

तत्र प्रथमं सावित्रं हविर्विधत्ते- सवित्रे सत्यप्रसवायेति 4 (तै० सं. १ । ८ । १० । १) । ‘सत्यप्रसवाय’ अमोघाभ्यनुज्ञाय ‘सवित्रे’ ‘प्लाशुकानाम्’ 5 प्रकर्षेण आशु शीघ्रं पच्यमानानां पुनःप्ररूढानां व्रीहीणाम् । रेफस्य छान्दसो लत्वनिर्देशः । सवितृदेवतासम्बन्धं प्रशंसति- सवितेति । ‘सूये’ सवं करवाणि । प्राशुकव्रीहिसाध्यत्वं प्रशंसति- अथ यदिति । ‘क्षिप्रे’ क्षिप्रकाले ‘मा’ मां ‘प्रसुवान्’ सवितृदेवत्याः प्राशुका व्रीहयः; प्रसुवन्तु प्रेरयन्त्विति प्राशुकत्वम् । प्रसुवानिति, प्रपूर्वात् सुवतेर्लेट्यडागमे सेरिकारलोपे कृते रूपम् ॥ २ ॥

Eggeling
  1. For Savitr̥ Satyaprasava (of true impulse) he prepares a cake from fast-grown (plāśuka) rice 6, on either twelve, or eight, potsherds; for Savitr̥ is the impeller (prasavitr̥) of the gods: ‘May I be quickened 7, impelled by Savitr̥!’ thus (he thinks). And as to (its being) of fast-grown rice: ‘May they quickly impel me!’ he thinks.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाग्न᳘ये गृह᳘पतये॥
(ये ऽष्टा᳘) अष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपत्याशूनाᳫँ᳭ श्रीर्व्वै᳘ गार्हपतं या᳘वतो यावत ऽइ᳘ष्टे त᳘देनमग्नि᳘रेव᳘ गृह᳘पतिर्गार्हपत᳘मभि प᳘रिणयत्य᳘थ य᳘दाशूनां᳘ क्षिप्रे᳘ मा प᳘रिणयानिति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाग्न᳘ये गृह᳘पतये॥
(ये ऽष्टा᳘) अष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपत्याशूनाᳫँ᳭ श्रीर्व्वै᳘ गार्हपतं या᳘वतो यावत ऽइ᳘ष्टे त᳘देनमग्नि᳘रेव᳘ गृह᳘पतिर्गार्हपत᳘मभि प᳘रिणयत्य᳘थ य᳘दाशूनां᳘ क्षिप्रे᳘ मा प᳘रिणयानिति[[!!]]॥

मूलम् - Weber

अ᳘थाग्न᳘ये गृह᳘पतये॥
अष्टा᳘कपालम् पुरोडा᳘शं नि᳘र्वपत्याशूनां श्रीर्वै᳘ गार्हपतं या᳘वतो-यावत ई᳘ष्टे त᳘देनमग्नि᳘रेव᳘ गृह᳘पतिर्गार्हपत᳘मभि प᳘रिणयत्य᳘थ य᳘दाशूनां᳘ क्षिप्रे मा प᳘रिणयानि᳘ति॥

मूलम् - विस्वरम्

अथाग्नये गृहपतये ऽष्टाकपालं पुरोडाशं निर्वपति- आशूनाम् । श्रीर्वै गार्हपतम् । यावतो- यावत ईष्टे- तदेनमग्निरेव गृहपतिर्गार्हपतमभिपरिणयति । अथ यदाशूनां- क्षिप्रे मा परिणयानिति ॥ ३ ॥

सायणः

द्वितीयं हविर्विधत्ते- अथाग्नय इति । ‘गृहपतये’ गृहपतित्वगुणकाय ‘अग्नये’ ‘आशूनां’ व्रीहीणां ‘पुरोडाशं’ निर्वपेत् । आशूनामिति 4 । प्लाशुकाः पुनः प्ररूढा व्रीहय इत्युक्तम्, ततो ऽप्यधिककाले पक्षत्रये पच्यमानाः षष्टिका व्रीहय आशवः । तेषामाशुत्वं च त्रिचतुरमासनियतपरिपाकव्रीह्यपेक्षम् । गृहपतिपदं प्रशंसति- श्रीर्वा इति । ‘श्रीः’ खलु ‘गार्हपतं’ गृहपतित्वमेव; तस्माद् यजमानो ‘यावतः’ धनस्य ‘ईष्टे’ ईश्वरो भवति । ‘तद्’ ‘गार्हपतं’ गृहपतिसम्बन्धि सर्वं वस्तुजातम् ‘अभि’ ‘एनं’ यजमानं गृहपतिगुणको ऽग्निः ‘परिणयान्’ ‘परिणयति’ प्रापयति । व्रीहीणामाशुत्वं प्रशंसति- अथ यदिति । ‘क्षिप्रे’ क्षिप्रं ‘मा’ मां परिणयेयुः । ‘इति’ अतो हेतोराशुभिरेव हविः कर्त्तव्यमित्यर्थः ॥ ३ ॥

Eggeling
  1. For Agni Gr̥hapati (the house-lord) he then prepares a cake on eight potsherds from quick-grown (āśu) rice 8; for the house-lord’s position means prosperity: as much as he (the king) rules over, over

that Agni, the house-lord, leads him to hold the position of a master of the house. And as to its being of quick-grown rice: ‘May they quickly lead me!’ so he thinks.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सो᳘माय व्व᳘नस्प᳘तये॥
श्यामाकं᳘ चरुं नि᳘र्व्वपति त᳘देनᳫँ᳭ सो᳘म ऽएव᳘ व्वनस्प᳘तिरो᳘षधिभ्यः[[!!]] सुवत्य᳘थ य᳘च्छ्यामाको भ᳘वत्येते वै सो᳘मस्यौ᳘षधीनां प्रत्यक्षतमां य᳘च्छयामा᳘कास्त᳘स्माछ्यामाको᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सो᳘माय व्व᳘नस्प᳘तये॥
श्यामाकं᳘ चरुं नि᳘र्व्वपति त᳘देनᳫँ᳭ सो᳘म ऽएव᳘ व्वनस्प᳘तिरो᳘षधिभ्यः[[!!]] सुवत्य᳘थ य᳘च्छ्यामाको भ᳘वत्येते वै सो᳘मस्यौ᳘षधीनां प्रत्यक्षतमां य᳘च्छयामा᳘कास्त᳘स्माछ्यामाको᳘ भवति॥

