०१
विश्वास-प्रस्तुतिः
बार्हस्पत्ये᳘न चरु᳘णा प्र᳘चरति॥
तस्या᳘निष्ट ऽएव᳘ स्विष्टकृद्भ᳘वत्य᳘थास्मा ऽअ᳘न्नᳫँ᳭ स᳘म्भरत्य᳘न्नं वा᳘ ऽएष ऽउ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्त᳘दे᳘वास्मा ऽएतत्स᳘म्भरति॥
मूलम् - श्रीधरादि
बार्हस्पत्ये᳘न चरु᳘णा प्र᳘चरति॥
तस्या᳘निष्ट ऽएव᳘ स्विष्टकृद्भ᳘वत्य᳘थास्मा ऽअ᳘न्नᳫँ᳭ स᳘म्भरत्य᳘न्नं वा᳘ ऽएष ऽउ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्त᳘दे᳘वास्मा ऽएतत्स᳘म्भरति॥
मूलम् - Weber
बार्हस्पत्ये᳘न चरु᳘णा प्र᳘चरति॥
तस्या᳘निष्ट एव᳘ स्विष्टकृद्भ᳘वत्य᳘थास्मा अ᳘न्नᳫं स᳘म्भरत्य᳘न्नं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫं ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘देॗवैतद᳘न्नमुद᳘जैषीत्त᳘देॗवास्मा एतत्स᳘म्भरति॥
मूलम् - विस्वरम्
बार्हस्पत्येन चरुणा प्रचरति । तस्यानिष्ट एव स्विष्टकृद्भवति । अथास्मा ऽअन्नं सम्भरति । अन्नं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नपेयं ह वै नामैतद्- यद्वाजपेयम् । तद्यदेवैतदन्नमुदजैषीत्- तदेवास्मा ऽएतत् सम्भरति ॥ १ ॥
सायणः
अथ नैवारचरुप्रचारं विधत्ते- बार्हस्पत्येनेति 1 । प्रधाननैवाराहुतेरनन्तरं कर्त्तव्यं वाजप्रसवोयहोमं विधातुं कालं विधत्ते- तस्यानिष्ट एवेति । ‘तस्य’ नैवारस्य स्विष्टकृत् ‘अनिष्टः’ अनिष्टकृद् ‘भवति’ प्रधानयागादूर्ध्वं स्विष्टकृतः प्रागित्यर्थः । होमार्थमन्नसम्भरणं विधत्ते- अथास्मा इति । ‘अस्मै’ यजमानाय अभिषेकार्थम् ‘अन्नं सम्भरेत्’ ॥ १ ॥
Eggeling
- He now proceeds with the Bārhaspatya pap. Its svishṭakr̥t remains yet unoffered, when he (the Adhvaryu) brings 2 him (the Sacrificer) some food; for he who offers the Vājapeya wins food, vājapeya being the same as anna-peya: thus whatever food he (the Sacrificer) has thereby gained, that he (the Adhvaryu) now brings to him.
०२
विश्वास-प्रस्तुतिः
(त्यौ᳘) औ᳘दुम्बरे पात्रे᳘[[!!]]॥
(त्रे᳘ ऽन्नं) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऽऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरे पा᳘त्रे᳘ सो ऽप᳘ एव᳘ प्रथमाः स᳘म्भरत्य᳘थ पयो᳘ ऽथ यथोपस्मा᳘रम᳘न्नानि॥
मूलम् - श्रीधरादि
(त्यौ᳘) औ᳘दुम्बरे पात्रे᳘[[!!]]॥
(त्रे᳘ ऽन्नं) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऽऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरे पा᳘त्रे᳘ सो ऽप᳘ एव᳘ प्रथमाः स᳘म्भरत्य᳘थ पयो᳘ ऽथ यथोपस्मा᳘रम᳘न्नानि॥
मूलम् - Weber
औ᳘दुम्बरे पा᳘त्रे॥
अ᳘न्नं वा ऊ᳘र्गुदुम्ब᳘र ऊॗर्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरे पा᳘त्रेॗ सो ऽप᳘ एव᳘ प्रथमाः स᳘म्भरत्य᳘थ पयो᳘ ऽथ यथोपस्मारम᳘न्नानि॥
मूलम् - विस्वरम्
औदुम्बरे पात्रे । अन्नं वा ऽऊर्गुदुम्बरः । ऊर्जो ऽन्नाद्यस्यावरुद्ध्यै । तस्मादौदुम्बरे पात्रे । सो ऽप एव प्रथमाः सम्भरति, अथ पयः, अथ यथोपस्मारमन्नानि ॥ २ ॥
सायणः
अन्नसम्भरणार्थं पात्रविशेषं विधत्ते- औदुम्बरमिति 1 । तत्र प्रथममपां सम्भरणं विधत्ते- सो ऽप एवेति । प्रथमम् ‘अपः’ जलानि सम्भरेत् । ‘अथ पयः’ क्षीरं तदनन्तरम् ‘यथोपस्मारम्’ उपस्मृतिमनतिक्रम्य ‘अन्नानि’ सम्भरेत्, यानि तदा स्मृतिपथमवतरन्ति तानीत्यर्थः 3 । तत्र ग्राम्यारण्यभेदेन चतुर्दशान्नान्यापस्तम्बेन सूत्रितानि, तान्यपि यथोपस्मारपदेन ग्राह्याणि- “तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवाराः जर्त्तिलाश्च गवेधुका अरण्यजा मर्कटका विज्ञेया गार्मुतसप्तमाः कुलत्थसप्तमा वा”- (का. श्रौ. सू. १७ । ११ । ३) इति । बुद्धिस्थानि यानि वा, तानि सम्भरेत् ॥ २ ॥
Eggeling
- In a vessel of udumbara wood–the Udumbara tree being sustenance, (that is) food–for the obtainment of sustenance, food: therefore it is in a vessel of udumbara wood. He first brings water, then milk, then (other) kinds of food, as they occur to him.
०३
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
सप्त᳘दशा᳘न्नानि स᳘म्भरन्ति सप्तदशः᳘ प्रजा᳘पतिरि᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्प्रजा᳘पते᳘र्न्वेव स᳘र्व्वम᳘न्नम᳘नवरुद्धं क᳘ ऽउ त᳘स्मै मनु᳘ष्यो यः स᳘र्व्वम᳘न्नमवरुन्धीत᳘ त᳘स्मादु स᳘र्व्वमेवा᳘न्नं यथोपस्मा᳘रᳫँ᳭ सम्भ᳘रन्ने᳘कम᳘न्नं न स᳘म्भरेत्॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
सप्त᳘दशा᳘न्नानि स᳘म्भरन्ति सप्तदशः᳘ प्रजा᳘पतिरि᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्प्रजा᳘पते᳘र्न्वेव स᳘र्व्वम᳘न्नम᳘नवरुद्धं क᳘ ऽउ त᳘स्मै मनु᳘ष्यो यः स᳘र्व्वम᳘न्नमवरुन्धीत᳘ त᳘स्मादु स᳘र्व्वमेवा᳘न्नं यथोपस्मा᳘रᳫँ᳭ सम्भ᳘रन्ने᳘कम᳘न्नं न स᳘म्भरेत्॥
मूलम् - Weber
तद्धै᳘के॥
सप्त᳘दशा᳘न्नानि स᳘म्भरन्ति सप्तदशः᳘ प्रजा᳘पतिरि᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्प्रजा᳘पतेॗर्न्वेव स᳘र्वम᳘न्नम᳘नवरुद्धं क᳘ उ त᳘स्मै मनुॗष्यो यः स᳘र्वम᳘न्नमवरुन्धीत त᳘स्मादु स᳘र्वमेवा᳘न्नं यथोपस्मा᳘रᳫं सम्भ᳘रन्ने᳘कम᳘न्नं न स᳘म्भरेत्॥
मूलम् - विस्वरम्
तद्धैके सप्तदशान्नानि सम्भरन्ति । सप्तदशः प्रजापतिरिति वदन्तः । तदु तथा न कुर्यात् । प्रजापतेर्न्वेव सर्वमन्नमवरुद्धम् । क उ तस्मै मनुष्यो- यः सर्वमन्नमवरुन्धीत । तस्मादु सर्वमेवान्नं यथोपस्मारं सम्भरन्नेकमन्नं न सम्भरेत् ॥ ३ ॥
सायणः
‘यथोपस्मारमन्नानि संबिभृयात्’- इत्यत्र सङ्ख्याया अनुक्तेः यावन्ति स्मर्यमाणानि तावन्ति सम्भरेदित्यर्थो भवति, तत्र सङ्ख्याविशेषं पूर्वपक्षयति- तद्धैक इति । ‘सप्तदश’ सप्तदश-संख्याकानि ‘अन्नानि’ ‘सम्भरन्ति ।’ तत्रोपपत्तिमाह- सप्तदशः प्रजापतिरितीति । प्रजापतेः सप्तदशत्वं प्रागुक्तम् (श. प. ५ । १ । २११ ।) भाष्ये । तन्मतं निराचष्टे- तदु तथेति । प्रजापतेः- इति । अस्यायमर्थः,-पूर्वं प्रजापतेरपि सकलमन्नं न वशीकृतम्, इदानीं ‘तस्मै’ प्रजापत्यर्थं ‘मनुष्यः’ ‘कः’ समर्थः ? सर्वान्नावरोधने; तस्माद् यावत्स्मृति सम्भर्त्तव्यानीति । बुद्धिस्थानामपि सर्वेषां सम्भरणे प्राप्ते एकस्य निषेधति- एकमन्नमिति 4 ॥ ३ ॥
Eggeling
- Now some bring seventeen kinds of food,
saying, ‘Seventeenfold is Prajāpati.’ But let him not do so: surely all the food is not appropriated to Prajāpati 5, and, compared to him, what is man that he should appropriate to himself all food? Hence, while bringing every kind of food that occurs to him, let him not bring of some one (particular) kind of food.
