०१
विश्वास-प्रस्तुतिः
आग्नावैष्णवमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति॥
(त्यै) ऐन्द्रावैष्णवं᳘ चरुं᳘ व्वैष्णवं त्रि᳘कपालं वा पुरोडा᳘शं चरुं᳘ वा ते᳘न त्रिषंयुक्ते᳘न यजते पु᳘रुषानेत᳘द्देवा ऽउ᳘पायंस्त᳘थो ऽए᳘वैष᳘ ऽएतत्पु᳘रुषानेवो᳘पैति॥
मूलम् - श्रीधरादि
आग्नावैष्णवमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति॥
(त्यै) ऐन्द्रावैष्णवं᳘ चरुं᳘ व्वैष्णवं त्रि᳘कपालं वा पुरोडा᳘शं चरुं᳘ वा ते᳘न त्रिषंयुक्ते᳘न यजते पु᳘रुषानेत᳘द्देवा ऽउ᳘पायंस्त᳘थो ऽए᳘वैष᳘ ऽएतत्पु᳘रुषानेवो᳘पैति॥
मूलम् - Weber
आग्नावैष्णवमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपति॥
ऐन्द्रावैष्णवं᳘ चरुं᳘ वैष्णवं त्रि᳘कपालं वा पुरोडाशं चरुं᳘ वा ते᳘न त्रिषंयुक्ते᳘न यजते पु᳘रुषानेत᳘द्देवा उ᳘पायंस्त᳘थो एॗवैष᳘ एतत्पु᳘रुषानेवो᳘पैति॥
मूलम् - विस्वरम्
त्रिषंयुक्तादियागाः ।
आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति, ऐन्द्रवैष्णवं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं, चरुं वा । तेन त्रिषंयुक्तेन यजते । पुरुषानेतद्देवा उपायन् । तथो ऽएवैष ऽएतत् पुरुषानेवोपैति ॥ १ ॥
सायणः
अथ त्रिषंयुक्तेष्टित्रयं विधित्सुः प्रथमं त्रिषंयुक्तमनुक्रामति- आग्नावैष्णवमिति । तद् विधत्ते- तेन त्रिषंयुक्तेनेति 1 । त्रिभिर्हविर्भिः संयुक्तं कर्म त्रिषंयुक्तं तेन यजेत । पुरुषप्राप्तिहेतुतामाह- पुरुषानेवैतदिति । यतो देवा एतेन त्रिषंयुक्तेन सहायभूतान् कर्मकरान् पुरुषान् प्राप्तवन्तः, तथा यजमानो ऽपि तथाविधान् पुरुषान् अनेन यागेन प्राप्नोतीत्यर्थः ॥ १ ॥
Eggeling
- He prepares a cake on eleven potsherds for Agni and Vishṇu, a pap for Indra and Vishṇu, and either a cake on three potsherds, or a pap, for Vishṇu. He performs that Trishaṁyukta 2 offering. Therewith the gods came by men, and in like manner does this (king) now thereby come by men.
०२
विश्वास-प्रस्तुतिः
स य᳘दाग्नावैष्णवः[[!!]]॥
(ऽ) ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्व्वै᳘ दाता᳘ व्वैष्णवाः पुरुषास्त᳘दस्मा ऽअग्नि᳘र्दाता[[!!]] पु᳘रुषान्ददाति॥
मूलम् - श्रीधरादि
स य᳘दाग्नावैष्णवः[[!!]]॥
(ऽ) ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्व्वै᳘ दाता᳘ व्वैष्णवाः पुरुषास्त᳘दस्मा ऽअग्नि᳘र्दाता[[!!]] पु᳘रुषान्ददाति॥
मूलम् - Weber
स य᳘दाग्नावैष्णवः᳟॥
ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्वै᳘ दाता᳘ वैष्णवाः पु᳘रुषास्त᳘दस्मा अग्नि᳘र्दाता पु᳘रुषान्ददाति॥
मूलम् - विस्वरम्
स यदाग्नावैष्णव ऽएकादशकपालः पुरोडाशो भवति- अग्निर्वै दाता, वैष्णवाः पुरुषाः- तदस्मा ऽअग्निर्दाता पुरुषान् ददाति ॥ २ ॥
सायणः
त्रिणि हवींषि विभज्य स्तौति- स यदाग्नावैष्णव इति । वैष्णवाः पुरुषा इति । विष्णोरवतारस्वीकारेण मनुष्यसम्बन्धात् मनुष्याः सर्वे ‘वैष्णवाः’ विष्ण्वधिष्ठिता इत्यर्थः । ‘तत्’ तथा सति ‘अस्मै’ यजमानाय आग्नावैष्णवयागेन ‘दाता अग्निः’ विष्ण्वात्मकान् ‘पुरुषान्’ ‘ददाति’ इत्यर्थः ॥ २ ॥
Eggeling
- Now as to why there is that cake on eleven potsherds for Agni and Vishṇu;–Agni is the giver, and men are Vishṇu’s: thus Agni, the giver, gives him (the king) men.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दैन्द्राव्वैष्णवः᳘॥
(श्च) चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानो व्वैष्णवाः पु᳘रुषाः स या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता पु᳘रुषान्द᳘दाति तै᳘रे᳘वैतत्स᳘ᳫँ᳘स्पृशते ता᳘नात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दैन्द्राव्वैष्णवः᳘॥
(श्च) चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानो व्वैष्णवाः पु᳘रुषाः स या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता पु᳘रुषान्द᳘दाति तै᳘रे᳘वैतत्स᳘ᳫँ᳘स्पृशते ता᳘नात्म᳘न्कुरुते॥
मूलम् - Weber
अ᳘थ य᳘दैन्द्रावैष्णवः᳟॥
चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानो वैष्णवाः पु᳘रुषास्त᳘दस्मा अग्नि᳘र्दाता पुरुषान्द᳘दाति तै᳘रेवैतत्स᳘ᳫं᳘स्पृशते ता᳘नात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
अथ यदैन्द्रावैष्णवश्चरुर्भवति- इन्द्रो वै यजमानो, वैष्णवाः पुरुषाः- स यानेवास्मा ऽअग्निर्दाता पुरुषान् ददाति । तैरेवैतत्संस्पृशते । तानात्मन् कुरुते ॥ ३ ॥
सायणः
प्रयोजनमाह- अथ यदैन्द्रावैष्णव इति । (तै. सं. १ । ८ । ८ । १ । तै. ब्रा. १ । ७ । २) ॥ ३ ॥
Eggeling
- And as to why there is a pap for Indra and Vishṇu;–Indra is the Sacrificer, and men are Vishṇu’s: thus Agni, the giver, gives him (the
Sacrificer) men; he now puts himself in contact with them, makes them his own.
