०१

विश्वास-प्रस्तुतिः

अर᳘ण्योरग्नी᳘ समारो᳘ह्य॥
सेना᳘न्यो गृहा᳘न्परे᳘त्याग्नये᳘ ऽनीकवते ऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपत्यग्निर्व्वै᳘ देव᳘तानाम᳘नीकᳫँ᳭ से᳘नाया वै᳘ सेनानीर᳘नीकं त᳘स्मादग्नये᳘ ऽनीकवत ऽएतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्सेनानीस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य हि᳘रण्यं द᳘क्षिणा ऽऽग्नेयो वा᳘ ऽएष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं त᳘स्माद्धि᳘रण्यं द᳘क्षिणा॥

मूलम् - श्रीधरादि

अर᳘ण्योरग्नी᳘ समारो᳘ह्य॥
सेना᳘न्यो गृहा᳘न्परे᳘त्याग्नये᳘ ऽनीकवते ऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपत्यग्निर्व्वै᳘ देव᳘तानाम᳘नीकᳫँ᳭ से᳘नाया वै᳘ सेनानीर᳘नीकं त᳘स्मादग्नये᳘ ऽनीकवत ऽएतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्सेनानीस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य हि᳘रण्यं द᳘क्षिणा ऽऽग्नेयो वा᳘ ऽएष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं त᳘स्माद्धि᳘रण्यं द᳘क्षिणा॥

मूलम् - Weber

अरण्योरग्नी᳘ समारो᳘ह्य॥
सेनाॗन्यो गृहा᳘न्परे᳘त्याग्नये᳘ ऽनीकवते ऽष्ठा᳘कपालम् पुरोडा᳘शं नि᳘र्वपत्यग्निर्वै᳘ देव᳘तानाम᳘नीकᳫं से᳘नाया वै᳘ सेनानीर᳘नीकं त᳘स्मादग्नये᳘ ऽनीकवत एतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘त्सेनानीस्त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते त᳘स्य हि᳘रण्यं द᳘क्षिणाग्नेयो वा᳘ एष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं त᳘स्माद्धिरण्यं द᳘क्षिणा॥

मूलम् - विस्वरम्

रत्नयागाः ।

अरण्योरग्नी समारोह्य, सेनान्यो गृहान्परेत्य, अग्नये ऽनीकवते ऽष्टाकपालं पुरोडाशं निर्वपति । अग्निर्वै देवतानामनीकम् । सेनाया वै सेनानीरनीकम् । तस्मादग्नये ऽनीकवते । एतद्वा ऽअस्यैकं रत्नं यत् सेनानीः । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य हिरण्यं दक्षिणा । आग्नेयो वा ऽएष भवति । अग्ने रेतो हिरण्यम् । तस्माद्धिरण्यं दक्षिणा ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

तृतीयाध्याये प्रथमब्राह्मणे द्वादशरत्नहवींष्यनुदिनं क्रमेण कर्त्तव्यान्युच्यन्ते । अत्र कात्यायनो नैर्ऋतरत्नहविषां द्वादशहवींषीति सूत्रितवान्- “द्वादशोत्तराणि रत्नहवींषि, प्रतिगृहमेकैकं श्वः श्वः, सप्नारूढे ऽग्नौ निर्मथिते ऽग्नये ऽनीकवते”- (का. श्रौ. सू. १५ । ४६-४८) इत्यादि । तत्र प्रथमं हविर्विधत्ते- अरण्योरग्नी इति । अग्नी गार्हपत्याहवनीयौ ‘अरण्योः’ पृथक् पृथक् ‘समारोह्य’ समारोप्य प्रतिदिवसं तत्तद्गृहं गत्वा तत्र तत्र निर्मथ्य यष्टव्यमिति सर्वेष्टिसाधारणमिदम् ॥

‘सेनान्यः’ सेनापतेः ‘गृहान्’ ‘परेत्य’ प्रथमं गत्वा ‘अनीकवते’ अनीकवद्गुणकाय ‘अग्नये’ अष्टाकपालेन पुरोडाशेन प्रचरेत् । सेनानीगृहे ऽनीकवद्गुणकाग्निदेवत्यहविरनुष्ठाने कारणमाह- अग्निर्वा इति । देवानाम् ‘अनीकं’ मुखम् ‘अग्निः’ ‘सेनायाः’ ‘अनीकं’ मुखं ‘सेनानीः’ अस्य । रत्नहविष्ट्वमुपपादयितुमाह- एतद्वा इति । ‘सेनानीः’ इति । यदस्ति ‘एतत्’ ‘वै’ खलु ‘अस्य’ राज्ञो यजमानस्य ‘एकं’ ‘रत्नं’ रत्नवत् प्रशस्तं गवेषणीयं वस्तु । ‘एतेन’ तस्य गृहे ऽनुष्ठितेनाग्नेययागेन ‘तस्मै’ सेनान्ये ‘सूयते’ तेनानुज्ञायत इत्यर्थः । तद्गृहगमनेन ‘तं’ सेनान्यं ‘स्वम्’ आत्मीयम् ‘अनपक्रमिणम्’ अनतिलंघिनं कृतवान् भवतीति । एवमुत्तरत्रापि व्याख्येयम् (तै. सं. १ । ८ । ९ । १)।

दक्षिणां विधत्ते- तस्य हिरण्यमिति 1 । ‘तस्य’ अग्निदेवताकस्य यागस्य अग्निरेतोरूपं ‘हिरण्यं’ दक्षिणात्वेन युक्तमित्यर्थः । हिरण्यस्याग्निरेतस्त्वमाम्नायते- “आपो वरुणस्य पत्नय आसन्, ता अग्निरभ्यध्यायत्, ताः समभवत्, तस्य रेतः परापतत्, तद्धिरण्यमभवत्"- (तै. ब्रा. १ । १ । ३ । ८ । तै. सं. ५ । ५ । ४ । १ ।) इति ॥ १ ॥

Eggeling
  1. Having taken up both (the Gārhapatya and Āhavanīya) fires on the two kindling-sticks 2, he goes to the house of the Commander of the army, and prepares a cake on eight potsherds for Agni Anīkavat; for Agni is the head (anīka) of the gods, and the commander is the head of the army: hence for Agni Anīkavat. And he, the commander, assuredly is one of his (the king’s) jewels 3: it is for

him that he is thereby consecrated (or quickened), and him he makes his own faithful (follower). The sacrificial fee for this (jewel-offering) consists in gold; for Agni’s is that sacrifice, and gold is Agni’s seed: therefore the sacrificial fee consists in gold.

०२

विश्वास-प्रस्तुतिः

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
पुरो᳘हितस्य गृहा᳘न्परे᳘त्य बार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति बृ᳘हस्प᳘तिर्वै᳘ देवा᳘नां पुरो᳘हित एष वा᳘ ऽएत᳘स्य पुरो᳘हितो भवति त᳘स्माद्बार्हस्पत्यो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्पुरो᳘हितस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वमन᳘पक्रमिणं कुरुते त᳘स्य शितिपृष्ठो गौर्द᳘क्षिणैषा वा᳘ ऽऊर्ध्वा बृ᳘हस्प᳘तेर्दिक्त᳘देष᳘ ऽउप᳘रिष्टादर्यम्णः प᳘न्थास्त᳘स्माच्छितिपृष्ठो᳘ बार्हस्पत्य᳘स्य[[!!]] द᳘क्षिणा॥

मूलम् - श्रीधरादि

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
पुरो᳘हितस्य गृहा᳘न्परे᳘त्य बार्हस्पत्यं᳘ चरुं नि᳘र्व्वपति बृ᳘हस्प᳘तिर्वै᳘ देवा᳘नां पुरो᳘हित एष वा᳘ ऽएत᳘स्य पुरो᳘हितो भवति त᳘स्माद्बार्हस्पत्यो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्पुरो᳘हितस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वमन᳘पक्रमिणं कुरुते त᳘स्य शितिपृष्ठो गौर्द᳘क्षिणैषा वा᳘ ऽऊर्ध्वा बृ᳘हस्प᳘तेर्दिक्त᳘देष᳘ ऽउप᳘रिष्टादर्यम्णः प᳘न्थास्त᳘स्माच्छितिपृष्ठो᳘ बार्हस्पत्य᳘स्य[[!!]] द᳘क्षिणा॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
पुरो᳘हितस्य गृहा᳘न्परे᳘त्य बार्हस्पत्यं᳘ चरुं नि᳘र्वपति बृ᳘हस्प᳘तिर्वै᳘ देवा᳘नां पुरो᳘हित एष वा᳘ एत᳘स्य पुरोहितो भवति त᳘स्माद्बार्हस्पत्यो᳘ भवत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘त्पुरो᳘हितस्त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वमन᳘पक्रमिणं कुरुते त᳘स्य शितिपृष्ठो गौर्द᳘क्षिणैषा वा᳘ ऊर्ध्वा बृ᳘हस्प᳘तेर्दिक्त᳘देष᳘ उप᳘रिष्टादर्यम्णः प᳘न्थास्त᳘स्माछितिपृष्ठो᳘ बार्हस्प᳘त्यस्य द᳘क्षिणा॥

मूलम् - विस्वरम्

अथ श्वोभूते पुरोहितस्य गृहान्परेत्य, बार्हस्पत्यं चरुं निर्वपति । बृहस्पतिर्वै देवानां पुरोहितः । एष वा ऽएतस्य पुरोहितो भवति । तस्माद्बार्हस्पत्यो भवति । एतद्वा ऽअस्यैकं रत्नम्- यत्पुरोहितः । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य शितिपृष्ठो गौर्दक्षिणा । एषा वा ऽऊर्ध्वा बृहस्पतेर्दिक् । तदेष उपरिष्टादर्यम्णः पन्थाः । तस्माच्छितिपृष्ठो बार्हस्पत्यस्य दक्षिणा ॥ २ ॥

सायणः

द्वितीयदिवसे ऽनुष्ठेयं रत्नहविर्विधत्ते- अथ श्वोभूत इति । पुरोहितस्य गृहे बार्हस्पत्यचरुप्रचारे उपपत्तिमाह- बृहस्पतिर्वै देवानामिति । बृहस्पतेर्देवपुरोहितत्वात् तद्देवत्यो यागः पुरोहितगृहे कर्त्तुमुचित इत्यर्थः 4एतद्वा इत्यादि गतम् । दक्षिणां विधत्ते-तस्य शितिपृष्ठ इति । श्वेतपृष्ठः । तत्प्रशंसति- ऊर्द्ध्वेति ‘उर्द्ध्वा दिक्’ बृहस्पतिदेवताका तस्या उपरिभागे ‘अर्यम्णः’ सूर्यस्य ‘एषः’ परिदृश्यमानः ‘पन्थाः’ मार्गः । स च किरणसम्बन्धात् श्वेतः । अतो बृहस्पतियागदक्षिणाभूतस्य गोः श्वेतपृष्ठत्वं 5 युक्तम् ॥ २ ॥

Eggeling
  1. And on the following day, he goes to the house of the Purohita (the king’s court chaplain), and prepares a pap for Br̥haspati; for Br̥haspati is the Purohita of the gods, and that (court chaplain) is the Purohita (‘praepositus’) of that (king): hence it is for Br̥haspati. And he, the Purohita, assuredly is one of his (the king’s) jewels: it is for him that he is thereby consecrated, and him he makes his own faithful follower. The sacrificial fee for this is a white-backed bullock; for to Br̥haspati belongs that upper region, and there above lies that path of Aryaman (the sun) 6: therefore the fee for the Bārhaspatya (oblation) is a white-backed (bullock).