०४
विश्वास-प्रस्तुतिः
स यन्न᳘ सम्भ᳘रति॥
तस्यो᳘द्ब्रुवीत᳘ त᳘स्य᳘ नाश्नीयाद्यावज्जी᳘वं त᳘था ना᳘न्तमेति त᳘था ज्यो᳘ग्जीवति स᳘ ऽएत᳘स्य स᳘र्वस्यान्ना᳘द्यस्य स᳘म्भृतस्य स्रुवे᳘णोपघा᳘तं वाजप्रसवी᳘यानि जुहोति तद्या᳘भ्य ऽए᳘वैत᳘द्देव᳘ताभ्यो जुहो᳘ति ता᳘ ऽअस्मै प्र᳘सुवन्ति ता᳘भिः प्र᳘सूत ऽउ᳘ज्जयति त᳘स्माद्वाजप्रसवी᳘यानि जुहोति॥
मूलम् - श्रीधरादि
स यन्न᳘ सम्भ᳘रति॥
तस्यो᳘द्ब्रुवीत᳘ त᳘स्य᳘ नाश्नीयाद्यावज्जी᳘वं त᳘था ना᳘न्तमेति त᳘था ज्यो᳘ग्जीवति स᳘ ऽएत᳘स्य स᳘र्वस्यान्ना᳘द्यस्य स᳘म्भृतस्य स्रुवे᳘णोपघा᳘तं वाजप्रसवी᳘यानि जुहोति तद्या᳘भ्य ऽए᳘वैत᳘द्देव᳘ताभ्यो जुहो᳘ति ता᳘ ऽअस्मै प्र᳘सुवन्ति ता᳘भिः प्र᳘सूत ऽउ᳘ज्जयति त᳘स्माद्वाजप्रसवी᳘यानि जुहोति॥
मूलम् - Weber
स यन्न᳘ सम्भ᳘रति॥
तस्यो᳘द्ब्रुवीत त᳘स्यॗ नाश्नीयाद्यावज्जी᳘वं त᳘था ना᳘न्तमेति त᳘था ज्यो᳘ग्जीवति स᳘ एत᳘स्य स᳘र्वस्यान्ना᳘द्यस्य स᳘म्भृतस्य स्रुवे᳘णोपघा᳘तं वाजप्रसवी᳘यानि जुहोति तद्या᳘भ्य एॗवैत᳘द्देव᳘ताभ्यो जुहो᳘ति ता᳘ अस्मै प्र᳘सुवन्ति ता᳘भिः प्र᳘सूत उ᳘ज्जयति त᳘स्माद्वाजप्रसवी᳘यानि जुहोति॥
मूलम् - विस्वरम्
स यन्न सम्भरति- तस्योद्ब्रुवीत । तस्य नाश्नीयाद् यावज्जीवम् । तथा नान्तमेति । तथा ज्योग्जीवति स एतस्य सर्वस्यान्नाद्यस्य सम्भृतस्य स्रुवेणोपघातं वाजप्रसवीयानि जुहोति । तद् याभ्य एवैतद् देवताभ्यो जुहोति । ता ऽअस्मै प्रसुवन्तिः । ताभि प्रसूत उज्जयति । तस्माद्वाजप्रसवीयानि जुहोति ॥ ४ ॥
सायणः
असम्भ्रियमाणान्नविषयं कञ्चिद् विशेषं विधत्ते- स यदिति । ‘यत्’ अन्नं ‘न’ सम्भरेत्, ‘तस्य’ ‘उद्ब्रुवीत’ न सम्भृतमित्युच्चैः तन्नाम ब्रूयात् यथा असम्भृतस्य अन्नस्य यावज्जीवनमभोजनेन ‘अन्तं’ विनाशं ‘न एति,’ ‘ज्योक्’ चिरकालं ‘जीवति ।’ भोक्तव्यस्य सर्वस्य भोगे सति विनाशो भवति, अतस्तदेकमवशिष्य भुञ्जीतेति तात्पर्यम् 6 ॥ विधत्ते- स एतस्येति । मिलितस्य ‘एतस्य’ ‘सर्वस्य’ अन्नस्य एकदेशं ‘स्रुवेण’ ‘उपघातम्’ उपहत्योपहत्य गृहीत्वा ‘वाजप्रसवीयानि जुहोति’ वाजप्रसवशब्दयुक्तमन्त्रकरणकहोमान् कुर्यादित्यर्थः 7 । तद्याभ्य इति । मान्त्रवर्णिकीभ्यो ‘याभ्यः’ अष्टादिदेवताभ्यो हूयते तदैव । ‘ताः’ ‘अस्मै’ यजमानाय एतद्यागफलभूतमन्नमवरोद्धुं ‘प्रसुवन्ति’ अनुजानन्ति, ताभिरनुज्ञातः पश्चात् स्वाधीनं करोतीत्यर्थः ॥ ४ ॥
Eggeling
- And whatever food he does trot bring to him, let him (the Sacrificer) forswear 8 that, and not eat of it as long as he lives: thus he does not go to the end, thus he lives long. Of all that food brought together he offers the (seven) Vāja-prasavanīya 9 oblations, cutting out (pieces) with the dipping-spoon. Thus to whatever deities he is now offering, they give an impulse to him, and impelled by them he
wins: therefore he offers the Vājaprasavanīya oblations.
०५
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
वा᳘जस्येमं᳘ प्रसवः᳘ सुषुवे᳘ ऽग्रे सो᳘मᳫँ᳭ रा᳘जानमो᳘षधीष्वप्सु[[!!]]॥ ता᳘ ऽअस्म᳘भ्यं म᳘धुमतीर्भवंतु व्वय᳘ᳫँ᳘ राष्ट्रे᳘ जागृयाम पुरो᳘हिताः स्वा᳘हा॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
वा᳘जस्येमं᳘ प्रसवः᳘ सुषुवे᳘ ऽग्रे सो᳘मᳫँ᳭ रा᳘जानमो᳘षधीष्वप्सु[[!!]]॥ ता᳘ ऽअस्म᳘भ्यं म᳘धुमतीर्भवंतु व्वय᳘ᳫँ᳘ राष्ट्रे᳘ जागृयाम पुरो᳘हिताः स्वा᳘हा॥
मूलम् - Weber
स᳘ जुहोति॥
वा᳘जस्येम᳘म् प्रसवः᳘ सुषुवे᳘ ऽग्रे सो᳘मं रा᳘जानमोषधीष्वप्सु᳘ ता᳘ अस्म᳘भ्यम् म᳘धुमतीर्भवन्तु वयं᳘ राष्ट्रे᳘ जागृयाम पुरो᳘हिताः स्वा᳘हा॥
मूलम् - विस्वरम्
स जुहोति- “वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमं राजानमोषधीष्वप्सु । ता अस्मभ्यं मधुमतीर्भवन्तु । वयं राष्ट्रे जागृयाम पुरोहिताः स्वाहा” । (१) (वा. सं. ९ । २३) ॥ ५ ॥
सायणः
होममनूद्य मन्त्रान् विधत्ते- स जुहोति वाजस्येममिति । सर्वत्र ‘स्वाहा’- शब्दो हवनलिङ्गम् । प्रथमस्यायमर्थः- ‘अग्रे’ पूर्वं ‘वाजस्य’ अन्नस्य ‘प्रसवः’ उत्पादकः परमेश्वरः ‘ओषधीषु’ ‘अप्सु’ च सारभूतम् ‘इमं सोमं सोमवल्लीरूपं राजानं’ ‘सुषुवे’ उत्पादयामास, ‘ताः’ ओषधय आपश्च ‘अस्मभ्यम्’ अस्मदर्थं ‘मधुमतीः’ माधुर्योपेता भवन्तु । ‘वयम्’ अपि अस्मिन् ‘राष्ट्रे’ ‘पुरोहिताः’ यागानुष्ठानादौ पुरोगामिनो ‘जागृयाम’ जागरूका भूयास्मेति ॥ ५ ॥
Eggeling
- He offers with (Vāj. S. IX, 23-29), ‘The impulse of strength impelled of old that king Soma in the plants, in the waters: may they be rich in honey for us! may we be wakeful in the kingdom, placed in the front, hail!’