मूलम् - Weber

अ᳘थ सो᳘माय व᳘नस्प᳘तये॥
श्यामाकं᳘ चरुम् नि᳘र्वपति त᳘देनᳫं सो᳘म एव व᳘नस्प᳘तिरो᳘षधिभ्यः सुवत्य᳘थ य᳘छ्यामाको भ᳘वत्येते वै सो᳘मस्यौ᳘षधीनां प्रत्यक्षतमां य᳘छ्यामाकास्त᳘स्माछ्यामाको᳘ भवति॥

मूलम् - विस्वरम्

अथ सोमाय वनस्पतये श्यामाकं चरुं निर्वपति । तदेनं सोम एव वनस्पतिरोषधिभ्यः सुवति । अथ यच्छ्यामाको भवति । एते वै सोमस्यौषधीनां प्रत्यक्षतमाम्- यच्छ्यामाकाः । तस्माच्छ्यामाको भवति ॥ ४ ॥

सायणः

तृतीयं हविर्विधत्ते- अथ सोमायेति 4 । ‘वनस्पतये’ वनानामोषधीनां पतिः वनस्पतिः । पारस्करादित्वात् सुट् । तस्मै ‘सोमाय’ श्यामाकप्रकृतिकं ‘चरुं’ निर्वपेत् । देवतासम्बन्धं प्रशंसति- तदेनमिति । श्यामाकानां सोमार्हत्वमुपपादयति- अथ यच्छ्यामाका इति । ‘श्यामाका इति यत्’ ‘एते’ खलु ‘ओषधीनां’ मध्ये ‘सोमस्य’ ‘प्रत्यक्षतमाम्’ अतिशयेन प्रत्यक्षं रूपमित्यर्थः ॥ ४ ॥

Eggeling
  1. For Soma Vanaspati (the wood-lord or tree) he then prepares a pap of śyāmāka millet: thereby Soma, the wood-lord, quickens him for the plants. And as to its being prepared of śyāmāka,–they, the śyāmākas among plants doubtless are most manifestly Soma’s own: therefore it is prepared of śyāmāka grain.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ बृ᳘हस्प᳘तये व्वाचे᳘॥
नैवारं᳘ चरुं नि᳘र्व्वपति त᳘देनं बृ᳘हस्प᳘तिरेव᳘ व्वाचे᳘ सुवत्य᳘थ य᳘न्नैवारो भ᳘वति ब्र᳘ह्म वै बृ᳘हस्प᳘तिरेते वै ब्र᳘ह्मणा प᳘च्यन्ते य᳘न्नीवा᳘रास्त᳘स्मान्नैवारो᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ बृ᳘हस्प᳘तये व्वाचे᳘॥
नैवारं᳘ चरुं नि᳘र्व्वपति त᳘देनं बृ᳘हस्प᳘तिरेव᳘ व्वाचे᳘ सुवत्य᳘थ य᳘न्नैवारो भ᳘वति ब्र᳘ह्म वै बृ᳘हस्प᳘तिरेते वै ब्र᳘ह्मणा प᳘च्यन्ते य᳘न्नीवा᳘रास्त᳘स्मान्नैवारो᳘ भवति॥

मूलम् - Weber

अ᳘थ बृ᳘हस्प᳘तये वाचे᳟॥
नैवारं᳘ चरुं नि᳘र्वपति त᳘देनम् बृ᳘हस्प᳘तिरेव᳘ वाचे᳘ सुवत्य᳘थ य᳘न्नैवारो भ᳘वति ब्र᳘ह्म वै बृ᳘हस्प᳘तिरेते वै ब्र᳘ह्मणा पच्यन्ते य᳘न्नीवा᳘रास्त᳘स्मान्नैवारो᳘ भवति॥

मूलम् - विस्वरम्

अथ बृहस्पतये वाचे नैवारं चरुं निर्वपति । तदेनं बृहस्पतिरेव बाचे सुवति । अथ यन्नैवारो भवति । ब्रह्म वै बृहस्पतिः । एते वै ब्रह्मणा पच्यन्ते- यन्नीवाराः । तस्मान्नैवारो भवति ॥ ५ ॥

सायणः

चतुर्थं हविर्विधत्ते- अथ बृहस्पतय इति 9 । ‘वाचे’ वाग्रूपाय । तत् तेन नैवारचरुणा प्रीतो ‘बृहस्पतिरेव’ ‘एनं’ यजमानं ‘वाचे’ ‘सुवति’ अनुजानाति । “अथ यन्नैवारो भवति”- इत्यादिकं वाजपेये व्याख्यातम् (श. प. ५ । १ । ४ । १४ ।) ॥ ५ ॥

Eggeling
  1. For Br̥haspati Vāc 10 (speech) he then prepares a pap of wild rice: thereby Br̥haspati quickens him for speech. And as to its being prepared of wild rice,–Br̥haspati is the Brahman, and they, the wild rice-plants, are ripened by the Brahman 11: hence it is prepared of wild rice.

०६

विश्वास-प्रस्तुतिः

(त्य) अथे᳘न्द्राय ज्येष्ठा᳘य॥
हायना᳘नां चरुं नि᳘र्व्वपति त᳘देनमि᳘न्द्र ऽएव ज्ये᳘ष्ठो ज्यै᳘ष्ठ्यमभि प᳘रिणयत्य᳘थ य᳘द्धायना᳘नां भ᳘वत्यतिष्ठा वा᳘ ऽएता ओ᳘षधयो य᳘द्धायना᳘ ऽअति᳘ष्ठो वा ऽइ᳘न्द्रस्त᳘स्माद्धायना᳘नां भवति॥

मूलम् - श्रीधरादि

(त्य) अथे᳘न्द्राय ज्येष्ठा᳘य॥
हायना᳘नां चरुं नि᳘र्व्वपति त᳘देनमि᳘न्द्र ऽएव ज्ये᳘ष्ठो ज्यै᳘ष्ठ्यमभि प᳘रिणयत्य᳘थ य᳘द्धायना᳘नां भ᳘वत्यतिष्ठा वा᳘ ऽएता ओ᳘षधयो य᳘द्धायना᳘ ऽअति᳘ष्ठो वा ऽइ᳘न्द्रस्त᳘स्माद्धायना᳘नां भवति॥

मूलम् - Weber

अथे᳘न्द्राय ज्येष्ठा᳘य॥
हायना᳘नां चरुं नि᳘र्वपति त᳘देनमि᳘न्द्र एव ज्ये᳘ष्ठो ज्यै᳘ष्ठ्यमभि प᳘रिणयत्य᳘थ य᳘द्धायनानाम् भ᳘वत्यतिष्ठा वा᳘ एता ओ᳘षधयो य᳘द्धायना᳘ अतिॗष्ठो 12 वा इ᳘न्द्रस्त᳘स्माद्धायना᳘नाम् भवति॥

