०१

विश्वास-प्रस्तुतिः

उप᳘रिष्टाद्र᳘त्नानाᳫँ᳭ सौमारौद्रे᳘ण यजते॥
स᳘ श्वेता᳘यै श्वेत᳘वत्सायै प᳘यसि शृतो᳘ भवति तद्य᳘दुप᳘रिष्टाद्र᳘त्नानाᳫँ᳭ सौमारौद्रे᳘ण य᳘जते᳘॥

मूलम् - श्रीधरादि

उप᳘रिष्टाद्र᳘त्नानाᳫँ᳭ सौमारौद्रे᳘ण यजते॥
स᳘ श्वेता᳘यै श्वेत᳘वत्सायै प᳘यसि शृतो᳘ भवति तद्य᳘दुप᳘रिष्टाद्र᳘त्नानाᳫँ᳭ सौमारौद्रे᳘ण य᳘जते᳘॥

मूलम् - Weber

उप᳘रिष्टाद्र᳘त्नानाᳫं सौमारौद्रे᳘ण यजते॥
स᳘ श्वेता᳘यै श्वेत᳘वत्सायै प᳘यसि शृतो᳘ भवति तद्य᳘दुप᳘रिष्टाद्र᳘त्नानाᳫं सौमारौद्रे᳘ण य᳘जते॥

मूलम् - विस्वरम्

अथोपरियागाः ।

उपरिष्टाद्रत्नानां सौमारौद्रेण यजते । स श्वेतायै श्वेतवत्सायै पयसि शृतो भवति । तद् यद्युपरिष्टाद्रत्नानां सौमारौद्रेण यजते ॥ १ ॥

सायणः

अथ सौमारौद्रयागं विधत्ते- उपरिष्टाद्रत्नानामिति 1- (तै. सं. १ । ८ । ९ । २) । रत्नहविषामुपरि स्वगृहे सौमारौद्रयागः कर्त्तव्यः । स च कः ? ‘श्वेतवत्सायै श्वेतायै’ । उभयत्र षष्ठ्यर्थे चतुर्थी । (पा. सू. २ । ३ । ६२ । वा.) शुक्लवत्सायाः शुक्लाया गोः ‘पयसि’ ‘शृतः’ पक्वो ‘भवति’ ॥ १ ॥

Eggeling
  1. After the ‘jewels’ he offers (a pap) to Soma and Rudra. It is cooked in milk from a white (cow) which has a white calf. And as to why, after the ‘jewels,’ he offers (a pap) to Soma and Rudra.

०२

विश्वास-प्रस्तुतिः

स्वर्भानुर्ह वा᳘ ऽआसुरः[[!!]]॥
सू᳘र्यं त᳘मसा व्विव्याध स त᳘मसा व्विद्धो न᳘ व्यरोचत᳘[[!!]] तस्य[[!!]] सोमारुद्रा᳘वे᳘वैतत्तमो᳘ ऽपाहताᳫँ᳭ स᳘ एषो᳘ ऽपहतपाप्मा तपति त᳘थो ऽए᳘वैष᳘ ऽएतत्त᳘मः प्र᳘विशत्येतं᳘ वा त᳘मः प्र᳘विशति य᳘दयज्ञिया᳘न्यज्ञेन[[!!]] प्रस᳘जत्ययज्ञियान्वा᳘ ऽएत᳘द्यज्ञे᳘न प्र᳘सजति शूद्रां᳘स्त्वद्यां᳘स्त्वत्त᳘स्य सोमारुद्रा᳘वे᳘वैतत्तमो᳘ ऽपहतः सो᳘ ऽपहतपाप्मैव᳘दीक्षते तद्य᳘च्छ्वे᳘ता᳘यै श्वेत᳘वत्सायै प᳘यसि शृतो भ᳘वति कृष्णं वै त᳘मस्तत्तमो᳘ ऽपहन्ति त᳘स्यै᳘षैव᳘ श्वेता᳘ श्वेत᳘वत्सा द᳘क्षिणा॥

मूलम् - श्रीधरादि

स्वर्भानुर्ह वा᳘ ऽआसुरः[[!!]]॥
सू᳘र्यं त᳘मसा व्विव्याध स त᳘मसा व्विद्धो न᳘ व्यरोचत᳘[[!!]] तस्य[[!!]] सोमारुद्रा᳘वे᳘वैतत्तमो᳘ ऽपाहताᳫँ᳭ स᳘ एषो᳘ ऽपहतपाप्मा तपति त᳘थो ऽए᳘वैष᳘ ऽएतत्त᳘मः प्र᳘विशत्येतं᳘ वा त᳘मः प्र᳘विशति य᳘दयज्ञिया᳘न्यज्ञेन[[!!]] प्रस᳘जत्ययज्ञियान्वा᳘ ऽएत᳘द्यज्ञे᳘न प्र᳘सजति शूद्रां᳘स्त्वद्यां᳘स्त्वत्त᳘स्य सोमारुद्रा᳘वे᳘वैतत्तमो᳘ ऽपहतः सो᳘ ऽपहतपाप्मैव᳘दीक्षते तद्य᳘च्छ्वे᳘ता᳘यै श्वेत᳘वत्सायै प᳘यसि शृतो भ᳘वति कृष्णं वै त᳘मस्तत्तमो᳘ ऽपहन्ति त᳘स्यै᳘षैव᳘ श्वेता᳘ श्वेत᳘वत्सा द᳘क्षिणा॥

