०१
विश्वास-प्रस्तुतिः
पूर्णाहुतिं᳘ जुहोति॥
स᳘र्व्वं वै᳘ पूर्णᳫँ᳭ स᳘र्व्वं परिगृ᳘ह्य सूया ऽइ᳘ति त᳘स्यां व्व᳘रं ददाति स᳘र्व्वं वै व्व᳘रः स᳘र्व्वं परिगृ᳘ह्य सूया ऽइ᳘ति स य᳘दि काम᳘येत जुहुया᳘देतां य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥
मूलम् - श्रीधरादि
पूर्णाहुतिं᳘ जुहोति॥
स᳘र्व्वं वै᳘ पूर्णᳫँ᳭ स᳘र्व्वं परिगृ᳘ह्य सूया ऽइ᳘ति त᳘स्यां व्व᳘रं ददाति स᳘र्व्वं वै व्व᳘रः स᳘र्व्वं परिगृ᳘ह्य सूया ऽइ᳘ति स य᳘दि काम᳘येत जुहुया᳘देतां य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥
मूलम् - Weber
पूर्णाहुतिं᳘ जुहोति॥
स᳘र्वं वै᳘ पूर्णᳫं स᳘र्वम् परिगृ᳘ह्य सूया इ᳘ति त᳘स्यां व᳘रं ददाति स᳘र्वं वै व᳘रः स᳘र्वम् परिगृ᳘ह्य सूया इ᳘ति स य᳘दि काम᳘येत जुहुया᳘देतां य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥
मूलम् - विस्वरम्
अथ राजसूययज्ञः ।
पूर्णाहुतिं जुहोति । सर्वं वै पूर्णम् । सर्वं परिगृह्य सूया ऽइति । तस्यां वरं ददाति । सर्वं वै वरः । सर्वं परिगृह्य सूया ऽइति । स यदि कामयेत- जुहुयादेताम् । यद्यु कामयेत- अपि नाद्रियेत ॥ १ ॥
सायणः
ब्राह्मणक्षत्रियोभयकर्त्तृकसंस्थारूपो वाजपेय उक्तः, अथैकतरकर्तृको विकृतिभूतो राजसूयो विधास्यते । तत्र अकृतवाजपेयस्य राजन्यस्यैव राजसूये ऽधिकारः, न तु तेनेष्टवतः; राज्यफलादपि साम्राज्यफलस्यातिशयितत्वेन उत्तमफलसाधनयागानन्तरमवरफलहेतुक्रतुकरणस्यायुक्तत्वात् । अत एव कात्यापनः- “राज्ञो राजसूयो ऽनिष्टिनो वाजपेयेन”- (का. श्रौ. सू. १५ । १ । २ ।) इति । इष्टि-पशु-सोम-दर्वीहोमैः शतप्रधानो राजसूयः । तत्र “श्वोभूते ऽनुमत्यै पुरोडाशमष्टाकपालम्”- इत्यादिना विहिताः इष्टयः, “अथ श्येनीं विचित्रगर्भामदित्या आलभते”- इत्यादिना विहिताः पशवः, पवित्राभिषेचनीय-दशपेय-केशवपनीय-व्युष्टि-द्विरात्र-क्षत्रधृतिसंज्ञकाः सप्त सोमयागाः पञ्चवातीयादयो दर्वीहोमाः । तत्र पवित्रनामके प्रथमसोमयागे प्रकृतिसमानत्वेन वक्तव्याभावात् तं परित्यज्य तदवसाने कर्तव्यं पूर्णाहुतिप्रभृति वैशेषिकमुत्तरतन्त्रमभिधीयते 1 (तै. सं. १ । ८ । १९) ॥ पूर्णाहुतेः कालं कात्यायनः सूत्रयामास- “पवित्रश्चतुर्दीक्षः, सहस्रदक्षिणः, माघीपक्षयजनीये दीक्षा, तदन्ते पूर्णाहुतिगृहेष्विच्छतः” (का. श्रौ. सू. १५ । ४-७) इति । तद्विधत्ते- पूर्णेति । आज्यपूर्णया जुह्वा हूयत इति पूर्णाहुतिः । सा अनाम्नातमन्त्रत्वात् प्राजापत्या “यत् तूष्णीं तत् प्राजापत्यम्”- (श. प. ६ । २ । २ । २०) इति श्रुतेः । तां जुहुयादित्यर्थः । पूर्णाहुतिकरणस्य कामनाधीनत्वं विवृणोति- सर्वमिति । पूर्णपदेन सर्वमुच्यते । ‘सर्वं’ जगत् ‘परिगृह्य’ स्वाधीनं कृत्वा, पश्चाद्राजसूयानुष्ठानेन ‘सूयै’ अभिषिक्तो भूयासम् ‘इति’ अभिप्रायेण पूर्णाहुतिं कुर्यादित्यर्थः ॥ तस्यां दक्षिणां विधत्ते- तस्यामिति 2 । ‘तस्यो’ हुतायामित्यर्थः । पूर्णाहुतेरितराङ्गवद् अवश्यकर्त्तव्यत्वे प्राप्ते कामनानुसारेणैव करणीयत्वमाह- स यदि कामयेतेति । पूर्णाहुतिकरणेच्छायां सत्यां तदनुष्ठानं विपर्यये तद्विपर्यय इत्यर्थः ॥ १ ॥
Eggeling
- He offers a full-offering 3; for the full means the All: ‘May I be consecrated after encompassing the All!’ thus he thinks. At this (offering) he bestows a boon; for a boon means all: ‘Having encompassed the All (the universe), may I be consecrated! thus he thinks. He may perform this offering, if he chooses; or, if he chooses, he may disregard it.
०२
विश्वास-प्रस्तुतिः
(ता᳘थ) अ᳘थ श्वो᳘भूते[[!!]]॥
(ते᳘ ऽनु) अ᳘नुमत्यै हवि᳘रष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति स ये᳘ जघ᳘नेन श᳘म्यां पिष्य᳘माणानामवशीय᳘न्ते पिष्टा᳘नि वा तण्डुला᳘ वा ता᳘न्त्स्रुवे᳘ सार्द्धᳫँ᳭ सं᳘व्वपत्यन्वाहार्यप᳘चनादु᳘ल्मुकमा᳘ददते ते᳘न दक्षिणा᳘ यन्ति स य᳘त्र स्व᳘कृतं व्वे᳘रिणं व्विन्द᳘ति श्वभ्रप्रदरं᳘ वा॥
मूलम् - श्रीधरादि
(ता᳘थ) अ᳘थ श्वो᳘भूते[[!!]]॥
(ते᳘ ऽनु) अ᳘नुमत्यै हवि᳘रष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति स ये᳘ जघ᳘नेन श᳘म्यां पिष्य᳘माणानामवशीय᳘न्ते पिष्टा᳘नि वा तण्डुला᳘ वा ता᳘न्त्स्रुवे᳘ सार्द्धᳫँ᳭ सं᳘व्वपत्यन्वाहार्यप᳘चनादु᳘ल्मुकमा᳘ददते ते᳘न दक्षिणा᳘ यन्ति स य᳘त्र स्व᳘कृतं व्वे᳘रिणं व्विन्द᳘ति श्वभ्रप्रदरं᳘ वा॥
मूलम् - Weber
अ᳘थ श्वो᳘ भूते᳟॥
अ᳘नुमत्यै हवि᳘रष्टा᳘कपालम् पुरोडा᳘शं नि᳘र्वपति स ये᳘ जघ᳘नेन श᳘म्याम् पिष्य᳘माणानामवशीय᳘न्ते पिष्टा᳘नि वा तण्डुला᳘ वा ता᳘न्त्स्रुवे᳘ सार्धᳫं सं᳘वपत्यन्वाहार्यप᳘चनादु᳘ल्मुकमा᳘ददते ते᳘न दक्षिणा यन्ति स य᳘त्र स्व᳘कृतं वे᳘रिणं विन्द᳘ति श्वभ्रप्रदरं᳘ वा॥
मूलम् - विस्वरम्
(१) अथ श्वोभूते ऽनुमत्यै हविरष्टाकपालं पुरोडाशं निर्वपति । स ये जघनेन शम्यां पिष्यमाणानामवशीयन्ते- पिष्टानि वा तण्डुला वा- तान् स्रुवे सार्द्धं संवपति । अन्वाहार्यपचनादुल्मुकमाददते । तेन दक्षिणा यन्ति । स यत्र स्वकृतं वेरिणं विन्दति, श्वभ्रप्रदरं वा ॥ २ ॥
सायणः
