०१

विश्वास-प्रस्तुतिः

आग्नेय᳘मग्निष्टोम ऽआ᳘लभते॥
(ते ऽग्नि) अग्निर्व्वा᳘ ऽअग्निष्टो᳘मो ऽग्निष्टो᳘ममे᳘वैतेनो᳘ज्जयत्यैन्द्राग्न᳘मुक्थे᳘भ्य ऽआ᳘लभत ऽऐन्द्राग्ना᳘नि वा᳘ ऽउक्थ्या᳘न्युक्था᳘न्ये᳘वैतेनो᳘ज्जयत्यैन्द्र᳘ᳫँ᳘ षोडशि᳘न ऽआ᳘लभत ऽइ᳘न्द्रो वै᳘ षोडशी᳘ षोडशि᳘नमे᳘वैतेनो᳘ज्जयति॥

मूलम् - श्रीधरादि

आग्नेय᳘मग्निष्टोम ऽआ᳘लभते॥
(ते ऽग्नि) अग्निर्व्वा᳘ ऽअग्निष्टो᳘मो ऽग्निष्टो᳘ममे᳘वैतेनो᳘ज्जयत्यैन्द्राग्न᳘मुक्थे᳘भ्य ऽआ᳘लभत ऽऐन्द्राग्ना᳘नि वा᳘ ऽउक्थ्या᳘न्युक्था᳘न्ये᳘वैतेनो᳘ज्जयत्यैन्द्र᳘ᳫँ᳘ षोडशि᳘न ऽआ᳘लभत ऽइ᳘न्द्रो वै᳘ षोडशी᳘ षोडशि᳘नमे᳘वैतेनो᳘ज्जयति॥

मूलम् - Weber

आग्नेय᳘मग्निष्टोम आ᳘लभते॥
अग्निर्वा᳘ अग्निष्टो᳘मो ऽग्निष्टो᳘ममेॗवैतेनो᳘ज्जयत्यैन्द्राग्न᳘मुक्थे᳘भ्य आ᳘लभत ऐन्द्राग्ना᳘नि वा᳘ उक्थ्या᳘न्युक्था᳘न्येॗवैतेनोज्जयत्यैन्द्रं षोडशि᳘न आ᳘लभत इ᳘न्द्रो वै᳘ षोडशी᳘ षोडशि᳘नमेॗवैतेनो᳘ज्जयति॥

मूलम् - विस्वरम्

आग्नेयमग्निष्टोम ऽआलभते । अग्निर्वा ऽअग्निष्टोमः । अग्निष्टोममेवैतेनोज्जयति । ऐन्द्राग्नमुक्थेभ्य आलभते । ऐन्द्राग्नानि वा ऽउक्थानि उक्थान्येवैतेनोज्जयति । ऐन्द्रं षोडशिन ऽआलभते । इन्द्रो वै षोडशी । षोडशिनमेवैतेनोज्जयति ॥ १ ॥

सायणः

तृतीये पशुतन्त्रमभिधीयते । तत्र तावद्वाजपेयस्याग्निष्टोमोक्थ्यषोडश्यतिरात्रसंस्थालक्षणसद्भावेन सर्वक्रत्ववरोधकत्वमस्तीति वैदिकप्रसिद्धिः 1 तत्तत्क्रत्वसाधारणपशुसद्भावे सत्युपपद्यते, नान्यथा । तथा च तैत्तिरीयकम्- “ब्रह्मवादिनो वदन्ति, नाग्निष्टोमो नोक्थ्यो न षोडशी नातिरात्रः, अथ कस्माद् वाजपेये सर्वे यज्ञक्रतवो ऽवरुन्ध्यन्त इति, पशुभिरिति ब्रूयात्”- (तै. ब्रा. १ । ३ । ४ । १) इति । यज्ञशब्देन यजतिचोदिता वषट्कारप्रदाना अङ्गप्रधानभूता यागा अभिधीयन्ते । तत्समूहरूप एकफलसाधनायापूर्ववान् कर्मविशेषः क्रतुरित्यर्थः । अतस्तानग्निष्टोमादिगतानाग्नेयादिसवनीयपशून् विधत्ते- आग्नेयमग्निष्टोम इति । तत्राग्निष्टोमस्य द्वादशस्तोत्रशस्त्राणि; उक्थ्यस्य उक्थत्रयेण पञ्चदश; षोडशिनः षोडशिस्तोत्रेण सह षोडश; वाजपेयस्य बृहत्स्तोत्रेण सह सप्तदश, अतिरात्रपर्यायत्रयेण सह षोडशिपक्षे एकोनत्रिंशत्, अन्यदा अष्टाविंशतिः पशूनाम् । तत्तत्क्रत्वसाधारण्यं द्योतयितुमग्निष्टोमादिपदाभिधानम् । अग्निः स्तूयते अस्मिन्निति अग्निष्टोमो नाम साम, तस्मिन् विषयभूते ‘आग्नेयमालभते’ । एतेन पशुना अस्मिन् वाजपेये अग्निष्टोमसंस्थं क्रतुमेवानुष्ठितवान् भवतीत्यर्थः । एवमुत्तरत्रापि योज्यम् । ‘उक्थेभ्यः’ तृतीयसवने स्तूयमानेभ्यो ऽन्येभ्यस्त्रिभ्य उक्थस्तोत्रेभ्यः इन्द्रादिदेवताकः पशुरालम्भनीयः । ‘षोडशिने’ षोडशिस्तोत्राय ‘ऐन्द्रं’ पशुम् आलभेत ॥ १ ॥

Eggeling
  1. At the Agnishṭoma (Sāman 2) he seizes a (victim) for Agni, for the Agnishṭoma (i.e. ‘Agni’s

praise 3) is Agni: he thereby wins Agni. For the Ukthas 4 he seizes one for Indra and Agni; for the hymns (uktha) relate to Indra and Agni 5: the hymns he thereby wins. For the Shoḍaśi n he seizes one for Indra; for the Shoḍaśin is Indra: the Shoḍaśin (Indra) he thereby wins.

०२

विश्वास-प्रस्तुतिः

सारस्वत᳘ᳫँ᳘ सप्तदशा᳘य स्तोत्राया᳘लभते॥
त᳘देतद᳘नतिरा᳘त्रे सति रा᳘त्रे रूपं᳘ क्रियते प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते संव्वत्सरो वै᳘ प्रजा᳘पतिस्त᳘देते᳘न सारस्वते᳘न रा᳘त्रिमु᳘ज्जयति त᳘स्मादेतद᳘नतिरा᳘त्रे सति रात्रे[[!!]] रूपं᳘ क्रियते॥

मूलम् - श्रीधरादि

सारस्वत᳘ᳫँ᳘ सप्तदशा᳘य स्तोत्राया᳘लभते॥
त᳘देतद᳘नतिरा᳘त्रे सति रा᳘त्रे रूपं᳘ क्रियते प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते संव्वत्सरो वै᳘ प्रजा᳘पतिस्त᳘देते᳘न सारस्वते᳘न रा᳘त्रिमु᳘ज्जयति त᳘स्मादेतद᳘नतिरा᳘त्रे सति रात्रे[[!!]] रूपं᳘ क्रियते॥

मूलम् - Weber

सारस्वत᳘ᳫं᳘ सप्तदशा᳘य स्तोत्राया᳘लभते॥
त᳘देतद᳘नतिरात्रे सति रा᳘त्रे रूपं᳘ क्रियते प्रजा᳘पतिं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते संवत्सरो वै᳘ प्रजा᳘पतिस्त᳘देते᳘न सारस्वते᳘न रा᳘त्रिमु᳘ज्जयति त᳘स्मादेतद᳘नतिरात्रे सति रा᳘त्रे रूपं᳘ क्रियते॥

मूलम् - विस्वरम्

सारस्वतं सप्तदशाय स्तोत्रायालभते । तदेतदनतिरात्रे सति रात्रे रूपं क्रियते । प्रजापतिं वा ऽएष उज्जयति- यो वाजपेयेन यजते । सम्वत्सरो वै प्रजापतिः । तदेतेन सारस्वतेन रात्रिमुज्जयति । तस्मादेतदनतिरात्रे सति रात्रे रूपं क्रियते ॥ २ ॥

सायणः

सारस्वतमिति । ‘सप्तदशाय’ सप्तदशसङ्ख्यापूरकाय बृहत्स्तोत्राय ‘सारस्वतं’ सरस्वतीदेवत्यं पशुमालभेत । नन्वन्तिममिदं बृहत्स्तोत्रं वाजपेयस्यासाधारणं लिङ्गम्; श्रूयते हि- “नारुत्या बृहतः स्तोत्रम्"- (तै. ब्रा. १ । ३ । ४ । २) इति । कथं वाजपेये अतिरात्रान्तर्भाव इत्याशङ्क्य, अनेन सारस्वतालम्भनेनातिरात्रस्यान्तर्भावं दर्शयति- तदेतदिति । ‘अनतिरात्रे, सति’ प्रस्तुते वाजपेये यज्ञे अतिरात्रान्तर्भावविधुरे ‘तदेतत्’ सारस्वतालम्भनं ‘रात्रेः’ रात्रिपर्यायस्येत्यर्थः । ‘रूपं क्रियते’ अतिरात्रस्यासाधारणं रूपं क्रियते तेन तदन्तर्भावो ऽपि सिद्ध इत्यर्थः । एतेषामाग्नेयादीनामग्निष्टोमादिसंस्थाचतुष्टयसारूप्यं सूत्रे दर्शितम्- “आग्नेयो ऽग्निष्टोमे सवनीयः पशुः, ऐन्द्राग्नयोक्थे द्वितीयः, ऐन्द्री पृश्निः षोडशिनि तृतीयः, सरस्वत्यै चतुर्थो ऽतिरात्रे मेषी वा, सारस्वती मेष्यतिरात्रे चतुर्थी” (का. श्रौ. सू. ९ । १७३-१७४ ।) इति । नन्वतिरात्रान्तर्भावाय रात्रिसामान्यपि कस्मान्न प्रयोज्यानीत्यत आह- प्रजापतिं वा एष इति । प्रजापतेस्तु संवत्सरात्मकता सङ्ख्यासाम्यात्; ‘द्वादश मासाः पञ्चर्त्तवः’ इति संवत्सरस्य सप्तदशत्वम्, प्रजापतेरप्याश्रावयेत्यादिसप्तदशाक्षरमन्त्रात्मकत्वात् । अतः सप्तदशेनैव बृहत्स्तोत्रेण सप्तदशात्मकप्रजापतेरुज्जितिः सिद्धेति प्रयोजनाभावाद्रात्रिसामानि न प्रयोज्यानि । तस्मादुक्तविध एवातिरात्रान्तर्भावः साधीयानित्याह- तदेतेन सारस्वतेनेति ॥ २ ॥

