०१

विश्वास-प्रस्तुतिः

तद्य᳘दाजिं धा᳘वन्ति॥
(न्ती) इम᳘मे᳘वैते᳘न लोकमु᳘ज्जयत्य᳘थ य᳘द्ब्रह्मा᳘ रथचक्रे सा᳘म गा᳘यति नाभिदघ्न ऽउ᳘द्धिते ऽन्तरिक्षलोक᳘मे᳘वैतेनो᳘ज्जयत्य᳘थ यद्यू᳘पᳫँ᳭ रो᳘हति देवलोक᳘मे᳘वैतेनो᳘ज्जयति त᳘स्माद्वा᳘ ऽएत᳘त्त्रयं᳘ क्रियते॥

मूलम् - श्रीधरादि

तद्य᳘दाजिं धा᳘वन्ति॥
(न्ती) इम᳘मे᳘वैते᳘न लोकमु᳘ज्जयत्य᳘थ य᳘द्ब्रह्मा᳘ रथचक्रे सा᳘म गा᳘यति नाभिदघ्न ऽउ᳘द्धिते ऽन्तरिक्षलोक᳘मे᳘वैतेनो᳘ज्जयत्य᳘थ यद्यू᳘पᳫँ᳭ रो᳘हति देवलोक᳘मे᳘वैतेनो᳘ज्जयति त᳘स्माद्वा᳘ ऽएत᳘त्त्रयं᳘ क्रियते॥

मूलम् - Weber

स᳘ ब्रह्मा᳘ रथचक्रम᳘धिरोहति॥
नाभिदघ्न उ᳘द्धितं देव᳘स्याह᳘ᳫं᳘ सवितुः᳘ सवे᳘ सत्य᳘सवसो बृ᳘हस्प᳘तेरुत्तमं ना᳘कं रुहेयमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः᳟॥

मूलम् - विस्वरम्

तद् यदाजिं धावन्ति- इममेवैतेन लोकमुज्जयति । अथ यद्ब्रह्मा रथचक्रे साम गायति- नाभिदघ्न ऽउद्धिते- अन्तरिक्षलोकमेवैतेनोज्जयति । अथ यद् यूपं रोहति- देवलोकमेवैतेनोज्जयति । तस्माद्वा ऽएतत्त्रयं क्रियते ॥ १ ॥

सायणः

विहितमाजिधावनमनूद्य प्रशंसति- तद्यदिति । आजिधावनेन भूलोकं जितवान् भवतीत्यर्थः । अथ सामगानं यूपारोहणं च सार्थवादं विधते- अथ यद् ब्रह्मेत्यादि । ‘ब्रह्मा’ नामर्त्विक् ‘नाभिदघ्ने’ नाभिमात्रे ‘उद्धिते’ उन्नते ‘रथचक्रे’ स्थित्वा ‘साम’ गायेत् । ‘एतेन’ भूम्यूर्ध्वप्रदेशयोर्मध्यदेशे गीयमानेन साम्ना ‘अन्तरिक्षलोकं’ जितवान् भवति । चक्रादुन्नतस्य सप्तदशारत्निपरिमितस्य यूपस्यारोहणेन तृतीयलोकमेव स्वाधीनं कृतवान् भवतीत्यर्थः ॥ १ ॥

Eggeling
  1. Now when they run a race, he thereby wins this same (terrestrial) world. And when the Brahman sings a Sāman on the cart-wheel set up on (a post) reaching to his navel, he thereby wins the air-world. And when he erects the sacrificial post, he thereby wins the world of the gods. Hence that threefold performance.

०२

विश्वास-प्रस्तुतिः

स᳘ ब्रह्मा᳘ रथचक्रम᳘धिरोहति॥
नाभिदघ्न ऽउ᳘द्धितं देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘सवसो बृ᳘हस्प᳘तेरुत्तमं ना᳘कᳫँ᳭ रुहेयमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - श्रीधरादि

स᳘ ब्रह्मा᳘ रथचक्रम᳘धिरोहति॥
नाभिदघ्न ऽउ᳘द्धितं देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘सवसो बृ᳘हस्प᳘तेरुत्तमं ना᳘कᳫँ᳭ रुहेयमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘दि राजॗन्यो य᳘जते॥
देव᳘स्याह᳘ᳫं᳘ सवितुः᳘ सवे᳘ सत्य᳘सवस इ᳘न्द्रस्योत्तमं ना᳘कं रुहेयमि᳘ति क्षत्रᳫं ही᳘न्द्रं क्षत्रं᳘ राजन्यः᳟॥

मूलम् - विस्वरम्

स ब्रह्मा रथचक्रमधिरोहति- नाभिदघ्न ऽउद्धितम्- “देवस्याहं सवितुः सवे सत्यसवसो बृहस्पतेरुत्तमं नाकं रुहेयम्”- इति । यदि ब्राह्मणो यजते । ब्रह्म हि बृहस्पतिः । ब्रह्म हि ब्राह्मणः ॥ २ ॥

सायणः

ब्रह्मणो रथचक्रे गानं विहितम्, तदारोहणमन्तरेण न सम्भवतीति तदिदानीं विधत्ते- स ब्रह्मेति 1 । तत्र वाजपेये द्वावधिकारिणौ, ब्राह्मणो राजन्यश्चेति; तत्र यजमानभेदेन मन्त्रभेदं विवक्षुः प्रथमं ब्राह्मणपक्षे मन्त्रं पठति- देवस्याहमिति । ‘सत्यसवसः’ सत्यानुज्ञानस्य ‘सवितुः’ सर्वेषां प्रसवितुर्देवस्य ‘सवे’ प्रसवे अनुज्ञायां वर्त्तमानो हि ‘बृहस्पतेः’ सम्बन्धिनः ‘उत्तमम्’ उत्कृष्टं ‘नाकं’ स्वर्गं ‘रुहेयम्’ आरोहणं करवै । रुहेराशीर्लिङि, ‘लिङ्याशिष्यङ्’- (पा. सू. ३ । १ । ८६) इत्यङ् । ब्रह्म हीति । देवानां मध्ये बृहस्पतिर्ब्राह्मणजातिः ॥ २ ॥

Eggeling
  1. The Brahman mounts a cart-wheel, set up on (a post) as high as his navel 2, with (Vāj. S. IX, 10),

‘At the impulse (sava) of the god Savitr̥, of true impulsion, may I ascend unto the highest heaven of Br̥haspati!’ thus, if a Brāhmaṇa sacrifices; for Br̥haspati is the Brahman (priesthood, or sanctity), and the Brāhmaṇa is the Brahman.

०३

विश्वास-प्रस्तुतिः

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘सवस ऽइ᳘न्द्रस्योत्तमं ना᳘कᳫँ᳭ रुहेयमि᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - श्रीधरादि

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘सवस ऽइ᳘न्द्रस्योत्तमं ना᳘कᳫँ᳭ रुहेयमि᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - Weber

त्रिः सा᳘माभि᳘गायति॥
त्रि᳘रभिगीया᳘वरोहति देव᳘स्याह᳘ᳫं᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवसो बृ᳘हस्प᳘तेरुत्तमं ना᳘कमरुहमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः᳟॥

मूलम् - विस्वरम्

अथ यदि राजन्यो यजते- “देवस्याहं सवितुः सर्वे सत्यसवस इन्द्रस्योत्तमं नाकं रुहेयम्”- इति । क्षत्रं हीन्द्रः । क्षत्रं राजन्यः ॥ ३ ॥

सायणः

राजन्यपक्षे ऽपि मन्त्रं पठति- अथ यदीति बृहस्पतेरित्यस्य स्थाने इन्द्रस्येति विशेषः । अर्थस्तु पूर्ववत् । क्षत्रं हीन्द्र इति । देवानां मध्ये इन्द्रः क्षत्रियजातिः ॥ ३ ॥

Eggeling
  1. And if a Rājanya sacrifices, (he does so) with, ‘At the impulse of the divine Savitr̥, of true impulsion, may I ascend unto the highest heaven of Indra!’ for Indra is the Kshatra (nobility, or power), and the Rājanya is the Kshatra.

०४

विश्वास-प्रस्तुतिः

(स्त्रिः) त्रिः सा᳘माभि᳘गायति॥
त्रि᳘रभिगीया᳘वरोहति देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवसो बृ᳘हस्प᳘तेरुत्तमं ना᳘कमरुहमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - श्रीधरादि

(स्त्रिः) त्रिः सा᳘माभि᳘गायति॥
त्रि᳘रभिगीया᳘वरोहति देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवसो बृ᳘हस्प᳘तेरुत्तमं ना᳘कमरुहमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘दि राजॗन्यो य᳘जते॥
देव᳘स्याह᳘ᳫं᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवस इ᳘न्द्रस्योत्तमं ना᳘कमरुहमि᳘ति क्षत्रᳫं ही᳘न्द्रः क्षत्रं᳘ राजन्यः᳟॥

मूलम् - विस्वरम्

त्रिः सामाभिगायति । त्रिरभिगीयावरोहति- “देवस्याहं सवितुः सवे सत्यप्रसवसो बृहस्पतेरुत्तमं नाकमरुहम्”- इति । यदि ब्राह्मणो यजते । ब्रह्म हि बृहस्पतिः । ब्रह्म हि ब्राह्मणः ॥ ४ ॥

सायणः

विहितस्य ब्रह्मकर्त्तृकस्य सामगानस्य त्रित्वसङ्ख्यां विधत्ते- त्रिः सामेति । ‘त्रिः’ त्रिवारमित्यर्थः । “देवस्य 3 वयम्"- इति, “रुहेम”- इति च बहुवचनान्तः शाखान्तरीयो मन्त्रः । तथैव कात्यायनो ऽपि सूत्रयामास- “देवस्य वयमिति, ब्रह्मा रथचक्रमारोहति” (का. श्रौ. सू. १४ । ६७) इति । अत्र “अरुहम्”- इति, “रुहेयम्”- इति च एकवचनान्तत्वेन संहितायामाम्नानात्तमनुसृत्यैव ब्राह्मणे विहितमित्यविरोधः ॥

प्रसङ्गाद्ब्रह्मणो रथावरोहणं विधत्ते- त्रिः सामाभिगायतीति । त्रिरभिगीयावरोहतीति । प्रयोगक्रमस्तु सूत्रे दर्शितः- “ब्रह्मा त्रिः साम गायति, दुन्दुभीन् वादयति, एष स्य हति प्रत्यृचं जुहोति” 4- (का. श्रौ. सू. १४ । ७८-८०) इत्युपक्रम्य “प्रदक्षिणं कृत्वा ऽऽयन्ति, आगतेषु ब्रह्मावरोहति देवस्याहमिति" 5 (का. श्रौ. सू. १४ । ८४, ८५) इति । अत्रापि पूर्ववद् यजमानभेदेनावरोहणं मन्त्रभेदं च दर्शयति- देवस्याहमिति । अरुहमिति, रुहेर्लुङि “कु-मृ-दृ-रुहिभ्यः”- इति (पा. सू. ३ । १ । ५९) च्लेरङादेशः ॥ ४ ॥ ५ ॥

Eggeling
  1. Thrice he sings the Sāman 6. Having thrice sung it, he descends with, ‘At the impulse of the divine Savitr̥, of true impulsion, I have ascended unto the highest heaven of Br̥haspati!’–thus, if a Brāhmaṇa sacrifices, for Br̥haspati is the Brahman, and the Brāhmaṇa is the Brahman.

०५

विश्वास-प्रस्तुतिः

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवस ऽइ᳘न्द्रस्योत्तमं ना᳘कमरुहमि᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - श्रीधरादि

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवस ऽइ᳘न्द्रस्योत्तमं ना᳘कमरुहमि᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - Weber

अ᳘थ सप्त᳘दश दुन्दुभी᳘ननुवेद्यन्तᳫं स᳘म्मिन्वन्ति॥
प्रती᳘च आ᳘ग्नीध्रात्प्रजा᳘पतिं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते वाग्वै᳘ प्रजा᳘पतिरेषा वै᳘ परमा वाग्या᳘ सप्तदशानां᳘ दुन्दुभीना᳘म् परमा᳘मेॗवैतद्वा᳘च परम᳘म् प्रजा᳘पतिमु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - विस्वरम्

अथ यदि राजन्यो यजते- “देवस्याहं सवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमं नाकमरुहम्”- (वा० सं० ९ । १०) इति । क्षत्रं हीन्द्रः । क्षत्रं राजन्यः ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. And if a Rājanya sacrifices,–with, ‘At the impulse of the divine Savitr̥, of true impulsion, I have ascended unto the highest heaven of Indra!’ for Indra is the Kshatra, and the Rājanya is the Kshatra.