आरम्भणीयस्थानीयात् पवित्राख्यादग्निष्टोमादह्नः परस्मिन्नहनि कर्त्तव्यं विधत्ते- अथ श्वोभूत इति । सूत्रकृता पवित्रादनन्तरमुक्तम्- “श्वः प्रभृत्यन्वहं पञ्चोत्तराणि हवीᳫँष्यष्टाकपालो ऽनुमत्यै”- (का. श्रौ. सू. १५ । ८ । ९) इति 4 । यागानुष्ठानस्याधारत्वेनानुज्ञाकरणात् अनुमतिः पृथिवी; ‘इयं वा अनुमतिः’- इति ह्याम्नास्यते । तस्यै अष्टसु कपालेषु संस्कृतं पुरोडाशात्मकं हविर्निर्वपेत् ॥ अत्रोत्तरं तन्त्रं सूत्रे संगृहीतम्- “शम्यायाः पश्चात् हविष्यमन्नं स्रुवे कृत्वा दक्षिणाग्न्युल्मुकमादाय दक्षिणा गत्वा स्वयं प्रदीर्ण इरिणे वा ऽग्नौ जुहोत्येष ते निर्ऋत इति, अनपेक्षमेत्यानुमतस्य संवपनादि करोति, वासो देयम्”- (का. श्रौ. सू. १५ । १०-१२) इति । तत्सर्वं क्रमेण विधत्ते- स ये जघनेनेत्यादिना, “श्वोभूत आग्नावैष्णवम्”- इत्यतः प्राक्तनेन । ‘शम्यां जघनेन’ “एनपा द्वितीया” (पा. सू. २ । ३ । ३१) इति द्वितीया । पश्चिमायां दिशि दृषदमभ्याधातुमवस्थापितायाः शम्यायाः पश्चाद् ‘ये’ तण्डुलपिष्टलेशा ‘अवशीयन्ते’ अधः पतन्ति, ‘तान्’ स्रुवेण सो ऽध्वर्युः ‘सार्द्धं’ सह संवपेत् ॥ उल्मुकेन सार्द्धं दक्षिणदिग्गमनं विधत्ते- अन्वाहार्येति । तस्योल्मुकस्य स्थापनाय देशविशेषं विधत्ते- स यत्रेति । ‘इरिणम्’ ऊषरक्षेत्रम्, तच्च ‘स्वकृतं’ स्वतः सिद्धम्, न तु यतः कुतश्चिदानीयोषाः प्रक्षिप्ताः; तस्मिन् ‘श्वभ्रप्रदरे’ गर्ताकारेण विदीर्णप्रदेशे ‘वा’ ॥ २ ॥
Eggeling
- And on the following day he prepares a cake on eight potsherds, as sacrificial food for Anumati 5. And whatever portion of (the grains) being ground,–either flour or rice-grains,–falls down behind the pin, that he throws together into the dipping-spoon
(sruva) 6. They take a firebrand from the Anvāhāryapacana (or southern) fire, and therewith go southward. And where he finds a self-produced hollow 7 or cleft,–
०३
विश्वास-प्रस्तुतिः
त᳘दग्नि᳘ᳫँ᳘ समाधा᳘य जुहोति॥
(त्ये) एष᳘ ते निर्ऋते भागस्तं᳘ जुषस्व स्वाहे᳘तीयं वै नि᳘र्ऋतिः सा यं᳘ पाप्म᳘ना गृह्णा᳘ति तं नि᳘र्ऋत्या गृह्णाति तद्य᳘दे᳘वास्या ऽअ᳘त्र नैर्ऋत᳘ᳫँ᳘ रूपं त᳘दे᳘वैत᳘च्छमयति त᳘थो हैनᳫँ᳭ सूय᳘मानं नि᳘र्ऋतिर्न᳘ गृह्णात्य᳘थ यत्स्व᳘कृते वे᳘रिणे जुहो᳘ति श्वभ्रप्रदरे᳘ वैत᳘दु ह्यस्यै[[!!]] नि᳘र्ऋतिगृहीतम्॥
मूलम् - श्रीधरादि
त᳘दग्नि᳘ᳫँ᳘ समाधा᳘य जुहोति॥
(त्ये) एष᳘ ते निर्ऋते भागस्तं᳘ जुषस्व स्वाहे᳘तीयं वै नि᳘र्ऋतिः सा यं᳘ पाप्म᳘ना गृह्णा᳘ति तं नि᳘र्ऋत्या गृह्णाति तद्य᳘दे᳘वास्या ऽअ᳘त्र नैर्ऋत᳘ᳫँ᳘ रूपं त᳘दे᳘वैत᳘च्छमयति त᳘थो हैनᳫँ᳭ सूय᳘मानं नि᳘र्ऋतिर्न᳘ गृह्णात्य᳘थ यत्स्व᳘कृते वे᳘रिणे जुहो᳘ति श्वभ्रप्रदरे᳘ वैत᳘दु ह्यस्यै[[!!]] नि᳘र्ऋतिगृहीतम्॥
मूलम् - Weber
त᳘दग्नि᳘ᳫं᳘ समाधा᳘य जुहोति॥
एष᳘ ते निरृते भागस्तं᳘ जुषस्वस्वाहे᳘तीयं वै नि᳘रृतिः सा य᳘म् पाप्म᳘ना गृह्णा᳘ति तं नि᳘रृत्या गृह्णाति तद्य᳘देॗवास्या अ᳘त्र नैरृतं᳘ रूपं त᳘देॗवैत᳘छमयति त᳘थो हैनᳫं सूय᳘मानं नि᳘रृतिर्न᳘ गृह्णात्य᳘थ यत्स्व᳘कृते वे᳘रिणे जुहो᳘ति श्वभ्रप्रदरे᳘ वैत᳘दु ह्य᳘स्यै नि᳘रृतिगृहीतम्॥
मूलम् - विस्वरम्
तदग्निं समाधाय जुहोति- “एष ते निर्ऋते भागस्तं जुषस्व स्वाहा”- (वा. सं. ९ । ३५) इति । इयं वै निर्ऋतिः । सा यं पाप्मना गृह्णाति- तं निर्ऋत्या गृह्णाति । तद्यदेवास्या अत्र नैर्ऋतं रूपम्- तदेवैतच्छमयति । तथो हैनं सूयमानं निर्ऋतिर्न गृह्णाति । अथ यत् सकृते वेरिणे जुहोति, श्वभ्रप्रदरे वा- एतदु ह्यस्यै निर्ऋतिगृहीतम् ॥ ३ ॥
सायणः
उल्मुकाग्निमाधाय, स्रुवपूरितेन द्रव्येण जुहुयात् । तत्र मन्त्रं विधत्ते- एष त इति । ‘निर्ऋते’ पापदेवते ! ‘एषः’ तण्डुलपिष्टशेषः ‘ते’ तव ‘भागः’ ‘तं’ भागं ‘जुषस्व’ सेवस्व । ‘स्वाहा’- शब्दो हवनलिङ्गम् ‘इति’ ॥ भूमिर्द्विविधा; शालिगोधूमादिसर्वसस्याढपा, तदयोग्या च । तत्र आद्यभूमिरूपा अनुमतिः, द्वितीयभूमिरूपा निर्ऋतिः; (तै. सं. १ । ८ । १ । १) सैवानिष्टकारिणी पापदेवता,- तथा भूमिः पापिष्ठं जनं पीडयितुं गृह्णाति । ‘तत्’ तथा सति ‘अस्याः’ भूमेः ‘अत्र’ अस्मिन् राजसूयानुष्ठानदेशे ‘नैर्ऋतं रूपम्’ एतेन होमेन शमितवान् भवतीति । “तथो हैनम्”- इत्यादिना नैर्ऋतहोमस्य प्रयोजनकथनम् । एतदु ह्यस्या इति । ‘एतत्’ एव इरिणप्रदरात्मकं स्थानम् ‘अस्यै’ अस्याः भूमेः सम्बन्धि ‘निर्ऋतिगृहीतम्’ निर्ऋत्या पापदेवतया आश्रयत्वेन स्वीकृतम्; अतस्तत्र नैर्ऋतहोमानुष्ठानं युक्तमिति ॥ ३ ॥
Eggeling
- Having there made up a fire, he offers with (Vāj. S. IX, 35), ‘This, O Nirr̥ti, is thy portion: accept it graciously, hail!’ For Nirr̥ti is this (Earth); whomsoever she seizes upon with evil, him she seizes upon with destruction (nirr̥ti): hence whatever part of this (Earth) is of the Nirr̥ti nature, that he thereby propitiates; and thus Nirr̥ti does not seize upon him, while being consecrated. And the reason why he offers in a self-produced hollow or
cleft, is that that much of this (earth) is possessed with Nirr̥ti.
