०१

विश्वास-प्रस्तुतिः

देवा᳘ ह वै᳘ सत्र᳘मासत॥
श्रि᳘यं गच्छेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति ते᳘भ्य ऽएत᳘दन्ना᳘द्यमभि᳘जितम᳘पाचिक्रमिषत्पश᳘वो वा ऽअ᳘न्नं पश᳘वो है᳘वैभ्यस्तद᳘पाचिक्रमिषन्यद्वै᳘ न इमे᳘ श्रान्ता न᳘ हिᳫँ᳭स्युः᳘ कथ᳘मिव स्विन्नः सक्ष्यन्त ऽइ᳘ति॥

मूलम् - श्रीधरादि

देवा᳘ ह वै᳘ सत्र᳘मासत॥
श्रि᳘यं गच्छेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति ते᳘भ्य ऽएत᳘दन्ना᳘द्यमभि᳘जितम᳘पाचिक्रमिषत्पश᳘वो वा ऽअ᳘न्नं पश᳘वो है᳘वैभ्यस्तद᳘पाचिक्रमिषन्यद्वै᳘ न इमे᳘ श्रान्ता न᳘ हिᳫँ᳭स्युः᳘ कथ᳘मिव स्विन्नः सक्ष्यन्त ऽइ᳘ति॥

मूलम् - Weber

देवा᳘ ह वै᳘ सत्त्र᳘मासत॥
श्रि᳘यं गछेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति ते᳘भ्य एत᳘दन्ना᳘द्यमभि᳘जितम᳘पाचिक्रमिषत्पश᳘वो वा अ᳘न्नम् पश᳘वो हैॗवैभ्यस्तद᳘पाचिक्रमिषन्यद्वै᳘ न इमे᳘ श्रान्ता न᳘ हिंस्युः᳘ कथ᳘मिव स्विन्नः सक्ष्यन्त इ᳘ति॥

मूलम् - विस्वरम्

देवा ह वै सत्रमासत- श्रियं गच्छेम, यशः स्याम, अन्नादाः स्यामेति । तेभ्य एतदन्नाद्यमभिजितमपाचिक्रमिषत् । पशवो वा ऽअन्नम् । पशवो हैवेभ्यस्तदपाचिक्रमिषन् । यद्वै न इमे श्रान्ता न हिंस्युः- कथमिव स्विन्नः सक्ष्यन्त ऽइति ॥ १ ॥

सायणः

देवा ह वा इति । सत्रात्मकस्य द्वादशाहस्य यो मध्ये दशरात्रस्तस्य दशमे ऽहनि सत्रोत्थान लो ऽधिको ऽनेन ब्राह्मणेन विधीयते; तदर्थमाद्याभिश्चतसृभिः कण्डिकाभिरितिहासप्रक्रमेणाहुतिद्वयोत्पत्तिः क्रियते । ततो द्वाभ्यां पुरुषार्थासने नियमस्तत आब्राह्मणसमाप्तेः सत्रोत्थानप्रकल्पनम् । एतदिति प्रत्यक्षं स्थूलं दर्शयति । ‘अभिजितं’ कर्मभिरुपात्तं वशीकृतम् ‘अपाचिक्रमिषत्’ अपक्रमितुमैच्छत् इति । ‘यद्वै न’ (इति तूपनमोशंकोपक्रमणकारणे) ‘स्वित्’ इति वितर्के । नो जानीमः केन प्रकारेणास्मानेव देवाः ‘सक्ष्यन्ते’ “षच सेवायां” (धा. पा. भ्वा. आ. १६३) कथं ? सेविष्यन्ते कथं करिष्यन्तीत्यर्थः ॥ १-३ ॥

Eggeling
  1. Now, once on a time, the gods were sitting 1 in a sacrificial session, thinking, ‘May we attain excellence; may we be glorious, may we be eaters of food!’ That same food, gained by them, wished to go away from them,–and, food being cattle, it was the cattle that wished to go away from them, thinking, ‘It is to be feared lest they, being exhausted, may hurt us 2: how, indeed, will they deal with us?’

