०१
विश्वास-प्रस्तुतिः
व्वैश्वदेवे᳘न यजते॥
व्वैश्वदेवे᳘न वै᳘ प्रजा᳘पतिर्भूमा᳘नं प्रजाः᳘ ससृजे भूमा᳘नं प्रजाः᳘ सृष्ट्वा᳘ सूया ऽइ᳘ति त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्वैश्वदेवे᳘नैव᳘ भूमा᳘नं प्रजाः᳘ सृजते भूमा᳘नं प्रजाः᳘ सृष्ट्वा᳘ सूया ऽइ᳘ति॥
मूलम् - श्रीधरादि
व्वैश्वदेवे᳘न यजते॥
व्वैश्वदेवे᳘न वै᳘ प्रजा᳘पतिर्भूमा᳘नं प्रजाः᳘ ससृजे भूमा᳘नं प्रजाः᳘ सृष्ट्वा᳘ सूया ऽइ᳘ति त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्वैश्वदेवे᳘नैव᳘ भूमा᳘नं प्रजाः᳘ सृजते भूमा᳘नं प्रजाः᳘ सृष्ट्वा᳘ सूया ऽइ᳘ति॥
मूलम् - Weber
वैश्वदेवे᳘न यजते॥
वैश्वदेवे᳘न वै᳘ प्रजा᳘पतिर्भूमा᳘नम् प्रजाः᳘ ससृजे भूमा᳘नम् प्रजाः᳘ सृष्ट्वा᳘ सूया इ᳘ति त᳘थो एॗवैष᳘ एत᳘द्वैश्वदेवे᳘नैव᳘ भूमा᳘नम् प्रजाः᳘ सृजते भूमा᳘नम् प्रजाः᳘ सृष्ट्वा᳘ सूया इ᳘ति॥
मूलम् - विस्वरम्
चातुर्मास्यादियागाः ।
(१) वैश्वदेवेन यजते । वैश्वदेवेन वै प्रजापतिर्भूमानं प्रजाः ससृजे । भूमानं प्रजाः सृष्ट्वा सूया ऽइति । तथो ऽएवैष एतद्वैश्वदेवेनैव भूमानं प्रजाः सृजते । भूमानं प्रजाः सृष्ट्वा सूया ऽइति ॥ १ ॥
सायणः
एवं चातुर्मास्यानि सामान्येन विधाय वैश्वदेवाख्यं प्रथमं पर्व विधत्ते- वैश्वदेवेनेति । वैश्वदेवमित्याग्नेयादिहविरष्टकरूपप्रथमपर्वणो नामधेयम् । अत्र वैश्वदेवादीनां चतुर्णां पर्वणामपेक्षितान्यङ्गानि मासाग्निहोत्रन्यायेन नामातिदेशादतिदेष्टव्यानि । तदुपदेशस्तु द्वितीयकाण्डे पञ्चमे ऽध्याये समाम्नातः- “वैश्वदेवेन वै प्रजापतिः” इति । (श. प. २ । ५ । २ । १) अत्र वैश्वदेवशब्देन शाखान्तरीया प्रसिद्धिर्द्योत्यते । तथा च तैत्तिरीयके- “वैश्वदेवेन वै प्रजापतिः प्रजा असृजत”- (तै. ब्रा. १ । ६ । २ । १) इति । ‘भूमानं’ ‘प्रजा’ इति । भूयसी: प्रजा इत्यर्थः तथो एवैष इति । यथा पुरा प्रजापतिः वैश्वदेवयागेन भूयसीः प्रजाः सृष्टवान्, एवमयं यजमानो ऽपि तेन यागेन तथाविधाः ‘प्रजाः’ ‘सृजते’ सृजति । ताः ‘सृष्टाः’ प्रजाः अभिलक्ष्य ‘सूयै’ सवं यज्ञं करवाणीति ॥ १ ॥
Eggeling
- He offers the Vaiśvadeva 1 (All-gods’ offering); for by means of the Vaiśvadeva, Prajāpati created abundance (of food) and creatures, thinking, ‘May I be consecrated, after creating abundance and creatures!’ And in like manner does this (Sacrificer) now, by the Vaiśvadeva, create abundance and creatures, thinking, ‘May I be consecrated, after creating abundance and creatures!’
०२
विश्वास-प्रस्तुतिः
(त्व᳘) अ᳘थ व्वरुणप्रघासै᳘र्यजते॥
व्वरुणप्रघासैर्व्वै᳘ प्रजा᳘पतिः प्रजा᳘ व्वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ अस्यानमीवा᳘ ऽअकिल्विषाः᳘ प्रजाः प्रा᳘जायन्तानमीवा᳘ ऽअकिल्विषाः᳘ प्रजा᳘ अभि᳘ सूया ऽइ᳘ति त᳘थो ए᳘वैष᳘ ऽएत᳘द्वरुणप्रघासै᳘रेव᳘ प्रजा᳘ व्वरुणपाशात्प्र᳘मुञ्चति ता᳘ ऽअस्या᳘नमीवा ऽअ᳘किल्विषाः प्रजाः प्र᳘जायन्ते ऽनमीवा᳘ ऽअकिल्विषाः᳘[[!!]] प्रजा᳘ ऽअ᳘भि सूया ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्व᳘) अ᳘थ व्वरुणप्रघासै᳘र्यजते॥
व्वरुणप्रघासैर्व्वै᳘ प्रजा᳘पतिः प्रजा᳘ व्वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ अस्यानमीवा᳘ ऽअकिल्विषाः᳘ प्रजाः प्रा᳘जायन्तानमीवा᳘ ऽअकिल्विषाः᳘ प्रजा᳘ अभि᳘ सूया ऽइ᳘ति त᳘थो ए᳘वैष᳘ ऽएत᳘द्वरुणप्रघासै᳘रेव᳘ प्रजा᳘ व्वरुणपाशात्प्र᳘मुञ्चति ता᳘ ऽअस्या᳘नमीवा ऽअ᳘किल्विषाः प्रजाः प्र᳘जायन्ते ऽनमीवा᳘ ऽअकिल्विषाः᳘[[!!]] प्रजा᳘ ऽअ᳘भि सूया ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ वरुणप्रघासै᳘र्यजते॥
वरुणप्रघासैर्वै᳘ प्रजा᳘पतिः प्रजा᳘ वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ अस्यानमीवा᳘ अकिल्विषाः᳘ प्रजा प्रा᳘जायन्तानमीवा᳘ अकिल्विषाः᳘ प्रजा᳘ अभि᳘ सूया इ᳘ति त᳘थो एॗवैष᳘ एत᳘द्वरुणप्रघासै᳘रेव᳘ प्रजा᳘ वरुणपाशात्प्र᳘मुञ्चति ता᳘ अस्या᳘नमीवा अ᳘किल्विषाः प्रजाः प्र᳘जायन्ते᳘ ऽनमीव अकिल्विषाः प्रजा अ᳘भि सूया इ᳘ति॥
मूलम् - विस्वरम्
(२) अथ वरुणप्रघासैर्यजते । वरुणप्रघासैर्वै प्रजापतिः प्रजा वरुणपाशात्प्रामुञ्चत् । ता अस्यानमीवा अकिल्विषाः प्रजाः प्राजायन्त । अनमीवा अकिल्विषाः प्रजा अभि सूया ऽइति । तथो एवैष एतद्वरुणप्रघासैरेव प्रजा वरुणपाशात् प्रमुञ्चति । ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते । अनमीवा अकिल्विषाः प्रजा अभि सूया ऽइति ॥ २॥
सायणः
द्वितीयं पर्व विधत्ते- अथ वरुणेति । ‘अथ’ वैश्वदेवानन्तरं चतुर्षु मासेषु व्यतीतेषु ‘वरुणप्रघासैः’ यजेत । तान् वरुणपाशमोचनसाधनत्वेन प्रशंसति- वरुणप्रघासैर्वा इति । ता अस्येति । वरुणप्रघासयागेन पाशविमोचनस्य कृतत्वात् ‘अस्य’ प्रजापतेः ‘ताः’ वैश्वदेवेन सृष्टाः ‘प्रजाः’ रोगपापरहिताः सत्यः पुत्रपौत्रादिरूपेण प्रजायन्ते । गतमन्यत् । दार्ष्टान्तिके योजयति- तथो एवैष इति । ता अस्येति । ‘अस्य’ यजमानस्येत्यर्थः ॥ २ ॥
Eggeling
- He then offers the Varuṇapraghāsāḥ 2; for by means of the Varuṇapraghāsāḥ Prajāpati delivered the creatures from Varuṇa’s noose, and those creatures of his were produced healthy and faultless: ‘May I be consecrated for healthy, faultless creatures!’
he thought. And in like manner does this (Sacrificer) now, by the Varuṇapraghāsāḥ, deliver the creatures from Varuṇa’s noose, and those creatures of his are produced healthy and faultless: ‘May I be consecrated for healthy, faultless creatures!’ so he thinks.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ साकमेधै᳘र्यजते॥
साकमेधैर्व्वै᳘ देवा᳘ व्वृत्र᳘मघ्नंस्तै᳘र्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएतैः᳘ पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ साकमेधै᳘र्यजते॥
साकमेधैर्व्वै᳘ देवा᳘ व्वृत्र᳘मघ्नंस्तै᳘र्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएतैः᳘ पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ साकमेधै᳘र्यजते॥
साकमेधैर्वै᳘ देवा᳘ वृत्र᳘मघ्नंस्तै᳘र्वेव व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘थो एॗवैष᳘ एतैः᳘ पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हन्ति त᳘थो एव वि᳘जयते वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया इ᳘ति॥
मूलम् - विस्वरम्
(३) अथ साकमेधैर्यजते । साकमेधैर्वै देवा वृत्रमघ्नन् । तैर्वेव व्यजयन्त- येयमेषां विजितिस्ताम् । तथो ऽएवैष एतैः पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति । तथो ऽएव विजयते । विजिते ऽभये ऽनाष्ट्रे सूया ऽइति ॥ ३ ॥
सायणः
तृतीयं पर्व विधत्ते- अथ साकमेधैरिति । ‘अथ’ वरुणप्रघासानुष्ठानानन्तरं चतुर्षु मासेषु साकमेधाख्या यागाः कार्याः । तान् पापरूपशत्रुजयसाधनत्वेन सदृष्टान्तं प्रशंसति- साकमेधैर्वा इति । ‘वृत्रं’ ’ वृत्रासुरम् ‘अघ्नन्’ हतवन्तः । ‘एषां’ देवानां ‘येयं विजितिः’ इदानीं दृश्यते ‘तां’ तैरेव साकमेधैः ‘व्यजयन्त’ प्राप्नुवन् । तथो एवेत्यादि, सिद्धम् ॥ ३ ॥
Eggeling
- He then performs the Sākamedhāḥ 3; for by the Sākamedhāḥ the gods slew Vr̥tra, and gained that universal conquest which now is theirs. And in, like manner does this (Sacrificer) thereby now slay his wicked, hateful enemy; and in like manner does he gain the victory, thinking, ‘May I be consecrated, when safety and security are gained!’