०३

विश्वास-प्रस्तुतिः

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
सूय᳘मानस्य गृह᳘ ऽऐन्द्रमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति क्षत्रं वा ऽइ᳘न्द्रः क्षत्र᳘ᳫँ᳘ सूय᳘मानस्त᳘स्मादैन्द्रो᳘ भवति त᳘स्य ऽर्षभो द᳘क्षिणा स᳘ ह्यैन्द्रो य᳘दृषभः[[!!]]॥

मूलम् - श्रीधरादि

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
सूय᳘मानस्य गृह᳘ ऽऐन्द्रमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति क्षत्रं वा ऽइ᳘न्द्रः क्षत्र᳘ᳫँ᳘ सूय᳘मानस्त᳘स्मादैन्द्रो᳘ भवति त᳘स्य ऽर्षभो द᳘क्षिणा स᳘ ह्यैन्द्रो य᳘दृषभः[[!!]]॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
सूय᳘मानस्य गृह᳘ ऐन्द्रमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपति क्षत्रं वा इ᳘न्द्रः क्षत्र᳘ᳫं᳘ सूय᳘मानस्त᳘स्मादैन्द्रो᳘ भवति त᳘स्यर्षभो द᳘क्षिणा सॗ ह्यैन्द्रो य᳘दृषभः᳟॥

मूलम् - विस्वरम्

अथ श्वोभूते सूयमानस्य गृह ऽऐन्द्रमेकादशकपालं पुरोडाशं निर्वपति । क्षत्रं वा ऽइन्द्रः । क्षत्रं सूयमानः । तस्मादैन्द्रो भवति । तस्य ऽर्षभो दक्षिणा । स ह्यैन्द्रो- यदृषभः ॥ ३ ॥

सायणः

तृतीयदिवसे कर्त्तव्यं यागं विधत्ते- अथ श्वोभूत इति । सूयमानस्येति । सुन्वतो यजमानस्यैव ‘गृहे’ । अत एवास्मिन् पर्याये “एतद्वा अस्यैकं रत्नम्"- इत्यादि वाक्यानुपन्यासः । सूयमानपदं यजमानवाचकमित्यभिप्रेत्य सूत्रकृता यजमानपदमेवोक्तम्- “ऐन्द्रो यजमानस्य”- (का. श्रौ. सू. १५ । ५०) इति । क्षत्रं वा इत्यादि । इन्द्रयजमानयोरेकजात्यभिसम्बन्धाद् यजमानस्य गृहे ऐन्द्रस्य हविषो निर्वापो युक्तः ॥

दक्षिणां विधत्ते- तस्यर्षभ इति (का. श्रौ. सू. १५ । ६० ।) । स ह्यैन्द्र इति । “आण्डाभ्यामैन्द्रः”- (श. प. ५ । २ । ३ । ८) इति प्रागाम्नातत्वात् तद्वत ऋषभस्यैन्द्रत्वं प्रसिद्धमिति ‘हि’ शब्दस्यार्थः ॥ ३ ॥

Eggeling
  1. And on the following day he prepares a cake on eleven potsherds for Indra at the dwelling of him who is being consecrated (the king); for Indra is the Kshatra (ruling power), and he who is consecrated is

the Kshatra: hence it is for Indra. The sacrificial fee for this is a bull, for the bull is Indra’s own (animal).

०४

विश्वास-प्रस्तुतिः

(भो᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
म᳘हिष्यै गृहा᳘न्परे᳘त्य। (त्या) आदित्यं᳘ चरुं नि᳘र्व्वपतीयं वै᳘ पृथिव्य᳘दितिः᳘ सेयं᳘ देवा᳘नां प᳘त्न्येषा वा᳘ ऽएत᳘स्य प᳘त्नी भवति त᳘स्मादादित्यो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं यन्म᳘हिषी त᳘स्या ऽए᳘वैते᳘न सूय᳘ते ताᳫँ᳭ स्वाम᳘नपक्रमिणीं कुरुते त᳘स्यै धेनुर्द᳘क्षिणा धेनु᳘रिव वा᳘ ऽइयं᳘ मनु᳘ष्येभ्यः स᳘र्व्वान्का᳘मान्दुहे माता᳘ धेनु᳘र्मा᳘तेव वा᳘ ऽइयं᳘ मनु᳘ष्यान्बिभर्ति त᳘स्माद्धेनुर्द᳘क्षिणा॥

मूलम् - श्रीधरादि

(भो᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
म᳘हिष्यै गृहा᳘न्परे᳘त्य। (त्या) आदित्यं᳘ चरुं नि᳘र्व्वपतीयं वै᳘ पृथिव्य᳘दितिः᳘ सेयं᳘ देवा᳘नां प᳘त्न्येषा वा᳘ ऽएत᳘स्य प᳘त्नी भवति त᳘स्मादादित्यो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं यन्म᳘हिषी त᳘स्या ऽए᳘वैते᳘न सूय᳘ते ताᳫँ᳭ स्वाम᳘नपक्रमिणीं कुरुते त᳘स्यै धेनुर्द᳘क्षिणा धेनु᳘रिव वा᳘ ऽइयं᳘ मनु᳘ष्येभ्यः स᳘र्व्वान्का᳘मान्दुहे माता᳘ धेनु᳘र्मा᳘तेव वा᳘ ऽइयं᳘ मनु᳘ष्यान्बिभर्ति त᳘स्माद्धेनुर्द᳘क्षिणा॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
म᳘हिष्यै गृहा᳘न्परे᳘त्य आदित्यं᳘ चरुं नि᳘र्वपतीयं वै᳘ पृथिव्य᳘दितिःॗ सेयं᳘ देवा᳘नाम् प᳘त्न्येषा वा᳘ एत᳘स्य प᳘त्नी भवति त᳘स्मादादित्यो᳘ भवत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं यन्म᳘हिषी त᳘स्या एॗवैते᳘न सूय᳘ते ताᳫं स्वाम᳘नपक्रमिणीं कुरुते त᳘स्यै धेनुर्द᳘क्षिणा धेनु᳘रिव वा᳘ इय᳘म् मनुॗष्येभ्यः स᳘र्वान्का᳘मान्दुहे माता᳘ धेनु᳘र्माॗतेव वा᳘ इय᳘म् मनुॗष्यान्बिभर्ति त᳘स्माद्धेनुर्द᳘क्षिणा॥

मूलम् - विस्वरम्

अथ श्वोभूते महिष्यै गृहान् परेत्य, आदित्यं चरुं निर्वपति । इयं वै पृथिव्यदितिः । सेयं देवानां पत्नी । एषा वा ऽएतस्य पत्नी भवति । तस्मादादित्यो भवति । एतद्वा ऽअस्यैकं रत्नं यन्महिषी । तस्या ऽएवैतेन सूयते । तां स्वामनपक्रमिणीं कुरुते । तस्यै धेनुर्दक्षिणा । धेनुरिव वा ऽइयं मनुष्येभ्यः सर्वान् कामान् दुहे । माता धेनुर्मातेव वा ऽइयं मनुष्यान् बिभर्ति । तस्माद्धेनुर्दक्षिणा ॥ ४ ॥

सायणः

चतुर्थदिवसकर्त्तव्यामिष्टिं विधत्ते- अथ श्वोभूत इति । महिष्या इति 7 । कृताभिषेकस्य राज्ञो मुख्या स्त्री महिषी; तस्या गृहे । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) । इयं वै पृथिवीति । देवानां हविस्सम्पादनद्वारा भोग्यत्वात् पृथिव्यात्मिकाया अदितेर्देवपत्नीत्वम् । तस्मादिति । यस्माददितेर्देवपत्नीत्वम् ‘तस्मात्’ तद्देवत्यहविषः पत्नीगृहे निर्वापो युक्त इत्यर्थः ॥

दक्षिणां विधत्ते- तस्यै धेनुरिति (का. श्रौ. सू. १५ । ६०) । ‘तस्यै’ अदित्यै तद्देवत्यस्य यागस्येत्यर्थः । धेनुरिव वा इति । यथा ‘धेनुः’ क्षीरादिरूपान् सर्वान् कामान् दोग्धि, एवम् ‘इयं’ पृथिव्यात्मिका अदितिः ‘मनुषेभ्यः’ सर्वान् ‘कामान्’ ‘दुहे’ दुग्धे । दुहेः “लोपस्त आत्मनेपदेषु“ (पा. सू. ५ । १ । ४१) इति तलोपः । ‘धेनुः’ हि ‘माता’ प्रत्यग्रप्रसूतत्वात्, तथा ‘इयं’ भूमिरपि ‘मातेव’ ‘मनुष्यान्’ ‘बिभर्ति’ पोषयति । ‘तस्मात्’ उदीरितरीत्या अदितेर्द्धेनोः, तत्सम्बन्धादादित्यचरोः धेनुर्दक्षिणात्वेन युज्यते (तै. सं. १ । ८ । ९ । १) ॥ ४ ॥

Eggeling
  1. And on the following day, he goes to the dwelling of the Queen, and prepares a pap for Aditi; for Aditi is this Earth, and she is the wife of the gods; and that (queen) is the wife of that (king): hence it is for Aditi. And she, the Queen, assuredly is one of his (the king’s) jewels: it is for her that he is thereby consecrated, and he makes her his own faithful (wife). The sacrificial fee, on her part, is a milch cow; for this (earth) is, as it were, a milch cow: she yields to men all their desires; and the milch cow is a mother, and this (earth) is, as it were, a mother: she bears (or sustains) men. Hence the fee is a milch cow.