०६

विश्वास-प्रस्तुतिः

(न्यो᳘ ऽथ) अ᳘थ सप्त᳘दश दुन्दुभी᳘ननुवेद्यन्तᳫँ᳭ स᳘म्मिन्वन्ति॥
प्रती᳘च आ᳘ग्नीध्रात्प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते व्वाग्वै᳘ प्रजा᳘पतिरेषा वै᳘ परमा व्वाग्या᳘ सप्तदशानां᳘ दुन्दुभीनां᳘ परमा᳘मे᳘वैतद्वा᳘चं परमं᳘ प्रजा᳘पतिमु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - श्रीधरादि

(न्यो᳘ ऽथ) अ᳘थ सप्त᳘दश दुन्दुभी᳘ननुवेद्यन्तᳫँ᳭ स᳘म्मिन्वन्ति॥
प्रती᳘च आ᳘ग्नीध्रात्प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते व्वाग्वै᳘ प्रजा᳘पतिरेषा वै᳘ परमा व्वाग्या᳘ सप्तदशानां᳘ दुन्दुभीनां᳘ परमा᳘मे᳘वैतद्वा᳘चं परमं᳘ प्रजा᳘पतिमु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - Weber

अ᳘थैते᳘षां दुन्दुभीना᳘म्॥
ए᳘कं य᳘जुषा᳘हन्ति तत्स᳘र्वे य᳘जुषा᳘हता भवन्ति॥

मूलम् - विस्वरम्

अथ सप्तदश दुन्दुभीननुवेद्यन्तं सम्मिन्वन्ति प्रतीच आग्नीध्रात् । प्रजापतिं वा ऽएष उज्जयति यो वाजपेयेन यजते । वाग्वै प्रजापतिः । एषा वै परमा वाग्- या सप्तदशानां दुन्दुभीनाम् । परमामेवैतद्वाचं परमं प्रजापतिमुज्जयति । सप्तदश भवन्ति । सप्तदशो वै प्रजापतिः । तत् प्रजापतिमुज्जयति ॥ ६ ॥

सायणः

विधत्ते- अथ सप्तदशेति । सप्तदशसङ्ख्याकान् ‘दुन्दुभीन्’ ‘अनुवेद्यन्तं’ वेदिसमीपे ‘प्रतीचः आग्नीध्रात् आग्नीध्रीयपश्चिमप्रदेशे स्थितान् ‘सम्मिन्वन्ति’ वादयितुमाबध्नन्तीत्यर्थः । अत्र सूत्रम्- “सप्तदश दुन्दुभीनासजत्यनुवेदि पश्चादाग्नीध्रात्”- (का. श्रौ. सू. १४ । ६९ ।) इति । “एषा वै इत्यादिकस्यायमर्थः; दुन्दुभीनां नादस्य महत्त्वात् परमवाक्त्वम्; अतो वाग्रूपप्रजापत्युज्जयहेतुदुन्दुभिवाद इत्यर्थः । गतमन्यत् ॥ ६ ॥

Eggeling
  1. They put up seventeen drums along the edge of the altar, from the Āgnīdhra backwards (towards

the west); for he who offers the Vājapeya wins Prajāpati; but Prajāpati is speech, and that doubtless is the supreme speech which is (the outcome) of seventeen drums: he thus wins the supreme speech, the supreme Prajāpati. Seventeen there are, because Prajāpati is seventeenfold: he thus wins Prajāpati.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैते᳘षां दुन्दुभीनाम्[[!!]]॥
(मे᳘) ए᳘कं य᳘जुषा᳘ ऽऽहन्ति तत्स᳘र्वे य᳘जुषा᳘ ऽऽहता भवन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैते᳘षां दुन्दुभीनाम्[[!!]]॥
(मे᳘) ए᳘कं य᳘जुषा᳘ ऽऽहन्ति तत्स᳘र्वे य᳘जुषा᳘ ऽऽहता भवन्ति॥

मूलम् - Weber

स आ᳘हन्ति॥
बृ᳘हस्पते वा᳘जं जय बृ᳘हस्प᳘तये वा᳘चं वदत बृ᳘हस्प᳘तिं वा᳘जं जापयते᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः᳟॥

मूलम् - विस्वरम्

अथैतेषां दुन्दुभीनामेकं यजुषा ऽऽहन्ति । तत् सर्वे यजुषा ऽऽहता भवन्ति ॥ ७ ॥

सायणः

विधत्ते- अथैतेषामिति । सप्तदशानां दुन्दुभीनां मध्ये एकं दुन्दुभिम् “बृहस्पते वाजम्” इति वक्ष्यमाणेन मन्त्रेण समाहन्यात् । इतरान् षोडश दुन्दुभीन् तूष्णीं वादयेत् । एकस्य समन्त्रकाहननेन सर्वे ऽपि दुन्दुभयश्छत्रिन्यायेन समन्त्रकमेवाहताः ताडिता वादिताः स्युरित्यर्थः । अत्र सूत्रम्- “बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति, तूष्णीमितरान्” (का. श्रौ. सू. १४ । ७०) इति ॥ ७ ॥

Eggeling
  1. One of these drums he (the Brahman) beats (while praying) with a sacrificial formula: thereby all of them become beaten with a sacrificial formula.

०८

विश्वास-प्रस्तुतिः

स आ᳘हन्ति॥
बृ᳘हस्पते व्वा᳘जं जय बृ᳘हस्प᳘तये व्वा᳘चं व्वदत बृ᳘हस्प᳘तिं व्वा᳘जं जापयते᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - श्रीधरादि

स आ᳘हन्ति॥
बृ᳘हस्पते व्वा᳘जं जय बृ᳘हस्प᳘तये व्वा᳘चं व्वदत बृ᳘हस्प᳘तिं व्वा᳘जं जापयते᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘दि राजॗन्यो य᳘जते॥
इ᳘न्द्र वा᳘जं जये᳘न्द्राय वाचं᳘ वदते᳘न्द्रं वा᳘जं जापयते᳘ति क्षत्रᳫं ही᳘न्द्रः क्षत्रं᳘ राजन्यः᳟॥

मूलम् - विस्वरम्

स आहन्ति- “बृहस्पते वाजं जय, बृहस्पतये वाचं वदत, बृहस्पतिं वाजं जापयत”- इति । यदि ब्राह्मणो यजते । ब्रह्म हि बृहस्पतिः । ब्रह्म हि ब्राह्मणः ॥ ८ ॥

सायणः

हननविधिमनूद्य मन्त्रं विधत्ते- स आहन्तीति । हे ‘बृहस्पते !’ ‘वाजम्’ अन्न ‘जय’ । हे दुन्दुमयः ? ‘बृहस्पतये’ बृहस्पतेरर्थाय ‘वाचं’ सत्यभूतां यूयं ‘वदत’ । ‘बृहस्पतिम्’ ‘वाजम्’ अन्नं ‘जापयत’ अन्नविषयं जयं प्रापयत । बृहस्पतिः स्वयमेव वाजं जयति, तं जापयत । जयतेर्ण्यन्तस्य “क्रीङ्जीनां णौ” (पा. सू. ६ । १ । ४८) इत्यात्वे कृते पुगागमः ॥ ८ ॥

Eggeling
  1. He beats it with (Vāj. S. IX, 11), ‘O Br̥haspati, win the race! lift ye up your voice unto Br̥haspati: make ye Br̥haspati win the race!’ thus, if a Brāhmaṇa sacrifices; for Br̥haspati is the Brahman, and the Brāhmaṇa is the Brahman.

०९

विश्वास-प्रस्तुतिः

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
(त ऽ) इ᳘न्द्र व्वा᳘जं जये᳘न्द्राय व्वा᳘चं व्वदते᳘न्द्रं व्वा᳘जं जापयते᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - श्रीधरादि

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
(त ऽ) इ᳘न्द्र व्वा᳘जं जये᳘न्द्राय व्वा᳘चं व्वदते᳘न्द्रं व्वा᳘जं जापयते᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - Weber

अ᳘थैते᳘ष्वाजिसृ᳘त्सु र᳘थेषु॥
पु᳘नरा᳘सृतेष्वेते᳘षां दुन्दुभीनामे᳘कं य᳘जुषोपा᳘वहरति तत्स᳘र्वे य᳘जुषोपा᳘वहृता भवन्ति॥

मूलम् - विस्वरम्

अथ यदि राजन्यो यजते- “इन्द्र वाजं जय, इन्द्राय वाचं वदत, इन्द्रं वाजं जापयत” (वा. सं. ९ । ११) इति । क्षत्रं हीन्द्रः । क्षत्रं राजन्यः ॥ ९ ॥

सायणः

राजन्यमन्त्रभेदं दर्शयति- अथ यदीति । बृहस्पतिस्थाने इन्द्रपदं प्रक्षेपणीयम् । अन्यत् समानम् ॥ ९ ॥

Eggeling
  1. And if a Rājanya sacrifices, (he does so) with, ‘O Indra, win the race! lift ye up your voice unto Indra: make ye Indra win the race!’ for Indra is the Kshatra, and the Rājanya is the Kshatra.

१०

विश्वास-प्रस्तुतिः

(न्यो᳘ ऽथै) अ᳘थैते᳘ष्वाजिसृ᳘त्सु र᳘थेषु॥
पु᳘नरा᳘सृतेष्वेते᳘षां दुन्दुभीनामे᳘कं य᳘जुषोपा᳘वहरति तत्स᳘र्व्वे य᳘जुषोपा᳘वहृता भवन्ति॥

मूलम् - श्रीधरादि

(न्यो᳘ ऽथै) अ᳘थैते᳘ष्वाजिसृ᳘त्सु र᳘थेषु॥
पु᳘नरा᳘सृतेष्वेते᳘षां दुन्दुभीनामे᳘कं य᳘जुषोपा᳘वहरति तत्स᳘र्व्वे य᳘जुषोपा᳘वहृता भवन्ति॥

मूलम् - Weber

स᳘ उपा᳘वहरति॥
एषा᳘ वः सा᳘ सत्या᳘ संवा᳘गभूद्य᳘या बृ᳘हस्प᳘तिं वा᳘जम᳘जीजपता᳘जीजपत बृ᳘हस्पतिं वा᳘जं व᳘नस्पतयो वि᳘मुच्यध्वमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृहस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः᳟॥

मूलम् - विस्वरम्

अथैतेष्वाजिसृत्सु रथेषु पुनरासृतेष्वेतेषां दुन्दुभीनामेकं यजुषोपावहरति । तत् सर्वे यजुषोपावहृता भवन्ति ॥ १० ॥

सायणः

विधत्ते- अथैतेष्विति । ‘रथेषु’ ‘आजिसृत्सु’ लक्ष्यस्थानं प्रति सृतवत्सु गतवत्सु ‘पुनरासृतेषु’ पुनरागतेषु सत्सु ‘एतेषां’ सर्वेषां ‘दुन्दुभीनां’ मध्ये ‘एकं’ प्राग् ‘यजुषा’ मन्त्रेण ‘उपावहरति’ अवरोहयेत्; अन्येषां तु तूष्णीमित्यर्थः 7 ॥ १० ॥

Eggeling
  1. And when those race-running chariots 8 have come up again, he takes down one of those drums with a sacrificial formula; whereby they all become taken down with a formula.

११

विश्वास-प्रस्तुतिः

स᳘ उपा᳘वहरति॥
(त्ये) एषा᳘ वः सा᳘ सत्या᳘ संव्वा᳘गभूद्य᳘या बृ᳘हस्प᳘तिं व्वा᳘जम᳘जीजपता᳘जीजपत बृ᳘हस्पतिं व्वा᳘जं व्व᳘नस्पतयो व्वि᳘मुच्यध्वमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - श्रीधरादि

स᳘ उपा᳘वहरति॥
(त्ये) एषा᳘ वः सा᳘ सत्या᳘ संव्वा᳘गभूद्य᳘या बृ᳘हस्प᳘तिं व्वा᳘जम᳘जीजपता᳘जीजपत बृ᳘हस्पतिं व्वा᳘जं व्व᳘नस्पतयो व्वि᳘मुच्यध्वमि᳘ति य᳘दि ब्राह्मणो य᳘जते ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणः[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘दि राजॗन्यो य᳘जते॥
एषा᳘ वः सा᳘ सत्या᳘ संवा᳘गभूद्यये᳘न्द्रं वा᳘जम᳘जीजपता᳘जीजपते᳘न्द्रं वा᳘जं व᳘नस्पतयो वि᳘मुच्यध्वमि᳘ति क्षत्रᳫं ही᳘न्द्रः क्षत्रं᳘ राजन्यः᳟॥

मूलम् - विस्वरम्

स उपावहरति- “एषा वः सा सत्या संवागभूत् । यथा बृहस्पतिं वाजमजीजपत, अजीजपत बृहस्पतिं वाजं वनस्पतयो विमुच्यध्वम्”- इति । यदि ब्राह्मणो यजते । ब्रह्म हि बृहस्पतिः । ब्रह्म हि ब्राह्मणः ॥ ११ ॥

सायणः

उपावहरतीति । अवरोहणमन्त्रस्यायमर्थः;- हे दुन्दुभयः ‘वः’ युष्माकं सम्बन्धिनी ‘सा सत्या’ ‘संवाक्’ समुदिता वाक् ‘अभूत्’, ‘यया’ वाचा ‘बृहस्पतिं’ ‘वाजम्’ ‘अजीजपत’ अन्नविषयं जयं प्रापयत । एतस्यैव पुनर्वचनमजीजपतेति वाक्यम् । हे ‘वनस्पतयः !’ कार्ये कारणशब्दः, वानस्पत्या दुन्दुभयः ‘विमुच्यध्वम्’ विमुक्ता भवतेति ॥ ११ ॥

Eggeling
  1. He takes it down, with (Vāj. S. I X, 12), ‘This hath been your true concord whereby ye (drums) have caused Br̥haspati to win the race;–Br̥haspati ye have caused to win the race: be released, ye wood-lords!’ thus, if a Brāhmaṇa

sacrifices; for Br̥haspati is the Brahman, and the Brāhmaṇa is the Brahman.

