०१

विश्वास-प्रस्तुतिः

अᳫँ᳭शुं᳘ गृह्णाति॥
सर्व्वत्वा᳘यैव त᳘स्माद्वा᳘ ऽअᳫँ᳭शुं᳘ गृह्णात्य᳘थैतान्प्र᳘ज्ञातानेवा᳘ग्निष्टोमिकान्ग्र᳘हान्गृह्णा᳘त्याग्रयणात्॥

मूलम् - श्रीधरादि

अᳫँ᳭शुं᳘ गृह्णाति॥
सर्व्वत्वा᳘यैव त᳘स्माद्वा᳘ ऽअᳫँ᳭शुं᳘ गृह्णात्य᳘थैतान्प्र᳘ज्ञातानेवा᳘ग्निष्टोमिकान्ग्र᳘हान्गृह्णा᳘त्याग्रयणात्॥

मूलम् - Weber

अंशुं᳘ गृह्णाति॥
सर्वत्वा᳘यैव त᳘स्माद्वा᳘ अंशुं᳘ गृह्णात्य᳘थैतान्प्र᳘ज्ञातानेवा᳘ग्निष्टोमिकान्ग्र᳘हान्गृह्णाॗत्याग्रयणात्॥

मूलम् - विस्वरम्

अंशुं गृह्णाति सर्वत्वायैव । तस्माद्वा ऽअंशुं गृह्णाति । अथैतान् प्रज्ञातानेवाग्निष्टोमिकान् ग्रहान् गृह्णात्याग्रयणात् ॥ १ ॥

सायणः

एवं विहिते वाजपेये ग्रहविशेषा द्वितीयब्राह्मणे ऽभिधीयन्ते, प्राकृतास्त्वतिदिश्यन्ते, तत्र तावदशुग्रहं विधत्ते- अंशुं गृह्णातीति । ‘अंशुं’ सोमग्रहं सोमद्रव्येण गृह्णीयात् । ‘सर्वत्वाय’ स्वविरहप्रयुक्तन्यूनतादोषपरिहारेण यज्ञस्य समृद्ध्यै इत्यर्थः । अंश्वदाभ्ययोरप्राकृतत्वेन चोदकादप्राप्तयोरिह विधानं युक्तम् । अत एवापस्तम्बः- भ्रातृव्यवतादा ऽभ्यो ग्रहीतव्यो बुभूषतांशुस्तौ न सर्वत्र ग्रहीतव्यौ वाजपेये राजसूये सत्रे सर्ववेदसे’ (आ० श्रौ० सू० १२ । ८ । १२ । १३ ।) इति । अथ प्रकृतिगतानुपांश्वन्तर्यामादीनतिदिशति- अथैतानिति । ‘प्रज्ञातान्’ प्रसिद्धान् ‘आग्निष्टोमिकान्’ अग्निष्टोमे विहितान् ‘ग्रहान्’ ‘आ आग्रयणात्’ आग्रयणपर्यन्तान्, गृह्णीयात् । उपांश्वन्तर्यामौ, ऐन्द्रवायवमैत्रावरुणाश्विनान्, शुक्रामन्थिनौ, आग्रयणञ्च गृह्णीयादित्यर्थः ॥ १ ॥

Eggeling
  1. He draws the Aṁśu 1 (graha), just for completeness’ sake, for it is therefor that he draws

the Aṁśu. After that he draws those recognised Agnishṭoma cups 2 up to the Āgrayaṇa.

०२

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ पृ᳘ष्ठ्यान्गृह्णाति॥
तद्य᳘दे᳘वैतै᳘र्देवा᳘ ऽउद᳘जयंस्त᳘दे᳘वैष᳘ ऽएतैरु᳘ज्जयति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ पृ᳘ष्ठ्यान्गृह्णाति॥
तद्य᳘दे᳘वैतै᳘र्देवा᳘ ऽउद᳘जयंस्त᳘दे᳘वैष᳘ ऽएतैरु᳘ज्जयति॥

मूलम् - Weber

अ᳘थ पृॗष्ठ्यान्गृह्णाति॥
तद्य᳘देॗवैतै᳘र्देवा᳘ उद᳘जयंस्त᳘देॗवैष᳘ एतैरु᳘ज्जयति॥

मूलम् - विस्वरम्

अथ पृष्ठ्यान् गृह्णाति । तद् यदेवैतैर्देवा उदजयन्, तदेवैष एतैरुज्जयति ॥ २ ॥

सायणः

अथातिग्राह्यान् विधत्ते- अथ पृष्ठ्यानिति । ‘पृष्ठ्यान्’ अतिग्राह्यान् । ते हि पृष्ठस्तोत्रसम्बन्धात् पृष्ठ्या इत्यर्थः । पृष्ठ्यषडहे प्रतिदिवसमेकैकस्य, विश्वजिति सर्वपृष्ठे चैकाहे ग्रहणात् एतेषां पृष्ठ्यसंज्ञा । तथा च चतुर्थकाण्डे समाम्नातम्- “अग्नीन्द्रसूर्या अतिग्राह्यान् ददृशुः”- इत्यारभ्य, “तान् वै पृष्ठ्ये षडहे गृह्णीयात्, पूर्वे त्र्यह आग्नेयमेव प्रथमे ऽहन्नैन्द्रं द्वितीये सौर्यं तृतीय एवमेवान्वहम्”- इति, तथा “विश्वजिति सर्वपृष्ठ एकाह एव गृह्यन्ते”- इति च (श प. ४ । ५ । ४ । २-१३) तेषां प्रकृतिगता त्रित्वसङ्ख्यैव शाखान्तरवत्; सङ्ख्यान्तरानुपदेशात् । अत्र कात्यायनः- “प्रातस्सवने ऽतिग्राह्यान् गृहीत्वा षोडशिनम्” (का. श्रौ. सू. १४ । २६) ॥ २ ॥ ३ ॥

Eggeling

2, He then draws the Pr̥shṭḥyas 3: and whatever the gods (Agni, Indra, and Sūrya) won by them, even that he wins by them.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ षोडशि᳘नं गृह्णाति॥
तद्य᳘दे᳘वैतेने᳘न्द्र ऽउद᳘जयत्त᳘दे᳘वैष᳘ एतेनो᳘ज्जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ षोडशि᳘नं गृह्णाति॥
तद्य᳘दे᳘वैतेने᳘न्द्र ऽउद᳘जयत्त᳘दे᳘वैष᳘ एतेनो᳘ज्जयति॥

मूलम् - Weber

अ᳘थ षोडशि᳘नं गृह्णाति॥
तद्य᳘देॗवैतेने᳘न्द्र उद᳘जयत्त᳘देॗवैष᳘ एतेनो᳘ज्जयति॥

मूलम् - विस्वरम्

अथ षोडशिनं गृह्णाति । तद्यदेवैतेनेन्द्र उदजयत्, तदेवैष एतेनोज्जयति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. He then draws the Shoḍaśin: and whatever Indra won thereby, even that he (the sacrificer) wins thereby.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैतान्प᳘ञ्च व्वाजपेयग्रहा᳘न्गृह्णाति॥
ध्रुवस᳘दं त्वा नृष᳘दं मनःस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येषां वै᳘ लोका᳘नामय᳘मेव᳘ ध्रुव᳘ ऽइयं᳘ पृथि᳘वीम᳘मे᳘वैते᳘न लोकमुज्जयति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैतान्प᳘ञ्च व्वाजपेयग्रहा᳘न्गृह्णाति॥
ध्रुवस᳘दं त्वा नृष᳘दं मनःस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येषां वै᳘ लोका᳘नामय᳘मेव᳘ ध्रुव᳘ ऽइयं᳘ पृथि᳘वीम᳘मे᳘वैते᳘न लोकमुज्जयति[[!!]]॥

मूलम् - Weber

अ᳘थैतान्प᳘ञ्च वाजपेयग्रहा᳘न्गृह्णाति॥
ध्रुवस᳘दं त्वा नृष᳘दम् मनःस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येषां वै᳘ लोका᳘नामय᳘मेव᳘ ध्रुव᳘ इय᳘म् पृथिॗवीम᳘मेॗवैते᳘न लोकमु᳘ज्जयति॥

मूलम् - विस्वरम्

अथैतान् पञ्च वाजपेयग्रहान्गृह्णाति- “ध्रुवसदं त्वा नृषदं मनःसदम्, उपयामगृहीतो ऽसि, इन्द्राय त्वा जुष्टं गृह्णामि, एष ते योनिः, इन्द्राय त्वा जुष्टतमम्”- (वा. सं. ९ । २) इति सादयति । एषां वै लोकानामयमेव ध्रुवः- इयं पृथिवी इममेवैतेन लोकमुज्जयति ॥ ४ ॥