०६
विश्वास-प्रस्तुतिः
व्वा᳘जस्येमा᳘म्॥
(म्प्र) प्रसवः᳘ शिश्रिये दि᳘वमिमा᳘ च व्वि᳘श्वा भु᳘वनानि सम्म्राट्॥ अ᳘दित्स᳘न्तं दापयति प्रजानन्त्स᳘ नो रयिᳫँ᳭ स᳘र्व्ववीरं नि᳘यच्छतु स्वा᳘हा॥
मूलम् - श्रीधरादि
व्वा᳘जस्येमा᳘म्॥
(म्प्र) प्रसवः᳘ शिश्रिये दि᳘वमिमा᳘ च व्वि᳘श्वा भु᳘वनानि सम्म्राट्॥ अ᳘दित्स᳘न्तं दापयति प्रजानन्त्स᳘ नो रयिᳫँ᳭ स᳘र्व्ववीरं नि᳘यच्छतु स्वा᳘हा॥
मूलम् - Weber
वा᳘जस्येमा᳘म्॥
प्रसवः᳘ शिश्रिये दि᳘वमिमा᳘ च वि᳘श्वा भु᳘वनानि सम्रा᳘ट् अ᳘दित्सन्तं दापयति प्रजानन्त्स᳘ नो रयिᳫं स᳘र्ववीरं नि᳘यछतु स्वा᳘हा॥
मूलम् - विस्वरम्
“वाजस्येमां प्रसवः शिश्रिये दिवम्, इमा च विश्वा भुवनानि सम्म्राट् । अदित्सन्तं दापयति प्रजानन् स नो रयिं सर्ववीरं नियच्छतु स्वाहा” । (२) (वा. सं. ९ । २४) ॥ ६ ॥
सायणः
अथ द्वितीयः- वाजस्येमामिति । ‘वाजस्य प्रसवः’ ईश्वरः ‘इमां’ भूमिं ‘दिवम्’ इमानि चान्यानि सर्वाणि ‘भुवनानि’ ‘शिश्रिये’ आश्रितवान् । स च ‘सम्राट्’ सर्वेषां भुवनानां भूत्वा ‘अदित्सन्तं’ दातुमनिच्छन्तं भोग्यं ‘प्रजानन्’ ‘दापयति’ धनम् । ततः सः ‘नः’ अस्मभ्यं ‘सर्ववीरं’ पुत्रादियुक्तं ‘रयिं’ धनं ‘नियच्छतु’ ददातु ॥ ६ ॥
Eggeling
- ‘The impulse of strength spread over this sky, and over all these worlds, as the all-ruler; knowing he causeth him to give gifts who wisheth not to give: may he bestow upon us wealth with the full muster of heroes, hail!’
०७
विश्वास-प्रस्तुतिः
व्वा᳘जस्य नु᳘॥
प्रसव ऽआ᳘बभूवेमा᳘ च व्वि᳘श्वा भु᳘वनानि सर्व्व᳘तः॥ स᳘नेमि रा᳘जा प᳘रियाति व्विद्वा᳘न्प्रजां पु᳘ष्टिं व्वर्द्ध᳘यमानो ऽअस्मे स्वा᳘हा॥
मूलम् - श्रीधरादि
व्वा᳘जस्य नु᳘॥
प्रसव ऽआ᳘बभूवेमा᳘ च व्वि᳘श्वा भु᳘वनानि सर्व्व᳘तः॥ स᳘नेमि रा᳘जा प᳘रियाति व्विद्वा᳘न्प्रजां पु᳘ष्टिं व्वर्द्ध᳘यमानो ऽअस्मे स्वा᳘हा॥
मूलम् - Weber
वा᳘जस्य नु᳟॥
प्रसव आ᳘बभूवेमा᳘ च वि᳘श्वा भु᳘वनानि सर्व᳘तः स᳘नेमि रा᳘जा प᳘रियाति विद्वा᳘न्प्रजाम् पु᳘ष्टिं वर्ध᳘यमानो अस्मे स्वा᳘हा॥
मूलम् - विस्वरम्
“वाजस्य तु प्रसव आबभूव, इमा च विश्वा भुवनानि सर्वतः । सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्द्धयमानो ऽअस्मे स्वाहा” (३) (वा० सं० ९ । २५) ॥ ७ ॥
सायणः
अथ तृतीयः;- वाजस्य न्विति । ‘वाजस्य प्रसवः’ ‘नु’ खलु ‘इमा’ इमानि ‘विश्वा’ सर्वाणि ‘भुवनानि’ सर्वतः ‘आबभूव’ व्याप्नोत् । ‘सनेपि’- इति पुराणवचनम् (निघं० ३ । २८ । ४) इति । ‘सः’ चिरन्तनो ‘राजा’ ‘परियाति’ सर्वतः सञ्चरति । ‘विद्वान्’ अनुष्ठीयमानं कर्म प्रजानन् । ‘अस्मे’ अस्मदर्थं ‘प्रजां’ ‘पुष्टिं’ च ‘वर्द्धयमानः’ परियातीति सम्बन्धः ॥ ७ ॥
Eggeling
- ‘Yea, the impulse of strength prevailed over all these worlds, on every side; from days of yore the king goeth about knowing, increasing the people, and the well-being amongst us, hail!’
०८
विश्वास-प्रस्तुतिः
सो᳘मᳫँ᳭ रा᳘जानम्॥ (म᳘) अ᳘वसे ऽग्नि᳘मन्वा᳘रभामहे। आदित्यान्वि᳘ष्णुᳫं᳭ सू᳘र्यं ब्रह्मा᳘णं च बृ᳘हस्प᳘तिᳫँ᳭ स्वा᳘हा॥
मूलम् - श्रीधरादि
सो᳘मᳫँ᳭ रा᳘जानम्॥ (म᳘) अ᳘वसे ऽग्नि᳘मन्वा᳘रभामहे। आदित्यान्वि᳘ष्णुᳫं᳭ सू᳘र्यं ब्रह्मा᳘णं च बृ᳘हस्प᳘तिᳫँ᳭ स्वा᳘हा॥
मूलम् - Weber
सो᳘मं रा᳘जानम् अ᳘वसे ऽग्नि᳘मन्वा᳘रभामहे॥
आदित्यान्वि᳘ष्णुᳫं सू᳘र्यम् ब्रह्मा᳘णं च बृ᳘हस्प᳘तिᳫं स्वा᳘हा॥
मूलम् - विस्वरम्
“सोमं राजानमवसे ऽग्निमन्वारभामहे । आदित्यान्, विष्णुम्, सूर्यम्, ब्रह्माणं च बृहस्पतिम्, स्वाहा” (४) (वा. सं. ९ । २६) ॥ ८ ॥
सायणः
अथ चतुर्थः;- सोममिति । वयं सोमादीन् देवान् ‘अवसे’ रक्षणाय तर्पणाय वा ‘अन्वारभामहे’ ते सर्वे अनुगृह्णन्त्विति वाक्यशेषः ॥ ८ ॥
Eggeling
- ‘To king Soma, to Agni we cling 10 for help, to the Ādityas, to Vishṇu, to Sūrya, to the Brahman Br̥haspati, hail!’
