०१
विश्वास-प्रस्तुतिः
अ᳘थ स्रुवं᳘ चाज्यविला᳘पनीं चादा᳘य॥
(या) आहवनी᳘यमभ्यै᳘ति स᳘ ऽएता द्वा᳘दशा᳘प्तीर्जुहो᳘ति वा व्वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि व्वाच᳘यति समान᳘ ऽएव ब᳘न्धुः॥
मूलम् - श्रीधरादि
अ᳘थ स्रुवं᳘ चाज्यविला᳘पनीं चादा᳘य॥
(या) आहवनी᳘यमभ्यै᳘ति स᳘ ऽएता द्वा᳘दशा᳘प्तीर्जुहो᳘ति वा व्वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि व्वाच᳘यति समान᳘ ऽएव ब᳘न्धुः॥
मूलम् - Weber
अ᳘थ स्रुवं᳘ चाज्यविला᳘पनीं चादा᳘य॥
आहवनी᳘यमभ्यै᳘ति स᳘ एता द्वा᳘दशा᳘प्तीर्जुहो᳘ति वा वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि वाच᳘यति समान᳘ एव ब᳘न्धुः॥
मूलम् - विस्वरम्
अथ स्रुवं चाज्यविलापनीं चादायाहवनीयमभ्यैति । स एता द्वादशाप्तीर्जुहोति वा वाचयति वा । यदि जुहोति, यदि वाचयति समान एव बन्धुः ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ द्वितीयाध्यायस्य प्रथमब्राह्मणे यूपारोहणमुच्यते; तत्र प्रथममाप्तिहोमं विधित्सुराह- अथ स्रुवमिति । आज्यं विलाप्यते ऽस्यामित्याज्यविलापनी स्थाली; स्रुववचनं जुहूपभृन्निवृत्त्यर्थम्, अत्र सूत्रम् “द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं, वाचयति वा" (का. श्रौ. सू. १४-९६) इति । होमं विधत्ते- स एता द्वादशेति । द्वादशसंख्याका आप्तिसाधनत्वादाप्त्याख्या आज्याहुतीर्जुहुयात्, “आपये स्वाहा" इत्याप्तिलिङ्गसमवायात् प्राणभृत उपदधातीतिवत् आप्त्यनाप्तिसमुदाये आप्तिशब्दः । विकल्पेन यजमानवाचनं विधत्ते- वाचयति वेति । आप्ती र्जुहुयाद् यजमानं वा वाचयेदित्यर्थः । अत्रोभयत्रार्थवादवाक्यशेषः समान इत्याह- यदि जुहोतीति । ‘बन्धुः’ वाक्यशेषः, “द्वादश वै मासाः"- इत्यादिना वक्ष्यते ॥ १ ॥
Eggeling
- Thereupon, taking the clipping-spoon (sruva) and the pot for melting butter, he goes to the Āhavanīya fire. He either offers those twelve āptis 1, or makes (the Sacrificer) pronounce (the
formulas). Whether he offers, or makes him pronounce (the formulas), the significance is the same.
०२
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
(त्या) आप᳘ये स्वा᳘हा स्वाप᳘ये स्वा᳘हा ऽपिजा᳘य स्वा᳘हा क्र᳘तवे स्वा᳘हा व्व᳘सवे स्वा᳘हा ऽहर्प᳘तये स्वाहा᳘ ऽह्ने मुग्धा᳘य स्वा᳘हा मुग्धा᳘य व्वैनᳫँ᳭शिना᳘य स्वा᳘हा व्विनᳫँ᳭शि᳘न ऽआन्त्यायना᳘य स्वाहा᳘ ऽऽन्त्याय भौवना᳘य स्वा᳘हा भु᳘वनस्य प᳘तये स्वाहा᳘ ऽधिपतये स्वाहे᳘त्येता द्वा᳘दशा᳘प्तीर्जुहोति द्वा᳘दश वै᳘ मा᳘साः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यै᳘वास्या᳘प्तिर्या᳘ सम्पत्ता᳘मे᳘वैतदु᳘ज्जयति ता᳘मात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
(त्या) आप᳘ये स्वा᳘हा स्वाप᳘ये स्वा᳘हा ऽपिजा᳘य स्वा᳘हा क्र᳘तवे स्वा᳘हा व्व᳘सवे स्वा᳘हा ऽहर्प᳘तये स्वाहा᳘ ऽह्ने मुग्धा᳘य स्वा᳘हा मुग्धा᳘य व्वैनᳫँ᳭शिना᳘य स्वा᳘हा व्विनᳫँ᳭शि᳘न ऽआन्त्यायना᳘य स्वाहा᳘ ऽऽन्त्याय भौवना᳘य स्वा᳘हा भु᳘वनस्य प᳘तये स्वाहा᳘ ऽधिपतये स्वाहे᳘त्येता द्वा᳘दशा᳘प्तीर्जुहोति द्वा᳘दश वै᳘ मा᳘साः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यै᳘वास्या᳘प्तिर्या᳘ सम्पत्ता᳘मे᳘वैतदु᳘ज्जयति ता᳘मात्म᳘न्कुरुते॥
मूलम् - Weber
स᳘ जुहोति॥
आप᳘ये स्वा᳘हा स्वाप᳘ये स्वा᳘हापिजा᳘यᳫं स्वा᳘हा क्र᳘तवे स्वा᳘हा व᳘सवे स्वा᳘हाहर्प᳘तये स्वाहा᳘ह्ने मुग्धा᳘य स्वा᳘हा मुग्धा᳘य वैनंशिना᳘य स्वा᳘हा विनंशि᳘न आन्त्यायना᳘य स्वाहा᳘न्त्याय भौवना᳘य स्वा᳘हा भु᳘वनस्य प᳘तये स्वाहा᳘धिपतये स्वाहे᳘त्येता द्वा᳘दशाप्तीर्जुहोति द्वा᳘दश वै᳘ मा᳘साः संवत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्तॗद्यैॗवास्या᳘प्तिर्या᳘ सम्पत्ता᳘मेॗवैतदु᳘ज्जयति ता᳘मात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
स जुहोति- “आपये स्वाहा, स्वापये स्वाहा, अपिजाय स्वाहा, ऋतवे स्वाहा, वसवे स्वाहा, अहर्पतये स्वाहा, अह्ने मुग्धाय स्वाहा, मुग्धाय वैनᳫंशिनाय स्वाहा, विनᳫंशिन ऽआन्त्यायनाय स्वाहा, आन्त्याय भौवनाय स्वाहा, भुवनस्य पतये स्वाहा, अधिपतये स्वाहा”- (वा० सं० ९ । २०) इति । एता द्वादशाप्तीर्जुहोति । द्वादश वै मासाः सम्वत्सरस्य, संवत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । तद् यैवास्याप्तिः, या सम्पत्- तामेवैतदुज्जयति- तामात्मन् कुरुते ॥ २ ॥
सायणः
होममनूद्य द्वादश मन्त्रान् विधत्ते- स जुहोत्यापये स्वाहेति । संवत्सरस्य यज्ञात्मकप्रजापतेरेतानि नामानि । आप्नोतीत्यापिः तस्मै ‘स्वाहा’ सुहुतमस्तु । ‘स्वापये’ शोभनमाप्नुवते देवाय । ‘अपिजाय’ अप्सु जाताय । ‘क्रतवे’ संकल्पाय, यज्ञाय वा । ‘वसवे’ वासकाय । अह्नां पतिः अहर्पतिः संवत्सरः तस्मै । “मुह वैचित्ये” (धा. पा. दि. प. ९२) अपकर्त्तुमजानते ‘अह्ने’ दिवसाय ‘अह्ने मुग्धाय’ इत्येकं नाम । एवमुत्तरत्रापि विशेषणयुक्तमेकैकं नाम । ‘वैनंशिनाय’ विनाशयुक्तेषु हितकारित्वेन वसतीति वैनंशिनः, विनंशिनः पुत्रो वा वैनंशिनः तस्मै । एवमुत्तरत्राप्यपत्यार्थे प्रत्यय इति वेदितव्यम् । ‘विनंशिने’ शत्रुविनाशकाय । अन्त्ये अयने भवः आन्त्यायनः, अन्त्याख्यस्य पुत्राय वा, तस्मै । ‘आन्त्याय’ अन्ते भवाय । ‘भौवनाय’ (तै. सं. १ । ७ । ९ । ६ ॥ ४ । ७ । ११ । २ ॥ ५ । ४ । ९ । १९) भुवनस्यापत्याय । ‘भुवनस्य पतये’ इत्येकं नाम, भुवनस्य पतिः प्रजापतिः, “प्राजापतिर्वै भुवस्यपतिः” (तै. ब्रा. १ । ३ । ७ ऋ. सं ४ । ५३ । २) इति हि तैत्तिरीयकम् । तथा ‘अधिपतये’ इति, अधिपतिः प्रजापत्यात्मको वाजपेययज्ञः । अत्र स्वाहान्त एकैको मन्त्र इत्यर्थः ॥
आहुतिगतां द्वादशसंख्यां प्रशंसति- द्वादश वै मासा इति । अयं वाक्यशेषो होमवाचनयोरुभयोरपि समानः । तद्यैवास्याप्तिरिति । ‘अस्य’ संवत्सरस्य प्रजापत्यात्मकस्य यज्ञस्य ‘या’ ‘आप्तिः’ सर्वात्मकत्वेन व्यापनशक्तिः, ‘या’ ‘सम्पत्’ संवत्सरसमृद्धिः, सर्वात्मकता, तामेतामुभयीमेतेनाप्तिहोमेन जितवान् भवति । जित्वा च ‘ताम्’ ‘आत्मन्’ आत्मनि स्वस्मिन् कृतवान् भवति ॥ २ ॥
Eggeling
- He offers, with (Vāj. S. IX, 20), ‘To the ally, hail!–To the good ally, hail!–To the after-born, hail!–To the purpose, hail!–To the Vasu, hail!–To the Lord of day, hail!–To the failing day, hail!–To the failing one, sprung from the evanescent, hail!–To the evanescent one, sprung from the terminal, hail!–To the terminal descendant of being, hail!–To the Lord of being, hail!–To the over-lord, hail!’ These twelve āptis (obtainments) he offers, because there are twelve months in the year, and Prajāpati is the year, and the sacrifice is Prajāpati: hence whatever obtainment, whatever accomplishment there is for him 2, that he thereby wins, that he makes his own.
०३
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ षट्क्लृ᳘प्तीः॥
(र्जु) जुहो᳘ति वा व्वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि व्वाच᳘यति समान᳘ एव ब᳘न्धुः॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ षट्क्लृ᳘प्तीः॥
(र्जु) जुहो᳘ति वा व्वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि व्वाच᳘यति समान᳘ एव ब᳘न्धुः॥
मूलम् - Weber
अ᳘थ षट् क्ŀ̥प्तीः॥
जुहो᳘ति वा वाच᳘यति वा य᳘दि जुहो᳘ति य᳘दि वाच᳘यति समान᳘ एव ब᳘न्धुः॥
मूलम् - विस्वरम्
अथ षट् क्लृप्तीर्जुहोति वा वाचयति वा । यदि जुहोति यदि वाचयति- समान एव बन्धुः ॥ ३ ॥
सायणः
विधत्ते- अथ षट् क्लृप्तीरिति 3 । ‘क्लृप्तीः’ क्लृपिधातुनिष्पन्नशब्दयुक्तमन्त्रकरणिका आहुतीर्जुहुयात् । मन्त्राणां वाचनं कार्यमिति वा ॥ ३ ॥
Eggeling
- He then either offers six kliptis 4, or makes (the Sacrificer) pronounce them. Whether he offers, or makes him pronounce them, the significance is the same.