०४
विश्वास-प्रस्तुतिः
(ते᳘ ऽथा) अ᳘थ य᳘द्वैष्णवः[[!!]]॥
(स्त्रि᳘) त्रि᳘कपालो वा पुरोडा᳘शो भ᳘वति चरु᳘र्व्वा या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता पु᳘रुषान्द᳘दाति ते᳘ष्वे᳘वैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै पु᳘रुषवान्क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्तुं तत्पु᳘रुषाने᳘वैतदु᳘पैति पु᳘रुषवान्त्सूया ऽइ᳘ति त᳘स्य व्वामनो गौर्द᳘क्षिणा स हि᳘ व्वैष्णवो य᳘द्वामनः[[!!]]॥
मूलम् - श्रीधरादि
(ते᳘ ऽथा) अ᳘थ य᳘द्वैष्णवः[[!!]]॥
(स्त्रि᳘) त्रि᳘कपालो वा पुरोडा᳘शो भ᳘वति चरु᳘र्व्वा या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता पु᳘रुषान्द᳘दाति ते᳘ष्वे᳘वैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै पु᳘रुषवान्क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्तुं तत्पु᳘रुषाने᳘वैतदु᳘पैति पु᳘रुषवान्त्सूया ऽइ᳘ति त᳘स्य व्वामनो गौर्द᳘क्षिणा स हि᳘ व्वैष्णवो य᳘द्वामनः[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘द्वैष्णवः᳟॥
त्रि᳘कपालो वा पुरोडा᳘शो भ᳘वति चरु᳘र्वा या᳘नेॗवास्मा अग्नि᳘र्दाता पु᳘रुषान्द᳘दाति ते᳘ष्वेॗवैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै पु᳘रुषवान्क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्तुं तत्पु᳘रुषानेॗवैतदु᳘पैति पु᳘रुषवान्त्सूया इ᳘ति त᳘स्य वामनो गौर्द᳘क्षिणा स हि᳘ वैष्णवो य᳘द्वामनः᳟॥
मूलम् - विस्वरम्
अथ यद्वैष्णवस्त्रिकपालो वा पुरोडाशो भवति, चरुर्वा- यानेवास्मा ऽअग्निर्दाता पुरुषान् ददाति- तेष्वेवैतदन्ततः प्रतितिष्ठति । यद्वै पुरुषवान्कर्म चिकीर्षति- शक्नोति वै तत् कर्तुम् । तत् पुरुषानेवैतदुपैति । पुरुषवान् सूया ऽइति । तस्य वामनो गौर्दक्षिणा । स हि वैष्णवो- यद्वामनः (१) ॥ ४ ॥
सायणः
अथ यद् वैष्णव इति । तेष्वेवैतदन्तत इति । ‘अन्ततः’ अवसाने केवलवैष्णवयागेन ‘तेषु’ अग्निदत्तेषु स्वसम्बद्धेषु विष्ण्वात्मकेष्वेव पुरुषेषु प्रतिष्ठितो भवति । अथ पुरुषप्राप्तेः फलमाह- यद्वै पुरुषवानिति । यतः पुरुषसहायवानेव ‘कर्म’ कर्तुमिच्छति ‘तत् कर्तुं’ ‘शक्नोति’ च; अतः ‘तत्’ तेन प्रथमेन त्रिषंयुक्तेन ‘पुरुषानेव’ प्राप्नोति । तस्य दक्षिणां विधाय स्तौति- तस्य वामन इति । ‘वामनः’ हृस्वाङ्गः । यतो वामनो विष्णुसम्बन्धी, अतो वैष्णवयागे दक्षिणात्वेन भवितुं युज्यत इत्यर्थः 3 ॥ ४ ॥
Eggeling
- And as to why there is either a cake on three potsherds, or a pap, for Vishṇu;–whatever men Agni, the giver, gives him, among them he thereby finally establishes him (the king); and whatever work he wishes to do with his men, that he is able to do. Thus he thereby approaches the men, thinking, ‘May I be consecrated, and possessed of men!’ A dwarfish bull is the sacrificial fee for this (offering), for the dwarf belongs to Vishṇu 4.
०५
विश्वास-प्रस्तुतिः
(नो ऽथा᳘) अथा᳘परेण त्रिषंयुक्ते᳘न यजते॥
स᳘ आग्नापौष्णमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपत्यैन्द्रापौष्णं᳘ चरुं पौष्णं[[!!]] चरुं ते᳘न त्रिषंयुक्ते᳘न यजते पशू᳘नेव त᳘द्देवा ऽउ᳘पायंस्त᳘थो ऽए᳘वैष᳘ एत᳘त्पशू᳘नेवो᳘पैति॥
मूलम् - श्रीधरादि
(नो ऽथा᳘) अथा᳘परेण त्रिषंयुक्ते᳘न यजते॥
स᳘ आग्नापौष्णमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपत्यैन्द्रापौष्णं᳘ चरुं पौष्णं[[!!]] चरुं ते᳘न त्रिषंयुक्ते᳘न यजते पशू᳘नेव त᳘द्देवा ऽउ᳘पायंस्त᳘थो ऽए᳘वैष᳘ एत᳘त्पशू᳘नेवो᳘पैति॥
मूलम् - Weber
अथा᳘परेण त्रिषंयुक्ते᳘न यजते॥
स᳘ आग्नापौष्णमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपत्यैन्द्रापौष्णं᳘ चरुम् पौष्णं᳘ चरुं ते᳘न त्रिषंयुक्ते᳘न यजते पशू᳘नेव त᳘द्देवा उ᳘पायंस्त᳘थो एॗवैष᳘ एत᳘त्पशू᳘नेवो᳘पैति॥
मूलम् - विस्वरम्
अथापरेण त्रिषंयुक्तेन यजते । स आग्नापौष्णमेकादशकपालं पुरोडाशं निर्वपति, ऐन्द्रापौष्णं चरुम्, पौष्णं चरुम् । तेन त्रिषंयुक्तेन यजते । पशूनेव तद्देवा उपायन् । तथो ऽएवैष एतत् पशूनेवोपैति ॥ ५ ॥
सायणः
द्वितीयं त्रिहविष्कं विधत्ते- अथापरेणेति । अस्य त्रिषंयुक्तस्य पशुप्राप्तिहेतुतामाह-पशूनेवेति । पूर्ववद् योग्यम् । अत्र विष्णुस्थाने पूषैव विशेषः ॥ ५ ॥
Eggeling
- He then performs another Trishaṁyukta offering. He prepares a cake on eleven potsherds for Agni and Pūshan, a pap for Indra and Pūshan, and a pap for Pūshan: this Trishaṁyukta he offers. Thereby the gods obtained cattle; and in like manner does this (king) thereby obtain cattle.