१२

विश्वास-प्रस्तुतिः

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
(त ऽ) एषा᳘ वः सा᳘ सत्या᳘ सव्वा᳘गभूद्यये᳘न्द्रं व्वा᳘जम᳘जीजपता᳘जीजपते᳘न्द्रं व्वा᳘जं व्व᳘नस्पतयो व्वि᳘मुच्यध्वमि᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - श्रीधरादि

(णो᳘ ऽथ) अ᳘थ य᳘दि राज᳘न्यो य᳘जते॥
(त ऽ) एषा᳘ वः सा᳘ सत्या᳘ सव्वा᳘गभूद्यये᳘न्द्रं व्वा᳘जम᳘जीजपता᳘जीजपते᳘न्द्रं व्वा᳘जं व्व᳘नस्पतयो व्वि᳘मुच्यध्वमि᳘ति क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥

मूलम् - Weber

अ᳘थ वेद्यन्ता᳘त्॥
राजन्य᳘ उ᳘दङ् सप्त᳘दश प्रव्याधान्प्र᳘विध्यति या᳘वान्वा ए᳘कः प्रव्याधस्ता᳘वांस्तिर्य᳘ङ् प्रजा᳘पतिर᳘थ या᳘वत्सप्त᳘दश प्रव्याधास्ता᳘वानन्व᳘ङ् प्रजा᳘पतिः॥

मूलम् - विस्वरम्

अथ यदि राजन्यो यजते- “एष वः सा सत्या संवागभूत्, ययेन्द्रं वाजमजीजपताजीजपत, इन्द्रं वाजं वनस्पतयो विमुच्यध्वम्”- (वा. सं. ९ । १२) इति । क्षत्रं हीन्द्रः । क्षत्रं राजन्यः ॥ १२ ॥

सायणः

अथेति । अत्रापि पूर्ववन्मन्त्रभेदो “यदि राजन्यः” इत्यादिना प्रदर्शितः ॥ १२ ॥

Eggeling
  1. And if a Rājanya sacrifices, with, ‘This hath been your true concord whereby ye have caused Indra to twin the race;–Indra ye have caused to win the race: be released, ye wood-lords!’ for Indra is the Kshatra, and the Rājanya is the Kshatra.

१३

विश्वास-प्रस्तुतिः

(न्यो᳘ ऽथ) अ᳘थ व्वेद्यन्ता᳘त्॥
(द्रा) राज᳘न्य ऽउ᳘दङ्सप्त᳘दश[[!!]] प्रव्याधान्प्र᳘विध्यति या᳘वान्वा ऽए᳘कः प्रव्याधस्ता᳘वांस्तिर्य᳘ङ्प्रजा᳘पतिर᳘थ या᳘वत्सप्त᳘दश प्रव्याधास्ता᳘वानन्व᳘ङ्प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

(न्यो᳘ ऽथ) अ᳘थ व्वेद्यन्ता᳘त्॥
(द्रा) राज᳘न्य ऽउ᳘दङ्सप्त᳘दश[[!!]] प्रव्याधान्प्र᳘विध्यति या᳘वान्वा ऽए᳘कः प्रव्याधस्ता᳘वांस्तिर्य᳘ङ्प्रजा᳘पतिर᳘थ या᳘वत्सप्त᳘दश प्रव्याधास्ता᳘वानन्व᳘ङ्प्रजा᳘पतिः॥

मूलम् - Weber

तद्य᳘द्राजन्यः᳘ प्रवि᳘ध्यति॥
एष वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘द्राजन्य᳘स्त᳘स्मादे᳘कः स᳘न्बहूना᳘मीष्टे य᳘द्वेव च᳘तुरक्षरः प्रजा᳘पतिश्च᳘तुरक्षरो राजन्य᳘स्त᳘स्माद्राजन्यः᳘ प्र᳘विध्यति सप्त᳘दश प्रव्याधान्प्र᳘विध्यति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजापतिमु᳘ज्जयति॥

मूलम् - विस्वरम्

अथ वेद्यन्ताद्राजन्य उदङ् सप्तदश प्रव्याधान् प्रविध्यति । यावान्वा ऽएकः प्रव्याधः तावांस्तिर्यङ् प्रजापतिः । अथ यावत् सप्तदश प्रव्याधाः तावानन्वङ् प्रजापतिः ॥ १३ ॥

सायणः

दुन्दुभ्युपावहरणसमनन्तरकर्त्तव्यं क्षत्रियस्य विधत्ते- अथ वेद्यन्तादिति । ‘प्रव्याधान्’ प्रकर्षेण बलाधिक्येन विमुक्तो बाणो यावति देशे लक्ष्यं विध्यति, तावानेकः प्रव्याधः । तथाविधान् सप्तदशसङ्ख्याकान् ‘वेद्यन्तात्’ आरभ्य उदङ्मुखः उदगपवर्गान् ‘प्रविध्यति’ 9 । तमिमं प्रशंसति- यावान् वा एक इति । ‘प्रजापतिः’ एकप्रव्याधपरिमाणेन ‘तिर्यङ्’ स्थौल्येन विस्तारवान् वर्त्तते, सप्तदशप्रव्याधपरिमाणेन ‘अन्वङ्’ आयामवान् वर्त्तते । अतः सप्तदशप्रव्याधकरणं प्रजापतिशरीरपरिमितत्वात् प्रशस्तमित्यर्थः ॥ १३ ॥

Eggeling
  1. A Rājanya then 10 shoots seventeen arrow’s ranges northwards from the edge of the altar; for as much as is one arrow’s range, so much is Prajāpati crosswise; and as much as are seventeen arrow’s ranges, so much is Prajāpati lengthwise.

१४

विश्वास-प्रस्तुतिः

(स्त) तद्य᳘द्राज᳘न्यः[[!!]] प्रवि᳘ध्यति॥
(त्ये) एष वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘द्राज᳘न्यस्त᳘स्मादे᳘कः[[!!]] स᳘न्बहूना᳘मीष्टे य᳘द्वेव च᳘तुरक्षरः प्रजा᳘पतिश्च᳘तुरक्षरो राजन्य᳘स्त᳘स्माद्राज᳘न्यः[[!!]] प्र᳘विध्यति सप्त᳘दश प्रव्याधान्प्र᳘विध्यति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमुज्जयति[[!!]]॥

मूलम् - श्रीधरादि

(स्त) तद्य᳘द्राज᳘न्यः[[!!]] प्रवि᳘ध्यति॥
(त्ये) एष वै᳘ प्रजा᳘पतेः प्रत्यक्षतमां य᳘द्राज᳘न्यस्त᳘स्मादे᳘कः[[!!]] स᳘न्बहूना᳘मीष्टे य᳘द्वेव च᳘तुरक्षरः प्रजा᳘पतिश्च᳘तुरक्षरो राजन्य᳘स्त᳘स्माद्राज᳘न्यः[[!!]] प्र᳘विध्यति सप्त᳘दश प्रव्याधान्प्र᳘विध्यति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमुज्जयति[[!!]]॥

मूलम् - Weber

अ᳘थ यं य᳘जुषा युन᳘क्ति॥
तं य᳘जमान आ᳘तिष्ठति देव᳘स्याह᳘ᳫं᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवसो बृ᳘हस्प᳘तेर्वाजजितो वा᳘जं जेषमि᳘ति॥

मूलम् - विस्वरम्

तद्यद्राजन्यः प्रविध्यति । एष वै प्रजापतेः प्रत्यक्षतमां- यद्राजन्यः । तस्मादेकः सन् बहूनामीष्टे । यद्वेव चतुरक्षरः प्रजापतिः, चतुरक्षरो राजन्यः । तस्माद्राजन्यः प्रविध्यति । सप्तदश प्रव्याधान् प्रविध्यति । सप्तदशो वै प्रजापतिः । तत् प्रजापतिमुज्जयति ॥ १४ ॥

सायणः

एषामिषुप्रव्याधानां राजन्यकरणीयत्वे कारणमाह- तद्यद्राजन्य इति । ‘एष राजन्यः’ खलु ‘प्रजापतेः’ ‘प्रत्यक्षतमां’ प्रत्यक्षतमं रूपम्; ‘तस्मात्’ प्रजापतेः प्रत्यक्षरूपत्वात् ‘एकः’ अपि ‘सन्’ ‘राजन्यः’ ‘बहूनां’ प्रजानाम् ‘ईष्टे’ ईश्वरो भवति । ‘प्रजापतिः’ अपि ‘चतुरक्षरः,’ ‘राजन्यः’ अपि ‘नियः’- इत्यक्षरविश्लेषात् ‘चतुरक्षरः’ । ‘तस्मात्’ प्रजापत्यात्मकत्वाद् राजन्यकर्त्तृक इषुप्रव्याधः करणीयः । प्रव्याधानां सप्तदशत्वं प्रजापत्यात्मना स्तौति- सप्तदशेति । सतदशप्रव्याधकरणमुदीरितरीत्या प्रजापतिशरीरसम्पादनम् । तदन्ते या औदुम्बरी शाखा स्थापिता, तस्यामवस्थितेन यजमानेनाजिधावनं कुर्वता प्राप्तत्वात् कृत्स्नं प्रजापतिशरीरमेव प्राप्तं भवतीत्यर्थः ॥ १४ ॥

Eggeling
  1. And as to why a Rājanya shoots,–he, the Rājanya is most manifestly of Prajāpati (the lord of creatures): hence, while being one, he rules over many; and because ‘prajāpati’ has four syllables, and ‘rājanya 11’ also has four syllables, therefore a Rājanya shoots. He shoots seventeen arrow’s ranges, because Prajāpati is seventeenfold: he thereby wins Prajāpati.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यं य᳘जुषा युन᳘क्ति॥
तं य᳘जमान ऽआ᳘तिष्ठति देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवसो बृ᳘हस्प᳘तेर्व्वाजजि᳘तो व्वा᳘जं जेषमि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यं य᳘जुषा युन᳘क्ति॥
तं य᳘जमान ऽआ᳘तिष्ठति देव᳘स्याह᳘ᳫँ᳘ सवितुः᳘ सवे᳘ सत्य᳘प्रसवसो बृ᳘हस्प᳘तेर्व्वाजजि᳘तो व्वा᳘जं जेषमि᳘ति॥

मूलम् - Weber

तद्य᳘थैॗवादो बृ᳘हस्प᳘तिः॥
सविता᳘रम् प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नाम् प्रसवि᳘तेद᳘म् मे प्र᳘सुव त्व᳘त्प्रसूत इदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत᳘त्सवितृ᳘प्रसूत उद᳘जयदेव᳘मे᳘वैष᳘ एत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नाम् प्रसविॗतेद᳘म् मे प्र᳘सुव त्व᳘त्प्रसूत इदमुज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘त्सवितृ᳘प्रसूत उ᳘ज्जयति॥

मूलम् - विस्वरम्

अथ यं यजुषा युनक्ति- तं यजमान आतिष्ठति- “देवस्याहं सवितुः सवे सत्यप्रसवसा बृहस्पतेर्वाजजितो वाजं जेषम्”- इति ॥ १५ ॥

सायणः

अश्वैर्युक्तस्य रथस्य यजमानकर्त्तृकं समन्त्रकमारोहणं विधत्ते- अथ यमिति । उक्तं सप्तदशप्रव्याधान्तपथाजिधावनं कर्तुम् ‘आतिष्ठति’ आरोहेदित्यर्थः । अत्र सूत्रम्- “देवस्याहमिति यजुर्युक्तमारोहति यजमानः”- (का. श्रौ. सू. १४ । ७३) इति । आरोहणमन्त्रस्यायमर्थः;- ‘सत्यसवसः’ यथार्थप्रसवस्य ‘सवितुर्देवस्य’ ‘सवे’ अभ्यनुज्ञायां वर्तमानः ‘अहम्’ ‘वाजजितः’ अन्नस्य जेतुः ‘बृहस्पतेः’ सम्बन्धि ‘वाजम्’ अन्नम् ‘जेषम्’ जीयासमिति । सवितुरनुज्ञयैव प्रवर्त्तने वाजोज्जयो भवतीत्यर्थः ॥ १५ ॥

Eggeling
  1. And whichever (horse) he yokes with a formula, up to that the Sacrificer now steps 12, with (Vāj. S. IX, 13), ‘At the impulse of the divine Savitr̥,

of true impulsion, may I win the race of the race-winning Br̥haspati!’