०५

विश्वास-प्रस्तुतिः

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
सूत᳘स्य गृहा᳘न्परे᳘त्य व्वारुणं᳘ यवम᳘यं चरुं नि᳘र्व्वपति सवो वै᳘ सूतः᳘ सवो वै᳘ देवा᳘नां व्व᳘रुणस्त᳘स्माद्वारुणो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्सूतस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते तस्या᳘श्वो द᳘क्षिणा स हि᳘ व्वारुणो यदश्वः[[!!]]॥

मूलम् - श्रीधरादि

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
सूत᳘स्य गृहा᳘न्परे᳘त्य व्वारुणं᳘ यवम᳘यं चरुं नि᳘र्व्वपति सवो वै᳘ सूतः᳘ सवो वै᳘ देवा᳘नां व्व᳘रुणस्त᳘स्माद्वारुणो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्सूतस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते तस्या᳘श्वो द᳘क्षिणा स हि᳘ व्वारुणो यदश्वः[[!!]]॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
सूत᳘स्य गृहा᳘न्परे᳘त्य वारुणं᳘ यवम᳘यं चरुं नि᳘र्वपति सवो वै᳘ सूतः᳘ सवो वै᳘ देवा᳘नां व᳘रुणस्त᳘स्माद्वारुणो᳘ भवत्येतद्वा᳘ अस्यैकं᳘ र᳘त्नं य᳘त्सूतस्त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते तस्या᳘श्वो द᳘क्षिणा स हि᳘ वारुणो यद᳘श्वः॥

मूलम् - विस्वरम्

अथ श्वोभूते सूतस्य गृहान्परेत्य, वारुणं यवमयं चरुं निर्वपति । सवो वै सूतः । सवो वै देवानां वरुणः । तस्माद् वारुणो भवति । एतद्वा ऽअस्यैकं रत्नं- यत् सूतः । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्याश्वो दक्षिणा । स हि वारुणो- यदश्वः ॥ ५ ॥

सायणः

पञ्चमदिवसे कर्त्तव्यामिष्टिं विधत्ते 7- अथ श्वोभूत इति ॥ ५ ॥

Eggeling
  1. And on the following day, he goes to the house of the Sūta (court-minstrel and chronicler), and prepares a barley pap for Varuṇa; for the Sūta is a spiriter (sava), and Varuṇa is the spiriter of the gods: therefore it is for Varuṇa. And he, the Sūta, assuredly is one of his (the king’s) jewels: it is for him that he is thereby consecrated; and him he makes his own faithful (follower). The sacrificial fee for this one is a horse, for the horse is Varuṇa’s own.

०६

विश्वास-प्रस्तुतिः

(श्वो᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
ग्राम᳘ण्यो गृहा᳘न्परे᳘त्य मारुत᳘ᳫँ᳘ सप्त᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति व्विशो वै᳘ मरु᳘तो व्वै᳘श्यो वै᳘ ग्रामणीस्त᳘स्मान्मारुतो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘द्ग्रामणीस्त᳘स्मा ऽऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य पृ᳘षन्गौर्द᳘क्षिणा भूमा वा᳘ ऽएत᳘द्रूपा᳘णां यत्पृ᳘षतो गोर्व्वि᳘शो वै᳘ मरु᳘तो भू᳘मो वै व्विट्त᳘स्मात्पृ᳘षन्गौर्द᳘क्षिणा॥

मूलम् - श्रीधरादि

(श्वो᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
ग्राम᳘ण्यो गृहा᳘न्परे᳘त्य मारुत᳘ᳫँ᳘ सप्त᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति व्विशो वै᳘ मरु᳘तो व्वै᳘श्यो वै᳘ ग्रामणीस्त᳘स्मान्मारुतो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘द्ग्रामणीस्त᳘स्मा ऽऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य पृ᳘षन्गौर्द᳘क्षिणा भूमा वा᳘ ऽएत᳘द्रूपा᳘णां यत्पृ᳘षतो गोर्व्वि᳘शो वै᳘ मरु᳘तो भू᳘मो वै व्विट्त᳘स्मात्पृ᳘षन्गौर्द᳘क्षिणा॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
ग्रामॗण्यो गृहा᳘न्परे᳘त्य मारुत᳘ᳫं᳘ सप्त᳘कपालम् पुरोडा᳘शं नि᳘र्वपति विशो वै᳘ मरु᳘तो वै᳘श्यो वै᳘ ग्रामणीस्त᳘स्मान्मारुतो᳘ भवत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘द्ग्रामणीस्त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते त᳘स्य पृषन्गौर्द᳘क्षिणा भूमा वा᳘ एत᳘द्रूपा᳘णां यत्पृ᳘षतो गोर्वि᳘शो वै᳘ मरु᳘तो भू᳘मो वै विट्त᳘स्मात्पृ᳘षन्गौर्द᳘क्षिणा॥

मूलम् - विस्वरम्

अथ श्वोभूते ग्रामण्यो गृहान् परेत्य, मारुतं सप्तकपालं पुरोडाशं निर्वपति । विशो वै मरुतः । वैश्यो वै ग्रामणीः। तस्मान्मारुतो भवति । एतद्वा ऽअस्यैकं रत्नं- यद् ग्रामणीः । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य पृषन् गौर्दक्षिणा । भूमा वा ऽएतदूपाणां यत्पृषतो गोः । विशो वै मरुतः । भूमो वै विट् । तस्मात् पृषन् गौर्दक्षिणा ॥ ६ ॥

सायणः

षष्ठदिवसे कर्त्तव्यामिष्टिं विधते- अथ श्वोभूत 8 इति । ‘ग्रामण्यः’ ग्रामं नयतीति ग्रामणीः, वैश्यानां महत्तरः तस्य ‘गृहान्’ । मरुतां सप्तगणात्मकत्वात् तद्देवत्यहविषः सप्तसु कपालेषु श्रपणं युक्तमित्याह- सप्तकपालमिति । ग्रामणीगृहे मारुतकरणमुभयोर्वैश्यत्वनिबन्धनकृतमित्याह-व्विशो वा इति । ‘विशः’ प्रजाः देवानामिति शेषः ॥

मारुतस्य दक्षिणां विधत्ते- तस्य पृषन्निति । (का. श्रौ. सू. १५ । ६०) । ‘पृषन्’ बिन्दुमान् श्वेतरक्तकृष्णबिन्दुयुत इत्यर्थः । पृषत्वं प्रशंसति- भूमा वा इति । ‘पृषतः’- इति षष्ठ्यन्तं गोविशेषणम् । पृषतो गोर्यदस्ति एतद् रूपाणां भूमा इति पदयोजना । तादृशे गवि नानाविधवर्णानां सद्भावाद्रूपबाहुल्यमित्यर्थः । भूमानमेवावलम्ब्य विचित्रवर्णस्य गोर्मारुतहविर्योग्यतामाह- विशो वा इति । भूमो वा इति । भूमा उ इति । भूमरूपैव खलु वैश्यजातिः ॥ ६ ॥

Eggeling
  1. And on the following day, he goes to the house of the Headman (Grāmaṇī 9), and prepares a cake

on seven potsherds for the Maruts; for the Maruts are the peasants, and the headman is a peasant: therefore it is for the Maruts. And he, the headman, assuredly is one of his (the king’s) jewels: it is for him that he is thereby consecrated, and him he makes his own faithful follower. The sacrificial fee for this (jewel) is a spotted bullock, for in such a spotted bullock there is abundance of colours; and the Maruts are the clans (or peasants), and the clan means abundance; therefore the sacrificial fee is a spotted bullock.

०७

विश्वास-प्रस्तुतिः

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
क्षत्तु᳘र्गृहा᳘न्परे᳘त्य सावित्रं द्वा᳘दशकपालं व्वा ऽष्टा᳘कपालं वा पुरोडा᳘शं नि᳘र्व्वपति सविता वै᳘ देवा᳘नां प्रसविता᳘ प्रसविता वै᳘ क्षत्ता त᳘स्मात्सावित्रो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्क्षत्ता त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य श्ये᳘तो ऽनड्वान्द᳘क्षिणैष वै᳘ सविता य᳘ ऽएष त᳘पत्ये᳘ति वा᳘ ऽएष ऽए᳘त्यनड्वा᳘न्युक्तस्तद्यच्छ्ये᳘तो भ᳘वति श्ये᳘त इव᳘ ह्येष᳘ उद्यंश्चा᳘स्तं च यन्भ᳘वति त᳘स्माच्छ्ये᳘तो ऽनड्वान्द᳘क्षिणा॥

मूलम् - श्रीधरादि

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
क्षत्तु᳘र्गृहा᳘न्परे᳘त्य सावित्रं द्वा᳘दशकपालं व्वा ऽष्टा᳘कपालं वा पुरोडा᳘शं नि᳘र्व्वपति सविता वै᳘ देवा᳘नां प्रसविता᳘ प्रसविता वै᳘ क्षत्ता त᳘स्मात्सावित्रो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्क्षत्ता त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य श्ये᳘तो ऽनड्वान्द᳘क्षिणैष वै᳘ सविता य᳘ ऽएष त᳘पत्ये᳘ति वा᳘ ऽएष ऽए᳘त्यनड्वा᳘न्युक्तस्तद्यच्छ्ये᳘तो भ᳘वति श्ये᳘त इव᳘ ह्येष᳘ उद्यंश्चा᳘स्तं च यन्भ᳘वति त᳘स्माच्छ्ये᳘तो ऽनड्वान्द᳘क्षिणा॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
क्षत्तु᳘र्गृहा᳘न्परे᳘त्य सावित्रं द्वा᳘दशकपालं वाष्टाकपालं वा पुरोडा᳘शं नि᳘र्वपति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ प्रसविता वै᳘ क्षत्ता त᳘स्मात्सावित्रो᳘ भवत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘त्क्षत्ता त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते त᳘स्य श्ये᳘तो 10 ऽनड्वान्द᳘क्षिणैष वै᳘ सविता य᳘ एष त᳘पत्ये᳘ति वा᳘ एष ए᳘त्यनड्वा᳘न्युक्तस्तद्यछ्ये᳘तो भवति श्ये᳘त इवॗ ह्येष᳘ उद्यंश्चा᳘स्तं च यन्भवति त᳘स्माछ्ये᳘तो ऽनड्वान्द᳘क्षिणा॥

मूलम् - विस्वरम्

अथ श्वोभूते क्षत्तुर्गृहान् परेत्य, सावित्रं द्वादशकपालं वा अष्टाकपालं वा पुरोडाशं निर्वपति । सविता वै देवानां प्रसविता । प्रसविता वै क्षत्ता । तस्मात्सावित्रो भवति । एतद्वा अस्यैकं रत्नं- यत्क्षत्ता । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य श्येतो ऽनड्वान् दक्षिणा । एष वै सविता- य एष तपति । एति वा ऽएषः । एत्यनड्वान् युक्तः । तद् यच्छ्येतो भवति । श्येत इव ह्येष उद्यंश्चास्तं च यन् भवति । तस्माच्छ्येतो ऽनड्वान् दक्षिणा ॥ ७ ॥

