०१
विश्वास-प्रस्तुतिः
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽअतिमाने᳘नैव क᳘स्मिन्नु᳘ व्वयं᳘ जुहुयामे᳘ति स्वे᳘ष्वे᳘वा᳘स्येषु जु᳘ह्वतश्चेरु᳘स्ते ऽतिमाने᳘नैव प᳘राबभूवुस्त᳘स्मान्ना᳘तिमन्येत पराभव᳘स्य हैतन्मु᳘खं य᳘दतिमानः[[!!]]॥
मूलम् - श्रीधरादि
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽअतिमाने᳘नैव क᳘स्मिन्नु᳘ व्वयं᳘ जुहुयामे᳘ति स्वे᳘ष्वे᳘वा᳘स्येषु जु᳘ह्वतश्चेरु᳘स्ते ऽतिमाने᳘नैव प᳘राबभूवुस्त᳘स्मान्ना᳘तिमन्येत पराभव᳘स्य हैतन्मु᳘खं य᳘दतिमानः[[!!]]॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा अतिमाने᳘नैव क᳘स्मिन्नु᳘ वयं᳘ जुहुयामे᳘ति स्वे᳘ष्वेॗवाॗस्येषु जु᳘ह्वतश्चेरुॗस्ते ऽतिमाने᳘नैव प᳘राबभूवुस्त᳘स्मान्ना᳘तिमन्येत पराभव᳘स्य हैतन्मु᳘खं य᳘दतिमानः᳟॥
मूलम् - विस्वरम्
अथ वाजपेययज्ञः ।
देवाश्च वा ऽअसुराश्चोभये प्राजापत्याः पस्पृधिरे । ततो ऽसुरा अतिमानेनैव- ‘कस्मिन्नु वयं जुहुयामेति’- स्वेष्वेवास्येषु जुह्वतश्चेरुः । ते ऽतिमानेनैव पराबभूवुः । तस्मान्नातिमन्येत । पराभवस्य हैतन्मुखं- यदतिमानः ॥ १ ॥
सायणः
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
काश्चित् संस्थाः समुदितास्तुर्ये ऽग्निष्टोमपूर्विकाः । काण्डे तु पञ्चमे वाजपेयः प्रस्तूयते ततः ॥ ३ ॥
राजसूयः सम्प्रपन्नो मंत्राम्नानक्रमेण तु । प्रकृतावुपदिष्टत्वादङ्गजातस्य नो वचः ॥ ४ ॥
वैशेषिकास्तु वक्ष्यन्ते यज्ञद्वयगता गुणाः । व्याख्यायते तन्निपुणं ब्राह्मणं तद्विधायकम् ॥ ५ ॥
तत्र वाजपेयं विधातुं प्रस्तौति- देवाश्च वा असुराश्चेति । ‘प्राजापत्याः’ प्रजापतिना सृष्टाः ‘उभये’ द्विविधाः ‘देवाश्च असुराश्च’ ‘पस्पृधिरे’ स्पर्द्धाञ्चक्रुः । ‘ततो ऽसुराः’ स्वतो ऽन्यः प्रबलो नास्तीति ‘अतिमानेन’ अभिमानेन भूयिष्ठेन दर्पेण ‘कस्मिन्नु’ खलु होमाधिकरणे ‘वयं’ ‘जुहुयाम’ होमं कुर्याम ‘इति’ धिक्कृत्य स्वकीयेषु आस्येषु होमं चक्रुः । ‘ते’ असुराः अत्यन्तगर्वेण पराजिताः । ‘तस्मात्’ अद्यापि कश्चिदपि नातिमानं कुर्यात् ‘अतिमानः’ अभिमानः ‘यत्’ तत् ‘परामवस्य’ प्रापकमिति ॥ १ ॥
Eggeling
- Once upon a time the gods and the Asuras, both of them sprung from Prajāpati, strove together. And the Asuras, even through arrogance, thinking, ‘Unto whom, forsooth, should we make offering?’ went on offering into their own mouths. They came to naught, even through arrogance: wherefore let no one be arrogant, for verily arrogance is the cause 1 of ruin.
०२
विश्वास-प्रस्तुतिः
(नो᳘ ऽथ) अ᳘थ देवाः᳘॥
(ऽ) अ᳘न्यो ऽन्य᳘स्मिन्नेव जु᳘ह्वतश्चेरुस्ते᳘भ्यः प्रजा᳘पतिरात्मा᳘नं प्र᳘ददौ यज्ञो᳘ हैषामास यज्ञो हि᳘ देवा᳘नाम᳘न्नम्॥
मूलम् - श्रीधरादि
(नो᳘ ऽथ) अ᳘थ देवाः᳘॥
(ऽ) अ᳘न्यो ऽन्य᳘स्मिन्नेव जु᳘ह्वतश्चेरुस्ते᳘भ्यः प्रजा᳘पतिरात्मा᳘नं प्र᳘ददौ यज्ञो᳘ हैषामास यज्ञो हि᳘ देवा᳘नाम᳘न्नम्॥
मूलम् - Weber
अ᳘थ देवाः᳟॥
अॗन्यो ऽन्य᳘स्मिन्नेव जु᳘ह्वतश्चेरुस्ते᳘भ्यः प्रजा᳘पतिरात्मा᳘नम् प्र᳘ददौ यज्ञो᳘ हैषामास यज्ञो हि᳘ देवा᳘नाम᳘न्नम्॥
मूलम् - विस्वरम्
अथ देवा अन्यो ऽन्यस्मिन्नेव जुह्वतश्चेरुः । तेभ्यः प्रजापतिरात्मानं प्रददौ । यज्ञो हैषामास । यज्ञो हि देवानामन्नम् ॥ २ ॥
सायणः
देवानां तद्विपर्ययं दर्शयति- अथ देवा इति । ‘देवाः’ खलु ‘अन्यो ऽन्यस्मिन्’ जुहुवुः, इन्द्रः अग्नौ अग्निः इन्द्रे इत्यादिक्रमेणेत्यर्थः । ‘तेभ्यः’ देवेभ्यः, अन्यो ऽस्मिन् देवतात्वेन होमकरणात् प्रीतः ‘प्रजापतिः’ ‘आत्मानं’ शरीरं दत्तवान् । यज्ञो हैषामिति । ‘हि’ यस्मात् ‘देवानामन्नं यज्ञः’ अतो ऽत्रान्यो ऽन्यस्मिन् हविःप्रदानेनान्नसम्भवात् प्रजापतिशरीरं यज्ञ एव तेषामासीदित्यर्थः । यज्ञशब्देन वाजपेय उच्यते, प्रकरणबलात्, तथा च तैत्तिरीयके- “एष वाव यज्ञो यद् वाजपेयः” (तै० ब्रा० १ । ३ । २ । ५) इति ॥ २ ॥
Eggeling
०३
विश्वास-प्रस्तुतिः
ते᳘ होचुः॥
क᳘स्य न ऽइदं᳘ भविष्यती᳘ति ते म᳘म ममे᳘त्येव न᳘ सम्पादया᳘ञ्चक्रुस्ते हा᳘सम्पाद्योचुराजि᳘मे᳘वास्मि᳘न्नजामहै स यो᳘ न उज्जेष्य᳘ति त᳘स्य न इदं᳘ भविष्यती᳘ति तथे᳘ति त᳘स्मिन्नाजि᳘माजन्त॥
मूलम् - श्रीधरादि
ते᳘ होचुः॥
क᳘स्य न ऽइदं᳘ भविष्यती᳘ति ते म᳘म ममे᳘त्येव न᳘ सम्पादया᳘ञ्चक्रुस्ते हा᳘सम्पाद्योचुराजि᳘मे᳘वास्मि᳘न्नजामहै स यो᳘ न उज्जेष्य᳘ति त᳘स्य न इदं᳘ भविष्यती᳘ति तथे᳘ति त᳘स्मिन्नाजि᳘माजन्त॥
मूलम् - Weber
ते᳘ होचुः॥
क᳘स्य न इद᳘म् भविष्यती᳘ति ते म᳘म ममे᳘त्येव न᳘ सम्पादयां᳘ चक्रुस्ते हा᳘सम्पाद्योचुराजि᳘मेॗवास्मि᳘न्नजामहै स यो᳘ न उज्जेष्य᳘ति त᳘स्य न इद᳘म् भविष्यती᳘ति तथे᳘ति त᳘स्मिन्नाजि᳘माजन्त॥
मूलम् - विस्वरम्
ते होचुः कस्य न इदं भविष्यतीति । ते- मम ममेत्येव न सम्पादयाञ्चक्रुः । ते हासम्पाद्योचुः- आजिमेवास्मिन्नजामहै, स यो न उज्जेष्यति- तस्य न इदं भविष्यतीति । तथेति । तस्मिन्नाजिमाजन्त ॥ ३ ॥
सायणः