१६

विश्वास-प्रस्तुतिः

तद्य᳘थै᳘वादो बृ᳘हस्प᳘तिः॥
सविता᳘रं प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत ऽउद᳘जयदेव᳘मे᳘वैष᳘ ऽएत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘त्सवितृ᳘प्रसूत ऽउ᳘ज्जयति॥

मूलम् - श्रीधरादि

तद्य᳘थै᳘वादो बृ᳘हस्प᳘तिः॥
सविता᳘रं प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत ऽउद᳘जयदेव᳘मे᳘वैष᳘ ऽएत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘त्सवितृ᳘प्रसूत ऽउ᳘ज्जयति॥

मूलम् - Weber

अ᳘थ य᳘द्यध्वर्योः᳟॥
अन्तेवासी᳘ वा ब्रह्मचारी᳘ वैतद्य᳘जुरधीयाॗत्सो ऽन्वास्था᳘य वाचयति वा᳘जिन इ᳘ति वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह वा᳘जिन इ᳘ति वाजजित इत्य᳘न्नं वै वा᳘जो ऽन्नजित इ᳘त्येॗवैत᳘दाहा᳘ध्वन स्कभ्नुव᳘न्त इत्य᳘ध्वनो हि᳘ स्कभ्नुव᳘न्तो धा᳘वन्ति यो᳘जना मि᳘माना इ᳘ति योजनशो हि मि᳘माना अ᳘ध्वानं धा᳘वन्ति का᳘ष्ठां गछते᳘ति य᳘थैनानन्तरा᳘ नाष्ट्रा र᳘क्षांसि न᳘ हिंस्यु᳘रेव᳘मेत᳘दाह धा᳘वन्त्याजिमा᳘घ्नन्ति दुन्दुभी᳘नभि सा᳘म गायति॥

मूलम् - विस्वरम्

तद्यथैवादो बृहस्पतिः सवितारं प्रसवायोपाधावत् । सविता वै देवानां प्रसविता । इदं मे प्रसुव, त्वत्प्रसूत इदमुज्जयानीति । तदस्मै सविता प्रसविता प्रासुवत् । तत्सवितृप्रसूत उदजयत् । एवमेवैष एतत्सवितारमेव प्रसवायोपधावति । सविता वै देवानां प्रसविता । इदं मे प्रसुव, त्वत्प्रसूत इदमुज्जयानीति । तदस्मै सविता प्रसविता प्रसौति । तत्सवितृप्रसूत उज्जयति ॥ १६ ॥

सायणः

इममर्थं बृहस्पतिदृष्टान्तेन द्रढयति- तद्यथैवाद इत्यादिना । ‘अदः’ अमुष्मिन् विप्रकृष्टे काले, आजिधावनकाले ‘बृहस्पतिः’ ‘सवितारम्’ अनुससार । एवमेवैष इत्यादिना दार्ष्टान्तिके योजयति ॥ १६ ॥

Eggeling
  1. And even as then Br̥haspati hasted up to Savitr̥ for his impulsion,–Savitr̥ being the impeller among the gods–saying, ‘Impel this for me: impelled by thee, may I win this!’ and Savitr̥, as the impeller, impelled it for him, and impelled by Savitr̥, he won; in like manner does he thereby haste up to Savitr̥ for his impulsion,–Savitr̥ being the impeller among the gods,–saying, ‘Impel this for me: impelled by thee, may I win!’ and Savitr̥, as the impeller, impels it for him, and impelled by Savitr̥ he wins.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्यध्वर्योः᳘॥
(र) अन्तेवासी᳘ वा ब्रह्मचारी᳘ वैतद्य᳘जुरधीया᳘त्सो ऽन्वास्था᳘य व्वाचयति व्वा᳘जिन इ᳘ति व्वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह व्वा᳘जिन इ᳘ति व्वाजजित ऽइत्य᳘न्नं वै व्वा᳘जो ऽन्नजित ऽइ᳘त्ये᳘वैत᳘दाहा᳘ध्वन स्कभ्नुव᳘न्त ऽइत्य᳘ध्वनो हि᳘ स्कभ्नुव᳘न्तो धा᳘वन्ति यो᳘जना मि᳘माना इ᳘ति योजनशो हि मि᳘माना अ᳘ध्वानं धा᳘वन्ति का᳘ष्ठां गच्छते᳘ति य᳘थैनानन्तरा᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि न᳘ हिᳫँ᳭स्यु᳘रेव᳘मेत᳘दाह धा᳘वन्त्याजिमा᳘घ्नन्ति दुन्दुभी᳘नभि सा᳘म गायति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्यध्वर्योः᳘॥
(र) अन्तेवासी᳘ वा ब्रह्मचारी᳘ वैतद्य᳘जुरधीया᳘त्सो ऽन्वास्था᳘य व्वाचयति व्वा᳘जिन इ᳘ति व्वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह व्वा᳘जिन इ᳘ति व्वाजजित ऽइत्य᳘न्नं वै व्वा᳘जो ऽन्नजित ऽइ᳘त्ये᳘वैत᳘दाहा᳘ध्वन स्कभ्नुव᳘न्त ऽइत्य᳘ध्वनो हि᳘ स्कभ्नुव᳘न्तो धा᳘वन्ति यो᳘जना मि᳘माना इ᳘ति योजनशो हि मि᳘माना अ᳘ध्वानं धा᳘वन्ति का᳘ष्ठां गच्छते᳘ति य᳘थैनानन्तरा᳘ नाष्ट्रा र᳘क्षाᳫँ᳭सि न᳘ हिᳫँ᳭स्यु᳘रेव᳘मेत᳘दाह धा᳘वन्त्याजिमा᳘घ्नन्ति दुन्दुभी᳘नभि सा᳘म गायति॥

मूलम् - Weber

अ᳘थैता᳘भ्यां ज᳘गतीभ्याम्॥
जुहो᳘ति वा᳘नु वा मन्त्र᳘यते य᳘दि जुहो᳘ति य᳘द्यनुमन्त्र᳘यते समा᳘न एव ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ यद्यध्वर्योरन्तेवासी वा, ब्रह्मचारी वा- एतद्यजुरधीयात् । सो ऽन्वास्थाय वाचयति- “वाजिनः”- इति । वाजिनो ह्यश्वाः । तस्मादाह- वाजिन इति । “वाजजितः” इति । अन्नं वै वाजः । अन्नजित इत्येवैतदाह । “अध्वनः स्कभ्नुवन्तः” इति । अध्वनो हि स्कभ्नुवन्तो धावन्ति । “योजना मिमानाः” इति । योजनशो हि मिमाना अध्वानं धावन्ति । “काष्ठां गच्छत” (वा. सं. ९ । १३) इति । यथैनानन्तरा नाष्ट्रा रक्षांसि न हिंस्युः । एवमेतदाह । धावन्त्या जिम् । आघ्नन्ति दुन्दुभीन् । अभि साम गायति ॥ १७ ॥

सायणः

विधत्ते- अथ यदीति । ‘अथ’ यजमानस्य रथारोहणानन्तरम्, ‘अध्वर्योः’ शिष्यो वा, अन्यो ‘ब्रह्मचारी’ वा ‘एतद्’ वक्ष्यमाणं मन्त्रम् ‘अधीयात्’ स्मरेत्; ‘सः’ तमेव रथम् ‘अन्वास्थाय’ तूष्णीमारुह्य “वाजिनः” इति मन्त्रं ‘वाचयति’, यजमानमिति शेषः । अत्र सूत्रम्- “अध्वर्योश्च तूष्णीं ब्रह्मचार्यन्तेवासी वा वाचनाय” (का. श्रौ. सू. १४ । ७४) इति, “वाजिन इति वाचयति” (का. श्रौ. सू. १४ । ७७) इति । ‘हे वाजिनः ?’ अश्वाः ! ‘वाजजितः’ अन्नस्य जेतारः ‘अध्वनः’ मार्गान् ‘स्कभ्नुवन्तः’ । “स्कभि स्तभि प्रतिबन्धे” सौत्रोधातुः (पा. सू. ३ । १ । ८२) । स्कम्भनं नाम वेगेनाक्रमणम्, मार्गान् पृष्ठतः कृत्वा पुरोगमनम् । तत् कुर्वन्तः, क्षोभयन्तो वा ‘योजना’ योजनानि ‘मिमानाः’ । “माङ् माने” (धा. पा. जु. आ. ६) शीघ्रगत्या परिच्छिन्दन्तः शीघ्रगामिनः, ‘काष्ठाम्’ आजिधावनस्यावधिभूताम् । “आज्यन्तो ऽपि काष्ठोच्यते” (निरु. २ । ५ । १) इति हि यास्कः । सप्तदशप्रव्याधान्ते निर्मितामौदुम्बरीं शाखां लक्ष्यभूतस्वर्गात्मिकाम्; “स्वर्गो वै लोकः काष्ठा” (तै. ब्रा. १ । ३ । ६ । ५) इति श्रुतेः । वेगेन गच्छतेति ॥

तमिमं व्याचष्टे- वाजिनो ऽश्वा इति । योजनशो हीति । लोके ‘हि’ अध्वगाः ‘योजनशः’ एकैकं योजनं ‘मिमानाः’ परिच्छिन्दन्तो महान्तम् ‘अध्वानम्’ ‘धावन्ति’ गच्छन्ति, एवमश्वा अपीति । यथैनानिति । अस्यायमर्थः; ‘अन्तरा’ आजिधावनमध्ये ‘नाष्ट्रा’ नाशकानि ‘रक्षांसि’ ‘एनान्’ अश्वान् ‘यथा’ ‘न हिंस्युः’, तथा लक्ष्यस्थानं गच्छतेति । विहितानामाजिधावनदुन्दुभ्याहननब्रह्मकर्तृकसामगानानां प्रयोगकालं विधत्ते- धावन्त्याजिमिति । अत्र सूत्रम्- “अन्तेवासी वा वाचनाय” (का. श्रौ. सू. १४ । ७४) । इत्येतस्मादनन्तरम् “आजिं शीघ्रं यन्ति, वाजिन इति वाचयति, ब्रह्मा त्रिः साम गायति, दुन्दुभीन् वादयन्ति” इति (का. श्रौ. सू. १४ । ७६-७९) ॥ १७ ॥

Eggeling
  1. And if a pupil of the Adhvaryu’s or some (other) theological student were to know that prayer, stepping up he makes (the Sacrificer) say, ‘O coursers!’–for horses are indeed coursers: therefore he says, ‘O coursers’–‘wealth-winners!’ for wealth is food: ‘food-winners’ he thereby says;–‘keeping the roads,’ for they indeed run keeping (within) the roads;–‘measuring the stages;’ for measuring the stages they run over the course;–‘go ye to the winning-post!’ In order that the evil-doers, the Rakshas, may not hurt them midways, he thus says this.–They run the race, they beat the drums, and he (the Brahman) sings the Sāman.

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैता᳘भ्यां ज᳘गतीभ्याम्॥
(ञ्जु) जुहो᳘ति वा᳘ ऽनु वा मन्त्र᳘यते य᳘दि जुहो᳘ति य᳘द्यनुमन्त्र᳘यते समान᳘ ऽएव[[!!]] ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैता᳘भ्यां ज᳘गतीभ्याम्॥
(ञ्जु) जुहो᳘ति वा᳘ ऽनु वा मन्त्र᳘यते य᳘दि जुहो᳘ति य᳘द्यनुमन्त्र᳘यते समान᳘ ऽएव[[!!]] ब᳘न्धुः॥

मूलम् - Weber

स᳘ जुहोति॥
एष स्य᳘ वाजी᳘ क्षिपणिं᳘ तुरण्यति ग्रीवा᳘याम् बद्धो᳘ अपिकक्ष᳘ आस᳘नि क्र᳘तुं दधिक्रा अ᳘नु संस᳘निष्यदत्प᳘थाम᳘ङ्कांस्य᳘न्वाप᳘नीफणत्स्वा᳘हा॥

मूलम् - विस्वरम्

अथैताभ्यां जगतीभ्यां जुहोति वा, अनु वा मन्त्रयते । यदि जुहोति, यद्यनुमन्त्रयते- समान एव बन्धुः ॥ १८ ॥

सायणः

विधत्ते- अथैताभ्यामिति । ‘एताभ्यां’ वक्ष्यमाणाभ्यां मन्त्राभ्यां हवनमनुमन्त्रणं वा विकल्पेन कर्त्तव्यम् 13 । उभयत्रार्थवादवाक्यशेषः समान इत्याह- यदि जुहोतीति । ‘बन्धुः’ बध्यते ऽनेन स्तुतिरिति बन्धुर्वाक्यशेषः, स तु समानः । “एतानेवैतदश्वान् धावत उपवाजयति, एतेषु वीर्यं दधाति”- इति वाक्यशेषो वक्ष्यते । ‘एतत्’ एतेन हवनेन अनुमन्त्रणेन वा ‘धावतः’ शीघ्रगामिनः तान् ‘अश्वान्’ ‘उपवाजयति’ अत्यन्तवेगयुक्तान् करोति, एतेष्वश्वेषु ‘वीर्यं’ सामर्थ्यं निहितवान् भवतीत्यर्थः । अतो वेगसाधनत्वाद् हवनमनुमन्त्रणं वा कर्त्तव्यमित्यर्थः ॥ १८ ॥

Eggeling
  1. He (the Adhvaryu) then 14 either offers or addresses (the horses) with those two jagatī-verses: whether he offers, or whether he addresses (the

horses), the significance (of the performance) is the same.

१९

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
(त्ये) एष स्य᳘ व्वाजी᳘ क्षिपणिं᳘ तुरण्यति ग्रीवा᳘यां बद्धो᳘ ऽअपिकक्ष᳘ ऽआस᳘नि॥ क्र᳘तुं दधिक्रा अ᳘नु सᳫँ᳭स᳘निष्यदत्प᳘थाम᳘ङ्काᳫँ᳭स्य᳘न्वाप᳘नीफणत्स्वा᳘हा॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
(त्ये) एष स्य᳘ व्वाजी᳘ क्षिपणिं᳘ तुरण्यति ग्रीवा᳘यां बद्धो᳘ ऽअपिकक्ष᳘ ऽआस᳘नि॥ क्र᳘तुं दधिक्रा अ᳘नु सᳫँ᳭स᳘निष्यदत्प᳘थाम᳘ङ्काᳫँ᳭स्य᳘न्वाप᳘नीफणत्स्वा᳘हा॥

मूलम् - Weber

उत᳘ स्म॥
अस्य द्र᳘वतस्तुरण्यतः᳘ पर्णं न वेर᳘नुवाति प्रगर्धि᳘नः श्येन᳘स्येव ध्र᳘जतो अङ्कसम् प᳘रि दधिक्रा᳘व्णः सॗहोर्जा त᳘रित्रतः स्वाहे᳘ति॥

मूलम् - विस्वरम्

स जुहोति- “एष स्य वाजी क्षिपणिं तुरण्यति; ग्रीवायां बद्धो ऽअपिकक्ष ऽआसनि, ऋतुं दधिक्रा अनु संसनिष्यदत् पथामङ्कास्यन्वापनीफणत् स्वाहा”- (वा० सं० ९ । १४) ॥ १९ ॥

सायणः

हवनमनूद्य मन्त्रद्वयं विधत्ते- स जुहोत्येष स्य इति । ‘एषः’ ‘स्यः’ सः ‘वाजी’ वेजनवान् अश्वः ‘ग्रीवायाम्’ ‘अपि’ ‘कक्षे’ कक्षमूले ‘आसनि’ आस्ये तदुचितरज्जुविशेषैः ‘बद्धः’ ‘क्षिपणिं’ कशां ‘तुरण्यति’ त्वरयति । ‘दधिक्राः’ धारकान् मार्गावरोधकान् पाषाणादीन् अपि अतिक्रामन् अश्वः ‘क्रतुं’ क्रतुसादिनो ऽभिप्रायम् ‘अनुसंसनिष्यदत्’ सम्यगनुसन्दधानः ‘पथां’ मार्गाणाम् ‘अङ्कांसि’ लक्षणानि कुटिलानि निम्नोन्नतानि च ‘अन्वापनीफणत्’ अनुक्रमेण ऋजुत्वं समत्वं वा ऽऽपादयन्, तुरण्यतीति पूर्वत्र सम्बन्धः ‘स्वाहा’- इति होमलिङ्गं वषट्कारनिवृत्त्यर्थम् ॥ १९ ॥

Eggeling
  1. He offers, with (Vāj. S. IX, 14; R̥k S. IV, 40, 4), ‘That courser speedeth after the whip, fettered at the neck and shoulder and mouth: may Dadhikrā win according to his power; may he run along the windings of the roads, hail!’