सायणः

सप्तमदिवसकर्तव्यामिष्टिं विधत्ते- अथ श्वोभूत 8 इति । क्षत्तुर्गृहानिति । क्षत्ता नाम यष्टिहस्तो ऽन्तः पुराध्यक्षः, सर्वेषां नियन्ता, प्रतिहारापरपर्यायः । ‘सावित्रं’ सवितृदेवत्यम् । क्षत्तुः सवितुश्च प्रसवितृत्वं साधारणो धर्म इत्याह- सविता वै देवानामिति ॥

दक्षिणां विधत्ते- तस्य श्येत इति । ‘श्येतः’ शुक्लवर्ण: ‘अनड्वान्’ (तै. सं. १ । ८ । ९ । १, २) । श्वेतस्यानडुहः सवितृसम्बन्धमाह- एष वा इति । ‘यः’ ‘एषः’ सूर्यः ‘तपति’ ‘एषः’ ‘वै’ खलु ‘सविता’ स च सूर्यः ‘एति’ प्रकर्षप्रकाशादिना जगन्निर्वाहं कुर्वन् सर्वदा सञ्चरति; ‘अनड्वान्’ अपि शकटरथवहनादौ ‘युक्तः’ सन् सर्वत्र गच्छति, अतो गन्तृत्वमुभयोः सम्बन्धहेतुः साधारणो धर्मः श्वेतत्वमनूद्य स्तौति- तद्यच्छ्येत इति । ‘एषः’ सूर्यात्मकः सविता ‘उद्यन्’ उदयन् ‘अस्तं’ यन् च उदयास्तकालेषु ‘श्येतः’ शुक्लवर्णः ‘इव हि’ भवति ॥ ७ ॥

Eggeling
  1. And on the following day he goes to the house of the Chamberlain (kshattr̥), and prepares a cake on either twelve, or eight, potsherds for Savitr̥; for Savitr̥ is the impeller (prasavitr̥) of the gods, and the chamberlain is an impeller: hence it is for Savitr̥. And he, the chamberlain, assuredly is one of his (the king’s) jewels: it is for him that he thereby is consecrated, and him he makes his own faithful (follower). The sacrificial fee for this (jewel) is a reddish-white draught-bullock; for Savitr̥ is he that burns yonder, and he (the sun) indeed moves along; and the draught-bullock also moves along, when yoked. And as to why it is a reddish-white one;–reddish-white indeed is he (the sun) both in rising and in setting: therefore the sacrificial fee is a reddish-white draught-bullock.

०८

विश्वास-प्रस्तुतिः

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
सङ्ग्रहीतु᳘र्गृहा᳘न्परे᳘त्याश्विनं द्वि᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति स᳘योनी वा᳘ ऽअश्वि᳘नौ स᳘योनी सव्यष्टृसारथी᳘ समानᳫँ᳭ हि र᳘थमधिति᳘ष्ठतस्त᳘स्मादश्विनो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्संग्रहीता त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य यमौ गा᳘वौ द᳘क्षिणा तौ हि स᳘योनी य᳘द्यमौ य᳘दि यमौ न᳘ विन्देद᳘प्यनूचीनगर्भा᳘वेव गा᳘वौ द᳘क्षिणा स्यातां ता᳘ ऽउ ह्य᳘पि समान᳘योनी॥

मूलम् - श्रीधरादि

(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
सङ्ग्रहीतु᳘र्गृहा᳘न्परे᳘त्याश्विनं द्वि᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति स᳘योनी वा᳘ ऽअश्वि᳘नौ स᳘योनी सव्यष्टृसारथी᳘ समानᳫँ᳭ हि र᳘थमधिति᳘ष्ठतस्त᳘स्मादश्विनो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्संग्रहीता त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य यमौ गा᳘वौ द᳘क्षिणा तौ हि स᳘योनी य᳘द्यमौ य᳘दि यमौ न᳘ विन्देद᳘प्यनूचीनगर्भा᳘वेव गा᳘वौ द᳘क्षिणा स्यातां ता᳘ ऽउ ह्य᳘पि समान᳘योनी॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
संग्रहीतु᳘र्गृहा᳘न्परे᳘त्याश्विनं द्वि᳘कपालम् पुरोडा᳘शं नि᳘र्वपति स᳘योनी वा᳘ अश्वि᳘नौ स᳘योनी सव्यष्ठृसारथी᳘ समानᳫं हि र᳘थमधिति᳘ष्ठतस्त᳘स्मादाश्विनो᳘ भवत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘त्संग्रहीता त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते त᳘स्य यमौ गा᳘वौ द᳘क्षिणा तौ हि स᳘योनी य᳘द्यमौ य᳘दि यमौ न विन्देद᳘प्यनूचीनगर्भा᳘वेव गा᳘वौ द᳘क्षिणा स्यातां ता᳘ उ ह्य᳘पि समान᳘योनी॥

मूलम् - विस्वरम्

अथ श्वोभूते सङ्ग्रहीतुर्गृहान्परेत्याश्विनं द्विकपालं पुरोडाशं निर्वपति । सयोनी वा ऽअश्विनौ, सयोनी सव्यष्टृसारथी । समानं हि रथमधितिष्ठतः । तस्मादाश्विनो भवति । एतद्वा ऽअस्यैकं रत्नम् । यत् सङ्ग्रहीता । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य यमौ गावौ दक्षिणा । तौ हि सयोनी- यद्यमौ । यदि यमौ न विन्देद्- अप्यनूचीनगर्भावेव गावौ दक्षिणा स्याताम् । ता ऽउ ह्यपि समानयोनी ॥ ८ ॥

सायणः

अष्टमदिवसकर्त्तव्यामिष्टिं विधत्ते- अथ श्वोभूत इति । संग्रहीतुर्गृहानिति 11 (तै. सं. १ । ८ । ९ । २) संग्रहीता नाम रथयोजयिता । ‘आश्विनम्’ अश्विदेवत्यम् । संग्रहीतृगृहे आश्विनहविषो निर्वापे कारणमाह- सयोनी इति । ‘हि’ यस्मात् ‘सव्यष्टृसारथी’ सव्यष्टृपदेन संग्रहीतोच्यते, स च सारथिश्च ‘सयोनी’ समानस्थानौ, एवम्, ‘अश्विनौ’ अपि ‘सयोनी’ सहोत्पन्नौ । तौ द्विविधौ ‘समानम्’ एकं ‘रथम्’ ‘अधितिष्ठतः’; ”युवं कवीष्ठः पर्यश्विना रथम्” (ऋ. सं. १० । ४० । ६) इति श्रवणात् ॥

आश्विनस्य हविषो योग्यदक्षिणां विधत्ते- तस्य यमाविति (का. श्रौ. सू. १५ । ६०) । यमौ सहैवैकस्यामातुर्गर्भादुत्पन्नौ । यमयोरश्विसाम्यमाह- तौ हि सयोनी इति । यमयोरलाभे पक्षान्तरमाह- यदि यमाविति । (का. श्रौ. सू. १५ । ६०) । ‘अनूचीनगर्भौ’ अनुक्रमेण पौर्वापर्येण जातगर्भौ । तयोरपि समानयोनित्वं दर्शयति- ता उ हीति । यौ क्रमेणोत्पन्नौ ‘तौ उ अपि हि’ ‘समानयोनी’ मध्ये गर्भान्तरेणाव्यवहितत्वात् ॥ ८ ॥

Eggeling
  1. And on the following day he goes to the house

of the Charioteer (saṁgrahītr̥), and prepares a cake on two potsherds for the Aśvins; for the two Aśvins are of the same womb; and so are the chariot fighter 12 and the driver (sārathi) of the same womb (standing-place), since they stand on one and the same chariot: hence it is for the Aśvins. And he, the charioteer, assuredly is one of his (the king’s) jewels: it is for him that he is thereby consecrated, and him he makes his own faithful follower. The sacrificial fee for this (jewel) is a pair of twin bullocks, for such twin bullocks are of the same womb. If he cannot obtain twins, two bullocks produced by successive births (of the same cow) may also form the sacrificial fee, for such also are of the same womb.

०९

विश्वास-प्रस्तुतिः

(नी ऽअ᳘) अ᳘थ श्वो᳘भूते᳘॥
भागदुघ᳘स्य गृहा᳘न्परे᳘त्य पौष्णं᳘ चरुं नि᳘र्व्वपति पूषा वै᳘ देवा᳘नां भागदुघ᳘ ऽएष वा᳘ ऽए᳘त᳘स्य भागदुघो᳘ भवति त᳘स्मात्पौष्णो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘द्भागदुघस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य श्यामो गौर्द᳘क्षिणा त᳘स्यासा᳘वेव ब᳘न्धु᳘र्यो ऽसौ᳘ त्रिषंयुक्ते᳘षु॥

मूलम् - श्रीधरादि

(नी ऽअ᳘) अ᳘थ श्वो᳘भूते᳘॥
भागदुघ᳘स्य गृहा᳘न्परे᳘त्य पौष्णं᳘ चरुं नि᳘र्व्वपति पूषा वै᳘ देवा᳘नां भागदुघ᳘ ऽएष वा᳘ ऽए᳘त᳘स्य भागदुघो᳘ भवति त᳘स्मात्पौष्णो᳘ भवत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘द्भागदुघस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य श्यामो गौर्द᳘क्षिणा त᳘स्यासा᳘वेव ब᳘न्धु᳘र्यो ऽसौ᳘ त्रिषंयुक्ते᳘षु॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
भागदुघ᳘स्य गृहा᳘न्परे᳘त्य पौष्णं᳘ चरुं नि᳘र्वपति पूषा वै᳘ देवा᳘नाम् भागदुघ᳘ एष वा᳘ एत᳘स्य भागदुघो᳘ भवति त᳘स्मात्पौष्णो᳘ भवत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं यद्भागदुघस्त᳘स्मा ए᳘वैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते त᳘स्य श्यामो गौर्द᳘क्षिणा त᳘स्यासा᳘वेव ब᳘न्धुॗर्यो ऽसौ᳘ त्रिषंयुक्ते᳘षु॥

मूलम् - विस्वरम्

अथ श्वोभूते भागदुघस्य गृहान् परेत्य, पौष्णं चरुं निर्वपति । पूषा वै देवानां भागदुघः । एष वा ऽएतस्य भागदुघो भवति । तस्मात् पौष्णो भवति । एतद्वा ऽअस्यैकै रत्नं- यद्भागदुघः । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य श्यामो गौर्दक्षिणा । तस्यासावेव बन्धुः- यो ऽसौ विषंयुक्तेषु ॥ ९ ॥