०२

विश्वास-प्रस्तुतिः

त᳘ ऽएते गा᳘र्हपत्ये द्वे ऽआ᳘हुती ऽअजुहवुः॥
(र्गृ) गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘देनान्गृहे᳘ष्वेव᳘ न्ययच्छंस्त᳘थैभ्य[[!!]] एत᳘दन्ना᳘द्यमभि᳘जितं ना᳘पाक्रामत्॥

मूलम् - श्रीधरादि

त᳘ ऽएते गा᳘र्हपत्ये द्वे ऽआ᳘हुती ऽअजुहवुः॥
(र्गृ) गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘देनान्गृहे᳘ष्वेव᳘ न्ययच्छंस्त᳘थैभ्य[[!!]] एत᳘दन्ना᳘द्यमभि᳘जितं ना᳘पाक्रामत्॥

मूलम् - Weber

त᳘ एते गा᳘र्हपत्ये द्वे आ᳘हुती अजुहवुः॥
गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘देनान्गृहे᳘ष्वेव न्य᳘यछंस्त᳘थैभ्य एत᳘दन्ना᳘द्यमभि᳘जितं ना᳘पाक्रामत्॥

मूलम् - विस्वरम्

त ऽएते गार्हपत्ये द्वे ऽआहुती ऽअजुहवुः । गृहा वै गार्हपत्यः, गृहा वै प्रतिष्ठा । तद् एनान्गृहेष्वेव न्ययच्छन् । तथैभ्य एतदन्नाद्यमभिजितं नापाक्रामत् ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They offered these two oblations in the Gārhapatya;

and–the Gārhapatya being a house (gr̥ha), and a house being a resting-place–they thereby secured them in the house, and thus that food, gained by them, did not go away from them.

०३

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘थो ऽए᳘वेमे᳘ सत्र᳘मासते॥
ये᳘ सत्रमा᳘सते श्रि᳘यं गच्छेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति ते᳘भ्य ऽएत᳘दन्ना᳘द्यमभि᳘जितम᳘पचिक्रमिषति पश᳘वो वा ऽअ᳘न्नं पश᳘वो है᳘वैभ्यस्त᳘द᳘पचिक्रमिषन्ति यद्वै᳘ न इमे᳘ श्रान्ता न᳘ हिᳫँ᳭स्युः᳘ कथ᳘मिव स्विन्नः सक्ष्यन्त ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘थो ऽए᳘वेमे᳘ सत्र᳘मासते॥
ये᳘ सत्रमा᳘सते श्रि᳘यं गच्छेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति ते᳘भ्य ऽएत᳘दन्ना᳘द्यमभि᳘जितम᳘पचिक्रमिषति पश᳘वो वा ऽअ᳘न्नं पश᳘वो है᳘वैभ्यस्त᳘द᳘पचिक्रमिषन्ति यद्वै᳘ न इमे᳘ श्रान्ता न᳘ हिᳫँ᳭स्युः᳘ कथ᳘मिव स्विन्नः सक्ष्यन्त ऽइ᳘ति॥

मूलम् - Weber

त᳘थो एॗवेमे᳘ सत्त्र᳘मासते॥
ये᳘ सत्त्र᳘मासते श्रि᳘यं गछेम य᳘शः स्यामान्नादाः᳘ स्यामे᳘ति ते᳘भ्य एत᳘दन्ना᳘द्यमभि᳘जितम᳘पचिक्रमिषति पश᳘वो वा अ᳘न्नम् पश᳘वो हैॗवैभ्यस्तद᳘पचिक्रमिषन्ति यद्वै᳘ न इमे᳘ श्रान्ता न᳘ हिंस्युः᳘ कथ᳘मिव स्विन्नः सक्ष्यन्त इ᳘ति॥