२०

विश्वास-प्रस्तुतिः

(हो) उत᳘ स्म॥
(स्मा) अस्य द्र᳘वतस्तुरण्यतः᳘ पर्णं न वेर᳘नुवाति प्रगर्द्धि᳘नः॥ श्येन᳘स्येव ध्र᳘जतो ऽअङ्कसं प᳘रिदधिक्रा᳘व्णः स᳘होर्जा त᳘रित्रतः स्वाहेति[[!!]]॥

मूलम् - श्रीधरादि

(हो) उत᳘ स्म॥
(स्मा) अस्य द्र᳘वतस्तुरण्यतः᳘ पर्णं न वेर᳘नुवाति प्रगर्द्धि᳘नः॥ श्येन᳘स्येव ध्र᳘जतो ऽअङ्कसं प᳘रिदधिक्रा᳘व्णः स᳘होर्जा त᳘रित्रतः स्वाहेति[[!!]]॥

मूलम् - Weber

अथो᳘त्तरेण त्रिचे᳘न॥
जुहो᳘ति वा᳘नु वा मन्त्र᳘यते द्वयं तद्य᳘स्माज्जुहो᳘ति वा᳘नु वा मन्त्र᳘यते य᳘दि जुहो᳘ति यद्यनुमन्त्र᳘यते समान᳘ एव ब᳘न्धुरेता᳘नेॗवैतद᳘श्वान्धा᳘वत उ᳘पवाजयत्येते᳘षु वीर्यं दधाति तिस्रो वा᳘ इमाः᳘ पृथिव्य᳘ इयमहै᳘का द्वे᳘ अस्याः प᳘रे ता᳘ एॗवैतदु᳘ज्जयति॥

मूलम् - विस्वरम्

“उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनुवाति प्रगर्द्धिनः । श्येनस्येव ध्रजतो ऽअङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः स्वाहा”- (वा० सं० ९ । १५) इति ॥ २० ॥

सायणः

उत स्मेति । द्वितीयमन्त्रस्यायमर्थः- ‘उत स्म’ अपि च ‘अस्य’ यजमानस्य रथे नियुक्तस्य ‘द्रवतः’ गच्छतः ‘तुरण्यतः’ तूर्णमध्वानमश्नुवानस्य ‘प्रगर्द्धिनः’ अवधिं प्राप्तुमभिकाङ्क्षतो ऽश्वस्य ‘अङ्कसं’ शृङ्गारचिह्नं 13 वस्त्रचामरादिकं ‘परि’ सर्वस्मिन्नपि देहे वर्त्तमानम् अनुगच्छति । तत्र दृष्टान्तः ‘वेः’ पक्षिणः ‘पर्णं न’ वातोद्गतं पत्रम् इव । यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन् नावलोक्यते, तथेत्यर्थः । शीघ्रधावने श्येनो दृष्टान्त्यते- ‘ध्रजतः’ परिधावतः ‘श्येनस्य इव’ ‘दधिक्राव्णः’ धारकपर्वताद्यतिक्रामिणो ऽश्वस्य ‘ऊर्ज्जा’ बलेन ‘सह’ ‘तरित्रतः’ भृशं तरतो ऽश्वस्येति योज्यः । ‘स्वाहा’- इति पूर्ववत् ॥ २० ॥

Eggeling
  1. [Vāj. S. IX, 15; R̥k S. IV, 40, 3], ‘And of him, the running, speeding, there fanneth like the wing of the eager bird,–as of the gliding eagle,–about the breast of Dadhikrāvan passing along with might, hail!’

२१

विश्वास-प्रस्तुतिः

(त्य) अथो᳘त्तरेण त्रिचे᳘न॥
जुहो᳘ति वा᳘ ऽनु वा मन्त्रयते[[!!]] द्वयं तद्य᳘स्माज्जुहो᳘ति वा᳘ ऽनु वा मन्त्र᳘यते य᳘दि जुहो᳘ति य᳘द्यनुमन्त्र᳘यते समान᳘ ऽएव ब᳘न्धुरेता᳘ने᳘वैतद᳘श्वान्धा᳘वत ऽउ᳘पवाजयत्येते᳘षु व्वी᳘र्यं दधाति तिस्रो वा᳘ ऽइमाः᳘ पृथि᳘व्य[[!!]] इयमहै᳘का द्वे᳘ ऽअस्याः प᳘रे ता᳘ ऽए᳘वैत᳘दु᳘ज्जयति॥

मूलम् - श्रीधरादि

(त्य) अथो᳘त्तरेण त्रिचे᳘न॥
जुहो᳘ति वा᳘ ऽनु वा मन्त्रयते[[!!]] द्वयं तद्य᳘स्माज्जुहो᳘ति वा᳘ ऽनु वा मन्त्र᳘यते य᳘दि जुहो᳘ति य᳘द्यनुमन्त्र᳘यते समान᳘ ऽएव ब᳘न्धुरेता᳘ने᳘वैतद᳘श्वान्धा᳘वत ऽउ᳘पवाजयत्येते᳘षु व्वी᳘र्यं दधाति तिस्रो वा᳘ ऽइमाः᳘ पृथि᳘व्य[[!!]] इयमहै᳘का द्वे᳘ ऽअस्याः प᳘रे ता᳘ ऽए᳘वैत᳘दु᳘ज्जयति॥

मूलम् - Weber

सो᳘ ऽनुमन्त्रयते॥
शं᳘ नो भवन्तु वाजि᳘नो ह᳘वेषु देव᳘ताता मित᳘द्रवः स्वर्काः᳘ जम्भ᳘यन्तो᳘ ऽहिं वृ᳘कं र᳘क्षांसि स᳘नेम्यस्म᳘द्युयवन्न᳘मीवाः॥

मूलम् - विस्वरम्

अथोत्तरेण त्रिचेन जुहोति वा ऽनुवा मन्त्रयते द्वयं तद्यस्माज्जुहोति वा अनु वा मन्त्रयते । यदि जुहोति, यद्यनुमन्त्रयते- समान एव बन्धुः । एतानेवैतदश्वान्धावत उपवाजयति । एतेषु वीर्यं दधाति । तिस्रो वा ऽइमाः पृथिव्यः- इयमहैका । द्वे ऽअस्याः परे । ता एवैतदुज्जयति ॥ २१ ॥

सायणः

कर्त्तव्यान्तरं विधत्ते- अथोत्तरेणेति । वक्ष्यमाणेन तृचेन हवनमनुमन्त्रणं वा कुर्यात् । द्वयं तदिति । अस्यायमर्थः- ‘जुहोत्यनुमन्त्रयते वा’ इति यत्, तद् द्वयं सत्यानृतात्मकत्वेन द्विप्रकारमिति, “द्वयं वा इदं न तृतीयमस्ति, सत्यञ्चैवानुतञ्च”- (श. प. १ । १ । १ । ४) इति श्रुतेः । हवनानुमन्त्रणयोरुभयत्रार्थवादवाक्यशेषः समान इत्याह- यदि जुहोतीति । ‘बन्धुः’ वाक्यशेषः समानः, जागतमन्त्रकरणयोस्तृचकरणयोश्च हवनानुमन्त्रणयोः स्तावकवाक्यशेषः समान इत्यर्थः । कः पुनरसावित्याह- एतानेवैतदिति । हवनानुमन्त्रणार्थवादवाक्यशेषः ‘तिस्रो वा इमाः’ इत्यादिकं तृचेन त्रित्वसंख्यार्थवादब्राह्मणम् । ‘पृथिव्यस्तिस्रः’, “त्रयो वा इमे त्रिवृतो लोकाः”- इति एकैकस्य त्र्यात्मकत्वश्रुतेः । तत्र ‘इयं’ परिदृश्यमाना भूमिः ‘एका’ ‘अस्याः’ भूमेः ‘परे’ उपरि दृश्यमाने ‘द्वे’ पृथिव्यौ; ‘ताः’ तिस्रो भूमीः तृचकरणकेन होमेनानुमन्त्रणेन वा उज्जितवान् भवति ॥ २१ ॥

Eggeling
  1. He then either offers or addresses (the horses) with the following tristich: this is twofold, because he either offers or addresses. Whether he offers, or addresses (the horses), the significance is the same: he thereby speeds those running horses, imbues them with energy. There are here three earths, namely this one, and two beyond it: these he thereby wins.

२२

विश्वास-प्रस्तुतिः

सो᳘ ऽनुमन्त्रयते॥
शं᳘ नो भवन्तु व्वाजि᳘नो ह᳘वेषु देव᳘ताता मित᳘द्रवः स्वर्क्काः᳘ जम्भ᳘यन्तो᳘ ऽहिं व्वृ᳘कᳫँ᳭ र᳘क्षाᳫँ᳭सि स᳘नेम्यस्म᳘द्युयवन्न᳘मीवाः॥

मूलम् - श्रीधरादि

सो᳘ ऽनुमन्त्रयते॥
शं᳘ नो भवन्तु व्वाजि᳘नो ह᳘वेषु देव᳘ताता मित᳘द्रवः स्वर्क्काः᳘ जम्भ᳘यन्तो᳘ ऽहिं व्वृ᳘कᳫँ᳭ र᳘क्षाᳫँ᳭सि स᳘नेम्यस्म᳘द्युयवन्न᳘मीवाः॥

मूलम् - Weber

ते᳘ नो अ᳘र्वन्तः॥
हवनश्रु᳘तो ह᳘वं वि᳘श्वे शृण्वन्तु वाजि᳘नो मित᳘द्रवः सहस्रसा᳘ मेघ᳘साता सनिष्य᳘वो महो ये ध᳘नᳫं समिथे᳘षु जभ्रिरे᳟॥

मूलम् - विस्वरम्

सो ऽनुमन्त्रयते- “शं नो भवन्तु वाजिनो हवेषु । देवताता, मितद्रवः, स्वर्क्वाः । जम्भयन्तो ऽर्हि वृकं रक्षांसि, सनेम्यस्मद्, युयवन्नमीवाः”- (वा. सं. ९ । १६) ॥ २२ ॥

सायणः

तत्रानुमन्त्रणमनूद्य मन्त्रत्रयं पठति- सो ऽनुमन्त्रयत इति । अन्यदन्यस्योपलक्षकम्; अत्रानुमन्त्रणानुवादत्वात्, मन्त्रान्ते हवनं वा कार्यम्; वचनबलादित्यवगन्तव्यम् 15 । तत्र, प्रथममन्त्रस्यायमर्थः;- ‘वाजिनः’ अश्वाः ‘हवेषु’ यज्ञेषु, संग्रामेषु वा ‘नः’ अस्माकं ‘शं भवन्तु’ सुखप्रापका भवन्तु । ‘देवताता’ देवयोग्याः । यद्वा, देवास्तन्यन्ते विस्तार्यन्ते यत्र सा देवतातिर्यज्ञः, तस्मिन् । ‘हवेषु’ आह्वानेषु शं भवन्त्विति योजना । ‘मितद्रवः’ मितमल्यं द्रवन्ति गच्छन्तीति मितद्रवः, ‘स्वर्काः’ शीघ्रधावनेन सु अर्च्चनीयाः ‘अहिं’ ‘वृकं’ ‘रक्षांसि’ सर्पवत् आरण्यकश्ववत् बाधकान् राक्षसान् ‘जम्भयन्तः’ जम्भन्तः, वर्णव्यत्ययः, क्षोभयन्तः । ‘सनेमि’- इति पुराणनाम, (निघं. ३ । २९ । ४) इह ‘तु’ क्षिप्रवचनम् । शीघ्रम् ‘अमीवान्’ रोगाः ‘अस्मत्’ अस्मत्तः ‘युयवन्’ वियोजितवन्त इत्यर्थः ॥ २२ ॥

Eggeling
  1. He addresses (the horses, with Vāj. S. IX, 16; R̥k S. VII, 38, 7), ‘Auspicious be the coursers unto us at the invocations in the divine service, running their measured course, with beautiful song; swallowing the dragon, the wolf, the evil spirits: may they ever keep away from us affliction!’