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ शुनासी᳘र्येण यजते॥
(त ऽ) उभौ र᳘सौ परिगृ᳘ह्य सूया ऽइ᳘त्यथ पञ्चवाती᳘यᳫँ᳭ स᳘ पञ्च᳘धा ऽऽहवनी᳘यं व्यु᳘ह्य स्रुवे᳘णोपघा᳘तं जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ शुनासी᳘र्येण यजते॥
(त ऽ) उभौ र᳘सौ परिगृ᳘ह्य सूया ऽइ᳘त्यथ पञ्चवाती᳘यᳫँ᳭ स᳘ पञ्च᳘धा ऽऽहवनी᳘यं व्यु᳘ह्य स्रुवे᳘णोपघा᳘तं जुहोति॥
मूलम् - Weber
अ᳘थ शुनासीॗर्येण यजते॥
उभौ र᳘सौ परिगृ᳘ह्य सूया इ᳘त्यथ पञ्चवीती᳘यᳫं स᳘ पञ्चॗधाहवनी᳘यं व्यु᳘ह्य स्रुवे᳘णो पघा᳘तं जुहोति॥
मूलम् - विस्वरम्
(४) अथ शुनासीर्येण यजते । उभौ रसौ परिगृह्य सूया ऽइति । अथ पञ्चवातीयम् । स पञ्चधा ऽऽहवनीयं व्युह्य स्रुवेणोपघातं जुहोति ॥ ४॥
सायणः
अथ चतुर्थं पर्व विधत्ते- अथ शुनासीर्येणेति । शुनो वायुः, सीर आदित्यः, तद्देवत्यं हविः शुनासीरीयम्; तद्योगात् चतुर्थं पर्व शुनासीर्यमित्युच्यते 4 । उभौ रसाविति । शुनासीरयो रसरूपत्वं हि द्वितीये काण्डे स्पष्टमुक्तम्- “अथ यस्माच्छुनासीर्येण यजेत या वै देवानाँ श्रीरासीत् साकवैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसात्तत् सीरँ सा या चैव देवानाँ श्रीरासीत् साकमेवैरीजानानां विजिग्यानानां, य उ च संवत्सरस्य प्रजितस्य रस आसीत् तमेवैतदुभयं परिगृह्यात्मन् कुरुते-” इति (श. प. २ । ६ । ३ । २) शुनासीरीयप्रयोगकालः सूत्रितः- “पवित्रदीक्षास्थाने शुनासीरीयम्”- का. श्रौ. सू. १५ । १९ ।) इति । पवित्राख्यस्य सोमयागस्य संवत्सरे यस्यां तिथौ दीक्षा कृता, तस्यां फाल्गुनशुक्लप्रतिपदि चतुर्थं पर्व कार्यम् । अर्थात् पवित्रशुनासीर्ययोर्मध्ये वैश्वदेवादीनि त्रीणि पर्वाणि क्रमेण चतुर्षु मासेषु कार्याणीत्युक्तं भवति ॥
पञ्चवातीयहोमं विधत्ते- (तै. सं. १ । ८ । ७ ।) अथ पञ्चेति 5 । ‘पञ्चवातीयम्’ इति कर्मनामधेयम् । ‘आहवनीयम्’अग्निं ‘पञ्चधा’ ‘व्युह्य’ प्रतिदिशं मध्ये च पृथक् कृत्वेत्यर्थः । आज्यस्थाल्याः ‘स्रुवेण’ ‘उपघातम्’ उपहत्योपहत्य गृहीत्वा ‘जुहोति’ ॥ ४ ॥
Eggeling
०५
विश्वास-प्रस्तुतिः
स᳘ पूर्व्वा᳘र्ध्ये जुहोति॥
(त्य) अग्नि᳘नेत्रेभ्यो देवे᳘भ्यः पुरःस᳘द्भ्यः स्वाहेत्य᳘थ दक्षिणा᳘र्ध्ये जुहोति यम᳘नेत्रेभ्यो देवे᳘भ्यो दक्षिणास᳘द्भ्यः स्वाहेत्य᳘थ पश्चा᳘र्ध्ये जुहोति व्विश्व᳘देवनेत्रेभ्यो देवे᳘भ्यः पश्चात्स᳘द्भ्यः᳘ स्वाहेत्य᳘थोत्तरा᳘र्ध्ये जुहोति मित्राव᳘रुणनेत्रेभ्यो वा मरु᳘न्नेत्रेभ्यो वा देवे᳘भ्य ऽउत्तरास᳘द्भ्यः स्वाहेत्य᳘थ म᳘ध्ये जुहोति सो᳘मनेत्रेभ्यो देवे᳘भ्य ऽउपरिस᳘द्भ्यो दु᳘वस्वद्भ्यः स्वाहेति[[!!]]॥
मूलम् - श्रीधरादि
स᳘ पूर्व्वा᳘र्ध्ये जुहोति॥
(त्य) अग्नि᳘नेत्रेभ्यो देवे᳘भ्यः पुरःस᳘द्भ्यः स्वाहेत्य᳘थ दक्षिणा᳘र्ध्ये जुहोति यम᳘नेत्रेभ्यो देवे᳘भ्यो दक्षिणास᳘द्भ्यः स्वाहेत्य᳘थ पश्चा᳘र्ध्ये जुहोति व्विश्व᳘देवनेत्रेभ्यो देवे᳘भ्यः पश्चात्स᳘द्भ्यः᳘ स्वाहेत्य᳘थोत्तरा᳘र्ध्ये जुहोति मित्राव᳘रुणनेत्रेभ्यो वा मरु᳘न्नेत्रेभ्यो वा देवे᳘भ्य ऽउत्तरास᳘द्भ्यः स्वाहेत्य᳘थ म᳘ध्ये जुहोति सो᳘मनेत्रेभ्यो देवे᳘भ्य ऽउपरिस᳘द्भ्यो दु᳘वस्वद्भ्यः स्वाहेति[[!!]]॥
मूलम् - Weber
स᳘ पूर्वाॗर्ध्ये जुहोति॥
अग्नि᳘नेत्रेभ्यो देवे᳘भ्यः पुरःस᳘द्भ्यः स्वाहेत्य᳘थ दक्षिणाॗर्ध्ये जुहोति यम᳘नेत्रेभ्यो देवे᳘भ्यो दक्षिणास᳘द्भ्यः स्वाहेत्य᳘थ पश्चाॗर्ध्ये जुहोति विश्व᳘देवनेत्रेभ्यो देवे᳘भ्यः पश्चात्स᳘द्भ्यः स्वाहेत्य᳘थोत्तराॗर्ध्ये जुहोति मित्राव᳘रुणनेत्रेभ्यो वा मरु᳘न्नेत्रेभ्यो वा देवे᳘भ्यो उत्तरास᳘द्भ्यः स्वाहेत्य᳘थ म᳘ध्ये जुहोति सो᳘मनेत्रेभ्यो देवे᳘भ्य उपरिस᳘द्भ्यो दु᳘वस्वद्भ्यः स्वाहे᳘ति॥
मूलम् - विस्वरम्
स पूर्वार्ध्ये जुहोति- “अग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा” इति । अथ दक्षिणार्ध्ये जुहोति-“यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा”- इति । अथ पश्चार्ध्ये जुहोति- “विश्वेदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भ्यः स्वाहा”- इति । अथोत्तरार्ध्ये जुहोति- “मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य उत्तरासद्भ्यः स्वाहा”- इति । अथ मध्ये जुहोति- “सोमनेत्रेभ्यो देवेभ्यः उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा”- (वा० सं० ९ । ३५) इति ॥ ५ ॥
सायणः
तत्र पूर्वादिक्रमेण पञ्चस्वग्निषु समन्त्रकं हवनं विधत्ते- स पूर्वार्द्ध्य इत्यादिना पूर्वार्द्धे भवः ‘पूर्वार्द्ध्यः’ अग्निः । अग्निनेत्रेभ्य इत्यादि । अग्निः ‘नेत्रं’ नयनस्येष्टप्राप्तेः साधनं येषां तेभ्यः ‘पुरस्सद्भ्यः’ पूर्वस्यां दिशि सीदन्तीति तथोक्ताः, तेभ्यः ‘देवेभ्यः’ ‘स्वाहा’ सुहुतमस्तु । एवमुत्तरत्रापि योज्यम् । ‘दुवस्वद्भ्यः’ दुव इत्यन्ननाम; (निरु. १० । २ । ७) । हविर्लक्षणान्नयुक्तेभ्यः ॥ ५ ॥
Eggeling
- He offers in the forepart (of the fire), with (Vāj. S. IX, 35), ‘To the Agni-eyed gods, the east-seated, hail!’ He then offers in the southern part
with, ‘To the Yama-eyed 8 gods, the south-seated, hail!’ He then offers in the hind part with, ‘To the Viśvadeva-eyed gods, the west-seated, hail!’ He then offers in the northern part with either, ‘To the Mitrāvaruṇa-eyed gods,–or, To the Marut-eyed gods,–the north-seated, hail!’ He then offers in the centre with, ‘To the Soma-eyed gods, the above-seated; the venerable, hail!’