मूलम् - Weber

स्वर्भानुर्ह वा᳘ आसुरः᳟॥
सू᳘र्यं त᳘मसा विव्याध स त᳘मसा विद्धो न व्य᳘रोचत त᳘स्य सोमारुद्रा᳘वेॗवैतत्तमो᳘ ऽपाहताᳫं स᳘ एषो᳘ ऽपहतपाप्मा तपति त᳘थो एॗवैष᳘ एतत्त᳘मः प्र᳘विशत्येतं᳘ वा त᳘मः प्र᳘विशति य᳘दयज्ञिया᳘न्यज्ञे᳘न प्रस᳘जत्ययज्ञियान्वा᳘ एत᳘द्यज्ञे᳘न प्र᳘सजति शूद्रा᳘ᳫं᳘स्त्वद्या᳘ᳫं᳘स्त्वत्त᳘स्य सोमारुद्रा᳘वेॗवैतत्तमो᳘ ऽपहतः सो᳘ ऽपहतपाप्मैव᳘ दीक्षते तद्य᳘छ्वेता᳘यै श्वेत᳘वत्सायै प᳘यसि शृतो भ᳘वति कृष्णं वै त᳘मस्तत्तमो᳘ ऽपहन्ति त᳘स्यैॗषैव᳘ श्वेता᳘ श्वेत᳘वत्सा द᳘क्षिणा॥

मूलम् - विस्वरम्

स्वर्भानुर्ह वा ऽआसुरः सूर्यं तमसा विव्याध । स तमसा विद्धो न व्यरोचत । तस्य सोमारुद्रावेवैतत्तमो ऽपाहताम् । स एषो ऽपहतपाप्मा तपति । तथो ऽएवैष एतत्तमः प्रविशति, एतं वा तमः प्रविशति यदयज्ञियान् यज्ञेन प्रसजति । अयज्ञियान्वा ऽएतद्यज्ञेन प्रसजति शूद्रांस्त्वत्, यांस्त्वत् तस्य सोमारुद्रावेवैतत्तमो ऽपहतः । सो ऽपहतपाप्मैव दीक्षते । तद् यच्छ्वेतायै श्वेतवत्सायै पयसि शृतो भवति । कृष्णं वै तमः । तत् तमो ऽपहन्ति । तस्यैषैव श्वेता श्वेतवत्सा दक्षिणा ॥ २ ॥

सायणः

रत्नहविर्भ्यो ऽनन्तरं विहितं सौमारौद्रयागमनूद्याख्यायिकया प्रशंसति- स्वर्भानुर्हेति । ‘आसुरः’ असुरपुत्रः ‘स्वर्भानुः’ ‘सूर्यम्’ ‘तमसा’ ‘विव्याध’ आच्छादितवान् । ‘सः’ सूर्यः तेन ‘तमसा’ ‘विद्धः’ आच्छादिशः । ‘न व्यरोचत’ नातिप्रकाशवान् जातः । ‘तस्य’ ‘तत् तमः’ ‘सोमारुद्रौ एव’ ‘अपाहताम्’ अपहृतवन्तौ । ततः आरभ्य सूर्यो निवृत्ततमस्कः सन् ‘तपति’ नभसि दीप्यते । इदानीं तदनुष्ठातुरपि तमसा ऽऽच्छादनमाह- तथो एवैष इति । ‘अयज्ञियान्’ अयज्ञार्हान् सेनान्यादीन् ‘यज्ञेन’ ‘प्रसजति’ प्रसक्तान् तत्तद्यागानुष्ठानेन सम्बद्धान् करोतीति ‘यत्’ ‘एतत्’ एतेन ‘एषः’ अनुष्ठाता राजन्यः ‘तथा उ’ तथैव सूर्यवदेव ‘तमः प्रविशति’ । तमः वा कर्तृ ‘एतं’ सुन्वन्तं ‘प्रविशति’ । सेनान्यादीनामयज्ञियत्वं प्रसिद्धमित्याह- अयज्ञियान् वा इति । तामेव प्रसिद्धिं दर्शयति- शूद्रानिति । ‘त्वत्’- इति एकपर्यायः । एकदा ‘शूद्रान्’ सेनान्यादीन्, ‘त्वत्’ एकदा ‘यान्’ कांश्चन गोविकर्तादीन् हीनजातीनपि ‘यज्ञेन’ ‘प्रसजति’ । तेन अयज्ञियसम्बन्धेन तमः प्रविशतीति अतः ‘तस्य’ यष्टुः तथाविधं तमः ‘सोमारुद्रौ एव’ एतत् एतेन चरुणा प्रीणितौ ‘अपहतः’ विनाशयतः । ततः पापलेशासंस्पृष्टः सन् ‘दीक्षते’ दीक्षार्हो भवतीत्यर्थः । श्वेतापयसि श्रपणं प्रशंसति-तद्यदिति । ‘तद्’ ‘यत्’ यदि, ‘तमो’ नाम ‘कृष्णं’ श्वेतवत्सायाः श्वेतायाः शुक्लवर्णे ‘पयसि’ श्रपणेन कृष्णरूपं तमः अपसारितवान् भवतीत्यर्थः ॥

यस्याः पयसि चरुः पक्वः तामेव दक्षिणात्वेन विधत्ते- तस्यैषैवेति 2 ॥ २ ॥

Eggeling
  1. Now, once upon a time, Svarbhānu, the Āsura, struck the sun with darkness, and stricken with darkness he did not shine 3. Soma and Rudra

removed that darkness of his; and freed from evil he burns yonder. And in like manner does that (king) thereby enter darkness,–or darkness enters him,–when he puts those unworthy of sacrifice 4 in contact with the sacrifice; and he does indeed now put those unworthy of sacrifice–either Śūdras or whomever else–in contact with the sacrifice. It is Soma and Rudra who remove that darkness of his; and freed from evil he becomes consecrated. And as to why it is cooked in milk from a white (cow) which has a white calf,–darkness is black: that darkness he removes. The sacrificial fee for this (oblation) is a white (cow) which has a white calf.