२३

विश्वास-प्रस्तुतिः

(वास्ते᳘) ते᳘ नो ऽअ᳘र्व्वन्तः॥
(न्तो) हवनश्रु᳘तो ह᳘वं व्वि᳘श्वे शृण्वन्तु व्वाजि᳘नो मित᳘द्रवः॥ सहस्रसा᳘ मेघ᳘साता सनिष्य᳘वो महो ये ध᳘नᳫँ᳭ समिथे᳘षु जब्भ्रिरे[[!!]]॥

मूलम् - श्रीधरादि

(वास्ते᳘) ते᳘ नो ऽअ᳘र्व्वन्तः॥
(न्तो) हवनश्रु᳘तो ह᳘वं व्वि᳘श्वे शृण्वन्तु व्वाजि᳘नो मित᳘द्रवः॥ सहस्रसा᳘ मेघ᳘साता सनिष्य᳘वो महो ये ध᳘नᳫँ᳭ समिथे᳘षु जब्भ्रिरे[[!!]]॥

मूलम् - Weber

वा᳘जे-वाजे ऽवत॥
वाजिनो नो ध᳘नेषु विप्रा अमृता ऋतज्ञाः अस्य म᳘ध्वः पिबत माद᳘यध्वं तृप्ता᳘ यात पथि᳘भिर्देवया᳘नैरि᳘ति॥

मूलम् - विस्वरम्

“ते नो ऽअर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा, मेधसाता सनिष्यवो महो ये धनं समिथेषु जनिरे”- (वा. सं. ९ । १७) ॥ २३ ॥

सायणः

ते नो अर्वन्त इति । द्वितीयमन्त्रस्यायमर्थः;- ‘ते’ ‘अर्वन्तः’ गतिकुशला अश्वाः, ‘हवनश्रुतः’ अस्मदाह्वानश्रोतारो ‘वाजिनः’ अन्नवन्तो ऽश्वाः सर्वे ऽपि ‘नः’ अस्माकं ‘हवम्’ आह्वानम् अस्मद्वचनं ‘शृण्वन्तु’ । ‘मितद्रवः’ पूर्ववत् । ‘सहस्रसाः’ महतो ऽन्नस्य सनितारो दातारः । ‘मेधसाता’ यज्ञे । सुप आकारः (पा. सू. ७ । १ । ३९) । ‘सनिष्यवः’ सनिं द्रव्यदानम् अस्माकमिच्छन्तः । ईदृशाः ‘ये’ अश्वाः ‘समिथेषु’ संग्रामेषु ‘महः’ मंहतः शत्रोः ‘धनम्’ । मह इति धनविशेषणं वा, महद्धनं ‘जभ्रिरे’ आहृतवन्तः । शृण्वन्त्विति पूर्वेणान्वयः ॥ २३ ॥

Eggeling
  1. [Vāj. S. IX, 17; R̥k S. X, 64, 6], ‘Those racers, wont to hear the calls, may they all hear our call, the coursers running their measured course: they, the winners of thousands, eager to win at the winning of oblations, who have carried off great gain in the contests.’

२४

विश्वास-प्रस्तुतिः

व्वा᳘जे वाजे ऽवत॥
व्वाजिनो नो ध᳘नेषु विप्रा ऽअमृता ऽऋतज्ञाः॥ अस्य म᳘ध्वः पिबत माद᳘यध्वं तृप्ता᳘ यात पथि᳘भिर्देवया᳘नैरिति[[!!]]॥

मूलम् - श्रीधरादि

व्वा᳘जे वाजे ऽवत॥
व्वाजिनो नो ध᳘नेषु विप्रा ऽअमृता ऽऋतज्ञाः॥ अस्य म᳘ध्वः पिबत माद᳘यध्वं तृप्ता᳘ यात पथि᳘भिर्देवया᳘नैरिति[[!!]]॥

मूलम् - Weber

अ᳘थ बार्हस्पत्ये᳘न चरु᳘णा प्रत्यु᳘पतिष्ठते॥
तमु᳘पस्पृशत्य᳘न्नं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫं ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘देॗवैतद᳘न्नमुद᳘जैषीत्ते᳘नैॗवैत᳘देतां ग᳘तिं गत्वा स᳘ᳫं᳘स्पृशते त᳘दात्म᳘न्कुरुते॥

मूलम् - विस्वरम्

“वाजे वाजे ऽवत वाजिनो नो धनेषु विप्रा, अमृता, ऋतज्ञाः । अस्य मध्वः पिबत, मादयध्वम्, तृप्ता यात पथिभिर्देवयानैः”- (वा. सं. ९ । १८) इति ॥ २४ ॥

सायणः

वाजे वाजे ऽवतेति । तृतीयमन्त्रस्यायमर्थः;- हे ‘वाजिनः’ ! अश्वाः ! ‘वाजे-वाजे’ तत्तदन्ननिमित्तं धननिमित्तं च ‘नः’ अस्मान् ‘अवत’ । ‘विप्राः’ मेधाविनः ‘अमृताः’ अमरणधर्म्माणः ‘ऋतज्ञाः’ ऋतं सत्यं गन्तव्यदेशं जानन्तः । तादृगश्वाभिमानिनो हे देवाः ! ‘अस्य मध्वः पिबत’ इदं धावनात् पूर्वं पश्चाच्चावघ्रायमाणं मधुसमानं नैवारचरुलक्षणं पिबत । पीत्वा च ‘मादयध्वम्’ हृष्टा भवत । ततः ‘तृप्ताः’ सन्तो ‘देवयानैः पथिभिः’ देवाधिष्ठितैर्मार्गैः अध्वभिराजिं प्रति ‘यात’ इति ॥ २४ ॥

Eggeling
  1. [Vāj. S. IX, 18; R̥k S. VII, 38, 8], ‘In

every race, help us, ye racers, at the prizes, ye wise, immortal knowers of the divine law: drink of this mead, be gladdened, and satisfied walk ye on the paths trodden by the gods!’

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ बार्हस्पत्ये᳘न चरु᳘णा प्रत्यु᳘पतिष्ठते॥
तमु᳘पस्पृशत्य᳘न्नं वा᳘ ऽएष ऽउ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्ते᳘नै᳘वैत᳘देतां ग᳘तिं गत्वा स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ बार्हस्पत्ये᳘न चरु᳘णा प्रत्यु᳘पतिष्ठते॥
तमु᳘पस्पृशत्य᳘न्नं वा᳘ ऽएष ऽउ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्ते᳘नै᳘वैत᳘देतां ग᳘तिं गत्वा स᳘ᳫँ᳘स्पृशते त᳘दात्म᳘न्कुरुते॥

मूलम् - Weber

स उ᳘पस्पृशति॥
आ᳘ मा वा᳘जस्य प्रसवो᳘ जगम्यादित्य᳘न्नं वै वा᳘ज आ मा᳘न्नस्य प्रसवो᳘ जगम्यादि᳘त्येॗवैत᳘दाॗहेमे द्या᳘वापृथिवी᳘ विश्व᳘रूपे इ᳘ति द्या᳘वापृथिवी हि᳘ प्रजा᳘पतिरा᳘ मा गन्ताम् पित᳘रामात᳘रा चे᳘ति माॗतेव च हि᳘ पिॗतेव च प्रजा᳘पतिरा᳘ मा सो᳘मो अमृतत्वे᳘न गम्यादि᳘ति सो᳘मो हि᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

अथ बार्हस्पत्येन चरुणा प्रत्युपतिष्ठते । तमुपस्पृशति । अन्नं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नपेयं ह वै नामैतद्- यद्वाजपेयम् । तद् यदेवैतदन्नमुदजैषीत्- तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन् कुरुते ॥ २५ ॥

सायणः

विधत्ते- अथ बार्हस्पत्येनेति 16 ‘प्रत्युपतिष्ठते’ आजिधावनं कृत्वा तीर्थदेशं प्रत्यागच्छतो ऽश्वान् प्रति नैवारचरुणा सह गच्छेदित्यर्थः । तस्य चरोः स्पर्शनं विधत्ते- तमुपेति । तत् प्रशंसति- अन्नं वेत्यादिना । ‘एतां गतिम्’ आनिधावनलक्षणं गत्वा चरूपस्पर्शनेन एतदाजिधावनोज्जितमन्नमेवात्मनि निहितवान् भवतीत्यर्थः ॥ २५ ॥

Eggeling
  1. He then 17 steps over against (the horses) with the Bārhaspatya pap, and touches it; for he who offers the Vājapeya wins food, since ‘vāja-peya’ is the same as ‘anna-peya:’ whatever food he has thus gained that he now, having reached that goal, brings in contact with himself, puts within himself.

२६

विश्वास-प्रस्तुतिः

स ऽउ᳘पस्पृशति॥
(त्या᳘) आ᳘ मा व्वा᳘जस्य प्रसवो᳘ जगम्यादित्य᳘न्नं वै व्वा᳘ज आ मा᳘ ऽन्नस्य प्रसवो᳘ जगम्यादि᳘त्ये᳘वैत᳘दा᳘हेमे द्या᳘वापृथिवी᳘ व्विश्व᳘रूपे ऽइ᳘ति द्या᳘वापृथिवी हि᳘ प्रजा᳘पतिरा᳘ मा गन्तां पित᳘रा मात᳘रा चे᳘ति मा᳘तेव च हि᳘ पि᳘तेव च प्रजा᳘पतिरा᳘ मा सो᳘मो ऽअमृतत्वे᳘न गम्यादि᳘ति सो᳘मो हि᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

स ऽउ᳘पस्पृशति॥
(त्या᳘) आ᳘ मा व्वा᳘जस्य प्रसवो᳘ जगम्यादित्य᳘न्नं वै व्वा᳘ज आ मा᳘ ऽन्नस्य प्रसवो᳘ जगम्यादि᳘त्ये᳘वैत᳘दा᳘हेमे द्या᳘वापृथिवी᳘ व्विश्व᳘रूपे ऽइ᳘ति द्या᳘वापृथिवी हि᳘ प्रजा᳘पतिरा᳘ मा गन्तां पित᳘रा मात᳘रा चे᳘ति मा᳘तेव च हि᳘ पि᳘तेव च प्रजा᳘पतिरा᳘ मा सो᳘मो ऽअमृतत्वे᳘न गम्यादि᳘ति सो᳘मो हि᳘ प्रजा᳘पतिः॥

मूलम् - Weber

तम᳘श्वान᳘वघ्रापयति॥
वा᳘जिन इ᳘ति वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह वा᳘जिन इ᳘ति वाजजित इत्य᳘न्नं वै वा᳘जो ऽन्नजित इ᳘त्येॗवैत᳘दाह वा᳘जᳫं सवृवा᳘ᳫं᳘सं इ᳘ति सरिष्य᳘न्त इ᳘ति वा अ᳘ग्र आह सरिष्य᳘न्त इव हि त᳘र्हि भ᳘वन्त्यथा᳘त्र ससृवा᳘ᳫं᳘स इ᳘ति सवृवा᳘ᳫं᳘स इव ह्यत्र भ᳘वन्ति त᳘स्मादाह ससृवा᳘ᳫं᳘स इ᳘ति बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति बृ᳘हस्प᳘तेॗर्ह्येष᳘ भागो भ᳘वति त᳘स्मादाह बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति निमृजाना इ᳘ति तद्य᳘जमाने वीर्यं᳘ दधाति तद्यद᳘श्वानवघ्राप᳘यतीममु᳘ज्जयानी᳘ति वा अग्रे᳘ ऽवघ्रापयत्यथा᳘त्रेममु᳘दजैषमि᳘ति त᳘स्माद्वा अ᳘श्वान᳘वघ्रापयति॥

मूलम् - विस्वरम्

स उपस्पृशति- “आ मा वाजस्य प्रसवो जगम्यात्”- इति । अन्नं वै वाजः । आ मा ऽन्नस्य प्रसवो जगम्याद्- इत्येवैतदाह । “एमे द्यावापृथिवी विश्वरूपे”- इति । द्यावापृथिवी हि प्रजापतिः । “आ मा गन्तां पितरा मातरा च”- इति । मातेव च हि, पितेव च प्रजापतिः । “आ मा सोमो ऽअमृतत्वेन गम्यात्”- इति । सोमो हि प्रजापतिः ॥ २६ ॥

सायणः

उपस्पर्शनमनूद्य मन्त्रं विधत्ते- स उपेति । मन्त्रस्यायमर्थः- ‘वाजस्य’ अन्नस्य ‘प्रसवः’ अभ्यनुज्ञा उत्पत्तिर्वा ‘मा’ मां प्रति ‘आजगम्यात्’ आगच्छतु । ‘विश्वरूपे’ नानारूपे ‘इमे’ ‘द्यावापृथिवी’ द्यावापृथिव्यौ प्रजापत्यात्मिके, तत्सृष्टत्वात् ‘आगन्ताम्’ आगच्छताम् । ‘पितरा मातरा च’ “छन्दसि”- इत्यानङ् (पा. सू. ६ । ३ । ३३ ।) निपात्यते । अस्मदीयः पिता माता च मां प्रत्यागतम्; चिर जीवित्वा आगच्छताम् । यद्वा, द्यावापृथिव्योः पितेति मातेति च परोक्षनाम्ना निर्देशः । तत्र पितृरूपा द्यौः; मातृरूपा पृथिवीति; “द्यौर्वा पिता पृथिवी माता”- इति (ऋ. सं. १ । १९ । ६ ।) । ‘सोमः’ च ‘अमृतत्वेन’ मां प्रति ‘आगम्यात्’ आगच्छतु; “अपाम सोमममृता अभूम” (ऋ. सं. ८ । ४८ । ३)- इति ह्यन्यत्र श्रुतम् । मन्त्रं प्रतिपादमनूद्य द्यावापृथिव्यादिके प्रजापत्यात्मना स्तौति- आ मा वाजस्येति ॥ २६ ॥

Eggeling
  1. He touches it, with (Vāj. S. IX, 19), ‘May gain of wealth come to me!’ wealth means food: he thus says, ‘May gain of food come (accrue) to me;’–‘May these two, Heaven and Earth, the all-shaped, come to me!’ for Prajāpati is Heaven and Earth;–‘May father and mother come to me!’ for Prajāpati is both father and mother;–‘May Soma come to me with immortality!’ for Prajāpati is Soma.