Eggeling
  1. For the seventeenth (or seventeenfold) stotra 6 he seizes one for Sarasvatī: thereby, while there is no over-night performance 7, it is yet made like the night (performance); for he who offers the Vājapeya

wins Prajāpati, and Prajāpati is the year: by that (victim) for Sarasvatī he now wins the night: hence, while there is no night performance, it is made like the night.

०३

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ मरु᳘द्भ्य उज्जेषे᳘भ्यः॥
(भ्यो) व्वशां पृ᳘श्निमा᳘लभत ऽइयं वै᳘ व्वशा पृ᳘श्निर्य᳘दिद᳘मस्यां᳘ मूलि᳘ चामूलं᳘ चान्ना᳘द्यं प्र᳘तिष्ठितं ते᳘नेयं᳘ व्वशा पृ᳘श्निर᳘न्नं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं व्वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वै व्वि᳘श ऽउज्जेषे᳘भ्य ऽइत्यु᳘ज्जित्या ऽएव᳘ दुर्व्वे᳘दे ऽउज्जेष᳘वत्यौ याज्यानुवा᳘क्ये य᳘द्युज्जेष᳘वत्यौ न᳘ व्विन्देद᳘पि ये᳘ ऽएव के᳘ च मारु᳘त्यौ स्यातां दुर्व्वे᳘दो ऽएव᳘ व्वशा पृ᳘श्निर्य᳘दि व्वशां पृ᳘श्निं न᳘ व्विन्देद᳘पि᳘ यैव का᳘ च व्वशा᳘ स्यात्॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ मरु᳘द्भ्य उज्जेषे᳘भ्यः॥
(भ्यो) व्वशां पृ᳘श्निमा᳘लभत ऽइयं वै᳘ व्वशा पृ᳘श्निर्य᳘दिद᳘मस्यां᳘ मूलि᳘ चामूलं᳘ चान्ना᳘द्यं प्र᳘तिष्ठितं ते᳘नेयं᳘ व्वशा पृ᳘श्निर᳘न्नं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫँ᳭ ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं व्वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वै व्वि᳘श ऽउज्जेषे᳘भ्य ऽइत्यु᳘ज्जित्या ऽएव᳘ दुर्व्वे᳘दे ऽउज्जेष᳘वत्यौ याज्यानुवा᳘क्ये य᳘द्युज्जेष᳘वत्यौ न᳘ व्विन्देद᳘पि ये᳘ ऽएव के᳘ च मारु᳘त्यौ स्यातां दुर्व्वे᳘दो ऽएव᳘ व्वशा पृ᳘श्निर्य᳘दि व्वशां पृ᳘श्निं न᳘ व्विन्देद᳘पि᳘ यैव का᳘ च व्वशा᳘ स्यात्॥

मूलम् - Weber

अ᳘थ मरु᳘द्भ्य उज्जेषे᳘भ्यः॥
वशाम् पृ᳘श्निमा᳘लभत इयं वै᳘ वशा पृ᳘श्निर्य᳘दिद᳘मस्या᳘म् मूलि᳘ चामूलं᳘ चान्ना᳘द्यम् प्र᳘तिष्टितं ते᳘नेयं᳘ वशा पृ᳘श्निर᳘न्नं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते ऽन्नपे᳘यᳫं ह वै ना᳘मैतद्य᳘द्वाजपे᳘यं वि᳘शो वै᳘ मरुतो᳘ ऽन्नं वै वि᳘श उज्जेषे᳘भ्य इत्यु᳘ज्जित्या एव᳘ दुर्वे᳘दे उज्जेष᳘वत्यौ याज्यानुवाॗक्ये य᳘द्युज्जेष᳘वत्यौ न᳘ विन्देद᳘पि ये᳘ एव के᳘ च मारुत्यौ स्यातां दुर्वे᳘दो एव᳘ वशा पृ᳘श्निर्य᳘दि वशाम् पृ᳘श्नि न᳘ विन्देद᳘पिॗ यैव का᳘ च वशा᳘ स्यात्॥

मूलम् - विस्वरम्

अथ मरुद्भ्य उज्जेषेभ्यो वशां पृश्निमालभते । इयं वै वशा पृश्निः- यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितम् । तेनेयं वशा पृश्निः । अन्नं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नपेयं ह वै नामैतद्- यद्वाजपेयम् । विशो वै मरुतः । अन्नं वै विशः । उज्जेषेभ्य इत्युज्जित्या ऽएव दुर्वेदे उज्जेषवत्यौ याज्यानुवाक्ये । यद्युज्जेषवत्यौ न विन्देद्- अपि ये ऽएव के च मारुत्यौ स्याताम् । दुर्वेदो ऽएव वशा पृश्निः । यदि वशां पृश्निं न विन्देद् । अपि यैव का च वशा स्यात् ॥ ३ ॥

सायणः

अथास्य यज्ञस्यासाधारणपशुं विधत्ते- अथ मरुद्भ्य इति । उज्जेषगुणकेभ्यो मरुद्भ्यो देवेभ्यः ‘पृश्निं’ नानावर्णां ‘वशां’ वन्ध्याम् आलभेत । उक्तं पशुं भूग्यात्मत्वेन स्तौति- इयं वै वशेति । ‘इयं’ भूमिः, वशा पृश्निः । भूमेः पृश्नित्वमुपपादयति- ‘यदिदम्’ ‘अस्यां’ भूमौ ‘मूलि’ मूलवत् स्थावरम्, ‘अमूलं’ पश्वादिकम्, एवमुभयम् ‘अन्नाद्यं’ आद्यम् अदनीयम् अन्नं ‘प्रतिष्ठितम्’ ‘तेन’ अस्याः पृश्नित्वम् । अस्य पशोर्मरुद्देवतात्वं प्रशंसति- अन्नं वा एष इति । ‘वाजपेयम्’ इति यत्, तत् ‘अन्नपेयम्’ । वाजशब्दो ऽन्नवाची । अन्नम् अन्नविकारभूतं सुराद्रव्यं पीयते अत्रेति हि व्युत्पत्तिः । ‘मरुतः’ खलु ‘विशः’ प्रजाः; “मरुतो वै देवानां विशः” (तै. सं. २ । २ । ५ । ७) इति श्रुतेः । कथमेतावता मरुतामन्नरूपत्वम् ? तत्राह- अन्नं वै विश इति । ‘अन्नं’ ‘वै’ खलु ‘विशः’ प्रजाः; अन्नोपजीवनात् तच्छब्देन व्यपदिश्यन्ते । तेषामुज्जेषविशेषणस्य प्रयोजनमाह- उज्जेषेभ्य इति । तत्र वशावपाहोमे उज्जेषपदवत्यौ याज्यापुरो ऽनुवाक्ये विधत्ते- दुर्वेदे उज्जेषवत्याविति । ‘दुर्वेदे’ लब्धुमशक्ये, अतस्ते एव सम्पाद्ये इत्यर्थः । तयोरसुलभत्वं मत्वा स्वयमेव श्रुतिः पक्षान्तरमाह- यद्युज्जेषवत्यावित्यादि । ‘मारुत्यौ’ मरुद्देवत्ये भवे वा । पशोरपि पृश्निवर्णास्यालाभे पक्षान्तरं दर्शयति- दुर्वेदो एवेत्यादिना । ‘दुर्वेदो’ लब्धुमशक्यः ‘उ’ खलु इति निपातेन सह प्रयोगः । अत एव कात्यायनः- “वशां पृश्निं मरुद्भ्य उज्जेषेभ्यस्तदभावे पृश्निम्” (का० श्रौ० सू० १४ । ३५-३६) इति ॥ ३ ॥

Eggeling
  1. Thereupon he seizes a spotted sterile cow for the Victorious Maruts; for the spotted sterile cow is this (earth): whatever food, rooted and rootless, is here established on her, thereby she is a spotted cow. Now, he who offers the Vājapeya wins food, for vāja-peya 8 doubtless means the same as anna-peya (food and drink); and the Maruts are the peasants, and the peasants are food (for the noble). ‘To the Victorious (Maruts)!’ he says, even for the sake of victory. It is difficult to obtain an invitatory and offering prayer containing the word ‘victorious:’ if he should be unable to obtain such as contain the word ‘victorious,’ any other two verses to the Maruts will do. Difficult to obtain also is a spotted sterile cow: if he cannot obtain a spotted sterile cow, any other sterile cow will do.