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सार्द्ध᳘ᳫँ᳘ समु᳘ह्य जुहोति॥
ये᳘ देवा᳘ ऽअग्नि᳘नेत्राः पुरःस᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा᳘ यम᳘नेत्रा दक्षिणास᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा᳘ व्विश्व᳘देवनेत्राः पश्चात्स᳘दस्ते᳘भ्य स्वा᳘हा ये᳘ देवा᳘ मित्राव᳘रुणनेत्रा वा मरु᳘न्नेत्रा वोत्तरास᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवाः सो᳘मनेत्रा ऽउपरिस᳘दो दु᳘वस्वन्तस्ते᳘भ्यः स्वाहे᳘ति तद्य᳘देवं᳘ जुहो᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सार्द्ध᳘ᳫँ᳘ समु᳘ह्य जुहोति॥
ये᳘ देवा᳘ ऽअग्नि᳘नेत्राः पुरःस᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा᳘ यम᳘नेत्रा दक्षिणास᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा᳘ व्विश्व᳘देवनेत्राः पश्चात्स᳘दस्ते᳘भ्य स्वा᳘हा ये᳘ देवा᳘ मित्राव᳘रुणनेत्रा वा मरु᳘न्नेत्रा वोत्तरास᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवाः सो᳘मनेत्रा ऽउपरिस᳘दो दु᳘वस्वन्तस्ते᳘भ्यः स्वाहे᳘ति तद्य᳘देवं᳘ जुहो᳘ति॥
मूलम् - Weber
अ᳘थ सार्ध᳘ᳫं᳘ समु᳘ह्य जुहोति॥
ये᳘ देवा अग्नि᳘नेत्राः पुरःस᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा᳘ यम᳘नेत्रा दक्षिणास᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा विश्व᳘देवनेत्राः पश्चात्स᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवा᳘ मित्राव᳘रुणनेत्रा वा मरु᳘न्नेत्रा वोत्तरास᳘दस्ते᳘भ्यः स्वा᳘हा ये᳘ देवाः सो᳘मनेत्रा उपरिस᳘दो दु᳘वस्वन्तस्ते᳘भ्यः स्वाहे᳘ति तद्य᳘देवं᳘ जुहो᳘ति॥
मूलम् - विस्वरम्
अथ सार्द्धं समुह्य जुहोति- “ये देवा अग्निनेत्राः पुरस्सदस्तेभ्यः स्वाहा” (१) “ये देवा यमनेत्रा दक्षिणासदस्तेभ्यः स्वाहा” (२) “ये देवा विश्वदेवनेत्राः पश्चात्सदस्तेभ्यः स्वाहा” (३) “ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस्तेभ्यः स्वाहा” (४) “ये देवाः सोमनेत्रा उपरिसदो दुवस्वन्तस्तेभ्यः स्वाहा” (५)- (वा० सं० ९ । ३६) इति । तद्यदेवं जुहोति ॥ ६ ॥
सायणः
इत्थं पञ्चभिर्मन्त्रैः कृतेष्वग्निषु हुत्वा पुनस्तानग्नीनेकीकृत्य तैरेव मन्त्रैर्हवनं विधत्ते- अथ सार्द्धमिति । पञ्चाप्यग्नीन् ‘सार्द्धं’ ‘समुह्य’ समस्य जुहुयात् । तानेव मन्त्रान् पुनः पठति- ये देवा इति । अर्थस्तु पूर्ववत् ॥ ६ ॥
Eggeling
- Having then poked (the fire) together, he offers with (Vāj. S. IX, 36), ‘The gods that are Agni-eyed, east-seated, to them hail!–The gods that are Yama-eyed, south-seated, to them hail!–The gods that are Viśvadeva-eyed, west-seated, to them hail!–The gods that are Mitrāvaruṇa-eyed–or, Marut-eyed–north-seated, to them hail!–The gods that are Soma-eyed, above-seated, venerable, to them hail!’ Now as to why he thus offers.
०७
विश्वास-प्रस्तुतिः
य᳘त्र वै᳘ देवाः᳘॥
साकमेधैर्व्य᳘जयन्त᳘ येय᳘मेषां व्वि᳘जितिस्तां त᳘द्धोचुरु᳘त्पिबन्ते वा᳘ ऽइमा᳘नि दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि ह᳘न्तैभ्यो व्व᳘ज्रं प्रह᳘रामे᳘ति व्व᳘ज्रो वा ऽआ᳘ज्यं त᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वाघ्नंस्ते᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ एते᳘न व्व᳘ज्रेणा᳘ज्येन दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वहन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइति[[!!]]॥
मूलम् - श्रीधरादि
य᳘त्र वै᳘ देवाः᳘॥
साकमेधैर्व्य᳘जयन्त᳘ येय᳘मेषां व्वि᳘जितिस्तां त᳘द्धोचुरु᳘त्पिबन्ते वा᳘ ऽइमा᳘नि दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि ह᳘न्तैभ्यो व्व᳘ज्रं प्रह᳘रामे᳘ति व्व᳘ज्रो वा ऽआ᳘ज्यं त᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वाघ्नंस्ते᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ एते᳘न व्व᳘ज्रेणा᳘ज्येन दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वहन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइति[[!!]]॥
मूलम् - Weber
य᳘त्र वै᳘ देवाः᳟॥
साकमेधैर्व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘द्धोचुरु᳘त्पिबन्ते वा᳘ इमा᳘नि दिक्षु᳘ नाष्ट्रा र᳘क्षांसि ह᳘न्तैभ्यो व᳘ज्रम् प्रह᳘रामे᳘ति व᳘ज्रो वा आ᳘ज्यं त᳘ एते᳘न व᳘ज्रेणा᳘ज्येन दिक्षु᳘ नाष्ट्रा र᳘क्षांस्य᳘वाघ्नंस्ते व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘थो एॗवैष᳘ एते᳘न व᳘ज्रेणा᳘ज्येन दिक्षु᳘ नाष्ट्रा र᳘क्षांस्य᳘वहन्ति त᳘थो एव वि᳘जयते वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया इ᳘ति॥
मूलम् - विस्वरम्
यत्र वै देवाः साकमेधैर्व्यजयन्त- येयमेषां विजितिस्ताम् । तद्धोचुः- उत्पिबन्ते वा ऽइमानि दिक्षु नाष्ट्रा रक्षांसि, हन्तैभ्यो वज्रं प्रहरामेति । वज्रो वा ऽआज्यम् । त ऽएतेन वज्रेणाज्येन दिक्षु नाष्ट्रा रक्षांस्यवाघ्नन् । ते व्यजयन्त- येयमेषां विजितिस्ताम् । तथो ऽएवैष एतेन वज्रेणाज्येन दिक्षु नाष्ट्रा रक्षांस्यवहन्ति । तथो ऽएव विजयते । विजिते ऽभये ऽनाष्ट्रे सूया ऽइति ॥ ७ ॥
सायणः
पञ्चवातीयहोमस्य द्रव्यं विधातुमाह- यत्र वै देवा इति । तद्धोचुरिति । ‘तत्’ तत्र विजितप्रदेशे देवाः ‘ऊचुः’ उक्तवन्तः किम् । ‘इमानि’ ‘नाष्ट्रा’ नाशकारीणि ‘रक्षांसि’ ‘दिक्षु’ ‘उत्पिबन्ते’ उत्कटं पिबन्ति, प्राणिनो भक्षयन्ति । ‘हन्त’ इति हर्षे । ‘एभ्यः’ रक्षोभ्यः ‘वज्रं प्रहराम इति’ विचार्य, आज्यरूपेण वज्रेण तान् राक्षसान् एव अघ्नन् । श्रूयते हि आज्यस्य वज्रत्वम् । “घृतं वै देवा वज्रं कृत्वा”- (तै. सं. ६ । २ । २ । ४) इति । “तथो एवैष” इत्यादिना इदानीमनुष्ठातुरपि तथाविधफलप्राप्तिदर्शनम् ॥ ७ ॥
Eggeling
- Now when, by means of the Sākamedhāḥ, the gods were gaining that universal conquest, which now is theirs, they said, ‘Verily the fiends, the Rakshas, suck out these (creatures) in the (four) quarters: come, let us throw the thunderbolt at them!’ Now the ghee is a thunderbolt: with that thunderbolt, the ghee, they smote the fiends, the Rakshas, in the (four) quarters, and gained that universal conquest which now is theirs. And in like manner does this (Sacrificer) smite the fiends, the Rakshas, in the quarters, by that thunderbolt, the ghee; and thus he gains the victory, thinking, ‘May
I be consecrated, when safety and security have been gained!’
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘देता ऽअ᳘पराः पञ्चा᳘हुतीर्ज्जुहो᳘ति॥
क्षण्व᳘न्ति व्वा᳘ ऽएत᳘दग्नेर्व्वि᳘वृहन्ति य᳘त्पञ्च᳘धा ऽऽहवनी᳘यं व्यू᳘हन्ति त᳘दे᳘वास्यैते᳘न स᳘न्दधाति त᳘स्मादेता ऽअ᳘पराः पञ्चा᳘हुतीर्ज्जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘देता ऽअ᳘पराः पञ्चा᳘हुतीर्ज्जुहो᳘ति॥
क्षण्व᳘न्ति व्वा᳘ ऽएत᳘दग्नेर्व्वि᳘वृहन्ति य᳘त्पञ्च᳘धा ऽऽहवनी᳘यं व्यू᳘हन्ति त᳘दे᳘वास्यैते᳘न स᳘न्दधाति त᳘स्मादेता ऽअ᳘पराः पञ्चा᳘हुतीर्ज्जुहोति॥
मूलम् - Weber
अ᳘थ य᳘देता अ᳘पराः पञ्चा᳘हुतीर्जुहो᳘ति॥
क्षण्व᳘न्ति वा᳘ एत᳘दग्नेर्वि᳘वृहन्ति य᳘त्पञ्चॗधाहवनी᳘यं व्यू᳘हन्ति त᳘देवास्यैते᳘न सं᳘दधाति त᳘स्मादेता अ᳘पराः पञ्चा᳘हुतीर्जुहोति॥
मूलम् - विस्वरम्
अथ यदेता अपराः पञ्चाहुतीर्जुहोति । क्षण्वन्ति वा ऽएतदग्नेर्विवृहन्ति- यत् पञ्चधा ऽऽहवनीयं व्यूहन्ति । तदेवास्यैतेन सन्दधाति । तस्मादेता अपराः पञ्चाहुतीर्जुहोति ॥ ८ ॥
सायणः
आग्नीनां समासेन कृतमाहुतिपञ्चकं प्रशंसति- अथ यदेता इति । पूर्वमाहवनीयस्य पञ्चधा व्यूहनेन तमग्निं ‘क्षण्वन्ति’ हिंसन्ति । “क्षणु हिंसायाम्” (धा. पा. रु. प. ३) इति धातुः । तथा तस्य ‘अग्नेः’ अवयवान् ‘विवृहन्ति’ विश्लेषयन्ति । “वृहु उद्यमने” (धा. पा. तु. प. १६) इति धातुः । तमनेन पुनःसमस्य पञ्चाहुतिकरणेन संहितवान् भवतीति ॥ ८ ॥
Eggeling
- And as to why he offers those five latter oblations. Now when they poke the Āhavanīya asunder into five parts, thereby they wound and tear some of the fire; and hereby now he heals it: therefore he offers those five latter oblations.