०४
विश्वास-प्रस्तुतिः
स᳘ व्वाचयति॥
(त्या᳘) आ᳘युर्यज्ञे᳘न कल्पतां प्राणो᳘ यज्ञे᳘न कल्पतां च᳘क्षुर्यज्ञे᳘न कल्पताᳫँ᳭ श्रो᳘त्रं यज्ञे᳘न कल्पतां पृष्ठं᳘[[!!]] यज्ञे᳘न कल्पतां यज्ञो᳘ यज्ञे᳘न कल्पतामि᳘त्येताः षट्क्लृ᳘प्तीर्व्वाचयति षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यै᳘वास्य क्लृ᳘प्तिर्या᳘ सम्पत्ता᳘मे᳘वैतदु᳘ज्जयति ता᳘मात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
स᳘ व्वाचयति॥
(त्या᳘) आ᳘युर्यज्ञे᳘न कल्पतां प्राणो᳘ यज्ञे᳘न कल्पतां च᳘क्षुर्यज्ञे᳘न कल्पताᳫँ᳭ श्रो᳘त्रं यज्ञे᳘न कल्पतां पृष्ठं᳘[[!!]] यज्ञे᳘न कल्पतां यज्ञो᳘ यज्ञे᳘न कल्पतामि᳘त्येताः षट्क्लृ᳘प्तीर्व्वाचयति षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्त᳘द्यै᳘वास्य क्लृ᳘प्तिर्या᳘ सम्पत्ता᳘मे᳘वैतदु᳘ज्जयति ता᳘मात्म᳘न्कुरुते॥
मूलम् - Weber
स᳘ वाचयति॥
आ᳘युर्यज्ञे᳘न कल्पताम् प्राणो᳘ यज्ञे᳘न कल्पतां च᳘क्षुर्यज्ञे᳘न कल्पतां श्रो᳘त्रं यज्ञे᳘न कल्पताम् पृ᳘ष्ठं यज्ञे᳘न कल्पतां यज्ञो᳘ यज्ञे᳘न कल्पतामि᳘त्येताः षट्क्ŀ̥प्तीर्वाचयति षड्वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञस्तॗद्यैॗवास्य क्ŀ̥प्तिर्या सम्पत्ता᳘मेॗवैतदु᳘ज्जयति ता᳘मात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
स वाचयति- “आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम्, चक्षुर्यज्ञेन कल्पताम्, श्रोत्रं यज्ञेन कल्पताम्, पृष्ठं यज्ञेन कल्पताम्, यज्ञो यज्ञेन कल्पताम्"- इति । एताः षट् क्लृप्तीर्वाचयति । षड्वा ऽऋतवः सम्वत्सरस्य । सम्वत्सरः प्रजापतिः । प्रजापतिर्यज्ञः । तद् यैवास्य क्लृप्तिः, या सम्पत्- तामेवैतदुज्जयति । तामात्मन् कुरुते ॥ ४ ॥
सायणः
वाचनमनूद्य मन्त्रान् विधत्ते- स वाचयतीति । अत्र वाचनविवक्षया मन्त्रान्ते स्वाहाशब्दो न प्रयुक्तः; वचनबलाद्धवनं वा कार्यम्, तदा स्वाहाशब्दः प्रयोक्तव्यः । मन्त्रार्थस्तु- ‘आयुः’ मदीयं, ‘यज्ञेन’ वाजपेयाख्येन ‘कल्पतां’ समर्थं भवतु ‘पृष्ठं’ रथन्तरादि; यद्वा पृष्ठं वंशवदायुःप्राणादेराधारभूतो मध्यदेहः । ‘यज्ञः’ विष्णुः । अन्यत् स्पष्टम् । तामिमां षट्संख्यां प्रशंसति- षड् वा ऋतव इति । हवनवाचनयोरयं वाक्यशेषः समान इत्यर्थः । तद्यैवास्य क्लृप्तिरित्यादि, पूर्ववद् योज्यम् ॥ ४ ॥
Eggeling
- He makes him pronounce (Vāj. S. IX, 21), ‘May the life prosper through sacrifice!–May the breath prosper through sacrifice!–May the eye prosper through sacrifice!–May the ear prosper through sacrifice!–May the back prosper through sacrifice!–May the sacrifice
prosper through sacrifice!’ These six kliptis he makes him pronounce, because there are six seasons in the year, and Prajāpati is the year, and the sacrifice is Prajāpati: thus whatever success, whatever accomplishment there is for him, that he thereby wins, that he makes his own.
०५
विश्वास-प्रस्तुतिः
(ते ऽष्टा᳘) अष्टा᳘श्रिर्यू᳘पो भवति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्र᳘मग्नेश्छ᳘न्दो देवलोक᳘मे᳘वैतेनो᳘ज्जयति सप्तदश᳘भिर्वा᳘सोभिर्यू᳘पो व्वेष्टितो᳘ वा व्वि᳘ग्रथितो वा भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - श्रीधरादि
(ते ऽष्टा᳘) अष्टा᳘श्रिर्यू᳘पो भवति॥
(त्य) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्र᳘मग्नेश्छ᳘न्दो देवलोक᳘मे᳘वैतेनो᳘ज्जयति सप्तदश᳘भिर्वा᳘सोभिर्यू᳘पो व्वेष्टितो᳘ वा व्वि᳘ग्रथितो वा भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - Weber
अष्टाश्रिर्यू᳘पो भवति॥
अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायत्र᳘मग्नेश्छ᳘न्दो देवलोक᳘मेॗवैतेनो᳘ज्जयति सप्तदश᳘भिर्वा᳘सोभिर्यू᳘पो वेष्टितो᳘ वा वि᳘ग्रथितो वा भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - विस्वरम्
अष्टाश्रिर्यूपो भवति । अष्टाक्षरा वै गायत्री । गायत्रमग्नेश्छन्दः । देवलोकमेवैतेनोज्जयति । सप्तदशाभिर्वासोभिर्यूपो वेष्टितो वा विग्रथितो वा भवति । सप्तदशो वै प्रजापतिः । तत्प्रजापतिमुज्जयति ॥ ५ ॥
सायणः
क्लृप्तिवाचनमन्त्रतदर्थाभिज्ञस्य यजमानस्य यूपारोहणं विवक्षुरादौ स्वर्गत्वेन निरूपयिष्यमाणस्य यूपस्य प्राकृतं गुणमनुवदति अष्टाश्रिर्यूप इति । अश्रिगतामष्टसंख्यां प्रशंसति- अष्टाक्षरेति । यतः ‘अग्नेश्छन्दो गायत्रम्’ ततस्तद्रूपत्वाद् देवलोकजयहेतुरष्टाश्रिर्यूप इत्यर्थः । यूपस्य वेष्टनं विधत्ते- सप्तदशभिरिति । ‘वेष्टितः’ यथा यूपो न दृश्यते, तथा छादनं ‘वा’ कार्यम्; ‘विग्रथितः’ यूपस्यैकत्र प्रदेशे वाससां ग्रन्थनं ‘वा’ कार्यम् । वासोगतां संख्यां प्रजापत्यात्मना स्तौति- सप्तदशेति 5 ॥ ५ ॥
Eggeling
- The sacrificial post is eight-cornered; for the Gāyatrī metre has eight syllables, and the Gāyatrī is Agni’s metre: he thereby wins the world of the gods. The post is either wrapt up, or bound up, in seventeen cloths; for Prajāpati is seventeenfold: he thus wins Prajāpati.
०६
विश्वास-प्रस्तुतिः
गौधूमं᳘ चषा᳘लं भवति॥
पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिष्ठ᳘ᳫँ᳘[[!!]] सो ऽय᳘मत्व᳘गेते वै पु᳘रुषस्यौ᳘षधीनां नेदिष्ठतमां य᳘द्गोधू᳘मास्ते᳘षां न त्व᳘गस्ति मनुष्यलोक᳘मे᳘वैतेनो᳘ज्जयति॥
मूलम् - श्रीधरादि
गौधूमं᳘ चषा᳘लं भवति॥
पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिष्ठ᳘ᳫँ᳘[[!!]] सो ऽय᳘मत्व᳘गेते वै पु᳘रुषस्यौ᳘षधीनां नेदिष्ठतमां य᳘द्गोधू᳘मास्ते᳘षां न त्व᳘गस्ति मनुष्यलोक᳘मे᳘वैतेनो᳘ज्जयति॥
मूलम् - Weber
गौधूमं᳘ चषा᳘लम् भवति॥
पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिॗष्ठᳫं सो ऽय᳘मत्व᳘गेते वै पु᳘रुषस्यौ᳘षधीनां नेदिष्ठतमां य᳘द्गोधू᳘मास्ते᳘षां न त्व᳘गस्ति मनुष्यलोक᳘मेॗवैतेनो᳘ज्जयति॥
मूलम् - विस्वरम्
गौधूमं चषालं भवति । पुरुषो वै प्रजापतेर्नेदिष्ठम् । सो ऽयमत्वक् । एते वै पुरुषस्यौषधीनां नेदिष्ठतमां- यद्गोधूमाः । तेषां न त्वगस्ति । मनुष्यलोकमेवैतेनोज्जयति ॥ ६ ॥
सायणः
चषालनामकस्य यूपशकलस्य दारुमयत्वापवादाय विधत्ते- गौधूममिति । गोधूमपिष्टमयं चषालं कुर्यादित्यर्थः । पुरुषो वा इत्यादि । अस्यायमर्थः- ‘पुरुषो’ नु ‘प्रजापतेः’ ‘नेदिष्ठम्’ अन्तिकतमं वस्तु; पुरुषसृष्टेः प्रथमभावित्वात् । ‘सो ऽयम् अत्वक्’ अश्वत्थादि वृक्ष इव बाह्यत्वग्रहितः ‘ओषधीनां’ मध्ये एते ‘गोधूमा’ अपि ‘पुरुषस्य’ सन्निहिततमं वस्तु बलकारित्वात् । तेषां तु त्वगभावः प्रसिद्धः । अतो गोधूमचषालकरणेन ‘मनुष्यलोकमेव’ जितवान् भवतीति 5 ॥ ६ ॥
Eggeling
०७
विश्वास-प्रस्तुतिः
गर्त्तन्वान्यूपो᳘ ऽतीक्ष्णाग्रो भवति॥
पितृदेव᳘त्यो वै ग᳘र्त्तः पितृलोक᳘मे᳘वैतेनो᳘ज्जयति सप्त᳘दशारत्निर्भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - श्रीधरादि
गर्त्तन्वान्यूपो᳘ ऽतीक्ष्णाग्रो भवति॥
पितृदेव᳘त्यो वै ग᳘र्त्तः पितृलोक᳘मे᳘वैतेनो᳘ज्जयति सप्त᳘दशारत्निर्भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - Weber
गर्तन्वान्यूपो᳘ ऽतीक्ष्णाग्रो भवति॥
पितृदेव᳘त्यो वै ग᳘र्तः पितृलोक᳘मेॗवै सप्त᳘दशारत्निर्भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - विस्वरम्
गर्तन्वान् यूपो ऽतीक्ष्णाग्रो भवति । पितृदेवत्यो वै गर्तः । पितृलोकमेवैतेनोज्जयति । सप्तदशारत्निर्भवति । सप्तदशो वै प्रजापतिः । तत्प्रजापतिमुज्जयति ॥ ७ ॥
सायणः