०४

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘स्या आवृत्[[!!]]॥
(द्य᳘) य᳘त्र हो᳘ता माहेन्द्रं ग्र᳘हमनुश᳘ᳫँ᳘सति त᳘दस्यै व्वप᳘या प्र᳘चरेयुरेष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘न्मध्यत᳘ ऽए᳘वैतद्य᳘जमाने व्वीर्यं᳘ दधाति त᳘स्मादस्या ऽअ᳘त्र व्वप᳘या प्र᳘चरेयुः॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘स्या आवृत्[[!!]]॥
(द्य᳘) य᳘त्र हो᳘ता माहेन्द्रं ग्र᳘हमनुश᳘ᳫँ᳘सति त᳘दस्यै व्वप᳘या प्र᳘चरेयुरेष वा ऽइ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यᳫँ᳭ शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘न्मध्यत᳘ ऽए᳘वैतद्य᳘जमाने व्वीर्यं᳘ दधाति त᳘स्मादस्या ऽअ᳘त्र व्वप᳘या प्र᳘चरेयुः॥

मूलम् - Weber

त᳘स्या आवृ᳘त्॥
य᳘त्र हो᳘ता माहेन्द्रं ग्र᳘हमनुश᳘ᳫं᳘सति त᳘दस्यै वप᳘या प्र᳘चरेयुरेष वा इ᳘न्द्रस्य नि᳘ष्केवल्यो ग्र᳘हो य᳘न्माहेन्द्रो᳘ ऽप्यस्यैतन्नि᳘ष्केवल्यमेव᳘ स्तोत्रं नि᳘ष्केवल्यं शस्त्रमि᳘न्द्रो वै य᳘जमानस्त᳘न्मध्यत᳘ एॗवैतद्य᳘जमाने वीर्यं᳘ दधाति त᳘स्मादस्या अ᳘त्र वप᳘या प्र᳘चरेयुः॥

मूलम् - विस्वरम्

तस्या आवृत् । यत्र होता माहेन्द्रं ग्रहमनुशंसति- तदस्यै वपया प्रचरेयुः । एष वा ऽइन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रः । अप्यस्यैतन्निष्केवल्यमेव स्तोत्रम्, निष्केवल्यं शस्त्रम् । इन्द्रो वै यजमानः । तन्मध्यत एवैतद्यजमाने वीर्यं दधाति । तस्मादस्या अत्र वपया प्रचरेयुः ॥ ४ ॥

सायणः

पारुतीवपाप्रचरणं प्राकृतानामाग्नेयैन्द्राग्नप्रभृतीनां वपाप्रचरणेन सह विधास्यते । तत्र तावदेकेषां मतमुपन्यस्यति- तस्या आवृद् यत्र होतेति । ‘तस्याः’ माल्या वशायाः ‘आवृत्’ तन्त्रम्, वक्ष्यत इति शेषः । यत्र होता माहेन्द्रं ग्रहम् ‘अनुशंसति’ अनुशंसितवान् भवतीति भूतार्थपरत्वेन व्याख्येयम्; “माहेन्द्रान्ते वशावपाचरणम्”- (का. श्रौ. सू. १४ । ४०) इति कात्यायनेन सूत्रितत्वात् । ‘तत्’ तदा ‘अस्यै’ अस्या मारुत्याः ‘वपया’ ‘प्रचरेयुः’ । प्रचरणं माहेन्द्र इति यत् ‘एष वै इन्द्रस्य’ असाधारणो ‘ग्रहः’; ग्रहणमन्त्रे केवलेन्द्रस्यैव देवतात्वेन प्रतिपादनात् । निश्शेषेण केवलमिन्द्रस्यायमिति ‘निष्केवल्यो ग्रहः’ । माध्यन्दिने सवने हि माहेन्द्रग्रहग्रहणम्; तच्च सवनमिन्द्रस्येति नियतम् । श्रूयते हि “प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते”- (ऋ. सं. ४ । ३ । ५७) न केवलं माहेन्द्रग्रह एव निष्केवल्यः, अपि तु तद्ग्रहणानन्तरं प्रयोज्ये स्तुतशस्त्रे अपि केवलेन्द्रदेवताकत्वात् इन्द्रस्यासाधारणमित्यत आह- अप्यस्यैतन्निष्केवल्यमेवेति । अस्तु ग्रहादीनां केवलेन्द्रदेवताकत्वं तेन प्रकृते किमायातमित्यत आह- इन्द्रो वै यजमान इति । यस्माद्यागलक्षणेन परमैश्वर्येण योगाद् ‘यजमानः’ इन्द्ररूपः । वैशद्वःशाखान्तरीयां प्रसिद्धिं द्योतयति; “एष खलु वा एतर्हीन्द्रो यो यजते”- (तै. सं. ६ । १ । ११ । १) इति तैत्तिरीयके श्रवणात् । ‘अतः’ इन्द्रयजमानयोस्तादात्म्यान्माध्यन्दिनसवनवर्तिमाहेन्द्रग्रहान्ते वपाचरणेन यज्ञमध्ये एव ‘यजमाने’ ‘वीर्यं’ निहितवान् भवतीत्यर्थः ॥ ४ ॥

Eggeling
  1. The course of procedure thereof (is as follows). When the Hotr̥ recites after the Māhendra libation, then let them proceed with (the offering of) her omentum, for that, the Māhendra 9, is Indra’s special (nishkevalya) libation; and his also are the Nishkevalya-stotra and Nishkevalya-śastra. Now the sacrificer is Indra: thus he thereby puts strength into the sacrificer in the very middle (of the sacrifice):

that is why they should proceed with her omentum at that particular time.

०५

विश्वास-प्रस्तुतिः

(र्द्वे᳘) द्वे᳘धा ऽवदा᳘नानि श्रपयन्ति॥
त᳘तो ऽर्द्धा᳘नां जुह्वा᳘मुपस्ती᳘र्य द्वि᳘र्द्विर᳘वद्यति सकृ᳘दभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नान्य᳘थोपभृ᳘ति सकृ᳘त्सकृद᳘वद्यति द्वि᳘रभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नानि तद्य᳘दर्द्धा᳘नां द्वि᳘र्द्विरवद्य᳘ति त᳘थैषा᳘ कृत्स्ना᳘ भवत्य᳘थ य᳘देतैः᳘ प्रच᳘रति ते᳘न दै᳘वीं व्वि᳘शमु᳘ज्जयत्य᳘थार्द्धा᳘नि मानुष्यै᳘ व्विश ऽउ᳘पहरति ते᳘नो मानुषीं व्वि᳘शमु᳘ज्जयति॥

मूलम् - श्रीधरादि

(र्द्वे᳘) द्वे᳘धा ऽवदा᳘नानि श्रपयन्ति॥
त᳘तो ऽर्द्धा᳘नां जुह्वा᳘मुपस्ती᳘र्य द्वि᳘र्द्विर᳘वद्यति सकृ᳘दभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नान्य᳘थोपभृ᳘ति सकृ᳘त्सकृद᳘वद्यति द्वि᳘रभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नानि तद्य᳘दर्द्धा᳘नां द्वि᳘र्द्विरवद्य᳘ति त᳘थैषा᳘ कृत्स्ना᳘ भवत्य᳘थ य᳘देतैः᳘ प्रच᳘रति ते᳘न दै᳘वीं व्वि᳘शमु᳘ज्जयत्य᳘थार्द्धा᳘नि मानुष्यै᳘ व्विश ऽउ᳘पहरति ते᳘नो मानुषीं व्वि᳘शमु᳘ज्जयति॥

मूलम् - Weber

द्वेॗधावदा᳘नानि श्रपयन्ति॥
त᳘तो ऽर्धा᳘नां जुह्वा᳘मुपस्ती᳘र्य द्वि᳘र्द्विर᳘वद्यति सकृ᳘दभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नान्य᳘थोपभृ᳘ति सकृ᳘त्सकृद᳘वद्यति द्वि᳘रभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नानि तद्य᳘दर्धा᳘नां द्वि᳘र्द्विरवद्य᳘ति त᳘थैषा᳘ कृत्स्ना᳘म् भवत्य᳘थ य᳘देतैः᳘ प्रच᳘रति ते᳘न दै᳘वीं वि᳘शमु᳘ज्जयत्य᳘थार्धा᳘नि मानुष्यै᳘ विश उ᳘पहरति ते᳘नो मानुषीं वि᳘शमु᳘ज्जयति॥

मूलम् - विस्वरम्

द्वेधा ऽवदानानि श्रपयन्ति । ततो ऽर्द्धानां जुह्वामुपस्तीर्य द्विर्द्विरवद्यति, सकृदभिघारयति । प्रत्यनक्त्यवदानानि । अथोपभृति सकृत्सकृदवद्यति । द्विरभिघारयति । न प्रत्यनक्त्यवदानानि । तद्- यदर्द्धानां द्विर्द्विरवद्यति- तथैषा कृत्स्रा भवति । अथ यदेतैः प्रचरति- तेन दैवीं विशमुज्जयति । अथार्द्धानि मानुष्यै विश ऽउपहरति तेनो मानुषीं विशमुज्जयति ॥ ५ ॥