मूलम् - विस्वरम्

तथो ऽएवेमे सत्रमासते ये सत्रमासते- श्रियं गच्छेम, यशः स्याम अन्नादाः स्यामेति । तेभ्य एतदन्नाद्यमभिजितमपचिक्रमिषति । पशवो वा ऽअन्नम् । पशवो हैवैभ्यस्तदपचिक्रमिषन्ति । यद्वै न इमे श्रान्ता न हिंस्युः, कथमिव स्विन्नः सक्ष्यन्त ऽइति ॥ ३ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. And in like manner do these Śattrins now sit through a sacrificial session, thinking, ‘May we attain excellence, may we be glorious, may we be eaters of food!’ That food, gained by them, wishes to go away from them,–and, food being cattle, it is the cattle that wish to go away from them, thinking, ‘It is to be feared lest they, being exhausted, may hurt us: how, indeed, will they deal with us?’

०४

विश्वास-प्रस्तुतिः

त᳘ ऽएते गा᳘र्हपत्ये द्वे ऽआ᳘हुती जुह्वति। गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘देनान्गृहे᳘ष्वेव नि᳘यच्छन्ति त᳘थैभ्य ऽएत᳘दन्ना᳘द्यमभि᳘जितं ना᳘पक्रामति॥

मूलम् - श्रीधरादि

त᳘ ऽएते गा᳘र्हपत्ये द्वे ऽआ᳘हुती जुह्वति। गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘देनान्गृहे᳘ष्वेव नि᳘यच्छन्ति त᳘थैभ्य ऽएत᳘दन्ना᳘द्यमभि᳘जितं ना᳘पक्रामति॥

मूलम् - Weber

त᳘ एते गा᳘र्हपत्ये द्वे आ᳘हुती जुह्वति गृहा वै गा᳘र्हपत्यो गृहा वै प्रतिष्ठा त᳘देनान्गृहे᳘ष्वेव नि᳘यछन्ति त᳘थैभ्य एत᳘दन्ना᳘द्यमभि᳘जितं ना᳘पक्रामति॥

मूलम् - विस्वरम्

त ऽएते गार्हपत्ये द्वे ऽआहुती जुह्वति । गृहा वै गार्हपत्यः, गृहा वै प्रतिष्ठा । तद् एनान्गृहेष्वेव नियच्छन्ति । तथैभ्य एतदन्नाद्यमभिजितं नापक्रामति ॥ ४ ॥

सायणः

तथो ऽएवेति । तस्माद्भोक्ष्यमाणमेतदन्नाद्यं भाजन उपाहृतमपचिक्रमिषति ॥ ४ ॥ ५ ॥

Eggeling
  1. They offer these two oblations 3 in the Gārhapatya; and–the Gārhapatya being a house, and the house being a resting-place–they thereby secure them in the house, and thus that food, gained by them, does not go away from them.

०५

विश्वास-प्रस्तुतिः

त᳘थो ऽए᳘वैत᳘स्मात्॥
(दे) एत᳘दन्ना᳘द्यमुपा᳘हृतम᳘पचिक्रमिषति यद्वै᳘ मा ऽयं न᳘ हिᳫँ᳭स्या᳘त्कथ᳘मिव स्विन्मा सक्ष्यत ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘थो ऽए᳘वैत᳘स्मात्॥
(दे) एत᳘दन्ना᳘द्यमुपा᳘हृतम᳘पचिक्रमिषति यद्वै᳘ मा ऽयं न᳘ हिᳫँ᳭स्या᳘त्कथ᳘मिव स्विन्मा सक्ष्यत ऽइ᳘ति॥

मूलम् - Weber

त᳘थो एॗवैत᳘स्मात्॥
एत᳘दन्ना᳘द्यमुपा᳘हृतम᳘पचिक्रमिषति यद्वै᳘ मायं न᳘ हिंस्या᳘त्कथ᳘मिव स्विन्मा सक्ष्यत इ᳘ति॥

मूलम् - विस्वरम्

तथो ऽएवैतस्मादेतदन्नाद्यमुपाहृतमपचिक्रमिषति । यद्वै मा ऽयं न हिंस्यात्, कथमिव स्विन्मा सक्ष्यत ऽइति ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. And in like manner that offered food wishes to go away from him, thinking, ‘It is to be feared lest this one will hurt me: how, indeed, will he deal with me?’