सायणः

ग्रहान्तराणि विधत्ते- अथैतान् पञ्चेति । सूत्रितं हि- “पञ्च चैन्द्रान्, ध्रुवसदमिति प्रतिमन्त्रं” (का. श्रौ. सू. १४ । २६ । २७) अथैतान् तेषां पञ्चानां ग्रहाणामपि पञ्च मन्त्रान् विधत्ते- ध्रुवसदं त्वेत्यादिना । तत्र, प्रथमग्रहमन्त्रस्यायमर्थः- ‘ध्रुवसदं’ ध्रुवे स्थिरे भूलोके सीदन्तम्, ‘नृषदं’ नृषु नेतृषु सीदन्तम्, ‘मनस्सदं’ मनसि वर्त्तमानं ‘त्वा’ त्वां ग्रहम् ‘इन्द्राय’ ‘जुष्टम्’ अभिरुचितं ‘गृह्णामि’ त्वं तु ‘उपयामगृहीतो ऽसि’ पृथिव्यात्मकेन पात्रेण गृहीतो ऽसि; “इयं वा उपयामः”- (श. प. ४ । १ । २ । ७ ।) इति श्रुतेः । अत्र भिन्नक्रमः, यत उपयामगृहीतो ऽसि अतस्त्वां गृह्णामीति । ‘ते’ तव एष खरप्रदेशो ‘योनिः’ स्थानम्, तस्मात् ‘इन्द्राय’ ‘जुष्टतमम्’ अतिप्रियतमं त्वामिह सादयामीति । “एष ते योनिः”- इति मन्त्रान्त्यभागस्य विनियोगमाह- सादयतीति । मन्त्रगतं ध्रुवपदं व्याचष्टे- एषां वा इति । ‘एषां लोकानां’ भूम्यादीनाम् ‘अयं’ परिदृश्यमानो लोको ‘ध्रुवः’ । इदं शब्दस्यार्थमाह- इयं वै पृथिवीति ॥ ४ ॥

Eggeling
  1. He then draws those five Vājapeya cups (for Indra; the first) with the text (V. S. IX, 2), ‘Thee, the firm-seated, the man-seated, the mind-seated! Thou art taken with a support 4: I take thee, agreeable to Indra! This is thy womb’ (i.e. thy home): thee, most agreeable to Indra!’ therewith he deposits it; for of these

worlds this one, to wit the earth, is the firm one: this same world he thereby wins.

०५

विश्वास-प्रस्तुतिः

(त्य) अप्सुष᳘दं त्वा॥ घृतस᳘दं व्योमस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येषां वै᳘ लोका᳘नामय᳘मेव᳘ व्योमेद᳘मन्त᳘रिक्षमन्तरिक्षलोक᳘मे᳘वैतेनो᳘ज्जयति॥

मूलम् - श्रीधरादि

(त्य) अप्सुष᳘दं त्वा॥ घृतस᳘दं व्योमस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येषां वै᳘ लोका᳘नामय᳘मेव᳘ व्योमेद᳘मन्त᳘रिक्षमन्तरिक्षलोक᳘मे᳘वैतेनो᳘ज्जयति॥

मूलम् - Weber

अप्सुष᳘दम् त्वा घृतस᳘दं व्योमस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येषां वै᳘ लोका᳘नामय᳘मेवॗ व्योमेद᳘मन्त᳘रिक्षमन्तरिक्षलोक᳘मेॗवैतेनो᳘ज्जयति॥

मूलम् - विस्वरम्

“अप्सुषदं त्वा घृतसदं व्योमसदम्, उपयामगृहीतो ऽसि, इन्द्राय त्वा जुष्टं गृह्णामि, एष ते योनिरिन्द्राय त्वा जुष्टतमम्”- (वा. सं. ९ । २) इति सादयति एषां वै लोकानामयमेव व्योम- इदमन्तरिक्षलोकमेवैतेनोज्जयति ॥ ५ ॥

सायणः

अप्सुदषमिति । द्वितीयग्रहमन्त्रस्यायमर्थः; अप्सु सीदतीत्यप्सुषत् तम्, घृते सीदन्तम् ‘व्योम्नि’ अन्तरिक्षे सीदन्तम् । उपयामगृहीतो ऽसीत्यादि पूर्वेण समानार्थ इति नेह विव्रियते । व्योमसदिति पदस्य तात्पर्यमाह- इदमेव व्योमेति । विशेषेण ओम् अवनं व्याप्तिर्यस्य तद्व्योम । तदेव ‘अन्तरिक्षम्’ तदेतद्द्वितीयग्रहणेन 5 जितवान् भवतीत्यर्थः ॥ ५ ॥

Eggeling
  1. [The second with,] ‘Thee, the water-seated, the ghee-seated, the ether-seated! Thou art taken with a support: I take thee, agreeable to Indra! This is thy womb: thee most agreeable to Indra!’ therewith he deposits it; for among these worlds that ether (mentioned in the formula) is this air: he thereby wins this air-world.

०६

विश्वास-प्रस्तुतिः

पृथिविस᳘दं त्वा॥ (त्वा ऽन्त) अन्तरिक्षस᳘दं दिविस᳘दं देवस᳘दं नाकस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येष वै᳘ देवस᳘न्नाकस᳘देष᳘ ऽएव[[!!]] देवलोको᳘ देवलोक᳘मे᳘वैतेनो᳘ज्जयति॥

मूलम् - श्रीधरादि

पृथिविस᳘दं त्वा॥ (त्वा ऽन्त) अन्तरिक्षस᳘दं दिविस᳘दं देवस᳘दं नाकस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येष वै᳘ देवस᳘न्नाकस᳘देष᳘ ऽएव[[!!]] देवलोको᳘ देवलोक᳘मे᳘वैतेनो᳘ज्जयति॥

मूलम् - Weber

पृथिविस᳘दं त्वान्तरिक्षस᳘दं दिविस᳘दं देवस᳘दं नाकस᳘दमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येष वै᳘ देवस᳘न्नाकस᳘देष᳘ एव᳘ देवलोको᳘ देवलोक᳘मेॗवैतेनो᳘ज्जयति॥

मूलम् - विस्वरम्

“पृथिविसदं त्वा ऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम्, उपयामगृहीतो ऽसि, इन्द्राय त्वा जुष्टं गृह्णामि, एष ते योनिरिन्द्राय त्वा जुष्टतमम्” (वा. सं. ९ । २) इति सादयति । एष वै देवसन्नाकसत् । एष एव देवलोकः । देवलोकमेवैतेनोज्जयति ॥ ६ ॥

सायणः

पृथिविसदमिति । तृतीयमन्त्रस्यायमर्थः- पृथिव्यादिषु लोकेषु सीदन्तमत एव देवसदम् । लोकत्रयाभिमानिषु अग्निवायुसूर्येषु, अन्येष्विन्द्रादिषु च आसीदन्तम् । ‘नाकसदम्’ न विद्यते अकं दुःखं यस्मिन्निति नाकः स्वर्गोदेवलोकः । अत एव स्वर्गपदस्य सुखवाचकत्वमन्यत्रोक्तम्- “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्” इति । तत्र नाकसत्पदं व्याचष्टे- एष एव देवलोक इति ॥ ६ ॥

Eggeling
  1. [The third with,] ‘Thee, the earth-seated, the air-seated, the sky-seated, the god-seated, the heaven-seated! Thou art taken with a support: I take thee, agreeable to Indra! This is thy womb: thee, most agreeable to Indra!’ therewith he deposits it; for god-seated, heaven-seated indeed is yonder world of the gods: the world of the gods he thereby wins.

०७

विश्वास-प्रस्तुतिः

(त्य) अपाᳫँ᳭ र᳘समु᳘द्वयसᳫँ᳭ सू᳘र्ये स᳘न्तᳫँ᳭ समा᳘हितम्॥ अपाᳫँ᳭ र᳘सस्य यो र᳘सस्तं᳘ वो गृह्णाम्युत्तम᳘मुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येष वा᳘ ऽअपाᳫँ᳭ र᳘सो᳘ यो ऽयं प᳘वते स᳘ ऽएष सू᳘र्ये᳘ समा᳘हितः सू᳘र्यात्पवत᳘ ऽएतमे᳘वैते᳘न[[!!]] र᳘समु᳘ज्जयति॥

मूलम् - श्रीधरादि

(त्य) अपाᳫँ᳭ र᳘समु᳘द्वयसᳫँ᳭ सू᳘र्ये स᳘न्तᳫँ᳭ समा᳘हितम्॥ अपाᳫँ᳭ र᳘सस्य यो र᳘सस्तं᳘ वो गृह्णाम्युत्तम᳘मुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येष वा᳘ ऽअपाᳫँ᳭ र᳘सो᳘ यो ऽयं प᳘वते स᳘ ऽएष सू᳘र्ये᳘ समा᳘हितः सू᳘र्यात्पवत᳘ ऽएतमे᳘वैते᳘न[[!!]] र᳘समु᳘ज्जयति॥

मूलम् - Weber

अपां र᳘समु᳘द्वयसᳫं सू᳘र्ये स᳘न्तᳫं समा᳘हितमपां र᳘सस्य यो र᳘सस्तं᳘ वो गृह्णाम्युत्तम᳘मुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्येष वा᳘ अपां र᳘सोॗ यो ऽयम् प᳘वते स᳘ एष सू᳘र्ये᳘ समा᳘हितः सू᳘र्यात्पवत एत᳘मेॗवैते᳘न र᳘समु᳘ज्जयति॥

मूलम् - विस्वरम्

“अपां रसमुद्वयसं सूर्ये सन्तं समाहितम् । अपां रसस्य यो रसः, तं वो गृह्णाम्युत्तमम्- उपयामगृहीतो ऽसि, इन्द्राय त्वा जुष्टं गृह्णामि, एष ते योनिः, इन्द्राय त्वा जुष्टतमम्”- (वा. सं. ९ । ३) इति सादयति । एष वा ऽअपां रसो यो ऽयं पवते । स एष सूर्ये समाहितः । सूर्यात् पवते । एतमेवैतेन रसमुज्जयति ॥ ७ ॥