०४
विश्वास-प्रस्तुतिः
(म) अथा᳘प्रतीक्षं पु᳘नरा᳘यन्ति॥
(न्त्य) अथा᳘नुमत्या ऽअष्टा᳘कपालेन पुरोडा᳘शेन प्र᳘चरतीयं वा अ᳘नुमतिः स यस्तत्क᳘र्म शक्नो᳘ति क᳘र्तुं यच्चि᳘कीर्षतीय᳘ᳫँ᳘ हास्मै तद᳘नुमन्यते त᳘दिमा᳘मे᳘वैत᳘त्प्रीणात्यनया᳘ ऽनुमत्या᳘ ऽनुमतः सूया ऽइति[[!!]]॥
मूलम् - श्रीधरादि
(म) अथा᳘प्रतीक्षं पु᳘नरा᳘यन्ति॥
(न्त्य) अथा᳘नुमत्या ऽअष्टा᳘कपालेन पुरोडा᳘शेन प्र᳘चरतीयं वा अ᳘नुमतिः स यस्तत्क᳘र्म शक्नो᳘ति क᳘र्तुं यच्चि᳘कीर्षतीय᳘ᳫँ᳘ हास्मै तद᳘नुमन्यते त᳘दिमा᳘मे᳘वैत᳘त्प्रीणात्यनया᳘ ऽनुमत्या᳘ ऽनुमतः सूया ऽइति[[!!]]॥
मूलम् - Weber
अथा᳘प्रतीक्षम् पु᳘नरा᳘यन्ति॥
अथा᳘नुमत्या अष्टा᳘कपालेन पुरोडा᳘शेन प्र᳘चरतीयं वा अ᳘नुमतिः स यस्तत्क᳘र्म शक्नो᳘ति क᳘र्तुं यच्चि᳘कीर्षतीय᳘ᳫं᳘ हास्मै तद᳘नुमन्यते त᳘दिमा᳘मेॗवैत᳘त्प्रीणात्यनया᳘नुमत्या᳘नुमतः सूया इ᳘ति॥
मूलम् - विस्वरम्
अथाप्रतीक्षं पुनरायन्ति । अथानुमत्या ऽअष्टाकपालेन पुरोडाशेन प्रचरति । इयं वा अनुमतिः । स यस्तत्कर्म शक्नोति कर्तुम्- यच्चिकीर्षति- इयं हास्मै तदनुमन्यते । तदिमामेवैतत् प्रीणाति । अनया ऽनुमत्या ऽनुमतः सूया ऽइति ॥ ४ ॥
सायणः
पुनरागमनं विधत्ते- अथाप्रतीक्षमिति । ‘अप्रतीक्षं’ यत्र निर्ऋत्यै होमः कृतः; तं प्रदेशम् अनमीक्षमाणा एव पुनर्गच्छेयुः । अथानुमतस्य हविषः प्रचारं विधत्ते- अथानुमत्या इति । प्रचरन्तीति । आनुमतहविषः संवपनादिकं कुर्युरित्यर्थः । तथैवाम्नातमुदाहृतम्- इयं वा अनुमतिरिति । भूमिरूपा अनुमतिः, तत्र यत् कर्म करोति यत् कर्तुमिच्छति, तत् सर्वं भूम्यात्मिका अनुमतिर्देवता अनुजानाति, तथा ‘अनुमत्या’ अनुज्ञातः ‘सूये’ राजसूयाख्यं कर्म करवाणि, इत्यनेनाभिप्रायेणानुमतहविर्निर्वापः । ‘तत्’ तेन हविषा भूमिमेव प्रीणितवान् भवति ॥ ४ ॥
Eggeling
- They then return (to the sacrificial ground) without looking backward. He now proceeds with the cake on eight potsherds for Anumati. For Anumati is this (Earth); and whosoever knows to do that work which he intends to do, for him indeed she approves (arm-man) thereof: hence it is her he thereby pleases, thinking ‘May I be consecrated, approved by that (genius of) approval!’
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दष्टा᳘कपालो भ᳘वति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्री वा᳘ ऽइयं᳘ पृथिव्य᳘थ य᳘त्समान᳘स्य हवि᳘ष ऽउभय᳘त्र जुहो᳘त्येषा᳘ ह्ये᳘वैत᳘दुभ᳘यं त᳘स्य व्वा᳘सो द᳘क्षिणा यद्वै स᳘वासा ऽअ᳘रण्यं᳘[[!!]] नोदाश᳘ᳫँ᳘सते निधा᳘य वै तद्वासो᳘ ऽतिमुच्यते त᳘थो हैनᳫँ᳭ सूय᳘मानमासङ्गो न᳘ व्विन्दति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दष्टा᳘कपालो भ᳘वति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्री वा᳘ ऽइयं᳘ पृथिव्य᳘थ य᳘त्समान᳘स्य हवि᳘ष ऽउभय᳘त्र जुहो᳘त्येषा᳘ ह्ये᳘वैत᳘दुभ᳘यं त᳘स्य व्वा᳘सो द᳘क्षिणा यद्वै स᳘वासा ऽअ᳘रण्यं᳘[[!!]] नोदाश᳘ᳫँ᳘सते निधा᳘य वै तद्वासो᳘ ऽतिमुच्यते त᳘थो हैनᳫँ᳭ सूय᳘मानमासङ्गो न᳘ व्विन्दति॥
मूलम् - Weber
अ᳘थ य᳘दष्टा᳘कपालो भ᳘वति॥
अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्री वा᳘ इय᳘म् पृथिव्य᳘थ य᳘त्समान᳘स्य हवि᳘ष उभय᳘त्र जुहो᳘त्येषाॗ ह्येॗवैत᳘दुभ᳘यं त᳘स्य वा᳘सो द᳘क्षिणा यद्वै स᳘वासा अ᳘रॗण्यं नोदाश᳘ᳫं᳘सते निधा᳘य वै तद्वासो᳘ ऽतिमुच्यते त᳘थो हैनᳫं सूय᳘मानमासङ्गो न᳘ विन्दति॥
मूलम् - विस्वरम्
अथ यदष्टाकपालो भवति । अष्टाक्षरा वै गायत्री । गायत्री वा ऽइयं पृथिवी । अथ यत् समानस्य हविष उभयत्र जुहोति । एषा ह्येवैतदुभयम् । तस्य वासो दक्षिणा । यद्वै सवासा अरण्यं नोदाशंसते- निधाय वै तद्वासो ऽतिमुच्यते । तथो हैनं सूयमानमासङ्गो न विन्दति ॥ ५ ॥
सायणः
हविःश्रपणसाधनकपालगतामष्टसंख्यां गायत्रीद्वारा पृथिवीयोग्यत्वेन प्रशंसति- अथ यदष्टेति 8 । अथ यत् समानस्येति । अस्यार्थः,- ‘समानस्य’ एकमेव हविः ‘उभयत्र’ अनुमत्यै निर्ऋत्यै च हूयते; उभयोरपि पृथिव्यात्मकत्वादिति । तस्य दक्षिणां विधत्ते- तस्य वास इति । तत् प्रशंसति- यद्वै सवासा इति । यथा लोके पुरुषो वस्त्रसहितः सन्नरण्यगमनं चौरादिभयात् न कामयते; तद् वस्त्रं भयरहिते स्थाने ‘निधाय’ चेद्गच्छति तदा ‘अतिमुच्यते’ भयाद् विमुक्तो भवति; तद्वद् वासोदानेन ‘सूयमानम्’ ‘एनं’ यजमानम् ‘आसङ्गः’ भयं ‘न’ प्राप्नोति ॥ ५ ॥
Eggeling
- And as to why it is a (cake) on eight potsherds,–the Gāyatrī consists of eight syllables, and this earth is Gāyatrī. And as to why he offers of the same sacrificial food 9 both (oblations): thereby, indeed, both of it comes to be this latter one (viz. Anumati, or approval). A garment is the sacrificial fee for this (offering): for even as one clad in a garment does not venture into the forest, but having deposited that garment (somewhere) escapes (robbers), in like manner no assault befalls him while being consecrated.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ श्वो᳘भूते᳘॥