सायणः

नवमदिवसकर्त्तव्यानिष्टिं विधत्ते- अथ श्वोभूत इति । भागदुघस्य गृहानिति 13 । यो राज्ञः प्राप्यं षष्ठं भागं प्रजाभ्यो गृहीत्वा राज्ञे दोग्धि प्रयच्छति, स भागदुघः । पूषा वा इति । ‘पूषा’ नाम मार्गसंरक्षको देवः, ‘देवानां’ ‘भागदुघः’ भागं दोग्धि; स हि यजमानदत्तानि हवींषि मार्गे रक्षोभ्यः संरक्ष्य तान् देवान् गमयतीत्यर्थः ॥

पौष्णचरुयागे श्यामवर्णं गां दक्षिणां विधत्ते- तस्य श्याम इति (का. श्रौ. सू. १५ । ६०) (तै. सं. १ । ८ । ९ । १०) । श्यामत्वस्तावकमतिदिशति- तस्यासाविति । ‘बन्धुः’ वाक्यशेषः । कः पुनरसाविति तमाह- यो ऽसौ त्रिषंयुक्तेष्विति । त्रिषंयुक्तानि उक्तानि; तत्र द्वितीये, पौष्णचरोर्दक्षिणात्वेन विहितस्य गोः श्यामत्वस्तावकः “स हि पौष्णो यच्छ्यामो द्वे वै श्यामस्य रूपे” (श. प. ५ । २ । ५ । ८) इत्यादिः यो वाक्यशेषः सो ऽत्रापि समान इत्यर्थः ॥ ९ ॥

Eggeling
  1. And on the following day he goes to the house

of the Carver (bhāgadugha 14), and prepares a pap for Pūshan, for Pūshan is carver to the gods; and that (officer) is carver to that (king): therefore it is for Pūshan. And he, the carver, assuredly is one of his (the king’s) jewels: it is for him that he is thereby consecrated, and him he makes his own faithful follower. The sacrificial fee for this (jewel) is a dark-grey bullock: the significance of such a one being the same as at the Trishaṁyukta 15.

१०

विश्वास-प्रस्तुतिः

(ष्व᳘) अ᳘थ श्वो᳘भूते[[!!]]॥
(ते ऽक्षा) अक्षावाप᳘स्य च गृहे᳘भ्यो गोविकर्त᳘स्य च गवे᳘धुकाः सम्भृ᳘त्य सूय᳘मानस्य गृहे᳘ रौद्रं᳘ गावेधुकं᳘ चरुं नि᳘र्व्वपति ते वा᳘ ऽएते द्वे᳘ सती र᳘त्ने ऽए᳘कं करोति[[!!]] सम्प᳘दः का᳘माय तद्य᳘देते᳘न य᳘जते यां वा᳘ ऽइमा᳘ᳫँ᳘ सभा᳘यां घ्न᳘न्ति रुद्रो᳘ हैता᳘मभि᳘मन्यते ऽग्निर्व्वै᳘ रु᳘द्रो ऽधिदे᳘वनं वा᳘ अग्निस्त᳘स्यैते᳘ ऽअङ्गारा य᳘दक्षास्त᳘मे᳘वैते᳘न प्रीणाति त᳘स्य ह वा᳘ ऽएषा᳘ ऽनुमता गृहे᳘षु हन्यते यो᳘ वा राजसू᳘येन य᳘जते यो᳘ वैत᳘देवं वे᳘दैतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘दक्षावाप᳘श्च गोविकर्त्त᳘श्च ता᳘भ्यामे᳘वैते᳘न सूय᳘ते तौ स्वाव᳘नपक्रमिणौ कुरुते त᳘स्य द्वि᳘रूपो गौर्द᳘क्षिणा शितिबा᳘हुर्वा शितिबा᳘लो वा ऽसि᳘र्नखरो᳘ बालदा᳘म्ना ऽक्षाव᳘पनं प्र᳘बद्धमेत᳘दु हि त᳘योर्भ᳘वति॥

मूलम् - श्रीधरादि

(ष्व᳘) अ᳘थ श्वो᳘भूते[[!!]]॥
(ते ऽक्षा) अक्षावाप᳘स्य च गृहे᳘भ्यो गोविकर्त᳘स्य च गवे᳘धुकाः सम्भृ᳘त्य सूय᳘मानस्य गृहे᳘ रौद्रं᳘ गावेधुकं᳘ चरुं नि᳘र्व्वपति ते वा᳘ ऽएते द्वे᳘ सती र᳘त्ने ऽए᳘कं करोति[[!!]] सम्प᳘दः का᳘माय तद्य᳘देते᳘न य᳘जते यां वा᳘ ऽइमा᳘ᳫँ᳘ सभा᳘यां घ्न᳘न्ति रुद्रो᳘ हैता᳘मभि᳘मन्यते ऽग्निर्व्वै᳘ रु᳘द्रो ऽधिदे᳘वनं वा᳘ अग्निस्त᳘स्यैते᳘ ऽअङ्गारा य᳘दक्षास्त᳘मे᳘वैते᳘न प्रीणाति त᳘स्य ह वा᳘ ऽएषा᳘ ऽनुमता गृहे᳘षु हन्यते यो᳘ वा राजसू᳘येन य᳘जते यो᳘ वैत᳘देवं वे᳘दैतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘दक्षावाप᳘श्च गोविकर्त्त᳘श्च ता᳘भ्यामे᳘वैते᳘न सूय᳘ते तौ स्वाव᳘नपक्रमिणौ कुरुते त᳘स्य द्वि᳘रूपो गौर्द᳘क्षिणा शितिबा᳘हुर्वा शितिबा᳘लो वा ऽसि᳘र्नखरो᳘ बालदा᳘म्ना ऽक्षाव᳘पनं प्र᳘बद्धमेत᳘दु हि त᳘योर्भ᳘वति॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूॗते॥
अक्षावाप᳘स्य च गृहे᳘भ्यो गोविकर्त᳘स्य च गवे᳘धुकाः 16 सम्भृ᳘त्य सूय᳘मानस्य गृहे᳘ रौद्रं᳘ गावेधुकं चरुं नि᳘र्वपति ते वा᳘ एते द्वे᳘ सती र᳘त्ने ए᳘कं करो᳘ति सम्प᳘दः का᳘माय तद्य᳘देते᳘न य᳘जते यां वा᳘ इमा᳘ᳫं᳘ सभा᳘यां घ्न᳘न्ति रुद्रो᳘ हैता᳘मभि᳘मन्यते ऽग्निर्वै᳘ रुॗद्रो ऽधिदे᳘वनं वा᳘ अग्निस्त᳘स्यैते᳘ ऽङ्गारा य᳘दक्षास्त᳘मेॗवैते᳘न प्रीणाति त᳘स्य ह वा᳘ एषा᳘नुमता गृहे᳘षु हन्यते यो᳘ वा राजसू᳘येन य᳘जते यो᳘ वैत᳘देवं वे᳘दैतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘दक्षावाप᳘श्च गोविकर्त᳘श्च ता᳘भ्यामेॗवैते᳘न सूय᳘ते तौ स्वाव᳘नपक्रमिणौ कुरुते त᳘स्य द्वि᳘रूपो गौर्द᳘क्षिणा शितिबा᳘हुर्वा शितिवा᳘लो वासि᳘र्नखरो᳘ वालदा᳘म्नाक्षाव᳘पनम् प्र᳘बद्धमेत᳘दु हि त᳘योर्भ᳘वति॥

मूलम् - विस्वरम्

अथ श्वभूते ऽक्षावापस्य च गृहेभ्यो, गोविकर्त्तस्य च गवेधुकाः सम्भृत्य, सूयमानस्य गृहे रौद्रे गावेधुकं च निर्वपति । ते वा ऽएते द्वे सती रत्ने ऽएकं करोति- सम्पदः कामाय । तद्यदेतेन यजते- यां वा ऽइमां सभायां घ्नन्ति- रुद्रो हैतामभिमन्यते । अग्निर्वै रुद्रः । अधिदेवनं वा ऽअग्निः । तस्यैते ऽअङ्गाराः- यदक्षाः । तमेवैतेन प्रीणाति । तस्य ह वा एषा ऽनुमता गृहेषु हन्यते- यो वा राजसूयेन यजते, यो वैतदेवं वेद । एतद्वा ऽअस्यैकं रत्नं- यदक्षावापश्च, गोविकर्तश्च । ताभ्यामेवैतेन सूयते । तौ स्वावनपक्रमिणौ कुरुते । तस्य द्विरूपो गौर्दक्षिणा । शितिबाहुवा, शितिबालो वा । असिर्नखरः, बालदाम्ना ऽक्षावपनं प्रबद्धम् । एतदु हि तयोर्भवति ॥ १० ॥

सायणः

यजमानगृहे कर्त्तव्यं दशमं रत्नहविर्विधत्ते- अथ श्वोभूत इति 13 (तै. सं. १ । ८ । ९ । २) । अक्षावापो नाम अक्षाणां क्षेप्ता, अक्षगोप्ता वा द्यूतकारः; गोविकर्त्तः मृगयासहायभूतो गोहिंसको व्याधः; तयोरुभयोर्गृहेभ्यो ‘गवेधुकाः’ आरण्यगोधूमान् ‘सम्भृत्य’ तैः रुद्रदेवत्यं चरुं ‘सूयमानस्य’ यजमानस्य ‘गृहे’ निर्वपेत् । उभयोर्गृहेभ्यो गवेधुकानां युगपत् सम्भरणं प्रशंसति- ते वा एते इति । अक्षावाप गोविकर्त्तरूपयोर्द्वयोः सतोरनयोरेकत्र करणं सम्पद्धेतुरित्यर्थः । ‘सम्पदः कामाय’ समृद्ध्यभिलाषसिद्ध्यर्थमित्यर्थः । अक्षावापगोविकर्त्तसम्भृतैरेवारण्यगोधूमैः रौद्रश्चरुः कर्त्तव्य इत्यत्रोपपत्तिमाह- यां वा इमामिति । ‘सभायां’ सभास्थले द्यूतस्थाने ‘याम् इमाम्’ पणत्वेन कृतां गां ‘घ्नन्ति’ कितवाः । अत एव चतुर्थाध्याये आम्नास्यते- “एतेष्वक्षेष्वाह गां दीव्यध्वमिति”- (श. प. ४ । ४ । २३) इति । तत्र सूत्रम्- “गामस्यानीय घ्नन्ति”- (का. श्रौ. सू. १५ । २०३) इति । तत्र ताम् ‘एतां’ ‘रुद्रः’ ‘अभिमन्यते’ क्रूरकर्मत्वात् । स तस्य रुद्रः परम्परया अधिदेवनात्मक इत्याह- अग्निर्वा इति । अग्निरेव खलु रोदनाद्रुद्रनामा सम्पन्नः । अत एव तैत्तिरीयके अग्निं प्रस्तुत्याम्नातम्- “सो ऽरोदीद् यदरोदीत् तद्रुद्रस्य रुद्रत्वम्”- (तै. सं. १ । ५ । १ । १) इति । स च ‘अग्निः’ ‘अधिदेवनं’ द्यूताधिकरणं स्थानम्, अधिदेवनात्मकस्याग्नेः अक्षावापाङ्गाराः ‘तमेव’ अधिदेवनात्मकं रुद्रम् ‘एतेन’ अक्षावापगृहसम्भृतगवेधुकानिष्पन्नहविषा ‘प्रीणाति’ तर्पयति । तस्य ह वा इत्यादि । ‘यो राजसूयेन यजते’ ‘यो वा’ ‘एतत्’ एतं राजसूयप्रयोगं ‘वेद,’ ‘तस्य गृहेषु’ ‘अनुमता’ अध्वर्युप्रभृतिभिरनुज्ञाता सती ‘गौः हन्यते’ गोविकर्त्तेन हिंस्यते, अतो गोविकर्त्तगृहादानीतगवेधुका हननाभिमानिनो रुद्रस्य हविष्ट्वे योग्या इत्यर्थः ॥