सायणः

पश्ववदानानामप्यैकध्येन श्रवणं सिद्धान्तयितुं द्वैविध्यं पूर्वपक्षयति- द्वेधा ऽवदानानि श्रपयन्तीति । कात्यायनस्तु उक्तं वपाप्रचरणमवदानानां द्वेधा श्रपणं च विकल्पेन सुत्रयामास- “माहेन्द्रान्ते वशावपाचरणम्, अवदानैश्च द्वैधं श्रुतैः”- (का. श्रौ. सू. १४ । ४० । ४१) इति । “यथान्यायं वोभयोः, वशायाश्च, ऐकध्यञ्च श्रपणम्” (का. श्रौ. सू. १६ । ४५ । ४७) इति च । ब्राह्मणे तु “तदु तथा न कुर्यात्”- इत्येकं निषिध्य, अन्यत् सिद्धान्तितम् । कथमनयोर्विकल्पः सिध्यतीति चेत्, सत्यम् मतान्तरनिषेधस्तु प्रसक्तिपूर्वको भवितुमर्हति, प्रसक्तिस्तु शाखान्तरीयेति तन्मतानुसारेण सूत्रकृता विकल्पः कृत इत्यविरोधः । हृदयं जिह्वा वक्षो यकृद्-वृक्कौ सव्यो दोरुभे पार्श्वे दक्षिणा श्रोणिः गुदतृतीयमिति दैवतानि; दक्षिणो दोः सव्या श्रोणिः गुदतृतीयमिति सौविष्टकृतानीति । एतानि सर्वाण्यवदानानि द्विधा पृथक् श्रपयन्ति पक्वानि कुर्युः । दैवतानां हृदयादीनां सौविष्टकृतानां त्र्यङ्गाणां च पृथक् श्रपणमित्यर्थः । हविषामवदानप्रकारमाह- ततो ऽर्द्धानामिति । अथ जुह्वामाज्येनोपस्तरणं कृत्वा ‘अर्द्धानां’ प्रधानहविषां हृदयादीनां मध्ये एकैकस्माद् ‘द्विर्द्विः’ अवद्येत् । एवमेकादशावदानान्यवदाय पुनराज्येनैकवारमभिधारणं कुर्यात् । एवमुपस्तरणद्विरवदानपुनरभिधारणैर्हविषां चतुरवत्तत्वं सम्पादितम् । अनन्तरं स्विष्टकृदर्थान्यवदानानि घृतेन प्रत्यञ्ज्यात् । अथोपभृतीति । वाक्यं स्पष्टार्थम् । अत्र उपस्तरणावदाने सकृत् सकृद् द्विरभिधारणमिति चतुरवदानसम्पत्तिः । अत्र स्थितानि 10 अवत्तशेषाणि न प्रत्यञ्ज्यात्; उत्तरत्र विनियोगाभावात् । एतेषां द्विरवदानं प्रशंसति- तद्यदर्द्धानामिति । अर्द्धानां हृदयादीनां प्रत्येकं देवतार्थं स्विष्टकृदर्थं च द्विवद्यतीति ‘यत्’ तेन द्विरवदानेन ‘एषा’ वशा ‘कृत्स्ना’ सम्पूर्णा भवति यथेतरः पशुस्तथेत्यर्थः । अथैतेषां प्रचरणं स्तौति- यदेतैरिति । दैवीं विशमिति । अवदानानां देवतोद्देशेनाग्नौ प्रक्षिप्तत्वात् तेन प्रचरणेन ‘दैवीं’ देवसम्बन्धिनीं ‘विशम्’ प्रजाम् ‘उज्जयति’ । एवमर्द्धानां हविषां विनियोगमभिधाय, अर्द्धान्तरस्यापि दर्शयति- अथार्द्धानीति । यागार्थार्द्धहविषः पृथक् पक्वानि अङ्गानि ‘मानुष्यै’ मनुष्यसम्बन्धिन्यै ‘विशे’ प्रजायै ‘उपहरति’ ददाति ‘तेन’ दानेन ‘मानुषीं’ प्रजां जितवान् भवतीति । अत एव सूत्रितम्- “पूर्वेभ्यो देवतास्विष्टकृद्भ्यामवद्यत्युत्तराणि विशे ददाति”- (का. श्रौ. सू. १४ । ४२) इति । अत्र पूर्वोत्तरशब्दौ कर्कोपाध्यायेनैवं व्याख्यातौ- “पूर्वाणि हृदयादीनि, उत्तराणि त्र्यङ्गानि”- इति ॥ ५ ॥

Eggeling
  1. They cook the portions 11 in two lots. Of the one lot thereof, after making an ‘under-layer’ of ghee (clarified butter) in the juhū spoon, he makes two cuttings from each (portion), bastes them once, and replenishes with ghee (the empty places of) the cuttings. Thereupon he makes one cutting from each into the upabhr̥t spoon, bastes them twice, but does not replenish (the places of) the cuttings. Now, when of the one lot (of portions) he makes two cuttings from each, thereby that (sterile cow) becomes whole; and when he proceeds with those (portions), thereby he wins the divine race. He then presents the (other) half to the human kind: and thereby he wins the human kind (people, viś).

०६

विश्वास-प्रस्तुतिः

त᳘दु त᳘था न᳘ कुर्यात्॥
(द्ध्व᳘) ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष[[!!]] यज्ञपथाद्य ऽएवं᳘[[!!]] करो᳘ति त᳘स्माद्य᳘त्रैवै᳘तरेषां पशूनां[[!!]] व्वपा᳘भिः प्रच᳘रन्ति त᳘दे᳘वैत᳘स्यै व्वप᳘या प्र᳘चरेयुरेक᳘धा ऽवदा᳘नानि श्रपयन्ति न᳘ मानुष्यै᳘ व्विश ऽउ᳘पहरन्ति॥

मूलम् - श्रीधरादि

त᳘दु त᳘था न᳘ कुर्यात्॥
(द्ध्व᳘) ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष[[!!]] यज्ञपथाद्य ऽएवं᳘[[!!]] करो᳘ति त᳘स्माद्य᳘त्रैवै᳘तरेषां पशूनां[[!!]] व्वपा᳘भिः प्रच᳘रन्ति त᳘दे᳘वैत᳘स्यै व्वप᳘या प्र᳘चरेयुरेक᳘धा ऽवदा᳘नानि श्रपयन्ति न᳘ मानुष्यै᳘ व्विश ऽउ᳘पहरन्ति॥

मूलम् - Weber

त᳘दु त᳘था न᳘ कुर्यात्॥
ह्व᳘लति वा᳘ एष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ एष᳘ यज्ञपथाद्य᳘ एवं᳘ करो᳘ति त᳘स्माद्य᳘त्रैवै᳘तरेषाम् पशू᳘नां वपा᳘भिः प्रच᳘रन्ति त᳘देॗवैत᳘स्यै वप᳘या प्र᳘चरेयुरेकॗधावदा᳘नानि श्रपयन्ति 12 न᳘ मानुष्यै᳘ विश उ᳘पहरन्ति॥

मूलम् - विस्वरम्

तदु तथा न कुर्यात् । ह्वलति वा ऽएष- यो यज्ञपथादेति । एति वा ऽएष यज्ञपथाद्- य एवं करोति । तस्माद्यत्रैवेतरेषां पशूनां वपाभिः प्रचरति- तदेवैतस्यै वपया प्रचरेयुः । एकधा ऽवदानानि श्रपयन्ति । न मानुष्यै विश ऽउपहरन्ति ॥ ६ ॥

सायणः

तदिदं 10 माहेन्द्रान्ते वपाचरणं हविषां द्विधा श्रपणं च दूषयति- तदु तथा न कुर्यादिति । करणे प्रत्यवायं दर्शयति- ह्वलति वा एष इति । ‘यो’ यज्ञमार्गादेः सकाशाद् ‘एति’ प्रच्युतो भवति, सः ‘ह्वलति’ विभ्रष्टो भवतीत्यर्थः । कस्य यज्ञपथाद् भ्रंशनम्, तमाह- एति वा एष इति । ‘एवम्’ उक्तरीत्या ‘वपया’ प्रातस्सवनकर्त्तव्यं वपाहोमं माहेन्द्रान्ते श्रपणञ्च करोति, स यज्ञमार्गात् प्रच्युतो भवेत्, अतस्तथा न कुर्यादिति सम्बन्धः ॥ अथ प्राकृतपशुवपाप्रचरणकाले मारुती-वपा-प्रचरणं हविषामैकध्येन श्रपणञ्च विधत्ते 13- तस्माद् यत्नैवेत्यादिना । अस्मिन् पक्षे त्र्यङ्गेभ्यः स्विष्टकृद्यागावदानमिति पृथक् पक्वस्य हविषोभावान्मानुष्यै विशे अवदानमिति शेषः ॥ ६ ॥

Eggeling
  1. But let him not do it in this wise; for verily he who departs from the path of the sacrifice, stumbles; and he who does it in this wise certainly departs from the path of the sacrifice. Hence when they proceed with the omenta of the other victims, only then let them proceed with the omentum of that (cow). They cook the portions in one lot, and do not present any to the human kind.