(त ऽ) आग्नावैष्णवमे᳘कादशकपालं[[!!]] पुरोडा᳘शं नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते तद्य᳘दे᳘वादः प्र᳘ज्ञातमाग्नावैष्णवं᳘ दीक्षणी᳘यᳫँ᳭ हविस्त᳘दे᳘वैत᳘दग्निर्व्वै स᳘र्व्वा देव᳘ता ऽअग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वत्यग्निर्व्वै᳘ यज्ञ᳘स्यावरा᳘र्ध्यो व्वि᳘ष्णुः परा᳘र्ध्यस्तत्स᳘र्व्वाश्चै᳘वैत᳘द्देव᳘ताः[[!!]] परिगृ᳘ह्य स᳘र्व्वं च यज्ञं᳘ परिगृ᳘ह्य सूया ऽइ᳘ति त᳘स्मादाग्नावैष्णव ऽए᳘कादशकपालः पुरोडा᳘शो भवति त᳘स्य हि᳘रण्यं द᳘क्षिणा ऽऽग्नेयो वा᳘ ऽएष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं यो वै व्वि᳘ष्णुः स᳘ य᳘ज्ञो ऽग्नि᳘रु वै᳘ यज्ञ᳘ ऽएव त᳘दु त᳘दाग्नेय᳘मेव त᳘स्माद्धि᳘रण्यं द᳘क्षिणा॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ श्वो᳘भूते᳘॥
(त ऽ) आग्नावैष्णवमे᳘कादशकपालं[[!!]] पुरोडा᳘शं नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते तद्य᳘दे᳘वादः प्र᳘ज्ञातमाग्नावैष्णवं᳘ दीक्षणी᳘यᳫँ᳭ हविस्त᳘दे᳘वैत᳘दग्निर्व्वै स᳘र्व्वा देव᳘ता ऽअग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वत्यग्निर्व्वै᳘ यज्ञ᳘स्यावरा᳘र्ध्यो व्वि᳘ष्णुः परा᳘र्ध्यस्तत्स᳘र्व्वाश्चै᳘वैत᳘द्देव᳘ताः[[!!]] परिगृ᳘ह्य स᳘र्व्वं च यज्ञं᳘ परिगृ᳘ह्य सूया ऽइ᳘ति त᳘स्मादाग्नावैष्णव ऽए᳘कादशकपालः पुरोडा᳘शो भवति त᳘स्य हि᳘रण्यं द᳘क्षिणा ऽऽग्नेयो वा᳘ ऽएष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं यो वै व्वि᳘ष्णुः स᳘ य᳘ज्ञो ऽग्नि᳘रु वै᳘ यज्ञ᳘ ऽएव त᳘दु त᳘दाग्नेय᳘मेव त᳘स्माद्धि᳘रण्यं द᳘क्षिणा॥
मूलम् - Weber
अ᳘थ श्वो᳘ भूते᳟॥
आग्ना᳘वैष्णवमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ 10 यजते तद्य᳘देॗवादः प्र᳘जातमाग्नावैष्णवं᳘ 11 दीक्षणी᳘यᳫं हविस्त᳘देॗवैत᳘दग्निर्वै स᳘र्वा देव᳘ता अग्नौ हि स᳘र्वाभ्यो देव᳘ताभ्यो जु᳘ह्वत्यग्निर्वै᳘ यज्ञ᳘स्यावराॗर्ध्यो वि᳘ष्णुः परार्ध्य᳘स्तत्स᳘र्वाश्चैॗवैत᳘द्देव᳘ताः परिगृ᳘ह्य स᳘र्वं च यज्ञ᳘म् परिगृ᳘ह्य सूया इ᳘ति त᳘स्मादाग्नावैष्णव ए᳘कादशकपालः पुरोडा᳘शो भवति त᳘स्य हि᳘रण्यं द᳘क्षिणाग्नेयो वा᳘ एष᳘ यज्ञो᳘ भवत्यग्ने रे᳘तो हि᳘रण्यं यो वै वि᳘ष्णुः स᳘ यॗज्ञो ऽग्नि᳘रु वै᳘ यज्ञ᳘ एव त᳘दु त᳘दाग्नेय᳘मेव त᳘स्माद्धि᳘रण्यं द᳘क्षिणा॥
मूलम् - विस्वरम्
(२) अथ श्वोभूत ऽआग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति । तेन यथेष्ट्या- एवं यजते । तद्यदेवादः प्रजातमाग्नावैष्णवं दीक्षणीयं हविः- तदेवैतत् । अग्निर्वै सर्वा देवताः । अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति । अग्निर्वै यज्ञस्यावरार्ध्यो- विष्णुः परार्ध्यः । तत् सर्वाश्चैवैतद्देवताः परिगृह्य, सर्वं च यज्ञं परिगृह्य, सूया ऽइति । तस्मादाग्नावैष्णवः एकादशकपालः पुरोडाशो भवति । तस्य हिरण्यं दक्षिणा । आग्नेयो वा ऽएष यज्ञो भवति । अग्ने रेतो हिरण्यम् । यो वै विष्णुः स यज्ञः । अग्निरु वै यज्ञ एव । तदु तदाग्नेयमेव । तस्माद्धिरण्यं दक्षिणा ॥ ६ ॥
सायणः
तदनन्तरदिवसे ऽनुष्ठेयं कर्म विधत्ते- अथ श्वोभूत इति । अग्निर्विष्णुश्चोभौ देवता यस्य हविषः; तं निर्वपेत् । तेन यथेष्ट्येति । प्रकृतीष्टिवदेवेष्टिः 8 कार्या । तेन अनुमतीष्टिवत् तन्मध्ये वैकृतं तन्त्रं किञ्चिदपि न विद्यत इति भावः । तद्यदेवेति । ‘अदः’ अमुष्मिन् विप्रकृष्टे सोमप्रकरणे ‘प्रज्ञातं’ ‘दीक्षणीयं’ दीक्षायां निरुप्तम् ‘आग्नावैष्णवं हविः’ ‘तदेव’ इदानीं निरूप्यमाणं हविरिति तत्तादात्म्येन प्रशंसा । हविषो देवतासम्बन्धं प्रशंसति- अग्निर्वा इति । अग्नेः सर्वदेवतात्मकत्वं प्रतिपादयति- अग्नौ हीति । अग्नौ हि सर्वा देवता हूयन्ते, अतः सर्वदेवतार्थं हविर्होमाधिकरणत्वादग्निः सर्वदेवतात्मकः । सः ‘अग्निः’ ‘यज्ञस्य’ ‘अवरार्द्धः’ आदौ स्थितः ‘विष्णुः परार्द्धः’ यज्ञस्य चरमभागे ऽवस्थितः । तथा हि प्रकृतिभूतस्याग्निष्टोमस्य आदौ दीक्षणीयायाम् आग्नावैष्णवे हविषि अग्नेः प्रथमदेवतात्वेन सम्बन्धः, अवसाने चोदवसानीयेष्टिस्थाने विष्णुदेवताका पूर्णाहुतिर्हूयते । यद्वा आज्यशस्त्रे प्रथमे “भूरग्निर्ज्योतिः”- (ऐ. ब्रा. २ । ५ । ५) इति अग्नेः प्राथम्यम्, चरमशस्त्रे चाग्निमारुते “विष्णोर्नुकम्”- (ऋ. सं. १ । १५४ । १) इति श्रवणाद् विष्णोश्चरमत्वम् । एतदेवाभिप्रेत्यैतरेयकम्- “अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः”- (ऐ. ब्रा. १ । १ । १ ।) इति । तत् सर्वा इत्यादि । तस्मात् तन्मध्यवर्त्तिनीः वक्ष्यमाणाः ‘सर्वाश्च’ सोमदेवता अग्निसाध्यं विश्वात्मकं सर्वं यज्ञम् ‘एतेन’ आग्नावैष्णवेन हविषा ‘परिगृह्य’ परिवेष्ट्य स्वाधीनं कृत्वा ‘सूयै’ राजसूयाख्यं कर्म करवाणि ‘इति’ हेतोर्यस्मादेवं तस्मादित्यन्वयः ॥
दक्षिणां विधत्ते- तस्य हिरण्यमिति 12 । आग्नेयो वा इति । अस्यायमर्थः;- यज्ञो ऽग्निदेवत्यः खलु, तमन्तरेण यज्ञनिष्पत्तेरसंभवात् । ‘हिरण्यम् अग्नेः रेतः’ विष्णोर्यज्ञात्मकत्वं श्रुतिप्रसिद्धं (श. प. ३ । ५ । ३ । ५) विश्वात्मकस्य यज्ञस्य चाग्निसाध्यत्वात् तद्रूपत्वम्; तस्मात् परम्परया ‘तदु’ तद् विष्णुदेवत्यमपि कर्म, ‘तदाग्नेयम्’ अग्निदेवत्यमेव जातम् । तस्मादाग्नावैष्णवस्य हविषः ‘आग्नेयं हिरण्यं’ दक्षिणा ऽङ्गत्वेन भवितुं युक्तमिति ॥ ६ ॥
Eggeling