तस्मिन् यूपे गुणविशेषं विधत्ते- गर्त्तन्वानिति । गर्त्तवान्, यूपस्याग्रे निम्नप्रदेशः । गर्तन्वान् “अनो नुट्”- (पा. सू. ८ । २ । १६) इति अन्नन्तात्परस्य मतुपो नुडागमो विहितः, व्यत्ययेनाकारान्तादपि भवति । ‘अतीक्ष्णाग्रः’ अतनूकृताः, स्थूलाग्रप्रदेशो भवेत् । गर्त्तं पितृलोकात्मना प्रशंसति- पितृदेवत्य इति । “पितॄणां सदनमसि”- (तै. सं. ६ । ३ । ४ । २ ।) इत्यादिमन्त्रवर्णाद्यूपावटस्य पितृदेवतास्थानत्वं प्रतीयते । अत एव तैत्तिरीयके यूपस्य सर्वदेवतामयत्वकथनप्रस्तावे- “पितृणां निखातं मनुष्याणामूर्ध्वं निखातात्”- (तै. सं. ६ । ३ । ४ । ६) इति गर्त्तावच्छिन्नस्य यूपभागस्य पितृदेवत्यत्वम् । ईदृशी प्रसिद्धिरत्र ‘वै’ शब्देन द्योत्यते । आरोहणीययूपस्य चोदकप्राप्तं प्रमाणमपवदितुं परिमाणान्तरं विधत्ते- सप्तदशेति । चतुर्विंशत्यङ्गुलपरिमितो ऽरत्निः; सप्तदशसंख्याका अरत्नयः प्रमाणं यस्य यूपस्येति विग्रहः ॥ ७ ॥
Eggeling
- The post has a hollow (at the top), and is not pointed at the end; for the hollow is sacred to the Fathers: he thus gains the world of the Fathers. It is seventeen cubits long, for Prajāpati is seventeen-fold: he thus wins Prajāpati.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ने᳘ष्टा प᳘त्नीमुदानेष्य᳘न्॥
(न्कौ) कौशं व्वा᳘सः प᳘रिधापयति कौशं᳘ वा च᳘ण्डातकम᳘न्तरं दीक्षितव᳘सनाज्जघनार्द्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञं᳘ प्रसादयिष्य᳘न्भवत्य᳘स्ति वै प᳘त्न्या ऽअमेध्यं य᳘दवाची᳘नं ना᳘भेर्मे᳘ध्या वै᳘ दर्भास्तद्य᳘दे᳘वास्या ऽअमेध्यं त᳘दे᳘वास्या ऽएत᳘द्दर्भैर्मे᳘ध्यं कृत्वा᳘ ऽथैनां प्रा᳘चीं यज्ञं प्र᳘सादयति त᳘स्मान्ने᳘ष्टा प᳘त्नीमुदानेष्य᳘न्कौशं व्वा᳘सः प᳘रिधापयति कौशं᳘ वा च᳘ण्डातकम᳘न्तरं दीक्षितव᳘सनात्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ने᳘ष्टा प᳘त्नीमुदानेष्य᳘न्॥
(न्कौ) कौशं व्वा᳘सः प᳘रिधापयति कौशं᳘ वा च᳘ण्डातकम᳘न्तरं दीक्षितव᳘सनाज्जघनार्द्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञं᳘ प्रसादयिष्य᳘न्भवत्य᳘स्ति वै प᳘त्न्या ऽअमेध्यं य᳘दवाची᳘नं ना᳘भेर्मे᳘ध्या वै᳘ दर्भास्तद्य᳘दे᳘वास्या ऽअमेध्यं त᳘दे᳘वास्या ऽएत᳘द्दर्भैर्मे᳘ध्यं कृत्वा᳘ ऽथैनां प्रा᳘चीं यज्ञं प्र᳘सादयति त᳘स्मान्ने᳘ष्टा प᳘त्नीमुदानेष्य᳘न्कौशं व्वा᳘सः प᳘रिधापयति कौशं᳘ वा च᳘ण्डातकम᳘न्तरं दीक्षितव᳘सनात्॥
मूलम् - Weber
अ᳘थ ने᳘ष्टा प᳘त्नीमुदानेष्य᳘न्॥
कौशं वा᳘सः प᳘रिधापयति कौशं᳘ वा च᳘ण्डातकम᳘न्तरं दीक्षितव᳘सनाज्जघनार्धो वा᳘ एष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञ᳘म् प्रसादयिष्य᳘न्भवत्य᳘स्ति वै पत्न्या अमेध्यं य᳘दवाची᳘नं ना᳘भेर्मे᳘ध्या वै᳘ दर्भास्तद्य᳘देॗवास्या अमेध्यं त᳘देॗवास्या एत᳘द्दर्भैर्मे᳘ध्यं कृत्वा᳘थैनाम् प्रा᳘चीं यज्ञम् प्र᳘सादयति त᳘स्मान्ने᳘ष्टा प᳘त्नीमुदानेस्य᳘न्कौशं वा᳘सः प᳘रिधापयति कौस्=अं᳘ वा च᳘ण्डातकम᳘न्तरं दीक्षितव᳘सनात्॥
मूलम् - विस्वरम्
अथ नेष्टा पत्नीमुदानेष्यन् कौशं वासः परिधापयति । कौशं वा चण्डातकमन्तरं दीक्षितवसनात् । जघनार्द्धो वा ऽएष यज्ञस्य यत्पत्नी । तामेतत्प्राचीं यज्ञं प्रसादयिष्यन् भवति । अस्ति वै पत्न्या अमेध्यं- यदवाचीनं नाभेः । मेध्या वै दर्भाः । तद्यदेवास्या अमेध्यं- तदेवास्या एतद् दर्भैर्मेध्यं कृत्वा ऽथैनां प्राचीं यज्ञं प्रसादयति । तस्मान्नेष्टा पत्नीमुदानेष्यन् कौशं वासः परिधापयति । कौशं वा चण्डातकमन्तरं दीक्षितवसनात् ॥ ८ ॥
सायणः
विधत्ते- अथ नेष्टेति । ‘उदानेष्यन्’ शालातो निर्गमयिष्यन् ‘कौशं’ दर्भमयं ‘वासः’ पत्नीं परिधापयेत् 8 । अत्र आपस्तम्बः- “क्षत्रस्य योनिरसीति दर्भमयं पत्नीम्”- (आ. श्रौ. सू. १८ । ५ । ७) (तै. सं. १ । ७ । ९ । १) इति । श्रुतिश्च भवति- “दर्भमयं परिधापयति”- (तै. ब्रा. १ । ३ । ७ । १) इति यद्वा क्रिमिकोशविकारभूतं वासः ‘कौशम्’ तेन परित आच्छादयेत् । यद्वा, ‘कौशम्’ कुशमयं, चण्डातकम् अर्द्धोरुकं परिधापयेत् । एवमेव हि चण्डातकपदं कर्कोपाध्यायेन व्याख्यातम्- “चण्डातकं चलनकमुच्यते 9 । एवं ह्यभियुक्तोपदेशः- “अर्द्धोरुकं विलासिन्या वासश्चण्डातकं स्मृतम्”- इति । नृत्तोपयिकत्वेनाच्छादनीयमूरुकञ्चुकमर्द्धोरुकं वासः” इति वसनस्य प्रदेशं विधत्ते- अन्तरमिति । दीक्षाकाले यद्वस्त्रं परिहितम् तस्माद् बहिःप्रदेशे इत्यर्थः । अन्तरराब्दो बहिर्योगे वर्त्तते 10 ॥
दर्भैरेव वासः कर्त्तव्यमिति अत्रोपपत्तिं दर्शयति- जघनार्द्ध इत्यादिना । पूर्वदेशस्याहवनीयसाध्यत्वाद्, यज्ञः प्राच्यां दिश्यवस्थितः, तस्य यज्ञस्य पश्चिमभागे पत्नीशालायामवस्थानात् पत्नी यज्ञस्य जवनार्द्ध इति निरूप्यते । तां पत्नीम् एतर्हि ‘प्राचीं’ प्राङ्मुखां पूर्वदिगवस्थितं यज्ञं प्रापयिष्यन् भवति । तदुपायत्वेन दर्भमयवासःपरिधापनस्य मेध्यत्वापादकत्वमाह- अस्ति वा इति । पत्नीसम्बन्धिनाभेर्यदवाचीनमङ्गम्, तद् ‘अमेध्यम्’ अपवित्रम्, तत्प्रदेशे मेध्यदर्भमयवासःपरिधापनेन तदङ्गं परिशुद्धं ‘कृत्वा’ ‘एनां’ ‘प्राचीं’ ‘यज्ञं’ प्रापितवान् भवति । दर्भाणां मेध्यत्वम् “पवित्रं वै दर्भाः पुनात्येवैनम्”- (तै. ब्रा. १ । ३ । ७ । १) इति श्रुत्यन्तरादवगम्यते । तस्मान्नेष्टेत्यादि । प्रतिज्ञातार्थनिगमनम् ॥ ८ ॥
Eggeling
- Thereupon the Neshṭr̥, being about to lead up the (Sacrificer’s) wife, makes her wrap round herself, over the garment of consecration, a cloth, or skirt, made of Kuśa grass 11; for she, the wife, is the hind
part of the sacrifice 12; and he wishes her, thus coming forward, to propitiate the sacrifice. But impure is that part of woman which is below the navel, and pure are the plants of (Kuśa) grass: thus having, by means of those plants of (Kuśa) grass, made pure whatever part of her is impure, he causes her to propitiate the sacrifice, while coming forward. This is why the Neshṭr̥, being about to lead up the wife, makes her wrap round herself, over the garment of consecration, a cloth, or skirt, made of Kuśa grass.
०९
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ नि᳘श्रयणीं निश्रयति[[!!]]॥
स᳘ दक्षिणत ऽउ᳘दङ्रोहेदुत्तरतो᳘ वा दक्षिणा᳘ दक्षिणत᳘स्त्वेवो᳘दङ्रोहेत्त᳘था ह्यु᳘दग्भ᳘वति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ नि᳘श्रयणीं निश्रयति[[!!]]॥
स᳘ दक्षिणत ऽउ᳘दङ्रोहेदुत्तरतो᳘ वा दक्षिणा᳘ दक्षिणत᳘स्त्वेवो᳘दङ्रोहेत्त᳘था ह्यु᳘दग्भ᳘वति॥
मूलम् - Weber
अ᳘थ निश्रयणो 13 नि᳘श्रयति॥
स᳘ दक्षिणत उ᳘दङ् रोहेदुत्तरतो᳘ वा दक्षिणा᳘ दक्षिणतॗस्त्वेवो᳘दङ् रोहेत्त᳘था ह्यु᳘दग्भवति॥
मूलम् - विस्वरम्
अथ निश्रयणीं निश्रयति । स दक्षिणत उदङ्रोहेत्, उत्तरतो वा दक्षिणा । दक्षिणतस्त्वेवोदङ् रोहेत् । तथा ह्युदग् भवति ॥ ९ ॥
सायणः
विधत्ते- अथ निश्रयणीमिति 14 । ‘निश्रयणीम्’ निश्रेणी यूपारोहणार्थं सोपानसदृशः काष्ठनिर्मितपदार्थः ‘निश्रयति’ यूपे निदध्यात् । तथा साधनेन यजमानस्य यूपारोहणे कञ्चिद् विशेष विधत्ते- स दक्षिणत इति । दक्षिणप्रदेशादुदङ्मुखो यूपमारोहेत्, उदक्प्रदेशाद् दक्षिणमुखो वा आरोहेदिति विकल्पः । तत्रैकं पक्षं सिद्धान्तयति- दक्षिणत इति । ‘तु’ शब्दः पक्षान्तरव्यावृत्यर्थः । तथा हि एवं कृते सति ‘उदग्भवति’ कर्मण उदगपवर्गता सिद्ध्यति, तस्मादयमेव पक्षः श्रेयान् ॥ ९ ॥
Eggeling
- He then leans a ladder (against the post). He may ascend either from the south northwards, or from the north southwards; but let him rather ascend from the south northwards (udak), for thus it goes upwards (udak).
