०१

विश्वास-प्रस्तुतिः

तं वै मा᳘ध्यन्दिने स᳘वने ऽभि᳘षिञ्चति॥
मा᳘ध्यन्दिने स᳘वन ऽआजिं᳘ धावन्त्येष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘न्मध्यत᳘ ऽए᳘वैत᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - श्रीधरादि

तं वै मा᳘ध्यन्दिने स᳘वने ऽभि᳘षिञ्चति॥
मा᳘ध्यन्दिने स᳘वन ऽआजिं᳘ धावन्त्येष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता ऽएत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘न्मध्यत᳘ ऽए᳘वैत᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - Weber

तं वै मा᳘ध्यन्दिने स᳘वने ऽभि᳘षिञ्चति॥
मा᳘ध्यन्दिने स᳘वन आजिं᳘ धावन्त्येष वै᳘ प्रजा᳘पतिर्य᳘ एष᳘ यज्ञ᳘स्ताय᳘ते य᳘स्मादिमाः᳘ प्रजाः प्र᳘जाता एत᳘म्वेवा᳘प्येतर्ह्य᳘नु प्र᳘जायन्ते त᳘न्मध्यत᳘ एॗवैत᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - विस्वरम्

तं वै माध्यन्दिने सवने ऽभिषिञ्चति । माध्यन्दिने सवन ऽआजिं धावन्ति । एष वै प्रजापतिः- यः एष यज्ञस्तायते । यस्मादिमाः प्रजाः प्रजाताः । एतम्वेवाप्येतर्ह्यनु प्रजायन्ते । तन्मध्यत एवैतत् प्रजापतिमुज्जयति ॥ १॥

सायणः

अथ माध्यन्दिने सवने कर्त्तव्ये प्रयोगो ऽभिधीयते- तत्र, यजमानाभिषेकमाजिधावनं च प्राधान्येन विधत्ते- तं वै माध्यन्दिन इति । अभिषेकाजिधावनयोः स्वरूपमुत्तरत्र विशदीभविष्यति । एष वा इति । ‘य एष यज्ञः’ सवनत्रयात्मना ‘तायते’ विस्तार्यते, ‘एषः’ एव खलु सः ‘प्रजापतिः’, ‘यस्मात्’ ‘इमाः प्रजाः’ मनुष्याद्या उत्पन्नाः । ‘एतर्हि’ इदानीम् ‘अपि’ ‘एम्वेव’ यज्ञात्मकं प्रजापतिम् ‘अनु’ लक्ष्य, प्रजा उत्पद्यन्ते । ‘तत्’ तेन माध्यन्दिने सवने अभिषेकेण आजिधावनेन च यज्ञमध्ये एव तं ‘प्रजापतिं’ जितवान् भवतीति ॥ १ ॥

Eggeling
  1. At the midday Soma-feast he consecrates (the Sacrificer) by sprinkling; and at the midday Soma-feast they run a race; for, verily, Prajāpati is that sacrifice 1 which is here performed, and from which these creatures have been produced,–and indeed, they are even now produced after this one: thus he thereby wins Prajāpati in the very centre (of the sacrifice).

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘गृहीते माहेन्द्रे᳘॥
(न्द्र᳘ ऽ) एष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केव᳘ल्यमेव[[!!]] स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘देनᳫँ᳭ स्व᳘ ऽए᳘वाय᳘तने ऽभि᳘षिञ्चति त᳘स्माद᳘गृहीते माहेन्द्रे᳘[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘गृहीते माहेन्द्रे᳘॥
(न्द्र᳘ ऽ) एष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केव᳘ल्यमेव[[!!]] स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘देनᳫँ᳭ स्व᳘ ऽए᳘वाय᳘तने ऽभि᳘षिञ्चति त᳘स्माद᳘गृहीते माहेन्द्रे᳘[[!!]]॥

मूलम् - Weber

अ᳘गृहीते माहेन्द्रे᳟॥
एष वा इ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यं शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘देनᳫं स्व᳘ एॗवाय᳘तने ऽभि᳘षिञ्चति त᳘स्मादगृहीते मा᳘हेन्द्रे॥

मूलम् - विस्वरम्

अगृहीते माहेन्द्रे । एष वा ऽइन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रः । अप्यस्यैतन्निष्केवल्यमेव स्तोत्रम्, निष्केवल्यं शस्त्रम् । इन्द्रो वै यजमानः । तदेनं स्व ऽएवायतने ऽभिषिञ्चति । तस्मादगृहीते माहेन्द्रे ॥ २ ॥

सायणः

तत्र कालं विधत्ते- अगृहीत इति । महेन्द्रदेवत्ये ग्रहे ‘अगृहीते’ माहेन्द्रग्रहात् पूर्वमित्यर्थः । अत्र सूत्रम्- “मरुत्वतीयान्त इन्द्रस्य वज्र इति स्थावहरणम्”- (का. श्रौ. सू. १४ । ५७) इति । “एष वा इन्द्रस्य निष्केवल्यः”- (श. प. ५ । १ । ३ । ४ । भा.) इत्यादिकं वाक्यं पूर्ववद् व्याख्येयम् । स्व एवायतन इति । यजमानस्येन्द्रतादात्म्यादिन्द्रस्य यदसाधारणं माहेन्द्रग्रहादिलक्षणं स्थानम्, तद् यजमानस्यापि स्वकीयं भवतीति स्व-शब्दस्याभिप्रायः ॥ २ ॥

Eggeling
  1. The Māhendra cup being not yet drawn,–for

that, the Māhendra, is Indra’s special (nishkevalya) cup, and so also are his that Nishkevalya-stotra and Nishkevalya-śastra; and the Sacrificer is Indra: thus he consecrates him at his own dwelling-place. Hence, the Māhendra cup being not yet drawn,–

०३

विश्वास-प्रस्तुतिः

(न्द्रे᳘ ऽथ) अ᳘थ र᳘थमुपा᳘वहरति॥
(ती᳘न्द्र) इ᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति व्व᳘ज्रो वै र᳘थ ऽइ᳘न्द्रो वै य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति व्वाजसा इ᳘ति व्वाजसा हि र᳘थस्त्व᳘या ऽयं व्वा᳘जᳫँ᳭ सेदित्य᳘न्नं वै व्वा᳘जस्त्व᳘या ऽयम᳘न्नमु᳘ज्जयत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(न्द्रे᳘ ऽथ) अ᳘थ र᳘थमुपा᳘वहरति॥
(ती᳘न्द्र) इ᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति व्व᳘ज्रो वै र᳘थ ऽइ᳘न्द्रो वै य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व्व᳘ज्रो ऽसी᳘ति व्वाजसा इ᳘ति व्वाजसा हि र᳘थस्त्व᳘या ऽयं व्वा᳘जᳫँ᳭ सेदित्य᳘न्नं वै व्वा᳘जस्त्व᳘या ऽयम᳘न्नमु᳘ज्जयत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ र᳘थमुपा᳘वहरति॥
इ᳘न्द्रस्य व᳘ज्रो ऽसी᳘ति व᳘ज्रो वै र᳘थ इ᳘न्द्रो वै य᳘जमानस्त᳘स्मादाहे᳘न्द्रस्य व᳘ज्रो ऽसी᳘ति वाजसा इ᳘ति वाजसा हि र᳘थस्त्व᳘यायं वा᳘जᳫं सेदित्य᳘न्नं वै वा᳘जस्त्व᳘यायम᳘न्नमु᳘ज्जयत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ रथमुपावहरति- “इन्द्रस्य वज्रो ऽसि”- इति । वज्रो वै रथः । इन्द्रो वै यजमानः तस्मादाह- इन्द्रस्य वज्रो ऽसीति । “वाजसा”- इति । वाजसा हि रथः । “त्वया ऽयं वाज‍ँ सेत्”- अन्नं वै वाजः । त्वया ऽयमन्नमुज्जयत्वित्येवैतदाह ॥ ३ ॥