- And on the following day he prepares a cake on eleven potsherds for Agni and Vishṇu, and offers it in the same way as the (regular) ishṭi: this indeed is just what that approved initiation-offering to Agni and Vishṇu is there 13. Now Agni is all the deities, since in Agni one offers to all deities; and Agni forsooth is the lower end, and Vishṇu is the upper end: ‘May I be consecrated, after thus encompassing all the deities, and after encompassing
the whole sacrifice!’ thus he thinks, and hence there is a cake on eleven potsherds to Agni and Vishṇu. Gold is the sacrificial fee for this (offering); for to Agni belongs this sacrifice, and gold is Agni’s seed. As to Vishṇu, he is the sacrifice, and Agni forsooth is the sacrifice: nevertheless this is Agni’s alone, therefore gold is the fee.
०७
विश्वास-प्रस्तुतिः
(णा᳘ ऽथ) अ᳘थ श्वो᳘भू᳘ते॥
(ते ऽग्नी) अग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजत ऽएते᳘न व्वा ऽइ᳘न्द्रो व्वृत्र᳘महन्नेते᳘नो ऽएव᳘ व्य᳘जयत᳘ या ऽस्येयं व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएते᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया इ᳘ति त᳘स्मादग्नीषोमी᳘य ऽए᳘कादशकपालः पुरोडा᳘शो भवति त᳘स्योत्सृष्टो गौर्द᳘क्षिणोत्स᳘र्जं वा ऽअमुं᳘ चन्द्र᳘मसं घ्न᳘न्ति पौर्णमासेना᳘ह घ्न᳘न्त्यामावास्येनो᳘त्सृजन्ति त᳘स्मादुत्सृष्टो गौर्द᳘क्षिणा॥
मूलम् - श्रीधरादि
(णा᳘ ऽथ) अ᳘थ श्वो᳘भू᳘ते॥
(ते ऽग्नी) अग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजत ऽएते᳘न व्वा ऽइ᳘न्द्रो व्वृत्र᳘महन्नेते᳘नो ऽएव᳘ व्य᳘जयत᳘ या ऽस्येयं व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएते᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो ऽएव व्वि᳘जयते व्वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया इ᳘ति त᳘स्मादग्नीषोमी᳘य ऽए᳘कादशकपालः पुरोडा᳘शो भवति त᳘स्योत्सृष्टो गौर्द᳘क्षिणोत्स᳘र्जं वा ऽअमुं᳘ चन्द्र᳘मसं घ्न᳘न्ति पौर्णमासेना᳘ह घ्न᳘न्त्यामावास्येनो᳘त्सृजन्ति त᳘स्मादुत्सृष्टो गौर्द᳘क्षिणा॥
मूलम् - Weber
अ᳘थ श्वो᳘ भूॗते॥
अग्नीषोमी᳘यमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ 14 यजत एते᳘न वा इ᳘न्द्रो वृत्र᳘महन्नेते᳘नो एव व्य᳘जयतॗ यास्येयं वि᳘जितिस्तां त᳘थो एॗवैष᳘ एते᳘न पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हन्ति त᳘थो एव वि᳘जयते वि᳘जिते᳘ ऽभये ऽनाष्ट्रे᳘ सूया इ᳘ति त᳘स्मादग्नीषोमी᳘य ए᳘कादशकपालः पुरोडा᳘शो भवति त᳘स्योत्सृष्टो गौर्द᳘क्षिणोत्स᳘र्जं वा अमुं᳘ चन्द्र᳘मसं घ्न᳘न्ति पौर्णमासेना᳘ह घ्न᳘न्त्याम:वास्येनो᳘त्सृजन्ति त᳘स्मादुत्सृष्टो गौर्द᳘क्षिणा॥
मूलम् - विस्वरम्
(३) अथ श्वोभूते ऽग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति । तेन यथेष्ट्या- एवं यजते । एतेन वा ऽइन्द्रो वृत्रमहन् । एतेनो ऽएव व्यजयत- या ऽस्येयं विजितिस्ताम् । तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति । तथो ऽएव विजयते । विजिते ऽभये ऽनाष्ट्रे सूया इति । तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति । तस्योत्सृष्टो गौर्दक्षिणा । उत्सर्जं वा ऽअमुं चन्द्रमसं घ्नन्ति । पौर्णमासेनाह घ्नन्ति । आमावास्येनोत्सृजन्ति । तस्मादुत्सृष्टो गौर्दक्षिणा ॥ ७ ॥
सायणः
तस्मात् परेद्युरनुष्ठेयं कर्म विधत्ते- अथ श्वोभूत इति । ‘तेन’ अग्नीषोमीयेण हविषा यजेत । यथेष्ट्येति । सर्वेष्टीनां पौर्णमासेष्टिः प्रकृतिभूता; तद्वदत्रापि तदीयमङ्गजातं कुर्यादित्यर्थः । एतेन वा इत्यादि । ‘एतेन’ हविषा वृत्रं हत्वा विजितवतः ‘अस्य’ इन्द्रस्य ‘इयं’ परिदृश्यमाना ‘या’ ‘विजितिः’ अस्ति, ‘ताम्’ ‘इन्द्रो व्यजयत’ इति सम्बन्धः । ‘तथा’ ‘एषः’ अपि अनुष्ठाता ‘एतेन’ हविषा सर्वान् शत्रून् जयति ॥
तस्य दक्षिणां विधत्ते- उत्सृष्टो गौरिति 15 । कियन्तं कालं शकटवहनादौ विनियोज्य पश्चात् य उत्सृज्यते, स ‘उत्सृष्टः’ । तां दक्षिणां प्रशंसति- उत्सर्जमिति । ‘अमुम्’ अन्तरिक्षे दृश्यमानं ‘चन्द्रमसम्’ उत्सृज्योत्सृज्य ‘घ्नन्ति’ । तदेव विवृणोति- पौर्णमासेनेनि । पौर्णमासीमारभ्य खलु देवाः ‘घ्नन्ति’ ‘प्रतिदिवसमेकैककलापचार 16 एव तस्य हननमित्यर्थः । अमावास्याकालमारभ्य ‘उत्सृजन्ति’ प्रतिदिवसं तस्यैकैककलावृद्धेः । ‘तस्मात्’ अस्य हविषः सोमदेवतासम्बन्धादेव तादृशो गौर्दक्षिणात्वेन युक्त इत्यर्थः ॥ ७ ॥
Eggeling
- And on the following day he prepares a cake on eleven potsherds for Agni and Soma, and offers it in the same way as an (ordinary) ishṭi, for it was thereby Indra slew Vr̥tra, and thereby he gained that universal conquest which now is his. And in like manner does this (king, the Sacrificer) thereby slay his wicked, hateful enemy, and in like manner does he gain the victory. ‘May I be consecrated, when safety and security from evil-doers have been gained!’ thus. he thinks: hence there is a cake on eleven potsherds for Agni and Soma. For this (offering) a bull set at liberty is the sacrificial fee; for yonder moon 17 they slay while setting him at liberty 18: to wit, by the full-moon offering they slay him, and by the new-moon offering they set him at liberty;–therefore a bull set at liberty is the fee.