०९
विश्वास-प्रस्तुतिः
त᳘स्य प्र᳘ष्टिवाहनो ऽश्वरथो द᳘क्षिणा॥
त्रयो᳘ ऽश्वा द्वौ᳘ सव्यष्टृसारथी ते प᳘ञ्च प्राणा यो वै᳘ प्राणः स व्वा᳘तस्तद्य᳘देत᳘स्य क᳘र्मण ऽएषा द᳘क्षिणा त᳘स्मात्पञ्चवाती᳘यं ना᳘म॥
मूलम् - श्रीधरादि
त᳘स्य प्र᳘ष्टिवाहनो ऽश्वरथो द᳘क्षिणा॥
त्रयो᳘ ऽश्वा द्वौ᳘ सव्यष्टृसारथी ते प᳘ञ्च प्राणा यो वै᳘ प्राणः स व्वा᳘तस्तद्य᳘देत᳘स्य क᳘र्मण ऽएषा द᳘क्षिणा त᳘स्मात्पञ्चवाती᳘यं ना᳘म॥
मूलम् - Weber
त᳘स्य प्र᳘ष्टिवाहनो ऽश्वरथो द᳘क्षिणा॥
त्रयो᳘ ऽश्वा द्वौ᳘ सव्यष्ठृसारथी ते प᳘ञ्च प्राणा यो वै᳘ प्राणः स वा᳘तस्तद्य᳘देत᳘स्य क᳘र्मण एषा द᳘क्षिणा त᳘स्मात्पञ्चवाती᳘यं ना᳘म॥
मूलम् - विस्वरम्
तस्य प्रष्टिवाहनो ऽश्वरथो दक्षिणा । त्रयो ऽश्वाः । द्वौ सव्यष्टृसारथी । ते पञ्च प्राणाः । यो वै प्राणः स वातः । तद् यदेतस्य कर्मण एषा दक्षिणा- तस्मात् पञ्चवातीयं नाम ॥ ९ ॥
सायणः
तस्य होमस्य त्रियुक्तमश्वरथं दक्षिणात्वेन विधत्ते- तस्य प्रष्टिवाहन इति 9 । सव्य इति । रथस्य सव्यभागे तिष्ठन्नेकः, सारथिश्चैक इति द्वौ । अश्वगतां त्रित्वसंख्यां सारथिगतां द्वित्वसंख्याञ्च मिलित्वा पञ्चप्राणात्मना प्रशंसति- ते पञ्चेति । प्राणवातयोरेकत्वात् पञ्चवातीयहोमस्य सङ्ख्याद्वारा प्राणात्मकस्य रथो दक्षिणात्वेन युज्यते । ‘तस्मात्’ कर्मणो ऽपि पञ्च वाताः प्राणा अस्मिन् सन्तीति ‘पञ्चवातीयं’ ‘नाम’ सम्पन्नम् ॥ ९ ॥
Eggeling
- For this (offering) a carriage and pair, with a side horse, is the priest’s fee. Three horses, the warrior, and the charioteer,–these are five breaths, and the breath is the same as the wind: and because that is the fee for this sacrifice, therefore it is called Pañcavātīya (belonging to the five winds).
१०
विश्वास-प्रस्तुतिः
स᳘ हैतेना᳘पि भिषज्येत्॥
(द) अयं वै᳘ प्राणो᳘ यो ऽयं प᳘वते यो वै᳘ प्राणः स ऽआ᳘युः᳘ सो ऽयमे᳘क इवैव᳘ पवते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टो द᳘शधा व्विहितो द᳘श वा᳘ ऽएता ऽआ᳘हुतीर्जुहोति त᳘दस्मिन्द᳘श प्राणा᳘न्कृत्स्न᳘मेव स᳘र्व्वमा᳘युर्द्दधाति स य᳘दिहा᳘पि गता᳘सुरिव भ᳘वत्या᳘ है᳘वैनेन हरति॥
मूलम् - श्रीधरादि
स᳘ हैतेना᳘पि भिषज्येत्॥
(द) अयं वै᳘ प्राणो᳘ यो ऽयं प᳘वते यो वै᳘ प्राणः स ऽआ᳘युः᳘ सो ऽयमे᳘क इवैव᳘ पवते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टो द᳘शधा व्विहितो द᳘श वा᳘ ऽएता ऽआ᳘हुतीर्जुहोति त᳘दस्मिन्द᳘श प्राणा᳘न्कृत्स्न᳘मेव स᳘र्व्वमा᳘युर्द्दधाति स य᳘दिहा᳘पि गता᳘सुरिव भ᳘वत्या᳘ है᳘वैनेन हरति॥
मूलम् - Weber
स᳘ हैतेना᳘पि भिषज्येत्॥
अयं वै᳘ प्राणोॗ यो ऽयम् प᳘वते यो वै᳘ प्राणः स आ᳘युःॗ सो ऽयमे᳘क इवैव᳘ पवतेॗ सो ऽयम् पु᳘रुषे ऽन्तः प्र᳘विष्टो दशधा विहितो द᳘श वा᳘ एता आ᳘हुतीर्जुहोति त᳘दस्मिन्द᳘श प्राणा᳘न्कृत्स्न᳘मेव स᳘र्वमा᳘युर्दधाति स य᳘दिहा᳘पि गता᳘सुरिव ब᳘वत्या᳘ हैॗवैनेन हरति॥
मूलम् - विस्वरम्
स हैतेनापि भिषज्येत् । अयं वै प्राणो- यो ऽयं पवते । यो वै प्राणः- स आयुः । सो ऽयमेक इवैव पवते । सो ऽयं पुरुषे ऽन्तः प्रविष्टो दशधा विहितः । दश वा ऽएता आहुतीर्जुहोति । तदस्मिन् दश प्राणान् कृत्स्नमेव सर्वमायुर्दधाति । स यदिहापि गतासुरिव भवति- आ हैवैनेन हरति ॥ १० ॥
सायणः
आरोम्यकामस्यापीमं होमं विधत्ते- स हैतेनापीति । ‘एतेन’ होमेन ‘भिषज्येत्’ चिकित्सेत् । “भिषज् चिकित्सायाम्” (धा. पा. कं. प. २३) इति धातुः । अत एव सूत्रितम्- “व्याधितस्याप्येवम्” (का. श्रौ. सू. १५ । २२) इति । प्राणस्यायुष्ट्वं शरीरधारकत्वात् । ‘सः’ प्राणरूपेण ‘एकः’ अपि पुरुषशरीरे ऽनुप्रविष्टः सन् वृत्तिभेदात् दशसु चक्षुःश्रोत्रादिद्वारेषु सञ्चरन् ‘दशधा विहितः’ भवति । अत उक्तदशाहुतिकरणात् ‘दश प्राणान्’ व्याधिते ‘पुरुषे’ ‘कृत्स्नं’ ‘सर्वमायुः’ वि- ‘दधाति’ । ‘यः’ तु ‘गतासुः इव भवति’ तम् ‘अपि’ अनेन होमेन आहरति एव पुनर्जीवयत्येवेत्यर्थः ॥ १० ॥
Eggeling
- He may also heal (some disease 10) with this (offering): For yonder blower (or purifier, the wind) is this breath; and the breath is the same as the vital energy. Now he (the wind) blows as one only, but on entering into man, he is divided tenfold; and ten are those oblations he offers: thus he (the priest) endows him with the ten vital airs, with the whole, entire vital energy; and were he now even as one whose vital spirit has departed, verily by this (offering) he (the priest) brings him round again.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थेन्द्रतुरीय᳘म्॥
(मा) आग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भवति व्वारुणो᳘ यवम᳘यश्चरू᳘ रौद्रो᳘ गावेधुक᳘श्चरु᳘रनडुह्यै᳘ व्वहला᳘या ऽऐन्द्रं द᳘धि ते᳘नेन्द्रतुरीये᳘ण यजत ऽइन्द्राग्नी᳘ उ है᳘वैतत्स᳘मूदाते ऽउ᳘त्पिबन्ते वा᳘ ऽइमा᳘नि दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि ह᳘न्तैभ्यो व्व᳘ज्रं प्रह᳘रावे᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थेन्द्रतुरीय᳘म्॥
(मा) आग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भवति व्वारुणो᳘ यवम᳘यश्चरू᳘ रौद्रो᳘ गावेधुक᳘श्चरु᳘रनडुह्यै᳘ व्वहला᳘या ऽऐन्द्रं द᳘धि ते᳘नेन्द्रतुरीये᳘ण यजत ऽइन्द्राग्नी᳘ उ है᳘वैतत्स᳘मूदाते ऽउ᳘त्पिबन्ते वा᳘ ऽइमा᳘नि दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि ह᳘न्तैभ्यो व्व᳘ज्रं प्रह᳘रावे᳘ति॥
मूलम् - Weber
अ᳘थेन्द्रतुरीय᳘म्॥
आग्नेॗयो ऽष्टा᳘कपालः पुरोडा᳘शो भवति वारुणो᳘ यवम᳘यश्चरू᳘ रौद्रो᳘ गावेधुक᳘श्चरु᳘रनडुह्यै᳘ 11 वहला᳘या ऐन्द्रं द᳘धि ते᳘नेन्द्रतुरीये᳘ण यजत इन्द्राग्नी᳘ उ हैॗवैतत्स᳘मूदाते उ᳘त्पिबन्ते वा᳘ इमा᳘नि दिक्षु᳘ नाष्ट्रा र᳘क्षांसि ह᳘न्तैभ्यो व᳘ज्रम् प्रह᳘रावे᳘ति॥
मूलम् - विस्वरम्
अथेन्द्रतुरीयम् । आग्नेयो ऽष्टाकपालः पुरोडाशो भवति, वारुणो यवमयश्चरुः, रौद्रो गावेधुकश्चरुः; अनडुह्यै वहलाया ऐन्द्रं दधि । तेनेन्द्रतुरीयेण यजते । इन्द्राग्नी ऽउ हैवैतत् समूदाते- उत्पिबन्ते वा ऽइमानि दिक्षु नाष्ट्रा रक्षांसि, हन्तैभ्यो वज्रं प्रहरावेति ॥ ११ ॥
सायणः
यागांतरं विधत्ते- अथेन्द्रेति । ‘अथ’ पञ्चवातीयहोमानन्तरम्, इन्द्रस्तुरीयश्चतुर्थहविर्देवता यस्मिन् कर्मणि, तत् ‘इन्द्रतुरीयम्’ कर्म वक्ष्यत इत्यर्थः 12 (तै. सं. १ । ८ । ७) तस्य हविश्चतुष्टयं विधते- आग्नेय इत्यादि 13 । गवेधुकाः आरण्यगोधूमाः । ‘वहलायै’ वहं नाम ककुत्प्रदेशः, तद्वत्यै ‘अनडुह्यै’ षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) तस्याः । ‘दधि’ ‘ऐन्द्रम्’ इन्द्रदेवत्यं कुर्यात् । अथ विधत्ते- तेनेन्द्रतुरीयेणेति ॥
यागस्येन्द्रतुरीयत्वमाख्यायिकया दर्शयति- इन्द्राग्नी उ हैवैतदिति । ‘समूदाते’ सम्वादं कृतवन्तौ ॥ ११ ॥
Eggeling
- Thereupon the Indraturīya 14.–There is a cake on eight potsherds for Agni, a barley pap for Varuṇa, a pap of gavedhukā seed (coix barbata) for Rudra; and a mess of sour curds from a yoke-trained
cow for Indra: this Indraturīya he offers. Now Indra and Agni on that occasion consulted with each other: ‘Verily the fiends, the Rakshas, suck out these (creatures) in the (four) quarters: come, let us throw the thunderbolt at them!’