सायणः

पूर्वं रथवाहने 2 काष्ठविशेषे स्थापितम्, आजिधावनाय सज्जीकर्तुं तस्य रथस्य तस्मात् काष्ठादवहरणं समन्त्रकं विधत्ते- अथ रथमिति । ‘उपावहरति’ ऊर्द्ध्वप्रदेशादवतारयेत् । मन्त्रस्यायमर्थः;- हे रथ ! त्वम् ‘इन्द्रस्य वज्रो ऽसि’ । वज्र एव हि स्फ्यरथयूपभेदेन 3 त्रिधा विभक्तः; “इन्द्रो वृत्राय वज्रं प्राहरत्, स त्रेधा व्यमवत् स्फ्यस्तृतीयं, रथस्तृतीयं, यूपस्तृतीयम्”- (तै. सं. ५ । २ । ६ । १. २.) इति श्रुतेः । ‘वाजसाः’ वाजमन्नं सनोति ददातीति वाजसाः, अन्नदाता च भवसि । अतः ‘अथ’ यजमानः ‘त्वया’ वज्रभूतेन ‘वाजम्’ ‘अन्नं’ ‘सेत्’ सिनोतेः सेधतेर्वा रूपम्, सिनुयात् बध्नीयात्, साधयतु वेति । तं मन्त्रं मागशो ऽनूद्य व्याचष्टे- वज्रो वा इति । ‘वै’- शब्दः सर्वतः प्रसिद्धिद्योतनार्थः । श्रुतिस्तूदाहृता । मन्त्रव्याख्यानेनैव गतार्थमन्यत् ॥ ३ ॥

Eggeling
  1. He takes down the chariot 4, with (Vāj. S. IX, 5), ‘Thou art Indra’s thunderbolt;’ for the chariot is indeed a thunderbolt, and the sacrificer is Indra: therefore he says, ‘Thou art Indra’s thunderbolt;’–‘a winner of wealth,’ for the chariot is indeed a winner of wealth;–‘May this one win wealth by thee!’–wealth means food: ‘may this one gain food by thee,’ is what he thereby says.

०४

विश्वास-प्रस्तुतिः

तं᳘ धूर्गृहीत᳘मन्तर्व्वे᳘द्यभ्य᳘ववर्तयति[[!!]]॥
व्वा᳘जस्य नु᳘ प्रसवे᳘ मात᳘रं महीमित्य᳘न्नं वै व्वाजो᳘ ऽन्नस्य नु᳘ प्रसवे᳘ मात᳘रं महीमि᳘त्ये᳘वैत᳘दाहा᳘दितिं ना᳘म व्व᳘चसा करामह ऽइ᳘तीयं वै᳘ पृथिव्य᳘दितिस्त᳘स्मादाहा᳘दितिं ना᳘म व्व᳘चसा करामह ऽइ᳘ति य᳘स्यामिदं व्वि᳘श्वं भु᳘वनमाविवेशे᳘त्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वं भु᳘वनमा᳘विष्टं त᳘स्यां नो देवः᳘ सविता ध᳘र्म साविषदि᳘ति त᳘स्यां नो देवः᳘ सविता य᳘जमानᳫँ᳭ सुवतामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

तं᳘ धूर्गृहीत᳘मन्तर्व्वे᳘द्यभ्य᳘ववर्तयति[[!!]]॥
व्वा᳘जस्य नु᳘ प्रसवे᳘ मात᳘रं महीमित्य᳘न्नं वै व्वाजो᳘ ऽन्नस्य नु᳘ प्रसवे᳘ मात᳘रं महीमि᳘त्ये᳘वैत᳘दाहा᳘दितिं ना᳘म व्व᳘चसा करामह ऽइ᳘तीयं वै᳘ पृथिव्य᳘दितिस्त᳘स्मादाहा᳘दितिं ना᳘म व्व᳘चसा करामह ऽइ᳘ति य᳘स्यामिदं व्वि᳘श्वं भु᳘वनमाविवेशे᳘त्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वं भु᳘वनमा᳘विष्टं त᳘स्यां नो देवः᳘ सविता ध᳘र्म साविषदि᳘ति त᳘स्यां नो देवः᳘ सविता य᳘जमानᳫँ᳭ सुवतामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

तं᳘ धूर्गृहीत᳘मन्तर्वेद्य᳘भ्य᳘ववर्तयति॥
वा᳘जस्य नु᳘ प्रसवे᳘ मात᳘रम् महीमित्य᳘न्नं वै वाजो᳘ ऽन्नस्य नु᳘ प्रसवे᳘ मात᳘रम् महीमि᳘त्येॗवैत᳘दाहा᳘दितिं ना᳘म व᳘चसा करामहा इ᳘तीयं वै᳘ पृथिव्य᳘दितिस्त᳘स्मादाहा᳘दितिं ना᳘म व᳘चसा करामह इ᳘ति य᳘स्यामिदं वि᳘श्वम् भु᳘वनमाविवेशे᳘त्यस्याॗᳫंॗ हीदᳫं स᳘र्वम् भु᳘वनमा᳘विष्टं त᳘स्यां नो देवः᳘ सविता ध᳘र्म साविषदि᳘ति त᳘स्यां नो देवः᳘ सविता य᳘जमानᳫं सवतामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

तं धूर्गृहीतमन्तर्वेद्यभ्यववर्तयति- “वाजस्य तु प्रसवे मातरं महीम्”- इति । अन्नं वै वाजः । अन्नस्य नु प्रसवे मातरं महीम्- इत्येवैतदाह । “अदितिं नाम वचसा करामहे"- इति । इयं वै पृथिव्यादितिः । तस्मादाह- अदितिं नाम वचसा करामह ऽइति । “यस्यामिदं विश्वं भुवनमाविवेश”- इति । अस्यां हीदं सर्वं भुवनमाविष्टम् । “तस्यां नो देवः सविता धर्म साविषत्"- (वा० सं० ९ । ५) इति । तस्यां नो देवः सविता यजमानं सुवतामित्येवैतदाह ॥ ४ ॥

सायणः

धूर्गृहीतस्य रथस्य वेदिमध्ये ऽभ्यावर्त्तनं समन्त्रकं विधत्ते- तं धूर्गृहीतमिति । धूरिति अश्वबन्धनस्थानं युगम्, ‘अन्तर्वेदि’ सौमिकवेदिमध्ये प्रादक्षिण्येनानयेदित्यर्थः । अत्र सूत्रम्- “दक्षिणेन चात्वालमावर्त्तयति वाजस्येति”- (का. श्रौ. सू. १४ । ९८) इति । “धूर्गृहीतमिति” मन्त्रस्यार्थः;- ‘वाजस्य’ अन्नस्य ‘प्रसवे’ प्रेरणे अनुज्ञानविषये ‘करामहे’- करवामहै इति सम्बन्धः । ‘मातरम्’ अन्नस्य निर्मात्रीं, ‘महीं’ वेदिरूपां पृथिवीम्, ‘अदिति नाम’ अखण्डनीयामेव ‘वचसा’ वेदवाक्येन मन्त्रेण ‘करामहे’ अन्नप्रदात्रीं करवामहै ‘इति’ । ‘यस्यां’ पृथिव्याम् ‘इदं विश्वं भुवनं’ सर्वं भूतजातम् ‘आविवेश’ ‘आविष्टम्’ ‘तस्यां’ पृथिव्यामेव ‘सविता’ प्रसविता ‘देवः’ ‘नः’ अस्माकं ‘धर्म’ धरणमनुष्ठानं ‘साविषत्’ अनुजानातु । मन्त्रप्रतिपाद्यमनूद्य व्याचष्टे- अन्नं वै वाज इति । व्याख्यातम् (श. प. ५ । १ । ३ । ३ । भा०) ॥ ४ ॥

Eggeling
  1. That chariot, seized by the pole, he turns (from left to right) so as to make it stand inside the vedi 5, with, ‘In the winning of wealth, the great Mother’–wealth means food: ‘in the winning of food, the great Mother’–is what he thereby says;–‘Aditi by name, we praise with speech;’ now Aditi is this earth: therefore he says, ‘Aditi by name, we praise with speech,’–‘whereon all this being hath settled;’ for indeed thereon all being here is settled;–’thereon may the divine Savitr̥ prosper our stay!’ whereby he means to say, ’thereon may the divine Savitr̥ prosper our Sacrificer!’