तत्र वाजपेये सर्वदेवानां पुरस्ताद् वाजपेयस्यानुष्ठानेन बृहस्पतेरेव श्रैष्ठ्यं वक्तुमाजिधावनं दर्शयति- ते होचुरिति । ‘ते’ देवाः आगच्छन्तं यज्ञं दृष्ट्वा ‘नः’ अस्माकं मध्ये ‘इदम्’ इति सामान्येन निर्देशः । अयं वाजपेयः यज्ञः ‘कस्य भविष्यति ?’ ‘इति’ ‘ऊचुः’ । ततः ‘ते’ सर्वे ऽपि ममैवायं यज्ञो ममैवायं यज्ञ इति विवदमानाः ‘न सम्पादयाञ्चक्रुः’ अस्यैवायं यज्ञ इति न निश्चितवन्तः । ‘ते’ देवाः ‘अस्मिन्’ विषये ‘आजिम् अजामहै’ गच्छाम इति समयञ्चक्रुः । ‘नः’ अस्माकं मध्ये आजिधावनेन ‘यः’ कश्चित् ‘उज्जेष्यति’ ‘तस्य’ अयं यज्ञो भवत्विति सर्वैरङ्गीकृत्य ‘तस्मिन्’ वाजपेयविषये विजयार्थम् ‘आजिम्’ ‘आजन्त’ अधावन् । “अज गतिक्षेपणयोः” (धा. पा. भ्वा. प. २३०) आजिर्नाम धावनप्रदेशस्यावधिर्भूमिविशेषः (श. प. २ । ४ । ३ । ४) ॥ ३ ॥
Eggeling
- They then spake, ‘To which of us shall this 4 belong?’ They did not agree together, saying,
‘To me! to me!’ Not being agreed, they said, ‘Let us run a race for it: whichever of us shall win, to him it shall belong!’–‘So be it!’ so they ran a race for it.
०४
विश्वास-प्रस्तुतिः
स बृ᳘हस्प᳘तिः॥
सविता᳘रमेव᳘ प्रसवायो᳘पाधावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘[[!!]] मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत ऽउ᳘दजयत्स᳘ इदँ स᳘र्व्वमभवत्स᳘ इदँ स᳘र्व्वमु᳘दजयत्प्रजा᳘पति᳘ᳫँ᳘ ह्यु᳘द᳘जयत्स᳘र्व्वमु᳘ ह्ये᳘वेदं᳘ प्रजा᳘पतिस्ते᳘ने᳘ष्ट्वैता᳘मे᳘वोर्ध्वां दिशमु᳘दक्रामत्त᳘स्माद्य᳘श्च व्वे᳘द य᳘श्च[[!!]] नै᳘षोर्ध्वा बृ᳘हस्प᳘तेर्दिगि᳘त्ये᳘वाहुः॥
मूलम् - श्रीधरादि
स बृ᳘हस्प᳘तिः॥
सविता᳘रमेव᳘ प्रसवायो᳘पाधावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘[[!!]] मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत ऽउ᳘दजयत्स᳘ इदँ स᳘र्व्वमभवत्स᳘ इदँ स᳘र्व्वमु᳘दजयत्प्रजा᳘पति᳘ᳫँ᳘ ह्यु᳘द᳘जयत्स᳘र्व्वमु᳘ ह्ये᳘वेदं᳘ प्रजा᳘पतिस्ते᳘ने᳘ष्ट्वैता᳘मे᳘वोर्ध्वां दिशमु᳘दक्रामत्त᳘स्माद्य᳘श्च व्वे᳘द य᳘श्च[[!!]] नै᳘षोर्ध्वा बृ᳘हस्प᳘तेर्दिगि᳘त्ये᳘वाहुः॥
मूलम् - Weber
स बृ᳘हस्प᳘तिः॥
सविता᳘रमेव᳘ प्रसवायो᳘पाधावत्सविता वै᳘ देवा᳘नाम् प्रसविते᳘दम् मे प्र᳘सुव त्व᳘त्प्रसूत इदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत उ᳘दजयत्स᳘ इदᳫं स᳘र्वमभवत्स᳘ इदᳫं स᳘र्वमु᳘दजयत्प्रजा᳘पतिॗᳫंॗ ह्युद᳘जयत्स᳘र्वमुॗ ह्येॗवेद᳘म् प्रजा᳘पतिस्ते᳘नेॗष्ट्वैता᳘मेॗवोर्ध्वां दिशमु᳘दक्रामत्त᳘स्माद्य᳘श्च वे᳘द य᳘श्चॗ 5 नैॗषोर्ध्वा बृ᳘हस्प᳘तेर्दिगि᳘त्येॗवाहुः॥
मूलम् - विस्वरम्
स बृहस्पतिः सवितारमेव प्रसवायोपाधावत् । सविता वै देवानां प्रसविता । इदं मे प्रसुव, त्वत्प्रसूत इदमुज्जयानीति । तद् अस्मै सविता प्रसविता प्रासुवत् । तत्सवितृप्रसूत उदजयत् । स इदं सर्वमभवत् । स इदं सर्वमुदजयत् । प्रजापतिं ह्युदजयत् । सर्वमु ह्येवेदं प्रजापतिः । तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत् । तस्माद् यश्च वेद, यश्च न, एषोर्ध्वा बृहस्पतेर्दिगित्येवाहुः ॥ ४ ॥
सायणः
उत्तरत्र वाजपेयस्य सकलकर्मप्रारम्भे सावित्रहोमो विधास्यते 6 । तदर्थं बृहस्पतेरपि प्रथमं सवितृविषयमुपधावनं दर्शयति- स बृहस्पतिरित्यादिना । तत्राजिं प्रधावन् ‘बृहस्पतिः’ ‘सवितारमेव’ ‘प्रसवाय’ अनुज्ञानाय ‘उपाधावत्’ । इतरदेववद् धावनप्रदेशमेव न लक्षीकृत्य गत इत्येवकारार्थः । सवितुरुपधावने कारणमाह- सविता वा इति । ‘प्रसविता’ अनुज्ञाता । इदं म इति बृहस्पतेः प्रार्थनावाक्यस्यायमर्थः- हे सवितः ! मह्यम् ‘इदं’ वक्ष्यमाणं कार्यं ‘प्रसुव’ अनुजानीहि । “षू प्रेरणे” (धा. पा. तु. प. १२७)- इति धातुः । ‘त्वत्प्रसूतः’ त्वया ऽनुज्ञातः ‘इदम्’ उज्जयानि साधयामि । सर्वदेवेभ्यः पुरस्तात् तेनानुज्ञातः ‘उदजयत्’ । यत उदजयत् ततः ‘स’ ‘इदं’ परिदृश्यमानं ‘सर्व’ जगत् ‘अभवत्’ । सर्वोज्जयेन प्रजापतिमेव जितवान् भवति । अनेन वाजपेयस्य सर्वजगदात्मकप्रजापतिरूपप्राप्तिः फलमित्युक्तं भवति । तेनेष्ट्वेति । तेन वाजपेयेन ‘इष्ट्वा’ बृहस्पतिः ‘ऊर्द्ध्वां दिशमुदक्रामत्’ । यत एवं ‘तस्मात्’ ‘यः’ पुमान् एतामाख्यायिकां बृहस्पतिरिष्ट्वोर्ध्वां दिशं प्राप्तवानित्येवं रूपां ‘वेद’ ‘यो’ वा ‘न’ वेत्ति, ते सर्वे ऽपि ‘ऊर्द्ध्वा दिक् बृहस्पतेः’ स्वभूता ‘इति’ ‘आहुः’ तथा च तैत्तिरीयके समाम्नातम्- “ऊर्ध्वादिशाँ हेमन्तशिशिरावृतूनां बृहस्पतिर्देवता” (तै० सं ४ । ३ । ३ । २) इति ॥ ४ ॥
Eggeling
- Then Br̥haspati hasted up to Savitr̥ for his impulsion 7,–Savitr̥ being the impeller (prasavitr̥) among the gods–saying, ‘Impel this for me, (so that) impelled by thee, I may win this!’ Then Savitr̥, as the impeller, impelled it for him, and impelled by Savitr̥, he won: he became everything here, he won everything here; for he won Prajāpati, and Prajāpati (the lord of creatures and procreation) indeed is everything here. By offering therewith he (Br̥haspati) ascended to that upper region. Therefore who so knoweth, and who so knoweth not,–they say, ‘That upper region belongeth to Br̥haspati.’