०६
विश्वास-प्रस्तुतिः
स य᳘दाग्नापौष्णः[[!!]]॥
(ऽ) ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्व्वै᳘ दाता᳘ पौष्णाः᳘ पश᳘वस्त᳘दस्मा ऽअग्नि᳘रेव᳘ दाता᳘ पशू᳘न्ददाति॥
मूलम् - श्रीधरादि
स य᳘दाग्नापौष्णः[[!!]]॥
(ऽ) ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्व्वै᳘ दाता᳘ पौष्णाः᳘ पश᳘वस्त᳘दस्मा ऽअग्नि᳘रेव᳘ दाता᳘ पशू᳘न्ददाति॥
मूलम् - Weber
स य᳘दाग्नापौष्णः᳟॥
ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्वै᳘ दाता᳘ पौष्णाः᳘ पश᳘वस्त᳘दस्मा अग्नि᳘रेव᳘ दाता᳘ पशू᳘न्ददाति॥
मूलम् - विस्वरम्
स यदाग्नापौष्ण ऽएकादशकपालः पुरोडाशो भवति- अग्निर्वै दाता, पौष्णाः पशवः- तदस्मा ऽअग्निरेव दाता पशून् ददाति ॥ ६ ॥
सायणः
स यदाग्नापौष्ण इति । पौष्णाः पशव इति । पूषा हि पशूनामुत्पादकः अतस्ते पौष्णाः । श्रूयते हि- “पूषा पशूनां प्रजनयिता” (तै. ब्रा. १ । ७ । २ । १) इति ॥ ६ ॥
Eggeling
- Now as to why there is that cake on eleven potsherds for Agni and Pūshan; Agni is the giver, and the cattle are Pūshan’s: thus Agni, the giver, gives him cattle.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दैन्द्रापौष्णः᳘॥
(श्च) चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानः पौष्णाः᳘ पश᳘वः स या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता᳘ पशून्द᳘दाति तै᳘रे᳘वैतत्स᳘ᳫँ᳘स्पृशते ता᳘नात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दैन्द्रापौष्णः᳘॥
(श्च) चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानः पौष्णाः᳘ पश᳘वः स या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता᳘ पशून्द᳘दाति तै᳘रे᳘वैतत्स᳘ᳫँ᳘स्पृशते ता᳘नात्म᳘न्कुरुते॥
मूलम् - Weber
अ᳘थ यदैन्द्रापौष्णः॥
चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानः पौष्णाः᳘ पश᳘वः स या᳘नेॗवास्मा अग्नि᳘र्दाता᳘ पशून्द᳘दाति तै᳘रेॗवैतत्स᳘ᳫं᳘स्पृशते ता᳘नात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
अथ यदैन्द्रापौष्णश्चरुर्भवति- इन्द्रो वै यजमानः; पौष्णाः पशवः- स यानेवास्मा ऽअग्निर्दाता पशून् ददाति- तैरेवैतत् संस्पृशते । तानात्मन् कुरुते ॥ ७ ॥
सायणः
अथ यदैन्द्रापौष्ण इति ॥ ७ ॥
Eggeling
- And as to why there is a pap for Indra and Pūshan;–Indra is the Sacrificer, and the cattle are Pūshan’s: whatever cattle Agni, the giver, gives him, therewith he now puts himself in contact, those he makes his own.
०८
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अथ य᳘त्पौष्णः᳘॥
(श्च) चरुर्भ᳘वति या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता᳘ पशून्द᳘दाति ते᳘ष्वे᳘वैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै᳘ पशुमान्क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्त्तुं त᳘त्पशू᳘ने᳘वैतदु᳘पैति पशुमा᳘न्त्सूया ऽइ᳘ति त᳘स्य श्यामो गौर्द᳘क्षिणा स हि᳘ पौष्णो य᳘च्छ्यामो द्वे वै᳘ श्याम᳘स्य रूपे᳘ शुक्लं᳘ चैव लो᳘म कृष्णं᳘ च द्वन्द्वं वै मिथुनं᳘ प्रज᳘ननं वै᳘ पूषा᳘ पश᳘वो हि᳘ पूषा᳘ पश᳘वो हि᳘ प्रज᳘ननं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माच्छ्यामो गौर्द᳘क्षिणा॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अथ य᳘त्पौष्णः᳘॥
(श्च) चरुर्भ᳘वति या᳘ने᳘वास्मा ऽअग्नि᳘र्दाता᳘ पशून्द᳘दाति ते᳘ष्वे᳘वैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै᳘ पशुमान्क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्त्तुं त᳘त्पशू᳘ने᳘वैतदु᳘पैति पशुमा᳘न्त्सूया ऽइ᳘ति त᳘स्य श्यामो गौर्द᳘क्षिणा स हि᳘ पौष्णो य᳘च्छ्यामो द्वे वै᳘ श्याम᳘स्य रूपे᳘ शुक्लं᳘ चैव लो᳘म कृष्णं᳘ च द्वन्द्वं वै मिथुनं᳘ प्रज᳘ननं वै᳘ पूषा᳘ पश᳘वो हि᳘ पूषा᳘ पश᳘वो हि᳘ प्रज᳘ननं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माच्छ्यामो गौर्द᳘क्षिणा॥
मूलम् - Weber
अथ य᳘त्पौष्णः᳟॥