०३

विश्वास-प्रस्तुतिः

स᳘ हैतेना᳘पि यजेत॥
यो᳘ ऽलं य᳘शसे सन्नय᳘शो भ᳘वति यो वा᳘ ऽअनूचानः सो᳘ ऽलं य᳘शसे सन्नय᳘शो भवति यो न य᳘शो भ᳘वति स त᳘मसा वै स तत्प्रा᳘वृतो भवति त᳘स्य सोमारुद्रा᳘वे᳘वैतत्तमो᳘ ऽपहतः सो᳘ ऽपहतपाप्मा ज्यो᳘तिरेव᳘ श्रिया य᳘शसा भवति॥

मूलम् - श्रीधरादि

स᳘ हैतेना᳘पि यजेत॥
यो᳘ ऽलं य᳘शसे सन्नय᳘शो भ᳘वति यो वा᳘ ऽअनूचानः सो᳘ ऽलं य᳘शसे सन्नय᳘शो भवति यो न य᳘शो भ᳘वति स त᳘मसा वै स तत्प्रा᳘वृतो भवति त᳘स्य सोमारुद्रा᳘वे᳘वैतत्तमो᳘ ऽपहतः सो᳘ ऽपहतपाप्मा ज्यो᳘तिरेव᳘ श्रिया य᳘शसा भवति॥

मूलम् - Weber

स᳘ हैतेना᳘पि यजेत॥
यो᳘ ऽलं य᳘शसे सन्न य᳘शो 5 भ᳘वति यो वा᳘ अनूचानः सो᳘ ऽलं य᳘शसे सन्न य᳘शो भवति यो न य᳘शो भ᳘वति स त᳘मसा वै स तत्प्रा᳘वृतो भवति त᳘स्य सोमारुद्रा᳘वेॗवैतत्तमो᳘ ऽपहतः सो᳘ ऽपहतपाप्मा ज्यो᳘तिरेव श्रिया य᳘शसा भवति॥

मूलम् - विस्वरम्

स हैतेन- अपि यजेत- यो ऽलं यशसे सन्नयशो भवति । यो वा ऽअनूचानः सो ऽलं यशसे सन्नयशो भवति । यो न यशो भवति- स तमसा वै स तत् प्रावृतो भवति । तस्य सोमारुद्रावेवैतत्तमो ऽपहतः । सो ऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति (१) ॥ ३ ॥

सायणः

प्रसङ्गात्फलान्तरायास्य होमत्य बाह्यप्रयोगं दर्शयति- स हैतेनापीति । ‘अपिः’ भिन्नक्रमः । ‘सो ऽपि’ ‘एतेन’ सौमारौद्रेण चरुणा ‘यजेत’ । स इत्युक्तं क इत्याह- ‘यः’ यज्ञियः पुरुषः ‘यशसे’ यशसां प्राप्तये ‘अलं सन्’ समर्थो योग्यो भवन्नपि ‘अयशः’ कीर्तिरहितः ‘भवति’ । यच्छब्दार्थं विशिनष्टि- यो वा अनुचान इति । साङ्गवेदाध्यायी ‘अनूचानः’ ‘सः’ ‘यशसे’ ‘अलं’ योग्यो भवन्नपि ‘अयशः’ यशोरहितो ‘भवति’ ‘यः’ तु यशोरहितः, ‘सः’ ‘तमसा’ ‘प्रावृतः,’ ‘तस्य’ ‘एतत्’ एतेन हविषा ‘सोमारुद्रौ एव’ ‘कीर्त्यभावरूपं ‘तमः’ ‘अपहतः’ तं कीर्तिमन्तं कुरुतः इत्यर्थः । ‘सः’ यजमानः अयशोरूपतमसा वियुक्तः सन्, ज्योतिरात्मको भूत्वा ‘श्रिया’ सम्पदा ‘यशसा’ चोपलक्षितो भवति 6 ॥ ३ ॥