मूलम् - विस्वरम्

अथेन्द्राय ज्येष्ठाय हायनानां चरुं निर्वपति । तदेनमिन्द्र एव ज्येष्ठो ज्यैष्ठ्यमभिपरिणयति । अथ यद्धायनानां भवति । अतिष्ठा वा ऽएता ओषधयो- यद्धायनाः । अतिष्ठो वा ऽइन्द्रः । तस्माद्धायनानां भवति ॥ ६ ॥

सायणः

पञ्चमं हविर्विधत्ते- अथेन्द्रायेति 9 । ज्येष्ठत्वगुणकायेन्द्राय ‘हायनानां’ संवत्सरपक्वानां रक्तशालीनां ‘चरुं’ निर्वपेत् । संवत्सरपक्वानां ज्येष्ठगुणकेन्द्रयोग्यत्वमुपपादयति- अथ यद्धायनानामिति । ‘हायनाः’ संवत्सरपक्वा व्रीहय इति (पा. सू. ३ । १ । १४८) ॥ ‘यत्’ ‘एताः’ ‘अतिष्ठाः’ अतीत्य तिष्ठन्त्यः ‘ओषधयः’ चिरकालेन पाकात् ‘इन्द्रः’ अपि ‘अतिष्ठः’ सर्वानतिक्रम्य स्थितः ॥ ६ ॥

Eggeling
  1. For Indra Jyeshṭḥa (the most excellent) he then prepares a pap of red rice-grains (hāyana) 13: thereby Indra, the most excellent, leads him to excellence (or, lordship). And as to its being prepared of red rice: outstanding doubtless are those plants, the red rice, and outstanding is Indra: therefore it is prepared of red rice.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ रुद्रा᳘य पशुप᳘तये॥
रौद्रं᳘ गावेधुकं᳘ चरुं नि᳘र्व्वपति त᳘देनᳫँ᳭ रुद्र᳘ एव᳘ पशुप᳘तिः पशु᳘भ्यः सुवत्य᳘थ य᳘द्गावेधुको भ᳘वति व्वास्त᳘व्यो वा᳘ ऽएष᳘ देवो᳘ व्वास्त᳘व्या गवे᳘धुकास्त᳘स्माद्गावेधुको᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ रुद्रा᳘य पशुप᳘तये॥
रौद्रं᳘ गावेधुकं᳘ चरुं नि᳘र्व्वपति त᳘देनᳫँ᳭ रुद्र᳘ एव᳘ पशुप᳘तिः पशु᳘भ्यः सुवत्य᳘थ य᳘द्गावेधुको भ᳘वति व्वास्त᳘व्यो वा᳘ ऽएष᳘ देवो᳘ व्वास्त᳘व्या गवे᳘धुकास्त᳘स्माद्गावेधुको᳘ भवति॥

मूलम् - Weber

अ᳘थ रुद्रा᳘य पशुप᳘तये॥
रौद्रं᳘ गावेधुकं᳘ चरुं नि᳘र्वपति त᳘देनं रुद्र᳘ एव᳘ पशुप᳘तिः पशु᳘भ्यः सुवत्य᳘थ य᳘द्गावेधुको भ᳘वति वास्तॗव्यो वा᳘ एष᳘ देवो᳘ वास्तॗव्या गवे᳘धुकास्त᳘स्माद्गावेधुको᳘ भवति॥

मूलम् - विस्वरम्

अथ रुद्राय पशुपतये रौद्रं गावेधुकं चरुं निर्वपति । तदेनं रुद्र एव पशुपतिः पशुभ्यः सुवति । अथ यद्गावेधुको भवति । वास्तव्यो वा ऽएष देवः । वास्तव्या गवेधुकाः । तस्माद्गावेधुको भवति ॥ ७ ॥

सायणः

षष्ठं हविर्विधत्ते- अथ रुद्रायेति 14 । ‘पशुपतये’ पशुपतिगुणकाय ‘रुद्राय’ । रौद्रमिति तद्धितेन विहित एव रुद्रसम्बन्धः, पुनः ‘पशुपतये’- इति विशेषसम्बन्धाय ‘रुद्राय’- इति चतुर्थी उक्ता । पशुपतिपदं प्रशंसति- तदेनामिति । ‘तत्’ तेन हविषा एनं सुन्वन्तं ‘पशुपतिः’ ‘रुद्र एव’ ‘पशुभ्यः’ तदर्थं ‘सुवति’ प्रेरयति, पशुमन्तं करोतीत्यर्थः । ‘वास्तव्यः’- इत्यादि पूर्ववद् व्याख्येयम् ॥ ७ ॥

Eggeling
  1. For Rudra Paśupati (lord of beasts) he then prepares a Raudra pap of gavedhukā seeds (coix barbata): thereby Rudra, the lord of beasts, quickens

him for cattle. And as to its being prepared of gavedhukā seed;–that God is (the recipient of) refuse (remains of offering), and gavedhukā seeds are refuse: therefore it is (prepared) of gavedhukā seed.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मित्रा᳘य सत्या᳘य॥
नाम्बा᳘नां चरुं नि᳘र्व्वपति त᳘देनं मित्र᳘ ऽएव᳘ सत्यो ब्र᳘ह्मणे सुवत्य᳘थ य᳘न्नाम्बा᳘नां भ᳘वति व्वरु᳘ण्या वा᳘ ऽएता ऽओ᳘षधयो याः᳘ कृष्टे जा᳘यन्ते᳘ ऽथैते᳘ मैत्रा य᳘न्नाम्बास्त᳘स्मान्नाम्बा᳘नां भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मित्रा᳘य सत्या᳘य॥
नाम्बा᳘नां चरुं नि᳘र्व्वपति त᳘देनं मित्र᳘ ऽएव᳘ सत्यो ब्र᳘ह्मणे सुवत्य᳘थ य᳘न्नाम्बा᳘नां भ᳘वति व्वरु᳘ण्या वा᳘ ऽएता ऽओ᳘षधयो याः᳘ कृष्टे जा᳘यन्ते᳘ ऽथैते᳘ मैत्रा य᳘न्नाम्बास्त᳘स्मान्नाम्बा᳘नां भवति॥