२७

विश्वास-प्रस्तुतिः

(स्त) तम᳘श्वान᳘वघ्रापयति॥
व्वा᳘जिन इ᳘ति व्वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह व्वा᳘जिन इ᳘ति व्वाजजित ऽइत्य᳘न्नं वै व्वा᳘जो ऽन्नजित ऽइ᳘त्ये᳘वैत᳘दाह व्वा᳘जᳫँ᳭ ससृवा᳘ᳫँ᳘स इ᳘ति सरिष्य᳘न्त ऽइ᳘ति वा ऽअ᳘ग्र ऽआह सरिष्य᳘न्त ऽइव हि त᳘र्हि भ᳘वन्त्यथा᳘त्र ससृवा᳘ᳫँ᳘स इ᳘ति ससृवा᳘ᳫँ᳘स इव ह्य᳘त्र भ᳘वन्ति त᳘स्मादाह ससृवा᳘ᳫँ᳘स इ᳘ति बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति बृ᳘हस्प᳘ते᳘र्ह्येष᳘ भागो भ᳘वति त᳘स्मादाह बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति निमृजाना ऽइ᳘ति तद्य᳘जमाने व्वी᳘र्यं[[!!]] दधाति तद्यद᳘श्वानवघ्राप᳘यतीममु᳘ज्जयानी᳘ति वा ऽअग्रे᳘ ऽवघ्रापयत्यथा᳘त्रेममु᳘दजैषमि᳘ति त᳘स्माद्वा ऽअ᳘श्वान᳘वघ्रापयति॥

मूलम् - श्रीधरादि

(स्त) तम᳘श्वान᳘वघ्रापयति॥
व्वा᳘जिन इ᳘ति व्वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह व्वा᳘जिन इ᳘ति व्वाजजित ऽइत्य᳘न्नं वै व्वा᳘जो ऽन्नजित ऽइ᳘त्ये᳘वैत᳘दाह व्वा᳘जᳫँ᳭ ससृवा᳘ᳫँ᳘स इ᳘ति सरिष्य᳘न्त ऽइ᳘ति वा ऽअ᳘ग्र ऽआह सरिष्य᳘न्त ऽइव हि त᳘र्हि भ᳘वन्त्यथा᳘त्र ससृवा᳘ᳫँ᳘स इ᳘ति ससृवा᳘ᳫँ᳘स इव ह्य᳘त्र भ᳘वन्ति त᳘स्मादाह ससृवा᳘ᳫँ᳘स इ᳘ति बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति बृ᳘हस्प᳘ते᳘र्ह्येष᳘ भागो भ᳘वति त᳘स्मादाह बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति निमृजाना ऽइ᳘ति तद्य᳘जमाने व्वी᳘र्यं[[!!]] दधाति तद्यद᳘श्वानवघ्राप᳘यतीममु᳘ज्जयानी᳘ति वा ऽअग्रे᳘ ऽवघ्रापयत्यथा᳘त्रेममु᳘दजैषमि᳘ति त᳘स्माद्वा ऽअ᳘श्वान᳘वघ्रापयति॥

मूलम् - Weber

अ᳘थैते᳘षामाजिश्रि᳘तां र᳘थानाम्॥
ए᳘कस्मिन्वै᳘श्यो वा राजॗन्यो वोपा᳘स्थितो भवति स वे᳘देरु᳘त्तरायां श्रो᳘णा उ᳘पविशत्य᳘थाध्वर्यु᳘श्च य᳘जमानश्च पू᳘र्वया द्वारा᳘ मधुग्रह᳘मादा᳘य नि᳘ष्क्रामतस्तं वै᳘श्यस्य वा राजन्य᳘स्य वा प्राणावा᳘धत्तो᳘ ऽथ नेष्टा᳘परया द्वारा᳘ सुराग्रहा᳘नादा᳘य नि᳘ष्क्रामति स᳘ जघ᳘नेन शा᳘लाम् पर्येत्यै᳘कं वै᳘श्यस्य वा राजन्य᳘स्य वा प्राणा᳘वाद᳘धदाहाने᳘न त इमं नि᳘ष्क्रीणामी᳘ति सत्यं वै श्रीर्ज्यो᳘तिः सोमो᳘ ऽनृतम् पाप्मा त᳘मः सु᳘रा सत्य᳘मेॗवैतछ्रि᳘यं ज्यो᳘तिर्य᳘जमाने दधात्य᳘नृतेन पाप्म᳘ना त᳘मसा वै᳘श्यं विध्यति तैः स यम् भो᳘गं काम᳘यते तं᳘ कुरुते᳘ ऽथैतᳫं स᳘हिरण्यपात्रमेव᳘ मधुग्रह᳘म् ब्रह्म᳘णे ददाति त᳘म् ब्रह्म᳘णे द᳘ददमृ᳘तमा᳘युर् आत्म᳘न्धत्ते ऽमृ᳘तᳫं ह्या᳘युर्हि᳘रण्यं ते᳘न स यम् भो᳘गं काम᳘यते तं᳘ कुरुते॥

मूलम् - विस्वरम्

तमश्वानवघ्रापयति- “वाजिनः”- इति । वाजिनो ह्यश्वाः । तस्मादाह वाजिन इति । “वाजजितः”- इति । अन्नं वै वाजः । अन्नजित इत्येवैतदाह । “वाजं ससृवांसः”- इति । सरिष्यन्त- इति वा- अग्र ऽआह । सरिष्यन्त इव हि तर्हि भवन्ति- अथात्र ससृवांस इति । ससृवांस इव ह्यत्र भवन्ति- तस्मादाह- ससृवांस इति । “बृहस्पतेर्भागमवजिघ्रत” इति । बृहस्पतेर्ह्येष भागो भवति- तस्मादाह- बृहस्पतेर्भागमवजिघ्रतेति । “निमृजानाः”- (वा. सं. ९ । १९) इति । तद्यजमाने वीर्यं दधाति । तद्- यदश्वानवघ्रापयति- इममुज्जयानीति वा ऽअग्रे ऽवघ्रापयति- अथात्रेममुदजैषमिति । तस्माद्वा ऽअश्वानवघ्रापयति ॥ २७ ॥

सायणः

विधत्ते- तमश्वानिति 18 ‘तम्’ उपस्थापितं चरुम् ‘अश्वान्’ अवघ्रापयेत् तन्मन्त्रस्यायमर्थः- हे ‘वाजिनः !’ अश्वाः ! ‘वाजजितः’ वाजस्यान्नस्य जेतारः, वाजमन्नं जेतुमिति शेषः । ‘ससृवांसः’ आजिसरण कृतवन्तः सन्ता ‘बृहस्पतेः’ सम्बन्धिनं ‘भागम्’ अन्नशेषम् ‘अवजिघ्रत’ अवघ्राणं कुरुत । ‘निमृजानाः’ चरुलेपनिमार्जनं कुर्वाणाः ‘इति’ । मन्त्रं पदशो ऽनूद्य व्याचष्टे- वाजिनो हीति । ससृवांस इति भूतार्थविहितक्वस्वन्तत्वेन प्रयोगस्याभिप्रायमाह- सरिष्यन्त इति । पूर्वमाजिधावनप्राक्काले चरोरश्वैरवघ्रापणं विहितम्, तन्मन्त्रे ‘वाजं सरिष्यन्तः’- इति तु ष्यत्रन्तत्वेन प्रयुक्तम्; आजिधावनस्य करिष्यमाणत्वात्, अत्र त्वस्य कृतत्वात् तदन्ते विधीयमाने चर्वाघ्रापणमन्त्रे ससृवांस इति भूतार्थवाचकत्वेन प्रयोगो युक्त इत्यभिप्रायः । निमृजाना इत्यस्य तात्पर्यमाह- तद्यजमान इति । अन्नरसनिमार्जनस्य वीर्यहेतुत्वात् ‘तत्’ तेन ‘निमृजाना इति’- पदेन ‘यजमाने’ ‘वीर्यं’ स्थापितवान् भवति ॥ आजिधावनस्यादौ तदन्ते च विहितस्य चर्वाघ्रापणस्य प्रयोजनमेदं दर्शयति- तद्यदश्वानिति । ‘अग्रे’ पूर्वं वाजोज्जित्यर्थम्, अत्र तूज्जितस्य वाजस्य स्वाधीनकरणार्थम्; अतः पूर्वमिमं वाजमुज्जयानीति, अत्रेमं वाजमुदजेषभित्याशीर्वदर्थवाचि भूतार्थवाचि च पदं युक्तमित्यर्थः ॥ २७ ॥

Eggeling
  1. He makes the horses smell it, with, ‘Ye coursers!’ for horses are coursers: therefore he says, ‘Ye coursers! wealth-winners!’ wealth is food: ‘food-winners’ he thereby says;–‘having run the course–’ for ‘starting (upon the course)’ he said before, as then they were indeed starting; but now he says, ‘having run,’ for they indeed have run (the race): therefore he says, ‘having run;’–‘smell ye Br̥haspati’s portion–’ for this is Br̥haspati’s portion: therefore he says, ‘Smell ye Br̥haspati’s portion;’–’taking (it) in!’ whereby. he imbues the Sacrificer with energy. And as to why

he makes the horses smell,–he made them smell before, thinking, ‘May I win this (world);’ and now (he does so) thinking, ‘I have won this (world) that is why he makes the horses smell.

२८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैते᳘षामाजिसृ᳘ताᳫँ᳭ र᳘थानाम्॥
(मे᳘) ए᳘कस्मिन्वै᳘श्यो वा राज᳘न्यो वोपा᳘स्थितो भवति स व्वे᳘देरु᳘त्तरायाᳫँ᳭ श्रो᳘णा ऽउ᳘पविशत्य᳘थाध्वर्यु᳘श्च य᳘जमानश्च पू᳘र्व्वया द्वारा᳘ मधुग्रह᳘मादा᳘य नि᳘ष्क्रामतस्तं व्वै᳘श्यस्य वा राज᳘न्यस्य[[!!]] वा प्राणावा᳘धत्तो᳘ ऽथ नेष्टा᳘ ऽपरया द्वारा᳘ सुराग्रहा᳘नादा᳘य नि᳘ष्क्रामति स᳘ जघ᳘नेन शा᳘लां पर्येत्यै᳘कं व्वै᳘श्यस्य वा राजन्य᳘स्य वा पाणा᳘वाद᳘धदाहाने᳘न त ऽइमं नि᳘ष्क्रीणामी᳘ति सत्यं वै श्रीर्ज्यो᳘तिः सोमो᳘ ऽनृतं पाप्मा त᳘मः सु᳘रा सत्य᳘मे᳘वैतच्छ्रि᳘यं ज्यो᳘तिर्य᳘जमाने दधात्य᳘नृतेन पाप्म᳘ना त᳘मसा व्वै᳘श्यं व्विध्यति तैः स यं भो᳘गं काम᳘यते तं᳘ कुरुते᳘ ऽथैतᳫँ᳭ स᳘ हिरण्यपात्रमेव᳘ मधुग्रहं᳘ ब्रह्म᳘णे ददाति तं᳘ ब्रह्म᳘णे द᳘ददमृ᳘तमा᳘युरात्म᳘न्धत्ते ऽमृ᳘तᳫँ᳭ ह्या᳘युर्हि᳘रण्यं ते᳘न स यं भो᳘गं काम᳘यते तं᳘ कुरुते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैते᳘षामाजिसृ᳘ताᳫँ᳭ र᳘थानाम्॥
(मे᳘) ए᳘कस्मिन्वै᳘श्यो वा राज᳘न्यो वोपा᳘स्थितो भवति स व्वे᳘देरु᳘त्तरायाᳫँ᳭ श्रो᳘णा ऽउ᳘पविशत्य᳘थाध्वर्यु᳘श्च य᳘जमानश्च पू᳘र्व्वया द्वारा᳘ मधुग्रह᳘मादा᳘य नि᳘ष्क्रामतस्तं व्वै᳘श्यस्य वा राज᳘न्यस्य[[!!]] वा प्राणावा᳘धत्तो᳘ ऽथ नेष्टा᳘ ऽपरया द्वारा᳘ सुराग्रहा᳘नादा᳘य नि᳘ष्क्रामति स᳘ जघ᳘नेन शा᳘लां पर्येत्यै᳘कं व्वै᳘श्यस्य वा राजन्य᳘स्य वा पाणा᳘वाद᳘धदाहाने᳘न त ऽइमं नि᳘ष्क्रीणामी᳘ति सत्यं वै श्रीर्ज्यो᳘तिः सोमो᳘ ऽनृतं पाप्मा त᳘मः सु᳘रा सत्य᳘मे᳘वैतच्छ्रि᳘यं ज्यो᳘तिर्य᳘जमाने दधात्य᳘नृतेन पाप्म᳘ना त᳘मसा व्वै᳘श्यं व्विध्यति तैः स यं भो᳘गं काम᳘यते तं᳘ कुरुते᳘ ऽथैतᳫँ᳭ स᳘ हिरण्यपात्रमेव᳘ मधुग्रहं᳘ ब्रह्म᳘णे ददाति तं᳘ ब्रह्म᳘णे द᳘ददमृ᳘तमा᳘युरात्म᳘न्धत्ते ऽमृ᳘तᳫँ᳭ ह्या᳘युर्हि᳘रण्यं ते᳘न स यं भो᳘गं काम᳘यते तं᳘ कुरुते॥