Eggeling
  1. Even he who, while being qualified for fame, is not yet famous, may perform that offering. Now he who is learned (in the Veda), while being qualified for fame, is not famous; and he who is not famous, is covered with darkness: that darkness of his Soma and Rudra thereby remove; and freed from evil he becomes a very light by his prosperity and renown.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मैत्राबार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति॥
ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष᳘ यज्ञपथाद्य᳘दयज्ञिया᳘न्यज्ञे᳘न प्रस᳘जत्ययज्ञियान्वा᳘ ऽएत᳘द्यज्ञे᳘न प्र᳘सजति शूद्रां᳘स्त्वद्यां᳘स्त्वन्मित्राबृ᳘हस्प᳘ती वै᳘ यज्ञपथो ब्र᳘ह्म हि᳘ मित्रो ब्र᳘ह्म हि᳘ यज्ञो ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ यज्ञस्तत्पु᳘नर्यज्ञपथम᳘पिपद्यते᳘ सो ऽपि प᳘द्यैव᳘ यज्ञपथं᳘ दीक्षते त᳘स्मान्मैत्राबार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मैत्राबार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति॥
ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष᳘ यज्ञपथाद्य᳘दयज्ञिया᳘न्यज्ञे᳘न प्रस᳘जत्ययज्ञियान्वा᳘ ऽएत᳘द्यज्ञे᳘न प्र᳘सजति शूद्रां᳘स्त्वद्यां᳘स्त्वन्मित्राबृ᳘हस्प᳘ती वै᳘ यज्ञपथो ब्र᳘ह्म हि᳘ मित्रो ब्र᳘ह्म हि᳘ यज्ञो ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ यज्ञस्तत्पु᳘नर्यज्ञपथम᳘पिपद्यते᳘ सो ऽपि प᳘द्यैव᳘ यज्ञपथं᳘ दीक्षते त᳘स्मान्मैत्राबार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति॥

मूलम् - Weber

अ᳘थ मैत्राबार्हस्पत्यं᳘ चरुं नि᳘र्वपति॥
ह्व᳘लति वा᳘ एष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ एष᳘ यज्ञपथाद्य᳘दयज्ञिया᳘न्यज्ञे᳘न प्रस᳘जत्ययज्ञियान्वा᳘ एत᳘द्यज्ञे᳘न प्र᳘सजति शूद्रा᳘ᳫं᳘स्त्वद्या᳘ᳫं᳘स्त्वन्मित्राबृ᳘हस्प᳘ती वै᳘ यज्ञपथो ब्र᳘ह्म हि᳘ मित्रो ब्र᳘ह्म हि᳘ यज्ञो ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ यज्ञस्तत्पु᳘नर्यज्ञपथम᳘पिपद्यतेॗ सो ऽपिप᳘द्यैव᳘ यज्ञपथं᳘ दीक्षते त᳘स्मान्मैत्राबार्हस्पत्यं᳘ चरुं नि᳘र्वपति॥

मूलम् - विस्वरम्

अथ मैत्राबार्हस्पत्यं चरुं निर्वपति । ह्वलति वा ऽएषः- यो यज्ञपथादेति । एति वा ऽएष यज्ञपथाद् यदयज्ञियान्यज्ञेन प्रसजति । अयज्ञियान्वा ऽएतद्यज्ञेन प्रसजति- शूद्रांस्त्वद्, यांस्त्वत् । मित्राबृहस्पती वै यज्ञपथः । ब्रह्म हि मित्रो, ब्रह्म हि यज्ञः । ब्रह्म हि बृहस्पतिः, ब्रह्म हि यज्ञः । तत्पुनर्यज्ञपथमपिपद्यते । सो ऽपिपद्यैव यज्ञपथं दीक्षते । तस्मान्मैत्राबार्हस्पत्यं चरुं निर्वपति ॥ ४ ॥

सायणः

विधत्ते- अथ मैत्रेति । ‘मैत्राबार्हस्पत्यं’ मित्राबृहस्पतिदेवत्यं ‘चरुं’ निर्वपेत् 6 । देवतासम्बन्धं प्रशंसति- ह्वलति वा इति । अयज्ञियानां सेनान्यादीनां यज्ञे प्रसञ्जनमेव यज्ञपथादपगमनमित्यर्थः । मित्राबृहस्पत्योर्यज्ञपथात्मकत्वं निर्वक्ति- ब्रह्म हि मित्र इति । ‘ब्रह्म’ वेदः, तदेव हि ‘यज्ञः’ तत्साध्यत्वाद् । यज्ञ एव पन्थाः यज्ञपथमिति समासं विवक्षित्वा, तयोः परम्परया यज्ञरूपत्वोक्तिः । तत् पुनर्यज्ञेति । ‘तत्’ तस्माद् यज्ञात्मकमित्राबृहस्पतिदेवत्ययागानुष्ठानात् पुनर्यज्ञपथं प्राप्य ‘दीक्षते’ दीक्षां कर्तुमर्हतीत्यर्थः ॥ ४ ॥

Eggeling
  1. Thereupon he prepares a pap for Mitra and Br̥haspati 7. For verily he who departs from the

path of the sacrifice stumbles; and he does indeed depart from the path of the sacrifice, when he puts those unworthy of sacrifice in contact with the sacrifice, and he does indeed now put those unworthy of sacrifice–either Śūdras or whomever else–in contact with the sacrifice. And the path of the sacrifice is Mitra and Br̥haspati; for Mitra is the Brahman, and the Brahman is the sacrifice; and Br̥haspati is the Brahman, and the Brahman is the sacrifice. Thus he, returns again to the path of the sacrifice; and as soon as he has returned to the path of the sacrifice he is consecrated: therefore he prepares a pap for Mitra and Br̥haspati.