सायणः

अपां रसमिति । चतुर्थग्रहमन्त्रस्यायमर्थः- ‘अपां’ ‘रसं’ सारभूतम्; उदकस्यैव सोमरसत्वेन परिणतत्वात् । ‘उद्वयसम्’ उद्गच्छन्तम् । “वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु” (धा. पा. अ. प. ३८) इत्यस्मादसुनि रूपम् । यद्वा, वय इत्यन्ननाम, (निघं. २ । ७ । ७) उद्गतमन्नं जीवनं वा यस्मिन् । सोमरसो ऽन्नभूतो जीवनहेतुश्च; “अपाम सोमममृता अभूम”- (ऋ. सं. ८ । ४८ । ३) इत्युक्तत्वात् । ‘सूर्ये’ ‘सन्तं’ विद्यमानं ‘समाहितं’ तत्रैव सम्यगाहितम्; रसस्योदकादिरूपस्य आदित्ये एवावस्थानात् । ‘अपां’ ‘रसस्य’ सारभूतस्य वल्लीरूपेण परिणतस्य सोमस्य ‘यो रसः’ दशापवित्रात्पवमानः, तम् आपः ! ‘वः’ युष्माकं सम्बन्धिनम् ‘उत्तमम्’ उत्कृष्टं स्वरसं ‘गृह्णामि’ । उपयामेत्यादि । व्याख्यातम् । मन्त्रं व्याचष्टे- एष वा अपामिति । ‘यो ऽयं पवते’ दशापवित्रात् स्रवति, ‘सः’ अपां रसः । एष सूर्ये इति । ‘एषः’ खलु सोमरसः उदकात्मना पूर्वं ‘सूर्ये’ ‘समाहितः’ सम्यगवस्थितः, इदानीं ‘सूर्यात्’ सूर्यात्मकाद् दशापवित्रात् ‘पवते’ स्रवति ॥ ७ ॥

Eggeling
  1. [The fourth with V. S. IX, 3,] ‘The waters’ invigorating essence, being contained in the sun,–that which is the essence of the waters’ essence, that, the most excellent, I take for you! Thou art taken with a support: I take thee, agreeable to Indra! This is thy womb: thee, most agreeable to Indra!’ therewith he deposits it; for the waters’ essence is he that blows (or purifies) yonder (the wind), and he is contained in the sun, he blows from the sun: that same essence he thereby wins.

०८

विश्वास-प्रस्तुतिः

ग्र᳘हा ऊर्जाहुतयः॥
(यो) व्य᳘न्तो व्वि᳘प्राय मतिम्। ते᳘षां व्वि᳘शिप्रियाणां व्वो ऽहमि᳘षमू᳘र्जᳫँ᳭ स᳘मग्रभमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्यूर्ग्वै र᳘सो र᳘समे᳘वैतेनो᳘ज्जयति॥

मूलम् - श्रीधरादि

ग्र᳘हा ऊर्जाहुतयः॥
(यो) व्य᳘न्तो व्वि᳘प्राय मतिम्। ते᳘षां व्वि᳘शिप्रियाणां व्वो ऽहमि᳘षमू᳘र्जᳫँ᳭ स᳘मग्रभमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टं गृह्णाम्येष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्यूर्ग्वै र᳘सो र᳘समे᳘वैतेनो᳘ज्जयति॥

मूलम् - Weber

ग्र᳘हा ऊर्जाहुतयः॥
व्य᳘न्तो वि᳘प्राय मतिं ते᳘षां वि᳘शिप्रियाणां वो ऽहमि᳘षमू᳘र्जᳫं स᳘मग्रभमुपयाम᳘गृहीतो ऽसी᳘न्द्राय त्वा जु᳘ष्टमेष᳘ ते यो᳘निरि᳘न्द्राय त्वा जु᳘ष्टतममि᳘ति सादयत्यूर्ग्वै र᳘सो र᳘समेॗवैतेनो᳘ज्जयति॥

मूलम् - विस्वरम्

“ग्रहा ऊर्जाहुतयो व्यन्तो विप्राय मतिम् । तेषां विशिप्रियाणां वो ऽहमिषमूर्जं समग्रभम्- उपयामगृहीतो ऽसि । इन्द्राय त्वा जुष्टं गृह्णामि, एष ते योनिः, इन्द्राय त्वा जुष्टतमम्”- (वा. सं. ८ । ४) इति सादयति । ऊर्ग्वै रसः । रसमेवैतेनोज्जयति ॥ ८ ॥

सायणः

ग्रहा ऊर्जाहुतय इति । पञ्चमग्रहमन्त्रस्यायमर्थः- हे ग्रहाः ! गृह्यन्त इति ‘ग्रहाः’ सोमाः । ‘ऊर्जाहुतयः’ ऊर्जमन्नं सवनीयं पुरोडाशमभिलक्ष्य हूयमानाः; यद्वा, अन्नाहुतिभूता यूयम् । ‘विप्राय’ मेधाविने, स्वापेक्षितफलपरिपूरकाय वा यजमानाय । ‘मतिं’ विवक्षितां बुद्धिं ‘व्यन्तः’ पश्यन्तो ऽनुजानन्तो भवतेति शेषः । ‘विशिप्रियाणां’ “शिप्रे हनू नासिके वा”- (निरुक्त ६ । ४ । १) इति हि यास्कवचनम्; इह हि हनू गृह्येते, तत्र भवं कर्म शिप्रियम्, विगतं शिप्रियं येषां ते । अत्र हनुव्यापाराभावात् शोभनाभिषवसंस्कृता इत्यर्थः । यद्वा, विविधानि शिप्रियाणि हनुस्थानीयानि पात्राग्राणि, तत्पर्यन्तं, तेषां ‘वः’ युष्माकं सम्बन्धिनम् ‘इषम्’ अन्नम् ‘ऊर्जम्’ बलप्रदं सोमरसं ‘समप्रभम्’ “हुग्रहोर्भः” (पा. सू. ३ । १ । ३४) समग्रहम्, सङ्गृह्णामि । शिष्टं पूर्ववत् । ऊर्क्- शब्दसूचितमर्थमाह- ऊर्ग् वै रस इति ॥ ८ ॥

Eggeling
  1. [The fifth with IX, 4,] ‘Ye cups, of strengthening libations, inspiring the sage with thought,–I have gathered together the pith and sap of you, the handleless! Thou art taken with a support: thee, agreeable to Indra! This is thy womb: thee, most agreeable to

Indra!’ therewith he deposits it;–pith means essence: it is the essence he thereby wins.

०९

विश्वास-प्रस्तुतिः

तान्वा᳘ ऽएतान्[[!!]]॥
(न्प᳘) प᳘ञ्च व्वाजपेयग्रहा᳘न्गृह्णाति प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते सं᳘व्वत्सरो वै᳘ प्रजा᳘पतिः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य त᳘त्प्रजा᳘पतिमु᳘ज्जयति त᳘स्मात्प᳘ञ्च व्वाजपेयग्रहा᳘न्गृह्णाति॥

मूलम् - श्रीधरादि

तान्वा᳘ ऽएतान्[[!!]]॥
(न्प᳘) प᳘ञ्च व्वाजपेयग्रहा᳘न्गृह्णाति प्रजा᳘पतिं वा᳘ ऽएष उ᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते सं᳘व्वत्सरो वै᳘ प्रजा᳘पतिः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य त᳘त्प्रजा᳘पतिमु᳘ज्जयति त᳘स्मात्प᳘ञ्च व्वाजपेयग्रहा᳘न्गृह्णाति॥

मूलम् - Weber

तान्वा᳘ एता᳘न्॥
प᳘ञ्च वाजपेयग्रहा᳘न्गृह्णाति प्रजा᳘पतिं वा᳘ एष उ᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते सं᳘वत्सरो वै᳘ प्रजा᳘पतिः प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य त᳘त्प्रजा᳘पतिमु᳘ज्जयति त᳘स्मात्प᳘ञ्च वाजपेयग्रहा᳘न्गृह्णाति॥

मूलम् - विस्वरम्

तान्वा ऽएतान् पञ्च वाजपेयग्रहान्गृह्णाति । प्रजापतिं वा ऽएष उज्जयति- यो वाजपेयेन यजते । सम्वत्सरो वै प्रजापतिः । पञ्च वा ऽऋतवः सम्वत्सरस्य । तत् प्रजापतिमुज्जयति । तस्मात्पञ्च वाजपेयग्रहान्गृह्णाति ॥ ९ ॥

सायणः

ग्रहाणां पञ्चसङ्ख्यां प्रशंसति- तान्वा एतानिति । वाजपेययागस्य स्वरूपावाप्तिसाधनत्वात् प्रजापतेश्च संवत्सरात्मतया पञ्चर्तुरूपत्वात् ग्रहाणां पञ्चसङ्ख्या युक्तेत्यर्थः 6 ॥ ९ ॥