चरुर्भ᳘वति या᳘नेॗवास्मा अग्नि᳘र्दाता᳘ पशून्द᳘दाति ते᳘ष्वेॗवैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै᳘ पशुमान्क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्तुं त᳘त्पशू᳘नेॗवैतदु᳘पैति पशुमा᳘न्त्सूया इ᳘ति त᳘स्य श्यामो गौर्द᳘क्षिणा स हि᳘ पौष्णो य᳘छ्यामो द्वे वै᳘ श्याम᳘स्य रूपे᳘ शुक्लं᳘ चैव लो᳘म कृष्णं᳘ च द्वन्द्वं वै मिथुन᳘म् प्रज᳘ननं वै᳘ पूषा᳘ पश᳘वो हि᳘ पूषा᳘ पश᳘वो हि᳘ प्रज᳘ननम् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते त᳘स्माछ्यामो गौर्द᳘क्षिणा॥
मूलम् - विस्वरम्
अथ यत् पौष्णश्चरुर्भवति- यानेवास्मा ऽअग्निर्दाता पशून् ददाति- तेष्वेवैतदन्ततः प्रतितिष्ठति । यद्वै पशुमान् कर्म चिकीर्षति- शक्नोति वै तत् कर्तुम् । तत् पशूनेवैतदुपैति । पशुमान्त्सूया ऽइति । तस्य श्यामो गौर्दक्षिणा । स हि पौष्णो यच्छ्यामः । द्वे वै श्यामस्य रूपे- शुक्लं चैव लोम, कृष्णं च । द्वन्द्वं वै मिथुनं प्रजननम् । प्रजननं वै पूषा । पशवो हि पूषा । पशवो हि प्रजननम् । मिथुनमेवैतत् प्रजननं क्रियते । तस्माच्छ्यामो गौर्दक्षिणा (२) ॥ ८ ॥
सायणः
अथ यत्पौष्ण इति । अथैतस्य दक्षिणां विधत्ते- तस्य श्याम इति । श्यामो गौरिति 3 । ‘यत्’ स हि ‘पौष्णः’ पूषदेवताकः । तदेवोपपादयति- द्वे वा इति । श्यामवर्णस्य शुक्लकृष्णात्मकद्विरूपयोगाद् द्वित्वसंख्याद्वारा पूषरूपतामाह- द्वन्द्वं वा इति । लोके हि स्त्रीपुरुषात्मकं ‘द्वन्द्वं’ ‘मिथुनं’ परस्परं संसृष्टं तत् ‘प्रजननं’ प्रजोत्पत्तिकारणम्; पूष्णो ऽपि तदेव स्वरूपमिति तत्सृष्टाः पशवो ऽपि पूषैव । यतः पूषात्मकाः ‘पशवः’ ते ऽपि ‘प्रजननं’ प्रजोत्पत्तिनिमित्तम्; अतः शुक्लकृष्णात्मकस्य श्यामस्य गोर्दानेन पशूत्पत्तिनिमित्तं मिथुनमेव संपादितं भवतीत्यर्थः । अतः पशुफलके यागे दक्षिणात्वेन युज्यत इत्यर्थः 5 ॥ ८ ॥
Eggeling
- And why there is a pap for Pūshan;–whatever cattle Agni, the giver, gives him, therewith he thereby finally establishes him, and whatever work he wishes to do with his cattle, that he is able
to do: thus he comes by cattle, thinking, ‘May I be consecrated, possessed of cattle!’ A dark-grey 6 bull is the fee for this (offering), for such a dark-grey one is of Pūshan’s nature: there are two forms of the dark-grey, the white hair and the black; and ’two and two’ means a productive pair, and Pūshan represents productiveness, for Pūshan is cattle, and cattle means productiveness: thus a productive pair is obtained,–hence a dark-grey bull is the sacrificial fee.
०९
विश्वास-प्रस्तुतिः
(णा ऽथा) अथा᳘परेण त्रिषंयुक्ते᳘न यजते᳘॥
सो ऽग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपत्यैन्द्रासौम्यं᳘ चरु᳘ᳫँ᳘ सौम्यं᳘ चरुं ते᳘न त्रिषंयुक्ते᳘न यजते व्व᳘र्च ऽएव त᳘द्देवा ऽउ᳘पायंस्त᳘थो ऽए᳘वैष᳘ एतद्व᳘र्च ऽएवो᳘पैति॥
मूलम् - श्रीधरादि
(णा ऽथा) अथा᳘परेण त्रिषंयुक्ते᳘न यजते᳘॥
सो ऽग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपत्यैन्द्रासौम्यं᳘ चरु᳘ᳫँ᳘ सौम्यं᳘ चरुं ते᳘न त्रिषंयुक्ते᳘न यजते व्व᳘र्च ऽएव त᳘द्देवा ऽउ᳘पायंस्त᳘थो ऽए᳘वैष᳘ एतद्व᳘र्च ऽएवो᳘पैति॥
मूलम् - Weber
अथा᳘परेण त्रिषंयुक्ते᳘न यजते᳟᳟॥
सो ऽग्नीषोमी᳘यमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपत्यैन्द्रासौम्यं᳘ चरु᳘ᳫं᳘ सौम्यं᳘ चरुं ते᳘न त्रिषंयुक्ते᳘न यजते व᳘र्च एव त᳘द्देवा उ᳘पायंस्त᳘थो एॗवैष᳘ एतद्व᳘र्च एवो᳘पैति॥
मूलम् - विस्वरम्
अथापरेण त्रिषंयुक्तेन यजते । सो ऽग्नीपोमीयमेकादशकपालं पुरोडाशं निर्वपति, ऐन्द्रासौम्यं चरुम्, सौम्यं चरुम् । तेन त्रिषंयुक्तेन यजते । वर्च एव तद्देवा उपायन् । तथो ऽएवैष एतदर्च एवोपैति ॥ ९ ॥
सायणः
तृतीयं त्रिषंयुक्तं विधत्ते- अथापरेणेति । तस्य वर्च्चस्साधनतामाह- वर्च्च एवैतदिति । ‘वर्च्चः’ ब्राह्मं तेजः । अत्र विष्णुस्थाने सोमो विशेषः ॥ ९ ॥
Eggeling
- He then performs another Trishaṁyukta offering. He prepares a cake on eleven potsherds for Agni and Soma, a pap for Indra and Soma, and a pap for Soma: this Trishaṁyukta (triply connected) he offers:–Thereby the gods attained glory; and in like manner does this (king) thereby attain glory.