०५

विश्वास-प्रस्तुतिः

(हा) अथा᳘श्वानद्भि᳘र᳘भ्युक्षति॥
स्न᳘पनायाभ्यवनीय᳘मानान्त्स्नपिता᳘न्वोदा᳘नीतानद्भ्यो᳘ ह वा ज़्अ᳘ग्रे ऽश्वः स᳘म्बभूव᳘ सो ऽद्भ्यः᳘ सम्भ᳘वन्न᳘ सर्व्वः स᳘मभवद᳘सर्व्वो हि वै᳘ सम᳘भवत्त᳘स्मान्न स᳘र्वैः पद्भिः प्र᳘तितिष्ठत्ये᳘कैकमेव पा᳘दमुद᳘च्य तिष्ठति तद्य᳘दे᳘वास्या᳘त्राप्स्व᳘हीयत ते᳘नै᳘वैनमेतत्स᳘मर्द्धयति[[!!]] कृत्स्नं᳘ करोति त᳘स्माद᳘श्वानद्भि᳘र᳘भ्युक्षति स्न᳘पनायाभ्यवनीय᳘मानान्त्स्नपिता᳘न्वोदा᳘नीता᳘न्॥

मूलम् - श्रीधरादि

(हा) अथा᳘श्वानद्भि᳘र᳘भ्युक्षति॥
स्न᳘पनायाभ्यवनीय᳘मानान्त्स्नपिता᳘न्वोदा᳘नीतानद्भ्यो᳘ ह वा ज़्अ᳘ग्रे ऽश्वः स᳘म्बभूव᳘ सो ऽद्भ्यः᳘ सम्भ᳘वन्न᳘ सर्व्वः स᳘मभवद᳘सर्व्वो हि वै᳘ सम᳘भवत्त᳘स्मान्न स᳘र्वैः पद्भिः प्र᳘तितिष्ठत्ये᳘कैकमेव पा᳘दमुद᳘च्य तिष्ठति तद्य᳘दे᳘वास्या᳘त्राप्स्व᳘हीयत ते᳘नै᳘वैनमेतत्स᳘मर्द्धयति[[!!]] कृत्स्नं᳘ करोति त᳘स्माद᳘श्वानद्भि᳘र᳘भ्युक्षति स्न᳘पनायाभ्यवनीय᳘मानान्त्स्नपिता᳘न्वोदा᳘नीता᳘न्॥

मूलम् - Weber

अथा᳘श्वानद्भि᳘रॗभ्युक्षति॥
स्न᳘पनायाभ्यवनीय᳘मानान्त्स्नपिता᳘न्वोदा᳘नीतानद्भ्यो᳘ ह वा अ᳘ग्रे ऽश्वः स᳘म्बभूवॗ सो ऽद्भ्यः᳘ सम्भ᳘वन्न᳘सर्वः स᳘मभवद᳘सर्वो हि वै᳘ सम᳘भवत्त᳘स्मान्न स᳘र्वैः पद्भिः प्र᳘तितिष्ठत्ये᳘कैकमेव पा᳘दमुद᳘च्य तिष्ठति तद्य᳘देॗवास्या᳘त्राप्स्व᳘हीयत ते᳘नैवैन᳘मेतत्स᳘मर्धयति कृत्स्नं᳘ करोति त᳘स्माद᳘श्वानद्भि᳘रॗभ्युक्षति स्न᳘पनायाभ्यवनीय᳘मानान्त्स्नपिता᳘न्वोदा᳘नीतान्॥

मूलम् - विस्वरम्

अथाश्वानद्भिरभ्युक्षति- स्नपनायाभ्यवनीयमानान्, स्नपितान् वोदानीतान् । अद्भ्यो ह वा अग्रे ऽश्वः सम्बभूव । सो ऽद्भ्यः समभवन्न सर्वः समभवत् । असर्वो हि वै समभवत् । तस्मान्न सर्वैः पद्भिः प्रतितिष्ठति । एकैकमेव पादमुदच्य तिष्ठति । तद्यदेवास्यात्राप्स्वहीयत- तेनैवैनमेतत्समर्द्धयति । कृत्स्नं करोति । तस्मादश्वानद्भिरभ्युक्षति स्नपनायाभ्यवनीयमानान्, स्नपितान् वोदानीतान् ॥ ५ ॥

सायणः

अथाश्वानां प्रोक्षणं तत्कालञ्च विधत्ते- अथाश्वानिति । ‘स्नपनाय’ प्रक्षालनाय जलाशयम् ‘अभि’ लक्ष्य ‘नीयमानान्’ ‘स्नपितान्’ ‘कृतस्नानान्’ ‘उदानीतान्’ आगतान् वा प्रोक्षेत् । स्नपनार्थं गमकाले तदुत्तरकाले वा प्रोक्षणमित्यर्थः (का. श्रौ. सू. १४ । ५९) । अद्भिः क्रियमाणं प्रोक्षण प्रशंसति- अद्भ्यो ह वा इति । अद्भ्यो ऽश्वोत्पत्तिः प्रसिद्धा “अप्सुयोनिर्वा अश्वः” (श. प. १३ । २ । २ । १९) इति श्रुतेः । यस्मादसु प्रतिष्ठितो ऽश्वः, तस्मादिदानीं भूमावश्वो न सर्वैः पादैरवतिष्ठते । तदेवाह- एकैकमिति । ‘उदच्य’ उद्यम्येत्यर्थः । तद्यदेवेति 6 । ‘तत्’ तत्र आसु कारणभूतासु ‘अप्सु’ यदेवाङ्गम् ‘अहीयत’ हीनमवशिष्टमभूत्, ‘तेन’ अङ्गेन ‘एनम्’ अश्वम् ‘एतत्’ एतेन प्रोक्षणेन कृत्स्नं सर्वपादयुक्तं ‘करोति’ कृतवान् भवतीत्यर्थः ॥ ५ ॥

Eggeling
  1. He then sprinkles the horses with water, either when being led down to be watered, or when brought

up after being watered. Now in the beginning the horse was produced from the water; while being produced from the water, it was produced incomplete, for it was indeed produced incomplete: hence it does not stand on all its feet, but it stands lifting one foot on each side. Thus what then was left behind of it in the water, therewith he now completes it, and makes it whole: therefore he sprinkles the horses with water, either when being led down to be watered, or when brought up after being watered.

०६

विश्वास-प्रस्तुतिः

(न्त्सो) सो᳘ ऽभ्युक्षति॥
(त्य᳘) अ᳘प्स्वन्त᳘रमृ᳘तमप्सु᳘[[!!]] भेषज᳘मपा᳘मुत प्र᳘शस्तिष्व᳘श्वा भ᳘वत व्वाजि᳘न ऽइ᳘त्यनेना᳘पि दे᳘वीरापो यो᳘ व ऊर्मिः प्र᳘तूर्तिः ककु᳘न्मान्वाजसास्ते᳘नायं व्वा᳘जᳫँ᳭ सेदित्य᳘न्नं वै व्वाजस्ते᳘नायम᳘न्नमु᳘ज्जयत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(न्त्सो) सो᳘ ऽभ्युक्षति॥
(त्य᳘) अ᳘प्स्वन्त᳘रमृ᳘तमप्सु᳘[[!!]] भेषज᳘मपा᳘मुत प्र᳘शस्तिष्व᳘श्वा भ᳘वत व्वाजि᳘न ऽइ᳘त्यनेना᳘पि दे᳘वीरापो यो᳘ व ऊर्मिः प्र᳘तूर्तिः ककु᳘न्मान्वाजसास्ते᳘नायं व्वा᳘जᳫँ᳭ सेदित्य᳘न्नं वै व्वाजस्ते᳘नायम᳘न्नमु᳘ज्जयत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

सो ऽभ्युक्षति॥
अप्स्व᳘न्त᳘रमृ᳘तमप्सु᳘ भेषज᳘मपा᳘मुत प्र᳘शस्तिष्व᳘श्वा भ᳘वत वाजि᳘न इ᳘त्यनेना᳘पि दे᳘वीरापो यो᳘ व ऊर्मिः प्र᳘तूर्तिः ककुन्मान्वाजसास्ते᳘नायं 7 वा᳘जᳫं सेदित्य᳘न्नं वै वाजस्ते᳘नायम᳘न्नमु᳘ज्जयत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

सो ऽभ्युक्षति- “अप्स्वन्तरमृतमप्तु भेषजमपामुत प्रशस्तिष्वश्वा भवत वाजिनः” इति । अनेनापि- “देवीरापो यो व ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसाः, तेनायं वाजं सेत्-” (वा. सं. ९ । ६) इति । अन्नं वै वाजः तेनायमन्नमुज्जयतु- इत्येवैतदाह ॥ ६ ॥