१०
विश्वास-प्रस्तुतिः
स᳘ रोक्ष्य᳘ञ्जायामा᳘मन्त्रयते॥
जा᳘य ऽए᳘हि᳘ स्वो रो᳘हावे᳘ति रो᳘हावे᳘त्याह जाया तद्य᳘ज्जाया᳘मामन्त्र᳘यते ऽर्द्धो᳘ ह वा᳘ ऽएष᳘ ऽआत्म᳘नो य᳘ज्जाया त᳘स्माद्या᳘वज्जायां न᳘ व्विन्द᳘ते᳘ नैव ता᳘वत्प्र᳘जायते᳘ ऽसर्व्वा हि ता᳘वद्भ᳘वत्य᳘थ य᳘दैव᳘ जायां᳘ व्विन्दते᳘ ऽथ प्र᳘जायते त᳘र्हि हि स᳘र्व्वो भ᳘वति स᳘र्व्व ऽएतां ग᳘तिं गच्छानी᳘ति त᳘स्माज्जायामा᳘मन्त्रयते॥
मूलम् - श्रीधरादि
स᳘ रोक्ष्य᳘ञ्जायामा᳘मन्त्रयते॥
जा᳘य ऽए᳘हि᳘ स्वो रो᳘हावे᳘ति रो᳘हावे᳘त्याह जाया तद्य᳘ज्जाया᳘मामन्त्र᳘यते ऽर्द्धो᳘ ह वा᳘ ऽएष᳘ ऽआत्म᳘नो य᳘ज्जाया त᳘स्माद्या᳘वज्जायां न᳘ व्विन्द᳘ते᳘ नैव ता᳘वत्प्र᳘जायते᳘ ऽसर्व्वा हि ता᳘वद्भ᳘वत्य᳘थ य᳘दैव᳘ जायां᳘ व्विन्दते᳘ ऽथ प्र᳘जायते त᳘र्हि हि स᳘र्व्वो भ᳘वति स᳘र्व्व ऽएतां ग᳘तिं गच्छानी᳘ति त᳘स्माज्जायामा᳘मन्त्रयते॥
मूलम् - Weber
स᳘ रोक्ष्य᳘न्जायामा᳘मन्त्रयते॥
जा᳘य ए᳘हि स्वो रो᳘हावे᳘ति रो᳘हावे᳘त्याह जाया तद्य᳘ज्जाया᳘मामन्त्र᳘यते ऽर्धो᳘ ह वा᳘ एष᳘ आत्म᳘नो य᳘ज्जाया त᳘स्माद्या᳘वज्जायां न᳘ विन्द᳘तेॗ नैव ता᳘वत्प्र᳘जायते᳘ ऽसर्वो हि ता᳘वद्भ᳘वत्य᳘थ यॗदैव᳘ जायां᳘ विन्दते᳘ ऽथ प्र᳘जायते त᳘र्हि हि स᳘र्वो भ᳘वति स᳘र्व एतां ग᳘तिं गछानी᳘ति त᳘स्माज्जायामा᳘मन्त्रयते॥
मूलम् - विस्वरम्
स रोक्ष्यन् जायामामन्त्रयते- ‘जाय ऽएहि स्वो रोहाव’ इति । रोहावेत्याह- जाया । तद् यज्जायामामन्त्रयते । अर्द्धो ह वा ऽएष आत्मनो यज्जाया । तस्माद्यावज्जायां न विन्दते- नैव तावत् प्रजायते । असर्वो हि तावद्भवति । अथ यदैव जायां विन्दते अथ प्रजायते । तर्हि हि सर्वो भवति । सर्व एतां गतिं गच्छानीति । तस्माज्जायामामन्त्रयते ॥ १० ॥
सायणः
रोहणकाले जाया ऽऽमन्त्रणं विधत्ते- स रोक्ष्यन्निति । रोहणं करिष्यन् हे ‘जाये !’ ‘एहि’ आगच्छ, ‘स्वः’ स्वर्गं ‘रोहाव’ आरोहणं करवावेति 15 । जायायाः प्रत्युक्तिं दर्शयति- रोहावेत्याह जायेति । अथान्वयव्यतिरेकाभ्यां जायासहितस्य संपूर्णावयवत्वं प्रतिपादयन्नत्र जाया ऽऽमन्त्रणं विधत्ते- तद्यदिति । प्रथमपर्याये असर्व इति परिच्छेदः, असम्पूर्ण इत्यर्थः । ‘ह’ यस्माद् यजमानस्य ‘अर्द्धः एषः यत् जाया आत्मनः,’ तदभावे प्रजोत्पत्त्यभावः, यदा जायासाहित्यं तदा प्रजोत्पादनक्षमत्वम् । तथा च ‘सर्व’ सम्पूर्णावयवो ऽस्त्वित्याह- एतां गतिमिति । ‘एतां’ यूपारोहणलक्षणां ‘गतिं’ ‘गच्छानि’ प्राप्तवानीत्यभिप्रायेण जाया ऽऽमन्त्रणं कार्यमिति ॥ १० ॥
Eggeling
- Being about to ascend, he (the Sacrificer) addresses his wife, ‘Come, wife, ascend we the sky!’–‘Ascend we!’ says the wife. Now as to why he addresses his wife: she, the wife, in sooth is one half of his own self; hence, as long as he does not obtain her, so long he is not regenerated, for so long he is incomplete. But as soon as he obtains her he is regenerated, for then he is complete. ‘Complete I want to go to that supreme goal,’ thus (he thinks) and therefore he addresses his wife.
११
विश्वास-प्रस्तुतिः
स᳘ रोहति॥
प्रजा᳘पतेः प्रजा᳘ ऽअभूमे᳘ति प्रजा᳘पते᳘र्ह्येष᳘ प्रजा भ᳘वति यो᳘ व्वाजपे᳘येन य᳘जते॥
मूलम् - श्रीधरादि
स᳘ रोहति॥
प्रजा᳘पतेः प्रजा᳘ ऽअभूमे᳘ति प्रजा᳘पते᳘र्ह्येष᳘ प्रजा भ᳘वति यो᳘ व्वाजपे᳘येन य᳘जते॥
मूलम् - Weber
स᳘ रोहति॥
प्रजा᳘पतेः प्रजा᳘ अभूमे᳘ति प्रजा᳘पतेॗर्ह्येष᳘ प्रजा भ᳘वति यो᳘ वाजपे᳘येन य᳘जते॥
मूलम् - विस्वरम्
स रोहति- “प्रजापतेः प्रजा अमूम”- इति । प्रजापतेर्ह्येष प्रजा भवति- यो वाजपेयेन यजते ॥ ११ ॥
सायणः
एतद्यूपारोहणमनूद्य मन्त्रं विधत्ते- स रोहंतीति । प्रजापतेः ‘प्रजाः’ अपत्यभूताः ‘अभूम’ इति ॥ ११ ॥
Eggeling
- He ascends, with, ‘We have become Prajāpati’s children;’ for he who offers the Vājapeya indeed becomes Prajāpati’s child:
१२
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ गोधू᳘मानु᳘पस्पृशति᳘॥
स्व᳘र्देवा ऽअगन्मे᳘ति᳘ स्व᳘र्ह्येष ग᳘च्छति यो᳘ व्वाजपे᳘येन य᳘जते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ गोधू᳘मानु᳘पस्पृशति᳘॥
स्व᳘र्देवा ऽअगन्मे᳘ति᳘ स्व᳘र्ह्येष ग᳘च्छति यो᳘ व्वाजपे᳘येन य᳘जते॥
मूलम् - Weber
अ᳘थ गोधू᳘मानु᳘पस्पृशति॥
स्व᳘र्देवा अगन्मेतिॗ स्व᳘र्ह्येष ग᳘छति यो᳘ वाजपे᳘येन य᳘जते॥
मूलम् - विस्वरम्
अथ गोधूमानुपस्पृशति- “स्वर्देवा अगन्म” इति । स्वर्ह्येष गच्छति- यो वाजपेयेन यजते ॥ १२ ॥
सायणः
गोधूममयचषालस्पर्शनं समन्त्रकं विधत्ते- अथ गोधूमानिति 15 । वयं ‘देवाः’ सन्तः ‘स्वः’ स्वर्गम् ‘अगन्म’ गतवन्त इति मन्त्रस्यार्थः ॥ १२ ॥
Eggeling
- He then touches the wheat (top-piece) 16, with,
‘We have gone to the light, O ye gods!’ for he who offers the Vājapeya, indeed goes to the light.
१३
विश्वास-प्रस्तुतिः
तद्य᳘द्गोधू᳘मानुपस्पृश᳘ति॥
(त्य᳘) अ᳘न्नं वै᳘ गोधू᳘मा ऽअ᳘न्नं वा᳘ ऽएष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्ते᳘नै᳘वैत᳘देतां ग᳘तिं गत्वा स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते त᳘स्माद्गोधू᳘मानु᳘पस्पृशति॥
मूलम् - श्रीधरादि
तद्य᳘द्गोधू᳘मानुपस्पृश᳘ति॥
(त्य᳘) अ᳘न्नं वै᳘ गोधू᳘मा ऽअ᳘न्नं वा᳘ ऽएष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्ते᳘नै᳘वैत᳘देतां ग᳘तिं गत्वा स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते त᳘स्माद्गोधू᳘मानु᳘पस्पृशति॥
मूलम् - Weber
तद्य᳘द्गोधू᳘मानुपस्पृश᳘ति॥
अ᳘न्नं वै᳘ गोधू᳘मा अ᳘न्नं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫं ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘देॗवैतद᳘न्नमुद᳘जैषीत्ते᳘नैॗवैत᳘देतां ग᳘तिं गत्वा स᳘ᳫं᳘स्पृशते त᳘दात्म᳘न्कुरुते त᳘स्माद्गोधू᳘मानु᳘पस्पृशति॥
मूलम् - विस्वरम्
तद् यद्गोधूमानुपस्पृशति । अन्नं वै गोधूमाः । अन्नं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नपेयं ह वै नामैतद्- यद्वाजपेयम् । तद् यदेवैतदन्नमुदजैषीत्- तेनैवैतां गतिं गत्वा संस्पृशते- तदात्मन् कुरुते । तस्माद्गोधूमानुपस्पृशति ॥ १३ ॥
सायणः
तद् यद् गोधूमानित्यादि । गोधूमस्पर्शनेन वाजपेयजिन्मन्त्रं स्वाधीनं कृतवान् भवतीति तात्पर्यार्थः॥ १३ ॥
Eggeling
- And as to why he touches the wheat: wheat is food, and he who offers the Vājapeya, wins food, for vāja-peya is the same as anna-peya (food and drink): thus whatever food he has thereby won, therewith now that he has gone to that supreme goal, he puts himself in contact, and possesses himself of it,–therefore he touches the wheat (top-piece).