०५
विश्वास-प्रस्तुतिः
(स्त) तद्ये᳘ ह स्म पुरा᳘ व्वाजपे᳘येन य᳘जन्ते॥
(न्त ऽ) एता᳘ᳫँ᳭ ह स्मै᳘वोर्ध्वां दि᳘शमु᳘त्क्रामन्ति त᳘त ऽऔ᳘पाविनैव᳘ जानश्रुतेये᳘न प्रत्य᳘वरूढं त᳘तो ऽर्व्वाची᳘नं प्रत्य᳘वरोहन्ति॥
मूलम् - श्रीधरादि
(स्त) तद्ये᳘ ह स्म पुरा᳘ व्वाजपे᳘येन य᳘जन्ते॥
(न्त ऽ) एता᳘ᳫँ᳭ ह स्मै᳘वोर्ध्वां दि᳘शमु᳘त्क्रामन्ति त᳘त ऽऔ᳘पाविनैव᳘ जानश्रुतेये᳘न प्रत्य᳘वरूढं त᳘तो ऽर्व्वाची᳘नं प्रत्य᳘वरोहन्ति॥
मूलम् - Weber
तद्ये᳘ ह स्म पुरा᳘ वाजपे᳘येन य᳘जन्ते॥
एता᳘ᳫं᳘ ह स्मैॗवोर्ध्वा दि᳘शमु᳘त्क्रामन्ति त᳘त औ᳘पाविनैव᳘ जानश्रुतेये᳘न प्रत्य᳘वरूढं त᳘तो ऽर्वाची᳘नम् प्रत्य᳘वरोहन्ति॥
मूलम् - विस्वरम्
तद् ये ह स्म पुरा वाजपेयेन यजन्ते- एतां ह स्मैवोर्ध्वां दिशमुत्क्रामन्ति । तत औपाविनैव जानश्रुतेयेन प्रत्यवरूढम्, ततो ऽर्वाचीनं प्रत्यवरोहन्ति ॥ ५ ॥
सायणः
वाजपेययाजिनस्तदानीमेवोत्क्रमणम्, भूलोके यावदत्यन्तभोगाभिलाषस्तावदिहावस्थानम्; तत्र जानश्रुतेयो यज्ञमित्युभयमुपपादयति- तद्ये ह स्मेति । यद्वा उत्तरत्र यूपारोहणं “वो रोहाव” (तै० ब्रा० १ । ३ । ७ । २) (तै० सं० १ । ७ । ९ । १) इति मन्त्रलिङ्गात् स्वर्गारोहणप्रतिनिधित्वेन वक्ष्यते 8 । ‘ततः’ स्वर्गरूपाद् यूपादवरोहणं जानश्रुतेनैव पूर्वं कृतमित्यर्थः । प्रत्यवरोहश्च लिङ्गादनुमीयत इत्याह- तद् ये हेति । अथ वाजपेययाजिनः “अग्नेष्ट्वा साम्राज्येनाभिषिञ्चामि” (तै० सं० १ । ७ । १० । ३ ।) इत्याद्यैर्मंत्रलिङ्गैरग्न्यादिसाम्राज्ये ऽभिषिक्तत्वाद् देववदेव- सो ऽपि मनुष्यं प्रति गजादिवाहनान्न प्रत्यवरोहेदिति प्रत्यवरोहप्रतिषेधो विहितस्तैत्तिरीयके- “तस्माद् वाजपेययाजी न कञ्चन प्रत्यवरोहति” इति (तै० ब्रा० १ । ३ । ९ । २) न च प्रत्यवरोहणं विहितम् । आपस्तम्बेन तु तन्निषेधस्तदुपायश्च दर्शितः- “यावज्जीवं न कञ्चन प्रत्यवरोहेत् बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत” इति । तस्मादुभयत्रानुग्राहकमिदं ब्राह्मणमित्याह- तद् ये ह स्मेति । अक्षरार्थस्तु- ‘तत्’ तस्माद् बृहस्पतिना ऽनुष्ठितत्वाद् ये ‘पुरा’ पूर्वं ‘वाजपेयेन यजन्ते,’ ते सर्वे ऊर्ध्वं गच्छन्ति, ‘ततः’ ऊर्ध्वदिशः सकाशात् ‘जानश्रुतेयेन’ जानश्रुतेः पुत्रेण ‘औपाविना’ तन्नाम्ना ‘एव’ एकेन राजर्षिणा ‘प्रत्यवरूढं’ प्रत्यवरोहः कृतः । भावे निष्ठा । “इतश्चानिञः (पा० सू० ४ । १ । १२२)” इति जनश्रुतेर्ढक् प्रत्ययः । ‘ततः’ आरभ्य इदानीमनुष्ठातारो ऽपि ‘अर्वाचीनम्’ अवाङ्मुखं ‘प्रत्यवरोहन्ति’ इति ॥ ५ ॥
Eggeling
- Thus they who of old used to offer the Vājapeya, ascended to that upper region. From there Aupāvi Jānaśruteya descended again: thenceforward (all men) descend again.