०९
विश्वास-प्रस्तुतिः
(हा ऽर्य) अर्यम᳘णं बृ᳘हस्प᳘तिम्॥
(मि᳘) इ᳘न्द्रं दा᳘नाय चोदाय। व्वा᳘चं व्वि᳘ष्णुᳫँ᳭ स᳘रस्वतीᳫँ᳭ सविता᳘रं च व्वाजि᳘नᳫँ᳭ स्वा᳘हा॥
मूलम् - श्रीधरादि
(हा ऽर्य) अर्यम᳘णं बृ᳘हस्प᳘तिम्॥
(मि᳘) इ᳘न्द्रं दा᳘नाय चोदाय। व्वा᳘चं व्वि᳘ष्णुᳫँ᳭ स᳘रस्वतीᳫँ᳭ सविता᳘रं च व्वाजि᳘नᳫँ᳭ स्वा᳘हा॥
मूलम् - Weber
अर्यम᳘णम् बृ᳘हस्प᳘तिम्॥
इ᳘न्द्रं दा᳘नाय चोदाय वा᳘चं वि᳘ष्णुᳫं स᳘रस्वतीᳫं सविता᳘रं च वाजि᳘नᳫं स्वा᳘हा॥
मूलम् - विस्वरम्
“अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं स्वाहा” (५) (वा. सं. ९ । २७) ॥ ९ ॥
सायणः
अथ पञ्चमः;- अर्यमणमिति । हे वाजस्य प्रसव त्वमर्यमादीन् ‘दानाय चोदय’ अस्मभ्यं धनदानार्थं प्रेरय । वाक्सरस्वत्योरीषद्भेदो द्रष्टव्यः ॥ ९ ॥
Eggeling
- ‘Urge thou Aryaman, Br̥haspati, Indra to the giving of gifts, Vāc 11, Vishṇu, Sarasvatī, and the vigorous Savitr̥, hail!’
१०
विश्वास-प्रस्तुतिः
(हा᳘ ऽग्ने) अ᳘ग्ने ऽअ᳘च्छा॥
व्वदेह᳘ नः प्र᳘ति नः सुम᳘ना भव। प्र᳘ नो यच्छ सहस्रजित्त्वᳫँ᳭ हि᳘ धनदा अ᳘सि स्वा᳘हा॥
मूलम् - श्रीधरादि
(हा᳘ ऽग्ने) अ᳘ग्ने ऽअ᳘च्छा॥
व्वदेह᳘ नः प्र᳘ति नः सुम᳘ना भव। प्र᳘ नो यच्छ सहस्रजित्त्वᳫँ᳭ हि᳘ धनदा अ᳘सि स्वा᳘हा॥
मूलम् - Weber
अ᳘ग्ने अ᳘छा 12 ॥
वदेह᳘ नः प्र᳘ति नः सुम᳘ना भव प्र᳘ नो यछ सहस्रजित्त्वᳫं हि᳘ धनदा अ᳘सि स्वा᳘हा॥
मूलम् - विस्वरम्
“अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र नो यच्छ सहस्रजित्; त्वं हि धनदा असि स्वाहा” (६) (वा. सं. ९ । २८) ॥ १० ॥
सायणः
अथ षष्ठः;- अग्ने अच्छेति । हे ‘अग्ने !’ ‘इह’ अस्मिन् कर्मणि ‘नः’ अस्माकम् ‘अच्छ’ आभिमुख्येन ‘वद’ हित कथय । ‘नः’ अस्मान् प्रति ‘सुमनाः’ करुणार्द्रचित्तो भव । हे सहस्रजित् ! सहस्रस्य धनस्य जेतः ‘हि’ हेतौ । यतः ‘त्वं’ स्वभावतो ‘धनदा असि’ अतः ‘नः’ अस्मभ्यं ‘प्रयच्छ’ धनमिति शेष ॥ १० ॥
Eggeling
- ‘O Agni, speak to us here, be thou gracious unto us! bestow blessings upon us, O winner of thousands, for thou art the giver of wealth, hail!’
११
विश्वास-प्रस्तुतिः
प्र᳘ नः॥
(नो) यच्छत्वर्यमा प्र᳘ पूषा प्रबृ᳘हस्प᳘तिः। प्र वा᳘ग्देवी᳘ ददातु नः स्वाहेति[[!!]]॥
मूलम् - श्रीधरादि
प्र᳘ नः॥
(नो) यच्छत्वर्यमा प्र᳘ पूषा प्रबृ᳘हस्प᳘तिः। प्र वा᳘ग्देवी᳘ ददातु नः स्वाहेति[[!!]]॥
मूलम् - Weber
प्र᳘ नः॥
यछत्वर्यमा प्र᳘ पूषा प्र बृ᳘हस्प᳘तिः प्र वा᳘ग्देवी᳘ ददातु नः स्वाहे᳘ति॥
मूलम् - विस्वरम्
“प्र नो यच्छत्वर्यमा, प्र पूषा, प्र बृहस्पतिः । प्र वाग्देवी ददातु नः स्वाहा”- (७) (वा. सं. ९ । २९) इति ॥ ११ ॥
सायणः
अथ सप्तमः;- प्र न इति । अर्यमादयो ‘नः’ अस्मभ्यं धनं प्रयच्छन्तु । पूषादिदेवतान्तरवाचकपदे ऽपि क्रियापदस्यानुषङ्गं द्योतयितुं पृथक् पृथक् प्रोपसर्गप्रयोगः, ‘प्र’ ‘ददातु’ प्रकर्षेण प्रयच्छत्विति ॥ ११ ॥
Eggeling
- ‘May Aryaman bestow blessings upon us, and Pūshan, and Br̥haspati! may the divine Vāc give us gifts, hail!’
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनं प᳘रिशिष्टेनाभि᳘षिञ्चति॥
(त्य) अन्ना᳘द्येनै᳘वैनमेत᳘दभि᳘षिञ्चत्यन्ना᳘द्यमे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादेनं प᳘रिशिष्टेनाभि᳘षिञ्चति᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनं प᳘रिशिष्टेनाभि᳘षिञ्चति॥
(त्य) अन्ना᳘द्येनै᳘वैनमेत᳘दभि᳘षिञ्चत्यन्ना᳘द्यमे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादेनं प᳘रिशिष्टेनाभि᳘षिञ्चति᳘॥
मूलम् - Weber
अ᳘थैनम् प᳘रिशिष्टेनाभि᳘षिञ्चति॥
अन्ना᳘द्येनैॗवैनमेत᳘दभि᳘षिञ्चत्यन्ना᳘द्यमेॗवास्मिन्नेत᳘द्दधाति त᳘स्मादेनम् प᳘रिशिष्टेनाभि᳘षिञ्चति॥
मूलम् - विस्वरम्
अथैनं परिशिष्टेनाभिषिञ्चति । अन्नाद्येनैवैनमेतदभिषिञ्चति । अन्नाद्यमेवास्मिन्नेतद्दधाति । तस्मादेनं परिशिष्टेनाभिषिञ्चति ॥ १२ ॥
सायणः
हुतशेषस्यान्नस्य विनियोगं दर्शयति- अथैनमिति । अथ ‘एनं’ सुन्वन्तं यजमानं ‘परिशिष्टेन’ अन्नेन अभिषिञ्चेत् हुतशेषाभिषेकेण यजमाने अन्नमेव निहितवान् भवति 13 ॥ १२ ॥
Eggeling
- With the remaining (offering material) he sprinkles him (the Sacrificer); he thereby sprinkles
him with food, bestows food upon him: for this reason he sprinkles him with the remaining (material) 14.
१३
विश्वास-प्रस्तुतिः
सो ऽभि᳘षिञ्चति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामि᳘ति देवहस्तै᳘रे᳘वैनमेत᳘दभि᳘षिञ्चति स᳘रस्वत्यै व्वाचो᳘ यन्तु᳘र्यन्त्रि᳘ये दधामी᳘ति व्वाग्वै स᳘रस्वती त᳘देनं व्वाच᳘ ऽएव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति॥
मूलम् - श्रीधरादि
सो ऽभि᳘षिञ्चति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यामि᳘ति देवहस्तै᳘रे᳘वैनमेत᳘दभि᳘षिञ्चति स᳘रस्वत्यै व्वाचो᳘ यन्तु᳘र्यन्त्रि᳘ये दधामी᳘ति व्वाग्वै स᳘रस्वती त᳘देनं व्वाच᳘ ऽएव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति॥
मूलम् - Weber
सो ऽभि᳘षिञ्चति॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्यामि᳘ति देवहस्तै᳘रेॗवैनमेत᳘दभि᳘षिञ्चति स᳘रस्वत्यै वाचो᳘ यन्तु᳘र्यन्त्रि᳘ये 15 दधामी᳘ति वाग्वै स᳘रस्वती त᳘देनं वाच᳘ एव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति॥
मूलम् - विस्वरम्
सो ऽभिषिञ्चति- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्”- इति । देवहस्तैरेवैनमेतदभिषिञ्चति । “सरस्वत्यै वाचो यन्तुयन्त्रिये दधामि”- इति । वाग्वै सरस्वती । तदेनं वाच एव यन्तुर्यन्त्रिये दधाति ॥ १३ ॥
सायणः
अभिषेकमनूद्य मन्त्रं विधत्ते- स इति । देवस्य त्वेति । व्याख्यातः । ‘सरस्वत्यै’ षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) सरस्वत्याः ‘वाचः’ ‘यन्तुः’ अन्तर्यामिणश्च ‘यन्त्रिये’ नियमे अभ्यनुज्ञायां ‘निदधामि’ इति ॥ १३ ॥
Eggeling
- He sprinkles with (Vāj. S. IX, 30), ‘At the impulse of the divine Savitr̥, (I sprinkle) thee, by the arms of the Aśvins, by the hands of Pūshan!’ he thus sprinkles (consecrates) him by the hands of gods;–‘I place thee in the leading of Sarasvatī Vāc, the leader;’ for Sarasvatī is Vāc (speech): he thus places him in the leading of Vāc, the leader.