सायणः

प्रोक्षणविधिमनूद्य मन्त्रद्वयं विधत्ते- सो ऽभ्युक्षतीति । तत्र “अप्स्वन्तर्”- इति मन्त्रेण, “देवीरापः”- इत्यनेनापि प्रोक्षणं कुर्यात् । ‘अपि’ शब्दः समुच्चयवाची । मन्त्रद्वयेन कुर्यात् । अत्र सूत्रम्- “अश्वान् प्रोक्षत्यपो ऽवसा नीयमानान् स्नातान् वा ऽऽगतानप्स्वन्तरिति, देवीराप इति वा, समुच्चयो वा”- (का. श्रौ. सू. १४ । ५९-६०) इति । मन्त्रयोरयमर्थः;- ‘अप्सु’ मध्ये ‘अमृतम्’ अपमृत्युनिवारकं रोगनिवारकं च वीर्यं वर्त्तते, हे ‘वाजिनः ।’ अन्नवन्तः ‘अश्वाः’ ‘अपां’ सम्बन्धिषु ‘प्रशस्तिषु’ अमृतत्वेन भेषजत्व सदृशीष्वन्यास्वपि गुणवत्वप्रशंसासु प्रशस्तप्रदेशेषु वा यूयं सम्बद्धा भवतेति । ‘देवीः’ द्योतमानाः, हे ‘आपः !’ ‘वः’ युष्माकं ‘यः’ ‘ऊर्मिः’ जलसङ्घः ‘प्रतूर्त्तिः’ प्रतरणशीलः, निमज्जनेन प्रसक्तस्योपद्रवस्य प्रकर्षेण हिंसकः, ‘ककुन्मान् ककुच्छब्देन वृषभस्कन्धे उन्नतप्रदेश उच्यते, तत्समानैरुदकनिचयैस्तद्वान्, ‘वाजसाः’ अन्नस्य संसक्तः, य एवंविधः तेन ‘अयम्’ अश्वः प्रोक्षितः सन् ‘वाजम्’ अन्नं ‘सेत्’ सिनुयात्, साधयतुवेति । तत्र द्वितीयमन्त्रगतं ‘वाजं सेत्’- इति पदं व्याचष्टे- अन्नं वा इति ॥ ६ ॥

Eggeling
  1. He sprinkles them, with (Vāj. S. .IX, 6), ‘Within the waters is ambrosia, in the waters is medicine: at the praises of the waters may ye wax strong, ye horses!’ And with this also, ‘O divine waters, what rushing, high-peaked, wealth-winning wave ye have, therewith may this one win wealth!’ wealth is food: he thus says, ‘May he thereby gain food!’

०७

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ र᳘थं यु᳘नक्ति॥
स᳘ दक्षिणायुग्य᳘मेवा᳘ग्रे युनक्ति सव्यायुग्यं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा[[!!]]॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ र᳘थं यु᳘नक्ति॥
स᳘ दक्षिणायुग्य᳘मेवा᳘ग्रे युनक्ति सव्यायुग्यं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा[[!!]]॥

मूलम् - Weber

अ᳘थ र᳘थं युनक्ति॥
स᳘ दक्षिणायुग्य᳘मेवा᳘ग्रे युनक्ति सव्यायुग्यं वा अ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा᳟॥

मूलम् - विस्वरम्

अथ रथं युनक्ति । स दक्षिणायुग्यमेवाग्रे युनक्ति । सव्यायुग्यं वा ऽअग्रे- मानुषे । अथैवं देवत्रा ॥ ७ ॥

सायणः

अथाश्वेन रथयोजनं विधत्ते- अथ रथमिति 6 । तत्र, ‘अग्रे’ प्रथमं ‘दक्षिणा’ दक्षिणतः ‘युग्यं’ युगस्य वोढारम् अश्वं युञ्ज्यात् । सव्या युग्यमिति । अस्यायमर्थः- लोके ‘मानुषे’ मनुष्यसम्बन्धिनि कर्मणि ‘सव्या युग्यं’ सव्यभागयोजनीयमेवाश्वं प्रथमं युञ्जन्ति । दीर्घरछान्दसः । (पा. सू. ६ । ३ । १३७) । अत्र तु 8 दक्षिणस्य प्रथमं योजनम्, 9 ‘एवं देवत्रा’ देवयोग्यमेव कर्म कृतवान् भवतीति । ‘देवत्रा’ देवशब्दाद् देयार्थे सप्तम्यर्थे वा त्राप्रत्ययः ॥ ७ ॥

Eggeling
  1. He then yokes (the team of) the chariot. The right horse he yokes (puts to) first; for in human (practice) they indeed put to the left horse first, but with the gods in this way.

०८

विश्वास-प्रस्तुतिः

स᳘ युनक्ति॥
व्वा᳘तो वा म᳘नो वे᳘ति न वै व्वा᳘तात्कि᳘ञ्चना᳘शीयो ऽस्ति न म᳘नसः कि᳘ञ्चना᳘शीयो ऽस्ति त᳘स्मादाह व्वा᳘तो वा म᳘नो वे᳘ति गन्धर्व्वाः सप्त᳘विᳫँ᳭शतिः॥ ते ऽअग्रे᳘ ऽश्वमयुञ्जन्नि᳘ति गन्धर्व्वा᳘ ह वा ऽअग्रे᳘ ऽश्वं युयुजुस्तद्ये ऽग्रे᳘ ऽश्वम᳘युजंस्ते᳘ त्वा युञ्जन्त्वि᳘त्ये᳘वैत᳘दाह ते᳘ ऽअस्मिञ्जवमा᳘दधुरि᳘ति त᳘द्ये ऽस्मिञ्जवमा᳘दधुस्ते[[!!]] त्व᳘यि जवमा᳘दधत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स᳘ युनक्ति॥
व्वा᳘तो वा म᳘नो वे᳘ति न वै व्वा᳘तात्कि᳘ञ्चना᳘शीयो ऽस्ति न म᳘नसः कि᳘ञ्चना᳘शीयो ऽस्ति त᳘स्मादाह व्वा᳘तो वा म᳘नो वे᳘ति गन्धर्व्वाः सप्त᳘विᳫँ᳭शतिः॥ ते ऽअग्रे᳘ ऽश्वमयुञ्जन्नि᳘ति गन्धर्व्वा᳘ ह वा ऽअग्रे᳘ ऽश्वं युयुजुस्तद्ये ऽग्रे᳘ ऽश्वम᳘युजंस्ते᳘ त्वा युञ्जन्त्वि᳘त्ये᳘वैत᳘दाह ते᳘ ऽअस्मिञ्जवमा᳘दधुरि᳘ति त᳘द्ये ऽस्मिञ्जवमा᳘दधुस्ते[[!!]] त्व᳘यि जवमा᳘दधत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स᳘ युनक्ति॥
वा᳘तो वा म᳘नो वे᳘ति न वै वा᳘तात्कि᳘म् चना᳘शीयो ऽस्ति न म᳘नसः किं᳘ चना᳘शीयो ऽस्ति त᳘स्मादाह वा᳘तो वा म᳘नो वे᳘ति गन्धर्वाः᳘ सप्त᳘विंशतिस्ते ऽग्रे᳘ ऽश्वमयुञ्जन्नि᳘ति गन्धर्वा᳘ ह वा अग्रे᳘ ऽश्वं युयुजुस्तद्ये ऽग्रे᳘ ऽश्वम᳘युञ्जंस्ते᳘ त्वा युञ्जन्त्वि᳘त्येॗवैत᳘दाह ते᳘ अस्मिन्जवमा᳘दधुरि᳘ति तॗद्ये ऽस्मिन्जव᳘मादधुस्ते त्व᳘यि जवमा᳘दधत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

स युनक्ति- “वातो वा मनो वा”- इति । न वै वातात् किञ्चनाशीयो ऽस्ति । न मनसः किञ्चनाशीयो ऽस्ति । तस्मादाह- “वातो वा मनो वा” इति । “गन्धर्वाः सप्तविंशतिः । ते ऽग्रे ऽश्वमयुञ्जन्” इति । गन्धर्वा ह वा अग्रे ऽश्वं युयुजुः । तद्ये ऽग्रे ऽश्वमयुजन् ते त्वा युञ्जन्तु इत्येवैतदाह । “ते अस्मिन् जवमादधुः”- (वा० सं० ९ । ७) इति । तद् ये ऽस्मिन् जवमादधुः ते त्वयि जवमादधतु इत्येवैतदाह ॥ ८ ॥

सायणः

योजनमनूद्य मन्त्रं विधत्ते- स युनक्ति वातोवेति । ‘वा’ शब्दः समुच्चयार्थः । वायुश्च मनश्च सप्तविंशति सङ्ख्याकाः ‘गन्धर्वाः’ नक्षत्राणीत्यर्थः । ‘ते’ सर्वे ‘अग्रे’ अस्मत्तः पुरा रथे ‘अश्वं’ योजितवन्तः । ‘ते’ पुनः ‘अस्मिन्’ अश्वे जवं वेगम् ‘आदधुः’ स्थापितवन्तः । लोडर्थे लिट् । अस्मिन्नश्वे त्वयि जवमादधत्विति व्याचष्टे- न वै वातादिति । ‘वाताद्’ वायोः ‘मनसः’ च ‘आशीयः’ आशुतरं किञ्चिदपि वस्तु अतिवेगवत् ‘न अस्ति’ । उत्तरवाक्यं स्पष्टम् ॥ ८ ॥

Eggeling
  1. He yokes it, with (Vāj. S. IX, 7), Either the wind, or thought–‘for there is nothing swifter than the wind, and nothing swifter than thought:’ therefore he says, ‘Either the wind, or thought;–’(or) the seven and twenty Gandharvas 10,

they yoked the horse at first;’ for the Gandharvas indeed yoked the horse at first: ‘May they who yoked the horse at first yoke thee!’ this he thereby says they;–’laid speed into him,’–he thereby says, ‘May they who laid speed into it, lay speed into thee!’