०७

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ सप्त᳘दश प्राजापत्या᳘न्पशूना᳘लभते॥
ते वै स᳘र्व्वे तूपरा᳘ भवन्ति स᳘र्व्वे श्यामाः स᳘र्व्वे मुष्कराः᳘ प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते᳘ ऽन्नं वै᳘ प्रजा᳘पतिः पशुर्व्वा ऽअ᳘न्नं त᳘त्प्रजा᳘पतिमु᳘ज्जयति सो᳘मो वै᳘ प्रजा᳘पतिः पशुर्व्वै᳘ प्रत्य᳘क्षᳫँ᳭ सो᳘मस्त᳘त्प्रत्य᳘क्षं प्रजा᳘पतिमु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ सप्त᳘दश प्राजापत्या᳘न्पशूना᳘लभते॥
ते वै स᳘र्व्वे तूपरा᳘ भवन्ति स᳘र्व्वे श्यामाः स᳘र्व्वे मुष्कराः᳘ प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते᳘ ऽन्नं वै᳘ प्रजा᳘पतिः पशुर्व्वा ऽअ᳘न्नं त᳘त्प्रजा᳘पतिमु᳘ज्जयति सो᳘मो वै᳘ प्रजा᳘पतिः पशुर्व्वै᳘ प्रत्य᳘क्षᳫँ᳭ सो᳘मस्त᳘त्प्रत्य᳘क्षं प्रजा᳘पतिमु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - Weber

अ᳘थ सप्त᳘दश प्राजापत्या᳘न्पशूना᳘लभते॥
ते वै स᳘र्वे तूपरा᳘ भवन्ति स᳘र्वे श्यामाः स᳘र्वे मुष्कराः᳘ प्रजा᳘पतिं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते᳘ ऽन्नं वै᳘ प्रजा᳘पतिः पशुर्वा अ᳘न्नं त᳘त्प्रजा᳘पतिमु᳘ज्जयति सो᳘मो वै᳘ प्रजा᳘पतिः पशुर्वै᳘ प्रत्य᳘क्षᳫं सो᳘मस्त᳘त्प्रत्य᳘क्षम् प्रजा᳘पतिमु᳘ज्जयति सप्त᳘दश भवन्ति सप्तदशो वै᳘ प्रजा᳘पतिस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - विस्वरम्

अथ सप्तदश प्राजापत्यान् पशूनालभते । ते वै सर्वे तूपरा भवन्ति, सर्वे श्यामाः, सर्वे मुष्कराः । प्रजापतिं वा ऽएष उज्जयति- यो वाजपेयेन यजते । अन्नं वै प्रजापतिः । पशुर्वा ऽअन्नम् । तत् प्रजापतिमुज्जयति । सोमो वै प्रजापतिः । पशुर्वै प्रत्यक्षं सोमः । तत् प्रत्यक्षं प्रजापतिमुज्जयति । सप्तदश भवन्ति । सप्तदशो वै प्रजापतिः । तत् प्रजापतिमुज्जयति ॥ ७ ॥

सायणः

पश्वन्तराणि 10 विधत्ते- अथ सप्तदशेति । ‘प्राजापत्यान्’ प्रजापतिदेवताकान् सप्तदशसङ्ख्याकान् पशून् आलभेत । अत्र देवतासङ्ख्यालक्षणद्वयविशिष्टपशुविधिः । तेषु पशुषु गुणत्रयं विधत्ते- ते वै सर्वे तूपरा इति । ‘तूपराः’ अविषाणा इत्यर्थः । ‘श्यामाः’ शुक्लकृष्णवर्णाः, ‘मुष्कराः’ मुष्को येषामस्तीति । “ऊषसुषिमुष्कमधो रः” (पा. सू. ५ । २ । १०७) इति मत्वर्थीयो रप्रत्ययः । मुष्कवृद्धिः सर्वाङ्गवृद्धिमन्तरेण न घटते इति सर्वे पुष्टाङ्गा भवेयुरित्यर्थः ॥ पशुतन्त्ररूपेण प्रत्यक्षसोमात्मना च स्तुवंस्तदात्मकप्रजापतिप्राप्तिं प्रतिपादयति- प्रजापतिर्वा इत्यादिना । सोमवत्पशोरपि सवनत्रयव्यापित्वात्ताच्छब्द्यम्, अत्र देवतार्थपारोक्ष्याभावात्प्रत्यक्षत्वम् ॥ ७ ॥

Eggeling
  1. He then seizes seventeen victims for Prajāpati. They are all hornless, all dark-grey 14, all (uncastrated) males; for he who offers the Vājapeya, wins Prajāpati; but Prajāpati is food, and the victim (cattle) is food: he thus wins Prajāpati. And Prajāpati is Soma, and the victim is the visible

Soma: he thus wins the visible Prajāpati. There are seventeen (victims), because Prajāpati is seventeenfold: he thus wins Prajāpati.

०८

विश्वास-प्रस्तुतिः

ते वै स᳘र्व्वे[[!!]] तूपरा᳘ भवन्ति॥
पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दि᳘ष्ठᳫँ᳘ सो ऽयं᳘ तूप᳘रो ऽविषाण᳘स्तूपरो वा᳘ ऽअविषाणः᳘ प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मात्स᳘र्वे तूपरा᳘ भवन्ति॥

मूलम् - श्रीधरादि

ते वै स᳘र्व्वे[[!!]] तूपरा᳘ भवन्ति॥
पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दि᳘ष्ठᳫँ᳘ सो ऽयं᳘ तूप᳘रो ऽविषाण᳘स्तूपरो वा᳘ ऽअविषाणः᳘ प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मात्स᳘र्वे तूपरा᳘ भवन्ति॥

मूलम् - Weber

ते वै सर्वे᳘ तूपरा᳘ भवन्ति॥
पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिॗष्ठᳫं सो ऽयं᳘ तूपॗरो ऽविषाण᳘स्तूपरो वा᳘ अविषाणः᳘ प्रजा᳘पतिः प्राजापत्या᳘ एते त᳘स्मात्स᳘र्वे तूपरा᳘ भवन्ति॥

मूलम् - विस्वरम्

ते वै सर्वे तूपरा भवन्ति । पुरुषो वै प्रजापतेर्नेदिष्ठम् । सो ऽयं तूपरो विषाणः । तूपरो वा ऽअविषाणः प्रजापतिः । प्राजापत्या एते । तस्मात् सर्वे तूपरा भवन्ति ॥ ८ ॥

सायणः

पशुगतां सङ्ख्यामुपजीव्य प्रशंसति- ते वै सर्वे तूपरा इति । अस्यायमर्थः;- यस्मात् ‘पुरुषः’ ‘प्रजापतेः’ ‘नेदिष्ठम्’ अन्तिकतमं वस्तु, वस्तुमत्सृष्टेः प्रथमभावित्वात्; ‘सः’ ‘अयं’ पुरुषः ‘तूपरः’ । तूपरशब्दार्थं स्वयमेव दर्शयति- अविषाण इति । पुरुषत्वादविषाणः, ततः प्रजापतिदेवत्यानां पशूनां तूपरत्वगुणेन भाव्यमिति ॥ ८ ॥

Eggeling
  1. Now, they are all hornless;–for man is nearest to Prajāpati, and he is hornless, unhorned; and Prajāpati also is hornless, unhorned; and these (victims) belong to Prajāpati: therefore they are all hornless.

०९

विश्वास-प्रस्तुतिः

स᳘र्व्वे श्यामाः[[!!]]॥
(०) द्वे वै᳘ श्याम᳘स्य रूपे᳘ शुक्लं᳘ चैव लो᳘म कृष्णं᳘ च द्वन्द्वं वै᳘ मिथुनं᳘ प्रज᳘ननं प्रज᳘ननं प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मात्स᳘र्वे श्यामा᳘ भवन्ति॥

मूलम् - श्रीधरादि

स᳘र्व्वे श्यामाः[[!!]]॥
(०) द्वे वै᳘ श्याम᳘स्य रूपे᳘ शुक्लं᳘ चैव लो᳘म कृष्णं᳘ च द्वन्द्वं वै᳘ मिथुनं᳘ प्रज᳘ननं प्रज᳘ननं प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मात्स᳘र्वे श्यामा᳘ भवन्ति॥

मूलम् - Weber

स᳘र्वे श्यामाः᳟॥
द्वे वै᳘ श्याम᳘स्य रूपे᳘ शुक्लं᳘ चैव लो᳘म कृष्णं᳘ च द्वन्द्वं वै᳘ मिथुन᳘म् प्रज᳘ननम् प्रज᳘ननम् प्रजा᳘पतिः प्राजापत्या᳘ एते त᳘स्मात्स᳘र्वे श्यामा᳘ भवन्ति॥

मूलम् - विस्वरम्

सर्वे श्यामाः । द्वे वै श्यामस्य रूपे- शुक्लं चैव लोम, कृष्णं च । द्वन्द्वं वै मिथुनं प्रजननम् । प्रजननं प्रजापतिः । प्राजापत्या एते । तस्मात् सर्वे श्यामा भवन्ति ॥ ९ ॥

सायणः

श्यामत्वमनूद्य व्याचष्टे- सर्वे श्यामा इति । शुक्लकृष्णवर्णद्वयात्मकं श्यामत्वमित्यर्थः । द्वित्वमालम्ब्य प्रशंसति- द्वन्द्वं वा इति । ‘प्रजापतिः प्रजननम्’ सर्वोत्पादकत्वात् ॥ ९ ॥

Eggeling
  1. They are all dark-grey. Now, the dark-grey has two forms, the light hair and the black; and a couple means a productive pair, and Prajāpati (the lord of generation) represents productiveness, and those (victims) belong to Prajāpati: therefore they are all dark-grey.