०६
विश्वास-प्रस्तुतिः
तेने᳘न्द्रो ऽयजत॥
स᳘ इदᳫँ᳭ स᳘र्व्वमभवत्स᳘ इदᳫँ᳭ स᳘र्व्वमु᳘दजयत्प्रजा᳘पति᳘ᳫँ᳘ ह्युद᳘जयत्स᳘र्व्वमु᳘ ह्येवेदं᳘[[!!]] प्रजा᳘पतिस्ते᳘ने᳘ष्ट्वैता᳘मे᳘वोर्ध्वां दि᳘शमु᳘दक्रामत्॥
मूलम् - श्रीधरादि
तेने᳘न्द्रो ऽयजत॥
स᳘ इदᳫँ᳭ स᳘र्व्वमभवत्स᳘ इदᳫँ᳭ स᳘र्व्वमु᳘दजयत्प्रजा᳘पति᳘ᳫँ᳘ ह्युद᳘जयत्स᳘र्व्वमु᳘ ह्येवेदं᳘[[!!]] प्रजा᳘पतिस्ते᳘ने᳘ष्ट्वैता᳘मे᳘वोर्ध्वां दि᳘शमु᳘दक्रामत्॥
मूलम् - Weber
तेने᳘न्द्रो ऽयजत॥
स᳘ इदᳫं स᳘र्वमभवत्स᳘ इदᳫं स᳘र्वमु᳘दजयत्प्रजा᳘पतिॗᳫंॗ ह्युद᳘जयत्स᳘र्वमुॗ ह्येॗवेद᳘म् प्रजा᳘पतिस्ते᳘नेॗष्ट्वैता᳘मेॗवोर्ध्वां दि᳘शमु᳘दक्रामत्॥
मूलम् - विस्वरम्
तेनेन्द्रो ऽयजत । स इदं सर्वमभवत् । स इदं सर्वमुदजयत् । प्रजापतिं ह्युदजयत् । सर्वमुह्येवेदं प्रजापतिः । तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत् ॥ ६ ॥
सायणः
एवं वाजपेये ब्राह्मणस्याधिकारविधिमुन्नेतुं बृहस्पतिवृत्तान्तं प्रदर्श्य क्षत्रियस्यापि तं समर्थयितुमिन्द्रवृत्तान्तं दर्शयति- तेनेन्द्रो ऽयजतेति । निगदव्याख्यातो ऽर्थः । अस्मिन् पर्याये ऽपि ‘तद्ये ह स्म’- इति वाक्यसन्दर्भः पूर्ववद् व्याख्येयः ॥ ६ ॥ ७ ॥
Eggeling
- Indra offered that (Vājapeya),–he became everything here, he won everything here; for he won Prajāpati, and Prajāpati is everything here: by offering therewith he ascended to that upper region.
०७
विश्वास-प्रस्तुतिः
तद्ये᳘ ह स्म पुरा᳘ व्वाजपे᳘येन य᳘जन्ते॥
(न्त ऽ) एता᳘ᳫँ᳘ ह स्मै᳘वोर्ध्वां दि᳘शमु᳘त्क्रामन्ति त᳘त ऽऔ᳘पाविनैव᳘ जानश्रुतेये᳘न प्रत्य᳘वरूढं त᳘तो ऽर्व्वाची᳘नं प्रत्य᳘वरोहन्ति॥
मूलम् - श्रीधरादि
तद्ये᳘ ह स्म पुरा᳘ व्वाजपे᳘येन य᳘जन्ते॥
(न्त ऽ) एता᳘ᳫँ᳘ ह स्मै᳘वोर्ध्वां दि᳘शमु᳘त्क्रामन्ति त᳘त ऽऔ᳘पाविनैव᳘ जानश्रुतेये᳘न प्रत्य᳘वरूढं त᳘तो ऽर्व्वाची᳘नं प्रत्य᳘वरोहन्ति॥
मूलम् - Weber
तद्ये᳘ ह स्म पुरा᳘ वाजपे᳘येन य᳘जन्ते॥
एता᳘ᳫं᳘ ह स्मैॗवोर्ध्वां दि᳘शमु᳘त्क्रामन्ति त᳘त औ᳘पाविनैव᳘ जानश्रुतेये᳘न प्रत्य᳘वरूढं त᳘तो ऽर्वाची᳘नम् प्रत्य᳘वरोहन्ति॥
मूलम् - विस्वरम्
तद् ये ह स्म पुरा वाजपेयेन यजन्ते एतां ह स्मैवोर्ध्वां दिशमुत्क्रामन्ति । तत् औपाविनैव जानश्रुतेयेन प्रत्यवरूढम्, ततो ऽर्वाचीनं प्रत्यवरोहन्ति ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Thus they who of old used to offer the Vājapeya, ascended to that upper region. From there Aupāvi Jānaśruteya descended’ again: thenceforward (all men) descend again.
०८
विश्वास-प्रस्तुतिः
स यो᳘ व्वाजपे᳘येन य᳘जते॥
स᳘ इदᳫँ᳭ स᳘र्व्वं भवति स᳘ इदᳫँ᳭ स᳘र्व्वमु᳘ज्जयति प्रजा᳘पति᳘ᳫँ᳭ ह्युज्जयति[[!!]] स᳘र्व्वमु᳘ह्येवेदं᳘[[!!]] प्रजा᳘पतिः॥
मूलम् - श्रीधरादि
स यो᳘ व्वाजपे᳘येन य᳘जते॥
स᳘ इदᳫँ᳭ स᳘र्व्वं भवति स᳘ इदᳫँ᳭ स᳘र्व्वमु᳘ज्जयति प्रजा᳘पति᳘ᳫँ᳭ ह्युज्जयति[[!!]] स᳘र्व्वमु᳘ह्येवेदं᳘[[!!]] प्रजा᳘पतिः॥
मूलम् - Weber
स यो᳘ वाजपे᳘येन य᳘जते॥
स᳘ इदᳫं स᳘र्वम् भवति स᳘ इदᳫं स᳘र्वमु᳘ज्जयति प्रजा᳘पतिॗᳫंॗ ह्युज्ज᳘यति स᳘र्वमुॗ ह्येॗवेद᳘म् प्रजा᳘पतिः॥
मूलम् - विस्वरम्
स यो वाजपेयेन यजते । स इदं सर्वं भवति । स इदं सर्वमुज्जयति । प्रजापतिं ह्युज्जयति । सर्वमु ह्येवेदं प्रजापतिः ॥ ८ ॥
सायणः
इत्थमाख्यायिकया वाजपेये ब्राह्मणराजन्यावधिकारिणौ प्रदर्श्य, 9 इदानीं तं वाजपेयं विधत्ते- स यो वाजपेयेन यजत इत्यादिना 10 ॥ ८ ॥
Eggeling
- And whosoever offers the Vājapeya, he becomes everything here, he wins everything here; for he wins Prajāpati, and Prajāpati indeed is everything here.
०९
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्न᳘) न᳘ व्वाजपे᳘येन यजे᳘त स᳘र्व्वं वा᳘ ऽएष᳘ ऽइदमु᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते प्रजा᳘पति᳘ᳫँ᳘ ह्युज्ज᳘यति स᳘र्व्वमु᳘ ह्ये᳘वेदं प्रजा᳘पतिः स᳘ ऽइह न कि᳘ञ्चन प᳘रिशिनष्टि त᳘स्येश्वरः᳘ प्रजा पा᳘पीयसी भ᳘वितोरि᳘ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्न᳘) न᳘ व्वाजपे᳘येन यजे᳘त स᳘र्व्वं वा᳘ ऽएष᳘ ऽइदमु᳘ज्जयति यो᳘ व्वाजपे᳘येन य᳘जते प्रजा᳘पति᳘ᳫँ᳘ ह्युज्ज᳘यति स᳘र्व्वमु᳘ ह्ये᳘वेदं प्रजा᳘पतिः स᳘ ऽइह न कि᳘ञ्चन प᳘रिशिनष्टि त᳘स्येश्वरः᳘ प्रजा पा᳘पीयसी भ᳘वितोरि᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
न᳘ वाजपे᳘येन यजे᳘त स᳘र्वं वा᳘ एष᳘ इदमु᳘ज्जयति यो᳘ वाजपे᳘येन य᳘जते प्रजा᳘पतिॗᳫंॗ ह्युज्ज᳘यति स᳘र्वमुॗ ह्येॗवेदम् प्रजा᳘पतिः स᳘ इह न किं᳘ चन प᳘रिशिनष्टि त᳘स्येश्वरः᳘ 11 प्रजा पा᳘पीयसी भ᳘वितोरि᳘ति॥
मूलम् - विस्वरम्
तदाहुः न वाजपेयेन यजेत । सर्वं वा ऽएष इदमुज्जयति- यो वाजपेयेन यजते । प्रजापतिं ह्युज्जयति, सर्वमु ह्येवेदं प्रजापतिः । स इह न किञ्चन परिशिनष्टि । तस्येश्वरः प्रजा पापीयसी भवितोरिति ॥ ९ ॥
सायणः
सर्वजयेन विराडात्मकप्रजापतिजयस्यानुचितत्वात् तत्साधनभूतो वाजपेयो न कर्त्तव्य इति पूर्वपक्षमुद्भावयति- तदाहुर्न वाजपेयेनेत्यादि 9 । इह न किञ्चनेति । सर्वात्मकप्रजापतिजयेन ‘इह’ लोके ‘न किञ्चन’ परिशिष्टम्; तस्मात् ‘तस्य’ यजमानस्य ‘प्रजा’ ‘पापीयसी’ अतिशयेन दारिद्र्यवती ‘भवितोः’ भवितुम् ‘ईश्वरः’ समर्था, ‘इति’ अतो हेतोः वाजपेयो न कर्त्तव्य इति ॥ ९ ॥
Eggeling
- Here now they say, ‘One must not offer the Vājapeya; for he who offers the Vājapeya wins everything here,–for he wins Prajāpati, and Prajāpati is everything here,–he leaves nothing remaining here: his people (or offspring) is like to become worse (off).’