१४
विश्वास-प्रस्तुतिः
त᳘दु है᳘क ऽआहुः॥
(र्व्वि᳘) व्वि᳘श्वेषां त्वा देवा᳘नां यन्तु᳘र्यन्त्रि᳘ये दधामी᳘ति स᳘र्व्वं वै व्वि᳘श्वे देवास्त᳘देनᳫँ᳭[[!!]] स᳘र्व्वस्यैव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति त᳘दु त᳘था न᳘ ब्रूयात्स᳘रस्वत्यै त्वा व्वाचो᳘ यन्तु᳘र्यन्त्रि᳘ये दधामी᳘त्येव᳘ ब्रूयाद्वाग्वै स᳘रस्वती त᳘देनं व्वाच᳘ ऽएव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति बृ᳘हस्प᳘तेष्ट्वा सा᳘म्राज्येनाभि᳘षिञ्चाम्यसावि᳘ति ना᳘म गृह्णाति तद्बृ᳘हस्प᳘तेरे᳘वैनमेतत्सा᳘युज्यᳫँ᳭ सलोक᳘तां गमयति॥
मूलम् - श्रीधरादि
त᳘दु है᳘क ऽआहुः॥
(र्व्वि᳘) व्वि᳘श्वेषां त्वा देवा᳘नां यन्तु᳘र्यन्त्रि᳘ये दधामी᳘ति स᳘र्व्वं वै व्वि᳘श्वे देवास्त᳘देनᳫँ᳭[[!!]] स᳘र्व्वस्यैव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति त᳘दु त᳘था न᳘ ब्रूयात्स᳘रस्वत्यै त्वा व्वाचो᳘ यन्तु᳘र्यन्त्रि᳘ये दधामी᳘त्येव᳘ ब्रूयाद्वाग्वै स᳘रस्वती त᳘देनं व्वाच᳘ ऽएव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति बृ᳘हस्प᳘तेष्ट्वा सा᳘म्राज्येनाभि᳘षिञ्चाम्यसावि᳘ति ना᳘म गृह्णाति तद्बृ᳘हस्प᳘तेरे᳘वैनमेतत्सा᳘युज्यᳫँ᳭ सलोक᳘तां गमयति॥
मूलम् - Weber
त᳘दु है᳘क आहुः॥
वि᳘श्वेषां त्वा देवा᳘नां यन्तु᳘र्यन्त्रि᳘ये दधामी᳘ति स᳘र्वं वै वि᳘श्वे देवा᳘स्तदेनᳫं स᳘र्वस्यैव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति त᳘दु त᳘था न ब्रूयात्स᳘रस्वत्यै त्वा वाचो᳘ यन्तु᳘र्यन्त्रि᳘ये दधामी᳘त्येव᳘ ब्रूयाद्वाग्वै स᳘रस्वती त᳘देनं वाच᳘ एव᳘ यन्तु᳘र्यन्त्रि᳘ये दधाति बृ᳘हस्प᳘तेष्ट्वा सा᳘म्राज्येनाभि᳘षिञ्चाम्यसावि᳘ति ना᳘म गृह्णाति तद्बृ᳘हस्प᳘तेरेॗवैनमेतत्सा᳘युज्यᳫं सलोक᳘तां गमयति॥
मूलम् - विस्वरम्
तदु हैक ऽआहुः- विश्वेषां त्वा देवानां यन्तुर्यन्त्रिये दधामि- इति । सर्वं वै विश्वे देवाः । तदेनं सर्वस्यैव यन्तुर्यन्त्रिये दधाति । तदु तथा न ब्रूयात् । सरस्वत्यै त्वा वाचो यन्तुर्यन्त्रिये दधामि- इत्येव ब्रूयात् । वाग्वै सरस्वती । तदेनं वाच एव यन्तुर्यन्त्रिये दधाति । “बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसौ”- (वा. सं ९ । ३०) इति । नाम गृह्णाति । तद् बृहस्पतेरेवैनमेतत्- सायुज्यं सलोकतां गमयति ॥ १४ ॥
सायणः
अत्र तु ‘सरस्वत्यै वाचः’ इत्यस्य स्थाने ‘सरस्वत्यै त्वा वाचः’ इति युष्मच्छब्दं प्रक्षिप्य प्रयोक्तव्यमिति विधातुं पूर्वपक्षं सोपपत्तिकमुद्भावयति- तदु हैक इति । केचिच्छाखिनः ‘आहुः’ किमिति । ‘सरस्वत्यै वाचः’ इत्यस्य स्थाने ‘विश्वेषां त्वा देवानाम्’ इति प्रक्षिप्य ‘यन्तुः’ इत्यादि पूर्ववद्वक्तव्यमिति स्वमतं दर्शयितुमुक्तम् । परमतं निराकरोति । तदु तथेति । अत एव कात्यायनः- “सरस्वत्यै वाचः स्थाने विश्वेषां त्वा देवानां, सरस्वत्यै त्वेति वा” (का. श्रौ. सू. १४ । ११७ । ११८ ।) इति । ‘बृहस्पतेः’ इत्यादिः पूर्वोक्तमन्त्रशेषः । मन्त्रान्ते असावित्यस्य स्थाने यजमानस्य नाम सम्बुद्ध्यन्तं गृह्णीयात् ॥ १४ ॥
Eggeling
- Here now some say, ‘I place thee in the leading of the leader of all the gods;’ for all the gods are the All: he thus places him in the leading of the leader of the All. But let him not say so; let him rather say, ‘I place thee in the leading of Sarasvatī Vāc;’ for Sarasvatī is Vāc: he thus places him in the leading of Vāc.–‘I consecrate thee, N.N., with the supreme rulership of Br̥haspati!’ therewith he mentions the (Sacrificer’s) name: he thus makes him attain to the fellowship of Br̥haspati, and to co-existence in his world.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाह॥
सम्रा᳘डय᳘मसौ᳘ सम्रा᳘डय᳘मसावि᳘ति नि᳘वेदितमे᳘वैनमेतत्स᳘न्तं देवे᳘भ्यो नि᳘वेदयत्ययं᳘ महा᳘वीर्यो[[!!]] यो᳘ ऽभ्य᳘षेची᳘त्ययं᳘ युष्माकै᳘को ऽभूत्तं᳘ गोपायते᳘त्ये᳘वैत᳘दाह त्रिष्कृ᳘त्व ऽआह त्रिवृद्धि᳘ यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाह॥
सम्रा᳘डय᳘मसौ᳘ सम्रा᳘डय᳘मसावि᳘ति नि᳘वेदितमे᳘वैनमेतत्स᳘न्तं देवे᳘भ्यो नि᳘वेदयत्ययं᳘ महा᳘वीर्यो[[!!]] यो᳘ ऽभ्य᳘षेची᳘त्ययं᳘ युष्माकै᳘को ऽभूत्तं᳘ गोपायते᳘त्ये᳘वैत᳘दाह त्रिष्कृ᳘त्व ऽआह त्रिवृद्धि᳘ यज्ञः[[!!]]॥
मूलम् - Weber
अ᳘थाह॥
सम्रा᳘डय᳘मसौ᳘ सम्रा᳘डय᳘मसावि᳘ति नि᳘वेदितमेॗवैनमेतत्स᳘न्तं देवे᳘भ्यो नि᳘वेदयत्यय᳘म् महा᳘वीॗर्यो यो ऽभ्य᳘षेची᳘त्ययं᳘ युष्माकै᳘को ऽभूत्तं᳘ गोपायते᳘त्येॗवैत᳘दाह त्रिष्कृ᳘त्व आह त्रिवृद्धि᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथाह- ‘सम्राडयमसौ, सम्राडयमसौ’ इति । निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयति । ‘अयं महावीर्यो यो ऽभ्यषेचि’ इति । अयं युष्माकैको ऽभूत्- तं गोपायतेत्येवैतदाह । त्रिष्कृत्व आह त्रिवृद्धि यज्ञः ॥ १५ ॥
सायणः
आवेदनं विधत्ते- अथाह सम्राडिति । अत्रापि असावित्यस्य स्थाने प्रथमान्तं यजमाननाम ग्रहीतव्यम् । एतन्नामा ऽयमभिषिक्तः सम्राट् महावीर्यो जात इति वदेत् । आवेदनवाक्यावृत्तेरभिप्रायमाह- निवेदितमिति । एवं नामग्रहोक्त्या प्रथमं मनुष्येभ्यो ‘निवेदितमेव सन्तम्’ ‘एनम्’ तदेतेन द्वितीयेन सम्राडयमसावित्यनेन ‘देवेभ्यः’ ‘निवेदयति’ ज्ञापयति । किमिति । ‘यः’ यजमानः ‘अभ्यषेचि’ ‘अयं महावीर्यः’ सम्पन्न इति । वाक्यस्य पर्यवसितमर्थमाह- अयं युष्माकेति । ‘अयम्’ अभिषिक्तो यजमानः युष्माकं मध्ये ‘एकः’ ‘अभूत्’ देवत्वं प्राप्तवानित्यर्थः, हे देवा ! तं गोपायतेति । अत्र सूत्रम्- “सम्राडयमसावित्याह नामग्राहं त्रिरुच्चैः” (का. श्रौ. सू. १४ । ११९) इति ॥ तदेतत् त्रित्वं विधत्ते- त्रिष्कृत्व इति । यज्ञस्य त्रिवृत्त्वं सवनत्रयात्मकत्वात् ॥ १५ ॥
Eggeling
- He then says,’ All-ruler is he, N.N.! All-ruler is he, N.N.!’ Him, thus indicated, he thereby indicates to the gods: ‘Of mighty power is he who has been consecrated; he has become one of yours; protect him!’ thus he thereby says. Thrice he says it, for threefold is the sacrifice.