०८
विश्वास-प्रस्तुतिः
(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
(त ऽ) ऐन्द्राग्नं द्वा᳘दशकपालं पुरोडा᳘शं नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते य᳘त्र वा ऽइ᳘न्द्रो व्वृत्रम᳘हंस्त᳘दस्य भीत᳘स्येन्द्रियं᳘ व्वी᳘र्यम᳘पचक्राम[[!!]] स᳘ ऽएते᳘न हवि᳘षेन्द्रियं᳘ व्वी᳘र्यं[[!!]] पु᳘नरात्म᳘न्नधत्त त᳘थो ऽए᳘वैष᳘ ऽएते᳘न हवि᳘षेन्द्रियं᳘ व्वी᳘र्यमात्म᳘न्धत्ते[[!!]] ते᳘जो वा᳘ ऽअग्नि᳘रिन्द्रियं᳘ व्वी᳘र्यमि᳘न्द्र[[!!]] ऽउभे᳘ व्वी᳘र्ये परिगृ᳘ह्य सूया ऽइ᳘ति त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति त᳘स्यर्ष᳘भो ऽनड्वान्द᳘क्षिणा स हि व्व᳘हेनाग्नेय᳘ ऽआण्डा᳘भ्यामैन्द्रस्त᳘स्मादृष᳘भो ऽनड्वान्द᳘क्षिणा॥
मूलम् - श्रीधरादि
(णा᳘ ऽथ) अ᳘थ श्वो᳘भूते᳘॥
(त ऽ) ऐन्द्राग्नं द्वा᳘दशकपालं पुरोडा᳘शं नि᳘र्व्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते य᳘त्र वा ऽइ᳘न्द्रो व्वृत्रम᳘हंस्त᳘दस्य भीत᳘स्येन्द्रियं᳘ व्वी᳘र्यम᳘पचक्राम[[!!]] स᳘ ऽएते᳘न हवि᳘षेन्द्रियं᳘ व्वी᳘र्यं[[!!]] पु᳘नरात्म᳘न्नधत्त त᳘थो ऽए᳘वैष᳘ ऽएते᳘न हवि᳘षेन्द्रियं᳘ व्वी᳘र्यमात्म᳘न्धत्ते[[!!]] ते᳘जो वा᳘ ऽअग्नि᳘रिन्द्रियं᳘ व्वी᳘र्यमि᳘न्द्र[[!!]] ऽउभे᳘ व्वी᳘र्ये परिगृ᳘ह्य सूया ऽइ᳘ति त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति त᳘स्यर्ष᳘भो ऽनड्वान्द᳘क्षिणा स हि व्व᳘हेनाग्नेय᳘ ऽआण्डा᳘भ्यामैन्द्रस्त᳘स्मादृष᳘भो ऽनड्वान्द᳘क्षिणा॥
मूलम् - Weber
अ᳘थ श्वो᳘ भूते᳟॥
ऐन्द्राग्नं द्वा᳘दशकपालम् पुरोडा᳘शं नि᳘र्वपति ते᳘न यथे᳘ष्ट्यैवं᳘ यजते य᳘त्र वा इ᳘न्द्रो वृत्रम᳘हंस्त᳘दस्य भीत᳘स्येन्द्रियं᳘ वीर्य᳘म᳘पचक्राम स᳘ एते᳘न हवि᳘षेन्द्रियं᳘ वीर्य᳘म् पु᳘नरात्म᳘न्नधत्त त᳘थो ए᳘वैष᳘ एते᳘न हवि᳘षेन्द्रियं᳘ वीर्य᳘मात्म᳘न्धत्ते ते᳘जो वा᳘ अग्नि᳘रिन्द्रियं᳘ वीर्य᳘मि᳘न्द्र उभे᳘ वीॗर्ये परिगृ᳘ह्य सूया इ᳘ति त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति त᳘स्यर्षॗभो ऽनड्वान्द᳘क्षिणा स हि व᳘हेनाग्नेय᳘ आण्डा᳘भ्यामैन्द्रस्त᳘स्मादृषॗभो ऽनड्वान्द᳘क्षिणा॥
मूलम् - विस्वरम्
(४) अथ श्वोभूत ऽऐन्द्राग्नं द्वादशकपालं पुरोडाशं निर्वपति । तेन यथेष्ट्या- एवं यजते । यत्र वा ऽइन्द्रो वृत्रमहन्- तस्य भीतस्येन्द्रियं वीर्यमपचक्राम । स एतेन हविषेन्द्रियं वीर्यं पुनरात्मन्नधत्त । तथो एवैष एतेन हविषेन्द्रियं वीर्यमात्मन्धत्ते । तेजो वा ऽअग्निरिन्द्रियं वीर्यम् । इन्द्र उभे वीर्ये परिगृह्य सूया ऽइति । तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति । तस्यर्षभो ऽनड्वान् दक्षिणा । स हि वहेनाग्नेयः, आण्डाभ्यामैन्द्रः । तस्मादृषभो ऽनड्वान् दक्षिणा ॥ ८ ॥
सायणः
तदनन्तरदिवसकर्त्तव्यमिष्ट्यन्तरं विधत्ते- अथ श्वोभूत इति । पुरा वृत्रहननाद्भीत इन्द्रो ऽपक्रान्तं स्वकीयं वीर्यम् ‘एतेन हविषा’ ‘पुनः’ आत्मन्यधारयत्; एवम् ‘एषः’ अपि अनुष्ठाता ‘एतेन’ हविषा । यदिदं तेजः, स एवाग्निः; यदिदम् ‘इन्द्रियम्’ इन्द्रस्यासाधारणं सत्त्वं, स एवेन्द्रः; धर्मधर्मिणोरभेदोपचारात् तादात्म्यम् । ते ‘उभे’ तेजोबललक्षणे ‘वीर्ये’ ‘परिगृह्य’ ‘सूयै’ ‘इति’ अभिप्रायेण ऐन्द्राग्नहविःप्रचारः कर्त्तव्यः ॥ दक्षिणां विधत्ते- तस्यर्षभ इति । ऐन्द्रामस्य 19 हविषो दक्षिणात्वेन विहितस्य साण्डस्यानडुहो देवताद्वययोग्यतां दर्शयति- स हि वहेनेति । वहे नाम युगवहनदेशः, ककुत्प्रदेशः । तस्य दग्धप्रदेशवत् कृष्णवर्णत्वादाग्नेयत्वम् ‘आण्डाभ्याम् ऐन्द्रः’ सेचनसमर्थत्वादिति ॥ ८ ॥
Eggeling
- And on the following day he prepares a cake on twelve potsherds for Indra and Agni, and offers it in the same way as an (ordinary) ishṭi. Now when
Indra slew Vr̥tra, that vigour and energy of his went out of him, being frightened: by this offering he again possessed himself of that vigour and energy. And in like manner does this (Sacrificer) by this offering possess himself of vigour and energy; for Agni is fiery spirit, and Indra is vigour and energy: ‘May I be consecrated, having embraced both these energies!’ thus he thinks: hence there is a cake on twelve potsherds for Indra and Agni. A bull is the fee for this (offering), for by his shoulder he is of Agni’s nature 20, and by his testicles he is of Indra’s nature: therefore a bull is the fee for it.