०५

विश्वास-प्रस्तुतिः

त᳘स्यावृ᳘त्॥
(द्या᳘) या᳘ स्वयम्प्रशीर्णा᳘ ऽऽश्वत्थी शा᳘खा प्राची[[!!]] वो᳘दीची वा भ᳘वति त᳘स्यै मैत्रं पा᳘त्रं करोति व्वरु᳘ण्या वा᳘ ऽएषा या᳘ परशु᳘वृक्णा᳘ ऽथैषा᳘ मैत्री या᳘ स्वयम्प्रशीर्णा त᳘स्मात्स्वयम्प्रशीर्णा᳘यै शा᳘खायै मैत्रं पा᳘त्रं करोति॥

मूलम् - श्रीधरादि

त᳘स्यावृ᳘त्॥
(द्या᳘) या᳘ स्वयम्प्रशीर्णा᳘ ऽऽश्वत्थी शा᳘खा प्राची[[!!]] वो᳘दीची वा भ᳘वति त᳘स्यै मैत्रं पा᳘त्रं करोति व्वरु᳘ण्या वा᳘ ऽएषा या᳘ परशु᳘वृक्णा᳘ ऽथैषा᳘ मैत्री या᳘ स्वयम्प्रशीर्णा त᳘स्मात्स्वयम्प्रशीर्णा᳘यै शा᳘खायै मैत्रं पा᳘त्रं करोति॥

मूलम् - Weber

त᳘स्यावृ᳘त्॥
या᳘ स्वयम्प्रशीर्णा᳘श्वत्थी शा᳘खा प्रा᳘ची वो᳘दीची वा भ᳘वति त᳘स्यै मैत्रम् पा᳘त्रं करोति वरुॗण्या वा᳘ एषा या᳘ परशु᳘वृक्णा᳘थैषा᳘ मैत्री या᳘ स्वयम्प्रशीर्णा त᳘स्मात्स्वयम्प्रशीर्णा᳘यै शा᳘खायै मैत्रम् पा᳘त्रं करोति॥

मूलम् - विस्वरम्

तस्यावृत् । या स्वयम्प्रशीर्णा ऽऽश्वत्थी शाखा प्राची वोदीची वा भवति । तस्यै मैत्रं पात्रं करोति । वरुण्या वा ऽएषा- या परशुवृक्णा । अथैषा मैत्री- या स्वयम्प्रशीर्णा । तस्मात् स्वयम्प्रशीर्णायै शाखायै मैत्रं पात्रं करोति ॥ ५ ॥

सायणः

तस्य चरोरनुष्ठानप्रकारं वक्तुं प्रतिजानीते- तस्यावृदिति । ‘तस्य’ मैत्राबार्हस्पत्ययागस्य ‘आवृत्’ क्रिया, अनुष्ठानप्रकारो वक्ष्यत इति शेषः । ‘स्वयम्प्रशीर्णा’ स्वयमेव भग्ना, ‘प्राची’ प्रागायता, ‘उदीची’ उदगायता ‘वा’ या ‘आश्वत्थी’ अश्वत्थस्य ‘शाखा’ ‘भवति’ तस्याः शाखायाः ‘मैत्रं’ मित्रसम्बन्धिचरुपाकार्थं ‘पात्रं’ कुर्यात् 8 । स्वयम्मग्नायां मैत्रत्वं व्यतिरेकपूर्वकमुपपादयति- वरुण्या वा एषेति । ‘या’ शाखा ‘परशुवृक्णा’ छिन्ना व्रश्चनेन, सा हिंसितत्वाद् ‘वरुण्या’ वरुणदेवत्या; स्वयम्मग्नपत्रा तु मित्रार्हा, हिंसाविरहात्; सर्वसुहृत्वान्मित्रदेवस्य परशुच्छिन्नशाखानिर्मितं पात्रमयोग्यमित्यर्थः ॥ ५ ॥

Eggeling
  1. The course of this (is as follows). Any aśvattha branch broken off by itself, either on the eastern or on the northern side (of the tree), from that he makes a vessel (to hold the pap) for Mitra; for that which is hewn by the axe belongs to Varuṇa; but that which is broken off by itself belongs to Mitra: therefore he makes the vessel for Mitra from a branch broken off by itself.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थात᳘च्य द᳘धि॥
वि᳘नाट ऽआसि᳘च्य र᳘थं यु᳘क्त्वा ऽऽब᳘ध्य दे᳘दीयितवा᳘ ऽआह तद्य᳘त्स्वयमुदितं न᳘वनीतं तदा᳘ज्यं भवति व्वरु᳘ण्यं[[!!]] वा᳘ ऽएतद्य᳘न्म᳘थित᳘मथैतन्मैत्रं[[!!]] य᳘त्स्वयमुदितं त᳘स्मात्स्वयमुदितमा᳘ज्यं भवति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थात᳘च्य द᳘धि॥
वि᳘नाट ऽआसि᳘च्य र᳘थं यु᳘क्त्वा ऽऽब᳘ध्य दे᳘दीयितवा᳘ ऽआह तद्य᳘त्स्वयमुदितं न᳘वनीतं तदा᳘ज्यं भवति व्वरु᳘ण्यं[[!!]] वा᳘ ऽएतद्य᳘न्म᳘थित᳘मथैतन्मैत्रं[[!!]] य᳘त्स्वयमुदितं त᳘स्मात्स्वयमुदितमा᳘ज्यं भवति[[!!]]॥

मूलम् - Weber

अ᳘थात᳘च्य द᳘धि॥
वि᳘नाट आसि᳘च्य र᳘थं युॗक्त्वाब᳘ध्य दे᳘दीयितवा᳘ आह तद्य᳘त्स्वयमुदितं न᳘वनीतं तदा᳘ज्यम् भवति वरुण्यं᳘ वा᳘ एतद्य᳘न्मथितम᳘थैत᳘न्मैत्रं य᳘त्स्वयमुदितं त᳘स्मात्स्वयमुदितमा᳘ज्यम् भ᳘वति॥