मूलम् - Weber
मूलम् - विस्वरम्

अथैतेषामाजिसृतां रथानामेकस्मिन् वैश्यो वा, राजन्यो वा उपास्थितो भवति । स वेदेरुत्तरायां श्रोणा ऽउपविशति । अथाध्वर्युश्च यजमानश्च पूर्वया द्वारा मधुग्रहमादाय निष्क्रामतः । तं वैश्यस्य वा राजन्यस्य वा पाणावाधत्तः । अथ नेष्टा ऽपरया द्वारा सुराग्रहानादाय निष्क्रामति । स जघनेन शालां पर्येत्य एकं वैश्यस्य वा राजन्यस्य वा पाणावादधदाह- अनेन त ऽइमं निष्क्रीणामीति । सत्यं वै श्रीर्ज्योतिः- सोमः अनृतं, पाप्मा तमः- सुरा । सत्यमेवैतच्छ्रियं ज्योतिर्यजमाने दधाति । अनृतेन पाप्मना तमसा वैश्यं विध्यति । तैः स यं भोगं कामयते- तं कुरुते । अथैतं स हिरण्यपात्रमेव मधुग्रहं ब्रह्मणे ददाति । तं ब्रह्मणे दददमृतमायुरात्मन् धत्ते । अमृतं ह्यायुर्हिरण्यम् । तेन स यं भोगं कामयते- तं कुरुते ॥ २८ ॥

सायणः

सुराग्रहाणां मधुग्रहस्य च विनियोगप्रकारो माध्यन्दिने सवने वक्ष्यत इति द्वितीयब्राह्मणान्ते- (श. प. ५ । १ । २ । १९. भा.) प्रतिज्ञातम्, तमिदानीमवसरप्राप्तं दर्शयितुमाह- अथैतेषामिति । ‘आजिसृताम्’ आजिं प्रति सरिष्यतां रथानां यजमानरथव्यतिरिक्तानामेकस्मिन् रथे वैश्यराजन्ययोरन्यतरः सुराग्रहान् प्रतिग्रहीतुमासीनो भवति । अत्र कात्यायनो यजुर्युक्तरथारोहणमध्वर्युशिष्यस्य यजमानवाचनार्थमुक्त्वा सूत्रयामास- “इतरेषामेकस्मिन् राजन्यो वैश्यो वा सौरप्रतिग्रहायाजिं शीघ्रं यन्ति”- (का. श्रौ. सू. १४ । ७५ । ७६) इति । स वेदेरिति । अस्यायमर्थः;- ‘सः’ वैश्यराजन्ययोरन्यतरो रथादवरुह्योत्तरस्यां ‘श्रोणौ’ उपविशेत् । ‘अथ’ अनन्तरम् अध्वर्युयजमानौ ‘पूर्वया द्वारा’ हविर्द्धानस्य पूर्वद्वारेण ‘मधुग्रहम्’ आदाय, निष्क्रम्य, वैश्यराजन्ययोरन्यतरस्य हस्ते निदध्याताम् । ‘नेष्टा’ अपि हविर्द्धानस्य पश्चिमद्वारेण ‘सुराग्रहान् आदाय निष्क्रम्य’ शालां जघनेन ‘पत्नीशालायाः पश्चिमप्रदेशादागत्योत्तरस्यां वेदिश्रोणावुपविश्य उक्तयोरन्यतरस्य पाणावेकं सुराग्रहं प्रयच्छन् “अनेन त इमं निष्क्रीणामि” 19- इति वाक्यं पठेत् । ‘अनेन’ सुराग्रहेण ‘ते’ तव सम्बन्धिनम् ‘इमं’ मधुग्रहं ‘निष्क्रीणामि’ स्वाधीनं करोमीति तस्यार्थः ॥

तमिमं निष्क्रयं प्रशंसति- सत्यं वै श्रीरिति । सोमस्य सत्यात्मकत्वम्, इतरस्य अनृताद्यात्मकत्वं च प्रागेव व्याख्यातम् (श. प. ५ । २ । २ । १० । भा०) । सुराग्रहप्रतिग्रहीतारं ‘वैश्यं’ ‘विध्यति’ बाधते । अनेन राजन्यं च विध्यतीत्यर्थो लक्ष्यः वैश्यराजन्ययोरन्यतरस्य हस्ते प्रदानस्योक्तत्वात् ॥

प्रतिगृहीतानां तु सुराग्रहाणामैच्छिकव्यत्यासं दर्शयति- तैः स यं भोगमिति । क्रीतस्य मधुग्रहस्य दानं विधत्ते- अथैतमिति । एतं मधुग्रहं 20 हिरण्यपात्रसहितं ब्रह्मणे दद्यात् । आपस्तम्बेन सौवर्णपात्रपरिमाणमुक्तम्- “ब्रह्मणे ददाति हि मधुस्थालञ्च सौवर्णं शतमानस्य कृतम्” 21- (का. श्रौ. सू. १८ । ५ । ५ ।) इति ।

तद्दानं प्रशंसति तं ब्रह्मण इति । ‘तं’ मधुग्रहं ब्रह्मणे ‘ददत्’ प्रयच्छन् । हेतौ शतृप्रत्ययः । हिरण्यदानेन ‘अमृतम्’ अमरणशीलम् ‘आयुः’ ‘आत्मन्’ आत्मनि निहितवान् भवतीति । ब्रह्मप्रतिगृहीतस्य मधुग्रहस्यैच्छिकं व्यवहारं दर्शयति- स यं भोगमिति । “ब्रह्मणे मधुग्रहं ददाति सपात्रम् । तं स यथेष्टं कुरुते”- (का. श्रौ. सू. १४ । ९४ । ९५) इति हि कात्यायनेन सूत्रितमिति ॥ २८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे प्रथमा ऽध्याये पञ्चमं ब्राह्मणम् ॥ (५-१-५) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे प्रथमाध्यायः समाप्तः ॥ १-१ ॥

Eggeling
  1. Now on one of those race-running (rival) chariots there has been standing either a Vaiśya, or a Rājanya; he now sits down on the northern hip of the altar. Thereupon the Adhvaryu and Sacrificer, taking the honey-cup, step out by the front, door (of the cart-shed), and place it in the Vaiśya’s, or Rājanya’s, hand. And the Neshṭr̥, taking the cups of Surā, steps out by the back door. He walks round by the back of the hall, and placing one (of the cups) in the Vaiśya’s, or Rājanya’s, hand, he says, ‘With this I buy Him of thee!’ For the Soma is truth, prosperity, light; and the Surā is untruth, misery, darkness: he thus imbues the Sacrificer with truth, prosperity, and light; and smites the Vaiśya with untruth, misery, and darkness;–whatever benefit (or enjoyment) he desires, he obtains for himself by those (cups of Surā). But that cup of honey he presents to the Brahman, together with the golden vessel. In presenting it to the Brahman, he imbues himself with immortal life; for gold is immortal life;–and whatsoever benefit he desires that he thereby obtains for himself.

  1. देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितम् । का० श्रौ० सू० १४ । ६७ । ↩︎

  2. 22:2 According to the Taittirīya ritualists, as quoted by Sāyaṇa (Taitt. S. I, 7, 8), the wheel after being mounted by the Brahman is to be turned round thrice in a sunwise motion;–the (pointed) end of the post being apparently inserted in the navel of the wheel, lying horizontally upon it. The turning wheel is there compared with the Vajra, or disk-shaped thunderbolt. While the wheel is turning round its axle, the Brahman sings the Sāman. Cf. also Lāṭy. Śr. V, 12, 9 seq., according to which authority, however, the Brahman would seem only to put his arms on the wheel, and turn it round, while singing. ↩︎

  3. देवस्य वयमित्यादि विहितमित्यविरोध इत्यंतं भाष्यं वाजसनेयिभिस्तदितरैरपि न विश्वसनीयम् । भगवतः कात्यायनमहर्षेः संहितां शतपथब्राह्मणं चानुसृत्यैव सूत्ररचनाशैलीशीलतया तादृगेव देवस्याहमिति ब्रह्मा रथचक्रमारोहतीति एकवचनांतसूत्रकॢप्तिसत्त्वे ऽपि तत्सूत्रस्य पितृभूतिकर्कप्रभृतिभाष्यकृतां तथैव व्याख्यानसत्तायामपि केवलं स्वशास्त्रीयमंत्रगतं बहुवचनमादृत्य परशाखीयार्थसूत्रस्य स्वकपोलकल्पनेनाक्षरसंधिं प्रेक्ष्य अन्यथाकरणं भाष्यकृतामतिसाहसम् ॥ तथैवाग्रे ब्रह्मा ऽवरोहति देवस्याहमिति इत्येवं वदता स्वयमेव कात्यायनस्य “देवस्याहमिति” एकवचनांतपाठघटितं सूत्रकरणं स्वीकृतमेव । अन्यत्र स्वयं देवस्य वयमिति बहुवचनांतं सूत्रयित्वा कातीयमेतत्सूत्रमिति च परस्परमसंबद्धं प्रलपन् सायनाचार्यस्तूद्भ्रांत एवेत्यलं दिक्प्रदर्शनेनेति ॥ ↩︎

  4. अनुमंत्रयते वा (इत्यप्यनुसंधेयम्) का. श्रौ. सू. १४ । ८१ । ↩︎

  5. उत्तरेण च तचेन । सुन्बन् जयति । शाखां प्रदक्षिणं कृत्वा यति । आगतेषु ब्रह्मा ऽवरोहति देवस्याहमिति । का. श्रौ. सू. । १४ । ८२-८५ । ↩︎

  6. 23:1 Viz. the ‘vājināṁ sāman’ (Tāṇḍy. Br. 18; 7, 12), Sāmav. I, 435 ‘àvir maryā ā vājam vājino agman,’ &c. ‘The fiery steeds have gathered fiery mettle, the impulse of the god Savitr̥; win ye the heaven, O coursers!’ Lāṭy. Śr. V, 12, 14. This singing of the Sāman takes place while the race lasts, the Brahman remaining all the time on the cart-wheel put up on a short post on (or near) the utkara, or heap of rubbish.–The author then anticipates in this and the next two paragraphs what the Brahman is to do when he descends from the wheel after the race is over. The placing of the drums next referred to must also be imagined as taking place whilst the Brahman is mounting the wheel. ↩︎

  7. एषा ह व इति मन्त्राहतमवहरते । तूष्णीमितरान् । का. श्रौ. सू. १४ । ८६ । ८७ । ↩︎

  8. 24:1 Besides the Sacrificer’s chariot inside the vedi, sixteen others, each drawn by four horses, have been got ready, outside the vedi, for the race to the udumbara branch, as its goal and turning-point. In paragraphs 10-12 the author again anticipates what is to be done with the drums after the race has taken place, just in order to deal with that item of the ceremonial as a whole. ↩︎

  9. क्षत्रियः सप्तदशेषु प्रव्याधामस्यति तीर्थादुदीचः । (का. श्रौ. सू. १४ । ७१ ।) ↩︎

  10. 25:1 That is, after (or at the same time when) the drums are put up. He is to shoot northwards through the space between the utkara and cātvāla. At the end of the seventeenth arrow’s range he plants an udumbara branch in the ground to serve as the goal round which the chariots are to turn sunwise on their way back to the sacrificial ground. ↩︎

  11. 25:2 Pronounce ‘rā-ja-ní-a.’ ↩︎

  12. 25:3 In the Taittirīya ritual (Taitt. S. I, 7, 7, 2; Taitt. Br. I, 3, 5, 4) the Sacrificer steps up to the chariot with the three Vishṇu-strides, with appropriate formulas. ↩︎

  13. एष स्य इति प्रत्यृर्चं जुहोति । अनुमंत्रयते वा । का० श्रौ० सू० १४ । ८० । ८१ । ↩︎ ↩︎

  14. 26:1 That is, he does so whilst the cars are running; the offering or prayers being intended to make the Sacrificer’s car win the race. ↩︎

  15. अनुमंत्रयते वा । उत्तरेण च तृचेन । का० श्रौ० सू० १४ । ८१ । ८२ । ↩︎

  16. अवरुह्य नैवारमालभते तीर्थे स्थितमा मा वाजस्येति । का. श्रौ. सू. १४ । ८८ । ↩︎

  17. 28:1 That is, after the cars have come back, that of the Sacrificer keeping ahead of the others. ↩︎

  18. यजुर्युक्तानाघ्रापयति वाजिन इति । का. श्रौ. सू. १४-८९ । ↩︎

  19. नेष्टा च सौरान्पश्चिमेन निर्हृत्य शालामपरेण हृत्वैकं सौरप्रतिग्रहाय प्रयच्छन्नाहानेन त इमं निष्क्रीणामीति । का. श्रौ. सू. १४ । ९३ । ↩︎

  20. ब्रह्मणे मधुग्रहं ददाति सपात्रम् । का. श्रौ. सू. १४ । ७० ॥ ↩︎

  21. ‘कृष्णलम्’ इ. क्व. । ↩︎