१२
विश्वास-प्रस्तुतिः
स᳘ हाग्नि᳘रुवाच॥
त्र᳘यो म᳘म भागाः सन्त्वे᳘कस्तवे᳘ति तथे᳘ति ता᳘वेते᳘न हवि᳘षा दिक्षु[[!!]] नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वाहतां तौ᳘ व्यजयेतां᳘ यैनयोरियं व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएते᳘न हवि᳘षा दिक्षु[[!!]] नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वहन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइ᳘ति॥
मूलम् - श्रीधरादि
स᳘ हाग्नि᳘रुवाच॥
त्र᳘यो म᳘म भागाः सन्त्वे᳘कस्तवे᳘ति तथे᳘ति ता᳘वेते᳘न हवि᳘षा दिक्षु[[!!]] नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वाहतां तौ᳘ व्यजयेतां᳘ यैनयोरियं व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएते᳘न हवि᳘षा दिक्षु[[!!]] नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘वहन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइ᳘ति॥
मूलम् - Weber
स᳘ हाग्नि᳘रुवाच॥
त्र᳘यो म᳘म भागाः सन्त्वे᳘कस्तवे᳘ति तथे᳘ति ता᳘वेते᳘न हवि᳘षा दिक्षु᳘ नाष्ट्रा र᳘क्षांस्य᳘वाहतां तौ व्यजयेतांॗ यैनयोरियं वि᳘जितिस्तां त᳘थो एॗवैष᳘ एते᳘न हवि᳘षा दिक्षु᳘ नाष्ट्रा र᳘क्षांस्य᳘वहन्ति त᳘थो एव वि᳘जयते वि᳘जिते᳘ ऽभये नाष्ट्रे᳘ सूया इ᳘ति॥
मूलम् - विस्वरम्
स हाग्निरुवाच- त्रयो मम भागाः सन्तु । एकस्तवेति । तथेति । नावेतेन हविषा दिक्षु नाष्ट्रा रक्षांस्यावाहताम् । तौ व्यजयेताम्- यैनयोरियं विजितिस्ताम् । तथो ऽएवैष एतेन हविषा दिक्षु नाष्ट्रा रक्षांस्यवहन्ति । तथो ऽएव विजयते । विजिते ऽभये ऽनाष्ट्रे सूया ऽइति ॥ १२ ॥
सायणः
स हाग्निरित्यादिना अग्नेस्त्रयो भागाः इन्द्रस्य तुरीय एको भाग इति यागस्यार्थात् इन्द्रतुरीयमिति नाम निरुक्तम् । स्पष्टमन्यत् ॥ १२ ॥
Eggeling
- Agni then spake, ‘Let there be three shares for me, one for thee!’–‘So be it!’–By that offering those two smote the fiends, the Rakshas, in the (four) quarters, and gained that universal conquest which now is theirs. And in like manner does this (Sacrificer) by that offering smite the fiends, the Rakshas, in the quarters; and gain the victory, thinking, ‘May I be consecrated, when safety and security have been gained!’
१३
विश्वास-प्रस्तुतिः
स य᳘ एष᳘ ऽआग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भ᳘वति᳘॥
सो ऽग्नेरे᳘को भागो᳘ ऽथ य᳘द्वारुणो᳘ यवम᳘यश्चरुर्भ᳘वति यो वै व्व᳘रुणः᳘[[!!]] सो ऽग्निः᳘ सो ऽग्ने᳘र्द्विती᳘यो भागो᳘ ऽथ य᳘द्रौद्रो᳘ गावेधुक᳘श्चरुर्भ᳘वति यो वै᳘ रुद्रः᳘[[!!]] सो ऽग्निः᳘ सो ऽग्ने᳘स्तृती᳘यो भागो᳘ ऽथ य᳘द्गावेधुको भ᳘वति व्वास्त᳘व्यो वा᳘ ऽएष᳘ देवो᳘ व्वास्त᳘व्या गवे᳘धुकास्त᳘स्माद्गावेधुको᳘ भवत्य᳘थ य᳘दनडुह्यै᳘ व्वहला᳘या ऽऐन्द्रं द᳘धि भ᳘वति स ऽइ᳘न्द्रस्य चतुर्थो᳘ भागो यद्वै च᳘तुर्थं तत्तु᳘रीयं त᳘स्मादिन्द्रतुरीयं ना᳘म त᳘स्यै᳘षै᳘वानडुही᳘ व्वहला द᳘क्षिणा सा हि व्व᳘हेनाग्ने᳘य्यग्नि᳘दग्धमिव᳘[[!!]] ह्यस्यै[[!!]] व्व᳘हं भ᳘वत्य᳘थ यत्स्त्री᳘ सती व्व᳘हत्य᳘धर्मेण त᳘दस्यै व्वारुण᳘ᳫँ᳘ रूपम᳘थ यद्गौस्ते᳘न रौद्र्य᳘थ य᳘दस्या ऽऐन्द्रं द᳘धि ते᳘नै᳘न्द्र्येषा हि वा᳘ ऽएतत्स᳘र्व्वं व्यश्नुते त᳘स्मादे᳘षै᳘वानडुही᳘ व्वहला द᳘क्षिणा॥
मूलम् - श्रीधरादि
स य᳘ एष᳘ ऽआग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भ᳘वति᳘॥
सो ऽग्नेरे᳘को भागो᳘ ऽथ य᳘द्वारुणो᳘ यवम᳘यश्चरुर्भ᳘वति यो वै व्व᳘रुणः᳘[[!!]] सो ऽग्निः᳘ सो ऽग्ने᳘र्द्विती᳘यो भागो᳘ ऽथ य᳘द्रौद्रो᳘ गावेधुक᳘श्चरुर्भ᳘वति यो वै᳘ रुद्रः᳘[[!!]] सो ऽग्निः᳘ सो ऽग्ने᳘स्तृती᳘यो भागो᳘ ऽथ य᳘द्गावेधुको भ᳘वति व्वास्त᳘व्यो वा᳘ ऽएष᳘ देवो᳘ व्वास्त᳘व्या गवे᳘धुकास्त᳘स्माद्गावेधुको᳘ भवत्य᳘थ य᳘दनडुह्यै᳘ व्वहला᳘या ऽऐन्द्रं द᳘धि भ᳘वति स ऽइ᳘न्द्रस्य चतुर्थो᳘ भागो यद्वै च᳘तुर्थं तत्तु᳘रीयं त᳘स्मादिन्द्रतुरीयं ना᳘म त᳘स्यै᳘षै᳘वानडुही᳘ व्वहला द᳘क्षिणा सा हि व्व᳘हेनाग्ने᳘य्यग्नि᳘दग्धमिव᳘[[!!]] ह्यस्यै[[!!]] व्व᳘हं भ᳘वत्य᳘थ यत्स्त्री᳘ सती व्व᳘हत्य᳘धर्मेण त᳘दस्यै व्वारुण᳘ᳫँ᳘ रूपम᳘थ यद्गौस्ते᳘न रौद्र्य᳘थ य᳘दस्या ऽऐन्द्रं द᳘धि ते᳘नै᳘न्द्र्येषा हि वा᳘ ऽएतत्स᳘र्व्वं व्यश्नुते त᳘स्मादे᳘षै᳘वानडुही᳘ व्वहला द᳘क्षिणा॥
मूलम् - Weber
स य᳘ एष᳘ आग्नेॗयो ऽष्टा᳘कपालः पुरोडा᳘शो भ᳘वति᳟᳟॥
सो ऽग्नेरे᳘को भागो᳘ ऽथ य᳘द्वारुणो᳘ यवम᳘यश्चरुर्भ᳘वति यो वै व᳘रुॗणः सो ऽग्निःॗ सो ऽग्नेर्द्विती᳘यो भागो᳘ ऽथ य᳘द्रौद्रो᳘ गावेधुक᳘श्चरुर्भ᳘वति 15 यो वै᳘ रुॗद्रः सो ऽग्निःॗ सो ऽग्ने᳘स्तृती᳘यो भागो᳘ ऽथ य᳘द्गावेधुको भ᳘वति वास्तॗव्यो वा᳘ एष᳘ देवो᳘ वास्तॗव्या गवे᳘धुकास्त᳘स्माद्गावेधुको᳘ भवत्य᳘थ य᳘दनडुह्यै᳘ वहला᳘या ऐन्द्रं द᳘धि भ᳘वति स इ᳘न्द्रस्य चतुर्थो᳘ भागो यद्वै च᳘तुर्थं तत्तु᳘रीयं त᳘स्मादिन्द्रतुरीयं ना᳘म त᳘स्यैॗषैॗवानडुही᳘ वहला द᳘क्षिणा सा हि व᳘हेनाग्नेय्य᳘ग्नि᳘दग्धमिव ह्य᳘स्यै व᳘हम् भ᳘वत्य᳘थ यत्स्त्री᳘ सती व᳘हत्य᳘धर्मेण त᳘दस्यै वारुणं᳘ रूपम᳘थ यद्गौस्ते᳘न रौद्र्य᳘थ य᳘दस्या ऐन्द्रं द᳘धि ते᳘नैॗन्द्र्येषा हि वा᳘ एतत्स᳘र्वं व्यश्नुते त᳘स्मादेॗषैॗवानडुही᳘ वहला द᳘क्षिणा॥
मूलम् - विस्वरम्
स य एष आग्नेयो ऽष्टाकपालः पुरोडाशो भवति । सो ऽग्नेरेको भागः । अथ यद्वारुणो यवमयश्चरुर्भवति । यो वै वरुणः सो ऽग्निः । सो ऽग्नेर्द्वितीयो भागः । अथ यद्रौद्रो गावेधुकश्चरुर्भवति । यो वै रुद्रः सो ऽग्निः । सो ऽग्नेस्तृतीयो भागः । अथ यद्गावेधुको भवति । वास्तव्यो वा ऽएष देवः । वास्तव्या गवेधुकाः । तस्माद्गावेधुको भवति । अथ यदनडुह्यै वहलाया ऽऐन्द्रं दधि भवति- स इन्द्रस्य चतुर्थो भागः । यद्वै चतुर्थं तत्तुरीयम् । तस्मादिन्द्रतुरीयं नाम । तस्यैषैवानडुही वहला दक्षिणा । सा हि वहेनाग्नेयी । अग्निदग्धमिव ह्यस्यै वहं भवति । अथ यत् स्त्री सती वहति- अधर्मेण । तदस्यै वारुणं रूपम् । अथ यद्गौः, तेन रौद्री । अथ यदस्या ऽऐन्द्रं दधि, तेनैन्द्री । एषा हि वा ऽएतत्सर्वं व्यश्नुते । तस्मादेषैवानडुही वहला दक्षिणा ॥ १३ ॥
सायणः