मूलम् - विस्वरम्

अथातच्य दधि, विनाट ऽआसिच्य, रथं युक्त्वा, आबध्य, देदीयितवा ऽआह । तद् यत् स्वयमुदितं नवनीतम्- तदाज्यं भवति । वरुण्यं वा ऽएतद्- यन्मथितम् । अथैतन्मैत्रम्- यत् स्वयमुदितम् । तस्मात् स्वयमुदितमाज्यं भवति ॥ ६ ॥

सायणः

मैत्रचर्वर्थमाज्यकरणं विधत्ते- अथातच्येति । पयोविशेषस्तैत्तिरीयके श्रुतः- “श्वेतायै श्वेतवत्सायै दुग्धे स्वयंमूर्त्ते" (तै. सं. १ । ८ । ९ । २)- इति । तादृशं पयः ‘आतच्य’ आतञ्चनद्रव्येण ‘दधि’ कृत्वा ‘विनाटे’ चर्ममये पात्रे दृतौ ‘आसिच्य,’ ‘रथं’ ‘युक्त्वा’ अश्वैः संयोज्य, आबध्य दधिपूर्णं तबै प्रत्ययः । तत्र रथधावनेन दध्नौ यत् स्वयमुदितम् मथनमन्तरेण निष्पन्नं, नवनीतं तदेव स्वयमेव विलीनं सद् आज्यं भवति । आज्यकरणप्रकारस्त्वापस्तम्बेन विशद उक्तः- “श्वेतां श्वेतवत्सामामस्त्ये दृतौ दुहन्ति, तत् स्वयंमूर्त्तं संयोगेन परिवहन्ति, तत् स्वयं मथितमातपे विषजन्ति, तत् स्वयं विलीनमाज्यं भवति”- (आ. श्रौ. सू. १८ । ११ । ३-६) इति । स्वयमुदिताज्यस्य मित्र योग्यत्वं व्यतिरेकमुखेन दर्शयति- वरुण्यमिति । यन्मन्थननिष्पन्नमाज्यं तद् ‘वरुण्यम्’ उपद्रवकारिणो वरुणस्य योग्यम्, न तु सर्वसुहृदो मित्रस्य । यत्तु उदीरितरूपं स्वयमुदितं तन्मन्थनरूपस्य हिंसनस्य विरहान्मैत्रम् ॥ ६ ॥

Eggeling
  1. Thereupon having curdled the (milk into) curds, and poured it into a leathern bag; and having put (the horses) to the cart, and fastened (the bag on the cart), he tells it to ‘fly away.’ This is that (kind of) fresh butter which is self-produced 9; for that which is churned belongs to Varuṇa, and that which is self-produced belongs to Mitra: therefore it is self-produced butter.

०७

विश्वास-प्रस्तुतिः

द्वेधा᳘ तण्डुला᳘न्कुर्व्वन्ति॥
स ये᳘ ऽणीयाᳫँ᳭ सः प᳘रिभिन्नास्ते᳘ बार्हस्पत्या ऽअ᳘थ वै स्थ᳘वीयाᳫँ᳭सो᳘ ऽपरिभिन्नास्ते᳘ मैत्रा न वै᳘ मित्रः कं᳘चन᳘ हिनस्ति न᳘ मित्रं क᳘श्चन᳘ हिनस्ति᳘ नैनं कुशो न क᳘ण्टको व्वि᳘भिनत्ति᳘ नास्य व्र᳘णश्च᳘नास्ति स᳘र्व्वस्य᳘ ह्येव᳘ मित्रो᳘ मित्रम्[[!!]]॥

मूलम् - श्रीधरादि

द्वेधा᳘ तण्डुला᳘न्कुर्व्वन्ति॥
स ये᳘ ऽणीयाᳫँ᳭ सः प᳘रिभिन्नास्ते᳘ बार्हस्पत्या ऽअ᳘थ वै स्थ᳘वीयाᳫँ᳭सो᳘ ऽपरिभिन्नास्ते᳘ मैत्रा न वै᳘ मित्रः कं᳘चन᳘ हिनस्ति न᳘ मित्रं क᳘श्चन᳘ हिनस्ति᳘ नैनं कुशो न क᳘ण्टको व्वि᳘भिनत्ति᳘ नास्य व्र᳘णश्च᳘नास्ति स᳘र्व्वस्य᳘ ह्येव᳘ मित्रो᳘ मित्रम्[[!!]]॥

मूलम् - Weber

द्वेधा᳘ तण्डुला᳘न्कुर्वन्ति॥
स ये᳘ ऽणीयांसः प᳘रिभिन्नास्ते᳘ बार्हस्पत्या अ᳘थ ये स्थ᳘वीयांसो᳘ ऽपरिभिन्नास्ते᳘ मैत्रा न वै᳘ मित्रः कं᳘ चन᳘ हिनस्ति न᳘ मित्रं क᳘श्चन᳘ हिनस्तिॗ नैनं कुशो न क᳘ण्टको वि᳘भिनत्तिॗ नास्य व्र᳘णश्चॗनास्ति स᳘र्वस्यॗ ह्येव᳘ मित्रो᳘ मित्र᳘म्॥