मूलम् - Weber

अ᳘थ मित्रा᳘य सत्या᳘य॥
नाम्बा᳘नां चरुं नि᳘र्वपति त᳘देनम् मित्र᳘ एव᳘ सत्यो ब्र᳘ह्मणे सुवत्य᳘थ य᳘न्नाम्बा᳘नाम् भ᳘वति वरुॗण्या वा᳘ एता ओ᳘षधयो याः᳘ कृष्टे जा᳘यन्ते᳘ ऽथैते᳘ मैत्रा य᳘न्नाम्बास्त᳘स्मान्नाम्बा᳘नाम् भवति॥

मूलम् - विस्वरम्

अथ मित्राय सत्याय नाम्बानां चरुं निर्वपति । तदेनं मित्र एव सत्यो ब्रह्मणे सुवति । अथ यन्नाम्यानां भवति । वरुण्या वा ऽएता ओषधयो याः कृष्टे जायन्ते अथैते मैत्राः- यन्नाम्बाः । तस्मान्नाम्बानां भवति ॥ ८ ॥

सायणः

सप्तमं हविर्विधत्ते- अथ मित्रायेति 14 । ‘सत्याय’ सत्यगुणकाय ‘मित्राय’ ‘नाम्बानां’ नाम्बा नाम अकृष्टपच्याः स्वयञ्जाता व्रीहयः । नाम्बानां मित्रयोग्यत्वमुपपादयति- अथ यन्नाम्बानामिति । कृष्टक्षेत्रोत्पन्नाः ‘ओषधयः’ ‘वरुण्याः’ कर्षणादिलक्षणहिंसासम्बन्धाद्वरुणार्हाः, अकृष्टपच्यास्तु तद्विरहात् ‘मैत्राः’ ॥ ८ ॥

Eggeling
  1. For Mitra Satya (the True) he then prepares a pap of Nāmba 15 seed: thereby Mitra the True quickens him for the Brahman. And as to its being prepared of Nāmba seed,–to Varuṇa, no doubt, belong those plants which grow in ploughed ground; but those, the Nāmba plants, belong to Mitra: therefore it is (prepared) of Nāmba seed.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्व᳘रुणाय ध᳘र्मपतये॥
व्वारुणं᳘ यवम᳘यं चरुं नि᳘र्व्वपति त᳘देनं व्व᳘रुण ऽएव ध᳘र्मपतिर्ध᳘र्मस्य प᳘तिं करोति परम᳘ता वै सा यो ध᳘र्मस्य प᳘तिर᳘सृद्यो हि᳘ परम᳘तां ग᳘च्छति तᳫँ᳭ हि ध᳘र्म ऽउपय᳘न्ति त᳘स्माद्व᳘रुणाय ध᳘र्मपतये॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्व᳘रुणाय ध᳘र्मपतये॥
व्वारुणं᳘ यवम᳘यं चरुं नि᳘र्व्वपति त᳘देनं व्व᳘रुण ऽएव ध᳘र्मपतिर्ध᳘र्मस्य प᳘तिं करोति परम᳘ता वै सा यो ध᳘र्मस्य प᳘तिर᳘सृद्यो हि᳘ परम᳘तां ग᳘च्छति तᳫँ᳭ हि ध᳘र्म ऽउपय᳘न्ति त᳘स्माद्व᳘रुणाय ध᳘र्मपतये॥

मूलम् - Weber

अ᳘थ व᳘रुणाय ध᳘र्मपतये॥
वारुणं᳘ यवम᳘यं चरुं नि᳘र्वपति त᳘देनं व᳘रुण एव ध᳘र्मपतिर्ध᳘र्मस्य प᳘तिं करोति परम᳘ता वै सा यो ध᳘र्मस्य प᳘तिर᳘सद्यो हि᳘ परम᳘तां ग᳘छति तᳫं हि ध᳘र्म उपय᳘न्ति 16 त᳘स्माद्व᳘रुणाय ध᳘र्मपतये॥

मूलम् - विस्वरम्

अथ वरुणाय धर्मपतये वारुणं यवमयं चरुं निर्वपति । तदेनं वरुण एव धर्मपतिर्धर्मस्य पतिं करोति । परमता वै सा- यो धर्मस्य पतिरसत् । यो हि परमतां गच्छति- तं हि धर्म ऽउपयन्ति । तस्माद्वरुणाय धर्मपतये ॥ ९ ॥

सायणः

अष्टमं हविर्विधत्ते- अथ वरुणायेति 14 । ‘धर्म्मपतये’ धर्म्मपतिगुणकाय ‘वरुणाय’ ‘यवमयं’ ‘चरुं’ निर्वपेत् । रौद्रमितिवद् वारुणमिति व्याख्येयम् । ‘तत्’ तेन ‘एनं’ यजमानं तादृशो ‘वरुणः’ ‘धर्मस्य पतिं’ कुर्यात् । धर्मपतित्वं प्रशंसति- परमतेति । ‘यः’ पुमान् ‘धर्म्मस्य पतिः’ ‘असद्’ भवेत्, ‘स वै’ ‘परमता’ परमत्वम् । तदेव विवृणोति- यो हीति । ‘तं’ परमं ‘धर्म्मे उपयन्ति’ प्राप्नुवन्ति ॥ ९ ॥

Eggeling
  1. For Varuṇa Dharmapati (the lord of the law) he then prepares a Varuṇa pap of barley: thereby Varuṇa, the lord of the law, makes him lord of the law; and that truly is the supreme state, when one is lord of the law; for whosoever attains to the supreme state, to him they come in (matters of) law: therefore to Varuṇa Dharmapati.

१०

विश्वास-प्रस्तुतिः

(ये᳘ ऽथा) अ᳘थाग्नीषोमी᳘येन पुरोडा᳘शेन प्र᳘चरति॥
तस्या᳘निष्ट ऽएव᳘ स्विष्टकृद्भ᳘वत्य᳘थैतै᳘र्हवि᳘र्भिः प्र᳘चरति य᳘दैतै᳘र्हवि᳘र्भिः प्रच᳘रति॥

मूलम् - श्रीधरादि

(ये᳘ ऽथा) अ᳘थाग्नीषोमी᳘येन पुरोडा᳘शेन प्र᳘चरति॥
तस्या᳘निष्ट ऽएव᳘ स्विष्टकृद्भ᳘वत्य᳘थैतै᳘र्हवि᳘र्भिः प्र᳘चरति य᳘दैतै᳘र्हवि᳘र्भिः प्रच᳘रति॥

मूलम् - Weber

अ᳘थाग्नीषोमी᳘येन पुरोडा᳘शेन प्र᳘चरति॥
तस्या᳘निष्ट एव᳘ स्विष्टकृद्भ᳘वत्य᳘थैतै᳘र्हवि᳘र्भिः प्र᳘चरति यॗदैतै᳘र्हवि᳘र्भिः प्रच᳘रति॥