अग्नेर्भागत्रयं क्रमेण प्रतिपादयति- स य एष आग्नेय इति 12 । यो वै वरुण इत्यादि । वरुणो रुद्रश्चोभावप्यग्निरेव । तथा च तैत्तिरीयके- “ते देवा अग्निमब्रुवन्” इति- प्रस्तुत्य “स त्रेधा ऽऽत्मानं व्यकुरुताग्निं तृतीयं रुद्रं तृतीयं वरुणं तृतीयम्”- (तै. ब्रा. १ । ७ । १) इति । वास्तव्य इति । रुद्रः खलु वास्तुभवः । ग्रामाद्बाह्यो यज्ञभूमिश्मशानादिर्वास्तुः । गवेधुका अपि ‘वास्तुभवाः’ । अतो गावेधुकहविषो रुद्रदैवत्यत्वं युक्तमिति । अथ यदनडुह्या इत्यादि । उक्तार्थम् ॥ तस्य दक्षिणां विधत्ते- तस्यैषैवेति । दक्षिणारूपाया अनडुह्या अग्निवरुणरुद्रेन्द्रदेवतानामौचित्यं दर्शयति- सा हि वहेनेति । युगवहनप्रदेशे कृष्णवर्णत्वात् अग्नेः सम्बन्धिनी; स्त्रीत्वे सत्यपि, ‘अधर्मेण’ स्त्रिया अयोग्येनानोवहनेन वारुणी; वरुणो हि स्वपाशैः सर्वान् बध्नाति । गवां रुद्रदेवत्यत्वात् ‘तेन रौद्री’ । एतदीयस्य दध्न ऐन्द्रत्वात् ‘तेन’ ‘ऐन्द्री’ इन्द्रदेवताका 16 । एतादृशी ‘अनडुही’ एतस्येन्द्रतुरीयकर्मणो दक्षिणात्वेन संयुज्यत इत्यर्थः (तै. सं. १ । ८ । ७ । १) ॥ १३ ॥
Eggeling
- Now what cake on eight potsherds there is for Agni, that is one of Agni’s shares; and what barley pap there is for Varuṇa–Varuṇa being the same as Agni–that is Agni’s second share; and what pap of gavedhukā seed there is for Rudra–Rudra being the same as Agni–that is Agni’s third share. And as to why it is prepared of gavedhukā seed: that god surely is (the recipient) of refuse (remains of offering) 17, and gavedhukā grass is refuse,–hence it is prepared of gavedhukā seed. And what mess of sour curds there is from a yoke-trained cow for Indra, that is the fourth share (being that) of Indra–turīya being the same as caturtha (fourth)–hence the name Indraturīya. That same yoke-trained cow is the fee for this (offering); for by her shoulder she is of Agni’s nature, since her shoulder is, as it were, fire-burnt; and in that, being a female, she improperly draws (the cart), that is her Varuṇic
nature; and in that she is a cow, she is of Rudra’s nature 18; and in that Indra’s sour curds (come) from her, thereby she is of Indra’s nature. Indeed that (cow) commands all that: therefore that same yoke-trained cow is the fee.
१४
विश्वास-प्रस्तुतिः
(णा᳘ ऽथा) अ᳘थापामार्गहोमं᳘ जुहोति॥
(त्य) अपामार्गैर्व्वै᳘ देवा᳘ दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘पामृजत ते व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएत᳘दपामार्गै᳘रेव᳘ दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘पमृष्टे त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइ᳘ति॥
मूलम् - श्रीधरादि
(णा᳘ ऽथा) अ᳘थापामार्गहोमं᳘ जुहोति॥
(त्य) अपामार्गैर्व्वै᳘ देवा᳘ दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘पामृजत ते व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएत᳘दपामार्गै᳘रेव᳘ दिक्षु᳘ नाष्ट्रा र᳘क्षाᳫँ᳭स्य᳘पमृष्टे त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया ऽइ᳘ति॥
मूलम् - Weber
अ᳘थापामार्गहोमं᳘ जुहोति॥
अपामार्गैर्वै᳘ देवा᳘ दिक्षु᳘ नाष्ट्रा र᳘क्षांस्य᳘पामृजत ते व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘थो एॗवैष᳘ एत᳘दपामार्गै᳘रेव᳘ दिक्षु᳘ नाष्ट्रा र᳘क्षांस्य᳘पमृष्टे तथो एव वि᳘जयते वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया इ᳘ति॥
मूलम् - विस्वरम्
अथापामार्गहोमं जुहोति । अपामार्गैर्वै देवा दिक्षु नाष्ट्रा रक्षांस्यपामृजत । ते व्यजयन्त- येयमेषां विजितिस्ताम् । तथो ऽएवैष एतदपामार्गैरेव दिक्षु नाष्ट्रा रक्षांस्यपमृष्टे । तथो ऽएव विजयते । विजिते ऽभये नाष्ट्रे सूया ऽइति ॥ १४ ॥
सायणः
विधत्ते- अथापामार्गेति 19 । तं राज्ञो विजितिसाधनत्वेन प्रशंसति- अपामार्गैर्वै देवा इति । ‘अपामृजत’ अपमार्जनं कृतवन्तः । अपमृष्ट इति । इदानीं मनुष्यो ऽप्यपमार्जनं करोति ॥ १४ ॥
Eggeling
- Thereupon he performs the Apāmārgahoma; for by means of apāmārga plants (achyranthes aspera) the gods wiped away (apa-marj) the fiends, the Rakshas, in the quarters, and gained that universal conquest which now is theirs. And in like manner does this (Sacrificer) now by means of apāmārga plants wipe away the fiends, the Rakshas, in the quarters; and in like manner does he gain the victory, thinking, ‘May I be consecrated, when safety and security have been gained!’
१५
विश्वास-प्रस्तुतिः
स पा᳘लाशे वा स्रुवे वै᳘कङ्कते वा॥
(वा ऽपा) अपामार्गतण्डुलाना᳘दत्ते᳘ ऽन्वाहार्यप᳘चनादु᳘ल्मुकमा᳘ददते ते᳘न प्रा᳘ञ्चो वो᳘दञ्चो वा यन्ति त᳘दग्नि᳘ᳫँ᳘ समाधा᳘य जुहोति॥
मूलम् - श्रीधरादि
स पा᳘लाशे वा स्रुवे वै᳘कङ्कते वा॥
(वा ऽपा) अपामार्गतण्डुलाना᳘दत्ते᳘ ऽन्वाहार्यप᳘चनादु᳘ल्मुकमा᳘ददते ते᳘न प्रा᳘ञ्चो वो᳘दञ्चो वा यन्ति त᳘दग्नि᳘ᳫँ᳘ समाधा᳘य जुहोति॥
मूलम् - Weber
स पा᳘लाशे वा स्रुवे वै᳘कङ्कते वा॥
अपामार्गतण्डुलाना᳘दत्ते᳘ ऽन्वाहार्यप᳘चनादु᳘ल्मुकमा᳘ददते ते᳘न प्रा᳘ञ्चो वो᳘दञ्चो वा यन्ति त᳘दग्नि᳘ᳫं᳘ समाधा᳘य जुहोति॥
मूलम् - विस्वरम्
स पालाशे वा स्रुवे, वैकङ्कते वा, अपामार्गतण्डुलानादत्ते । अन्वाहार्यपचनादुल्मुकमाददते । तेन प्राञ्चो वोदञ्चो वा यन्ति । तदग्निं समाधाय जुहोति ॥ १५ ॥
सायणः
तस्यानुष्ठानं सविशेषमाह- स पालाशे वेति । पलाशवैकङ्कतयोरन्यतरवृक्षनिर्मिते ‘स्रुवे’ अपामार्गतण्डुलानादाय अन्वाहार्यपचनाग्नेरुल्मुकञ्चादाय प्राङ्मुखा उदङ्मुखा वा ‘यन्ति’ तत्राग्निं प्रतिष्ठाप्य होमः कर्त्तव्यः 20 ॥ १५ ॥
Eggeling
- He takes apāmārga grains in a dipping-spoon of either palāśa (butea frondosa) or vikaṅkata (flacourtia sapida) wood. They take a firebrand from the Anvāhāryapacana (southern) fire; and proceed therewith eastward or northward; and there having made up a fire he offers.