१०
विश्वास-प्रस्तुतिः
स य᳘दग्नीषोमी᳘यः॥
(ऽ) ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्व्वै᳘ दाता व्व᳘र्चः सो᳘मस्त᳘दस्मा ऽअग्नि᳘रेव᳘ दाता व्व᳘र्चो ददाति॥
मूलम् - श्रीधरादि
स य᳘दग्नीषोमी᳘यः॥
(ऽ) ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्व्वै᳘ दाता व्व᳘र्चः सो᳘मस्त᳘दस्मा ऽअग्नि᳘रेव᳘ दाता व्व᳘र्चो ददाति॥
मूलम् - Weber
स य᳘दग्नीषोमी᳘यः॥
ए᳘कादशकपालः पुरोडा᳘शो भ᳘वत्यग्निर्वै᳘ दाता व᳘र्चः सो᳘मस्त᳘दस्मा अग्नि᳘रेव दाता व᳘र्चो ददाति॥
मूलम् - विस्वरम्
स यदग्नीषोमीय ऽएकादशकपालः पुरोडाशो भवति- अग्निर्वै दाता, वर्चः सोमः । तदस्मा ऽअग्निरेव दाता वर्चो ददाति ॥ १० ॥
सायणः
स यदग्नीषोमीय इति । वर्च्चः सोम इति । सोमस्य यागद्वारा ब्रह्मवर्च्चसनिमित्तत्वात् तादात्म्यव्यपदेशः । अन्यत्पूर्ववद्योज्यम् ॥ १० ॥ ११ ॥
Eggeling
- Now as to why there is that cake on eleven potsherds for Agni and Soma;–Agni is the giver, and Soma is glory: thus Agni, the giver, gives him glory.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दैन्द्रासौम्यः᳘॥
(श्च) चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानो व्व᳘र्चः सो᳘मः स य᳘दे᳘वास्मा ऽअग्नि᳘र्दाता व्व᳘र्चो द᳘दाति ते᳘नै᳘वैतत्स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दैन्द्रासौम्यः᳘॥
(श्च) चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानो व्व᳘र्चः सो᳘मः स य᳘दे᳘वास्मा ऽअग्नि᳘र्दाता व्व᳘र्चो द᳘दाति ते᳘नै᳘वैतत्स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते᳘॥
मूलम् - Weber
अ᳘थ य᳘दैन्द्रासौम्यः᳟॥
चरुर्भ᳘वती᳘न्द्रो वै य᳘जमानो व᳘र्चः सो᳘मः स य᳘देॗवास्मा अग्नि᳘र्दाता व᳘र्चो द᳘दाति ते᳘नैॗवैतत्स᳘ᳫं᳘स्पृशते त᳘दान्म᳘न्कुरुते॥
मूलम् - विस्वरम्
अथ यदैन्द्रासौम्यश्चरुर्भवति । इन्द्रो वै यजमानः । वर्चः सोमः । स यदेवास्मा ऽअग्निर्दाता वर्चो ददाति; तेनैवैतत् संस्पृशते । तदात्मन् कुरुते ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- And as to why there is a pap for Indra and Soma;–Indra is the Sacrificer, and Soma is glory: whatever glory Agni, the giver, gives him, therewith he now puts himself in contact, that he makes his own.
१२
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ य᳘त्सौम्यः᳘॥
(श्च) चरुर्भ᳘वति य᳘दे᳘वास्मा ऽअग्नि᳘र्दाता व्व᳘र्चो द᳘दाति त᳘स्मिन्ने᳘वैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै᳘ व्वर्चस्वी क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्त्तुं तद्व᳘र्च ऽए᳘वैतदु᳘पैति व्वर्चस्वी᳘ सूया ऽइ᳘ति᳘ नो ह्यवर्च᳘सो᳘[[!!]] व्याप्त्या चनार्थो᳘ ऽस्ति त᳘स्य बभ्रुर्गौर्द᳘क्षिणा स हि᳘ सौम्यो य᳘द्बभ्रुः[[!!]]॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ य᳘त्सौम्यः᳘॥
(श्च) चरुर्भ᳘वति य᳘दे᳘वास्मा ऽअग्नि᳘र्दाता व्व᳘र्चो द᳘दाति त᳘स्मिन्ने᳘वैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै᳘ व्वर्चस्वी क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्त्तुं तद्व᳘र्च ऽए᳘वैतदु᳘पैति व्वर्चस्वी᳘ सूया ऽइ᳘ति᳘ नो ह्यवर्च᳘सो᳘[[!!]] व्याप्त्या चनार्थो᳘ ऽस्ति त᳘स्य बभ्रुर्गौर्द᳘क्षिणा स हि᳘ सौम्यो य᳘द्बभ्रुः[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘त्सौम्यः᳟॥
चरुर्भ᳘वति य᳘देॗवास्मा अग्नि᳘र्दाता व᳘र्चो द᳘दाति त᳘स्मिन्नेॗवैत᳘दन्ततः प्र᳘तितिष्ठति यद्वै᳘ वर्चस्वी क᳘र्म चि᳘कीर्षति शक्नो᳘ति वै तत्क᳘र्तुं तद्व᳘र्च एॗवैतदु᳘पैति वर्चस्वी᳘ सूया इ᳘तिॗ नो ह्य᳘वर्च᳘सोॗ व्याप्त्या चनार्थो᳘ ऽस्ति त᳘स्य बभ्रुर्गौर्द᳘क्षिणा स हि᳘ सौम्यो य᳘द्बभ्रुः᳟॥
मूलम् - विस्वरम्
अथ यत् सौम्यश्चरुर्भवति- यदेवास्मा ऽअग्निर्दाता वर्चो ददाति तस्मिन्नेवैतदन्ततः प्रतितिष्ठति । यद्वै वर्चस्वी कर्म चिकीर्षति- शक्नोति वै तत्कर्तुम् । तद्वर्च एवैतदुपैति । वर्चस्वी सूया ऽइति । नो ह्यवर्चसो व्याप्त्या चनार्थो ऽस्ति । तस्य बभ्रुर्गौर्दक्षिणा । स हि सौम्यो यद् बभ्रुः (३) ॥ १२ ॥
सायणः
अथ यत्सौम्य इति । नो ह्यवर्चस इति । ‘अवर्चसः’ अतेजस्कस्य यद्यपि व्याप्तिः सर्वपदार्थव्यापनशक्तिरस्ति ‘चन’- शब्दो ऽप्यर्थे, तथापि तया ‘व्याप्त्या’ अपि ‘न’ खलु ‘अर्थः’ प्रयोजनं विद्यते इति । तस्य दक्षिणां विधत्ते- बभ्रुर्गौरिति 7 । ‘स हि सौम्यः’ इति ‘बभ्रुः’ भवत्येव; “एतद्वै सोमस्य रूपम्"- (तै. सं. २ । १ । ३ । ४) इति श्रवणात् ॥ १२ ॥
Eggeling
- And why there is a pap for Soma;–whatever glory, Agni, the giver, gives him, therein he now finally establishes him; and whatever work he, the glorious, wishes to do, that he is able to do. Thus he thereby attains glory,–thinking, ‘May I be consecrated, endowed with glory!’ for the inglorious one has no concern with success. A brown bull is
the fee for this (offering); for such a brown one is of Soma’s nature.