०९
विश्वास-प्रस्तुतिः
(णा᳘ ऽथा) अ᳘थाग्रयणेष्ट्या᳘ यजते॥
स᳘र्वान्वा᳘ ऽएष᳘ यज्ञक्रतून᳘वरुन्धे स᳘र्व्वा ऽइ᳘ष्टीर᳘पि दर्विहोमान्यो᳘ राजसू᳘येन य᳘जते देव᳘सृष्टो वा᳘ ऽएषे᳘ष्टिर्य᳘दाग्रयणेष्टि᳘रन᳘या मे᳘ ऽपीष्ट᳘मसदनया᳘पि सूया ऽइ᳘ति त᳘स्मादाग्रयणेष्ट्या᳘ यजत ऽओ᳘षधीर्व्वा᳘ ऽएष᳘ सूय᳘मानो ऽभि᳘सूयते तदो᳘षधीरे᳘वैत᳘दनमीवा᳘ ऽअकिल्विषाः᳘ कुरुते ऽनमीवा᳘ ऽअकिल्विषा ऽओ᳘षधीरभि᳘सूया ऽइ᳘ति त᳘स्य गौर्द᳘क्षिणा॥
मूलम् - श्रीधरादि
(णा᳘ ऽथा) अ᳘थाग्रयणेष्ट्या᳘ यजते॥
स᳘र्वान्वा᳘ ऽएष᳘ यज्ञक्रतून᳘वरुन्धे स᳘र्व्वा ऽइ᳘ष्टीर᳘पि दर्विहोमान्यो᳘ राजसू᳘येन य᳘जते देव᳘सृष्टो वा᳘ ऽएषे᳘ष्टिर्य᳘दाग्रयणेष्टि᳘रन᳘या मे᳘ ऽपीष्ट᳘मसदनया᳘पि सूया ऽइ᳘ति त᳘स्मादाग्रयणेष्ट्या᳘ यजत ऽओ᳘षधीर्व्वा᳘ ऽएष᳘ सूय᳘मानो ऽभि᳘सूयते तदो᳘षधीरे᳘वैत᳘दनमीवा᳘ ऽअकिल्विषाः᳘ कुरुते ऽनमीवा᳘ ऽअकिल्विषा ऽओ᳘षधीरभि᳘सूया ऽइ᳘ति त᳘स्य गौर्द᳘क्षिणा॥
मूलम् - Weber
अ᳘थाग्रयणेष्ट्या᳘ यजते॥
स᳘र्वान्वा᳘ एष᳘ यज्ञक्रतून᳘वरुन्द्धे स᳘र्वा इ᳘ष्टीर᳘पि दर्विहोमान्यो᳘ राजसू᳘येन य᳘जते देव᳘सृष्टो वा᳘ एषे᳘ष्टिर्य᳘दाग्रयणेष्टि᳘रन᳘या मे᳘ पीष्ट᳘मसदनया᳘पि सूया इ᳘ति त᳘स्मादाग्रयणेष्ट्या᳘ यजत ओ᳘षधीर्वा᳘ एष᳘ सूय᳘मानो ऽभि᳘ सूयते तदो᳘षधीरेॗवैत᳘दनमीवा᳘ अकिल्विषाः᳘ कुरुते ऽनमीवा᳘ अकिल्विषा ओ᳘षधीरभि᳘ सूया इ᳘ति त᳘स्य गौर्द᳘क्षिणा॥
मूलम् - विस्वरम्
(५) अथाग्रयणेष्ट्या यजते । सर्वान्वा ऽएष यज्ञक्रतूनवरुन्धे, सर्वा इष्टीः अपि दर्विहोमान्- यो राजसूयेन यजते । देवसृष्टो वा एषेष्टिः- यदाग्रयणेष्टिः । अनया मे ऽपीष्टमसत् । अनया ऽपि सूया ऽइति । तस्मादाग्रयणेष्ट्या यजते । ओषधीर्वा ऽएष सूयमानो ऽभिसूयते । तदोषधीरेवैतदनमीवा अकिल्विषाः कुरुते । अनमीवा अकिल्बिषा ओषधीरभिसूया ऽइति । तस्य गौर्दक्षिणा ॥ ९ ॥
सायणः
तदनन्तरकर्त्तव्यमिष्ट्यन्तरं विधत्ते- अथाग्रयणेष्ट्येति । सा चाग्रयणेष्टिः द्वितीयकाण्डे विहिता (श. प. २ । ४ । ३ ।) तस्या अत्र राजसूयाङ्गत्वेन प्रयोगः । सर्वान् वा इत्यादि । इष्टि पशु सोमदर्वीहोमात्मकत्वाद्राजसूयस्य, तदनुष्ठानेन यज्ञक्रत्विष्ट्यादयः सर्वे ऽनुष्ठिता भवन्ति । आग्रयणेष्टिरपि देवसृष्टत्वेन प्रशस्तत्वादत्रावरोद्वव्या । अतः ‘अनया’ आग्रवणेष्ट्या ‘अपि’ ‘मे’ मम ‘इष्टम् असत्’ यागः कृतो भवतु । ‘अनया ऽपि’ इष्ट्या ‘सूयै’ अभिषिक्तो भूयासम् ‘इति’ अनेनाभिप्रायेण आग्रयणेष्टिः कार्येत्यर्थः ॥
तस्या इष्टेः प्रयोजनमाह- ओषधीर्वा इति । ‘एषः सूयमानः’ यजमानः ‘ओषधीः’ परिपक्वा व्रीहियवाद्याः ‘अभि’- लक्ष्य ‘सूयते’ अभिषिच्यते । ‘तत्’ तथा सति ‘अनया’ आग्रयणेष्ट्या ता एव ‘ओषधीः’ ‘अनमीवाः’ रोगरहिताः आरोग्यकारिणीः, ‘अकिल्बिषाः’ पापरहिताश्च ‘कुरुते’ । आग्रयणेष्टेर्नवान्नभोजनार्हत्वात्, तदकरणे भोक्तॄणां रोगः पापं च स्यात्, इह तु तदनुष्ठाने तादृग्दोषरहिताः ओषधीरभिलक्ष्य राजसूयाख्यं कर्म करवाणीति यष्टुराशयः ॥ दक्षिणां विधत्ते- तस्य गौरिति “गौराग्रयणे” । (का. श्रौ. सू. १५ । १६) ‘तस्य’ आग्रयणस्य ॥ ९ ॥
Eggeling
- Thereupon he performs the offering of first-fruits 21; for verily he who performs the Rājasūya secures for himself (the benefits of) all sacrificial rites, all ishṭis, even the spoon-offerings; and instituted by the gods, in truth, is that ishṭi, the Āgrayaṇeshṭi: ‘May this also be offered by me! May I be consecrated by this (offering) also!’ thus he thinks, and therefore he performs the offering of first-fruits. Moreover, it is for the plants that he who is consecrated, is consecrated; therefore he now makes the plants healthy and faultless, thinking, ‘May I be consecrated for (the obtainment of) healthy, faultless plants (crops)!’ A cow is the fee for this (offering).