१०

विश्वास-प्रस्तुतिः

स᳘र्व्वे मुष्कराः᳘॥
प्रज᳘ननं वै मुष्करः᳘ प्रज᳘ननं प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मात्स᳘र्वे मुष्करा᳘ भवन्ति। दुर्वे᳘दा एव᳘ᳫँ᳘समृद्धाः पश᳘वो यद्येव᳘ᳫँ᳘समृद्धान्न᳘[[!!]] व्विन्देद᳘पि कतिपया᳘ ऽए᳘वैव᳘ᳫँ᳘समृद्धाः स्युः स᳘र्व्वमु᳘ ह्ये᳘वेदं᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

स᳘र्व्वे मुष्कराः᳘॥
प्रज᳘ननं वै मुष्करः᳘ प्रज᳘ननं प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मात्स᳘र्वे मुष्करा᳘ भवन्ति। दुर्वे᳘दा एव᳘ᳫँ᳘समृद्धाः पश᳘वो यद्येव᳘ᳫँ᳘समृद्धान्न᳘[[!!]] व्विन्देद᳘पि कतिपया᳘ ऽए᳘वैव᳘ᳫँ᳘समृद्धाः स्युः स᳘र्व्वमु᳘ ह्ये᳘वेदं᳘ प्रजा᳘पतिः॥

मूलम् - Weber

स᳘र्वे मुष्कराः᳟॥
प्रज᳘ननं वै मुष्करः᳘ प्रज᳘ननम् प्रजा᳘पतिः प्राजापत्या᳘ एते त᳘स्मात्स᳘र्वे मुष्करा᳘ भवन्ति दुर्वे᳘दा एव᳘ᳫं᳘समृद्धाः पश᳘वो य᳘द्येव᳘ᳫं᳘समृद्धान्न᳘ विन्देद᳘पि कतिपया᳘ एॗवैव᳘ᳫं᳘समृद्धाः स्युः स᳘र्वमुॗ ह्येॗवेदम् प्रजा᳘पतिः॥

मूलम् - विस्वरम्

सर्वे मुष्कराः । प्रजननं वै मुष्करः । प्रजननं प्रजापतिः । प्राजापत्या एते । तस्मात् सर्वे मुष्करा भवन्ति । दुर्वेदा एवं समृद्धाः पशवः । यद्येवं समृद्धान् न विन्देदपि कतिपया एव । एवं समृद्धाः स्युः । सर्वमु ह्येवेदं प्रजापतिः ॥ १० ॥

सायणः

सर्वे मुष्करा इति, वाक्यं निगदव्याख्यातम् । उक्तत्रिविधगुणानां पशूनामसुलभत्वप्रतिपादनपूर्वकं पक्षान्तरमाह- दुर्वेदा इति । उक्तगुणानां पशूनामसम्भवे कतिपया एव पशवो गुणत्रयवन्तो भवेयुः । अत्र सूत्रम्- “प्राजापत्यांश्च सप्तदश श्याम- तूपरान् वस्तांस्तद्गुणाभावे सर्वेषामेकदेशो ऽपि”- (का. श्रौ. सू. १४ । ३७ । ३८) इति । यद्येवं तर्हि कतिपयपशूनां वर्णान्तरयुक्तत्वे ऽपि कर्मणो ऽङ्गवैकल्यं परिहरति- सर्वमु हीति । प्रजापतेः सर्वात्मकत्वाद् वर्णान्तरयुक्तत्वं पशूनां प्राजापत्यत्वं न विरुध्यत इत्यर्थः ॥ १० ॥

Eggeling
  1. They are all males;–for the male means productiveness, and Prajāpati represents productiveness: hence they are all males. Difficult to obtain are victims with these perfections: if he cannot obtain them (all) with these perfections, even some with these perfections will do; for verily Prajāpati is everything here.

११

विश्वास-प्रस्तुतिः

(स्त) तद्धै᳘के॥
व्वाच᳘ ऽउत्तममा᳘लभन्ते य᳘दि वै᳘ प्रजा᳘पतेः प᳘रम᳘स्ति व्वा᳘गेव त᳘देतद्वा᳘चमु᳘ज्जयाम इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्स᳘र्व्वं वा᳘ ऽइदं᳘ प्रजा᳘पतिर्य᳘दिमे᳘ लोका य᳘दिदं किं᳘ च सा य᳘दे᳘वैषु᳘ लोके᳘षु व्वाग्व᳘दति तद्वा᳘चमु᳘ज्जयति त᳘स्मादु तन्ना᳘द्रियेत॥

मूलम् - श्रीधरादि

(स्त) तद्धै᳘के॥
व्वाच᳘ ऽउत्तममा᳘लभन्ते य᳘दि वै᳘ प्रजा᳘पतेः प᳘रम᳘स्ति व्वा᳘गेव त᳘देतद्वा᳘चमु᳘ज्जयाम इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्स᳘र्व्वं वा᳘ ऽइदं᳘ प्रजा᳘पतिर्य᳘दिमे᳘ लोका य᳘दिदं किं᳘ च सा य᳘दे᳘वैषु᳘ लोके᳘षु व्वाग्व᳘दति तद्वा᳘चमु᳘ज्जयति त᳘स्मादु तन्ना᳘द्रियेत॥

मूलम् - Weber

तद्धै᳘के॥
वाच᳘ उत्तममा᳘लभन्ते य᳘दि वै᳘ प्रजा᳘पतेः प᳘रम᳘स्ति वा᳘गेव त᳘देतद्वा᳘चमु᳘ज्जयाम इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्स᳘र्वं वा᳘ इद᳘म् प्रजा᳘पतिर्य᳘दिमे᳘ लोका य᳘दिदं किं᳘ च सा य᳘देॗवैषु᳘ लोके᳘षु वाग्व᳘दति तद्वा᳘चमु᳘ज्जयति त᳘स्मादु तन्ना᳘द्रियेत॥

मूलम् - विस्वरम्

तद्धैके वाच ऽउत्तममालभन्ते । यदि वै प्रजापतेः परमस्ति- वागेव । तदेतद्वाचमुज्जयाम इति वदन्तः । तदु तथा न कुर्यात् । सर्वं वा ऽइदं प्रजापतिः- यदिमे लोकाः, यदिदं किञ्च । सा यदेवैषु लोकेषु वाग्वदति- तद्वाचमुज्जयति । तस्मादु तन्नाद्रियेत ॥ ११ ॥

सायणः

अत्र केचित् सप्तदशप्राजापत्यपशूनामन्ते वाग्देवत्यं पशुम्, तत्र चोपपत्तिं वदन्ति; तेषां पक्षं निरसितुमनुवदति 15- तद्धैके वाच इति । “वाच उत्तममेके" (का. श्रौ. सू. १४ । ४ । ३९) । ‘एके’ शाखान्तरीयाः ‘वाचे’ वाग्देवतायै ‘उत्तमम्’ अन्ते कर्त्तव्यत्वाच्चरममित्यर्थः, तम् ‘आलभन्ते’ । न हि ‘प्रजापतेः’ ‘परम्’ उत्कृष्टं पूर्वभावि किञ्चिदपि ‘अस्ति’, यदर्थं पशुरालभ्यते; यद्यस्ति, ‘वागेव’ अस्ति तस्या अव्यक्तशब्दब्रह्मत्वेन पूर्वमवस्थानादिति भावः । ताम् ‘उज्जयामः’ साधयामः ‘इति’ बुद्ध्या वाग्देवत्यः पशुरालम्भनीय इति । तद् दूषयति- तदु तथेति । सर्वं वा इदमिति । अस्यायमर्थः;- प्रजापते सर्वात्मकत्वेन लोकात्मकत्वम्, तत्रत्यचराचरसर्वभूतात्मकत्वञ्चास्त्येव; अतो लोकेषूद्यमाना वाक् अपिप्रजापति रूपैवैति तदर्थं वाग्देवत्यपश्वालम्भनं नादरणीयमिति ॥ ११ ॥

Eggeling
  1. Now, some seize the last (victim) for Vāc (Speech), thinking, ‘If there be anything beyond Prajāpati, that is Speech: we thus win Speech.’ But let him not do it in this wise; for Prajāpati is everything here,–these worlds and everything there is;–whatever speech speaks in these worlds, that speech he wins: therefore he need not heed this.

१२

विश्वास-प्रस्तुतिः

ते᳘षामावृत्[[!!]]॥
(द्य᳘) य᳘त्र मैत्राव्वरुणो᳘ व्वामदेव्य᳘मनुश᳘ᳫँ᳘सति त᳘देषां व्वपा᳘भिः प्र᳘चरेयुः प्रज᳘ननं वै᳘ व्वामदेव्यं᳘ प्रज᳘ननं प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मादेषाम᳘त्र व्वपा᳘भिः प्र᳘चरेयुः॥

मूलम् - श्रीधरादि

ते᳘षामावृत्[[!!]]॥
(द्य᳘) य᳘त्र मैत्राव्वरुणो᳘ व्वामदेव्य᳘मनुश᳘ᳫँ᳘सति त᳘देषां व्वपा᳘भिः प्र᳘चरेयुः प्रज᳘ननं वै᳘ व्वामदेव्यं᳘ प्रज᳘ननं प्रजा᳘पतिः प्राजापत्या᳘ ऽएते त᳘स्मादेषाम᳘त्र व्वपा᳘भिः प्र᳘चरेयुः॥

मूलम् - Weber

ते᳘षामावृ᳘त्॥
य᳘त्र मैत्रावरुणो᳘ वामदेव्य᳘मनुश᳘ᳫं᳘सति त᳘देषां वपा᳘भिः प्र᳘चरेयुः प्रज᳘ननं वै᳘ वामदेव्य᳘म् प्रज᳘ननम् प्रजा᳘पतिः प्राजापत्या᳘ एते त᳘स्मादेषां वपा᳘भिर᳘त्र प्र᳘चरेयुः॥

मूलम् - विस्वरम्

तेषामावृत् । यत्र मैत्रावरुणो वामदेव्यमनुशंसति- तदेषां वपाभिः प्रचरेयुः । प्रजननं वै वामदेव्यम् । प्रजननं प्रजापतिः । प्राजापत्या एते । तस्मादेषामत्र वपाभिः प्रचरेयुः ॥ १२ ॥

सायणः

उक्तानां प्राजापत्यपशूनां वपाप्रचरणस्य हविर्यागस्य च प्राकृतपशुवपाहविर्भिः सह होमकालं विधास्यति । तत्र तावत् पूर्वपक्षमाह- तेषामावृद्यत्रेति । ‘मैत्रावरुणः’ नामर्त्विक् माध्यन्दिने सवने ‘वामदेव्यं’ साम ‘अनुशंसति’ अनुशंसितवान् भवतीति भूतार्थपरतया व्याख्येयम् । अत एव कात्यायनः- “वामदेव्यग्रहान्तं प्राजापत्यानाम्”- (का. श्रौ. सू. १४ । ४३) इति । अनुष्ठानमिति शेषः । तदा एषां सप्तदशानां वपायागः कर्त्तव्य इत्यर्थः ॥ १२ ॥

Eggeling
  1. The course of procedure regarding these (victims is as follows). When the Maitrāvaruṇa recites after the Vāmadevya 16, let them then proceed

with their omenta; for the Vāmadevya means productiveness, and Prajāpati means productiveness, and these (victims) belong to Prajāpati: therefore let them proceed with their omenta at that time.