तस्य रौद्रहविषो दक्षिणां विधत्ते- तस्य द्विरूप इति (का. श्रौ. सू. १५ । ६०) । ‘शितिबाहुः’ श्वेतबाहुः ‘वा’ भवेत्, ‘शितिबालः’ श्वेतबालो ‘वा’ बाहौ बाले वा श्वेतत्वम्, सर्वाङ्गे कृष्णवर्ण इति द्विरूपत्वम् । दक्षिणान्तरं विधत्ते- असिरिति । ‘नखरो’ निःकोषः ‘असिः’ कृपाणः । ‘बालदाम्ना’ रोमस्रजा ‘प्रबद्धम्’ ‘अक्षावपनं’ पात्रम्; अक्षा उप्यन्ते अस्मिन्निति ‘अक्षावपनम्’ अक्षस्थानावपनं पात्रम् । एवं गौः, असिः, अक्षावपनमिति त्रीण्यपि समुच्चित्य दक्षिणेत्यर्थः । तथैव कात्यायनः- “त्रिदक्षिणो रौद्रः, शितिबाहुर्शितिबालयोरन्यतरः, असिर्नखरो, बालदामबद्धमक्षावपनम्”- (का. श्रौ. सू. १५ । ६०-६२) इति । किमर्थं नखरास्यक्षपात्रद्वयं दक्षिणात्वेनोच्यते इति तत्राह- एतदु हीति । ‘तयोः’ अक्षावापगोविकर्त्तयोः तद्द्वयं स्वं ‘भवति’ एकैकस्यैकैकमस्ति; अतो ऽत्र तदुभयसम्बन्धात्तद्द्वयं दक्षिणात्वेन प्रयुज्यत इत्यर्थः ॥ १० ॥

Eggeling
  1. And on the following day, having brought together gavedhukā (seeds) from the houses of the Keeper of the dice (akshāvāpa 17) and the Huntsman (govikartana 18), he prepares a gavedhukā pap for Rudra at the house of him who is consecrated. These two, while being two jewels (of the king), he makes one for the purpose of completeness. And as to why he performs this offering,–Rudra is hankering after that (cow) which is killed here in this hall;

now Rudra is Agni (fire), and the gaming-board being fire, and the dice being its coals, it is him (Rudra) he thereby pleases. And verily whosoever, that knows this thus, performs the Rājasūya, in his house that approved (cow) is killed. And he, the keeper of dice, and the huntsman, are (each of them) assuredly one of his (the king’s) jewels: it is for these two that he is thereby consecrated, and these two he makes his own faithful followers. The sacrificial fee for this (jewel) is a bicoloured bullock–either one with white fore-feet, or a white-tailed one,–a claw-shaped knife, and a dice-board 19 with a horsehair band 20; for that is what belongs to those two 21.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ श्वो᳘भूते᳘॥
पालागल᳘स्य गृहा᳘न्परे᳘त्य चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ ऽध्वन ऽआ᳘ज्यं जुहोति जुषाणो ऽध्वा᳘ ऽऽज्यस्य व्वेतु स्वाहे᳘ति प्रहे᳘यो वै᳘ पालागलो᳘ ऽध्वानं वै प्र᳘हित ऽएति त᳘स्माद᳘ध्वन आ᳘ज्यं जुहोत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्पालागलस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य द᳘क्षिणा ऽप्यु᳘क्ष्णवेष्टितं ध᳘नुश्चर्मम᳘या बा᳘णवन्तो लो᳘हित ऽउष्णी᳘ष ऽएत᳘दु हि त᳘स्य भ᳘वति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ श्वो᳘भूते᳘॥
पालागल᳘स्य गृहा᳘न्परे᳘त्य चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ ऽध्वन ऽआ᳘ज्यं जुहोति जुषाणो ऽध्वा᳘ ऽऽज्यस्य व्वेतु स्वाहे᳘ति प्रहे᳘यो वै᳘ पालागलो᳘ ऽध्वानं वै प्र᳘हित ऽएति त᳘स्माद᳘ध्वन आ᳘ज्यं जुहोत्येतद्वा᳘ ऽअस्यै᳘कᳫँ᳭ र᳘त्नं य᳘त्पालागलस्त᳘स्मा ऽए᳘वैते᳘न सूय᳘ते तᳫँ᳭ स्वम᳘नपक्रमिणं कुरुते त᳘स्य द᳘क्षिणा ऽप्यु᳘क्ष्णवेष्टितं ध᳘नुश्चर्मम᳘या बा᳘णवन्तो लो᳘हित ऽउष्णी᳘ष ऽएत᳘दु हि त᳘स्य भ᳘वति॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
पालागल᳘स्य गृहा᳘न्परे᳘त्य चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ध्वन आ᳘ज्यं जुहोति जुषाणो ऽध्वा᳘ज्यस्य वेतु स्वाहे᳘ति प्रहे᳘यो वै᳘ पालागलो᳘ ऽध्वानं वै प्र᳘हित एति त᳘स्माद᳘ध्वन आ᳘ज्यं जुहोत्येतद्वा᳘ अस्यै᳘कं र᳘त्नं य᳘त्पालागलस्त᳘स्मा एॗवैते᳘न सूय᳘ते तᳫं स्वम᳘नपक्रमिणं कुरुते त᳘स्य द᳘क्षिणा प्यु᳘क्ष्णवेष्टितं 22 ध᳘नुश्चर्मम᳘या वा᳘णवन्तो लो᳘हित उष्णी᳘ष एत᳘दु हि त᳘स्य भ᳘वति॥

मूलम् - विस्वरम्

अथ श्वोभूते पालागलस्य गृहान्परेत्य, चतुर्गृहीतमाज्यं गृहीत्वा ऽध्वन आज्यं जुहोति- “जुषाणो ऽध्वा ऽऽज्यस्य वेतु स्वाहा”- इति । प्रहेयो वै पालागल: अध्वानं वै प्रहित एति । तस्मादध्वन आज्यं जुहोति । एतद्वा ऽअस्यैकं रत्नं- यत् पालागलः । तस्मा ऽएवैतेन सूयते । तं स्वमनपक्रमिणं कुरुते । तस्य दक्षिणा- अप्युक्ष्णवेष्टितं धनुः, चर्ममया बाणवन्तो, लोहित ऽउष्णीषः । एतदु हि तस्य भवति ॥ ११ ॥

सायणः

दूतगृहे कर्त्तव्यमाज्यहोमरूपमेकादशं रत्नहविर्विधत्ते- अथेति । पालागलो नाम दूतः । तथैव कात्यायनः पानगलास्थाने दूतशब्दं प्रयुक्तवान्- “चतुर्गृहीतं जुषाणो ऽध्वा ऽऽज्यस्ये वेत्विति दूतस्य” (का. श्रौ. सू. १५ । ५८ ।)- इति । आपस्तबेन तु दूतविशेषपरत्वेन व्याख्यातः- “अध्वने स्वाहेति पालागलस्य गृहे जुहोत्यनृतं दूतं ब्रुवते” (आ. श्रौ. सू. १८ । १० । २५) इति । ‘पालागलम्’ अनृतवादिनं दूतमिति ब्रुवते आचार्या इत्यर्थः । अध्वदेवत्यश्चतुर्गृहीताज्यहोम एवैकादशं हविरित्यर्थः ।

मन्त्रस्यार्थः- ‘आज्यं जुषाणः’ आज्यभागं सेवमानः ‘अध्वा’ देवता ‘अज्यस्य वेतु’ आज्यं पिबतु । ‘स्वाहा’ सुहुतमस्तु ‘इति’ । दूतगृहे ऽध्वदेवस्य होमस्य उपपत्तिमाह- प्रहेय इति । ‘पालागलः’ दूतः ‘प्रहेयः’ राज्ञा प्रेष्यः, प्रस्थापनीयः । प्रेष्यत्वमेवाह- अध्वानमिति । प्रहितः प्रेषितः प्रस्थापितः सन् अध्वानं गच्छति, अतो ऽध्वसम्बन्धात् तद्गृहे होमः कार्य इत्यर्थः ॥

तस्य होमस्य दक्षिणां विधत्ते- तस्य दक्षिणेति । ‘उक्ष्णवेष्टितम्’ उक्ष्णशब्देन स्नाय्वभिधीयते, उक्षविकारैः स्नायुभिः ‘वेष्टितं’ स्यूतं ‘धनुः’ ‘चर्ममयाः’ बाणवन्तः इषुघयः ‘लोहितः’ लोहितवर्णः ‘उष्णीषः’ शिरोवेष्टनम् एतत् सर्वं दक्षिणेत्याह- एतदु हीति । एतावदेव हि ‘तस्य’ दूतस्य स्वं भवति 23 ॥ ११ ॥

Eggeling
  1. And on the following day he goes to the house of the Courier, and having taken ghee in four ladlings, he offers the ghee to the way, with, ‘May the way graciously accept of the ghee, hail!’ For the courier is to be dispatched, and when dispatched goes on his way: therefore he offers the ghee to the way. And he, the courier, assuredly is one of his (the king’s) jewels: it is for him that he is thereby consecrated, and him he makes his own faithful follower. The sacrificial fee for this (jewel) consists in a skin-covered bow, leathern quivers, and a red turban, for that is what belongs to him.