०९

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ सव्यायुग्यं᳘ युनक्ति॥
व्वा᳘तरᳫँ᳭हा भव व्वाजिन्युज्य᳘मान ऽइ᳘ति व्वा᳘तजवो भव व्वाजिन्युज्य᳘मान ऽइ᳘त्ये᳘वैत᳘दाहे᳘न्द्रस्येव द᳘क्षिणः श्रि᳘यैधी᳘ति यथे᳘न्द्रस्य द᳘क्षिणः श्रि᳘यैवं य᳘जमानस्य श्रि᳘यैधी᳘त्ये᳘वैत᳘दाह युञ्ज᳘न्तु त्वा मरु᳘तो व्विश्व᳘वेदस इ᳘ति युञ्ज᳘न्तु त्वा देवा इ᳘त्ये᳘वैत᳘दाहा᳘ ते त्व᳘ष्टा पत्सु᳘ जवं᳘ दधात्वि᳘ति ना᳘त्र तिरो᳘हितमिवास्त्य᳘थ दक्षिणाप्रष्टिं᳘ युनक्ति सव्याप्रष्टिं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा[[!!]]॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ सव्यायुग्यं᳘ युनक्ति॥
व्वा᳘तरᳫँ᳭हा भव व्वाजिन्युज्य᳘मान ऽइ᳘ति व्वा᳘तजवो भव व्वाजिन्युज्य᳘मान ऽइ᳘त्ये᳘वैत᳘दाहे᳘न्द्रस्येव द᳘क्षिणः श्रि᳘यैधी᳘ति यथे᳘न्द्रस्य द᳘क्षिणः श्रि᳘यैवं य᳘जमानस्य श्रि᳘यैधी᳘त्ये᳘वैत᳘दाह युञ्ज᳘न्तु त्वा मरु᳘तो व्विश्व᳘वेदस इ᳘ति युञ्ज᳘न्तु त्वा देवा इ᳘त्ये᳘वैत᳘दाहा᳘ ते त्व᳘ष्टा पत्सु᳘ जवं᳘ दधात्वि᳘ति ना᳘त्र तिरो᳘हितमिवास्त्य᳘थ दक्षिणाप्रष्टिं᳘ युनक्ति सव्याप्रष्टिं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा[[!!]]॥

मूलम् - Weber

अ᳘थ सव्यायुग्यं᳘ युनक्ति॥
वा᳘तरंहा भववाजिन्युज्य᳘मान इ᳘ति वा᳘तजवो भव वाजिन्युज्य᳘मान इ᳘त्येॗवैत᳘दाहे᳘न्द्रस्येव द᳘क्षिणः श्रिॗयैधी᳘ति यथे᳘न्द्रस्य द᳘क्षिणः श्रिॗयैवं य᳘जमानस्य श्रिॗयैधी᳘त्येॗवैत᳘दाह युञ्ज᳘न्तु त्वा मरु᳘तो विश्व᳘वेदस इ᳘ति युञ्ज᳘न्तु त्वा देवा इ᳘त्येॗवैत᳘दाह ते त्व᳘ष्टा पत्सु᳘ जवं दधात्वि᳘ति ना᳘त्र तिरो᳘हितमिवास्त्य᳘थ दक्षिणाप्रष्टिं᳘ युनक्ति सव्याप्रष्टिं वा अ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा᳟॥

मूलम् - विस्वरम्

अथ सव्यायुग्यं युनक्ति- “वातरंहा भव वाजिन् युज्यमानः”- इति । वातजवो भव वाजिन् युज्यमानः- इत्येवैतदाह । “इन्द्रस्येव दक्षिणः श्रियैधि”- इति । यथेन्द्रस्य दक्षिणः श्रिया- एवं यजमानस्य श्रियैधि- इत्येवैतदाह । “युञ्जन्तु त्वा मरुतो विश्ववेदसः”- इति । युञ्जन्तु त्वा देवा इत्येवैतदाह । “आ ते त्वष्टा पत्सु जवं दधातु"- (वा० सं० ९ । ८) इति नात्र तिरोहितमिवास्ति । अथ दक्षिणाप्रष्टिं युनक्ति । सव्याप्रष्टिं वा ऽअग्रे मानुषे । अथैवं देवत्रा ॥ ९ ॥

सायणः

अथ सव्यस्याश्वस्य रथे योजनं समन्त्रकं विधत्ते- अथ सव्यायुग्यमिति 11 । ‘सव्यायुग्यं’ सव्ये भागे योजनीयम् । अच्-प्रत्ययश्छान्दसो द्रष्टव्यः । हे ‘वाजिन् !’ अश्व ! युज्यमानस्त्वं ‘वातरंहाः’ वायुवेगो ‘भव’ । ‘इन्द्रस्य’ अश्वः ‘इव’ ‘दक्षिणः’ प्रवृद्धः पुष्टाङ्गः त्वं ‘श्रिया’ शोभया युक्तः ‘एधि’ भव यद्वा श्रीशब्दात् परस्य सोर्यादेशः । ‘यथेन्द्रस्य’ अश्वस्य श्रीर्भवति, ‘एवं यजमानस्य’ श्रीर्भव । ‘विश्ववेदसः’ सर्वज्ञाः ‘मरुतो’ देवाः ‘त्वा’ त्वाम् अश्वं ‘युञ्जन्तु’ । ‘त्वष्टा’ ‘ते’ तव रथे युक्तस्य ‘पत्सु’ पादेषु ‘जवं’ वेगं ‘दधातु’ ‘इति’ । नात्र तिरोहितमिति । मन्त्रगतचतुर्थपादे अनवबुद्धो ऽर्थो नास्तीत्यर्थः ।

तृतीयस्याश्वस्य योजनं विधत्ते- अथ दक्षिणेति । प्रष्टिर्नाम पादत्रयोपेतो भोजनपात्रादेराधारः, 12 तद्वत् (ऋ० सं० १ । २९ । ६) (ऋ० सं० १ । १०० । १७) (अथ. सं. १० । ४ । ९ । ८) अश्वैस्त्रिभिर्युक्तं रथं कुर्यात् 13 । अत्र पूर्वमश्वद्वयस्य युक्तत्वात् तृतीयस्य प्रष्टित्वमुक्तम् । अत एवापस्तम्बः- “प्रष्टिवाहितं रथं युनक्ति” इति । तृतीयेनाश्वेन रथं युञ्ज्यादित्यर्थः । तं ‘दक्षिणा’ दक्षिणतः प्रथमं युञ्ज्यात् । सव्याप्रष्टिमित्यादि, पूर्ववद् व्याख्येयम् ॥ ९ ॥

Eggeling
  1. He then yokes the left horse, with (Vāj. S. IX, 8), ‘Become thou swift as the wind, O courser, being yoked!’–thereby he says, ‘Become quick as the wind, O courser, being yoked;’–‘be thou as Indra’s right (steed) in beauty!’–he thereby says, ‘Even as Indra’s right (steed) for beauty, so be thou that of the sacrificer for beauty!’–‘May the all-knowing Maruts yoke thee!’ he thereby says, ‘may gods yoke thee!’–‘May Tvashṭr̥ lay speed into thy feet!’ in this there is nothing obscure. He then yokes the right side-horse; for in human (practice) they indeed yoke the left side-horse first, but with the gods in this way.