Eggeling
  1. These, then, are five Vājapeya cups he draws; for he who offers the Vājapeya wins Prajāpati; and Prajāpati is the year, and there are five seasons in the year,–he thus wins Prajāpati: therefore he draws five Vājapeya cups.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सप्त᳘दश सोमग्रहा᳘न्गृह्णा᳘ति॥
सप्त᳘दश सुराग्रहा᳘न्प्रजा᳘पतेर्व्वा᳘ ऽएते ऽअ᳘न्धसी यत्सो᳘मश्च सु᳘रा च त᳘तः सत्यᳫँ᳭श्रीर्ज्यो᳘तिः सोमो᳘ ऽनृतं पाप्मा त᳘मः सु᳘रैते᳘ ऽए᳘वैत᳘दुभे ऽअ᳘न्धसी ऽउ᳘ज्जयति स᳘र्व्वं वा᳘ ऽएष᳘ इदमु᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते प्रजा᳘पति᳘ᳫँ᳘ ह्युज्ज᳘यति स᳘र्व्वमु᳘ ह्येवे᳘दं᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सप्त᳘दश सोमग्रहा᳘न्गृह्णा᳘ति॥
सप्त᳘दश सुराग्रहा᳘न्प्रजा᳘पतेर्व्वा᳘ ऽएते ऽअ᳘न्धसी यत्सो᳘मश्च सु᳘रा च त᳘तः सत्यᳫँ᳭श्रीर्ज्यो᳘तिः सोमो᳘ ऽनृतं पाप्मा त᳘मः सु᳘रैते᳘ ऽए᳘वैत᳘दुभे ऽअ᳘न्धसी ऽउ᳘ज्जयति स᳘र्व्वं वा᳘ ऽएष᳘ इदमु᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते प्रजा᳘पति᳘ᳫँ᳘ ह्युज्ज᳘यति स᳘र्व्वमु᳘ ह्येवे᳘दं᳘ प्रजा᳘पतिः॥

मूलम् - Weber

अ᳘थ सप्त᳘दश सोमग्रहा᳘न्गृह्णा᳘ति॥
सप्त᳘दश सुराग्रहा᳘न्प्रजा᳘पतेर्वा᳘ एते अ᳘न्धसी यत्सो᳘मश्च सु᳘रा च त᳘तः सत्यं श्रीर्ज्योतिः सोमो᳘ ऽनृतम् पाप्मा त᳘मः सु᳘रैते᳘ एॗवैत᳘दुभे अ᳘न्धसी उ᳘ज्जयति स᳘र्वं वा᳘ एष᳘ इदमु᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते प्रजा᳘पतिॗᳫंॗ ह्युज्ज᳘यति स᳘र्वमुॗ ह्येवे᳘द᳘म् प्रजा᳘पतिः॥

मूलम् - विस्वरम्

अथ सप्तदश सोमग्रहान् गृह्णाति । सप्तदश सुराग्रहान् । प्रजापतेर्वा ऽएते ऽअन्धसी- यत् सोमश्च सुरा च । ततः सत्यं श्रीः- ज्योतिः- सोमः । अनृतं पाप्मा । तमः- सुरा । एते ऽएवैतदुभे ऽअन्धसी ऽउज्जयति । सर्वं वा ऽएष इदमुज्जयति- यो वाजपेयेन यजते । प्रजापतिं ह्युज्जयति । सर्वमु ह्येवेदं प्रजापतिः ॥ १० ॥

सायणः

ग्रहांतराणि सद्रव्याणि विधत्ते- अथ सप्तदशेति 6 । गृह्यन्त इति ग्रहाः सोमाः, सोमाश्च ते ग्रहाश्चेति विग्रहः, सोमस्य वा ग्रहाः । उभयेषां ग्रहाणां द्रव्यद्वयमनूद्य प्रशंसति- प्रजापतेर्वा इति । ‘अन्धसी’ अन्ने इत्यर्थः । ‘सत्यं श्रीः ज्योतिः सोमः’ सत्य-श्री-ज्योतिरात्मकत्वं सोमस्य, इतरस्यास्तु ‘अनृतं पाप्मा तमः’- अनृतपापतमोरूपत्वम् । पाप्मेति दारिद्र्यम् ॥ १० ॥

Eggeling
  1. He (the Adhvaryu) then draws seventeen (other) cups of Soma, and (the Neshṭr̥) seventeen cups of Surā (spirituous liquor), for to Prajāpati belong these two (saps of) plants, to wit the Soma and the Surā;–and of these two the Soma is truth, prosperity, light; and the Surā untruth, misery, darkness: both these (saps of) plants he thereby wins; for he who offers the Vājapeya wins everything here, since he wins Prajāpati, and Prajāpati indeed is everything here.

११

विश्वास-प्रस्तुतिः

स य᳘त्सप्त᳘दश॥
सोमग्रहा᳘न्गृह्णा᳘ति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्यैत᳘त्सत्यᳫँ᳭ श्रि᳘यं ज्यो᳘तिरु᳘ज्जयति॥

मूलम् - श्रीधरादि

स य᳘त्सप्त᳘दश॥
सोमग्रहा᳘न्गृह्णा᳘ति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्यैत᳘त्सत्यᳫँ᳭ श्रि᳘यं ज्यो᳘तिरु᳘ज्जयति॥

मूलम् - Weber

स य᳘त्सप्त᳘दश॥
सोमग्रहा᳘न्गृह्णा᳘ति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्यैत᳘त्सत्यं श्रि᳘यं ज्यो᳘तिरु᳘ज्जयति॥

मूलम् - विस्वरम्

स यत् सप्तदश सोमग्रहान् गृह्णाति । सप्तदशो वै प्रजापतिः । प्रजापतिर्यज्ञः । स यावानेव यज्ञो यावत्यस्य मात्रा- तावतैवास्यैतत्सत्यं श्रियं ज्योतिरुज्जयति ॥ ११ ॥

सायणः

उक्तग्रहसङ्ख्यां प्रजापत्यात्मकत्वेन स्तौति- स यत्सप्तदशेति । प्रजापतेः सप्तदशत्वम् “आश्रावय” 7 इत्यादि सप्तदशाक्षरमन्त्रात्मकत्वादित्यवगन्तव्यम् स एव यज्ञः, आश्रावयेत्यादिमन्त्राभावे यज्ञस्यासिद्धेः । श्रूयते च “प्रजापतिर्वै यज्ञ-” 8 इति । अतः ‘स यज्ञः’ ‘यावान्’ यत्परिमाणः, कियत्सङ्ख्याकावयव इत्यर्थः । ‘यावती’ ‘मात्रा’ परिमितिः, ‘तावतैव’ सप्तदशसोमग्रहवता यज्ञेन ‘अस्यैतत्’ अस्य यज्ञात्मकस्य प्रजापतेः सत्यादिकं यष्टा अर्जितवान् भवतीति ॥ ११ ॥

Eggeling
  1. Now as to why he draws seventeen cups of Soma;–Prajāpati is seventeenfold, Prajāpati is the sacrifice 9: as great as the sacrifice is, as great as is

its measure, with that much he thus wins its truth, its prosperity, its light.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्सप्त᳘दश॥
सुराग्रहा᳘न्गृह्णा᳘ति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्यैतद᳘नृतं पाप्मा᳘नं त᳘म ऽउ᳘ज्जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्सप्त᳘दश॥
सुराग्रहा᳘न्गृह्णा᳘ति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्यैतद᳘नृतं पाप्मा᳘नं त᳘म ऽउ᳘ज्जयति॥

मूलम् - Weber

अ᳘थ य᳘त्सप्त᳘दश॥
सुराग्रहा᳘न्गृह्णा᳘ति सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्यैतद᳘नृतम् पाप्मा᳘नं त᳘म उ᳘ज्जयति॥

मूलम् - विस्वरम्

अथ यत् सप्तदश सुराग्रहान् गृह्णाति । सप्तदशो वै प्रजापतिः । प्रजापतिर्यज्ञः । स यावानेव यज्ञो यावत्यस्य मात्रा- तावतैवास्यैतदनृतं पाप्मानं तम उज्जयति ॥ १२ ॥

सायणः

अथ यत्सप्तदशेति । यथा सोमग्रहवाक्यं योजितम्, एवमेव सुराग्रहवाक्यं योज्यम्; एतावांस्तु विशेषः- तत्र सत्यादेरुज्जयप्राप्तिः, अत्रानृतादेर्निरासाज्जय इति ॥ १२ ॥

Eggeling
  1. And why he draws seventeen cups of Surā;–Prajāpati is seventeenfold, Prajāpati is the sacrifice: as great as the sacrifice is, as great as is its measure, with that much he thus wins its untruth, its misery, its darkness.

१३

विश्वास-प्रस्तुतिः

त᳘ ऽउभ᳘ये च᳘तुस्त्रिᳫँ᳭शद्ग्र᳘हाः स᳘म्पद्यन्ते॥
त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - श्रीधरादि

त᳘ ऽउभ᳘ये च᳘तुस्त्रिᳫँ᳭शद्ग्र᳘हाः स᳘म्पद्यन्ते॥
त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - Weber

त᳘ उभ᳘ये च᳘तुस्त्रिंशद्ग्र᳘हाः स᳘म्पद्यन्ते॥
त्र᳘यस्त्रिंशद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिंशस्त᳘त्प्रजा᳘पतिमु᳘ज्जयति॥

मूलम् - विस्वरम्

ते ऽउभये चतुस्त्रिंशद्ग्रहाः सम्पद्यन्ते । त्रयस्त्रिंशद्वै देवाः, प्रजापतिश्चतुस्त्रिंशः । तत् प्रजापतिमुज्जयति ॥ १३ ॥

सायणः

द्विविधग्रहाणां सङ्ख्यां मिलित्वा स्तौति- त उभये चतुस्त्रिंशदिति । अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रवषट्काराविति ‘त्रयस्त्रिंशद्’ देवताः, ‘प्रजापतिः’ तु ‘चतुस्त्रिंशः’ इति ॥ १३ ॥