मूलम् - विस्वरम्

द्वेधा तण्डुलान् कुर्वन्ति । स ये ऽणीयांसः परिभिन्नास्ते बार्हस्पत्याः । अथ ये स्थवीयांसो ऽपरिभिन्नास्ते मैत्राः । न वै मित्रः कञ्चन हिनस्ति, न मित्रं कश्चन हिनस्ति । नैनं कुशो न कण्टको विभिनत्ति । नास्य व्रणश्चनास्ति । सर्वस्य ह्येव मित्रो मित्रम् ॥ ७ ॥

सायणः

देवताद्वयस्य पृथक् चरोः श्रपणं विधित्सुः तण्डुलानां द्वेधाकरणं विधत्ते- द्वेधेति । ‘ये’ ‘अणीयांसः’ अणुतराः ‘परिभिन्नाः’ छिन्नाग्रास्तण्डुलाः, ‘ते’ बृहस्पतिदेवत्याः कर्त्तव्याः ‘ये’ ‘स्थवीयांसः’ स्थूलतराः ‘अपरिभिन्नाः’ अच्छिन्नाग्राः अचूर्णीकृताः, ‘ते’ मित्रदेवत्याः कर्त्तव्याः 10 । मैत्राणामभिन्नत्वं प्रशंसति- न वै मित्र इति । ‘मित्रो’ देवः ‘कश्चन’ प्राणिनं ‘न हिनस्ति;’ ‘मित्रम्’ अपि ‘न कञ्चन’ को ऽपि ‘हिनस्ति’ ‘एनं’ मित्रं ‘कुशः’ दर्भो वा ‘कण्टकः’ वा ‘न भिनत्ति’ न विध्यति; अत एव तस्य ‘व्रणः’ अपि ‘नास्ति’ । सर्वस्य मित्रत्वादिति हेतुमाह- सर्वस्य ह्येवेति । पुल्ँलिङ्गो मित्रशब्दो देवतावाची, नपुंसकलिङ्गस्तु सुहृद्वचनः ॥ ७ ॥

Eggeling
  1. They divide the rice-grains into two parts: the smaller and broken ones belong to Br̥haspati,

and the larger and unbroken ones to Mitra. For Mitra injures no one, nor does any one injure Mitra; neither a kuśa stalk nor a thorn pricks him, nor has he any scar; for Mitra is every one’s friend (mitram).

०८

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ बार्हस्पत्यं᳘ चरुम᳘धिश्रयति॥
तं᳘ मैत्रे᳘ण पा᳘त्रेणा᳘पिदधाति तदा᳘ज्यमा᳘नयति त᳘त्तण्डुलाना᳘वपति स᳘ ऽएष᳘ ऊष्म᳘णैव᳘ श्रप्यते व्वरु᳘ण्यो वा᳘ ऽएष᳘ यो ऽग्नि᳘ना शृतो᳘ ऽथैष᳘ मैत्रो य᳘ ऊष्म᳘णा शृतस्त᳘स्मादूष्म᳘णा शृतो᳘ भवति त᳘योरुभ᳘योरवद्य᳘न्नाह मित्राबृ᳘हस्प᳘तिभ्याम᳘नुब्रूही᳘त्याश्रा᳘व्याह मित्राबृ᳘हस्प᳘ती यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ बार्हस्पत्यं᳘ चरुम᳘धिश्रयति॥
तं᳘ मैत्रे᳘ण पा᳘त्रेणा᳘पिदधाति तदा᳘ज्यमा᳘नयति त᳘त्तण्डुलाना᳘वपति स᳘ ऽएष᳘ ऊष्म᳘णैव᳘ श्रप्यते व्वरु᳘ण्यो वा᳘ ऽएष᳘ यो ऽग्नि᳘ना शृतो᳘ ऽथैष᳘ मैत्रो य᳘ ऊष्म᳘णा शृतस्त᳘स्मादूष्म᳘णा शृतो᳘ भवति त᳘योरुभ᳘योरवद्य᳘न्नाह मित्राबृ᳘हस्प᳘तिभ्याम᳘नुब्रूही᳘त्याश्रा᳘व्याह मित्राबृ᳘हस्प᳘ती यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थ बार्हस्पत्यं᳘ चरुम᳘धिश्रयति॥
त᳘म् मैत्रे᳘ण पा᳘त्रेणा᳘पिदधाति तदा᳘ज्यमा᳘नयति त᳘त्तण्डुलाना᳘वपति स᳘ एष᳘ ऊष्म᳘णैव᳘ श्रप्यते वरुॗण्यो वा᳘ एषॗ यो ऽग्नि᳘ना शृतो᳘ ऽथैष᳘ मैत्रो य᳘ ऊष्म᳘णा शृतस्त᳘स्मादूष्म᳘णा शृतो᳘ भवति त᳘योरुभ᳘योरवद्य᳘न्नाह मित्राबृ᳘हस्प᳘तिभ्याम᳘नुब्रूही᳘त्याश्रा᳘व्याह मित्राबृ᳘हस्प᳘ती यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथ बार्हस्पत्यं चरुमधिश्रयति । तं मैत्रेण पात्रेणापिदधाति । तदाज्यमानयति । तत् तण्डुलानावपति । स एष ऊष्मणैव श्रप्यते । वरुण्यो वा ऽएषः- यो ऽग्निना शृतः । अथैष मैत्रः । य ऊष्मणा शृतः । तस्मादूष्मणा शृतो भवति । तयोरुभयोरवद्यन्नाह- “मित्राबृहस्पतिभ्यामनुब्रूहि” इति । आश्राव्याह- मित्राबृहस्पती यज इति वषट्कृते जुहोति (२) ॥ ८ ॥