१६
विश्वास-प्रस्तुतिः
(ज्ञो ऽथो᳘) अथो᳘ज्जितीः॥
(र्जु) जुहो᳘ति वा व्वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि व्वाच᳘यति समान᳘ ऽएव ब᳘न्धुः॥
मूलम् - श्रीधरादि
(ज्ञो ऽथो᳘) अथो᳘ज्जितीः॥
(र्जु) जुहो᳘ति वा व्वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि व्वाच᳘यति समान᳘ ऽएव ब᳘न्धुः॥
मूलम् - Weber
अथो᳘ज्जितीः॥
जुहो᳘ति वा वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि वाच᳘यति समान᳘ एव ब᳘न्धुः॥
मूलम् - विस्वरम्
अथोज्जितीर्जुहोति वा वाचयति वा । यदि जुहोति, यदि वाचयति- समान एव बन्धुः ॥ १६ ॥
सायणः
विधत्ते- अथोज्जितीरिति । उज्जयलिङ्गयुक्तमन्त्रकरणिका आहुतय उज्जितयः, ता जुहुयात् । यजमानस्य तन्मन्त्रेण वाचनं वा कार्यमित्यर्थः 16 । ‘बन्धुः’ हवनवाचनस्तावकार्थवादवाक्यशेषः, आम्नास्यमानः समान इत्यर्थः ॥ १६ ॥
Eggeling
- He then either offers, or makes him pronounce (the formulas of) the Ujjiti oblations 17. Whether he offers or makes him pronounce (the formulas), the significance is the same.
१७
विश्वास-प्रस्तुतिः
स᳘ व्वाचयति॥
(त्य) अग्निरे᳘काक्षरेण प्राणमु᳘दजयत्तमु᳘ज्जेषं प्रजा᳘पतिः सप्त᳘दशाक्षरेण सप्तदशᳫँ᳭ स्तो᳘ममु᳘दजयत्तमु᳘ज्जेषमि᳘ति तद्य᳘दे᳘वैता᳘भिरेता᳘ देव᳘ता ऽउद᳘जयंस्त᳘दे᳘वैष᳘ ऽएता᳘भिरु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - श्रीधरादि
स᳘ व्वाचयति॥
(त्य) अग्निरे᳘काक्षरेण प्राणमु᳘दजयत्तमु᳘ज्जेषं प्रजा᳘पतिः सप्त᳘दशाक्षरेण सप्तदशᳫँ᳭ स्तो᳘ममु᳘दजयत्तमु᳘ज्जेषमि᳘ति तद्य᳘दे᳘वैता᳘भिरेता᳘ देव᳘ता ऽउद᳘जयंस्त᳘दे᳘वैष᳘ ऽएता᳘भिरु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - Weber
स᳘ वाचयति॥
अग्निरे᳘काक्षरेण प्राणमु᳘दजयत्तमु᳘ज्जेषम् प्रजा᳘पतिः सप्त᳘दशाक्षरेण सप्तदशᳫं स्तो᳘ममु᳘दजयत्तमु᳘ज्जेषमि᳘ति तद्य᳘देॗवैता᳘भिरेता᳘ देव᳘ता उद᳘जयंस्त᳘देॗवैष᳘ एता᳘भिरु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - विस्वरम्
स वाचयति- “अग्निरेकाक्षरेण प्राणमुदजयत्- तमुज्जेषम् प्रजापतिः सप्तदशाक्षरेण सप्तदशं, स्तोममुदजयत्- तमुज्जेषम्”- (वा० सं० ९ । ३१-३४) इति । तद्यदेवैताभिरेता देवता उदजयन्- तदेवैष एताभिरुज्जयति । सप्तदश भवन्ति । सप्तदशो वै प्रजापतिः । तत् प्रजापतिमुज्जयति ॥ १७ ॥
सायणः
वाचनमनूद्य मन्त्रान् विधत्ते- स वाचयतीति । संहितायाम् “अग्निरेकाक्षरेण”- इत्यनुवाके सप्तदश मन्त्राः पठिताः; अत्र अग्निरेकाक्षरेणेति प्रजापतिः सप्तदशाक्षरेणेत्याद्यन्तयोर्ग्रहणेन सप्तदश मन्त्राः सर्वे ऽपि गृह्यन्त इत्यभिप्रायः । तेषां संग्रहेणायमर्थः; ओश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः स एष सप्तदशः प्रजापतिः"- इति (तै. सं. १६ । ११ । २ । ३) (श. प. ब्रा. १ । ५ । २ । १६ । १७)। सप्तदशाक्षराणि विद्यन्ते । तत्राग्न्यादिसप्तदश देवाः एकाक्षरप्रभृत्येकैकाक्षरवृद्धियुक्तैः प्राणमनुष्यादीन् जितवन्तः । तानग्न्यादिभिर्जितान् प्राणनरादीनहमिदानीम् ‘उज्जेषम्’ उज्जीयासम् । अश्विदेवतादिभिर्मन्त्राक्षरसंख्यानुसारेण द्विपान्मनुष्यत्रिलोकादेर्जयो विज्ञेयः । त्रिवृत्स्तोमगातानामृचां नवसंख्योपेतत्वान्नवाक्षरेण तज्जयो द्रष्टव्यः । त्रयोदशस्तोमादावपि तिसृणां स्तोत्रियाणामृचासावृत्तिविशेषेण तत्संख्या द्रष्टव्या । इममेव तात्पर्यार्थं प्रतिपादयति- तद्यदेवैताभिरिति । ‘एताभिः’ उज्जितिभिः । तेषां मन्त्राणां सप्तदशसंख्यामनूद्य प्रजापत्यात्मना स्तौति- सप्तदशेति ॥ १७ ॥
Eggeling
- He makes him say (Vāj. S. IX, 31-34), ‘With the (word of) one syllable Agni won the breath: may I win that!– – 18 With the (metre of) seventeen syllables Prajāpati won the seventeenfold stoma: may I win that!’ whatever those deities won by means of those (formulas), that he now wins by them. There are seventeen (formulas), for Prajāpati is seventeenfold: he thus wins Prajāpati.