१३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ श्वो᳘भूते᳘॥
व्वैश्वानरं द्वा᳘दशकपालं पुरोडा᳘शं नि᳘र्व्वपति व्वारुणं᳘ यवम᳘यं चरुं ता᳘भ्यामनूचीनाहं व्वे᳘ष्टिभ्यां य᳘जते समान᳘बर्हिर्भ्यां वा॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ श्वो᳘भूते᳘॥
व्वैश्वानरं द्वा᳘दशकपालं पुरोडा᳘शं नि᳘र्व्वपति व्वारुणं᳘ यवम᳘यं चरुं ता᳘भ्यामनूचीनाहं व्वे᳘ष्टिभ्यां य᳘जते समान᳘बर्हिर्भ्यां वा॥
मूलम् - Weber
अ᳘थ श्वो᳘ भूते᳟॥
वैश्वानरं द्वा᳘दशकपालम् पुरोडा᳘शं नि᳘र्वपति वारुण᳘ यवम᳘यं चरुं ता᳘भ्यामनूचीनाहं वे᳘ष्टिभ्यां य᳘जते समान᳘बर्हिर्भ्यां वा॥
मूलम् - विस्वरम्
अथ श्वोभूते वैश्वानरं द्वादशकपालं पुरोडाशं निर्वपति । वारुणं यवमयं चरुम् । ताभ्यामनूचीनाहं वेष्टिभ्यां यजते समानबर्हिर्भ्यां वा ॥ १३ ॥
सायणः
अथानन्तरदिवसकर्त्तव्यं द्विहविष्कं यागं विधत्ते- अथ श्वोभूत इति । अनूचीनाहमिति । अनूचीने पूर्वापरीभूते अहनी ‘अनूचीनाहं’ क्रियाविशेषणमेतत् । वैश्वानरेष्ट्या पूर्वस्मिन् दिने यजेत, वारुण्या अपरस्मिन् दिने; एवं भिन्नतन्त्रेणैतौ यागौ कार्यौ । एकस्मिन्नेवाहनि वा समानतन्त्राभ्यां यष्टव्यमित्याह- समान बर्हिर्भ्यामिति । बर्हिरुपलक्षितं कृत्स्नं तन्त्रं समानं साधारणं ययोः ते समानबर्हिषी । अत्र सूत्रम्- “श्वो वैश्वानरो द्वादशकपालो वारुणश्चैकतन्त्रे, श्वो वैकः”- (का. श्रौ. सू. १५ । ४३ । ४४) इति ॥ १३ ॥
Eggeling
- And on the following day he prepares a cake-on twelve potsherds for (Agni) Vaiśvānara, and a barley pap for Varuṇa. These two offerings he performs either on days following one another, or so as to use the same barhis 8.
१४
विश्वास-प्रस्तुतिः
स य᳘द्वैश्वानरो भ᳘वति॥
संव्वत्सरो वै᳘ व्वैश्वानरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरेव त᳘द्भूमा᳘नं प्रजाः᳘ ससृजे भूमा᳘नं प्रजाः᳘ सृष्ट्वा᳘ सूया ऽइ᳘ति त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्भूमा᳘नं प्रजाः᳘ सृजते भूमा᳘नं प्रजाः सृष्ट्वा᳘ सूया ऽइति[[!!]]॥
मूलम् - श्रीधरादि
स य᳘द्वैश्वानरो भ᳘वति॥
संव्वत्सरो वै᳘ व्वैश्वानरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरेव त᳘द्भूमा᳘नं प्रजाः᳘ ससृजे भूमा᳘नं प्रजाः᳘ सृष्ट्वा᳘ सूया ऽइ᳘ति त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्भूमा᳘नं प्रजाः᳘ सृजते भूमा᳘नं प्रजाः सृष्ट्वा᳘ सूया ऽइति[[!!]]॥
मूलम् - Weber
स य᳘द्वैश्वानरो भ᳘वति॥
संवत्सरो वै᳘ वैश्वानरः᳘ संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिरेव त᳘द्भूमा᳘नम् प्रजाः᳘ ससृजे भूमा᳘नम् प्रजाः᳘ सृष्ट्वा᳘ सूया इ᳘ति त᳘थो ए᳘वैष᳘ एत᳘द्भूमा᳘नम् प्रजाः᳘ सृजते भूमा᳘नम् प्रजाः सृष्ट्वा सूया इ᳘ति॥
मूलम् - विस्वरम्
स यद् वैश्वानरो भवति । सम्वत्सरो वै वैश्वानरः । सम्वत्सरः प्रजापतिः । प्रजापतिरेव तद् भूमानं प्रजाः ससृजे । भूमानं प्रजाः सृष्ट्वा सूया ऽइति । तथो एवैष एतद्भूमानं प्रजाः सृजते । भूमानं प्रजाः सृष्ट्वा सूया इति ॥ १४ ॥
सायणः
प्रथमस्य हविषो वैश्वानरदेवताकत्वं प्रशंसति- स यद् वैश्वानर इति । अग्नेः संवत्सरात्मकत्वमुख्याग्नेः संवत्सरणादिति षष्ठे काण्डे समाम्नास्यते (श. प. ६ । ५ । १ । १२) । भूमानं प्रजा इति । भूयसीः प्रजा इत्यर्थः ॥ १४ ॥
Eggeling
- And as to why there is that (cake) for Vaiśvānara;–Vaiśvānara (‘belonging to all men’) truly is the year, and Prajāpati is the year; and Prajāpati indeed thereby created abundance and creatures, thinking, ‘May I be consecrated, having created abundance and creatures!’ And in like manner does that (king) thereby create abundance and creatures, thinking, ‘May I be consecrated, having created abundance and creatures!’