१०
विश्वास-प्रस्तुतिः
त᳘दु वै य᳘जेतैव[[!!]]॥
य᳘ ऽएव᳘मेतं᳘ यज्ञं᳘ कॢप्तं᳘ व्विद्यु᳘र्ऋक्तो᳘ यजुष्टः᳘ सामतो ये᳘ प्रज᳘ज्ञयस्त᳘ ऽएनं याजयेयुरेषा᳘ ह᳘ त्वे᳘वैत᳘स्य यज्ञ᳘स्य स᳘मृद्धिर्य᳘देनं व्विद्वा᳘ᳫँ᳘सो याज᳘यन्ति त᳘स्मादु य᳘जेतैव[[!!]]॥
मूलम् - श्रीधरादि
त᳘दु वै य᳘जेतैव[[!!]]॥
य᳘ ऽएव᳘मेतं᳘ यज्ञं᳘ कॢप्तं᳘ व्विद्यु᳘र्ऋक्तो᳘ यजुष्टः᳘ सामतो ये᳘ प्रज᳘ज्ञयस्त᳘ ऽएनं याजयेयुरेषा᳘ ह᳘ त्वे᳘वैत᳘स्य यज्ञ᳘स्य स᳘मृद्धिर्य᳘देनं व्विद्वा᳘ᳫँ᳘सो याज᳘यन्ति त᳘स्मादु य᳘जेतैव[[!!]]॥
मूलम् - Weber
त᳘दु वै य᳘जेतैव᳟॥
य᳘ एव᳘मेतं᳘ यज्ञं᳘ कॢप्तं᳘ विद्यु᳘रृक्तो᳘ 12 यजुष्टः᳘ सामतो ये᳘ प्रज᳘ज्ञयस्त᳘ एनं याजयेयुरेषा᳘ हॗ त्वेत᳘स्य यज्ञ᳘स्य स᳘मृद्धिर्य᳘देनं विद्वा᳘ᳫं᳘सो याज᳘यन्ति त᳘स्मादु य᳘जेतैव᳟॥
मूलम् - विस्वरम्
तदु वै यजेतैव । य एवमेतं यज्ञं क्लृप्तं विद्युः- ऋक्तो यजुष्टः सामतः, ये प्रजज्ञयः त ऽएनं याजयेयुः । एषा ह त्वेवैतस्य यज्ञस्य समृद्धिः- यदेनं विद्वांसो याजयन्ति । तस्मादु यजेतैव ॥ १० ॥
सायणः
तन्निषेधमधिकारिविशेषनिरूपणेन परिहरति- तदु वै यजेतैवेति । सर्वथा वाजपेययागाः कर्त्तव्य इत्यवधारणार्थः । तत्र विदुष एव यष्टृत्वं विदुषामेव याजयितृत्वमित्युभयमेवोपपादयति- य एवमिति । ‘यः’ पुमान् ‘एतं’ वाजपेयं यज्ञम्, ऋगादिवेदत्रयेण ‘क्लुप्तं’ सेतिकर्त्तव्यत्वेन विहित इति ‘विद्यात्’ जानीयात्, ‘ये’ च ‘प्रजज्ञयः’ प्रज्ञातवन्तः साङ्गोपाङ्गं कर्म ज्ञातवन्त ऋत्विजः, ‘ते’ ‘एनम्’ अन्वादिष्टं विद्वांसं यष्टारं ‘याजयेयुः’ । अतः साधारणैर्वाजपेययागो न कर्त्तव्य इत्यभिप्रायेण “न वाजपेयेन यजेत”- इत्युक्तम् । एषा ह त्वेवैतस्येति । क्रियाकुशलानामृत्विजां याजयितृत्वमेव यज्ञसमृद्धिः; अङ्गवैकल्याभावेन यज्ञसम्पूर्तेः सम्भवात् ॥ १० ॥
Eggeling
- Let him none the less sacrifice: whatever (priests) thus know that sacrifice properly, in respect of the Ric, the Yajus, and the Sāman, and such as are proficient, let them assist him in offering it; for verily this is the perfection of that sacrifice, when wise (priests) assist him in offering it: let him therefore sacrifice by all means.
११
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ ब्राह्मण᳘स्यैव᳘ यज्ञः[[!!]]॥
(ज्ञो) य᳘देनेन बृ᳘हस्प᳘तिर᳘यजत ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणो᳘ ऽथो राज᳘न्यस्य[[!!]] य᳘देनेनेन्द्रो᳘ ऽयजत क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ ब्राह्मण᳘स्यैव᳘ यज्ञः[[!!]]॥
(ज्ञो) य᳘देनेन बृ᳘हस्प᳘तिर᳘यजत ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणो᳘ ऽथो राज᳘न्यस्य[[!!]] य᳘देनेनेन्द्रो᳘ ऽयजत क्षत्रᳫँ᳭ ही᳘न्द्रः क्षत्र᳘ᳫँ᳘ राज᳘न्यः[[!!]]॥
मूलम् - Weber
स वा᳘ एष᳘ ब्राह्मण᳘स्यैव यज्ञः᳟॥
य᳘देनेन बृ᳘हस्प᳘तिर᳘यजत ब्र᳘ह्म हि बृ᳘हस्प᳘तिर्ब्र᳘ह्म हि᳘ ब्राह्मणो᳘ ऽथो राजन्य᳘स्य य᳘देनेनेन्द्रो᳘ ऽयजत क्षत्रᳫं ही᳘न्द्रं क्षत्रं᳘ राजन्यः᳟॥
मूलम् - विस्वरम्
स वा ऽएष ब्राह्मणस्यैव यज्ञः- यदेनेन बृहस्पतिरयजत । ब्रह्म हि बृहस्पतिः । ब्रह्म हि ब्राह्मणः । अथो राजन्यस्य- यदेनेनेन्द्रो ऽयजत । क्षत्रं हीन्द्रः । क्षत्रं राजन्यः ॥ ११ ॥
सायणः
तत्र वाजपेये अधिकारिविधिमुन्नयति- स वा एष ब्राह्मणस्येति । यतो बृहस्पतिना ऽनुष्ठितः, यतो देवानां मध्ये बृहस्पतिः ब्राह्मणजात्यभिमानी, ब्राह्मणबृहस्पत्योर्ब्रह्मसम्बन्धाद् ऐकरूप्यम्; ‘ब्रह्म अधीते वेद वा ब्राह्मणः’- इति व्युत्पत्तेः । इन्द्रेणाप्ययमनुष्ठितः, यतो देवानां मध्ये इन्द्रः क्षत्रियजात्यभिमानी । इन्द्रराजन्ययोः क्षत्रसम्बन्धादिकरूप्यम् । क्षत्रं नाम बलम्, तत्सद्भावात् उभयोः । अतो मनुष्येष्वपि ब्राह्मणराजन्ययोरेवाधिकारो न तु वैश्यस्य । अत एव कात्यायनेनोक्तम्- “वाजपेयः शरद्यवैश्यस्य”- (का. श्रौ. सू. १४ । १) इति ॥ ११ ॥
Eggeling
- Now truly this (the Vājapeya) is the Brāhmaṇa’s own sacrifice, inasmuch as Br̥haspati (the lord of prayer and devotion) performed it; for Br̥haspati is the Brahman (priesthood, or priestly dignity), and the Brāhmaṇa is the Brahman. And it is also that of the Rājanya, inasmuch as Indri performed it; for Indra is the Kshatra (nobility, or ruling power), and the Rājanya is the Kshatra.