सायणः

श्रपणप्रकारं विधत्ते- अथ बार्हस्पत्यमिति । ‘बार्हस्पत्यं चरुम्’ अधिश्रित्य, अग्निमध्ये स्थाल्यामधिश्रितायां बृहस्पत्यर्थास्तण्डुलानोप्य, ‘तं’ चरुम् अश्वत्थशाखानिर्मितेन ‘मैत्रेण पात्रेण’ अपि- दध्यात् 10 । ‘तत्’ तस्मिन् पात्रे स्वयमुत्पन्नम् ‘आज्यम्’ ‘आनयति’ आसिञ्चेत् । ‘तत्’ तत्र स्थविष्ठान् अपरिभिन्नान् मैत्रान् ‘तण्डुलान्’ आवपेत् । ‘स एषः’ मैत्रश्चरु ‘ऊष्मणैव’ ‘श्रप्यते’ पच्यते 11 ‘अग्निना’ ‘शृतः’ पक्वो ‘वरुण्यः’, दाहप्रयुक्तहिंसासम्बन्धात् ‘वरुण्यः’ चरुणार्हो, न मित्रार्हः । ‘ऊष्मणा शृतः’ तु ‘मैत्रः’ मित्रदेवत्यो युक्तः, दोषविरहात् ॥

एवं पृथक् श्रपणमभिधाय देवताप्रदाने साहित्यं विधत्ते- तयोरुभयोरिति । ‘तयोरुभयोः’ चर्वोर्दधिपयसोर्दार्शिकयोरिव एकैकस्माद् द्विर्द्विरवद्यन् जुह्वां सहावदानं कुर्वन् “मित्राबृहस्पतिभ्यामनुब्रूहि"- ‘इति’ एवं संयुज्य अनुवाक्याप्रैषं ब्रूयात्; एवं ‘यजेति’ याज्याप्रैषे ऽपि ‘वषट्कृते’ सहैव प्रक्षेपः ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥ (५-३-२) ॥

Eggeling
  1. He then puts the pap for Br̥haspati on (the fire), covers it with the vessel for Mitra’s (pap), pours the butter (into the latter), and throws in the (larger) rice-grains. It is cooked merely by the hot steam 12; for what is cooked by fire belongs to Varuṇa, and what is cooked by hot steam belongs to Mitra: therefore it is cooked by hot steam. Making cuttings from both these sacrificial dishes, he says, ‘Pronounce the invitatory prayer to Mitra and Br̥haspati!’ Having called for the Śraushaṭ, he says, ‘Pronounce the offering-prayer to Mitra and Br̥haspati!’ and offers as the Vashaṭ is uttered.

  1. सौमारौद्रो ऽतश्चरुः शुक्लापयसि शुक्लवत्सायाः । का० श्रौ० सू० १५ । ६८ । ↩︎

  2. सैव दक्षिणा । का. श्रौ. सू. १५ । ६९ । ↩︎

  3. 65:2 According to Rig-veda V, 40, 5-9 (cf. Śat. Br. IV, 3, 4, 23 with note) it was Atri who restored the light of the sun. Professor Ludwig (Bohemian Academy of Sciences, Sitzungsber., May, 1885) has tried to prove that solar eclipses (partly available for chronological purposes) are referred to in this and some other passages of the hymns. Compare also Professor Whitney’s remarks thereon, Proceedings of Am. Or. Soc., Oct. 1885, p. xvii. ↩︎

  4. 66:1 That is, some of those officials of his to whom the ratna-havis were offered; Sāyaṇa specifying ’the Commander of the army and others’ as Śūdras; and the ‘Huntsman and others’ as of whatsoever (low) caste. ↩︎

  5. सन् अयशो Sây. (against the accent). ↩︎

  6. अनूचानो ऽप्ययशा यजेत । का. श्रौ. सू. १५ । ७० । ↩︎ ↩︎

  7. 66:2 According to the Taittirīya ritualists this double oblation forms part of the dīkshā, or initiation ceremony (V, 3, 3, 1). See Taitt. S., vol. ii, p. 108. ↩︎

  8. बार्हस्पत्यमधिश्रित्याश्वत्थी या स्वयं भग्ना प्राच्युदीची वा शाखा तत्पात्रेणापिदधाति । का. श्रौ. सू. १५ । ७३ । ↩︎

  9. 67:1 That is, produced in the leathern bottle without further direct human agency, and by the mere motion of the cart. ↩︎

  10. विनाटाद्रथपर्यूढां नवनीतँ स्वयं जातमाज्यमासिच्य पात्रे तस्मिन् स्थविष्ठांस्तंडुलान्मित्रायावपति । ऊष्मणा शृतो भवति । अणिष्टानितरस्मिन् । का. श्रौ. सू. १५ । ७४-७६ । ↩︎ ↩︎

  11. ऊष्मणा शृतो भवति । का. श्रौ. सू. १५ । ७५। ↩︎

  12. 68:1 That is, by the steam rising from the Br̥haspati pap in the bottom vessel. ↩︎