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ शीर्ष्णा यू᳘पमत्यु᳘ज्जिहीते॥
(ते ऽमृ᳘) अमृ᳘ता ऽअभूमे᳘ति देवलोक᳘मे᳘वैतेनो᳘ज्जयति॥ (शतम् ३०००)
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ शीर्ष्णा यू᳘पमत्यु᳘ज्जिहीते॥
(ते ऽमृ᳘) अमृ᳘ता ऽअभूमे᳘ति देवलोक᳘मे᳘वैतेनो᳘ज्जयति॥ (शतम् ३०००)
मूलम् - Weber
अ᳘थ शीर्ष्णा यू᳘पमत्यु᳘ज्जिहीते॥
अमृ᳘ता अभूमे᳘ति देवलोक᳘मेॗवैतेनो᳘ज्जयति॥
मूलम् - विस्वरम्
अथ शीर्ष्णा यूपमत्युज्जिहीते- “अमृता अभूम”- (वा० सं० ९ । २१) इति । देवलोकमेवैतेनोज्जयति ॥ १४ ॥
सायणः
विधत्ते- अथ शीर्ष्णेति 17 । ‘शीर्ष्णा’ शिरसा ‘यूपम्’ ‘अत्युज्जिहीते’ अतिक्रम्योद्गमयति । यूपं शिरसा स्पृशन् तमतिक्रम्य स्वशिर उन्नमयेदित्यर्थः । ‘अमृताः’ अमरणधर्माणः ‘अभूम’ सम्भूता इति उद्गमनमन्त्रस्यार्थः । ‘एतेन’ यूपाग्रात् स्वशिरस उन्नमनाद् यूपस्यातिक्रान्तत्वाद् देवलोकजयः ॥ १४ ॥
Eggeling
- He then rises by (the measure of) his head over the post, with, ‘We have become immortal!’ whereby he wins the world of the gods.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ दि᳘शो ऽनुवी᳘क्षमाणो जपति॥
(त्य) अस्मे᳘ वो ऽअस्त्विन्द्रिय᳘मस्मे᳘ नृम्ण᳘मुत क्र᳘तु᳘रस्मे व्व᳘र्चाᳫँ᳭सि सन्तु व इ᳘ति स᳘र्व्वं वा᳘ ऽएष᳘ ऽइदमु᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते प्रजा᳘पति᳘ᳫँ᳘ ह्युज्ज᳘यति स᳘र्व्वमु᳘ ह्ये᳘वेदं᳘ प्रजा᳘पतिः᳘ सो ऽस्य स᳘र्व्वस्य य᳘श ऽइन्द्रियं᳘ व्वीर्यᳫँ᳭ संवृ᳘ज्य त᳘दात्म᳘न्धत्ते[[!!]] त᳘दात्म᳘न्कुरुते त᳘स्माद्दि᳘शो ऽनुवी᳘क्षमाणो जपति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ दि᳘शो ऽनुवी᳘क्षमाणो जपति॥
(त्य) अस्मे᳘ वो ऽअस्त्विन्द्रिय᳘मस्मे᳘ नृम्ण᳘मुत क्र᳘तु᳘रस्मे व्व᳘र्चाᳫँ᳭सि सन्तु व इ᳘ति स᳘र्व्वं वा᳘ ऽएष᳘ ऽइदमु᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते प्रजा᳘पति᳘ᳫँ᳘ ह्युज्ज᳘यति स᳘र्व्वमु᳘ ह्ये᳘वेदं᳘ प्रजा᳘पतिः᳘ सो ऽस्य स᳘र्व्वस्य य᳘श ऽइन्द्रियं᳘ व्वीर्यᳫँ᳭ संवृ᳘ज्य त᳘दात्म᳘न्धत्ते[[!!]] त᳘दात्म᳘न्कुरुते त᳘स्माद्दि᳘शो ऽनुवी᳘क्षमाणो जपति॥
मूलम् - Weber
अ᳘थ दिॗशो ऽनुवी᳘क्षमाणो जपति॥
अस्मे᳘ वो अस्त्विन्द्रिय᳘मस्मे᳘ नृम्ण᳘मुत क्र᳘तुरस्मे व᳘र्चांसि सन्तु व इ᳘ति स᳘र्वं वा᳘ एष᳘ इदमु᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते प्रजा᳘पतिॗᳫंॗ ह्युज्ज᳘यति स᳘र्वमुॗ ह्येॗवेद᳘म् प्रजा᳘पतिःॗ सो ऽस्य स᳘र्वस्य य᳘श इन्द्रियं᳘ वीर्य᳘ᳫं᳘ संवृ᳘ज्य त᳘दात्म᳘न्धत्ते᳘ त᳘दात्म᳘न्कुरुते त᳘स्माद्दिॗशो ऽनुवी᳘क्षमाणो जपति॥
मूलम् - विस्वरम्
अथ दिशो ऽनुवीक्षमाणो जपति- “अस्मे वो ऽअस्त्विन्द्रियमस्मे नृम्णमुत ऋतुः अस्मे वर्चांसि सन्तु वः”- इति । सर्वं वा ऽएष इदमुज्जयति- यो वाजपेयेन यजते । प्रजापतिं ह्युज्जयति । सर्वमुह्येवेदं प्रजापतिः । सो ऽस्य सर्वस्य यशः- इन्द्रियं वीर्यं संवृज्य तदात्मन् धत्ते- तदात्मन् कुरुते । तस्माद् दिशो ऽनुवीक्षमाणो जपति ॥ १५ ॥
सायणः
विधत्ते- अथ दिश इति 17 । यूपे तिष्ठन्नेव यजमानः सर्वा दिशो ऽनुक्रमेण पश्येद् “अस्मे”- इति मन्त्रं जपन् । तन्मन्त्रस्यायमर्थः;- हे दिशः ! ‘वः’ युष्मत्सम्बन्धि ‘इन्द्रियं’ वीर्यम् ‘अस्मे’ अस्मासु ‘अस्तु’ तथा ‘नृम्णं’ युष्मत्सम्बन्धि धनम् ‘अस्मे’ अस्मासु ‘अस्तु’ ‘उत’ अपि च ‘ऋतुः’ सङ्कल्पः, तत्पूर्वको यज्ञो ऽपि ‘अस्मे’ अस्तु । ‘वः वर्चांसि’ युष्मत्सम्बन्धीनि तेजांसि ‘अस्मे’ अस्मासु ‘सन्तु’ इति । इन्द्रियादीनामाशासनं युक्तमित्याह- सर्वं वा इत्यादि । प्रजापतेः सर्वात्मकत्वाद् वाजपेयेन च प्रजापति प्राप्तित्वाद् ‘अस्य सर्वस्य’ जगतो यशआदिकं ‘संवृज्य’ विभज्याधाय स्वात्मनि धारयति, अनन्तरं स्वात्मनि कुरुते, आत्मसात् कृतवान् भवतीत्यर्थः ॥ १५ ॥
Eggeling
- Thereupon, while looking in the different directions, he mutters (Vāj. S. IX, 22), ‘Ours be your power, ours your manhood and intelligence ours be your energies!’ For he who offers the Vājapeya wins everything here, winning as he does Prajāpati, and Prajāpati being everything here;–having appropriated to himself the glory, the power, and the strength of this All, he now lays them within himself, makes them his own: that is why he mutters, while looking in the different directions.
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनमूषपुटै᳘रनू᳘दस्यन्ति॥
पश᳘वो वा ऽऊ᳘षा अ᳘न्नं वै᳘ पशवो᳘ ऽन्नं वा᳘ ऽएष ऽउ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्ते᳘नै᳘वैत᳘देतां ग᳘तिं गत्वा स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते त᳘स्मादेनमूषपुटै᳘रनू᳘दस्यन्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनमूषपुटै᳘रनू᳘दस्यन्ति॥
पश᳘वो वा ऽऊ᳘षा अ᳘न्नं वै᳘ पशवो᳘ ऽन्नं वा᳘ ऽएष ऽउ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्ते᳘नै᳘वैत᳘देतां ग᳘तिं गत्वा स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते त᳘स्मादेनमूषपुटै᳘रनू᳘दस्यन्ति॥
मूलम् - Weber
अ᳘थैनमूषपुटै᳘रनू᳘दस्यन्ति॥
पश᳘वो वा ऊ᳘षा अ᳘न्नं वै᳘ पशवो᳘ ऽन्नं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫं ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘देॗवैतद᳘न्नमुद᳘जैषीत्ते᳘नैॗवैत᳘देतां ग᳘तिं गत्वा स᳘ᳫं᳘स्पृशते त᳘दात्म᳘न्कुरुते त᳘स्मादेनमूषपुटै᳘रनू᳘दस्यन्ति॥
मूलम् - विस्वरम्
अथैनमूषपुटैरनूदस्यन्ति । पशवो वा ऽऊषाः । अन्नं वै पशवः । अन्नं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नपेयं ह वै नामैतद्- यद्वाजपेयम् । तद्यदेवैतदन्नमुदजैषीत्- तेनैवैतदेतां गतिं गत्वा संस्पृशते- तदात्मन् कुरुते । तस्मादेनमूषपुटैरनूदस्यन्ति ॥ १६ ॥
सायणः
अत्र कात्यायनः- “सप्तदशाश्वत्थपत्रोपनद्धानूषपुठानुदस्यत्यस्मे विशः प्रतिगृह्णात्येनान्” (का. श्रौ. सू. १४ । १०४ । ५०५) इति यदसूत्रयत्, तत् क्रमेण विधत्ते- अथैनमिति । ‘ऊषपुटैः’ ऊषाः क्षेत्रपांशवः तानश्वत्थपत्रैः पुटीकृत्य तैः पुटैः यूपे ऽवस्थितं यजमानमभिलक्ष्य ‘उदस्यन्ति’ ऊर्द्धान् प्रतिदिशं प्रक्षिपेयुरित्यर्थः । अत एव आपस्तम्बः- “तमाश्वत्थैरासपुटैरूषपुटैरुमयैर्वा विशः प्रतिदिशमर्पयन्ति”- (आ. श्रौ. सू. १८ । ५ । १६) इति । “पशवो वा ऊषाः”- इत्यादिकस्यायमर्थः, ऊषाणां यज्ञद्वारा पशुसाधनत्वात् ताच्छब्द्यम् । पशूनाञ्च अन्नत्वं क्षीरादिसाधनत्वेन प्रसिद्धम् । अतः पशुद्वारा ऊषाणामन्नत्वादूषपुटहननेन यजमाने ऽन्नमेव निहितवान् भवतीति ॥ १६ ॥
Eggeling
- They throw up to him bags of salt; for salt means cattle, and cattle is food; and he who offers the Vājapeya wins food, for vāja-peya is the same as anna-peya: thus whatever food he thereby has gained, therewith now that he has gone to the supreme goal, he puts himself in contact, and makes it his own,–therefore they throw bags of salt up to him.