१२
विश्वास-प्रस्तुतिः
(न्यो) रा᳘ज्ञ एव᳘ राजसू᳘यम्॥
(ᳫँ᳭) रा᳘जा वै᳘ राजसू᳘येनेष्ट्वा᳘ भवति न वै᳘ ब्राह्मणो᳘ राज्याया᳘लम᳘वरं वै᳘ राजसू᳘यं प᳘रं वाजपे᳘यम्॥
मूलम् - श्रीधरादि
(न्यो) रा᳘ज्ञ एव᳘ राजसू᳘यम्॥
(ᳫँ᳭) रा᳘जा वै᳘ राजसू᳘येनेष्ट्वा᳘ भवति न वै᳘ ब्राह्मणो᳘ राज्याया᳘लम᳘वरं वै᳘ राजसू᳘यं प᳘रं वाजपे᳘यम्॥
मूलम् - Weber
रा᳘ज्ञ एव᳘ राजसू᳘यम्॥
रा᳘जा वैॗ राजसू᳘येनेष्ट्वा᳘ भवति न वै᳘ ब्राह्मणो᳘ राज्याया᳘लम᳘वरं वै᳘ राजसू᳘यम् प᳘रं वाजपे᳘यम्॥
मूलम् - विस्वरम्
राज्ञ एव राजसूयम् । राजा वै राजसूयेनेष्ट्वा भवति । न वै ब्राह्मणो राज्यायालम् । अवरं वै राजसूयम्, परं वाजपेयम् ॥ १२ ॥
सायणः
वाजपेयस्य साम्राज्यं फलमिति वक्तुं प्रसङ्गात् राजसूयस्याधिकारिभेदेन फलभेदेन वा अवरत्वं दर्शयति- राज्ञ एव राजसूयमित्यादिना 13 । एवकारो ऽन्ययोगव्यवच्छेदार्थः । राजशब्देन क्षत्रिय उच्यते, न तु राज्ययोगाद्राजेति व्युत्पत्त्या ब्राह्मणादिर्विवक्ष्यते । अवरं वा इति । राजसूयाख्यं कर्म ‘अवरं’ निकृष्टम्; कतिपयदेशाधिपतित्वलक्षणराज्यफलमात्रसाधनत्वात् । वाजपेयाख्यं कर्मैव ‘परम्’ उत्कृष्टम्; सर्वदेशाधिपतित्वरूपसाम्राज्यफलसाधनत्वात् । राज्यात् साम्राज्यस्याधिक्यमाह- कामयेत वै राजेति ॥ १२ ॥ १३ ॥
Eggeling
- To the king (rājan) doubtless belongs the Rājasūya; for by offering the Rājasūya he becomes king; and unsuited for kingship is the Brāhmaṇa. And, moreover, the Rājasūya is the lower, and the Vājapeya the higher (sacrifice).
१३
विश्वास-प्रस्तुतिः
(ᳫँ᳭) रा᳘जा वै᳘ राजसू᳘येनेष्ट्वा᳘ भवति॥
सम्रा᳘ड्वाजपे᳘येना᳘वरᳫँ᳭ हि᳘ राज्यं प᳘रᳫँ᳭ सा᳘म्राज्यं काम᳘येत वै रा᳘जा सम्राड् भ᳘वितुम᳘वरᳫँ᳭ हि᳘ राज्यं प᳘रᳫँ᳭ सा᳘म्राज्यं न᳘ सम्रा᳘ट्कामयेत रा᳘जा भ᳘वितुम᳘वरᳫँ᳭ हि᳘ राज्यं प᳘रᳫँ᳭ सा᳘म्राज्यम्॥
मूलम् - श्रीधरादि
(ᳫँ᳭) रा᳘जा वै᳘ राजसू᳘येनेष्ट्वा᳘ भवति॥
सम्रा᳘ड्वाजपे᳘येना᳘वरᳫँ᳭ हि᳘ राज्यं प᳘रᳫँ᳭ सा᳘म्राज्यं काम᳘येत वै रा᳘जा सम्राड् भ᳘वितुम᳘वरᳫँ᳭ हि᳘ राज्यं प᳘रᳫँ᳭ सा᳘म्राज्यं न᳘ सम्रा᳘ट्कामयेत रा᳘जा भ᳘वितुम᳘वरᳫँ᳭ हि᳘ राज्यं प᳘रᳫँ᳭ सा᳘म्राज्यम्॥
मूलम् - Weber
रा᳘जा वै᳘ राजसू᳘येनेष्ट्वा᳘ भवति॥
सम्रा᳘ङ्वाजपे᳘येना᳘वरᳫं हि᳘ राज्यम् प᳘रᳫं सा᳘म्राज्यं काम᳘येत वै रा᳘जा सम्राड् भ᳘वितुम᳘वरᳫं हि᳘ राज्यम् प᳘रᳫं सा᳘म्राज्यं न᳘ सम्रा᳘ट्कामयेत रा᳘जा भवितुम᳘वरᳫं हि᳘ राज्यम् प᳘रᳫं सा᳘म्राज्यम्॥
मूलम् - विस्वरम्
राजा वै राजसूयेनेष्ट्वा भवति सम्राड्वाजपेयेन । अवरं हि राज्यम्, परं साम्राज्यम् । कामयेत वै राजा सम्राड्भवितुम् । अवरं हि राज्यम्, परं साम्राज्यम् । न सम्राट् कामयेत राजा भवितुम् । अवरं हि राज्यम्, परं साम्राज्यम् ॥ १३ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- For by offering the Rājasūya 14 he becomes king, and by the Vājapeya (he becomes) emperor (samrāj); and the office of king is the lower, and that of emperor the higher: a king might indeed wish to become emperor, for the office of king is the lower, and that of emperor the higher; but the emperor would not wish to become king, for the office of king is the lower, and that of emperor the higher.