१३

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थेष्टा᳘ ऽअनुयाजा भ᳘वन्ति॥
(न्त्य᳘) अ᳘व्यूढे स्रु᳘चाव᳘थैषाᳫँ᳭ हवि᳘र्भिः प्र᳘चरन्ति सो ऽन्तो᳘ ऽन्तो वै᳘ प्रजा᳘पतिस्त᳘दन्तत᳘ ऽए᳘वैत᳘त्प्रजा᳘पतिमु᳘ज्जयत्य᳘थ य᳘त्पुरा᳘ प्रच᳘रेद्य᳘था यम᳘ध्वानमेष्यन्स्यात्तं᳘ गत्वा स᳘ क्व[[!!]] त᳘तः स्या᳘देवं त᳘त्तस्मादेषाम᳘त्र[[!!]] हवि᳘र्भिः प्र᳘चरन्ति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थेष्टा᳘ ऽअनुयाजा भ᳘वन्ति॥
(न्त्य᳘) अ᳘व्यूढे स्रु᳘चाव᳘थैषाᳫँ᳭ हवि᳘र्भिः प्र᳘चरन्ति सो ऽन्तो᳘ ऽन्तो वै᳘ प्रजा᳘पतिस्त᳘दन्तत᳘ ऽए᳘वैत᳘त्प्रजा᳘पतिमु᳘ज्जयत्य᳘थ य᳘त्पुरा᳘ प्रच᳘रेद्य᳘था यम᳘ध्वानमेष्यन्स्यात्तं᳘ गत्वा स᳘ क्व[[!!]] त᳘तः स्या᳘देवं त᳘त्तस्मादेषाम᳘त्र[[!!]] हवि᳘र्भिः प्र᳘चरन्ति॥

मूलम् - Weber

अ᳘थेष्टा᳘ अनुयाजा भ᳘वन्ति॥
अ᳘व्यूढे स्रु᳘चाव᳘थैषाᳫं हवि᳘र्भिः प्र᳘चरन्ति सो ऽन्तो᳘ ऽन्तो वै᳘ प्रजा᳘पतिस्त᳘दन्तत᳘ एॗवैत᳘त्प्रजा᳘पतिमु᳘ज्जयत्य᳘थ य᳘त्पुरा᳘ प्रच᳘रेद्य᳘था यम᳘ध्वानमेष्यन्त्स्यात्तं᳘ गत्वा स क्व᳘ त᳘तः स्या᳘देवं तत्त᳘स्मादेषाम᳘त्र हवि᳘र्भिः प्रचरन्ति॥

मूलम् - विस्वरम्

अथेष्टा अनुयाजा भवन्ति । अव्यूढे स्रुचौ । अथैषां हविर्भिः प्रचरन्ति । सो ऽन्तः । अन्तो वै प्रजापतिः । तदन्तत एवैतत् प्रजापतिमुज्जयति । अथ यत् पुरा प्रचरेद् यथा यमध्वानमेष्यन्त्स्यात् । तं गत्वा- स क्व ततः स्याद् । एवं तत् । तस्मादेषामत्र हविर्भिः प्रचरन्ति ॥ १३ ॥

सायणः

अथैष्टा इति । तृतीयसवने अनुयाजयागानन्तरं जुहूपभृतोर्व्यूहनादर्वागेषां प्राजापत्यानां हविर्यागः कर्त्तव्यः अत्र कात्यायनः “स्रुग्व्यूहनात्प्राग्घविषा” (का० श्रौ० सू० १४ । ४४) इति । तं कालं प्रशंसति- सो ऽन्त इति । ‘सः’ एव कालः ‘अन्तः’ सवनीये कर्त्तव्यानां यागानामवधिः । प्रजापतेः सर्वोत्तमत्वादन्तत्वम् । तस्मादन्तरूपे तस्मिन् काले क्रियमाणेन हविर्होमेन ‘प्रजापतिमेव’ उज्जितवान् भवतीत्यर्थः । अथ यत् पुरेति । अस्यार्थः; ‘यत्’ यदि उक्तकालात् ‘पुरा’ प्राकृत एव काले वपाहविर्भिः प्रचरेत्, तर्हि व्यर्थमेव । प्रजापतिप्राप्तेरुत्तरकर्मकलापकरणमयुक्तमितीममर्थं प्रदर्शयितुं दृष्टान्तः- यथा यामिति । ‘यथा’ लोके पुरुषो यं मार्गं गमिष्यन् भवेत्, ‘तं’ लक्ष्यं देशं प्राप्य ‘क’ कुत्र गच्छति; लक्ष्यप्राप्तेः सिद्धत्वात् । ‘एवम्’ एतत्काले होमकरणफलरूपप्रजापतिप्राप्तेः सिद्धत्वात्, उपरितनकर्मानुष्ठानं निष्फलं स्यात् । तस्मादनुयाजान्ते स्रुग्व्यूहनात् प्राक् पशुहविर्होम इति केषाञ्चिन्मतम् ॥ १३ ॥

Eggeling
  1. And (when) the after-offerings have been performed, and the spoons have not yet been shifted (separated) 17, then they proceed with the (chief) oblations of those (victims). That (point in the performance) is the end, and Prajāpati is the end: thus he wins Prajāpati at the very end. But were he to proceed therewith sooner, it would be just as if a man had already gone the way he still intends to go,–and where would he be after that 18?–therefore

they proceed with their (chief) oblations at that time.

१४

विश्वास-प्रस्तुतिः

त᳘दु त᳘था न᳘ कुर्यात्॥
(द्ध᳘) ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष᳘ यज्ञपथाद्य᳘ एवं᳘ करो᳘ति त᳘स्माद्य᳘त्रैवे᳘तरेषां पशूनां᳘ व्वपा᳘भिः प्रच᳘रन्ति त᳘दे᳘वैते᳘षां व्वपा᳘भिः प्र᳘चरेयुर्य᳘त्रैवे᳘तरेषां पशूना᳘ᳫँ᳘ हवि᳘र्भिः प्रच᳘रन्ति त᳘दे᳘वैते᳘षाᳫँ᳭ हवि᳘षा प्र᳘चरे᳘युरेका ऽनुवा᳘क्या[[!!]] भवत्ये᳘का या᳘ज्यैकदेव᳘त्या हि᳘ प्रजा᳘पतय ऽइ᳘त्युपा᳘ᳫँ᳘शूक्त्वा च्छा᳘गानाᳫँ᳭ हविषो᳘ ऽनुब्रूही᳘ति प्रजा᳘पतय ऽइ᳘त्ये᳘वोपा᳘ᳫँ᳘शूक्त्वा च्छा᳘गानाᳫँ᳭ हविः प्र᳘स्थितं प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

त᳘दु त᳘था न᳘ कुर्यात्॥
(द्ध᳘) ह्व᳘लति वा᳘ ऽएष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ ऽएष᳘ यज्ञपथाद्य᳘ एवं᳘ करो᳘ति त᳘स्माद्य᳘त्रैवे᳘तरेषां पशूनां᳘ व्वपा᳘भिः प्रच᳘रन्ति त᳘दे᳘वैते᳘षां व्वपा᳘भिः प्र᳘चरेयुर्य᳘त्रैवे᳘तरेषां पशूना᳘ᳫँ᳘ हवि᳘र्भिः प्रच᳘रन्ति त᳘दे᳘वैते᳘षाᳫँ᳭ हवि᳘षा प्र᳘चरे᳘युरेका ऽनुवा᳘क्या[[!!]] भवत्ये᳘का या᳘ज्यैकदेव᳘त्या हि᳘ प्रजा᳘पतय ऽइ᳘त्युपा᳘ᳫँ᳘शूक्त्वा च्छा᳘गानाᳫँ᳭ हविषो᳘ ऽनुब्रूही᳘ति प्रजा᳘पतय ऽइ᳘त्ये᳘वोपा᳘ᳫँ᳘शूक्त्वा च्छा᳘गानाᳫँ᳭ हविः प्र᳘स्थितं प्रेष्ये᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

त᳘दु त᳘था न᳘ कुर्यात्॥
ह्व᳘लति वा᳘ एष यो᳘ यज्ञपथादेत्ये᳘ति वा᳘ एष᳘ यज्ञपथाद्य᳘ एवं᳘ करो᳘ति त᳘स्माद्य᳘त्रैवे᳘तरेषाम् पशूनां᳘ वपा᳘भिः प्रच᳘रन्ति त᳘देॗवैते᳘षां वपा᳘भिः प्र᳘चरेयुर्य᳘वे᳘तरेषाम् पशूना᳘ᳫं᳘ हवि᳘र्भिः प्रच᳘रन्ति त᳘देॗवैते᳘षाᳫं हवि᳘षा प्र᳘चरेयुरे᳘कानुवाॗक्या ए᳘का 19 याॗज्यैकदेव᳘त्या हि᳘ प्रजा᳘पतय इ᳘त्युपांॗशूक्त्वा छा᳘गानाᳫं हविषो᳘ ऽनुब्रूही᳘ति प्रजा᳘पतय इ᳘त्युपांॗशूक्त्वा छा᳘गानाᳫं हविः प्र᳘स्थितम् प्रेष्ये᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