१०

विश्वास-प्रस्तुतिः

स᳘ युनक्ति॥
जवो य᳘स्ते व्वाजिन्नि᳘हितो गु᳘हा यः᳘ श्येने प᳘रीत्तो ऽअ᳘चरच्च व्वा᳘त ऽइ᳘ति जवो य᳘स्ते व्वाजिन्न᳘प्यन्य᳘त्रापनि᳘हितस्ते᳘न न ऽइमं᳘ यज्ञं᳘ प्रजा᳘पतिमु᳘ज्जये᳘त्ये᳘वैत᳘दाह ते᳘न नो व्वाजिन्ब᳘लवान्ब᳘लेन व्वाजजि᳘च्च भ᳘व स᳘मने च पारयिष्णुरित्य᳘न्नं वै व्वा᳘जो ऽन्नजि᳘च्च न ऽए᳘ध्यस्मिं᳘श्च नो यज्ञे᳘ देवसमन᳘ ऽइमं᳘ यज्ञं᳘ प्रजा᳘पतिमु᳘ज्जये᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स᳘ युनक्ति॥
जवो य᳘स्ते व्वाजिन्नि᳘हितो गु᳘हा यः᳘ श्येने प᳘रीत्तो ऽअ᳘चरच्च व्वा᳘त ऽइ᳘ति जवो य᳘स्ते व्वाजिन्न᳘प्यन्य᳘त्रापनि᳘हितस्ते᳘न न ऽइमं᳘ यज्ञं᳘ प्रजा᳘पतिमु᳘ज्जये᳘त्ये᳘वैत᳘दाह ते᳘न नो व्वाजिन्ब᳘लवान्ब᳘लेन व्वाजजि᳘च्च भ᳘व स᳘मने च पारयिष्णुरित्य᳘न्नं वै व्वा᳘जो ऽन्नजि᳘च्च न ऽए᳘ध्यस्मिं᳘श्च नो यज्ञे᳘ देवसमन᳘ ऽइमं᳘ यज्ञं᳘ प्रजा᳘पतिमु᳘ज्जये᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स᳘ युनक्ति॥
जवो य᳘स्ते वाजिन्नि᳘हितो गु᳘हा यः᳘ श्येने प᳘रीत्तो अ᳘चरच्च वा᳘त इ᳘ति जवो य᳘स्ते बाजिन्न᳘प्यन्य᳘त्राषनि᳘हितस्ते᳘न न इमं᳘ यज्ञ᳘म् प्रजा᳘पतिमु᳘ज्जये᳘त्येॗवैत᳘दाह ते᳘न नो वाजिन्ब᳘लवान्ब᳘लेन वाजजि᳘च्च भ᳘व स᳘मने च पारयिष्णुरित्य᳘न्नं वै वा᳘जो ऽन्नजि᳘च्च न ए᳘ध्यस्मिं᳘श्च नो यज्ञे᳘ देवसमन᳘ इमं᳘ यज्ञ᳘म् प्रजा᳘पतिमु᳘ज्जये᳘त्येॗवैतदाह॥

मूलम् - विस्वरम्

स युनक्ति- “जवो यस्ते वाजिन् निहितो गुहा, यः श्येने परीत्तो अचरच्च वाते”- इति । जवो यस्ते वाजिन्नप्यन्यत्रापनिहितः तेन न इमं यज्ञं प्रजापतिमुज्जय- इत्येवैतदाह । “तेन नो वाजिन् बलवान् बलेन वाजजिच्च भव, समने च पारयिष्णुः”- (वा० सं० ९ । ९) इति । अन्नं वै वाजः, अन्नज्जिच्च न एधि । अस्मिंश्च नो यज्ञे देवसमन ऽइमं यज्ञं प्रजापतिमुज्जय- इत्येवैतदाह ॥ १० ॥

सायणः

योजनमनूद्य मन्त्रं विधत्ते- स युनक्ति जवो य इति । हे ‘वाजिन्’ ! ‘ते’ तव हृदये ‘यः’ ‘जवः’ वेगः ‘गुहा’ गुहायां गूढप्रदेशे ‘निहितः’ स्थापितः, ‘श्येने’ पक्षिणि च यो जवः ‘परीत्तः’ व्यवस्थितः, यो वेगो ‘वाते’ वायौ ‘अचरत्’ तिष्ठति । हे ‘वाजिन् !’ तेन बलेन बलवान् त्वं ‘नः’ अस्माकं बलेन ‘वाजजित् भव’ अन्नस्य जेता दाता भव । ‘समने’ यज्ञरूपे सङ्ग्रामे ‘पारयिष्णुः’ पारयिता पारगमनशीलश्च भवेति ॥ तमिमं मन्त्रं व्याचष्टे- जवो यस्त इति । अप्यन्यत्रापनिहित इति । ‘अन्यत्र’ गुहाशयेत्याद्युपलक्ष्यते, प्रदेशान्तरे ‘अपनिहितः’ निक्षिप्तः । पूर्वार्द्धस्य तात्पर्यमाह- तेन न इति । यज्ञप्रजापत्योस्तादात्म्यं युक्तम् । ‘समने पारयिष्णुः’-इत्यस्याभिप्रायमाह- अस्मिंश्चनो यज्ञ इति । ‘देवसमने’ समनमिति सङ्ग्रामनाम (निघ० २ । १७ । १६) । देवसमाज लक्षणे ऽस्मिन् यज्ञे । गतार्थमन्यत् ॥ १० ॥

Eggeling
  1. He yokes it, with (Vāj. S. IX, 9), ‘What speed hath been secretly laid into thee, O courser, and what (speed), bestowed on the eagle, went along in the wind;’–he thereby says, ‘what speed of thine, O courser, is hidden away even elsewhere, therewith win this our sacrifice, Prajāpati!’–‘with that strength be thou strong and wealth-winning for us, O courser, and victorious at the gathering!’–wealth means food: he thus means to say, ‘And be thou a food-winner for us at this our

sacrifice, at the gathering of the gods win thou this sacrifice, Prajāpati!’

११

विश्वास-प्रस्तुतिः

ते वा᳘ ऽएत᳘ ऽएव त्र᳘यो युक्ता᳘ भवन्ति॥
त्रिवृद्धि᳘ देवा᳘नां तद्धि᳘ देवत्रा᳘ ऽधिप्रष्टियुग एव᳘ चतुर्थो᳘ ऽन्वेति मानुषो हि स तं य᳘त्र दास्यन्भवति[[!!]] त᳘च्चतुर्थ᳘मुपयु᳘ज्य ददाति त᳘स्मादपी᳘तरस्मिन्यज्ञ᳘ ऽएत᳘ ऽएव त्र᳘यो युक्ता᳘ भवन्ति त्रिवृद्धि᳘ देवा᳘नां तद्धि᳘ देवत्रा᳘ ऽधिप्रष्टियुग एव᳘ चतुर्थो᳘ ऽन्वेति मानुषो हि स तं य᳘त्र दास्यन्भ᳘वति त᳘च्चतुर्थ᳘मुपयु᳘ज्य ददाति॥

मूलम् - श्रीधरादि

ते वा᳘ ऽएत᳘ ऽएव त्र᳘यो युक्ता᳘ भवन्ति॥
त्रिवृद्धि᳘ देवा᳘नां तद्धि᳘ देवत्रा᳘ ऽधिप्रष्टियुग एव᳘ चतुर्थो᳘ ऽन्वेति मानुषो हि स तं य᳘त्र दास्यन्भवति[[!!]] त᳘च्चतुर्थ᳘मुपयु᳘ज्य ददाति त᳘स्मादपी᳘तरस्मिन्यज्ञ᳘ ऽएत᳘ ऽएव त्र᳘यो युक्ता᳘ भवन्ति त्रिवृद्धि᳘ देवा᳘नां तद्धि᳘ देवत्रा᳘ ऽधिप्रष्टियुग एव᳘ चतुर्थो᳘ ऽन्वेति मानुषो हि स तं य᳘त्र दास्यन्भ᳘वति त᳘च्चतुर्थ᳘मुपयु᳘ज्य ददाति॥

मूलम् - Weber

ते वा᳘ एत᳘ एव त्र᳘यो युक्ता᳘ भवन्ति॥
त्रिवृद्धि᳘ देवा᳘नां तद्धि᳘ देवत्रा᳘धिप्रष्टियुग एव᳘ चतुर्थो᳘ ऽन्वेति मानुषा हि स तं य᳘त्र दास्यन्भ᳘वति त᳘च्चतुर्थ᳘मुपयु᳘ज्य ददाति त᳘स्मादपी᳘तरस्मिन्यज्ञ᳘ एत᳘ एव त्र᳘यो युक्ता᳘ भवन्ति त्रिवृद्धि᳘ देवा᳘नां तद्धि᳘ देवत्रा᳘धिप्रष्टियुग एव᳘ चतुर्थो᳘ ऽन्वेति मानुषो हि स तं य᳘त्र दास्यन्भ᳘वति त᳘च्चतुर्थ᳘मुपयु᳘ज्य ददाति॥

मूलम् - विस्वरम्

ते वा ऽएत ऽएव त्रयो युक्ता भवन्ति । त्रिवृद्धि देवानाम् । तद्धि देवत्रा । अधिप्रष्टियुग एव चतुर्थो ऽन्वेति । मानुषो हि सः । तं यत्र दास्यन् भवति- तच्चतुर्थमुपयुज्य ददाति । तस्मादपीतरस्मिन्- यज्ञ ऽएत ऽएव त्रयो युक्ता भवन्ति । त्रिवृद्धि देवानाम् । तद्धि देवत्रा । अधिप्रष्टियुग एव चतुर्थो ऽन्वेति । मानुषो हि सः । तं यत्र दास्यन् भवति- तच्चतुर्थमुपयुज्य ददाति ॥ ११ ॥