१७
विश्वास-प्रस्तुतिः
(न्त्या᳘) आ᳘श्वत्थेषु पलाशेषू᳘पनद्धा भवन्ति॥
स य᳘दे᳘वा᳘दो ऽश्वत्थे ति᳘ष्ठत इ᳘न्द्रो मरु᳘त ऽउपा᳘मन्त्रयत त᳘स्मादा᳘श्वत्थेषु पलाशेषू᳘पनद्धा भवन्ति व्वि᳘शो ऽनू᳘दस्यन्ति व्वि᳘शो वै᳘ मरुतो᳘ ऽन्नं व्वि᳘शस्त᳘स्माद्वि᳘शो ऽनू᳘दस्यन्ति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - श्रीधरादि
(न्त्या᳘) आ᳘श्वत्थेषु पलाशेषू᳘पनद्धा भवन्ति॥
स य᳘दे᳘वा᳘दो ऽश्वत्थे ति᳘ष्ठत इ᳘न्द्रो मरु᳘त ऽउपा᳘मन्त्रयत त᳘स्मादा᳘श्वत्थेषु पलाशेषू᳘पनद्धा भवन्ति व्वि᳘शो ऽनू᳘दस्यन्ति व्वि᳘शो वै᳘ मरुतो᳘ ऽन्नं व्वि᳘शस्त᳘स्माद्वि᳘शो ऽनू᳘दस्यन्ति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - Weber
आ᳘श्वत्थेषु पलाशेषू᳘पनद्धा भवन्ति॥
स य᳘देॗवाॗदो ऽश्वत्थे ति᳘ष्ठत इ᳘न्द्रो मरु᳘त उपा᳘मन्त्रयत त᳘स्मादा᳘श्वत्थेषु पलाशेषू᳘पनद्धा भवन्ति वि᳘शो ऽनू᳘दस्यन्ति वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वि᳘शस्त᳘स्माद्वि᳘शो ऽनू᳘दस्यन्ति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥
मूलम् - विस्वरम्
आश्वत्थेषु पलाशेषूपनद्धा भवन्ति । स यदेवादो ऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत । तस्मादाश्वत्थेषु पलाशेषूपनद्धा भवन्ति । विशो ऽनूदस्यन्ति । विशो वै मरुतः । अन्नं विशः । तस्माद्विशो ऽनूदस्यन्ति । सप्तदश भवन्ति । सप्तदशो वै प्रजापतिः । तत्प्रजापतिमुज्जयति ॥ १७ ॥
सायणः
विधत्ते- आश्वत्थेष्विति । अश्वत्थपलाशेषूपनद्धान् सन्नद्धान् कुर्यात् । आश्वत्थैरेव करणे कारणमाह- स यदेवेति । ‘अमुष्मिन्’ ‘अदः’ विप्रकृष्टे काले, ‘अश्वत्थे’ अवस्थितान् ‘मरुतः’ ‘इन्द्रः’ आह्वयत । एवमयमश्वत्थो देवविशां मरुतामाश्रयभूतः अतस्तदीयेषु पत्रेषु अन्नसंस्तुतानामूषाणामुपनिबन्धनं प्रशस्तमित्यर्थः । ऊषपुटेषु क्षेपणकर्तॄन् विधत्ते- विश इति । ‘विशः’ वैश्या अर्पयेयुः । मस्तां विदूत्वमिन्द्रस्य प्रजात्वात्; अतो मनुष्यविशामपि तत्साजात्येन तदात्मकत्वम् । तेषां वैश्यानामन्नत्वं कृषीवलत्वात् । ऊषपुटानां संख्या विधत्ते- सप्तदशेति ॥ १७ ॥
Eggeling
- They (the pieces of salt) are done up in aśvattha
(ficus religiosa) leaves: because Indra on that (former) occasion called upon the Maruts staying on the Aśvattha tree 18, therefore they are done up in aśvattha leaves. Peasants (viś) throw them up to him, for the Maruts are the peasants, and the peasants are food (for the nobleman): hence peasants throw them up. There are seventeen (bags), for Prajāpati is seventeenfold: he thus wins Prajāpati.
१८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थेमा᳘मुपावे᳘क्षमाणो जपति॥
न᳘मो मात्रे᳘ पृथिव्यै न᳘मो मा᳘त्रे पृथिव्या ऽइ᳘ति बृ᳘हस्प᳘तेर्ह वा᳘ ऽअभिषिषिचाना᳘त्पृथिवी᳘ बिभया᳘ञ्चकार महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं᳘ नावदृणीयादि᳘ति बृ᳘हस्प᳘तिर्ह पृथिव्यै᳘ बिभया᳘ञ्चकार यद्वै᳘ मेयं᳘ नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यमकुरुत न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थेमा᳘मुपावे᳘क्षमाणो जपति॥
न᳘मो मात्रे᳘ पृथिव्यै न᳘मो मा᳘त्रे पृथिव्या ऽइ᳘ति बृ᳘हस्प᳘तेर्ह वा᳘ ऽअभिषिषिचाना᳘त्पृथिवी᳘ बिभया᳘ञ्चकार महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं᳘ नावदृणीयादि᳘ति बृ᳘हस्प᳘तिर्ह पृथिव्यै᳘ बिभया᳘ञ्चकार यद्वै᳘ मेयं᳘ नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यमकुरुत न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥
मूलम् - Weber
अ᳘थेमा᳘मुपावे᳘क्षमाणो जपति॥
न᳘मो मात्रे᳘ पृथिव्यै न᳘मो मा᳘त्रे पृथिव्या इ᳘ति बृ᳘हस्प᳘तेर्ह वा᳘ अभिषिषिचाना᳘त्पृथिवी᳘ बिभयां᳘ चकार महद्वा᳘ अय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मायं नावदृणीयादि᳘ति बृ᳘हस्प᳘तिर्ह पृथिव्यै बिभयां᳘ चकार यद्वै᳘ मेॗयं नावधून्वीते᳘ति त᳘दन᳘यैॗवैत᳘न्मित्रधे᳘यमकुरुत न हि᳘ माता᳘ पुत्र᳘ᳫं᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥
मूलम् - विस्वरम्
अथेमामुपावेक्षमाणो जपति- “नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै”- इति । बृहस्पतेर्ह वा ऽअभिषिषिचानात्पृथिवी बिभयाञ्चकार- ‘महद्वा ऽअयमभूद्- यो ऽभ्यषेचि, यद्वै मा ऽयं नावदृणीयाद्’ इति । बृहस्पतिर्ह पृथिव्यै बिभयाञ्चकार- ‘यद्वै मेयं नावधून्वीत’ इति । तदनयैवैतन्मित्रधेयमकुरुत । नहि माता पुत्रं हिनस्ति, न पुत्रो मातरम् ॥ १८ ॥
सायणः
तत्रैव यजमानस्य भूम्यवेक्षणं समन्त्रकं विधत्ते- अथेमामिति 19 । ‘मात्रे’ सर्वस्य निर्मातृत्वान्मातृभूतायै पृथिव्यैः ‘नमः’ इति आदरार्थो मन्त्रवाक्याभ्यासः । मन्त्रगतमातृशब्दस्य जननीवाचकत्वं विवक्षितमिति वदन् भूम्यवेक्षणं बृहस्पतिदृष्टान्तमुखेन प्रशंसति- बृहस्पतेरिति । पूर्वं वाजपेययज्ञे बृहस्पतेरभिषिक्ताद् भूमिर्बिभेति स्म । भयकारणमाह- यो ऽभ्यषेचीति । यद् ‘अयम्’ अभिषिक्तः पुरुषो ‘महदभूत्’ इत्यन्वयः । ‘यद्’ यस्मात् अभिषेकेण महत्त्वगुणवान् ‘अयं’ बृहस्पतिः ‘मा’ मां भूमिम् ‘न अवदृणीयात्’ नावदारयेत् ‘इति;’ अतो हेतोः ‘मित्रधेयमकुरुत’- इति उत्तरवाक्यशेषसम्बन्धः । तथा ‘बृहस्पतिः’ अपि भूम्याः सकाशाद् बिभेति स्म; ‘यद्’ यस्मात् ‘इयं’ भूमिः ‘मा’ माम् अभिषिक्तं ‘नावधून्वीत’ न विचालयेत् ‘इति’ । ‘तत्’ तस्मात् कारणात् ‘अनया’ पृथिव्या सह ‘एव’ ‘एतत्’ निरीक्षणरूपं ‘मित्रधेयं’ मैत्रीम् ‘अकुरुत’ भूमिरपि सख्यमकरोदित्यर्थः उपक्रमोपसंहाराभ्यामवगम्यते, -उपक्रमे तावदुभयोरपि भीतिरुक्ता, अवदारणपरिहाराय मित्रधेयकरणमिति चोक्तम्; उपसंहारे ऽपि ‘न पुत्रो मातरम्’ इति मातुः पुत्रकर्तृकोपद्रवस्य निषेधात् ॥ १८ ॥
Eggeling
- Thereupon; while looking down upon this (earth), he mutters, Homage be to the mother Earth! homage be to the mother Earth!’ For when Br̥haspati had been consecrated, the Earth was afraid of him, thinking, ‘Something great surely has he become now that he has been consecrated: I fear lest he may rend me asunder 20!’ And Br̥haspati also was afraid of the Earth, thinking, ‘I fear lest she may shake me off!’ Hence by that (formula) he entered into a friendly relation with her; for a mother does not hurt her son, nor does a son hurt his mother.
१९
विश्वास-प्रस्तुतिः
बृहस्पतिसवो वा᳘ ऽएष य᳘द्वाजपे᳘यम्॥
पृथि᳘व्यु हैत᳘स्माद्बिभेति महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं नावदृणीयादि᳘त्येष᳘ उ हास्यै᳘ ऽबिभेति यद्वै᳘ मेयं᳘[[!!]] नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यं कुरुते न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥
मूलम् - श्रीधरादि
बृहस्पतिसवो वा᳘ ऽएष य᳘द्वाजपे᳘यम्॥
पृथि᳘व्यु हैत᳘स्माद्बिभेति महद्वा᳘ ऽअय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मा ऽयं नावदृणीयादि᳘त्येष᳘ उ हास्यै᳘ ऽबिभेति यद्वै᳘ मेयं᳘[[!!]] नावधून्वीते᳘ति त᳘दन᳘यै᳘वैत᳘न्मित्रधे᳘यं कुरुते न हि᳘ माता᳘ पुत्र᳘ᳫँ᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥
मूलम् - Weber
बृहस्पतिसवो वा᳘ एष य᳘द्वाजपे᳘यम्॥
पृथिॗव्यु हैत᳘स्माद्बिभेति महद्वा᳘ अय᳘मभू᳘द्यो ऽभ्य᳘षेचि यद्वै᳘ मायं नावदृणीयादि᳘त्येष᳘ उ हास्यै᳘ बिभेति यद्वै᳘ मेॗयं नावधून्वीते᳘ति त᳘दन᳘यैॗवैत᳘न्मित्रधे᳘यं कुरुते न हि᳘ माता᳘ पुत्र᳘ᳫं᳘ हिन᳘स्ति न᳘ पुत्रो᳘ मात᳘रम्॥
मूलम् - विस्वरम्
बृहस्पतिसवो- वा ऽएष यद्वाजपेयम् । पृथिव्यु हैतस्माद्विभेति । महद्वा ऽअयमभूद्- यो ऽभ्यषेचि, ‘यद्वै मा ऽयं नावदृणीयात्’ इति । एष उ हास्यै बिभेति- ‘यद्वै मेयं नावधन्वीत’ इति । तदनयैवैतन्मित्रधेयं कुरुते । न हि माता पुत्रं हिनस्ति, न पुत्रो मातरम् ॥ १९ ॥
सायणः
इदानीमनुष्ठाने ऽपि भूम्यवेक्षणं मित्रत्वप्रयोजनमित्याह- बृहस्पतिसवो वा इति । वाजपेयमिति । यदेष बृहस्पतिसवः बृहस्पतेरभिषेको यस्मिन्निति स तथोक्तः । शिष्टं पूर्वपर्यायवद् व्याख्येयम् ॥ १९ ॥
Eggeling
- Now the Br̥haspati consecration 21 is the same as the Vājapeya; and the earth in truth is afraid of that (Sacrificer), thinking, ‘Something great
surely has he become now that he has been consecrated: I fear lest he may rend me asunder!’ And he himself is afraid of her, thinking, ‘I fear lest she may shake me off!’ Hence he thereby enters into a friendly relation with her, for a mother does not hurt her son; neither does a son hurt his mother.