मूलम् - विस्वरम्

अथाग्नीषोमीयेन पुरोडाशेन प्रचरति । तस्यानिष्ट एव स्विष्टकृद्भवति । अथैतैर्हविर्भिः प्रचरति । यदेतैर्हविर्भिः प्रचरति ॥ १० ॥

सायणः

एतेषां निरुप्तानां हविषां प्रचरणकालं विधत्ते- अथाग्नीषोमीयेणेति । चोदकप्राप्तेन अग्नीषोमीयपशुपुरोडाशेन प्रचर्य तदीयस्विष्टकृतः प्राक् एतैर्हविभिर्यजेतेत्यर्थः ॥ १० ॥

Eggeling
  1. He then proceeds with the cake for Agni-Soma. The Svishṭakr̥t of that (oblation) remains yet unoffered, when he proceeds with those (other) oblations.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं दक्षिणे᳘ बाहा᳘वभिप᳘द्य जपति॥
सविता᳘ त्वा सवा᳘नाᳫँ᳭ सुवतामग्नि᳘र्गृह᳘पतीनाᳫँ᳭ सो᳘मो व्व᳘नस्प᳘तीनाम्॥ बृ᳘हस्प᳘तिर्व्वाच ऽइ᳘न्द्रो ज्यै᳘ष्ठ्याय रुद्रः पशु᳘भ्यो मित्रः᳘ सत्यो व्व᳘रुणो ध᳘र्मपतीनाम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं दक्षिणे᳘ बाहा᳘वभिप᳘द्य जपति॥
सविता᳘ त्वा सवा᳘नाᳫँ᳭ सुवतामग्नि᳘र्गृह᳘पतीनाᳫँ᳭ सो᳘मो व्व᳘नस्प᳘तीनाम्॥ बृ᳘हस्प᳘तिर्व्वाच ऽइ᳘न्द्रो ज्यै᳘ष्ठ्याय रुद्रः पशु᳘भ्यो मित्रः᳘ सत्यो व्व᳘रुणो ध᳘र्मपतीनाम्॥

मूलम् - Weber

अ᳘थैनं दक्षिणे᳘ बाहा᳘वभिप᳘द्य जपति॥
सविता᳘ त्वा सवा᳘नाᳫं सुवतामग्नि᳘र्गृह᳘पतीनाᳫं सो᳘मो व᳘नस्प᳘तीनाम् बृ᳘हस्प᳘तिर्वाच इ᳘न्द्रो ज्यै᳘ष्ठ्याय रुद्रः पशु᳘भ्यो मित्रः᳘ सत्यो व᳘रुणो ध᳘र्मपतीनाम्॥

मूलम् - विस्वरम्

अथैनं दक्षिणे बाहावभिपद्य जपति- “सविता त्वा सवानां सुवताम्, अग्निर्गृहपतीनाम्, सोमो वनस्पतीनाम् । बृहस्पतिर्वाचे, इन्द्रो ज्यैष्ठ्याय, रुद्रः पशुभ्यः, मित्रः सत्यो, वरुणो धर्मपतीनाम्”- (वा. सं. ९ । ३९) ॥ ११ ॥

सायणः

विधत्ते- अथैनमिति । ‘अथ’ देवस्वां हविर्यागानन्तरं स्विष्टकृतः पूर्वम् ‘एनं’ यजमानं ‘दक्षिणे बाहौ’ ‘अभिपद्य’ गृहीत्वा ‘जपति,’ अध्वर्युरिति शेषः । सूत्रम्- “उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा”- (का. श्रौ. सू. १५ । ९४) इति । मन्त्रस्यार्थः- हे यजमान ! ‘त्वा’ त्वां ‘सविता’ ‘सवानां’ प्रसवानां स्वामित्वेन ‘सुवताम्’ अनुजानातु । तथा ‘अग्निः’ अन्येषा ‘गृहपतीनाम्’ ईश्वरम् अनुजानातु । ‘त्वाम्’- इत्यनुषङ्गः । एवमुत्तरत्रापि त्वां सुवतामिति योज्यम् । ‘वाचे,’ ‘ज्यैष्ठ्याय’ इत्यादौ तादर्थ्ये चतुर्थी । ‘मित्रः सत्यः’- इत्यत्र सत्यशब्दाच्चतुर्थ्यर्थे सुः सत्यायेत्यर्थः । (पा. सू. ७ । १ । ३९) ॥ ११ ॥

Eggeling
  1. Thereupon, taking hold of him (the Sacrificer) by the right arm, he mutters (Vāj. S. IX, 39, 40), ‘May Savitr̥ quicken thee for (powers of) quickening (ruling) 17, Agni for householders, Soma for trees, Br̥haspati for speech, Indra for lordship, Rudra for cattle, Mitra for truth, Varuṇa for the lord of the law.’

१२

विश्वास-प्रस्तुतिः

(नाम् । इ) इमं᳘ देवाः॥
(ऽ) असपत्न᳘ᳫँ᳘ सुवध्वमि᳘तीमं᳘ देवा अभ्रातृव्य᳘ᳫँ᳘ सुवध्वमि᳘त्ये᳘वैत᳘दाह महते᳘ क्षत्रा᳘य महते ज्यै᳘ष्ठ्याये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति महते जा᳘नराज्याये᳘ति महते ज᳘नानाᳫँ᳭ राज्याये᳘त्ये᳘वैत᳘दाहे᳘न्द्रस्येन्द्रियाये᳘ति व्वी᳘र्याये᳘त्ये᳘वैत᳘दाह यदाहे᳘न्द्रस्येन्द्रियाये᳘तीम᳘ममु᳘ष्य पुत्र᳘ममु᳘ष्यै पुत्रमि᳘ति तद्य᳘दे᳘वास्य ज᳘न्म ऽत᳘त ए᳘वैत᳘दाहास्यै᳘ व्विश ऽइ᳘ति य᳘स्यै व्विशो रा᳘जा भ᳘वत्येष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कं ब्राह्मणा᳘नाᳫँ᳭ राजे᳘ति त᳘दस्मा ऽइदᳫँ᳭ स᳘र्व्वमा᳘द्यं[[!!]] करोति ब्राह्मण᳘मे᳘वापो᳘द्धरति त᳘स्माद्ब्राह्म᳘णो ऽनाद्यः सो᳘मराजा हि भ᳘वति॥