सायणः

उक्तानामश्वानां त्रित्वसङ्ख्यामनूद्य प्रशंसति- ते वा एत इति । त्रिवृत्त्वं त्रिरावृत्तिः । दैवे कर्मणि प्रोक्षणादौ प्रसिद्धेति ‘हि’- शब्दस्यार्थः । चतुर्थस्याश्वस्यानुगमनं विधत्ते- अधिप्रष्टीति । तृतीयस्याश्वस्य युगप्रदेशे । ‘अधिः’ सप्तम्यर्थानुवादी । मन्त्रेण युक्तः सन्नेवानुगच्छेत् । यस्मात् स चतुर्थो ‘मानुषः’ मनुष्यसम्बन्धी मानुषे हि कर्मणि चतुर्णां वाहानां योजनं दृष्टम् । अत्र मानुषरूपव्युदासाय तस्यायोजनमिति । अत्र सूत्रम्- “अयुक्तश्चतुर्थो ऽनुगच्छति”- (का. श्रौ. सू. १४ । ६४) इति ॥ यदैष चतुर्युक्तो रथो ऽध्वर्यवे दीयते, तस्मिन् प्रदानसमये चतुर्थस्य रथे योजनं दर्शयति- तं यत्र दास्यन्निति । तदुक्तं सूत्रे- “चतुर्थं युक्त्वा ऽध्वर्यवे ददाति”- (का. श्रौ. सू. १४ ।९०) इति । उक्तमर्थमन्यत्राप्यतिदिशति- तस्मादपीति । ‘इतरस्मिन्’ राजसूयादावित्यर्थः । शिष्टं गतार्थम् ॥ ११ ॥

Eggeling
  1. Now only those three (horses) are yoked, for what is threefold belongs to the gods, and this (sacrifice is) with the gods. Alongside the yoke (laid) on the side-horse 14 goes a fourth (horse), for that one is human. When he is about to give that (chariot to the Adhvaryu), he gives it after yoking the fourth (horse) thereto. Hence also at any other sacrifice only those three (horses) are yoked; for what is threefold belongs to the gods, and this (sacrifice is) with the gods. Alongside the yoke of the side-horse goes a fourth (horse), for that one is human. When he is about to give that (chariot) away, he gives it after yoking the fourth (horse) thereto.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ बार्हस्पत्यं᳘ चरुं᳘ नैवार᳘ᳫँ᳘ सप्त᳘दशशरावं नि᳘र्व्वपति॥ (त्य᳘) अ᳘न्नं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्त᳘दे᳘वास्मा ऽएत᳘त्करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ बार्हस्पत्यं᳘ चरुं᳘ नैवार᳘ᳫँ᳘ सप्त᳘दशशरावं नि᳘र्व्वपति॥ (त्य᳘) अ᳘न्नं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘दे᳘वैतद᳘न्नमुद᳘जैषीत्त᳘दे᳘वास्मा ऽएत᳘त्करोति॥

मूलम् - Weber

अ᳘थ भार्हस्पत्यं᳘ चरु᳘म् नैवार᳘ᳫं᳘ सप्त᳘दशशरावं नि᳘र्वपति अ᳘न्नं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫं ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं तद्य᳘देॗवैतद᳘न्नमुद᳘जैषीत्त᳘देॗवास्मा एत᳘त्करोति॥

मूलम् - विस्वरम्

अथ बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपति । अन्नं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नपेयं ह वै नामैतद्- यद्वाजपेयम् । तद्यदेवैतदन्नमुदजैषीत्- तदेवास्मा ऽएतत् करोति ॥ १२ ॥

सायणः

विधत्ते- अथ बार्हस्पत्यमिति । अत्र द्रव्यदेवताविशिष्टचरुविधिः । सप्तदशशरावमिति । सप्तदशशरावपरिमितम् । मुष्टिप्रतिनिधित्वेन शरावस्य तत्सङ्ख्यायाश्च पृथग्विधानात् प्रकृतिगतमुष्टितत्संख्यानिवृत्तिः । तथा च कात्यायनः- “माध्यन्दिनीयैः सह नैवारचरुर्बार्हस्पत्यः सप्तदशशरावः, संख्यामुष्टिनिवृत्तिः"- (का. श्रौ. सू. १४ । ४९) इति । चरुविधिं प्रशंसति- अन्नं वा एष इति । तद्यदेवेत्यादि । तत्र वाजपेये ‘यत्’ ‘एतत्’ अन्नम् ‘उदजैषीत्’, पुरा बृहस्पतिरनेन क्रतुना यदेतत्फलभूतमन्नं साधितवान्, ‘तदेव’ अन्नम् ‘अस्मै’ बृहस्पतये ‘एतत्’ एतेन चरुणा ‘करोति’ ॥ १२ ॥

Eggeling
  1. He now takes out material for a wild-rice pap of seventeen plates for Br̥haspati; for he who offers the Vājapeya wins food,–vāja-peya being doubtless the same as anna-peya (food and drink): thus whatever food he has thereby won, that he now prepares for him.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्बार्हस्पत्यो भ᳘वति॥
बृ᳘हस्प᳘ति᳘र्ह्येतम᳘ग्र ऽउद᳘जयत्त᳘स्माद्बार्हस्पत्यो᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्बार्हस्पत्यो भ᳘वति॥
बृ᳘हस्प᳘ति᳘र्ह्येतम᳘ग्र ऽउद᳘जयत्त᳘स्माद्बार्हस्पत्यो᳘ भवति॥

मूलम् - Weber

अ᳘थ य᳘द्बार्हस्पत्यो भ᳘वति॥
बृ᳘हस्प᳘तिॗर्ह्येतम᳘ग्र उद᳘जयत्त᳘स्माद्बार्हस्पत्यो᳘ भवति॥

मूलम् - विस्वरम्

अथ यद्बार्हस्पत्यो भवति । बृहस्पतिर्ह्येतमग्र उदजयत्- तस्माद्बार्हस्पत्यो भवति ॥ १३ ॥

सायणः

देवताशरावसंख्याविधित्रयमनूद्य प्रशंसति- अथ यदित्यादिना । पुरा बृहस्पतिः ‘एतं’ चरुं साधितवान्, अतो ऽस्य चरोर्बृहस्पतिर्देवतेति युक्तम् ॥ १३ ॥

Eggeling
  1. And as to why it belongs to Br̥haspati:–Br̥haspati won it in the beginning, therefore it belongs to Br̥haspati.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘न्नैवारो भ᳘वति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिरेते वै ब्र᳘ह्मणा पच्यन्ते य᳘न्नीवा᳘रास्त᳘स्मान्नैवारो᳘ भवति सप्त᳘दशशरावो भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘न्नैवारो भ᳘वति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिरेते वै ब्र᳘ह्मणा पच्यन्ते य᳘न्नीवा᳘रास्त᳘स्मान्नैवारो᳘ भवति सप्त᳘दशशरावो भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - Weber

अ᳘थ य᳘न्नैवारो भ᳘वति॥
ब्र᳘ह्म वै बृ᳘हस्प᳘तिरेते वै ब्र᳘ह्मणा पच्यन्ते य᳘न्नीवा᳘रास्त᳘स्मान्नैवारो᳘ भवति सप्त᳘दशशरावो भवति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - विस्वरम्

अथ यन्नैवारो भवति । ब्रह्म वै बृहस्पतिः । एते वै ब्रह्मणा पच्यन्ते यन्नीवाराः । तस्मान्नैवारो भवति । सप्तदशशरावो भवति । सप्तदशो वै प्रजापतिः । तत् प्रजापतिमुज्जयति ॥ १४ ॥

सायणः

अथ यन्नैवार इति । ‘नीवारा’ इति यत्, ‘एते’ ‘ब्रह्मणा’ एव ‘पच्यन्ते’ न तु कृष्टक्षेत्रोप्तशाल्यादिवत्, अतः कालवशात् पक्वा नीवारा ब्रह्मरूपस्य बृहस्पतेर्योग्या इत्यर्थः ॥ १४ ॥

Eggeling
  1. And why it is prepared of wild rice:–Br̥haspati is the Brahman (priesthood), and those wild-rice grains are cooked with the Brahman (prayer),–therefore it is of wild rice. It is one of seventeen plates,

because Prajāpati is seventeenfold: he thus wins Prajāpati.