२०
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ हि᳘रण्यमभ्य᳘वरोहति॥
(त्य) अमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ हि᳘रण्यमभ्य᳘वरोहति॥
(त्य) अमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त ऽआ᳘युषि प्र᳘तितिष्ठति॥
मूलम् - Weber
अ᳘थ हि᳘रण्यमभ्य᳘वरोहति॥
अमृ᳘तमा᳘युर्हि᳘रण्यं त᳘दमृ᳘त आ᳘युषि प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
अथ हिरण्यमभ्यवरोहति । अमृतमायुर्हिरण्यम् । तदमृत ऽआयुषि प्रतितिष्ठति ॥ २० ॥
सायणः
विधत्ते- अथ हिरण्यमिति । ‘हिरण्यम्’ ‘अभि’- लक्ष्य यूपादवरोहेत्; यतः ‘हिरण्यम्’ मरणरहितायुरात्मकम्, तत्रावरोहणेन तथाविधे ‘आयुषि’ एव प्रतिष्ठितो भवतीत्यर्थः ॥ २० ॥
Eggeling
- He then descends (and treads) upon a piece of gold;–gold is immortal life: he thus takes his stand on life immortal.
२१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाजर्षभ᳘स्याजि᳘नमु᳘पस्तृणाति॥
त᳘दुप᳘रिष्टाद्रुक्मं नि᳘दधाति त᳘मभ्य᳘वरोहतीमां᳘ वैव᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाजर्षभ᳘स्याजि᳘नमु᳘पस्तृणाति॥
त᳘दुप᳘रिष्टाद्रुक्मं नि᳘दधाति त᳘मभ्य᳘वरोहतीमां᳘ वैव᳘॥
मूलम् - Weber
अ᳘थाजर्षभ᳘स्याजि᳘नमु᳘पस्तृणाति॥
त᳘दुप᳘रिष्टाद्रुक्मं नि᳘दधाति त᳘मभ्य᳘वरोहतीमां᳘ वैव᳟॥
मूलम् - विस्वरम्
अथाजर्षभस्याजिनमुपस्तृणाति । तदुपरिष्टाद्रुक्मं निदधाति । तमभ्यवरोहतीमां वैव ॥ २१ ॥
सायणः
हिरण्यनिधानार्थं वस्ताजिनास्तरणं विधत्ते- अथाजेति । तत्रास्यास्तीर्णाजचर्मणः ‘उपरिष्टात्’ ‘रुक्मं’ निदध्यात् । हिरण्ये अवरोहणं वैकल्पिकमित्याह- इमां वैवेति । रुक्मे वा ऽवरोहेदिति । अत एव कात्यायनः- “स रुक्मे बस्तचर्मण्यवरोहति, भूमौ वा”- । (का. श्रौ. सू. १४ । १०६) इति ॥ २१ ॥
Eggeling
- Now (in the first place) he (the Adhvaryu) spreads out the skin of a he-goat, and lays a (small) gold plate thereon: upon that–or indeed upon this (earth) itself–he (the Sacrificer) steps.
२२
विश्वास-प्रस्तुतिः
(वा᳘था) अ᳘थास्मा ऽआसन्दीमा᳘हरन्ति॥
(न्त्यु) उपरिस᳘द्यं वा᳘ ऽएष᳘ जयति यो ज᳘यत्यन्तरिक्षस᳘द्यं त᳘देनमुपर्या᳘सीनमध᳘स्तादिमाः᳘ प्रजा उ᳘पासते त᳘स्मादस्मा ऽआसन्दीमा᳘हरन्ति॥
मूलम् - श्रीधरादि
(वा᳘था) अ᳘थास्मा ऽआसन्दीमा᳘हरन्ति॥
(न्त्यु) उपरिस᳘द्यं वा᳘ ऽएष᳘ जयति यो ज᳘यत्यन्तरिक्षस᳘द्यं त᳘देनमुपर्या᳘सीनमध᳘स्तादिमाः᳘ प्रजा उ᳘पासते त᳘स्मादस्मा ऽआसन्दीमा᳘हरन्ति॥
मूलम् - Weber
अ᳘थास्मा आसन्दीमा᳘हरन्ति॥
उपरिस᳘द्यं वा᳘ एष᳘ जयति यो ज᳘यत्यन्तरिक्षस᳘द्यं त᳘देनमुपर्या᳘सीनमध᳘स्तादिमाः᳘ प्रजा उ᳘पासते त᳘स्मादस्मा आसन्दीमा᳘हरन्ति॥
मूलम् - विस्वरम्
अथास्मा ऽआसन्दीमाहरन्ति । उपरिसद्यं वा ऽएष जयति- यो जयत्यन्तरिक्षसद्यम् । तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते । तस्मादस्मा ऽआसन्दीमाहरन्ति ॥ २२ ॥
सायणः
विधत्ते- अथास्मा इति । ‘अस्मै’ यूपादवरोहाय । आसन्दीलक्षणमुक्तं कात्यायनेन- “औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राङ्गीभूतामाहरन्ति”- (का. श्रौ. सू. ७ । २४८) इति । ‘उपरिसद्यम्’- इत्यस्यायमर्थः- वाजपेयेन यागेन ‘उपरिसद्यम्’ उपरिसदनम् ‘जयति’ मद्रपीठादेरुपर्यवस्थानं प्राप्नोति । एतदुपपादनायाह- यो जयतीति । ‘यः’ यूपारोहणेन ‘अन्तरिक्षसद्यम्’ आकाशे उपवेशनं ‘जयति’ ‘एषः’ इति पूर्वेण सम्बन्धः ॥ २२ ॥
Eggeling
- They then bring a throne-seat for him; for truly he who gains a seat in the air 22, gains a seat above (others): thus these subjects of his sit below him who is seated above,–this is why they bring him a throne-seat.
२३
विश्वास-प्रस्तुतिः
(न्त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्य᳘) अन्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरी भवति ताम᳘ग्रेण हविर्द्धा᳘ने जघ᳘नेनाहवनी᳘यं नि᳘दधाति॥
मूलम् - श्रीधरादि
(न्त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्य᳘) अन्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरी भवति ताम᳘ग्रेण हविर्द्धा᳘ने जघ᳘नेनाहवनी᳘यं नि᳘दधाति॥
मूलम् - Weber
औ᳘दुम्बरी भवति॥
अन्नं वा ऊ᳘र्गुदुम्ब᳘र ऊॗर्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरी भवति ताम᳘ग्रेण हविर्धा᳘ने जघ᳘नेनाहवनी᳘यं नि᳘दधाति॥
मूलम् - विस्वरम्
औदुम्बरी भवति । अन्नं वा ऽऊर्गुदुम्बरः । ऊर्जो ऽन्नाद्यस्यावरुद्ध्यै । तस्मादौदुम्बरी भवति । तामग्रेण हविर्द्धाने, जघनेनाहवनीयं निदधाति ॥ २३ ॥
सायणः
औदुम्बरीति । उदुम्बरनिर्मिता आसन्दी 23 (श. प. ब्रा. ६ । ७ । १ । १२-१५) । अन्नं वा ऊर्गिति । यदेतत् ‘ऊर्ग्’ बलकरम् ‘अन्नम्’ तदात्मकः ‘उदुम्बरः’ वृक्षः, तज्जन्यत्वात् । श्रूयते हि- “देवा वा ऊर्जं व्यभजन्त, तत उदुम्बर उदतिष्ठत्”- इति । तामग्रेणेति । अस्यार्थः- ‘हविर्द्धाने’- इति द्वितीयाद्विवचनान्तं पदम्, ते ‘अग्रेण’ तयोरग्रप्रदेशम् ‘आहवनीयं जघनेन’ सोमाहुत्यधिकरणाग्नेः पश्चिमप्रदेशे ‘ताम्’ आसन्दीं निदध्यात् । अत्र सूत्रम्- “उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणा ऽऽस्तृणातीयं तेइति”- (का . श्रौ. सू. १४ । १०७) इति ॥ २३ ॥
Eggeling
- It is made of udumbara wood,–the Udumbara tree being sustenance, (that is) food,–for his obtainment of sustenance, food: therefore it is made of udumbara wood. They set it down in front of the Havirdhāna (cart-shed), behind the Āhavanīya (fire).
२४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाजर्षभ᳘स्याजि᳘नमा᳘स्तृणाति॥
प्रजा᳘पतिर्व्वा᳘ ऽएष य᳘दजर्षभ᳘ ऽएता वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘दजास्त᳘स्मादेतास्त्रिः᳘ संव्वत्सर᳘स्य विजा᳘यमाना द्वौ त्रीनि᳘ति जनयन्ति त᳘त्प्रजा᳘पतिमे᳘वैत᳘त्करोति त᳘स्मादजर्षभ᳘स्याजि᳘नमा᳘स्तृणाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाजर्षभ᳘स्याजि᳘नमा᳘स्तृणाति॥
प्रजा᳘पतिर्व्वा᳘ ऽएष य᳘दजर्षभ᳘ ऽएता वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘दजास्त᳘स्मादेतास्त्रिः᳘ संव्वत्सर᳘स्य विजा᳘यमाना द्वौ त्रीनि᳘ति जनयन्ति त᳘त्प्रजा᳘पतिमे᳘वैत᳘त्करोति त᳘स्मादजर्षभ᳘स्याजि᳘नमा᳘स्तृणाति॥
मूलम् - Weber
अ᳘थाजर्षभ᳘स्याजि᳘नमा᳘स्तृणाति॥
प्रजा᳘पतिर्वा᳘ एष य᳘दजर्षभ᳘ एता वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘दजास्त᳘स्मादेतास्त्रिः᳘ संवत्सर᳘स्य विजा᳘यमाना द्वौ त्रीनि᳘ति जनयन्ति त᳘त्प्रजा᳘पतिमेॗवैत᳘त्करोति त᳘स्मादजर्षब᳘स्याजि᳘नमा᳘स्तृणाति॥
मूलम् - विस्वरम्
अथाजर्षभस्याजिनमास्तृणाति । प्रजापतिर्वा ऽएष यदजर्षभः । एता वै प्रजापतेः प्रत्यक्षतमाम् यदजाः । तस्मादेतास्त्रिः सम्वत्सरस्य विजायमाना द्वौ, त्रीनिति जनयन्ति । तत् प्रजापतिमेवैतत् करोति । तस्मादजर्षभस्याजिनमास्तृणाति ॥ २४ ॥
सायणः
आसन्द्यामजाजिनेनाच्छादनं विधत्ते- अथाजर्षभस्याजिनमिति । बस्तप्रजापत्योर्बहुप्रजोत्पादकत्वादैकरूप्यं समर्थयते- एता वा इत्यादि । ‘एताः’ अजाः ‘प्रजापतेः’ ‘प्रत्यक्षतमाम्’ अतिशयेन प्रत्यक्षं रूपम्, यस्मादेवं ‘तस्मात्’ संवत्सरमध्ये ‘त्रिः’ त्रिवारं ‘द्वौ त्रीन्’ वा पुत्रान् ‘विजायमानाः’ सुवाना भवन्ति ॥ २४ ॥
Eggeling
- He then spreads the goat-skin thereon; for truly the he-goat is no other than Prajāpati, for they, the goats, are most clearly of Prajāpati (the lord of generation or creatures);–whence, bringing forth thrice in a year, they produce two or three 24: thus he thereby makes him (the Sacrificer) to be Prajāpati himself,–this is why he spreads the goat-skin thereon.