मूलम् - श्रीधरादि

(नाम् । इ) इमं᳘ देवाः॥
(ऽ) असपत्न᳘ᳫँ᳘ सुवध्वमि᳘तीमं᳘ देवा अभ्रातृव्य᳘ᳫँ᳘ सुवध्वमि᳘त्ये᳘वैत᳘दाह महते᳘ क्षत्रा᳘य महते ज्यै᳘ष्ठ्याये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति महते जा᳘नराज्याये᳘ति महते ज᳘नानाᳫँ᳭ राज्याये᳘त्ये᳘वैत᳘दाहे᳘न्द्रस्येन्द्रियाये᳘ति व्वी᳘र्याये᳘त्ये᳘वैत᳘दाह यदाहे᳘न्द्रस्येन्द्रियाये᳘तीम᳘ममु᳘ष्य पुत्र᳘ममु᳘ष्यै पुत्रमि᳘ति तद्य᳘दे᳘वास्य ज᳘न्म ऽत᳘त ए᳘वैत᳘दाहास्यै᳘ व्विश ऽइ᳘ति य᳘स्यै व्विशो रा᳘जा भ᳘वत्येष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कं ब्राह्मणा᳘नाᳫँ᳭ राजे᳘ति त᳘दस्मा ऽइदᳫँ᳭ स᳘र्व्वमा᳘द्यं[[!!]] करोति ब्राह्मण᳘मे᳘वापो᳘द्धरति त᳘स्माद्ब्राह्म᳘णो ऽनाद्यः सो᳘मराजा हि भ᳘वति॥

मूलम् - Weber

इमं देवाः॥
असपत्न᳘ᳫं᳘ सुवध्वमि᳘तीमं᳘ देवा अभ्रातृव्य᳘ᳫं᳘ सुवध्वमि᳘त्येॗवैत᳘दाह महते᳘ क्षत्रा᳘य महते ज्यै᳘ष्ठ्याये᳘ति ना᳘त्र तिरो᳘हितमिवास्ति महते जा᳘नराज्याये᳘ति महते ज᳘नानां राज्याये᳘त्येॗवैत᳘दाहे᳘न्द्रस्येन्द्रियाये᳘ति वीॗर्याये᳘त्येॗवैत᳘दाह यदाहे᳘न्द्रस्येन्द्रियाये᳘तीम᳘ममु᳘ष्यै पुत्र᳘ममु᳘ष्यै पुत्रमि᳘ति तद्य᳘देॗवास्य ज᳘न्म त᳘त एॗवैत᳘दाहास्यै᳘ विश इ᳘ति य᳘स्यै विशो रा᳘जा भ᳘वत्येष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कम् ब्राह्मणा᳘नां राजे᳘ति त᳘दस्मा इदᳫं स᳘र्वमाद्यं᳘ करोति ब्राह्मण᳘मेॗवापो᳘द्धरति त᳘स्माद्ब्राह्मॗणो ऽनाद्यः सो᳘मराजा हि भ᳘वति॥

मूलम् - विस्वरम्

“इमं देवाः असपत्नं सुवध्वम्”- इति । इमं देवा अभ्रातृव्यं सुवध्वमित्येवेतदाह । “महते क्षत्राय, महते ज्यैष्ठ्याय"- इति, नात्र तिरोहितमिवास्ति । “महते जानराज्याय”- इति । महते जनानां राज्यायेत्येवैतदाह । “इन्द्रस्येन्द्रियाय”- इति । वीर्यायेत्येवैतदाह- यदाहेन्द्रस्येन्द्रियायेति । “इमममुष्य पुत्रम्, अमुष्यै पुत्रम्” इति । तद् यदेवास्य जन्म- तत एवैतदाह । “अस्यै विशे”- इति । यस्यै विशो राजा भवति । “एष वो ऽमी राजा, सोमो ऽस्माकं ब्राह्मणानां । राजा”- (वा० सं० ९ । ४०) इति । तदस्मा ऽइदं सर्वमाद्यं करोति । ब्राह्मणमेवापोद्धरति । तस्माद्ब्राह्मणो ऽनाद्यः । सोमराजा हि भवति ॥ १२ ॥

सायणः

परोक्षवदुक्त्वा, अथ प्रत्यक्षवदाह- इमं देवा इति । हे ‘देवाः !’ सवित्रादयः ‘इमं’ यजमानम् असपत्नं ‘शत्रुरहितं’ ‘सुवध्वम्’ अनुजानीत । तथा ‘महते क्षत्त्राय’ अतिप्रभूताय क्षत्रियकुलाय, ‘महते ज्यैष्ठ्याय’ ज्येष्ठत्वाय अप्रतिहतनियमसामर्थ्यायेत्यर्थः । ‘महते जानराज्याय’ जनसम्बन्धि यद्राज्यं तत्र सागरपर्यन्तभूमिविषयत्वात्, महत्सार्वभौमत्वाय । ‘इन्द्रस्य’ सम्बन्धिने ‘इन्द्रियाय’ वीर्याय ‘इमम्’ एतन्नामानं यजमानम्, ‘अमुष्य’ पितुः ‘पुत्रम्,’ ‘अमुष्यै’ अमुष्या मातुः ‘पुत्रम्,’ सुवध्वमित्यनुषङ्गः । ‘अस्यै’ अस्याः ‘विशः’ प्रजायाः ‘राजा,’ एष यजमान इत्यर्थः । प्रजा अपि सम्बोध्याः- एष इति । ‘अमी’- इति सम्बोधनप्रथमाबहुवचनान्तम् । अदःशब्दस्थाने जनपदनाम सम्बोधनप्रथमाबहुवचनान्तं गृह्णीयादित्यर्थः । तत एवामी इत्यस्य स्थाने भरतपदं प्रक्षिप्य पठितं बौधायनेन- “अथैनं रत्निभ्य आवेदयति, एष वो भरता राजा”- इति । आपस्तम्बेन तु राजविशेषेण जनपदनामग्रहणमुक्तम्- “अथैनं रत्निभ्य आवेदयति, एष वो भरता राजेत्येष वः कुरवो राजेति कौरव्यमेष वः पञ्चाला राजेति पाञ्चालमेष वः कुरुपाञ्चाला राजेति वा कुरुपञ्चालमेष वो जनता राजेत्यन्यान् राज्ञः” (आ. श्रौ. सू. १८ । १२ । ७)- इति । कात्यायनेन त्विदं सर्वं संगृह्योक्तम्- “यस्याश्च जाते राजा भवति देशस्यानवस्थितत्वात्”- (का. श्रौ. सू. १५ । ९६ । ९७) इति । हे प्रजाः ! ‘वः’ युष्माकम् एष राजा, एनं स्वामिनं यथेरितं सेवध्वमित्यर्थः । ब्राह्मणानामस्माकं ‘सोमः’ एव ‘राजा’ न तु क्षत्रिय इत्यर्थः ॥