१२

विश्वास-प्रस्तुतिः

ता᳘नि वा᳘ ऽएता᳘नि॥
(न्ये᳘) ए᳘कादश र᳘त्नानि स᳘म्पादयत्ये᳘कादशाक्षरा वै᳘ त्रिष्टु᳘ब्वी᳘र्यं[[!!]] त्रिष्टु᳘ब्वी᳘र्यमे᳘वैतग्र᳘द्र᳘त्नान्यभिस᳘म्पादयति[[!!]] तद्य᳘द्रत्नि᳘नाᳫँ᳭ हवि᳘र्भिर्य᳘जत ऽएते᳘षां वै रा᳘जा भवति ते᳘भ्य ऽए᳘वैते᳘न सूय᳘ते तान्त्स्वान᳘नपक्रमिणः कुरुते॥

मूलम् - श्रीधरादि

ता᳘नि वा᳘ ऽएता᳘नि॥
(न्ये᳘) ए᳘कादश र᳘त्नानि स᳘म्पादयत्ये᳘कादशाक्षरा वै᳘ त्रिष्टु᳘ब्वी᳘र्यं[[!!]] त्रिष्टु᳘ब्वी᳘र्यमे᳘वैतग्र᳘द्र᳘त्नान्यभिस᳘म्पादयति[[!!]] तद्य᳘द्रत्नि᳘नाᳫँ᳭ हवि᳘र्भिर्य᳘जत ऽएते᳘षां वै रा᳘जा भवति ते᳘भ्य ऽए᳘वैते᳘न सूय᳘ते तान्त्स्वान᳘नपक्रमिणः कुरुते॥

मूलम् - Weber

ता᳘नि वा᳘ एता᳘नि॥
ए᳘कादश र᳘त्नानि स᳘म्पादयत्ये᳘कादशाक्षरा वै᳘ त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टु᳘ब्वीर्य᳘मेवैतद्र᳘त्नान्यभिस᳘म्पादयति तद्य᳘द्रत्नि᳘नाᳫं हवि᳘र्भिर्य᳘जत एते᳘षां वै रा᳘जा भवति ते᳘भ्य एॗवैते᳘न सूय᳘ते तान्त्स्वान᳘नपक्रमिणः कुरुते॥

मूलम् - विस्वरम्

तानि वा ऽएतान्येकादश रत्नानि सम्पादयति । एकादशाक्षरा वै त्रिष्टुप्, वीर्यं त्रिष्टुपू, वीर्यमेवैतद्रत्नान्यभिसम्पादयति । तद्यद्रत्निनां हविर्भिर्यजते । एतेषां वै राजा भवति । तेभ्य एवैतेन सूयते । तान् स्वाननपक्रमिणः कुरुते ॥ १२ ॥

सायणः

एतेषां रत्नहविषामेकादशसंख्यां प्रशंसति- तानि वा एतानीति । संख्यासाम्यात् त्रिष्टुप्त्वम् । त्रिष्टुभो वीर्यत्वमिन्द्रेण सहोत्पत्तेरित्यवगन्तव्यम् । ‘एतत्’ एतेन रत्नहविरनुष्ठानेन यजमाने वीर्यमेव सम्पादितवान् भवति । प्रकारान्तरेण तदेव प्रशंसति- तद्यदिति । यथोक्तसेनानीपुरोहितमहिष्यादयो रत्निनः; तदभिमानिदेवतानां प्रियायैतानि हवींषि; अतस्तद्गृहेष्वेव कर्त्ता गत्वा निर्वपेत् । एतैः ‘रत्निनां’ हविर्भिर्यागेन सेनानीप्रभृतीनां रत्नानां स्वयं ‘राजा’ भवेत् । तेभ्यः तत्सङ्ग्रहार्थम् ‘एतेन’ रत्नहविरनुष्ठानेन ‘सूयते’ प्रेर्यते ॥ १२ ॥

Eggeling
  1. These are the eleven jewels (ratna) he completes; for of eleven syllables consists the Trishṭubh, and the Trishṭubh is vigour: it is for the sake

of vigour that he completes the (eleven) jewels. Then as to why he performs the oblations of the Ratnins: it is their king he becomes; it is for them that he thereby is consecrated, and it is them he makes his own faithful followers.

१३

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ श्वो᳘भूते[[!!]]॥
प᳘रिवृत्त्यै गृहा᳘न्परे᳘त्य नैर्ऋतं᳘ चरुं नि᳘र्व्वपति या वा᳘ अपु᳘त्रा प᳘त्नी सा᳘ प᳘रिवृत्ती स᳘ कृष्णा᳘नां व्रीहीणां᳘ नखै᳘र्निर्भि᳘द्य तण्डुला᳘न्नैर्ऋतं᳘ चरु᳘ᳫँ᳘ श्रपयति स᳘ जुहोत्येष᳘ ते निर्ऋते भागस्तं᳘ जुषस्व स्वाहे᳘ति या वा᳘ ऽअपु᳘त्रा प᳘त्नी सा नि᳘र्ऋतिगृहीता तद्य᳘दे᳘वास्या ऽअ᳘त्र नैर्ऋत᳘ᳫँ᳘ रूपं त᳘दे᳘वैत᳘च्छमयति त᳘थो हैनᳫँ᳭ सूय᳘मानं नि᳘र्ऋतिर्न᳘ गृह्णाति त᳘स्य द᳘क्षिणा कृष्णा गौः᳘ परिमूर्णी᳘ पर्यारि᳘णी सा ह्य᳘पि नि᳘र्ऋतिगृहीता᳘ तामा᳘ह[[!!]] मा[[!!]] मे᳘ ऽद्येशा᳘यां व्वात्सीदि᳘ति त᳘त्पाप्मा᳘नमपा᳘दत्ते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ श्वो᳘भूते[[!!]]॥
प᳘रिवृत्त्यै गृहा᳘न्परे᳘त्य नैर्ऋतं᳘ चरुं नि᳘र्व्वपति या वा᳘ अपु᳘त्रा प᳘त्नी सा᳘ प᳘रिवृत्ती स᳘ कृष्णा᳘नां व्रीहीणां᳘ नखै᳘र्निर्भि᳘द्य तण्डुला᳘न्नैर्ऋतं᳘ चरु᳘ᳫँ᳘ श्रपयति स᳘ जुहोत्येष᳘ ते निर्ऋते भागस्तं᳘ जुषस्व स्वाहे᳘ति या वा᳘ ऽअपु᳘त्रा प᳘त्नी सा नि᳘र्ऋतिगृहीता तद्य᳘दे᳘वास्या ऽअ᳘त्र नैर्ऋत᳘ᳫँ᳘ रूपं त᳘दे᳘वैत᳘च्छमयति त᳘थो हैनᳫँ᳭ सूय᳘मानं नि᳘र्ऋतिर्न᳘ गृह्णाति त᳘स्य द᳘क्षिणा कृष्णा गौः᳘ परिमूर्णी᳘ पर्यारि᳘णी सा ह्य᳘पि नि᳘र्ऋतिगृहीता᳘ तामा᳘ह[[!!]] मा[[!!]] मे᳘ ऽद्येशा᳘यां व्वात्सीदि᳘ति त᳘त्पाप्मा᳘नमपा᳘दत्ते॥

मूलम् - Weber

अ᳘थ श्वो᳘ भूते᳟॥
प᳘रिवृत्यै 24 गृहा᳘न्परे᳘त्य नैरृतं᳘ चरुं नि᳘र्वपति या वा᳘ अपु᳘त्रा प᳘त्नी सा प᳘रिवृत्ती 25 स᳘ कृष्णा᳘नां व्रीहीणां᳘ नखै᳘र्निर्भि᳘द्य तण्डुला᳘न्नैरृतं᳘ चरुं᳘ श्रपयति स जुहोत्येष᳘ ते निरृते भागस्तं᳘ जुषस्व स्वाहेति या वा᳘ अपु᳘त्रा प᳘त्नी सा नि᳘रृतिगृहीता तद्य᳘देॗवास्य अ᳘त्र नैरृतं᳘ रूपं त᳘देॗवैत᳘छमयति त᳘थो हैनᳫं सूय᳘मानं नि᳘रृतिर्न᳘ गृह्णाति त᳘स्य द᳘क्षिणा कृष्णा गौः᳘ परिमूर्णी᳘ 26 पर्यारि᳘णी सा ह्य᳘पि नि᳘रृतिगृहीता ता᳘माह मा᳘ मेॗ ऽद्येशा᳘यां वात्सीदि᳘ति 27 त᳘त्पाप्मा᳘नमपा᳘दत्ते॥

मूलम् - विस्वरम्

अथ श्वोभूते परिवृत्त्यै गृहान्परेत्य, नैर्ऋतं चरुं निर्वपति । या वा ऽअपुत्रा पत्नी- सा परिवृत्ती । स कृष्णानां व्रीहीणां नखेर्निर्भिद्यः तण्डुलान्नैर्ऋतं चरुं श्रपयति । स जुहोति- “एष ते निर्ऋते भागः, तं जुषस्व स्वाहा”- (वा० सं० ९ । ३५) इति । या वा ऽअपुत्रा पत्नी- सा निर्ऋतिगृहीता । तद् यदेवास्या ऽअत्र नैर्ऋतं रूपम्- तदेवैतच्छमयति । तथो हैनं सूयमानं निर्ऋतिर्न गृह्णाति । तस्य दक्षिणा- कृष्णा गौः परिभ्रूणीं पर्यारिणी । सा ह्यपि निर्ऋतिगृहीता । तामाह- “मा मे ऽद्येशायां वात्सीत्”- इति । तत् पाप्मानमपादत्ते ॥ १३ ॥

सायणः

परिवृत्तीगृहे कर्त्तव्यं नैर्ऋतहविर्विधत्ते- अथ श्वोभूत इति । ‘परिवृत्ती’ शब्दस्यार्थमाह- या वा इति । ‘अपुत्रा’ राजपत्नी केवलं भोगार्था परिवृत्ती । हविषो द्रव्यं विदधच्चोदकप्राप्तमवघातं निषेधति- स कृष्णानामिति । नखैर्निर्भिन्नानां कृष्णव्रीहीणां तण्डुल नैर्ऋतं चरुं ‘श्रपयति’ निर्वपेत् । हवनं समन्त्रकं विधत्ते- स जुहोतीति । जुहोतिचोदितत्वात् स्वाहाकारप्रदानत्वाच्चायं होमो दर्वीहोमः । कात्यायनेन तु पक्षान्तरं सूत्रितम्- “दर्वीहोम एष” ते निर्ऋत इति जुहोति वषट्कृते वा”- (का. श्रौ. सू. १५ । ५९) इति 28 । परिवृत्तीगृहे नैर्ऋतचर्वनुष्ठानस्योपपत्तिमाह- या वा इति । अपुत्रा स्त्री ‘निर्ऋतिगृहीता’ पाप्मना गृहीता भवति । अतः ‘अस्या नैर्ऋतं रूपं’ ‘अत्र’ गृहे ऽनुष्ठितेन नैर्ऋतचरुहोमेन शमितवान् भवति ॥