१४
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स यो᳘ व्वाजपे᳘येनेष्ट्वा᳘ सम्राड्भ᳘वति॥
स᳘ इदᳫँ᳭ स᳘र्व्वᳫँ᳭ सं᳘वृङ्क्ते स क᳘र्मणः कर्मणः पुर᳘स्तादेता᳘ᳫँ᳘ सावित्रीमा᳘हुतिं जुहोति दे᳘व सवितः प्र᳘सुव यज्ञं प्र᳘सुव यज्ञ᳘पतिं भ᳘गाये᳘ति॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स यो᳘ व्वाजपे᳘येनेष्ट्वा᳘ सम्राड्भ᳘वति॥
स᳘ इदᳫँ᳭ स᳘र्व्वᳫँ᳭ सं᳘वृङ्क्ते स क᳘र्मणः कर्मणः पुर᳘स्तादेता᳘ᳫँ᳘ सावित्रीमा᳘हुतिं जुहोति दे᳘व सवितः प्र᳘सुव यज्ञं प्र᳘सुव यज्ञ᳘पतिं भ᳘गाये᳘ति॥
मूलम् - Weber
स यो᳘ वाजपे᳘येनेष्ट्वा᳘ सम्राड् भ᳘वति॥
स इदᳫं स᳘र्वᳫं सं᳘वृङ्क्ते स क᳘र्मणः-कर्मणः पुर᳘स्तादेता᳘ᳫं᳘ सावित्रीमा᳘हुतिं जुहोति दे᳘व सवितः प्र᳘सुव यज्ञम् प्र᳘सुव यज्ञ᳘पतिम् भ᳘गाये᳘ति॥
मूलम् - विस्वरम्
स यो वाजपेयेनेष्ट्वा सम्राड्भवति । स इदं सर्वं संवृङ्क्ते । स कर्मणः कर्मणः पुरस्तादेतां सावित्रीमाहुतिं जुहोति- “देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय”- (वा० सं० ९ । १) इति ॥ १४ ॥
सायणः
अथ वाजपेयस्य साम्राज्यफलं दर्शयति- स यो वाजपेयेनेति । ‘स’ सम्राट् वाजपेययाजी ‘इदं’ परिदृश्यमानं ‘सर्वं’ जगत् ‘संवृङ्क्ते’ संवर्जयति, वशीकरोतीत्यर्थः । एवं साम्राज्यफलं वाजपेयं विधाय तत्र कर्मादौ सावित्रहोमं विधत्ते- स कर्मणः कर्मण इति । कर्मणः कर्मण इति वीप्सया सर्वकर्मादौ कर्त्तव्यत्वमभिधीयते । येषां कर्मणामादौ सावित्रहोमः कर्तव्यः, तानि कर्माणि कात्यायनेन सङ्गृहीतानि- “देवसवितरिति जुहोति यजत्यादिषु, सकृद् दीक्षारम्भे कर्मैकत्वात्, क्रयणवेद्यारम्भणप्रवर्ग्योत्सादनाग्निप्रणयनहविर्द्धानाग्नीषोमाणां सदआग्नीध्रधिष्ण्यनिवपनवसतीवरीग्रहणपरिहरणेषु च कर्मान्तरत्वात्” इति ॥ (का० श्रौ० सू० १४-११-१३) तत्र मंत्रं विधत्ते- देव सवितरिति । तस्य मन्त्रस्यायमर्थः; हे ‘सवितः देव’ प्रेरक अन्तर्यामिन् ‘यज्ञं’ वाजपेयं ‘प्रसुव’ प्रवर्तय, ‘यज्ञपतिं’ यजमानं ‘भगाय’ अनुष्ठानरूपायैश्वर्याय ‘दिव्यः’ दिवि भवः यो ‘गन्धर्वः’ सवितुरनुग्रहात् ‘केतपूः’ केतान् पुनाति, प्राणिनां विज्ञानानि शोधयन् भवति, सः ‘नः’ अस्माकं ‘केतं’ वाजपेयविज्ञानं ‘पुनातु’ शोधयतु । वाचस्पतिः प्रजापतिश्च सवित्रा ऽनुज्ञातः ‘नः’ अस्मदीयं ‘वाजं’ हवीरूपमन्नम् अत्र अस्मिन्नहनि ‘स्वदतु’ स्वदयतु ॥ १४ ॥
Eggeling
- Thus that (king) who, by performing the Vājapeya, becomes emperor, possesses himself of everything here. Previously to each performance (of an ishṭi 15) he offers that oblation to Savitr̥ (the sun), with the text, ‘O divine Savitr̥, impel (prosper) the sacrifice, impel Prajāpati for his portion!’
१५
विश्वास-प्रस्तुतिः
तद्य᳘थै᳘वादो बृ᳘हस्प᳘तिः॥
सविता᳘रं प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत उद᳘जयदेव᳘मे᳘वैष᳘ ऽएत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता᳘ वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता[[!!]] प्रसविता प्र᳘सौति त᳘त्सवितृ᳘प्रसूत ऽउ᳘ज्जयति॥
मूलम् - श्रीधरादि
तद्य᳘थै᳘वादो बृ᳘हस्प᳘तिः॥
सविता᳘रं प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत उद᳘जयदेव᳘मे᳘वैष᳘ ऽएत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता᳘ वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुव त्व᳘त्प्रसूत ऽइदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता[[!!]] प्रसविता प्र᳘सौति त᳘त्सवितृ᳘प्रसूत ऽउ᳘ज्जयति॥
मूलम् - Weber
तद्य᳘थैॗवादो बृ᳘हस्प᳘तिः॥
सविता᳘रम् प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नाम् प्रसविॗतेद᳘म् मे प्र᳘सुव त्व᳘त्प्रसूत इदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘त्सवितृ᳘प्रसूत उद᳘जयदेव᳘मेॗव᳘इष᳘ एत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नाम् प्रसविॗतेद᳘म् मे प्र᳘सुव त्व᳘त्प्रसूत इदमु᳘ज्जयानी᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘त्सवितृ᳘प्रसूत उ᳘ज्जयति॥
मूलम् - विस्वरम्
तद् यथैवादो बृहस्पतिः सवितारं प्रसवायोपाधावत् । सविता वै देवानां प्रसविता । इदं मे प्रसुव, त्वत्प्रसूत इदमुज्जयानीति । तदस्मै सविता प्रसविता प्रासुवत् । तत् सवितृप्रसूत उदजयत् । एवमेवैष एतत् सवितारमेव प्रसवायोपधावति । सविता वै देवानां प्रसविता । इदं मे प्रसुव । त्वत्प्रसूत इदमुज्जयानीति । तदस्मै सविता प्रसविता प्रसौति । तस्मात्सवितृप्रसूत उज्जयति ॥ १५ ॥
सायणः
सवितुरुपधावनं बृहस्पतिसम्बन्धेन स्तौति- तद्यथैवाद इति । ‘अदः’ अस्मिन् विप्रकृष्टे पूर्वस्मिन् काले यथा ‘बृहस्पतिः सवितारम्’ ‘उपाधावत्’, ततः तस्मै सविता चानुज्ञां ददौ, एवम् ‘एषः’ इदानीमनुष्ठाता ऽपि तमेव ‘उपधावति’, तस्मै च ‘प्रसविता’ प्रेरयिता सविता प्रसौति, अनुजानातीत्यर्थः ॥ १५ ॥
Eggeling
- And even as then Br̥haspati hasted up to Savitr̥ for his impulsion Savitr̥ being the impeller among the gods–saying, ‘Impel this for me, (so that) impelled by thee I may win it!’ and Savitr̥, as the impeller, impelled it for him; and impelled by Savitr̥ he won it; even so does this (sacrificing king) now haste up to Savitr̥ for his impulsion–Savitr̥ being the impeller among the gods–saying, ‘Impel this for me: may I win it, impelled by thee!’ and Savitr̥, as the impeller, impels it for him, and he wins it impelled by Savitr̥.