१६
विश्वास-प्रस्तुतिः
स ऽउ᳘ल्मुकमा᳘दत्ते᳘॥
(त्ते᳘ ऽग्ने) अग्ने[[!!]] स᳘हस्व पृ᳘तना इ᳘ति यु᳘धो वै पृ᳘तना यु᳘धः सहस्वे᳘त्ये᳘वैत᳘दाहाभि᳘मातीर᳘पास्ये᳘ति सप᳘त्नो वा᳘ ऽअभि᳘मातिः सप᳘त्नम᳘पजही᳘त्ये᳘वैत᳘दाह दुष्ट᳘रस्त᳘रन्न᳘रातीरि᳘ति दुस्त᳘रो᳘ ह्येष र᳘क्षोभिर्नाष्ट्रा᳘भिस्त᳘रन्न᳘रातीरि᳘ति[[!!]] स᳘र्व्व᳘ᳫँ᳭ ह्येष᳘ पाप्मा᳘नं त᳘रति त᳘स्मादाह त᳘रन्न᳘रातीरि᳘ति व्व᳘र्चो धा यज्ञ᳘वाहसी᳘ति साधु य᳘जमाने दधदि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स ऽउ᳘ल्मुकमा᳘दत्ते᳘॥
(त्ते᳘ ऽग्ने) अग्ने[[!!]] स᳘हस्व पृ᳘तना इ᳘ति यु᳘धो वै पृ᳘तना यु᳘धः सहस्वे᳘त्ये᳘वैत᳘दाहाभि᳘मातीर᳘पास्ये᳘ति सप᳘त्नो वा᳘ ऽअभि᳘मातिः सप᳘त्नम᳘पजही᳘त्ये᳘वैत᳘दाह दुष्ट᳘रस्त᳘रन्न᳘रातीरि᳘ति दुस्त᳘रो᳘ ह्येष र᳘क्षोभिर्नाष्ट्रा᳘भिस्त᳘रन्न᳘रातीरि᳘ति[[!!]] स᳘र्व्व᳘ᳫँ᳭ ह्येष᳘ पाप्मा᳘नं त᳘रति त᳘स्मादाह त᳘रन्न᳘रातीरि᳘ति व्व᳘र्चो धा यज्ञ᳘वाहसी᳘ति साधु य᳘जमाने दधदि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स उ᳘ल्मुकमा᳘दत्ते॥
अग्ने᳘ स᳘हस्व पृ᳘तना इ᳘ति यु᳘धो वै पृ᳘तना यु᳘धः सहस्वे᳘त्येॗवैत᳘दाहाभि᳘मातीर᳘पास्ये᳘ति सप᳘त्नो वा᳘ अभि᳘मातिः सप᳘त्नम᳘पजही᳘त्येॗवैत᳘दाह दुष्ट᳘रस्त᳘रन्न᳘रातीरि᳘ति दुस्त᳘रोॗ ह्येष र᳘क्षोभिर्नाष्ट्रा᳘भिस्त᳘रन्न᳘रातीरि᳘तिॗ स᳘र्वᳫं ह्येष᳘ पाप्मा᳘नं त᳘रति त᳘स्मादाह त᳘रन्न᳘रातीरि᳘ति व᳘र्चो धा यज्ञ᳘वाहसी᳘ति साधु य᳘जमानं दधदि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
स उल्मुकमादत्ते- “अग्ने सहस्व पृतनाः”- इति । युधो वै पृतनाः । युधः सहस्वेत्येवैतदाह । “अभिमातीरपास्य”- इति । सपत्नो वा ऽअभिमातिः । सपत्नमपजहीत्येवैतदाह । “दुष्टरस्तरन्नरातीः”- इति । दुस्तरो ह्येष रक्षोभिर्न्नाष्ट्राभिः । “तरन्नरातीः”- इति । सर्वं ह्येष पाप्मानं तरति । तस्मादाह- तरन्नरातीरिति । “वर्चो धा यज्ञवाहसि”- (वा. सं. ९ । ३७) इति । साधु यजमाने दधद्- इत्येवैतदाह ॥ १६ ॥
सायणः
उल्मुकादानमनूद्य मन्त्रं विधत्ते- स उल्मुकमिति 20 । हे ‘अग्ने !’ ‘पृतनाः’ संग्रामान् ‘सहस्व’ ‘अभिमातीः’ अभिमन्यमानान् सपत्नान् ‘अपास्य’ अपक्षिप “असु क्षेपणे” (धा. पा. दि. प. १०३) एवमनिष्टनिवृत्तिमुक्त्वेष्टप्राप्तिं प्रार्थयते- ‘दुष्टरः’ अन्यैस्तारितुमशक्यः स्वयम् ‘अरातीः’ शत्रून् ‘तरन्’ ‘यज्ञवाहसि’ यजमाने ‘वर्च्चः’ अन्नम् ‘धाः’ धारयसि इति । मन्त्रं प्रतिपादमनूद्य व्याचष्टे- अग्ने सहस्वेति । वर्च्चः- पदस्य श्रेयःपरत्वमाह- साधु यजमान इति । ‘दधत्’ धारयन्नित्यर्थः ॥ १६ ॥
Eggeling
- He takes the firebrand with (Vāj. S. IX, 37; R̥k S. III, 24, 1), ‘Encounter the arrays, Agni!’–arrays means battles: ’encounter the battles!’ he thereby says;–‘Repel the evil-wisher!’–the evil-wisher is the enemy: ‘beat off the enemy!’ he thereby says;–‘Unconquerable, conquering the evil-doers!’–unconquerable he is indeed, by the Rakshas, the fiends; and conquering the evil-doers, for he conquers every evil:
therefore he says, ‘conquering the evil-doers;’–‘Bestow glory upon the offerer of sacrifice!’–‘bestowing blessing on the Sacrificer,’ is what he thereby says.
१७
विश्वास-प्रस्तुतिः
त᳘दग्नि᳘ᳫँ᳘ समा᳘धाय[[!!]] जुहोति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामुपाᳫँ᳭शो᳘र्व्वी᳘र्येण जुहोमी᳘ति यज्ञमुखं वा᳘ ऽउपाᳫँ᳭शु᳘र्यज्ञमुखे᳘नै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति हतᳫँ᳭ र᳘क्षः स्वाहे᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - श्रीधरादि
त᳘दग्नि᳘ᳫँ᳘ समा᳘धाय[[!!]] जुहोति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामुपाᳫँ᳭शो᳘र्व्वी᳘र्येण जुहोमी᳘ति यज्ञमुखं वा᳘ ऽउपाᳫँ᳭शु᳘र्यज्ञमुखे᳘नै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति हतᳫँ᳭ र᳘क्षः स्वाहे᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - Weber
त᳘दग्नि᳘ᳫं᳘ समाधा᳘य जुहोति॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामुपांशो᳘र्वीॗर्येण जुहोमीति यज्ञमुखं वा᳘ उपांशु᳘र्यज्ञमुखे᳘नैॗवैत᳘न्नाष्ट्रा र᳘क्षांसि हन्ति हतं र᳘क्षः स्वाहे᳘ति त᳘न्नाष्ट्रा र᳘क्षांसि हन्ति॥
मूलम् - विस्वरम्
तदग्निं समाधाय जुहोति- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामुपांशोर्वीर्येण जुहोमि”- इति । यज्ञमुखं वा ऽउपांशुः । यज्ञमुखेनैवैतन्नाष्ट्रा रक्षांसि हन्ति । “हतं रक्षः स्वाहा”-इति । तन्नाष्ट्रा रक्षांसि हन्ति ॥ १७ ॥
सायणः
हवनमनूद्य मन्त्रं विधत्ते- तदग्निमिति । देवस्य त्वेति 21 । व्याख्यातम् । उपांशोरिति । ‘उपांशुः’ नाम ‘यज्ञमुखं’ प्रथमो ग्रहः, तस्य ‘वीर्येण’ ‘जुहोमि’ । तेन हवनेन ‘रक्षः’ हत निहतं नष्टं भवतु । ‘स्वाहा’ इदं हविः सुहुतमस्तु इति ॥ १७ ॥
Eggeling
- Thereupon making up the fire he offers with (Vāj. S. IX, 38), ‘At the impulse of the God Savitr̥ I offer with the arms of the Aśvins, with the hands of Pūshan, with the strength of the Upāṁśu!’ for the Upāṁśu 22 (cup of Soma) is the mouth (or opening) of the sacrifice: thus he slays the fiends, the Rakshas, by the mouth of the sacrifice;–‘Slain is the Rakshas, hail!’ thus he slays the fiends, the Rakshas.
१८
विश्वास-प्रस्तुतिः
स य᳘दि पा᳘लाशः स्रुवो भ᳘वति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति य᳘द्यु वै᳘कङ्कतो व्व᳘ज्रो वै व्वि᳘कङ्कतो व्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति र᳘क्षसां त्वा व्व᳘धाये᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - श्रीधरादि
स य᳘दि पा᳘लाशः स्रुवो भ᳘वति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति य᳘द्यु वै᳘कङ्कतो व्व᳘ज्रो वै व्वि᳘कङ्कतो व्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति र᳘क्षसां त्वा व्व᳘धाये᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - Weber
स यदि पा᳘लाशः स्रुवो भ᳘वति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैॗवैत᳘न्नाष्ट्रा र᳘क्षांसि हन्ति य᳘द्यु वै᳘कङ्कतो व᳘ज्रो व वि᳘कङ्कतो व᳘ज्रेणैॗवैत᳘न्नाष्ट्रा र᳘क्षांसि हन्ति र᳘क्षसां त्वा बधाये᳘ति त᳘न्नाष्ट्रा र᳘क्षांसि हन्ति॥
मूलम् - विस्वरम्
स यदि पालाशः स्रुवो भवति । ब्रह्म वै पलाशः । ब्रह्मणैवैतन्नाष्ट्रा रक्षांसि हन्ति । यद्यु वैकङ्कतः । वज्रो वै विकङ्कतः । वज्रेणैवैतन्नाष्ट्रा रक्षांसि हन्ति । “रक्षसां त्वा वधाय” इति । तन्नाष्ट्रा रक्षांसि हन्ति ॥ १८ ॥
सायणः
पालाशवैकङ्कतयोरेकतरस्य हवनोपयुक्तस्य स्रुवस्य क्षेपणं सार्थवादं विधत्ते- स यदि पालाश इति 21 । क्षेपणमन्त्रं पठति- रक्षसामिति । हे स्रुव ! ‘रक्षसां वधाय’ ‘त्वा’ त्वाम्, अस्यामीति शेषः ॥ १८ ॥
Eggeling
- If the dipping-spoon is of palāśa wood,–the palāśa being the Brahman–it is with the Brahman that he slays the fiends, the Rakshas; and if it is of vikaṅkata wood,–the vikaṅkata being the thunderbolt–it is with the thunderbolt that the slays the fiends, the Rakshas: ‘For the slaughter of the Rakshas (I take) thee!’ therewith he slays the fiends, the Rakshas.
१९
विश्वास-प्रस्तुतिः
स य᳘दि प्रा᳘ङित्वा᳘ जुहो᳘ति॥
प्रा᳘ञ्चᳫँ᳭ स्रुव᳘मस्यति यद्यु᳘दङ्ङित्वा᳘ जुहोत्यु᳘दञ्चᳫँ᳭ स्रुव᳘मस्यत्य᳘वधिष्म र᳘क्ष ऽइ᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - श्रीधरादि
स य᳘दि प्रा᳘ङित्वा᳘ जुहो᳘ति॥
प्रा᳘ञ्चᳫँ᳭ स्रुव᳘मस्यति यद्यु᳘दङ्ङित्वा᳘ जुहोत्यु᳘दञ्चᳫँ᳭ स्रुव᳘मस्यत्य᳘वधिष्म र᳘क्ष ऽइ᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - Weber
स य᳘दि प्रा᳘ङित्वा᳘ जुहो᳘ति॥
प्रा᳘ञ्चᳫं स्रुव᳘मस्यति यद्यु᳘दङ्ङित्वा᳘ जुहोत्यु᳘दञ्चᳫं स्रुव᳘मस्यत्य᳘बधिष्म र᳘क्ष इ᳘ति त᳘न्नाष्ट्रा र᳘क्षांसि हन्ति॥
मूलम् - विस्वरम्
स यदि प्राङित्वा जुहोति- प्राञ्चं स्रुवमस्यति । यद्युदड्ङित्वा जुहोति- उदञ्चं स्रुवमस्यति । “अवधिष्म रक्षः” इति । तन्नाष्ट्रा रक्षांसि हन्ति ॥ १९ ॥
सायणः
क्षेपणे दिग्विशेषमाह- स यदीति । ‘यदि’ अध्वर्युः ‘प्राङ्’ प्राङ्मुखः पूर्वस्यां दिशि गत्वा जुहुयात्, तर्हि ‘स्रुवं’ ‘प्राञ्चं’ प्राग्दिक्सम्बद्धम् ‘अस्यति’ क्षिपति । उदङ्ङित्वादावप्येवं योज्यम् । हवनप्रदेशात् तन्निवर्त्तनं विधित्सुरादौ तन्मन्त्रं पठित्वा व्याचष्टे- अवधिष्मेति । अनेनापामार्गहोमेन ‘रक्षः’ ‘अवधिष्म’ वयं हतवन्तः । भूते लुङ् ॥ १९ ॥
Eggeling
- If he offers after going eastward, he throws the spoon towards the east; and if he offers after going northward, he throws the spoon towards the north, with, ‘We have slain the Rakshas!’ thus he slays the fiends, the Rakshas.