२५
विश्वास-प्रस्तुतिः
स आ᳘स्तृणाति॥
(ती) इयं᳘ ते राडि᳘ति राज्य᳘मे᳘वास्मिन्नेत᳘द्दधात्य᳘थैनमा᳘सादयति य᳘न्ता ऽसि य᳘मन इ᳘ति यन्ता᳘रमे᳘वैनमेतद्य᳘मनमासां᳘ प्रजा᳘नां करोति ध्रु᳘वो ऽसि धरु᳘ण ऽइ᳘ति ध्रुव᳘मे᳘वैनमेत᳘द्धरु᳘णमस्मिल्ँ᳘लोके᳘ करोति कृष्यै᳘ त्वा क्षे᳘माय त्वा रय्यै᳘ त्वा पो᳘षाय त्वे᳘ति साध᳘वे त्वे᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स आ᳘स्तृणाति॥
(ती) इयं᳘ ते राडि᳘ति राज्य᳘मे᳘वास्मिन्नेत᳘द्दधात्य᳘थैनमा᳘सादयति य᳘न्ता ऽसि य᳘मन इ᳘ति यन्ता᳘रमे᳘वैनमेतद्य᳘मनमासां᳘ प्रजा᳘नां करोति ध्रु᳘वो ऽसि धरु᳘ण ऽइ᳘ति ध्रुव᳘मे᳘वैनमेत᳘द्धरु᳘णमस्मिल्ँ᳘लोके᳘ करोति कृष्यै᳘ त्वा क्षे᳘माय त्वा रय्यै᳘ त्वा पो᳘षाय त्वे᳘ति साध᳘वे त्वे᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स आ᳘स्तृणाति॥
इयं᳘ ते राडि᳘ति राज्य᳘मेॗवास्मिन्नेत᳘द्दधात्य᳘थैनमा᳘सादयति यॗन्तासि य᳘मन इ᳘ति यन्ता᳘रमेॗवैनमेतद्य᳘मनमासाम् प्रजा᳘नां करोति ध्रुॗवो ऽसि धरु᳘ण इ᳘ति ध्रुव᳘मेॗवैनमेत᳘द्धरु᳘णमस्मिं᳘लोके᳘ करोति कृष्यै᳘ त्वा क्षे᳘माय त्वा रय्यै᳘ त्वा पो᳘षाय त्वे᳘ति साध᳘वे त्वे᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
स आस्तृणाति- “इयं ते राट्”- इति । राज्यमेवास्मिन्नेतद्दधाति । अथैनमासादयति- “यन्ता ऽसि यमनः” इति । यन्तारमेवैनमेतद्द्यमनमासां प्रजानां करोति । “ध्रुवो ऽसि धरुणः”- इति । ध्रुवमेवैनमेतद्धरुणमस्मिल्ँ लोके करोति । “कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा”- (वा. सं. ९ । २२) इति । साधवे त्वेत्येवैतदाह ॥ २५ ॥
सायणः
आस्तरणमनूद्य मन्त्रं विधत्ते- स आस्तृणातीति । हे अभिषिच्यमानवाजपेययाजिन् ! ‘ते’ तव ‘इयम्’ आसन्दी ‘राट्’ राज्यसाधनम्, पीठादेरुपरिसदनमव राज्यमित्यर्थः । तस्याभिप्रायमाह- राज्यमिति । यदेतेनास्तरणेन यजमाने राज्यं निहितवान् भवति ॥
विधत्ते- अथैनमिति 25 । ‘एनं’ यजमानम् अस्यामासन्द्याम् उपवेशयेत् । तन्मन्त्रस्यायमर्थः;- हे यजमान ! ‘यन्ता’ सर्वस्य नियन्ता ‘असि’, ‘यमनः’ ‘प्रजानां’ नियमिता असि, ‘ध्रुवः’ स्थिरः ‘असि’, ‘धरुणः’ धारकः असि । ‘कृष्यै’ कर्षणाय ‘त्वा’ त्वाम्, उपवेशयामीति शेषः । एवमुत्तरत्रापि योज्यम् । ‘क्षेमाय’ लब्धवस्तुपरिपालनाय । ‘रय्यै’ धनाय, ‘पोषाय’ इति ॥
मन्त्रं व्याचष्टे- यन्तारमिति । ध्रुवमेवैनामिति । ‘अस्मिन् लोके’ ‘ध्रुवं’ सन्तम् ‘एव’ ‘एनं’ यजमानम् ‘एतत्’ एतेन मन्त्रभागेन ‘धरुणं’ धारकं ‘करोति’ । कृष्यादिपदानामर्थं सङ्कलय्याह- साधवे त्वेति । श्रेयसे त्वामुपवेशयामीति । अनेन कृष्यादिश्रेयांसि, अन्यान्यपि संगृहीतानि भवन्तीत्यर्थः ॥ २५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे द्वितीयाध्याये प्रथमं ब्राह्मणम् ॥ (५-२-१) ॥
इति पञ्चमकाण्डे प्रथमः प्रपाठकः समाप्तः ॥ ५-१ ॥
Eggeling
- He spreads it, with, ‘This is thy kingship 26!’ whereby he endows him with royal power. He then makes him sit down, with, Thou art the ruler, the ruling lord!’ whereby he makes him the ruler, ruling over those subjects of his Thou art firm, and stedfast!’ whereby he makes him firm and stedfast in this world;–‘Thee for the tilling!–Thee for peaceful dwelling!–Thee for wealth!–Thee for thrift!’ whereby he means to say, ‘(here I seat) thee for the welfare (of the people).’
-
29:1 The term āpti, literally ‘obtainment, gain,’ is technically used for the twelve formulas, given in the next paragraph, as well as for the oblations made therewith. The first of these formulas is ‘āpaye svāhā,’ whence the above term is probably derived. ↩︎
-
30:1 Or perhaps, ’there is of (belongs to) that (sacrifice).’ ↩︎
-
षड्वोत्तराः । क्लृप्तीरित्यर्थः । का० श्रौ० सू० १४ । ९६ । इत्यत्र कर्कः । ↩︎
-
30:2 This term, literally ‘success, accomplishment,’ is technically used to denote the succeeding formulas containing the verb ‘klip,’ to succeed, prosper, as well as the oblations made therewith. ↩︎
-
यूपवेष्टन सप्तदशभिर्वस्त्रैर्व्युद्ग्रथनं वा परिव्ययणकाले । का. श्रौ. सू. १४ । २० । ↩︎ ↩︎
-
31:1 For the ordinary mortar-shaped top-piece fixed on the post. see-part ii, p. 168, note 1. On the present occasion it is to be made of wheaten dough. ↩︎
-
31:2 According to a legend given at III, 1, 2, 13 seq., man had originally a (hairy) skin, or hide; but the gods having flayed him, put his skin on the cow. ↩︎
-
नेष्टा पत्नीमानेष्यन् कौशं वासः परिधापयति चंडातकं दहरं वा । का० श्रौ० सू० १४ । ९७ । ↩︎
-
‘चलनमुच्यते’ इति क्व. पा. । ↩︎
-
अंतरं दीक्षितवसनात् । का० श्रौ० सू० १४ । ९८ । ↩︎
-
31:3 In the ceremonial of the Black Yajus (Taitt. Br. I. 3, 7, 1) the Sacrificer himself has to put on a ’tārpya’ garment, for which see note on V, 2, 5, 20 . ↩︎
-
32:1 Viz. because her ordinary seat is at the back, or west, end of the altar. ↩︎
-
निश्रेणीम् Sây. ↩︎
-
यद्यपि भाष्यपुस्तकेषु सर्वत्र ‘निश्रेणीम्’ इत्येव पदं दृश्यते तथापि मूलानुरोधेन का. श्रौ. सूत्रानुरोधेन च निश्रयणीम् इत्येव भवितव्यम् । निश्रयणीं यूप उच्छ्रयत्युत्तरां वा । का. श्रौ. सू. १४ । ९९ । ↩︎
-
आरोक्ष्यन् जायामामन्त्रयते जाय एहि स्वो रोहावेति । रोहावेति प्रत्याह । प्रजापतेरित्यारोहतः । का. श्रौ. सू. १४ । १०० । ↩︎ ↩︎
-
32:2 According to the ritual of the Black Yajus (Sāy. on Taitt. S. I, 7, 9, vol. i, p. 1039), the Sacrificer, having ascended, lifts up his arms to heaven, praying, ‘We have gone to the light, to the gods, we have become immortal; we have become Prajāpati’s children!’ ↩︎
-
शिरसा यूपमुज्जिहीते ऽमृता इति । का० श्रौ० सू० १४ । १०२ ॥ ↩︎ ↩︎
-
34:1 See part ii, p. 334, with note 2. On the ‘aśvattha devasadana’ cp. also Ath.-veda V, 4, 3; Rig-veda I, 164, 20-22; A. Kuhn, Herabkunft des Feuers and des Göttertranks, p. 126 seq. (Mythol. Stud. i. p. 112 seq.). ↩︎
-
नमो मात्र इति भूमिमवेक्षते । का. श्रौ. सू. १४ । १०६ । ↩︎
-
34:2 Or, ‘I hope he will not rend me asunder.’ For this construction–exactly corresponding to the German ‘dass (or, wenn) er mich nur nicht aufreisst!’ (cf. also the colloquial use of the French ‘pourvu,’–‘pourvu qu’il ne me déchire pas!’)–see part ii, p. 31, note 1. ↩︎
-
34:3 The Br̥haspatisava is performed by a Brāhmaṇa with a view to obtaining the office of Purohita (royal chaplain, or family priest). For Āśvalāyana’s rule, which places it on a level with the Rājasūya sacrifice of a king, see p. 4, note 1. ↩︎
-
35:1 The Sacrificer is supposed to have done so by the, symbolical act of raising his head above the sacrificial post; see paragraph 14 above. ↩︎
-
“चतुर्भिः पादैरुपेता खट्वाकारा” इति तै. सं. ७ । ५ । ८ । १७ । सा. भाष्ये द्रष्टव्यम् । ↩︎
-
35:2 See IV, 5, 5, 6; part ii, p. 407, note 3. ↩︎
-
सुन्वंतमस्यामुपवेशयति यंता ऽसीति का० श्रौ० सू० १४ । १०८ । ↩︎
-
36:1 Thus the formula ‘iyam to rāṭ’ is interpreted by Mahīdhara (who, however, takes it to be addressed to the throne-seat, and not, as would seem preferable, to the king), and apparently also by our author. The word ‘rāj’ would indeed seem to mean here something like the energy (śakti), or the symbol, of the king. The St. Petersburg dictionary, however, takes it here as the name of a female deity. ↩︎