तस्य दक्षिणां विधत्ते- तस्य दक्षिणा कृष्णा गौरिति । ‘परिमूर्णी’ । “मूर्च्छा मोहसमुच्छ्रययोः”- (धा. पा. भ्वा. प. २१२) इति अस्मात् क्तिनि “राल्लोपः”- (पा. सू. ६ । ४ । २१) इति च्छस्य लोपे, निष्ठानत्वे च कृते रूपम् । परिमूढा अक्षमा । ‘पर्यारिणी’ परित आर्त्तिमती व्याधिगृहीता केनचिदङ्गेन अपहता वा ‘कृष्णा गौः दक्षिणा’ । अत्र सूत्रम्- “कृष्णा परिमूर्ण्यपहतोत्तमस्य”- (का. श्रौ. सू. १५ । ६६) इति ॥

तैत्तिरीयके तु परिवृत्तीगृहकर्तव्यनैर्ऋतचरोः कृष्णा भग्नशृङ्गा गौर्दक्षिणात्वेन श्रुता- “नैर्ऋतं चरुं परिवृत्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटा दक्षिणा”- (तै. सं. १ । ८ । ९ । १) इति । ‘कूटा’ भग्नशृङ्गा इति हि व्याख्यातम् । दक्षिणाभूताया गोर्नैर्ऋतचरुयोग्यतामाह- सा ह्यपीति । जीर्णा निवृत्तप्रसवा गौः निर्ऋतिगृहीता भवति ॥

इष्ट्यन्ते किञ्चित् कर्त्तव्यं विधत्ते- तामाहेति । ‘तां’ परिवृत्तीम् ‘आह’ वदेत् । वाक्यस्यायमर्थः- ‘अद्य’ इदानीम् इतः पर ‘मे’ मम ‘ईशायां’ स्वाम्ये ‘मा वात्सीत्’ मद्भोग्या मा भूरित्यर्थः [^२_९७] । वचनं स्तौति- तदिति । निर्ऋतिगृहीतां परिवृत्ती प्रति एतेन वचनेन ‘पाप्मानम् एव’ ‘अपादत्ते’ अपसारितवान् भवतीति ॥ १३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे तृतीयो ऽध्याये प्रथमं ब्राह्मणम् ॥ (५-३- १) ॥

Eggeling
  1. And on the following day he goes to the house of a discarded (wife), and prepares a pap for Nirr̥ti;–a discarded wife is one who has no son. He cooks the pap for Nirr̥ti of black rice, after splitting the grains with his nails. He offers it with (Vāj. S. IX, 3), ‘This, O Nirr̥ti, is thy share: accept it graciously, hail!’ For a wife that is without a son, is possessed with Nirr̥ti (destruction, calamity); and whatever of Nirr̥ti’s nature there is in her, that he thereby propitiates, and thus Nirr̥ti does not take possession of him while he is consecrated. The fee for this (oblation) consists of a black, decrepit, diseased cow; for such a one also is possessed with Nirr̥ti. He says to her (the wife), ‘Let her not dwell this day in my dominion 29! thus he removes evil from himself.

  1. यथासंख्यं दक्षिणा हिरण्यँ शितिपृष्ठर्षभो धेनुरश्वः पृषञ्छ्येतो ऽनड्वान्यभावभावे ऽनुपूर्वजौ श्यामस्त्रिदक्षिणो रौद्रः शितिबाहुशितिबालयोरन्यतरः । का० श्रौ० सू० १५ । ६० । ↩︎

  2. 58:1 Each of the two ‘araṇis’ is held for a moment to one of the two fires, which are thereby supposed to become inherent in them till they are ‘churned out’ again for the new offering fire required. For this ‘mounting’ of the fire see part i, p. 396. ↩︎

  3. 58:2 Ratna, jewel, precious thing; whence the eleven offerings described in this section are called ratna-havis, or ratnināṁ havīṁshi; the recipients of these sacrificial honours, on the part of the newly-consecrated king, being called ratninaḥ, ‘possessed of the Jewel (offering).’–In the ritual of the Black Yajus (Taitt. S. I, 8, 9; Taitt. Br. I, 1, 3) the order of the Ratninaḥ, at whose houses these oblations are performed on successive days, is as follows–1. Brahman priest (a pap to Br̥haspati); 2. Rājanya (a cake of eleven kapālas to Indra); 3. Consecrated Queen (pap to Aditi); 4. The king’s favourite wife (pap to Bhaga); 5. A discarded wife (pap to Nirr̥ti); 6. Commander of the army (cake of eight kap. to Agni); 7. Sūta (charioteer, Sāy.–cake of ten kap. to Varuṇa); 8. Grāmaṇī (cake of seven kap. to Maruts); 9. Kshattr̥ (chamberlain, or superintendent of seraglio, Sāy.–cake of twelve kap. to Savitr̥); 10. Saṁgrahītr̥ (treasurer, Sāy.–cake of two kap. to Aśvins); 11. Bhāgadugha (collector of taxes, Sāy.–pap to Pūshan); 12. Akshavāpa (dyūtakara, superintendent of gambling, Sāy.–gavīdhuka pap to Rudra).–Finally the king offers in his own house two cake-oblations (of eleven kapālas) to Indra Sutra-man (the good protector) and Indra Aṁhomuc (the deliverer from trouble). ↩︎

  4. बार्हस्पत्यश्चरुः पुरोहितस्य । का० श्रौ० सू० १५ । ४९ । ↩︎

  5. का. श्रौ. सू. १५ । ६० इत्यत्रभाष्ये । ↩︎

  6. 59:1 Whence the back of that upper region is white, or bright. ↩︎

  7. अदित्यै महिष्याः । । का० श्रौ० सू० १५ । ५१ । ↩︎ ↩︎

  8. मारुतो ग्रामण्यः । का. श्रौ. सू. १५ । ५३ । ↩︎ ↩︎

  9. 60:1 The exact function of this officer is not clearly defined. Though the term is also used of an ordinary village headman (Patel, Adhikārin, Adigar), this could hardly apply here. Sāyaṇa, on one passage, indeed explains the term by ‘Grāmaṁ nayati,’ but elsewhere he explains it by ‘Grāmāṇāṁ netā;’ and some such meaning it may perhaps have here,–the head of communal administration, either for a district (like one of Manu’s lords of a hundred, or a thousand villages), or for the whole country. If, however, the headman of a single village be intended (as the coupling of the office with the Maruts might lead one to suppose), he would probably be a hereditary territorial proprietor residing near the place where the inauguration ceremony takes place. Cf. V, 4, 4, 18; and Zimmer. Altindisches Leben, p. 171. ↩︎

  10. तस्य श्वेतो Sây. ↩︎

  11. आश्विनः संग्रहीतुः । का. श्रौ. सू. १५ । ५५ । ↩︎

  12. 62:1 Savyashṭḥri (otherwise savyeshṭḥr̥, savyeshṭḥa;–savyastha, Kāṇva rec.) is explained by the commentaries as a synonym of sārathi, charioteer (with which it is compounded in savyeshṭḥasārathī, Taitt. Br. I, 7, 9, 1, where Sāyaṇa makes them the two charioteers standing on the left and right side of the warrior), but it seems more probable that the former terms refer to the warrior (παραβάτης) himself (as savyashṭḥā, Atharva-veda VIII, 8, 23, undoubtedly does), who stands on the left side of the driver (sārathi, ἡνίοχος); the Change of meaning being perhaps due to caste scruples about so close an association between the Kshatriya warrior and his Śūdra servant, as is implied in this and other passages. (Cf. V, 3, 2, 2 with note.)–On Taitt. S. I, 8, 9, Sāyaṇa explains saṁgrahītr̥ as the treasurer (dhanasaṁgrahakartā kośādhyakshaḥ), but on I, 8, 16 optionally as treasurer or charioteer; while the Sūta is I, 8, 9 identified by him with the charioteer (sārathi). It is more probable, however, that at the time of the Brāhmaṇa the Sūta occupied much the same position as that assigned to him in the epics, viz. that of court-bard and chronicler. The connection of the saṁgrahītr̥ with the Aśvins can also scarcely be said to favour the interpretation of the term proposed by Sāyaṇa (who, moreover, is himself compelled, on Taitt. S. I, 8, 15; Taitt. Br. I, 7, 10, 6, to take it in the sense of charioteer). ↩︎

  13. पौष्णो भागदुघस्य । का. श्रौ. सू. १५ । ५६ । ↩︎ ↩︎

  14. 63:1 The meaning ’tax-gatherer, collector of tithes (or rather, of the sixth part of produce)’ assigned to the term by Sāyaṇa, both here, and on Taitt. S. I, 8, 9, might seem the more natural one, considering the etymology of the term. See, however, the explanation given of it in our Brāhmaṇa I, 1, 2, 17:–‘Pūshan is bhāgadugha (distributor of portions) to the gods, who places with his hands the food before them.’ This clearly is Homer’s δαιτρός, Od. I, 141-2: ↩︎

  15. 63:2 See V, 2, 5, 8. ↩︎

  16. गवीधुकाः Sây. ↩︎

  17. 63:3 ‘The thrower, or keeper, of the dice,’ according to Sāyaṇa. At V, 4, 4, 6 the verb ā-vap is used of the throwing the dice into the hand of the player; and it is perhaps that function of the keeper of the dice which is meant to be expressed by the term (‘der Zuwerfer der Würfel’). ↩︎

  18. 63:4 Literally, the cutter up of cows, the (beef-) butcher. But according to Sāyaṇa, this official was the constant companion of his master in the chase. ↩︎

  19. 64:1 Or, a dice-box, as ‘akshāvapanam’ is explained by some commentaries.–akshā upyantesminn ity akshāvapanam aksha(?akshadyūta-)sthānāvapanapātram, Sāy. ↩︎

  20. 64:2 Or, fastened with a hair-chain (romasrajā prabaddham, Sāy.). ↩︎

  21. 64:3 That is to say, the knife and the dice-board are the objects those two officials have chiefly to do with. ↩︎

  22. उक्ष्णवेष्टितं Sây. ↩︎

  23. उत्तरस्याप्युक्ष्णवेष्ठितं धनुः । चर्मतूण्यः सेषुकाः । लोहित उष्णीषः ॥ का. श्रौ. सू. १५ । ६३-६५ ॥ ↩︎

  24. प᳘रिवृत्यै ABC ↩︎

  25. परिवृत्ति: Sây. ↩︎

  26. परिमूर्णी वेष्टितमुखी पीतपुछी वा पर्यारिणी रोगग्रस्ता marginal gloss in B. ↩︎

  27. वात्सीर् Sây. ↩︎

  28. नैर्ऋतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानाम् इति अस्य सूत्रस्यादिमो भागः । ↩︎

  29. 65:1 According to the commentary on Kāty. Śr. XV, 3, 35 she has to betake herself to a Brahman’s house, where the king has no power. ↩︎