Eggeling
  1. These two amount to thirty-four cups; for there are thirty-three gods, and Prajāpati is the thirty-fourth: he thus wins Prajāpati.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्र रा᳘जानं क्रीणा᳘ति॥
त᳘द्दक्षिणतः᳘ प्रतिवेशतः᳘ केशवात्पु᳘रुषात्सी᳘सेन परिस्रु᳘तं क्रीणाति न वा᳘ ऽएष स्त्री न पु᳘मान्य᳘त्केशवः पु᳘रुषो यद᳘ह पु᳘मांस्ते᳘न न स्त्री य᳘दु केशवस्ते᳘न न पु᳘मा᳘न्नैतद᳘यो न हि᳘रण्यं यत्सी᳘सं᳘ नैष᳘ सो᳘मो न सु᳘रा य᳘त्परिस्रुत्त᳘स्मात्केशवात्पु᳘रुषात्सी᳘सेन परिस्रु᳘तं क्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्र रा᳘जानं क्रीणा᳘ति॥
त᳘द्दक्षिणतः᳘ प्रतिवेशतः᳘ केशवात्पु᳘रुषात्सी᳘सेन परिस्रु᳘तं क्रीणाति न वा᳘ ऽएष स्त्री न पु᳘मान्य᳘त्केशवः पु᳘रुषो यद᳘ह पु᳘मांस्ते᳘न न स्त्री य᳘दु केशवस्ते᳘न न पु᳘मा᳘न्नैतद᳘यो न हि᳘रण्यं यत्सी᳘सं᳘ नैष᳘ सो᳘मो न सु᳘रा य᳘त्परिस्रुत्त᳘स्मात्केशवात्पु᳘रुषात्सी᳘सेन परिस्रु᳘तं क्रीणाति॥

मूलम् - Weber

अ᳘थ य᳘त्र रा᳘जानं क्रीणा᳘ति॥
त᳘द्दक्षिणतः᳘ प्रतिवेशतः᳘ केशवात्पु᳘रुषात्सी᳘सेन परिस्रु᳘तं क्रीणाति न वा᳘ एष स्त्री न पु᳘मान्य᳘त्केशवः पु᳘रुषो यद᳘ह पु᳘मांस्ते᳘न न स्त्री य᳘दु केशवस्ते᳘न न पु᳘माॗन्नैतद᳘यो न हि᳘रण्यं यत्सी᳘सं नैष᳘ सो᳘मो न सु᳘रा य᳘त्परिस्रुत्त᳘स्मात्केशवात्पु᳘रुषात्सी᳘सेन परिस्रु᳘तं क्रीणाति॥

मूलम् - विस्वरम्

अथ यत्र राजानं क्रीणाति- तद्दक्षिणतः प्रतिवेशतः केशवात्पुरुषात् सीसेन परिस्रुतं क्रीणाति । न वा ऽएष स्त्री, न पुमान् यत्केशवः पुरुषः । यदह पुमान्- तेन न स्त्री । यदु केशवः- तेनो न पुमान् । नैतदयो, न हिरण्यम्- यत्सीसम् । नैष सोमो, न सुरा यत्परिस्रुत् । तस्मात् केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति ॥ १४ ॥

सायणः

प्राकृतं सोमक्रयणविधिमनूद्य परिस्रुत्क्रयणं विधत्ते- अथ यत्रेति । ‘यत्र’ प्रदेशे ‘राजानं’ सोमलतामित्यर्थः, क्रीणीयात्, तस्य दक्षिणे प्रतिवेशे स्थाने ‘केशवात्’ केशा अस्य सन्तीति स तथोक्तः । “केशाद्वो ऽन्यतरस्याम्” (पा० सू० ५। २ । १०९) इति वप्रत्ययः । तस्मात् ‘पुरुषात्’ सीसद्रव्येण ‘परिस्रुतं’ क्रीणीयात् । लोके हि सुरा तत्साधनभूतैः परिपक्वद्रव्यैः क्रियते, अत्र तु सुरासाधनाय पर्याप्तपरिपाकैः शष्पैर्निष्पन्नो रसः परिस्रुदित्युच्यते । कात्यायनेन तस्यास्तत्साधनद्रव्याणां वा क्रयणं विकल्पेनोक्तम्- “सोमात्क्रीयमाणात् सहितं दक्षिणतः सीसेन परिस्रुतः क्रयणं केशवात्तद्द्रव्याणां वा” (का० श्रौ० सू० १४ । १४ । १५) इति । तैत्तिरीये तु द्रव्यक्रय एवोक्तः- “सीसेन क्लीबाच्छष्पाणि क्रीणाति” (तै० ब्रा० १ । ८ । ५ । ३) इति । न वा एष स्त्री इत्यादिकस्यायमर्थः । सीस-केशव-परिस्रुताम् अन्तरालवर्तित्वं साम्यम् । ‘यत्’ यतः, परिस्रुत् क्रेता ‘पुमान्’ पुल्ँलक्षणवान् श्मश्रुयुक्त इत्यर्थः ‘तेन’ कारणेन ‘स्त्री न भवति’ यस्मात् ‘केशवः’ केशयुक्तः, ‘तेन’ केशबाहुल्यवत्त्वेन ‘पुमान्’ च ‘न’ भवति; केशबाहुल्यं तु स्त्रीलक्षणम्; अतः केशवत्क्लीबः पुरुषः स्त्रिया अधिकः पुरुषात् न्यूनः, सीसमप्ययसो ऽधिकं, हिरण्यात्तु न्यूनम् । परिस्रुच्च सा दृप्ता सुरा न भवतीति ततो ऽधिका, सोमवत्पूतत्वाभावात् ततो न्यूना । तस्माद् यथोक्तमेव कर्त्तव्यमिति स्थितम् ॥ १४ ॥

Eggeling
  1. Now when he buys the king (Soma), he at the same time buys for a piece of lead the Parisrut (immature spirituous liquor) from a long-haired man near by towards the south. For a long-haired man is neither man nor woman; for, being a male, he is not a woman; and being long-haired (a eunuch), he is not a man. And that lead is neither iron nor gold; and the Parisrut-liquor is neither Soma nor Surā 10: this is why he buys the Parisrut for a piece of lead from a long-haired man.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पूर्व्वेद्युः[[!!]]॥
(र्द्वौ) द्वौ ङ᳘रौ कुर्व्वन्ति पुरो ऽक्ष᳘मे᳘वान्यं᳘ पश्चादक्ष᳘मन्यं ने᳘त्सोमग्रहां᳘श्च सुराग्रहां᳘श्च सह᳘ साद᳘यामे᳘ति त᳘स्मात्पूर्व्वेद्युर्द्वौ ख᳘रौ कुर्व्वन्ति पुरो ऽक्ष᳘मे᳘वान्यं᳘ पश्चादक्ष᳘मन्यम्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पूर्व्वेद्युः[[!!]]॥
(र्द्वौ) द्वौ ङ᳘रौ कुर्व्वन्ति पुरो ऽक्ष᳘मे᳘वान्यं᳘ पश्चादक्ष᳘मन्यं ने᳘त्सोमग्रहां᳘श्च सुराग्रहां᳘श्च सह᳘ साद᳘यामे᳘ति त᳘स्मात्पूर्व्वेद्युर्द्वौ ख᳘रौ कुर्व्वन्ति पुरो ऽक्ष᳘मे᳘वान्यं᳘ पश्चादक्ष᳘मन्यम्[[!!]]॥

मूलम् - Weber

अ᳘थ पूर्वेद्युः᳟॥
द्वौ ख᳘रौ कुर्वन्ति पुरो ऽक्ष᳘मेॗवान्य᳘म् पश्चादक्ष᳘मन्यं ने᳘त्सोमग्रहां᳘श्च सुराग्रहां᳘श्च सह᳘ साद᳘यामे᳘ति त᳘स्मात्पूर्वेद्युर्द्वौ ख᳘रौ कुर्वन्ति पुरो ऽक्ष᳘मेॗवान्य᳘म् पश्चादक्ष᳘मन्य᳘म्॥

मूलम् - विस्वरम्

अथ पूर्वेद्युर्द्वौ खरौ कुर्वन्ति- पुरो ऽक्षमेवान्यम्, पश्चादक्षमन्यम् । नेत्सोमग्रहांश्च सुराग्रहांश्च सह सादयामेति । तस्मात् पूर्वेद्युर्द्वौ खरौ कुर्वन्ति- पुरो ऽक्षमेवान्यम्, पश्चादक्षमन्यम् ॥ १५ ॥

सायणः

अथ द्वितीयमेव ग्रहाणां ग्रहासादनं मा भूदिति प्रदेशविशेषं विधत्ते- अथ पूर्वेद्युर्द्वौखराविति । ‘पुरो ऽक्षम्’ शकटस्याधस्तात् अक्षस्य पुरोभागे एकम्, ‘पश्चादक्षम्’ अक्षस्य पश्चाद्भागे ऽपरम् इति ‘द्वौ खरौ’ ‘पूर्वेद्युः’ पूर्वदिवसे कुर्युः “खरं कृत्वा नाराशँसस्थाने ऽपरम्” (का० श्रौ० सू० १६ । १८ ।) तत्र कारणमाह- नेत्सोमग्रहानिति । नेत्सादयामेति । सहसादनमयुक्तमित्यभिप्रायेण पृथक्- सादनार्थं खरद्वयं कर्तव्यमित्यर्थः ‘नेत्’ इति परिभये (निरु० १ । ३ । ६) ॥ १५ ॥

Eggeling
  1. And on the preceding day they prepare two

earth-mounds 11, the one in front of the axle, and the other behind the axle: ‘Lest we should deposit together the cups of Soma, and the cups of Surā,’–this is why, on the preceding day, they prepare two mounds, one in front, and the other behind the axle.