मन्त्रं भागशो ऽनूद्य व्याचष्टे- इमं देवा इति । भ्रातृव्यः शत्रुः । “व्यन् सपत्ने” (पा. सू ४ । १ । १४५)- इति । व्यन् प्रत्ययः । शेषं सुगमम् । यजमानस्य तन्मातापित्रोश्च नामग्रहणस्थानं दर्शयति- इमममुष्येति । इममित्यस्यानन्तरं यजमानस्य नाम; ‘अमुष्य’ ‘अमुष्याः’ इत्येतयोः स्थाने तस्य मातापित्रोर्नामेत्यर्थः । अत एव सूत्रम्- “नामास्य गृह्णाति मन्त्रे यथास्थानं, मातापित्रोश्च” (का. श्रौ. १५ । ९४, ९५) इति । मन्त्रभागस्य तात्पर्यमाह- तदस्मा इति । ‘तत्’ तेन, एष वो राजेति स्वामित्वप्रतिपादनेन ‘अस्मै’ राज्ञे ‘इदं’ दृश्यमानं ‘सर्वं’ जगद् ब्राह्मणव्यतिरिक्तम् ‘आद्यं’ भोग्यं करोति । सोमो ऽस्माकमिति मन्त्रभागस्य तात्पर्यमाह- ब्राह्मणमेवेति । यतः सोमो ऽस्माकं ब्राह्मणानां राजेति ब्राह्मणजातिः सोमस्वामित्वेन पृथक्कृता, तस्माद्ब्राह्मणः क्षत्रियेण नाद्यः । ‘हि’ यस्माद् ‘ब्राह्मणः’ ‘सोमराजा’ सोमो राजा यस्येति बहुव्रीहिः, अत एव “राजाहस्सखिभ्यः”- (पा. सू. ५ । ४ । ९१) इति टच् समासान्तो न कृतः । यस्मान्मन्त्रेणाध्वर्युः स्वकीयं राजानं विभज्य निर्द्दिष्टवान्, तस्माल्लोके ऽपि ब्राह्मणा अग्निष्टोमादियागेषु सोममेव राजशब्दोदितं “सोम राजन्नेह्यवरोह मा भेः"- इत्यादिभिर्मन्त्रैरुपचरन्ति (तै. सं. १ । ३ । १३ । १) ॥ १२ ॥

Eggeling
  1. ‘Quicken him, O gods, to be unrivalled!’

–he thereby says, ‘Quicken him, O gods, so as to be without an enemy; for great chiefdom, for great lordship!’ in this there is nothing obscure;–‘for man-rule!’ ‘for the ruling of men,’ he thereby says;–‘for Indra’s energy!’ ‘for vigour’ he means to say when he says, ‘for Indra’s energy;’–‘him, the son of such and such (a man), the son of such and such (a woman),’–whatever be his parentage, with reference to that he says this;–‘of such and such a people,’ that is to say, of the people whose king he is;–’this man, O ye (people) 18, is your king, Soma is the king of us Brahmans!’ He thereby causes everything here to be food for him (the king); the Brāhman alone he excepts: therefore the Brāhman is not to be fed upon, for he has Soma for his king.

१३

विश्वास-प्रस्तुतिः

(त्ये) एता᳘ ह वै᳘ देव᳘ताः सव᳘स्येशते॥
त᳘स्माद्देव᳘स्वो ना᳘म त᳘देनमेता᳘ ऽएव᳘ देव᳘ताः सुवते ता᳘भिः सूतः श्वः᳘ सूयते॥

मूलम् - श्रीधरादि

(त्ये) एता᳘ ह वै᳘ देव᳘ताः सव᳘स्येशते॥
त᳘स्माद्देव᳘स्वो ना᳘म त᳘देनमेता᳘ ऽएव᳘ देव᳘ताः सुवते ता᳘भिः सूतः श्वः᳘ सूयते॥

मूलम् - Weber

एता᳘ ह वै᳘ देवाः᳘ सव᳘स्येशते॥
त᳘स्माद्देवॗस्वो ना᳘म त᳘देनमेता᳘ एव᳘ देव᳘ताः सुवते ता᳘भिः सूतः श्वः᳘ सूयते॥

मूलम् - विस्वरम्

एता ह वै देवाः सवस्येशते । तस्माद्देवस्वो नाम । तदेनमेता एव देवताः सुवते । ताभिः सूतः श्वः सूयते ॥ १३ ॥

सायणः

उक्तहविरष्टकस्य देवतानां सम्भूय नाम निर्वक्ति- एता ह वा इति । तदेनमिति । यस्माद् ‘एताः’ देवताः ‘सवस्य’ ईशयित्र्यः, ‘तत्’ तस्मात् ‘एताः देवताः’ देवसूनामिकं सवितृप्रसूतम्, ‘एनं’ सुन्वन्तं हविः ‘सुवते’ अनुजानन्ति; ‘ताभिः’ देवताभिः ‘सूतः’ अनुज्ञातः सन् ‘श्वः’ सुत्यादिवसे ‘सूयते’ अनुज्ञायते; देवसूहविःप्रचारस्य अग्नीषोमीयदिवसकर्त्तव्यत्वात् ‘श्वः’ इत्यनेन सुत्यादिनं विवक्ष्यत इत्यभिप्रायः ॥ १३ ॥

Eggeling
  1. Now those gods have the power of quickening, whence their name ‘devasū’ (Divine Quickeners). It is those gods who now quicken him thus, and quickened (consecrated) by them he will be consecrated on the morrow.