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यद्द्वा᳘दशकपालो भ᳘वति॥
द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो᳘ व्वैश्वानरस्त᳘स्माद्द्वा᳘दशकपालो भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यद्द्वा᳘दशकपालो भ᳘वति॥
द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो᳘ व्वैश्वानरस्त᳘स्माद्द्वा᳘दशकपालो भवति॥
मूलम् - Weber
अ᳘थ यद्द्वा᳘दशकपालो भ᳘वति॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सरो᳘ वैश्वानरस्त᳘स्माद्द्वादशकपालो भवति॥
मूलम् - विस्वरम्
अथ यद् द्वादशकपालो भवति । द्वादश वै मासाः सम्वत्सरस्य । सम्वत्सरो वैश्वानरः । तस्माद् द्वादशकपालो भवति ॥ १५ ॥
सायणः
कपालसंख्यां प्रशंसति- अथ यद्द्वादशकपाल इति । वैश्वानराग्नेः संवत्सरात्मकत्वात् तस्य मासद्वादशकरूपत्वात् तदीयस्य हविषः कपालेषु द्वादशसंख्या युज्यत इत्यर्थः ॥ १५ ॥
Eggeling
- And why it is one on twelve potsherds;–twelve months there are in the year, and Vaiśvānara is the year: this is why it is one on twelve potsherds.
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्वारुणो᳘ यवम᳘यश्चरुर्भ᳘वति॥
तत्स᳘र्व्वस्मादे᳘वैत᳘द्वरुणपाशात्स᳘र्व्वस्माद्वरु᳘ण्यात्प्रजाः प्र᳘मुञ्चति ता᳘ ऽअस्यानमीवा᳘ अकिल्विषाः᳘ प्रजाः प्र᳘जायन्ते ऽनमीवा᳘ ऽअकिल्विषाः᳘ प्रजा᳘ ऽअभि᳘ सूया ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्वारुणो᳘ यवम᳘यश्चरुर्भ᳘वति॥
तत्स᳘र्व्वस्मादे᳘वैत᳘द्वरुणपाशात्स᳘र्व्वस्माद्वरु᳘ण्यात्प्रजाः प्र᳘मुञ्चति ता᳘ ऽअस्यानमीवा᳘ अकिल्विषाः᳘ प्रजाः प्र᳘जायन्ते ऽनमीवा᳘ ऽअकिल्विषाः᳘ प्रजा᳘ ऽअभि᳘ सूया ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ य᳘द्वारुणो᳘ यवम᳘यश्चरुर्भ᳘वति॥
तत्स᳘र्वस्मादेॗवैत᳘द्वरुणपाशात्स᳘र्वस्माद्वरुॗण्यात्प्रजाः प्र᳘मुञ्चति ता᳘ अस्यानमीवा᳘ अकिल्विषाः᳘ प्रजाः प्र᳘जायन्ते ऽनमीवा᳘ अकिल्विषाः᳘ प्रजा᳘ अभि᳘ सूया इ᳘ति॥
मूलम् - विस्वरम्
अथ यद्वारुणो यवमयश्चरुर्भवति । तत् सर्वस्मादेवैतद् वरुणपाशात्, सर्वस्माद् वरुण्यात् प्रजाः प्रमुञ्चति । ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते । अनमीवा अकिल्बिषाः प्रजा अभि सूया ऽइति ॥ १६ ॥
सायणः
द्वितीयं हविः प्रशंसति- अथ यद् वारुण इति । तत्सर्वस्मादिति । ‘तत्’ तत्र ‘एतत्’ एतेन वारुणयागेन सर्वस्मादेव ‘वरुणपाशात्,’ तथा ‘वरुण्यात्’ वरुणपाशकृतात् सर्वस्माद् दुःखात् प्रजाः ‘प्रमुञ्चति’ ॥ १६ ॥
Eggeling
- And as to why there is a barley pap for Varuṇa; he thereby frees the creatures from every snare of Varuṇa, from all that comes from Varuṇa 9;
and those creatures of his are produced sound and faultless: ‘May I be consecrated for sound and faultless creatures (or subjects)!’ he thinks.