१६

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ य᳘त्र पू᳘र्वया द्वारा᳘॥
व्वसतीव᳘रीः प्रपाद᳘यन्ति तद᳘परया द्वारा ने᳘ष्टा परिस्रु᳘तं प्र᳘पादयति दक्षिणतः पा᳘त्राण्यभ्य᳘वहरन्ति पुरो ऽक्ष᳘मेव᳘ प्रत्यङ्ङा᳘सीनो ऽध्वर्युः᳘ सोमग्रहा᳘न्गृह्णा᳘ति पश्चादक्षं प्राङा᳘सीनो ने᳘ष्टा सुराग्रहा᳘न्त्सोमग्रह᳘मे᳘वाध्वर्यु᳘र्गृह्णा᳘ति सुराग्रहं ने᳘ष्टा सोमग्रह᳘मे᳘वाध्वर्यु᳘र्गृह्णा᳘ति सुराग्रहं ने᳘ष्टैव᳘मे᳘वैनान्व्यत्या᳘सं गृह्णीतः॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ य᳘त्र पू᳘र्वया द्वारा᳘॥
व्वसतीव᳘रीः प्रपाद᳘यन्ति तद᳘परया द्वारा ने᳘ष्टा परिस्रु᳘तं प्र᳘पादयति दक्षिणतः पा᳘त्राण्यभ्य᳘वहरन्ति पुरो ऽक्ष᳘मेव᳘ प्रत्यङ्ङा᳘सीनो ऽध्वर्युः᳘ सोमग्रहा᳘न्गृह्णा᳘ति पश्चादक्षं प्राङा᳘सीनो ने᳘ष्टा सुराग्रहा᳘न्त्सोमग्रह᳘मे᳘वाध्वर्यु᳘र्गृह्णा᳘ति सुराग्रहं ने᳘ष्टा सोमग्रह᳘मे᳘वाध्वर्यु᳘र्गृह्णा᳘ति सुराग्रहं ने᳘ष्टैव᳘मे᳘वैनान्व्यत्या᳘सं गृह्णीतः॥

मूलम् - Weber

अ᳘थ य᳘त्र पू᳘र्वया द्वारा᳟॥
वसतीव᳘रीः प्रपाद᳘यन्ति तद᳘परया द्वारा ने᳘ष्टा परिस्रु᳘तम् प्र᳘पादयति दक्षिणतः पा᳘त्राण्यभ्य᳘वहरन्ति पुरो ऽक्ष᳘मेव᳘ प्रत्यङ्ङा᳘सीनो ऽध्वर्युः᳘ सोमग्रहा᳘न्गृह्णाति पश्चादक्षम् प्राङा᳘सीनो ने᳘ष्टा सुराग्रहा᳘न्त्सोमग्रह᳘मेॗवाध्वर्यु᳘र्गृह्णा᳘ति सुराग्रहं ने᳘ष्टा सोमग्रह᳘मेॗवाध्वर्यु᳘र्गृह्णा᳘ति सुराग्रहं ने᳘ष्ट्वेव᳘मेॗवैनान्व्यत्या᳘सं गृह्णीतः॥

मूलम् - विस्वरम्

अथ यत्र पूर्वया द्वारा वसतीवरीः प्रपादयन्ति- तदपरया द्वारा नेष्टा परिस्रुतं प्रपादयति । दक्षिणतः पात्राण्यभ्यवहरन्ति । पुरो ऽक्षमेव प्रत्यङ्ङासीनो ऽध्वर्युः सोमग्रहान्गृह्णाति । पश्चादक्षं प्राङासीनो नेष्टा सुराग्रहान् । सोमग्रहमेवाध्वर्युर्गृह्णाति, सुराग्रहं नेष्टा । सोमग्रहमेवाध्वर्युर्गृह्णाति, सुराग्रहं नेष्टा । एवमेवैनान् व्यत्यासं गृह्णीतः ॥ १६ ॥

सायणः

वसतीवरीणां हविर्द्धानप्रपादनमनूद्य परिस्रुत्प्रपादने कञ्चिद्विशेषं विधत्ते- अथ यत्रेति । ‘अपरया’ पश्चिमया ‘द्वारा’ ‘नेष्टा’ नाम ऋत्विक्, अध्वर्युवर्गे तृतीयः ‘प्रपादयति’ प्रवेशयेदित्यर्थः । दक्षिणत इति । हविर्द्धानस्य दक्षिणतो द्वारं कृत्वा तेन सोमग्रहपात्राणि सुराग्रहपात्राणि च प्रवेशयतीत्यर्थः । सूत्रितं हि- “दक्षिणतः सन्धिं करोति, यूपवेष्टनं सप्तदशभिर्वस्त्रैर्व्युद्ग्रन्थनं वा परिव्ययणकाले, सन्धिना पात्राण्याहृत्य”- (का. श्रौ. सू. १४ । १९-२५) इति । वर्गद्वयग्रहणे ऋत्विजोर्नियमं दर्शयति- पुरो ऽक्षमित्यादिना । विभागेन धारणाय व्यत्यासं विधत्ते- सोमग्रहमेवाध्पर्युरिति । ‘व्यत्यासम्’ व्यत्यस्य व्यत्यस्येत्यर्थः । अध्वर्युणा प्रथमे सोमग्रहे गृहीते सति, नेष्टा प्रथमं सुराग्रहं गृह्णीयात्; “व्यत्यासं ग्रहणम्” (का. श्रौ. सू. १४ । ३०) । ततो द्वितीये द्वितीयमिति सो ऽयं व्यत्यासः ॥ १६ ॥

Eggeling
  1. Now, when they take the Vasatīvarī water 12 (into the havirdhāna shed) by the front door, the Neshṭr̥ takes in the Parisrut-liquor by the back door. From the south they bring in the drinking vessels. The Adhvaryu, seated in front of the axle, with his face towards the west, draws the cups of Soma; and the Neshṭr̥, seated behind the axle, with his face towards the east, draws the cups of Surā. The Adhvaryu draws a cup of Soma, the Neshṭr̥ a cup of Surā; the Adhvaryu draws a cup of Soma, the Neshṭr̥ a cup of Surā: in this way they draw them alternately.

१७

विश्वास-प्रस्तुतिः

(तो) न᳘ प्रत्य᳘ञ्चम᳘क्षमध्वर्युः᳘॥
सोमग्रह᳘मतिह᳘रति न प्रा᳘ञ्चम᳘क्षं ने᳘ष्टा सुराग्रहं नेज्ज्यो᳘तिश्च त᳘मश्च सᳫँ᳭सृजावे᳘ति॥

मूलम् - श्रीधरादि

(तो) न᳘ प्रत्य᳘ञ्चम᳘क्षमध्वर्युः᳘॥
सोमग्रह᳘मतिह᳘रति न प्रा᳘ञ्चम᳘क्षं ने᳘ष्टा सुराग्रहं नेज्ज्यो᳘तिश्च त᳘मश्च सᳫँ᳭सृजावे᳘ति॥

मूलम् - Weber

न᳘ प्रत्य᳘ञ्चम᳘क्षमध्वर्युः᳟॥
सोमग्रह᳘मतिह᳘रति न प्रा᳘ञ्चम᳘क्षं ने᳘ष्टा सुराग्रहं नेज्ज्यो᳘तिश्च त᳘मश्च संसृजावे᳘ति॥

मूलम् - विस्वरम्

न प्रत्यञ्चमक्षमध्वर्युः सोमग्रहमतिहरति, न प्राञ्चमक्षं नेष्टा सुराग्रहम् । नेज्ज्योतिश्च तमश्च संसृजावेति ॥ १७ ॥

सायणः

ग्रहाणामन्यप्रदेशप्रापणं निषेधति- न प्रत्यञ्चमक्षमिति । ‘प्रत्यञ्चमक्षम्’ अक्षस्य पश्चाद्भागं ‘प्रति’ ‘सोमग्रहम्’ ‘अध्वर्युः’ ‘न अतिहरति’ नातिहरेत् नातिक्रामयेत् । एवं च ‘नेष्टा’ अपि ‘सुराग्रहं’ ‘प्राञ्चमक्षम्’ शकटाक्षस्य पुरोदेशं नातिहरेत् । उभयत्र कारणमाह- नेज्ज्योतिरिति । यदि ग्रहाणामन्योन्यदेशातिक्रमणं स्यात्, तर्हि तेजस्तिमिरयोः संसर्गः स्यात्, स मा भूदिति व्यतिहरणनिषेधः । सोमस्य ज्योतीरूपत्वं सुरायास्तु तमोरूपत्वं च प्रागावेदितम् । “अक्षानतिक्रमण ग्रहाणाम्” । (का. श्रौ. सू. १४ । ३१) ॥ १७ ॥

Eggeling
  1. Neither does the Adhvaryu hold the Soma-cup beyond the axle towards the back, nor the Neshṭr̥ the Surā-cup beyond the axle towards the front, thinking, ‘Lest we should confound light and darkness!’