२०
विश्वास-प्रस्तुतिः
(न्त्य) अथा᳘प्रतीक्षं पु᳘नरा᳘यन्ति॥
स᳘हैतेना᳘पि प्रतिसरं᳘ कुर्व्वीत स य᳘स्यां त᳘तो दिशि भ᳘वति त᳘त्प्रती᳘त्य जुहोति प्रतीची᳘नफलो वा᳘ ऽअपामार्गः स यो᳘ हास्मै त᳘त्र कि᳘ञ्चित्करो᳘ति त᳘मेवैत᳘त्प्रत्य᳘ग्धूर्व्वति त᳘स्य नामा᳘दिशेद᳘वधिष्मामु᳘मसौ᳘ हत इ᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - श्रीधरादि
(न्त्य) अथा᳘प्रतीक्षं पु᳘नरा᳘यन्ति॥
स᳘हैतेना᳘पि प्रतिसरं᳘ कुर्व्वीत स य᳘स्यां त᳘तो दिशि भ᳘वति त᳘त्प्रती᳘त्य जुहोति प्रतीची᳘नफलो वा᳘ ऽअपामार्गः स यो᳘ हास्मै त᳘त्र कि᳘ञ्चित्करो᳘ति त᳘मेवैत᳘त्प्रत्य᳘ग्धूर्व्वति त᳘स्य नामा᳘दिशेद᳘वधिष्मामु᳘मसौ᳘ हत इ᳘ति त᳘न्नाष्ट्रा र᳘क्षाᳫँ᳭सि हन्ति॥
मूलम् - Weber
अथा᳘प्रतीक्षम् पु᳘नरा᳘यन्ति॥
स᳘ हैतेना᳘पि प्रतिसरं᳘ कुर्वीत स य᳘स्यां त᳘तो दिशि भ᳘वति त᳘त्प्रती᳘त्य जुहोति प्रतीची᳘नफलो वा अपामार्गः स यो᳘ हास्मै त᳘त्र किं᳘चित्करो᳘ति त᳘मेव त᳘त्प्रत्य᳘ग्धूर्वति त᳘स्य नामा᳘दिशेद᳘बधिष्मामु᳘मसौ᳘ हत इ᳘ति त᳘न्नाष्ट्रा र᳘क्षांसि हन्ति॥
मूलम् - विस्वरम्
अथाप्रतीक्षं पुनरायन्ति । स हैतेनापि प्रतिसरं कुर्वीत । स यस्यां ततो दिशि भवति- तत्प्रतीत्य जुहोति । प्रतीचीनफलो वा ऽअपामार्गः । स यो हास्मै तत्र किञ्चित्करोति- तमेवैतत् प्रत्यग्धूर्वति । तस्य नामादिशेत् । अवधिष्मामुम् असौ हतः"- (वा० सं० ९ । ३८) इति । तन्नाष्ट्रा रक्षांसि हन्ति ॥ २० ॥
सायणः
एतन्मन्त्रकरणकं पुनरागमनं विधत्ते- अथाप्रतीक्षमिति (का. श्रौ. सू. १५ । २५) । ‘अथ’ ‘अप्रतीक्षं’ तं प्रदेशं प्रतिनिवृत्त्य, अनवेक्ष्येत्यर्थः । अभिवर्द्धमानस्यापि स्वोपद्रवपरिहारायेमं होमं विधत्ते- स हैतेनापीति । ‘एतेन’ अपामार्गहोमेन ‘अपि’ न केवलं पञ्चवातीयहोमेन, एतेनापि ‘प्रतिसरं’ स्वरक्षामभिचार्यमाणः कुर्यात् । हवने कञ्चिद्विशेषं विधत्ते- स यस्यामिति । अभिचारको यस्यां ‘दिशि’ भवेत्, तां दिशं ‘प्रतीत्य’ गत्वा जुहुयात्- प्रतीचीनफल इति । अपामार्गमञ्जर्यो यतः प्रतीचीनफलाः स्वात्मानं प्रतिगतैरवाङ्मुखैः फलैर्युक्ताः अतो यो ऽभिचारकः ‘अस्मै’ यजमानाय किञ्चित् पीडादिकं कुर्यात् । ‘तमेव’ एतेनापामार्गहोमेन प्रतिमुखं ‘धूर्वति’ हिनस्ति, तत्कृतो ऽभिचारः तमेव प्रतिनिवृत्य हिनस्तीत्यर्थः । निवर्त्तनमन्त्रेण शत्रुनामादेशनं विधत्ते- तस्य नामेति । अवधिष्मामुमिति । ‘अमुम्’ ‘असौ’ इति पदयोः स्थाने अभिचारकनामधेयं द्वितीयान्तत्वेन प्रथमान्तत्वेन चादिशेदित्यर्थः ॥ अत्र सूत्रम्- “देवस्य त्वेति जुहोति, रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोत्यवधिष्म रक्ष इत्यायन्त्यनपेक्षम्”- (का. श्रौ. सू. १५ । ३४ । ३५) इति । “अभिचर्यमाणो ऽपि तां दिशं गत्वा ऽभिचरतो नामादिशेत्”- इति कर्कोक्तिः ॥ २०॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे द्वितीया ऽध्याये चतुर्थं ब्राह्मणम् ॥ (५-२-४) ॥
Eggeling
- Thereupon they return (to the sacrificial ground) without looking back. Now by this (ceremony) also he may make for himself a counter-charm 23. In whatever direction from there (his evil-wisher) is,
looking back thither he offers; for the Apāmārga is of a backward effect: whosoever does anything to him there, him indeed he thereby pitches backward. Let him indicate the name of that one, saying, ‘We have slain so and so! So and so is slain!’ thus he slays the fiends, the Rakshas.
-
47:1 This, the first of the Seasonal offerings, is to be performed on the full-moon of Phalgunī, the other three then following after intervals of four months each. During these intervals the ordinary Fortnightly sacrifices are to be performed from day to day in this way that either the Full-moon and New-moon sacrifice are performed on alternate days, or the former on each day of the bright fortnights, and the latter on each day of the dark fortnights. Thus, according to Āśv. Sr. IX, 3, 6; while Kāty. XV, 1, 18 allows only the latter mode. The final Seasonal offering, or Śunāsīrya, which ordinarily is performed a twelvemonth after the Vaiśvadeva, or on the full-moon of Phālguna, is on the present occasion to be performed just a year after the opening sacrifice, or Pavitra (p. 42, note 1), i.e. on the first day of the bright fortnight of Phālguna, being immediately followed by the Pañcavātīya. ↩︎
-
47:2 See part i, p. 391 seq. ↩︎
-
48:1 See part i, p. 408 seq. ↩︎
-
पौर्णमासेन कृष्णपक्षानेत्यामावास्येन शुक्लानाशुनासीरीयात् । का. श्रौ. सू. १५ । १८ । ↩︎
-
पंचवातीयमाहवनीयं प्रतिदिशं व्युह्य मध्ये च स्रुवेणाग्निषु जुहोत्यग्निनेत्रेभ्य इति प्रतिमंत्रमुत्तराः समस्य ये देवा इति प्रतिमंत्रम् । का. श्रौ. सू. १५ । १९ । २० । ↩︎
-
48:2 See part i, p. 444 seq., where the word is fancifully explained as composed of śuna (prosperity) and sīra (= sāra, sap),–the two essences here referred to. Sāyaṇa, following Yāska (and Śat. Br. II, 6, 3, 6-8?), identifies the two component elements with Vāyu, the wind, and Āditya, the sun; see part i, p. 445, note 3. ↩︎
-
48:3 The authorities of the Black Yajus (Taitt. Br. I, 7, 1, 5) call this oblation Pañcāvattīya, i.e. ‘consisting of fivefold cut (or ladled)’ ghee, which is offered without disturbing the fire. Prior to this oblation, Āpastamba (Taitt. S., vol. ii, p. 93), however, prescribes a so-called Pañcedhmīya, i.e. an oblation ‘on five firebrands,’ the fire being, as here, poked about so as to form separate heaps in the four quarters and in the centre. ↩︎
-
49:1 Yama is the ruler of the departed ancestors, residing in the southern quarter. ↩︎
-
त्रियुक्तो ऽश्वरथो दक्षिणा । का० श्रौ० सू० १५ । २१ । ↩︎
-
50:1 Tenāpy etena vishṭāvrāje (v. l. vishṭābrāge) bhishajyet. Kāṇva rec. ↩︎
-
गावीधुक Sây. ↩︎
-
आग्नेयः । का० श्रौ० सू० १५ । २४ । ↩︎
-
50:2 That is, the ceremony in which the fourth oblation belongs to Indra. While the Mādhyandinas perform this ceremony on the same day (the pratipad of the bright fortnight of Phalgunī), the Kāṇvas do so on the following day; the Apāmārgahoma being then likewise shifted on another day. ↩︎
-
गावीधुक Sây. ↩︎
-
वहिनी दध्यँन्द्रम् । का । श्रौ । सू. १५ । २८ । ↩︎
-
51:1 On Rudra’s epithet vāstavya, see I, 7, 3, 1, 8. ↩︎
-
52:1 Rudra rules over the beasts (III, 6; 2, 20), whence he is also called the lord of beasts (paśūnām pati, I, 7, 3, 8; Paśupati V, 3, 3, 7). Pūshan, the genius of thrift and prosperity, is also (like the Greek Pan) regarded as the protector of cattle: see V, 2, 5, 8. ↩︎
-
अपामार्गहोमः । का. श्रौ. सू. १५ । २९ ॥ ↩︎
-
स्रुवे पालाशे वैकंकते वा ऽपामार्गतंडुलान् कृत्वा । त्र्यंबकवद्दिगग्नी । प्राची वा । का. श्रौ. सू. १५ । ३०-३२ । ↩︎ ↩︎
-
53:1 See part ii, p. 248. ↩︎
-
53:2 Viz. an amulet consisting of a band running back into itself. The Kāṇva text has,–Tena hāpy etena vishṭāvrāje pratisaraṁ kurvīta. ↩︎