१५

विश्वास-प्रस्तुतिः

तम᳘श्वान᳘वघ्रापयति॥
व्वा᳘जिन इ᳘ति व्वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह व्वा᳘जिन इ᳘ति व्वाजजित इत्य᳘न्नं वै व्वा᳘जो ऽन्नजित ऽइ᳘त्ये᳘वैत᳘दाह व्वा᳘जᳫँ᳭ सरिष्य᳘न्त ऽइ᳘त्याजिᳫँ᳭ हि᳘ सरिष्य᳘न्तो भ᳘वन्ति बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति बृ᳘हस्प᳘ते᳘र्ह्येष᳘ भागो भ᳘वति त᳘स्मादाह बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति तद्यद᳘श्वानवघ्राप᳘यतीममु᳘ज्जयानी᳘ति त᳘स्माद्वा ऽअ᳘श्वान᳘वघ्रापयति॥

मूलम् - श्रीधरादि

तम᳘श्वान᳘वघ्रापयति॥
व्वा᳘जिन इ᳘ति व्वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह व्वा᳘जिन इ᳘ति व्वाजजित इत्य᳘न्नं वै व्वा᳘जो ऽन्नजित ऽइ᳘त्ये᳘वैत᳘दाह व्वा᳘जᳫँ᳭ सरिष्य᳘न्त ऽइ᳘त्याजिᳫँ᳭ हि᳘ सरिष्य᳘न्तो भ᳘वन्ति बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति बृ᳘हस्प᳘ते᳘र्ह्येष᳘ भागो भ᳘वति त᳘स्मादाह बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति तद्यद᳘श्वानवघ्राप᳘यतीममु᳘ज्जयानी᳘ति त᳘स्माद्वा ऽअ᳘श्वान᳘वघ्रापयति॥

मूलम् - Weber

तम᳘श्वान᳘वघ्रापयति॥
वा᳘जिन इ᳘ति वाजि᳘नो ह्य᳘श्वास्त᳘स्मादाह वा᳘जिन इ᳘ति वाजजित इत्य᳘न्नं वै वा᳘जो ऽन्नजित इ᳘त्येॗवैत᳘दाह वा᳘जᳫं सरिष्य᳘न्त इ᳘त्याजिᳫं हि᳘ सरिष्य᳘न्तो भ᳘वन्ति बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति बृ᳘हस्प᳘तेॗर्ह्येष᳘ भागो भ᳘वति त᳘स्मादाह बृ᳘हस्प᳘तेर्भागम᳘वजिघ्रते᳘ति तद्यद᳘श्वानवघ्राप᳘यतीममु᳘ज्जयानी᳘ति त᳘स्माद्वा अ᳘श्वान᳘वघ्रापयति॥

मूलम् - विस्वरम्

तमश्वानवघ्रापयति- “वाजिनः"- इति । वाजिनो ह्यश्वाः । तस्मादाह- वाजिन इति । “वाजजितः”- इति । अन्नं वै वाजः । अन्नजित- इत्येवैतदाह । “वाजं सरिष्यन्तः"- इति । आजिं हि सरिष्यन्तो भवन्ति । “बृहस्पतेर्भागमवजिघ्रत”- (वा. सं. ९ । ९) इति । बृहस्पतेर्ह्येष भागो भवति । तस्मादाह बृहस्पतेर्भागमवजिघ्रतेति । तद् यदश्वानवघ्रापयति- इममुज्जयानीति । तस्माद्वा ऽअश्वानवघ्रापयति ॥ १५ ॥

सायणः

विधत्ते- तमश्वानवघ्रापयतीति 15 । ‘तं’ चरुम् ‘अश्वान्’ रथे युक्तान् अवघ्रापयेत् । “घ्रा गन्धोपादाने" (धा० पा० भ्वा० प० ९२६) । तस्य मन्त्रमाह- वाजिन इति । हे ‘वाजिनः !’ अश्वाः ! ‘वाजजितः’ अन्नस्य जेतारः, ‘वाजः’ अन्नम् अन्नसाधनमाजिं प्रति सरिष्यन्तो यूयम्, ‘बृहस्पतेर्भागम्’ ‘अवजिघ्रत’ अवाङ्मुखा गन्धोपादानं कुरुतेति तस्यार्थः । तद्व्याचष्टे- वाजिनो ह्यश्वा इति । आजिँ हि सरिष्यन्त इति । साध्यभूतान्नवाची वाजशब्दः उपचारात् तत्साधने आजौ वर्त्तत इत्यर्थः । अवघ्रापणस्य प्रयोजनमाह- तद्यदश्वानिति । इमं यज्ञं साधयामीति बुद्ध्या ‘अश्वान्’ अवघ्रापयेत् ॥ १५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे प्रथमाध्याये चतुर्थं ब्राह्मणम् ॥ ५-१-४ ॥

Eggeling
  1. He makes the horses smell it, with ‘Ye coursers–;’ for horses are coursers (vājin): therefore he says, ‘Ye coursers,’–‘wealth-winners,’–wealth is food: ‘food-winners’ he thereby says;–‘starting upon the course;’ for they are about to run a race;–‘smell ye Br̥haspati’s portion!’ for this indeed is Br̥haspati’s portion: therefore he says, ‘smell ye Br̥haspati’s portion!’ And why he makes the horses smell it: he thinks, ‘may I win Him 16!’ therefore he makes the horses smell it.

  1. 17:1 In the original, ‘prajāpatiḥ’ is the predicate, not the subject, of the sentence; but considerations of construction seem to render the change desirable in English. ↩︎

  2. विमुच्य सयंतृकँ रथवाहणे करोत्यनस्तत्कर्म शालाया दक्षिणतः । का. श्रौ. सू. १५ । १७९ । ↩︎

  3. ‘भेदात्’- इ. क्व. पा. । ↩︎

  4. 18:1 The Adhvaryu takes it down from the vāhana, or car-stand. ↩︎

  5. 18:2 It is to be placed in the north-eastern part of the vedi, so as to be ready to start on the race northwards along the space between the cātvāla (or pit) and the utkara (heap of rubbish); the horses thus being close to where the Brahman will have to mount a cartwheel put up on the utkara (V, 1, 5, 2). ↩︎

  6. ‘तद्यदेवेत्यादि’ इति क्व० पुस्तके विशेषः । ↩︎ ↩︎

  7. ककुद्मान् Sây. ↩︎

  8. ‘अत्र च’ इति क्व. । ↩︎

  9. ‘प्रथमयोजनेन’ इति क्व. पा. । ↩︎

  10. 19:1 Professor Weber (in his essay on the Nakshatras, II, 278; Abhandl. of Berlin Academy, 1861) takes this passage (–Taitt. S. 1, 7, 7, 2; Kāṭḥaka 13, 14; Maitr. S. I, 11, 1) to contain the first allusion to the system of Nakshatras, or lunar mansions marking the daily stations occupied by the moon (masc.) during his circuit round the heavens.–In the ritual of the Black Yajus (Taitt. S. 1, 7, 7, 2) this formula runs thus: ‘Either Vāyu, or Manu, or the Gandharvas, the twenty-seven, harnessed the horse at first, laid speed into him,’–which Sāyaṇa, however, interprets as meaning, ‘Vāyu, and Manu, and the (twenty-five) Gandharvas,–these seven and twenty. &c.’ ↩︎

  11. उत्तरं वातरँ हा इति । का. श्रौ. सू. १४ । ६२ । ↩︎

  12. ‘भोजनपात्रादिकाधारः’ इति क्व. । ‘भोजनपात्रादिवाधारः’ इति च क्व० । ‘प्रष्टिः’ ‘तिबई’ ‘आडनी’ इति । महाराष्ट्रेषु ख्यातः । ‘तिपाई’ इति प्राच्येषु ख्यातः । ↩︎

  13. दक्षिणा प्रष्टिं जवो यस्त इति । का० श्रौ० सू० १४ । ६३ । ↩︎

  14. 21:1 Or, of the leader, as would appear from Sāyaṇa to Taitt. S. I, 7, 8 (p. 1024),–‘Between the right-hand and the left-hand horse he allows the shafts to project, and between them he puts the horse called “sapti” (in the text)’ No fourth horse is, however, apparently mentioned in the ritual of the Black Yajus. ↩︎

  15. बार्हस्पत्यमेनानाघ्रापयति वाजिन इति । का. श्रौ. सू. १४ । ६५ ↩︎

  16. 22:1 That is, Br̥haspati; unless ’lokam’ has to be supplied to ‘imam’ (’this world’), as might appear probable from the next paragraph. See also V. 1, 5, 27-28. ↩︎