१८

विश्वास-प्रस्तुतिः

(त्यु) उप᳘र्युपर्येवा᳘क्षमध्वर्युः᳘॥
सोमग्रहं᳘ धार᳘यत्य᳘धो ऽधो᳘ ऽक्षं ने᳘ष्टा सुराग्रह᳘ᳫँ᳘ सम्पृ᳘चौ स्थः सं᳘ मा भद्रे᳘ण पृङ्क्तमि᳘ति ने᳘त्पापमि᳘ति ब्र᳘वावे᳘ति तौ पु᳘नर्व्वि᳘हरतो व्विपृ᳘चौ स्थो व्वि᳘ मा पाप्म᳘ना पृङ्क्तमि᳘ति तद्य᳘थेषी᳘कां मु᳘ञ्जाद्विवृहे᳘देव᳘मेनᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो व्वि᳘वृहतस्त᳘स्मिन्न ता᳘वच्चनै᳘नो भवति या᳘वत्तृ᳘णस्या᳘ग्रं तौ᳘ सादयतः॥

मूलम् - श्रीधरादि

(त्यु) उप᳘र्युपर्येवा᳘क्षमध्वर्युः᳘॥
सोमग्रहं᳘ धार᳘यत्य᳘धो ऽधो᳘ ऽक्षं ने᳘ष्टा सुराग्रह᳘ᳫँ᳘ सम्पृ᳘चौ स्थः सं᳘ मा भद्रे᳘ण पृङ्क्तमि᳘ति ने᳘त्पापमि᳘ति ब्र᳘वावे᳘ति तौ पु᳘नर्व्वि᳘हरतो व्विपृ᳘चौ स्थो व्वि᳘ मा पाप्म᳘ना पृङ्क्तमि᳘ति तद्य᳘थेषी᳘कां मु᳘ञ्जाद्विवृहे᳘देव᳘मेनᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो व्वि᳘वृहतस्त᳘स्मिन्न ता᳘वच्चनै᳘नो भवति या᳘वत्तृ᳘णस्या᳘ग्रं तौ᳘ सादयतः॥

मूलम् - Weber

उप᳘र्युपर्येवा᳘क्षमध्वर्युः᳟॥
सोमग्रहं᳘ धार᳘यत्य᳘धो ऽधो᳘ ऽक्षं ने᳘ष्टा सुराग्रह᳘ᳫं᳘ सम्पृ᳘चौ स्थः स᳘म् मा भद्रे᳘ण पृङ्क्तमि᳘ति ने᳘त्पापमि᳘ति ब्र᳘वावे᳘ति तौ पु᳘नर्वि᳘हरतो विपृ᳘चौ स्थो वि᳘ मा पाप्म᳘ना पृङ्क्तमि᳘ति तद्य᳘थेषी᳘काम् मु᳘ञ्जाद्विवृहे᳘देव᳘मेनᳫं स᳘र्वस्मात्पाप्म᳘नो वि᳘वृहतस्त᳘स्मिन्न ता᳘वच्चनै᳘नो भवति या᳘वत्तृ᳘णस्या᳘ग्रं तौ᳘ सादयतः॥

मूलम् - विस्वरम्

उपर्युपर्येवाक्षमध्वर्युः सोमग्रहं धारयति, अधो ऽधो ऽक्षं नेष्टा सुराग्रहम् । “सम्पृचौ स्थः, सं मा भद्रेण पृङ्क्तम्”- इति । नेत्पापमिति ब्रवावेति । तौ पुनर्विहरतः । “विपृचौ स्थो, वि मा पाप्मना पृङ्क्तम्”- (वा. सं. ९ । ४) इति । तद्यथेषीकां मुञ्जाद्विवृहदेवमेनं सर्वस्मात्पाप्मनो विवृहतः । तस्मिन्न तावच्चनैनो भवति- यावत्तृणस्याग्रम् । तौ सादयतः ॥ १८ ॥

सायणः

उभयग्रहधारणे कञ्चिद् विशेषं विधत्ते- उपर्युपर्येवाक्षमध्वर्युरिति । अक्षस्य सन्निकृष्टोपरिभाग एव सोमग्रहस्य, सन्निकृष्टाधःप्रदेश एव सुराग्रहस्य । “उपर्यध्यधसः सामीप्ये”- (पा. सू. ८ । १ । ७) इति द्विर्वचनम् । धारणमन्त्रं विधत्ते- सम्पृचौ स्थ इति । तस्यार्थः;- वर्गद्वयमध्ये एकैकस्योक्तप्रदेशे धारणात् उभयोर्द्वित्वेन मन्त्रे ‘सम्पृचौ’- इति, ‘पृङ्क्तम्’- इति च द्विवचनमुक्तम् । हे सोमसुराग्रहौ ! ‘सम्पृचौ’ संस्पृष्टौ ‘स्थः’ यतो युवां सम्पृक्तावभवतम्, अतो ‘मा’ माम् अपि ‘भद्रेण’ प्रजादिना “प्रजा वै भद्रम्, पशवो भद्रम्”- (तै. ब्रा. १ । ३ । ४ । ६) इति श्रुतेः । ‘पृङ्क्तं’ संयोजयतमिति । कात्यायनस्तु शाखान्तरानुसारेण धारणाहरणमन्त्रयोः प्रतीकं बहुवचनत्वेनोदाजहार- “अक्षानतिक्रमणं ग्रहाणाम्, उपर्युपर्यक्षमध्वर्युर्धारयत्यधो ऽधो नेष्टा सम्पृचाविति, विपृचावित्याहरतः”- (का. श्रौ. सू. १४ । ३१-३३) इति । प्रयोजनकथनमुखेन मन्त्रस्य तात्पर्यमाह- नेत्पापमिति ब्रवावेति । यद्युभयोर्ग्रहयोर्धारणसमये सम्पर्कवाचकमन्त्रे ‘भद्रेण पृङ्क्तमिति’ यत् प्रार्थनम्, तत् सुराग्रहं 13 पापमित्येवं नैव ब्रवावेत्यभिप्रायेणेत्यर्थः । अक्षप्रदेशात् तयोः स्वस्वप्रदेशे ऽवस्थापनं समन्त्रकं विधत्ते- तौ पुनर्विहरत इति । हे ग्रहौ ! ‘विपृचौ’ वियुक्तौ ‘स्थः’ । यत् एवम्, अतो ममापि प्रार्थनां वियोजयतमिति । मन्त्रस्योत्तरभागं व्याचष्टे- तद्यथेषीकामिति । यथा ‘मुञ्जात्’ मुञ्जतृणात् ‘इषीकाम्’ मध्यवर्त्तितृणं ‘विवृहेत्’ पृथक् कुर्यात्, ‘एवम्’ ‘एनं’ यजमानं ‘सर्वस्मात्’ ‘पाप्मनः’ पापात् ‘विवृहतः’ द्वौ ग्रहौ वा ऽध्वर्युनेष्टारौ । एतदेवाह- तस्मिन्न तावच्चनेति । ‘चन’- शब्दो ऽप्यर्थे । (अम. को. ३ । ४ । ३ ।) असाकल्ये तु चिच्चनेति । यावत् तृणाग्रं तावन्मात्र स्वल्पमपि ‘एनः’ पापं ‘तस्मिन्’ ‘न’ भवति ॥ १८ ॥

Eggeling
  1. The Adhvaryu holds the Soma-cup just over the axle, and the Neshṭr̥ the Surā-cup just below

the axle, with (V. S. IX, 4), ‘United ye are: unite me with happiness!’ Thinking, ‘Lest we should say “evil”,’ they withdraw them again, with, ‘Disunited ye are: disunite me from evil!’ Even as one might tear a single reed from a clump of reed-grass, so do they thereby tear him from out of all evil: there is not in him so much sin as the point of a grass-blade. They deposit the two (cups each time on the mounds).

१९

विश्वास-प्रस्तुतिः

(तो᳘ ऽथा) अ᳘थाध्वर्युः[[!!]]॥
(र्हि) हिरण्यपात्रे᳘ण मधुग्रहं᳘ गृह्णाति तं म᳘ध्ये सोमग्रहा᳘णाᳫँ᳭ सादयत्य᳘थो᳘क्थ्यं गृह्णात्य᳘थ ध्रुवम᳘थैता᳘न्त्सोमग्रहा᳘नुत्तमे᳘ स्तोत्र᳘ ऽऋत्वि᳘जां चमसे᳘षु व्यवनी᳘य जुह्वति ता᳘न्भक्षयन्त्य᳘थ मा᳘ध्यन्दिने स᳘वने मधुग्रह᳘स्य च सुराग्रहा᳘णां चोद्यते तस्या᳘तः॥

मूलम् - श्रीधरादि

(तो᳘ ऽथा) अ᳘थाध्वर्युः[[!!]]॥
(र्हि) हिरण्यपात्रे᳘ण मधुग्रहं᳘ गृह्णाति तं म᳘ध्ये सोमग्रहा᳘णाᳫँ᳭ सादयत्य᳘थो᳘क्थ्यं गृह्णात्य᳘थ ध्रुवम᳘थैता᳘न्त्सोमग्रहा᳘नुत्तमे᳘ स्तोत्र᳘ ऽऋत्वि᳘जां चमसे᳘षु व्यवनी᳘य जुह्वति ता᳘न्भक्षयन्त्य᳘थ मा᳘ध्यन्दिने स᳘वने मधुग्रह᳘स्य च सुराग्रहा᳘णां चोद्यते तस्या᳘तः॥

मूलम् - Weber

अ᳘थाध्वर्युः᳟॥
हिरण्यपात्रे᳘ण मधुग्रहं᳘ गृह्णाति तम् म᳘ध्ये सोमग्रहा᳘णाᳫं सादयत्य᳘थोक्थ्यं गृह्णात्य᳘थ ध्रुवम᳘थैता᳘न्त्सोमग्रहा᳘नुत्तमे᳘ स्तोत्र᳘ ऋत्वि᳘जां चमसे᳘षु व्यवनी᳘य जुह्वति ता᳘न्भक्षयन्त्य᳘थ मा᳘ध्यन्दिने स᳘वने मधुग्रह᳘स्य च सुराग्रहा᳘णां चोद्यते तस्या᳘तः॥