तदु तथा न कुर्यात् । ह्वलति वा ऽएष- यो यज्ञपथादेति । एति वा ऽएष यज्ञपथाद् य एवं करोति । तस्माद्यत्रैवेतरेषां पशूनां वपाभिः प्रचरन्ति तदेवैतेषां वपाभिः प्रचरेयुः । यत्रैवेतरेषां पशूनां हविर्भिः प्रचरन्ति । तदेवैतेषां हविषा प्रचरेयुः । एकानुवाक्या भवति । एका याज्या । एकदेवत्या हि प्रजापतयः- इत्युपांशुक्त्वा छागानां हविषो ऽनुब्रूहीति । प्रजापतय इत्येवोपांशुक्त्वा छागानां हविः प्रस्थितं प्रेष्येति वषट्कृते जुहोति ॥ १४ ॥

सायणः

तद्दूषयन् सिद्धान्तयति- तदु तथेति । अत्र सूत्रम्- “यथान्यायं वोभयोः” (का० श्रौ० सू० १४ । ४५) इति । ‘उभयोः’ वपाहविर्यागयोः यथान्यायं प्रकृतिवत् कर्त्तव्यमित्यर्थः । एतेषां पशूनामिति । तद्धितश्रुत्या पृथक् पृथग्देवतासम्बन्धप्रतिपादकेन सप्तदशयागात्मकत्वात् प्रतियागं याज्यापुरो ऽनुवाक्याभेदमाशङ्क्य देवतैक्यात् सह प्रदानमिति मन्वानो याज्यापुरो ऽनुवाक्ययोरैक्यमाह- एकानुवाक्येति । यत एते पशवः प्रजापत्येकदेवत्यास्तस्माद् याज्यानुवाक्ययोरैक्यमित्यर्थः । अनुवाक्यापाठात् प्रागध्वर्युणा कर्त्तव्ये ऽनुवचनप्रैषे विशेषं विधत्ते- प्रजापतय इति । देवतावाचकं पदमुपांशूक्त्वा छागानामित्यादिकमुच्चैर्ब्रूयादित्यर्थः । हे मैत्रावरुण ! ‘प्रजापतये’ देवतायै ‘छागानां’ पशूनां ‘हविषः’ अवदीयमानस्य अर्थाय ‘अनुब्रूहीति’ अनुवचनं कुर्विति तस्यार्थः ॥

आश्रावणान्तरकर्त्तव्ये प्रैषे ऽपि विशेषं विधत्ते- प्रजापतय इति । अत्रापि मैत्रावरुणः सम्बोध्यः । अथ होतुः कर्त्तव्यं दर्शयति- वषट्कृत इति । होत्रा याज्यान्ते वषट्कारे कृते सति ‘जुहोति’ अध्वर्युरिति शेषः ॥ १४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे प्रथमा ऽध्याये तृतीयं ब्राह्मणम् ॥ (५-१-३) ॥

Eggeling
  1. But let him not do it in this wise for he who departs from the path of the sacrifice stumbles; and he who does it in this wise certainly departs from the path of the sacrifice. Hence whenever they proceed with the omenta of the other victims, let them at the same time proceed with the omenta of these; and whenever they proceed with the (chief) oblations of the other victims, let them at the same time proceed with the oblations of these. There is but one invitatory prayer, and one offering prayer; for (these offerings) belong to one deity. He says (to the Maitrāvaruṇa), ‘To Prajāpati’–saying this (name) in a low voice–‘recite the invitatory prayer for the offering of the bucks!’–‘To Prajāpati’ saying this in a low voice–‘urge the ready-standing offering of the bucks!’ and as the Vashaṭ is uttered, he makes the offering.

  1. ‘वैदिकत्वप्रसिद्धिः’ इति क्व. पा. । ↩︎

  2. 11:3 Of the seven fundamental forms (saṁsthā) of Soma-sacrifice, each higher, or more complex, form is obtained by some additional ceremony, or ceremonies, being added on to one of the simpler forms of sacrifice. In the present paragraph, the author briefly reviews the lower forms of Soma-sacrifice, contained in the Vājapeya, with the view of enumerating the victims to be slaughtered at its performance; viz. the Agnishṭoma with twelve chants and one victim; the Ukthya with fifteen stotras and two victims; and the Shoḍaśin with sixteen chants and three victims. For further particulars, see part ii, p. 397, note 2. ↩︎

  3. 12:1 The Agnishṭoma-sāman, the last (twelfth) and distinctive stotra of the Agnishṭoma sacrifice, is in praise of Agni (see part ii, p. 368, note 2). At the Vājapeya the ordinary (yajñāyajñŷā) hymn is not chanted, but S.V. II, 973-4, sung to the Vāravantīya tune (Calc. ed., vol. v, p. 144), takes its place. Pañc. Br. 18, 6, 16. ↩︎

  4. 12:2 The three Uktha stotras (chants) and śastras (recitations) constitute the distinctive element of the Ukthya sacrifice; as the Shoḍaśi-stotra and śastra (part ii, p. 401, note 3; p. 402, note i) constitute that of the Shoḍaśin sacrifice. ↩︎

  5. 12:3 On the important place assigned to these two deities in the traditional arrangement of the Rigveda-saṁhitā, see the introduction to part i, p. xvi. ↩︎

  6. 12:4 That is the Vājapeya-sāman, see note 1, p. 11. ↩︎

  7. 12:5 The author here alludes to another form of Soma-sacrifice, not contained in the Vājapeya, viz. the Atirātra, which is obtained by following up the Shoḍaśin (with its sixteen chants) with the so-called rātri-paryāyaḥ, or night-rounds, consisting of three rounds of four chants each, or together twelve chants. These are succeeded, at day-break, by the Sandhi-stotra (or twilight chants), consisting of three chants. Although this night performance does not take place on the present occasion–the Vājapeya-sāman taking its place–the author claims for this form of sacrifice also the moral benefits which would accrue to the sacrificer from the Atirātra, for the reason that the same victim (a be-goat for Sarasvatī) is offered on both occasions. ↩︎

  8. 13:1 In Taitt. Br. I, 3, 2, 3, on the other hand, vājapeya (which doubtless means ‘drink of strength’) is explained first by vājāpya, ’that through which the gods wished to obtain (aipsan) strength (vājam),’ and then by ‘drink of strength,’ i.e. Soma ‘by drinking (pītvā) which one becomes strong (vājin).’ ↩︎

  9. 13:2 For this libation, and the accompanying Nishkevalya-śastra, at the midday Soma-feast, see part ii, pp. 338, 339, note 2. ↩︎

  10. ‘पात्रस्थितानि’ इति क्व० पा० । ↩︎ ↩︎ ↩︎

  11. 14:1 For particulars regarding the meat portions, see part ii, p. 204 seq. ↩︎

  12. श्रपयन्ति A. ↩︎

  13. यथान्यायं वोभयोः । वशायाश्च ॥ ऐकध्यं च श्रपणम् । का० श्रौ० सू० १४ । ४५-४७ । ↩︎

  14. 14:2 Or, black and white (śukla-kr̥shṇa-varṇa), as ‘śyāma’ is explained by Sāyaṇa. ↩︎

  15. ‘प्रजापतिपदावाप्तैवाच्यपि प्राप्तत्वात् ?’ इति क्व. पाठः । ‘प्रजापतिवदाराप्त्यै वाचापि ?’ इत्यपि क्वचित्पाठः । एतच्च पाठद्वयमपि न समीचीनं प्रतिभाति । ↩︎

  16. 15:1 The Vāmadevya-sāman (Sāmav. II, 32-34) is the second Pr̥shṭḥa-stotra, after the chanting of which, at the midday feast, the first assistant of the Hotr̥, the Maitrāvaruṇa, has to recite his (the second) Nishkevalya-śastra; see part ii, p. 325, note 2; p. 339, note 2.–As regards the Hotr̥’s Pr̥shṭḥa-stotra, the Rathantara-sāman (S. V. II, 30, 31) is used for it; while the Abhīvarta tune (S. V. ed. Bibl. Ind. III, p. 93) is employed in the chanting of the Brahma-sāman (S. V. II, 35, 36; see part ii, p. 434, note I) instead of the ordinary Naudhasa tune. Pañc. Br. 18, 6, 11-14. ↩︎

  17. 16:1 On this ceremony with which the concluding rites of the ishṭi commence, see I, 8, 3, 1 seq. ↩︎

  18. 16:2 Or possibly, what would then become of him? The author’s reasoning seems to be that, if the sacrificer were to offer any of the chief oblations at an earlier point in the performance, he would thereby anticipate the results he wants to obtain from the whole performance,–or, so to speak, he would then already reach the goal for the attainment of which the subsequent oblations are likewise intended. For the same reason the offering of the omentum of the sterile cow, previously to and independently of the omenta of the other victims, was discountenanced in paragraph 6. Our present passage is interpreted rather differently by Professor Delbrück in his Altindische Syntax, p. 550:–Wenn er vorher damit vorginge, so wäre das so, als ob er, nach Betretung des Pfades, den er zu betreten beabsichtigt, wo? ware (d. h. in’s Unglück geriethe): ‘Were he to proceed therewith sooner, it would be just as if, after entering on the path he intends to enter upon, he would be where? (i.e. would get into trouble).’ ↩︎

  19. नुवाॗक्या भवत्ये᳘का. ↩︎