१८
विश्वास-प्रस्तुतिः
(त्य) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रिय᳘त ऽएष वै᳘ प्रजा᳘पतिर्य᳘ ऽएष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘न्मध्यत᳘ ऽए᳘वैत᳘त्प्रजा᳘पतिमु᳘ज्जयति त᳘स्माद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रियत ऽआश्रा᳘व्याहाग्नि᳘ᳫँ᳘ स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(त्य) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रिय᳘त ऽएष वै᳘ प्रजा᳘पतिर्य᳘ ऽएष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘न्मध्यत᳘ ऽए᳘वैत᳘त्प्रजा᳘पतिमु᳘ज्जयति त᳘स्माद᳘न्तरेणा᳘हुती ऽएतत्क᳘र्म क्रियत ऽआश्रा᳘व्याहाग्नि᳘ᳫँ᳘ स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
तद्यद᳘न्तरेणा᳘हुती एतत्क᳘र्म क्रिय᳘त एष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘न्मध्यत᳘ एॗवैत᳘त्प्रजा᳘पतिमु᳘ज्जयति त᳘स्माद᳘न्तरेणा᳘हुती एतत्क᳘र्म क्रियत आश्रा᳘व्याहाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
अथाह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’ इति । तद्यदन्तरेणाहुती ऽएतत् कर्म क्रियते । एष वै प्रजापतिः- य एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः- एतम्वेवाप्येतर्ह्यनुप्रजायन्ते । तन्मध्यत एवैतत् प्रजापतिमुज्जयति । तस्मादन्तरेणाहुती ऽएतत् कर्म क्रियते । आश्राव्याह- ‘अग्निं स्विष्टकृतं यज’- इति । वषट्कृते जुहोति ॥ १८ ॥
सायणः
नैवारहविषः प्रधानस्विष्टकृतोर्मध्ये ऽनुष्ठेयं कर्मजातमुपदर्श्य चोदकप्राप्तं स्विष्टकृद्यागादिकमनुसन्धत्ते- अथाहेत्यादि । “अग्नये स्विष्टकृते ऽनुब्रूहि”- ‘इति’ अध्वर्युर्वदेत् । ‘अनुब्रूहि’ अनुवाक्यां पठेत्यर्थः । अत्र सम्बोध्यो होता । तद्यदन्तरेणेयस्यायमर्थः- नैवारहविः स्विष्टकृद्यागाहुत्योर्मध्ये क्रियमाणेन अन्नसम्भरणवाजप्रसवीयहोमादिना यज्ञरूपं प्रजापतिं जितवान् भवतीति । अनुवचनानन्तरमाश्रावणादिकं प्रकृतिवत् स्विष्टकृतः कार्यमित्यनुक्रमति- आश्राव्येति । ‘वषट्कृते’ होत्रा याज्यान्ते वषट्कारे प्रयुक्ते सति ‘जुहोति’ सौविष्टकृतं हविः ॥ १८ ॥
Eggeling
- Thereupon he says, ‘Recite (the invitatory formula) to Agni Svishṭakr̥t!’ Now, as to why this rite is performed between two oblations. Prajāpati, truly, is that sacrifice which is here performed, and from which these creatures have been produced,–and, indeed, they are even now produced after this one: he thus wins Prajāpati in the very middle: therefore that rite is performed between two oblations. Having made (the Āgnīdhra) utter the
Śraushaṭ, he says, ‘Pronounce the offering-prayer to Agni Svishṭakr̥t!’ and offers as the Vashaṭ is uttered.
१९
विश्वास-प्रस्तुतिः
(त्य) अथे᳘डामा᳘दधाति॥
(त्यु᳘) उ᳘पहूतायामि᳘डायामप᳘ ऽउपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपा᳘करोति त᳘ᳫँ᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ ऽउपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥
मूलम् - श्रीधरादि
(त्य) अथे᳘डामा᳘दधाति॥
(त्यु᳘) उ᳘पहूतायामि᳘डायामप᳘ ऽउपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपा᳘करोति त᳘ᳫँ᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ ऽउपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥
मूलम् - Weber
अथे᳘डामा᳘दधाति॥
उ᳘पहूतायामि᳘डायामप᳘ उपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपा᳘करोति त᳘ᳫं᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ उपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥
मूलम् - विस्वरम्
अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति । माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति । तं स्तोत्राय प्रमीवति । स उपावरोहति । सो ऽन्ते स्तोत्रस्य भवति; अन्ते शस्त्रस्य ॥ १९ ॥
सायणः
अथ स्विष्टकृदनन्तरभावीनि कर्माण्याह- अथेडामिति । माहेन्द्रग्रहणानन्तरं 19 तदीयं पृष्ठं ‘स्तोत्रम्’ ‘उपाकरोति’ आरम्भयेदित्यर्थः । ‘तम्’ आसन्द्यामधिष्ठितमभिविक्तं यजमानं ‘स्तोत्राय’ ‘प्रमीवति’ ज्ञापयेत्, आह्वयेदित्यर्थः । अत्र सूत्रम्- “अवरुह्य गच्छति स्तोत्राय प्रहितः” इति (का. श्रौ. सू. १४ । १२१) । ‘सः’ सुन्वन् ‘उपावरोहति’ आसन्द्याः सकाशात् ‘सः’ एवं स्तोत्रशस्त्रयोः ‘अन्ते’ समीपे स्थितो भवेत् ॥ १९ ॥
Eggeling
- He then puts the Iḍā on (the iḍāpātrī). The Iḍā having been invoked 20, he, having touched water, draws the Māhendra cup. Having drawn the Māhendra cup, he sets the chant agoing 21. He urges him (the Sacrificer) forward to the chant: he gets down (from the throne-seat); he is in attendance at the Stotra, in attendance at the Śastra.
२०
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
(क ऽ) एतत्कृत्वा᳘ ऽथैत᳘त्कुर्व्वन्ति त᳘दु त᳘था न᳘ कुर्यादात्मा वै᳘ स्तोत्रं᳘ प्रजा᳘ शस्त्र᳘मेत᳘स्माद्ध स य᳘जमानं प्र᳘णाश᳘यति स᳘ जिह्म᳘ ऽएति स᳘ ह्वलति त᳘स्मादेत᳘देव᳘ कृत्वा᳘ ऽथैत᳘त्कुर्यात्॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
(क ऽ) एतत्कृत्वा᳘ ऽथैत᳘त्कुर्व्वन्ति त᳘दु त᳘था न᳘ कुर्यादात्मा वै᳘ स्तोत्रं᳘ प्रजा᳘ शस्त्र᳘मेत᳘स्माद्ध स य᳘जमानं प्र᳘णाश᳘यति स᳘ जिह्म᳘ ऽएति स᳘ ह्वलति त᳘स्मादेत᳘देव᳘ कृत्वा᳘ ऽथैत᳘त्कुर्यात्॥
मूलम् - Weber
तद्धै᳘के॥
एतत्कृत्वा᳘थैत᳘त्कुर्वन्ति त᳘दु त᳘था न᳘ कुर्यादात्मा वै᳘ स्तोत्र᳘म् प्रजा᳘ शस्त्र᳘मेत᳘स्माद्ध स य᳘जमानम् प्र᳘णाशयति स᳘ जिह्म᳘ एति स᳘ ह्वलति त᳘स्मादेत᳘देव᳘ कृत्वा᳘थैत᳘त्कुर्यात्॥
मूलम् - विस्वरम्
तद्धैके एतत्कृत्वा ऽथैतत्कुर्वन्ति । तदु तथा न कुर्यात् । आत्मा वै स्तोत्रम्, प्रजा शस्त्रम् । एतस्माद्ध स यजमानं प्रणाशयति । स जिह्म एति । स ह्वलति । तस्मादेतदेव कृत्वा ऽथैतत् कुर्यात् ॥ २० ॥
सायणः
अत्र केचिदुज्जितिवाचनानन्तरं माहेन्द्रग्रहणं स्तोत्रशस्त्रे च कृत्वा स्विष्टकृदादिकं यजमानस्य पश्चादवरोहणमिच्छन्ति तद् दूषयितुमनुवदति- तद्धैक इति । ‘एतत्’ महेन्द्रग्रहणादि होमान्तं तत् कर्म कृत्वा ‘अथ’ अनन्तरम् ‘एतत्’ उक्तं स्विष्टकृदिडोपह्वानान्तं कर्म कुर्वन्ति । अत एव सूत्रकृता शाखान्तरीयं पक्षमङ्गीकृत्योक्तम् “उज्जितिभ्यो वोत्तरो माहेन्द्रः”- (का. श्रौ. सू. १४ । १२२ ।) इति ॥
तद्दूषयति- तदु तथेति । यद्यासन्द्यामाप्तीन एव यजमाने सत्येव आत्मप्रजारूपे स्तोत्रशस्त्रे कुर्यात्, तर्हि ‘यजमानम्’ आत्मप्रज हीनं कुर्यात्; असान्निध्यकरणेनेत्यर्थः । ‘जिह्मः’ कुटिलो गच्छति ‘ह्वलति’ यज्ञपथाद् भ्रश्यति ॥ २० ॥
Eggeling
- Here now some, having performed that, perform that 22; but let him not do it thus; for the Stotra is his (the Sacrificer’s) own self, and the Śastra is his people (or offspring): thereby then he ruins the Sacrificer; he goes astray, he stumbles;–hence having performed that, let him perform that:–
२१
विश्वास-प्रस्तुतिः
(द) अथे᳘डामा᳘दधाति॥
(त्यु᳘) उ᳘पहूतायामि᳘डायामप᳘ ऽउपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपाकरोति त᳘ᳫँ᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ ऽउपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥
मूलम् - श्रीधरादि
(द) अथे᳘डामा᳘दधाति॥
(त्यु᳘) उ᳘पहूतायामि᳘डायामप᳘ ऽउपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपाकरोति त᳘ᳫँ᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ ऽउपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥
मूलम् - Weber
अथे᳘डामा᳘दधाति॥
उ᳘पहूतायामि᳘डायामप᳘ उपस्पृ᳘श्य माहेन्द्रं ग्र᳘हं गृह्णाति माहेन्द्रं ग्र᳘हं गृहीत्वा᳘ स्तोत्र᳘मुपाकरोति त᳘ᳫं᳘ स्तोत्रा᳘य प्र᳘मीवति स᳘ उपा᳘वरोहति सो᳘ ऽन्ते स्तोत्र᳘स्य भ᳘वत्य᳘न्ते शस्त्र᳘स्य॥
मूलम् - विस्वरम्
अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति । माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति । तं स्तोत्राय प्रमीवति । स उपावरोहति । सो ऽन्ते स्तोत्रस्य भवति, अन्ते शस्त्रस्य ॥ २१ ॥
इति वाजपेययज्ञाधिकारः ।
सायणः
अथ उक्त एव पक्षः श्रेयानिति दर्शयितुं पुनः पठति- अथेडामित्यादि । पूर्ववद् ॥ २१ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे द्वितीया ऽध्याये द्वितीयं ब्राह्मणम् ॥ (५-२-२) ॥
Eggeling
- He puts the Iḍā on (the dish). The Iḍā having been invoked, he, having touched water, draws the Māhendra cup. Having drawn the Māhendra cup, he sets the (Pr̥shṭḥa-) Stotra agoing. He urges him (the Sacrificer) forward to the chant: he gets down (from the throne-seat); he is in attendance at the chant (stotra), in attendance at the recitation (śastra).