१७
विश्वास-प्रस्तुतिः
(त्यृ) ऋषभो᳘ व्वैश्वानर᳘स्य द᳘क्षिणा॥
संव्वत्सरो वै᳘ व्वैश्वानरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिर्ऋषभो वै᳘ पशूनां᳘ प्रजा᳘पतिस्त᳘स्मादृषभो᳘ व्वैश्वानर᳘स्य द᳘क्षिणा कृष्णं व्वा᳘सो व्वारुण᳘स्य तद्धि᳘ व्वारुणं य᳘त्कृष्णं य᳘दि कृष्णं न᳘ व्विन्देद᳘पि यदेव[[!!]] कि᳘ञ्च व्वासः[[!!]] स्याद्ग्रन्थि᳘भिर्हि व्वा᳘सो वारुणं᳘ व्वरु᳘ण्यो हि᳘ ग्रन्थिः[[!!]]॥
मूलम् - श्रीधरादि
(त्यृ) ऋषभो᳘ व्वैश्वानर᳘स्य द᳘क्षिणा॥
संव्वत्सरो वै᳘ व्वैश्वानरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिर्ऋषभो वै᳘ पशूनां᳘ प्रजा᳘पतिस्त᳘स्मादृषभो᳘ व्वैश्वानर᳘स्य द᳘क्षिणा कृष्णं व्वा᳘सो व्वारुण᳘स्य तद्धि᳘ व्वारुणं य᳘त्कृष्णं य᳘दि कृष्णं न᳘ व्विन्देद᳘पि यदेव[[!!]] कि᳘ञ्च व्वासः[[!!]] स्याद्ग्रन्थि᳘भिर्हि व्वा᳘सो वारुणं᳘ व्वरु᳘ण्यो हि᳘ ग्रन्थिः[[!!]]॥
मूलम् - Weber
ऋषभो᳘ वैश्वानर᳘स्य द᳘क्षिणा॥
संवत्सरो वै᳘ वैश्वानरः᳘ संवत्सरः᳘ प्रजा᳘पतिरृषभो वै᳘ पशूना᳘म् प्रजा᳘पतिस्त᳘स्मादृषभो᳘ वैश्वानर᳘स्य द᳘क्षिणा कृष्णं वा᳘सो वारुण᳘स्य तद्धि᳘ वारुणं य᳘त्कृष्णं य᳘दि कृष्णं न᳘ विन्देद᳘पि य᳘देव किं᳘ च वा᳘सः स्याद्ग्रन्थि᳘भिर्हि वा᳘सो वारुणं᳘ वरुॗण्यो हि᳘ ग्रन्थिः᳟॥
मूलम् - विस्वरम्
ऋषभो वैश्वानरस्य दक्षिणा । सम्वत्सरो वै वैश्वानरः, सम्वत्सरः प्रजापतिः । ऋषभो वै पशूनां प्रजापतिः । तस्मादृषभो वैश्वानरस्य दक्षिणा । कृष्णं वासो वारुणस्य । तद्धि वारुणं- यत्- कृष्णम् । यदि कृष्णं न विन्देद्- अपि यदेव किञ्च वासः स्यात् । ग्रन्थिभिर्हि वासो वारुणम् । वरुण्यो हि ग्रन्थिः (४) ॥ १७ ॥
सायणः
अनयोर्हविषोः क्रमेण दक्षिणामभिधाय प्रशंसति- ऋषभो, वैश्वानरस्य दक्षिणेति । ऋषभो वै पशूनामिति । यतो वैश्वानरः परम्परया ‘प्रजापतिः’ वृषभो ऽपि पशूनां पतित्वात् प्रजापतिः, अतो वैश्वानरदेवताकयागस्य दक्षिणात्वेन युज्यत इत्यर्थः । तद्धि वारुणमिति । रात्र्यभिमानिदेवता वरुणः रात्रिश्च कृष्णवर्णा, अतो लोके ऽपि यत् कृष्णं तद् वारुणमित्युच्यते । कृष्णवस्त्रालाभे वर्णान्तरयुतं ‘वासः’ देयमित्युक्तम् 10 । तस्योपाध्यन्तरेण वरुणसम्बन्धित्वमुपपादयति- ग्रन्थिभिर्हीति । ग्रन्थिर्नाम पाशः, पाशो हि वरुणस्येति तद्योग्यत्वम् । अयं दक्षिणाभेद इष्ट्योर्भिन्नतन्त्रत्वेन वेदितव्यः । समानतन्त्रत्वे हि एकेनैव द्रव्येण परिक्रीता ऋत्विजः कृत्स्नं प्रयोगजातं कुर्वन्तीतीतरवैयर्थ्यम् । तदुक्तम् कर्कोपाध्यायेन- “तन्त्रभेदे चैतद् भवति, ऐकतन्त्र्ये तु चोदकपरिप्राप्तो ऽन्वाहार्य इति 11 ॥ १७ ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे द्वितीयाध्याये पञ्चमं ब्राह्मणम् ॥ (५-२-५) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे द्वितीयाध्यायः समाप्तः ॥ ५-२ ॥
Eggeling
- A bull is the fee for the Vaiśvānara (oblation); for Vaiśvānara is the year, and Prajāpati is the year; and the bull is the Prajāpati (lord of creatures or generation) among cows: therefore a bull is the fee for the Vaiśvānara. A black cloth for the Vāruṇa (oblation), for what is black belongs to Varuṇa. If he cannot obtain a black one, any kind of cloth will do: it is by its knots that the cloth belongs to Vanilla, for the knot is sacred to Varuṇa.
-
त्रिषंयुक्तेषु । का० श्रौ० सू० १५ । ३६ । ↩︎
-
54:1 That is, ’the triply connected,’ the ceremony being made up of three rounds, each of which consists of three separate oblations, ↩︎
-
आग्नावैष्णव ऐंद्रावैष्णवो वैष्णवो वामनो दक्षिणा । का. श्रौ. सू. १५ । ३७ । ↩︎ ↩︎
-
55:1 See the legend, I, 2, 3, 1 seq., which represents Vishṇu as a dwarf, who obtained from the Asuras as much ground for the gods, as he lay upon.–‘Tad dhi paśushu vaishṇavaṁ rūpaṁ yad vāmanasya goḥ.’ Kāṇva rec. ↩︎
-
आग्नापौष्ण ऐंद्रापौष्णः पौष्णः श्यामो दक्षिणा । का० श्रौ० सू० १५ । ३९ । ↩︎
-
56:1 See V, 1, 3, 9. ↩︎
-
अग्नीषोमीय ऐंद्रासौम्यः सौम्यो बभ्रुर्दक्षिणा । का. श्रौ. सू. । १५ । ४० । ↩︎
-
57:1 That is to say, he is either to perform the Vaiśvānara on one, and the Vāruṇa one on the next–in which case a different barhis, or altar-covering of sacrificial grass, would be needed–or he may perform them both on one and the same day, with the same barhis serving for both. ↩︎
-
57:2 See III, 8; 5, 10 where I translated, ‘from all (guilt) against Varuṇa;’ varuṇya, doubtless, implies both the guilt incurred by the infringement of Varuṇa’s sacred laws, and the punishment inflicted by him. As regards the ‘swearing by Varuṇa (?)’ there referred to, see R̥k S. X, 97, 16 where the conjurer mutters: ‘May they (the plants) free me from the (evil) resulting from the curse and from Varuṇa;’–muñkantu mā śapathyād atho varuṇyād uta. ↩︎
-
ऋषभः पूर्वस्य दक्षिणा कृष्णं वास उत्तरस्याभावे ऽकृष्णम् । का० श्रौ० सू० १५ । ४५ ॥ ↩︎
-
का० श्रौ० सू० १५ । ४५ । इत्यत्र भाष्ये । ↩︎