१४

विश्वास-प्रस्तुतिः

ता वै द्वि᳘नाम्न्यो भवन्ति॥
द्वन्द्वं वै᳘ व्वी᳘र्यं[[!!]] व्वी᳘र्यवत्यः[[!!]] सुवान्ता ऽइ᳘ति त᳘स्माद्द्वि᳘नाम्न्यो भवन्ति॥

मूलम् - श्रीधरादि

ता वै द्वि᳘नाम्न्यो भवन्ति॥
द्वन्द्वं वै᳘ व्वी᳘र्यं[[!!]] व्वी᳘र्यवत्यः[[!!]] सुवान्ता ऽइ᳘ति त᳘स्माद्द्वि᳘नाम्न्यो भवन्ति॥

मूलम् - Weber

ता वै द्वि᳘नाम्न्यो भवन्ति॥
द्वन्द्वं वै᳘ वीर्यं᳘ वीर्य᳘वत्यः सुवान्ता इ᳘ति त᳘स्माद्द्वि᳘नाम्न्यो भवन्ति॥

मूलम् - विस्वरम्

ता वै द्विनाम्न्यो भवन्ति । द्वन्द्वं वै वीर्यम् । वीर्यवत्यः सुवान्ता ऽइति । तस्माद्द्विनाम्न्यो भवन्ति ॥ १४ ॥

सायणः

उक्तानां देवतानामेकैकस्य ‘सवित्रे सत्यप्रसवाय’- इत्यादिविशेषणविशेष्यात्मकं नामद्वयं तद्द्वंद्वात्मना प्रशंसति- ता वै द्विनाम्न्य इति । ‘सुवान्तै’- इति पञ्चमलकारान्तं पदम् । “लेटो ऽडाटौ”- (पा. सू. ३ । ४ । ९४) इत्याडागमः, “एत ऐ”- इत्येकारादेशश्च (पा. सू. ३ । ४ । ९३) ॥ १४ ॥

Eggeling
  1. They are double-named, for a coupling means strength: ‘May the strong quicken (him),’ thus he thinks, and therefore they are double-named.

१५

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रिय᳘त ऽएष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनं मध्यत᳘ ऽए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति त᳘स्माद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रियत ऽआश्रा᳘व्याहाग्न᳘ये स्विष्टकृ᳘ते प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रिय᳘त ऽएष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘देनं मध्यत᳘ ऽए᳘वैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति त᳘स्माद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रियत ऽआश्रा᳘व्याहाग्न᳘ये स्विष्टकृ᳘ते प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती एतत्क᳘र्म क्रिय᳘त एष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्तेत᳘देनम् मध्यत᳘ एॗवैत᳘स्य प्रजा᳘पतेर्द᳘धाति मध्यतः᳘ सुवति त᳘स्माद᳘न्तरेणा᳘हुती एतत्क᳘र्म क्रियत आश्रा᳘व्याहाग्न᳘ये स्विष्टकृ᳘ते प्रेष्ये᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथाह- अग्नये स्विष्टकृते ऽनुब्रूहि इति । तद् यदन्तरेणाहुती ऽएतत्कर्म क्रियते । एष वै प्रजापतिः- य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनुप्रजायन्ते । तद् एनं मध्यत एवैतस्य प्रजापतेर्दधाति । मध्यतः सुवति । तस्मादन्तरेणाहुती ऽएतत्कर्म क्रियते । आश्राव्याहा- अग्नये स्विष्टकृते प्रेष्येति । वषट्कृते जुहोति ॥ १५ ॥

सायणः

अग्नीषोमीयपशुपुरोडाशप्रधानाहुतेरनन्तरं कर्तव्यं विधाय प्रकृतं स्विष्टकृद्यागमनुवदति- अथाहेति । प्रधानस्विष्टकृदाहुत्योर्मध्ये देवसूहविःप्रचारेण यज्ञरूपप्रजापतिमध्ये एव यजमानं निहितवान् भवतीत्यर्थः ॥ १५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे तृतीयाध्याये तृतीयं ब्राह्मणम् ॥ ५-३-३ ॥

इति पञ्चमकाण्डे द्वितीयः प्रपाठकः । (५-२)

Eggeling
  1. He now says, ‘Pronounce the invitatory prayer to Agni Svishṭakr̥t.’ And as to why that ceremony is performed here between two offerings 19,–verily Prajāpati is that sacrifice which is here performed, and from which all these creatures were produced,–

and so they are even now produced after this one. Thus he places him (the Sacrificer) in the very middle of that Prajāpati, and quickens him in the middle: this is why that ceremony is performed between two offerings. Having called for the Śraushaṭ. he says, ‘Urge for Agni Svishṭakr̥t!’ and offers as the Vashaṭ is pronounced.


  1. देवसुवां Sây ↩︎

  2. अग्नीषोमीयस्य पशुपुरोडाशमनु देवसूहवींषि निर्वपति यजप्रैषाणि का. श्रौ. सू. १५ । ८४ । ↩︎

  3. 69:1 This is the ordinary Paśu-purodāśa, or cake of animal (offering). See part ii, p. 199, note 2 (where read Agni and Soma. instead of Indra and Agni). ↩︎

  4. प्लाशुकानाँ सवित्रे सत्यप्रसवाय । का. श्रौ. सू. १५ । ८५ । ↩︎ ↩︎ ↩︎

  5. ‘प्लाशुकाः पुनः प्ररूढा व्रीहयः’ इति कर्कोक्तिः । ↩︎

  6. 69:2 That is, according to Sāyaṇa, rice which has sprung up again and ripens very rapidly. Taitt. S. I, 8, 10 has ‘āśu’ instead, for which see next paragraph. ↩︎

  7. 69:3 Or, consecrated (sū). ↩︎

  8. 69:4 That is, according to Sāyaṇa, rice ripening in sixty days. The Taitt. S. prescribes a cake of black rice for Agni. ↩︎

  9. नैवारो बृहस्पतये व्वाचे का. श्रौ. सू. १५ । ८९ । ↩︎ ↩︎

  10. 70:1 Br̥haspati Vākpati (lord of speech), according to the Black Yajus, where the order of the ‘Divine Quickeners’ is moreover somewhat different. ↩︎

  11. 70:2 ? Or cooked by the Brahman, that is by Brāhmans, when living the life of hermits or ascetics. ↩︎

  12. अतिष्ठाः Sây. ↩︎

  13. 70:3 The Taitt. S. prescribes a cake prepared of large rice (mahāvrīhi). ↩︎

  14. रुद्राय पशुपतये । प्रागुक्त एव गावेधुकश्चरुरिति सूत्रार्थः का. श्रौ. सू. । १५ । ९१ । ↩︎ ↩︎ ↩︎

  15. 71:1 The Taitt. S. and Br. read ‘āmba’ instead, ‘a kind of grain,’ according to Sāyaṇa. ↩︎

  16. धर्मा उप Sây. ↩︎

  17. 71:2 Or, perhaps, ‘on the part of the quickeners (rulers, savānām).’ ↩︎

  18. 72:1 Here the name of the people, e. g. ‘O ye Kurus, O ye Pañcālas!’ is inserted. The Taitt. S. reads, ‘O ye Bharatāḥ.’ ↩︎

  19. 72:2 That is to say, the oblations to the ‘Divine Quickeners,’ which were inserted between the chief oblation of the (Agnīshomīya) paśupurodāśa and the Svishṭakr̥t of it; see above, parag. 10. ↩︎