मूलम् - विस्वरम्

अथाध्वर्युर्हिरण्यपात्रेण मधुग्रहं गृह्णाति । तं मध्ये सोमग्रहाणां सादयति । अथोक्थ्यं गृह्णाति । अथ ध्रुवम् । अथैतान्त्सोमग्रहान् उत्तमे स्तोत्र ऽऋत्विजां चमसेषु व्यवनीय जुह्वति । तान्भक्षयन्ति । अथ माध्यन्दिने सवने मधुग्रहस्य च सुराग्रहाणां चोद्यते । तस्यातः ॥ १९ ॥

सायणः

अथ मधुग्रहग्रहणं विधत्ते- अथाध्वर्युरिति । तस्य सादनप्रदेशं विधत्ते- तं मध्य इति । अत्र कात्यायनः- “हिरण्मयेन मधुग्रहं गृहीत्वा खरमध्ये सादयति”- (का. श्रौ. सू. १४ । ३४) इति । अथ प्राकृताचुक्थ्यध्रुवग्रहौ दर्शयति- अथोक्थ्यमित्यादि । सूत्रकृता अनयोश्चोदकादेव ग्रहणं सिद्धमिति सूत्रितम्- “उक्थ्यादि” (का. श्रौ. सू. १४ । ३४) पृथग्ग्रहणप्रसङ्गाद्द्विविधग्रहाणां होमकालं भक्षणं च विधत्ते- अथैतान्त्सोमग्रहानिति । ‘एतान्’ प्रातस्सवने गृहीतान् ‘सोमग्रहान्’ ‘उत्तमे स्तोत्रे’ तृतीयसवने बृहत्स्तोत्रे वाजपेयसंस्थापननिमित्ते स्तुते सति ‘ऋत्विजां चमसेषु’ ‘व्ययनीय’ व्यवनयनं कृत्वा जुहुयुर्भक्षयेयुश्च । तत्प्रसङ्गात् सुराग्रहाणां मधुग्रहस्य च माध्यन्दिनसवनमध्ये विनियोगो भविष्यतीत्याह- अथ माध्यन्दिन इति । ‘उद्यते’- इति, “वद व्यक्तायां वाचि”- (धा. पा. भ्वा. प. १०३४) कर्मणि यकि सम्प्रसारणम् । एतेषां होमास्तावत् तद्विनियोगप्रकारो ऽपि “अथाध्वर्युश्च यजमानश्च पूर्वया द्वारा मधुग्रहमादाय निष्क्रामतः”- इत्यारभ्य, “अथ नेष्टा ऽपरया द्वारा सुराग्रहानादाय निष्क्रामति”- इत्यादिना अस्मिन्नेवाध्याये वक्ष्यत इत्यर्थः (श. प. ५ । १ । ५ । २८) । तस्यात इति । ‘अतः’ सोमग्रहहोमभक्षणप्रतिपादनानन्तरं ‘तस्य’ आम्नातस्य सुराग्रहविनियोगप्रतिपादकवाक्यस्य पाठानुसन्धानं कार्यमित्यर्थः ॥ १९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये पञ्चमकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (५-१-२) ॥

Eggeling
  1. Thereupon the Adhvaryu draws the Madhu-graha (honey-cup) in a golden vessel, and deposits it in the middle of the Soma-grahas. He then draws the Ukthya, then the Dhruva. And when, at the last chant (of the evening press feast 14), he has poured those Soma-grahas one by one into the cups of the officiating priests, they make offering and drink them. At the midday-pressing it is told regarding the honey-cup, and the cups of Surā: thereof then 15.

  1. 5:1 Regarding this cup, or libation (consisting, it would seem, of imperfectly pressed Soma-plants in water), see part ii, p. 424, note 1. Here, and in the sequel, the author only refers to those points of ceremonial in which the performance differs from that of the ordinary Agnishṭoma sacrifice, as described in part ii. ↩︎

  2. 6:1 Viz. the Upāṁśu and Antaryāma; the Aindravāyava, Maitrāvaruṇa and Āśvina; the Śukra and Manthin; and the Āgrayaṇa. Part ii, pp. 256 seq. ↩︎

  3. 6:2 That is, the three Atigrāhyas (part ii, p. 402, note 2), required for the Pr̥shṭḥa-stotras at the midday feast, when performed in their proper ‘pr̥shṭḥa’ form, as they are at the Pr̥shṭḥya shaḍaha, and at a Viśvajit-ekāha with all the Pr̥shṭḥas. See IV, 5, 4, 24. The authorities of the Black Yajus adopt a somewhat different arrangement. The Vājapeya cups are likewise called by them Atigrāhyas (Taitt. S. I, 7, 22; T. B. I, 3, 9), and these are apparently drawn by them immediately after the second of the ordinary three Atigrāhyas, the one belonging to Indra (T. S. vol. i, p. 996,–but see ib. p. 1955, where it is stated that they are drawn immediately after the Āgrayaṇa,–that is, probably, if the ordinary Atigrāhyas are not required). Then follows (the third ordinary Atigrāhya?), then the Shoḍaśin, and thereupon the seventeen cups for Prajāpati.–Sāyaṇa remarks on our passage,–teshām (atigrāhyāṇām) prakr̥tigatā tritvasaṁkhyaiva śākhāntaravat saṁkhyāntarānupadeśāt. MS. I. O. 657. ↩︎

  4. 6:3 For an explanation of these notions, see part ii, p. 260, notes 1 and 2. ↩︎

  5. ‘तद्विपरीतग्रहणेन’- इ. क्व. पु. पा. । ↩︎

  6. ध्रुवसदमिति प्रतिमंत्रमतिग्राह्यवद्धोमः । का० श्रौ० सू० १४ । २७ । ↩︎ ↩︎

  7. “आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदश प्रजापतिः” इति (तै० सं० १ । ६ । ११ ।१) ↩︎

  8. “अनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञम्” इति । श० प० ब्रा० १ । १ । १ । १३ कण्डिकायां द्रष्टव्यम् । ↩︎

  9. 8:1 See I, 5, 2, 17, where the principal formulas used in making oblations are computed as consisting together of seventeen syllables. Pañc. Br. 18, 6 insists especially on the symbolic identity of Prajāpati and the Vājapeya on the double ground that the Vājapeya consists of seventeen stotras, and has for its characteristic mode of chanting the Saptadaśa-stoma, or seventeen-versed hymn. That this is indeed so will appear from a glance at the chief chants. The Bahishpavamāna-stotra, which in the ordinary Agnishṭoma is chanted in the trivr̥t-stoma, consisting of three triplets, or nine verses (see part ii, p. 310), is at the Vājapeya made to consist of seventeen verses, by the insertion of eight verses (S.V. II, 180-82; 186-90) between the second and third triplets. Again, the Mādhyandina-pavamāna, ordinarily chanted in fifteen verses (part ii, p. 333), here consists of seventeen, viz. II, 105-7 (sung twice in two tunes = six verses); II, 663 (one verse); II, 663-4 (sung as triplet, in two tunes = six verses); II, 663, in a different tune again (one verse); II, 821-23 (three verses)–making together seventeen verses. Similarly, the Ārbhava-pavamāna (chanted at the Agnishṭoma also in the Saptadaśa-stoma, cf. part ii, p. 315; but here with modifications) consists of II, 165-7 (sung twice in two tunes = six verses); II, 42, 44 (two verses); II, 47-9 (in two tunes = six verses); II, 720-22 (three verses)–making together seventeen verses. For the similarly constructed Vājapeya hymn see page 11, note 1. See also Lāṭy. Śr. VIII, 11, 15 seq., where the number of officiating priests, as well as that of the various sacrificial fees, is fixed at seventeen. Similarly, Āśv. Śr. IX, 9, 2-3 says that there are either to be seventeen dikshās, or the whole ceremony is to be performed in seventeen days. ↩︎

  10. 9:1 According to Sāyaṇa, the difference between surā and parisrut would seem to be that the former beverage is prepared from mature shoots (of rice, &c.), and the latter from such as are not quite ripe. ↩︎

  11. 10:1 The mounds (khara) thrown up in the havirdhāna cart-shed, are used for placing the cups of Soma (and Surā) after they are drawn, until they are used for the libations. See the plan of the sacrificial ground at the end of part ii; only that on the present occasion there is to be a second mound, for the placing of the Surā-cups, under or just behind the axle of the southern Soma-cart (in the place where the Nārāśaṁsa cups to the Fathers were temporarily deposited at the Agnishṭoma; see III, 6, 2, 25 with note). On this occasion a small door is also made in the southern wall of the cart-shed, by breaking through the hurdle. ↩︎

  12. 10:2 Part ii, p. 222 seq. ↩︎

  13. ‘सुरारूपम्’ इति क्व. पा. । ↩︎

  14. 11:1 The last chant (at the evening feast) of the Vājapeya sacrifice is the so-called Vājapeya-sāman, or Br̥hat-stotra (Sāmav. II, 975-7), chanted, to the Br̥hat tune, in the Saptadaśa-stoma; the three verses being, by repetitions, raised to the number of seventeen.–‘When he has poured . . . they offer it:’ this is apparently a case of the absolute construction of the gerund in ‘-ya,’ cf. Delbrück, Altindische Syntax, p. 108. ↩︎

  15. 11:2 On these cups, or libations, see V, I, 5, 28. ↩︎