१०
विश्वास-प्रस्तुतिः
(णा᳘ ऽथ) अ᳘थ चातुर्मास्यै᳘र्यजते॥
स᳘र्व्वान्वा᳘ ऽएष᳘ यज्ञक्रतून᳘वरुन्धे स᳘र्व्वा इ᳘ष्टीर᳘पि दर्विहोमान्यो᳘ राजसू᳘येन य᳘जते देव᳘सृष्टो वा᳘ ऽएष᳘ यज्ञक्रतुर्य᳘च्चातुर्मास्या᳘न्येभिर्मे᳘ ऽपीष्ट᳘मसदेभिर᳘पि सूया ऽइ᳘ति त᳘स्माच्चातुर्मास्यै᳘र्यजते॥
मूलम् - श्रीधरादि
(णा᳘ ऽथ) अ᳘थ चातुर्मास्यै᳘र्यजते॥
स᳘र्व्वान्वा᳘ ऽएष᳘ यज्ञक्रतून᳘वरुन्धे स᳘र्व्वा इ᳘ष्टीर᳘पि दर्विहोमान्यो᳘ राजसू᳘येन य᳘जते देव᳘सृष्टो वा᳘ ऽएष᳘ यज्ञक्रतुर्य᳘च्चातुर्मास्या᳘न्येभिर्मे᳘ ऽपीष्ट᳘मसदेभिर᳘पि सूया ऽइ᳘ति त᳘स्माच्चातुर्मास्यै᳘र्यजते॥
मूलम् - Weber
अ᳘थ चातुर्मास्यै᳘र्यजते॥
स᳘र्वान्वा᳘ एष᳘ यज्ञक्रतून᳘वरुन्द्धे स᳘र्वा इ᳘ष्टीर᳘पि दर्विहोमान्यो᳘ राजसू᳘येन य᳘जते देव᳘सृष्टो वा᳘ एष᳘ यज्ञक्रतुर्य᳘च्चातुर्मास्या᳘न्येभिर्मे᳘ ऽपीष्ट᳘मसदेभिर᳘पि सूया इ᳘ति त᳘स्माच्चातुर्मास्यै᳘र्यजते॥
मूलम् - विस्वरम्
(६) अथ चातुर्मास्यैर्यजते । सर्वान्वा ऽएष यज्ञक्रतूनवरुन्धे, सर्वा इष्टीः अपिदर्विहोमान्- यो राजसूयेन यजते । देवसृष्टो वा ऽएष यज्ञक्रतुः- यच्चातुर्मास्यानि । एभिर्मे ऽपीष्टमसत् । एभिरपि सूया ऽइति । तस्माच्चातुर्मास्यैर्यजते ॥ १० ॥
सायणः
अथ चातुर्मास्यानि विधत्ते- अथ चातुर्मास्यैरिति । तेषां कालः सूत्रितः उक्तहविःपञ्चकादनन्तरम्- “चातुर्मास्यप्रयोगः फाल्गुन्याम्” (का. श्रौ. सू. १५ । १७) इति । सर्वान्वा इत्यादि । सर्वक्रत्विष्टिदर्वीहोमावरोधरूपराजसूयमध्ये चातुर्मास्याख्यो यज्ञक्रतुरप्यवरोद्वव्य इत्यनेनाभिप्रायेण तदनुष्ठानम् । अन्यत् पूर्ववद् योज्यम् ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे द्वितीया ऽध्याये तृतीयं ब्राह्मणम् ॥ (५-२-३) ॥
Eggeling
- Thereupon he performs the Seasonal offerings 22; for verily he who performs the Rājasūya secures for himself (the benefits of) all sacrificial
rites, all ishṭis, even the spoon-offerings; and instituted by the gods, in truth, is that sacrificial rite, the Seasonal offerings: ‘May these also be offered by me! May I be consecrated by these (offerings) also!’ thus he thinks, and therefore he performs the Seasonal offerings.
-
इष्टिसोमपशवो भिन्नतंत्राः कालभेदात् । का. श्रौ. सू. १५ । ३ । ↩︎
-
वरदक्षिणा । का. श्रौ. सू. १५ । ७१ । ↩︎
-
42:1 On the pūrṇāhuti, or libation of a spoonful of ghee, see part i, p. 302 note. According to Kāty. Śr. XV, 1, 4 seq. Āśv. Śr. IX, 3, 2, and other authorities, this full-offering is preceded by the Pavitra (purificatory ceremony), a Soma-sacrifice with four dikshās or initiation days (? commencing on the first day of the bright fortnight of Phālguna), serving as the ordinary opening offering (anvārambhaṇīyeshṭi). That it formed part of the ceremonial .at the time of the composition of the Brāhmaṇa there can be little doubt (cf. Pañcav. Br. 18, 8. 1), but as it is an ordinary Agnishṭoma, the author had no reason to refer to it. ↩︎
-
पश्चोत्तराणीत्युत्तरम्, “हवीँषि” इति विशेषः ॥ ↩︎
-
42:2 I. e. the approval or favour of the deities, personified,–According to Yājñika Deva (to Kāty. Śr. XV, 1, 8), the ceremonies now beginning would commence on the 10th day of the bright half of Phalgunī: the fifth day’s ceremony from this day, viz. the first of the four seasonal offerings, having to be performed on the Full-moon of that month; see p. 47, note 1. ↩︎
-
43:1 The authorities of the Black Yajus prepare therewith a cake on one kapāla. Taitt. S. I, 8, 1. ↩︎
-
43:2 Sāyaṇa, perhaps rightly, takes ‘iriṇa’ here (and on Taitt. S. vol. ii, p. 6) in the sense of ‘ūshara,’ a spot of barren (or saline) soil. Cf. VII, 2; 1, 8: ‘In whatever part of this (earth) there is produced (of itself) a cleft, or in whatever part of it plants are not produced, verily that part of it Nirr̥ti seizes upon.’–Kauśika-sūtra XIII, 28 (A. Weber, Omina and Portenta, p. 386) recommends the following propitiatory rites in case of a sudden cleft in the ground: ‘If in the village, or house, or fire-house, or meeting-place, (the ground) should burst open, four cows are got ready, a white, a black, a red, and a one-coloured one. For twelve days he puts down the butter, milked together from these. In the morning of the twelfth, having made up a fire north of where there was that cleft, having swept and sprinkled it, and strewn sacrificial grass around it; and having mixed (the butter) with ghee from the white (cow), and addressed it (the spot) with the three verses, Ath.-veda XII, x, 19-21 (“Agni is in the earth, in the plants, the waters carry Agni, Agni is in the flints, Agni is within men; in cows, in horses are Agnis,” &c.), and touched it, let him then offer. In the same way on the south side; in the same way on the western side. Having concluded on the north side, let him offer with the (formulas addressed) to Vāstoshpati (the tutelary genius of the dwelling). Having poured the refuse in the cleft, and completed the oblations, he sprinkles the cleft with lustral water.’ ↩︎
-
44:1 Though he has offered twice (to Nirr̥ti and Anumati), he has only once taken out rice for oblation. ↩︎
-
यथेष्टि Sây. ↩︎
-
प्र᳘ज्ञातमा ↩︎
-
हिरण्यमाग्नावैष्णवे । का० श्रौ० सू० १५ । १३ । ↩︎
-
44:2 Viz. at the ordinary Soma-sacrifice; for the Dīkshaṇīyeshṭi, see part ii, p. 22. ↩︎
-
यथेष्टि Sây. ↩︎
-
पुनरुत्सृष्टो गौरीग्नीषोमीये । का० श्रौ० सू० १५ । १४ । ↩︎
-
‘कलापकार’ इति क्व० पा० । ↩︎
-
45:1 On the identification of Vr̥tra with the moon (and Soma), see I, 6, 3, 27. On the moon serving as food to the gods, see part ii, Introduction, p. xiii. According to a later conception, one kalā (or sixteenth part of the moon’s disc) was taken off each day during the period of the waning, and again added to it during the period of the waxing moon. ↩︎
-
45:2 Utsarjam . . . ghnanti; perhaps the former has to be taken here as infinitive (in order to set him at liberty) rather than as gerund. ↩︎
-
अनड्वान् सांड ऐंद्राग्ने । का० श्रौ० सू० १५ । १५ । ↩︎
-
46:1 Cp. I, 1, 2, 9, ‘(Like) fire, verily, is the yoke of that cart: hence the shoulder of those (oxen) that draw it becomes as if burnt by fire.’ ↩︎
-
46:2 For the Āgrayaṇeshṭi, see part i, p. 369 seq. ↩︎
-
46:3 For the four Cāturmāsya (enumerated in the next chapter), see part i, p. 383 seq. ↩︎