-
36:2 He collects (sambharati), or provides food for him; this ceremony corresponding to that of equipping or provisioning the sacred fire with the so-called sambharas, at the Agny-ādhāna; see II, 1, 1, 1 seq.; part i, p. 276, note 1. ↩︎
-
सप्तदशान्नान्यावपति । यावत्स्मृति वा । का. श्रौ. सू. १४ । ११०-११२ । सप्तदशान्नानि तु व्रीहयः १ यवाः २ मसूराः ३ गोधूमाः ४ मुद्गाः ५ माषाः ६ तिलाः ७ चणकाः ८ अणवः ९ प्रियंगवः १० कोद्रवाः ११ मकुष्ठकाः १२ कलायाः १३ कुलित्थाः १४ मठाः १५ सर्षपाः १६ अतस्यः १७ इति मुकुटः । पा. सू. ५ । २ । ४ । अत्र पातंजलमहाभाष्ये सप्तदशं धान्यं शणाः १७ इत्युक्तम् । सप्तदशसु ग्राम्यारण्ययोर्भेदः; दशग्राम्याणि अत्रैवाग्रे चतुर्दशे कांडे श्रीमंथकर्मणि प्रतिपादितानि । दश ग्राम्याणि धान्यानि भवंति । व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्चेति । शेषान्यारण्यानि । ↩︎
-
एकवर्जम् । का. श्रौ. सू. १४ । ११३ । ↩︎
-
37:1 Or ‘from Prajāpati;’ or perhaps, ‘surely not all Prajāpati’s food is appropriated.’ The Kāṇva recension reads thus, VI, 2, 3, 3. He first brings water, then milk, then, as they occur to him (other) kinds of food. ‘Let him bring those seventeen kinds of food,’ they say, for Prajāpati is seventeenfold.’ Nevertheless (tadu) let him bring whatever kinds of food he can either think of or obtain. 4. Of this his food that has been brought together, let him set aside (uddharet) one (particular kind of) food: let him forswear that (tad udbruvīta), and not eat of it as long as he lives (yāvaj jīvet). By that much also (or, even so long, tāvad api vai prājapateḥ sarvam annam anavaruddham) all the food of Prajāpati is not appropriated; and who is man (compared) to him, that he should appropriate to himself all food? Thus he does not go to the end, thus he lives long: that (food) is here left over for his offspring (or people). ↩︎
-
अभोजनं तस्योच्छ्वासात् । का. श्रौ. सू. १४ । ११४ । ↩︎
-
स्रुवेण संभृज्जुहोति वाजस्येममिति प्रतिमंत्रम् । का. श्रौ. सू. १४ । ११५ । ↩︎
-
37:2 Sāyaṇa explains ’tasya udbruvīta’ by,–one ought to proclaim it, saying aloud ‘such and such food has not been brought;’–na sambhr̥tam ity uccais tannāma brūyāt. ↩︎
-
37:3 That is, oblations calculated to promote or quicken (pra-su) the strength (food,–vāja) by their prayers, the first three of which begin with ‘vājasya . . . prasavaḥ.’ See p. 2, note 1. In the Black Yajus ritual these oblations are called ‘Annahomāḥ’ or food-oblations. Taitt. Br. I, 3, 8, 1. The Sūtras seem, however, likewise to use the term ‘Vājaprasavanīya’ (or Vājaprasavīya). ↩︎
-
38:1 Rig-veda X, 141, 3 reads,–King Soma, Agni we invoke with our voices, the Ādityas, &c. ↩︎
-
38:2 Rig-veda X, 141, 5 has Vāta (Wind) instead of Vāc (Speech). ↩︎
-
अ᳘छ A. ↩︎
-
शेषेणाभिषिंचति यजमानं देवस्य त्वेति । का० श्रौ० सू० १४ । ११६ । ↩︎
-
39:1 According to the Taittirīyas (Taitt. S., vol. i, p. 1049), the Sacrificer is made to sit on the black antelope skin, with his face to the east, with a small gold and silver plate placed on either side of him; and he is then sprinkled in front, on the head, so that the liquid runs down to his mouth, thus symbolizing the entering of food and strength into him. ↩︎
-
यन्त्र्ये Sây. ↩︎
-
अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वा नैवारस्विष्टकृदिडं करोति माहेंद्रादि च । का० श्रौ० सू० १४ । १२० । ↩︎
-
40:1 That is, oblations of ‘victory,’ with the formulas used therewith, containing each two forms of the verb ud-ji, ’to conquer.’ ↩︎
-
40:2 The intervening formulas here understood, and given in the Vāj. Saṁhitā, are to the effect that the Aśvins, by two syllables, gained the two-footed men; Vishṇu, by three, the three worlds; Soma, by four, the four-footed cattle; Pūshan, by five, the five regions (the four quarters and the upper region); Savitr̥, by six, the six seasons; the Maruts, by seven, the seven kinds of domestic animals; Br̥haspati, by eight, the Gāyatrī metre; Mitra, by nine, the Trivr̥t stoma (hymn-tune); Varuṇa, by ten, the Virāj metre; Indra, by eleven, the Trishṭubh metre; the All-gods, by twelve, the Jagatī metre; the Vasus, by thirteen, the thirteenfold stoma; the Rudras, by fourteen, the fourteenfold stoma; the Ādityas, by fifteen, the fifteenfold stoma; Aditi, by sixteen, the sixteenfold stoma. ↩︎
-
माहेन्द्रग्रहानन्तरम् । इति क्व. पा. । ↩︎
-
41:1 See I, 8, 1, 18 seq. ↩︎
-
41:2 That is, the (first or Hotr̥’s) Pr̥shṭḥa-stotra, for which see above, p. 15, note 1; part ii, p. 339, note 2. Its chanting is followed by the Nishkevalya-śastra, recited by the Hotr̥. ↩︎
-
41:3 That is to say, according to Sāyaṇa,–they make the Svishṭakr̥t, and the rising of the Sacrificer from the throne-seat, take place after the pronunciation of the ‘ujjiti’ formulas, the drawing of the Māhendra cup, and the performance of the Stotra and Śastra. ↩︎