१६
विश्वास-प्रस्तुतिः
त᳘स्मादाह॥
दे᳘व सवितः प्र᳘सुव यज्ञं प्र᳘सुव यज्ञ᳘पतिं भ᳘गाय। दिव्यो᳘ गन्धर्व्वः᳘ केतपूः के᳘तं नः पुनातु व्वाचस्प᳘तिर्व्वा᳘जं नः स्वदतु स्वाहे᳘ति प्रजा᳘पतिर्व्वै᳘ व्वाचस्प᳘तिर᳘न्नं व्वा᳘जः प्रजा᳘पतिर्न ऽइद᳘मद्या᳘न्नᳫँ᳭ स्वदत्वि᳘त्ये᳘वैत᳘दाह स᳘ ऽएता᳘मेवा᳘हुतिं जुहोत्या᳘ श्वः सुत्या᳘या ऽएत᳘द्ध्यस्यैतत्कर्मा᳘रब्धं[[!!]] भ᳘वति प्र᳘सन्न ऽएतं᳘ यज्ञं᳘ भवति॥
मूलम् - श्रीधरादि
त᳘स्मादाह॥
दे᳘व सवितः प्र᳘सुव यज्ञं प्र᳘सुव यज्ञ᳘पतिं भ᳘गाय। दिव्यो᳘ गन्धर्व्वः᳘ केतपूः के᳘तं नः पुनातु व्वाचस्प᳘तिर्व्वा᳘जं नः स्वदतु स्वाहे᳘ति प्रजा᳘पतिर्व्वै᳘ व्वाचस्प᳘तिर᳘न्नं व्वा᳘जः प्रजा᳘पतिर्न ऽइद᳘मद्या᳘न्नᳫँ᳭ स्वदत्वि᳘त्ये᳘वैत᳘दाह स᳘ ऽएता᳘मेवा᳘हुतिं जुहोत्या᳘ श्वः सुत्या᳘या ऽएत᳘द्ध्यस्यैतत्कर्मा᳘रब्धं[[!!]] भ᳘वति प्र᳘सन्न ऽएतं᳘ यज्ञं᳘ भवति॥
मूलम् - Weber
त᳘स्मादाह॥
दे᳘व सवितः प्र᳘सुव यज्ञम् प्र᳘सुव यज्ञ᳘पतिम् भ᳘गाय दिव्यो᳘ गन्धर्वः᳘ केतपूः के᳘तं नः पुनातु वाचस्प᳘तिर्वा᳘जं नः स्वदतु स्वाहे᳘ति प्रजा᳘पतिर्वै᳘ वाचस्प᳘तिर᳘न्नं वा᳘जः प्रजा᳘पतिर्न इद᳘मद्या᳘न्नᳫं स्वदत्वि᳘त्येॗवैत᳘दाह स᳘ एता᳘मेवा᳘हुतिं जुहोत्या᳘ श्वःसुत्या᳘या एतद्ध्य᳘स्यैतत्कर्मा᳘रब्धम् भ᳘वति प्र᳘सन्न एतं᳘ यज्ञ᳘म् भवति॥
मूलम् - विस्वरम्
तस्मादाह- “देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः । केतपूः केतं नः पुनातु, वाचस्पतिर्वाजं नः स्वदतु स्वाहा” (वा० सं० ९ । १) इति । प्रजापतिर्वै वाचस्पतिः । अन्नं वाजः । प्रजापतिर्न इदमद्यान्नं स्वदत्वित्येवैतदाह । स एतामेवाहुतिं जुहोति । आ श्वः सुत्यायाः । एतद्ध्यस्यैतत्कर्मारब्धं भवति । प्रसन्न एतं यज्ञं भवति ॥ १६ ॥
सायणः
तस्मादाहेति । सावित्रहोमस्य संकुचद्वृत्तितां दर्शयति- आ श्वः सुत्याया इति । आङ् मर्यादायाम् । श्वः । ‘सुत्यायाः’ सुत्यादिनात् पूर्वम्, नोत्तरत्रेत्यर्थः । अत एव कात्यायनः- “प्राक् सुत्यायाः” इति ॥ (का० श्रौ० सू० १४ । १३ ।) ॥ १६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये पञ्चमकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (५-१-१) ॥
Eggeling
- Wherefore he says (Vāj. S. IX, 1), ‘God Savitr̥, speed the sacrifice, speed the lord of sacrifice unto his portion! May the heavenly. thought-cleansing Gandharva cleanse our thought! May the Lord of Speech render our meat palatable, hail!’ For the Lord of Speech is Prajāpati, and meat means food: ‘May Prajāpati this day make palatable this our food!’ thus he thereby says. This same oblation he offers till the day before the Soma-feast, for thus that performance of his has been commenced; and he (Savitr̥, the Sun) becomes serene during that sacrifice.
-
1:1 Lit. ’the mouth,’ i.e. the opening or beginning, of ruin. The St. Petersburg Dict. compares Prov. xvi. 18: ‘Pride goeth before destruction, and an haughty spirit before a fall.’ ↩︎
-
1:2 Prajāpati (the lord of creatures or generation) is both the sacrifice and the year (time); see III, 2, 2, 4. ↩︎
-
1:3 See II, 4, 2, 1. To them (the gods) he (Prajāpati) said, ‘The sacrifice (shall be) your food, immortality your sustenance (ūrj), and the sun your light!’ ↩︎
-
1:4 For the neuter idam–hardly here ’this universe,’ or ‘vājapeyam,’ but rather ’this thing, it’–the Kāṇva text reads ayam ‘he,’ i.e. Prajāpati, or the sacrifice (yajña, masc.); cf. note on V, 1, 4, 15. ↩︎
-
वे᳘द य᳘श्च AB. ↩︎
-
देव सवितरिति जुहोति यजत्यादिषु । का. श्रौ. सू. १४ । ११ । ↩︎
-
2:1 For want of a simpler and more homely set of terms for the derivatives of the verb sū ’to animate’ here used, those used in the preceding volumes are here generally adhered to, though, as there, somewhat reluctantly. The simple ’to bless, blessing, &c.’ might sometimes fit quite well, though no doubt they imply an idea altogether foreign to the etymological meaning of this verb, and could not possibly be used, as is the case here, of the animating influence of the sun. Sometimes ’to speed’ has been chosen, where the etymological connection with Savitr̥ is not insisted upon; while in other passages ’to consecrate, consecration, &c.’ might probably come nearer to the meaning of the original. Cp. Delbrück, Altindische Syntax, p. 256. ↩︎
-
स रोक्ष्यन् जायामामंत्रयते जाय ऽएहि स्वो रोहावेति रोहावेत्याहेत्यादि । श० प० ५ । ३ । १ । १० । ↩︎
-
उभयतः शुक्लपक्षौ बृहस्पतिसवेन यजते । ज्योतिष्टोमेन वा । द्वादश वा । पुरस्तादयुक्षु ज्योतिष्टोमः पार्ष्ठिकानीतरेषु । प्रतिलोमं पार्ष्ठिकान्युपरि । सर्वाग्निष्टोमैर्वा राजसूयसोमैः । प्रतिलोममुपरि । इमे परियज्ञाः । का. श्रौ. सू. १४ । २-८ । ↩︎
-
ईश्वरा Sây. ↩︎
-
विद्यात् Sây. ↩︎
-
राज्ञो राजसूयः । का० श्रौ० सू० । १५ । १ । ↩︎
-
4:1 Kāty. Śr. XV, I, 1-2, lays down the rule that the Rājasūya is to be performed by a king who has not yet performed the Vājapeya. Āśval. Śr. IX, 9, 19, on the other hand, rules: ‘After performing it (the Vājapeya) let a king perform the Rājasūya, a Brāhmaṇa the Br̥haspati-sava’ (cf. V, 2, 1, 19). See also Kāty. XIV, 1, 2 seq. Cf. Lāṭy. Śr. VIII, 11, 1 seq. ↩︎
-
4:2 During the bright fortnights (of the waxing moon) preceding and following the Vājapeya ceremony proper, the sacrificer has to perform a number of so-called pariyajña (‘surrounding or enclosing sacrifices’) consisting of one-day Soma-sacrifices of different kinds, each of which is preceded by a special dīkshā, or initiation ceremony (cf. III, 1, 2, 1 seq.; Lāṭy. Śr. VIII, 11, 2). It is to the ishṭis (dīkshaṇīyeshṭi, prāyaṇīyeshṭi) of these pariyajñas that the above injunction regarding the performance of the Sāvitrī āhuti refers. ↩︎