०६

विश्वास-प्रस्तुतिः

त᳘स्य पर᳘स्तादेवा᳘ग्रे ऽल्पश᳘ ऽइव प्रा᳘श्नाति॥
त᳘देनदुपनि᳘मदति त᳘द्वेद न वै त᳘था ऽभूद्यथा᳘ ऽमᳫँ᳭सि न वै᳘ मा ऽहिᳫँ᳭सीदि᳘ति त᳘देनमुपा᳘वश्रयते स᳘ ह प्रिय᳘ ऽएवा᳘न्नस्यान्नादो᳘ भवति य᳘ ऽएवं᳘ व्विद्वा᳘नेत᳘स्य व्व्रत᳘ᳫँ᳘ शक्नो᳘ति च᳘रितुम्॥

मूलम् - श्रीधरादि

त᳘स्य पर᳘स्तादेवा᳘ग्रे ऽल्पश᳘ ऽइव प्रा᳘श्नाति॥
त᳘देनदुपनि᳘मदति त᳘द्वेद न वै त᳘था ऽभूद्यथा᳘ ऽमᳫँ᳭सि न वै᳘ मा ऽहिᳫँ᳭सीदि᳘ति त᳘देनमुपा᳘वश्रयते स᳘ ह प्रिय᳘ ऽएवा᳘न्नस्यान्नादो᳘ भवति य᳘ ऽएवं᳘ व्विद्वा᳘नेत᳘स्य व्व्रत᳘ᳫँ᳘ शक्नो᳘ति च᳘रितुम्॥

मूलम् - Weber

त᳘स्य पर᳘स्तादेवा᳘ग्रे ऽल्पश᳘ इव प्रा᳘श्नाति॥
त᳘देनदुपनि᳘मदति त᳘द्वेद न वै त᳘थाभूद्यथा᳘मंसि न वै᳘ माहिंसीदि᳘ति त᳘देनमुपा᳘वश्रयते स᳘ ह प्रिय᳘ एवा᳘न्नस्यान्नादो᳘ भवति य᳘ एवं᳘ विद्वा᳘नेत᳘स्य व्रतं᳘ शक्नो᳘ति च᳘रितुम्॥

मूलम् - विस्वरम्

तस्य परस्तादेवाग्रे ऽल्पश ऽइव प्राश्नाति । तदेनदुपनिमदति- तद्वेद । न वै तथा ऽभूद्- यथा ऽमंसि । न वै मा ऽहिंसीदिति । तदेनमुपावश्रयते । स ह प्रिय एवान्नस्यान्नादो भवति य एवं विद्वानेतस्य व्रतं शक्नोति चरितुम् ॥ ६ ॥

सायणः

तस्येति । ‘तस्य’ एतस्यान्नस्य भाजन उपाहृतस्य । ‘परस्तात्’ परभागात्प्रथमं प्राणाहुतीः ‘अल्पशः अल्पमल्पं ‘प्राश्नाति’ ‘तत्’ तेनाल्पशः प्राशनेन ‘एनद्’ अन्नम् ‘उपनिमदति’ उपहर्षयति । ‘तत्’ हर्षमाणं ‘वेद’ जानाति । ‘यथा ऽमंसि’ “मन ज्ञाने” (धा. पा. दि. आ. ७०) यथा ऽहं ज्ञातवान् बभूव कथं न वै माहिं सीदिति नैष मोक्ता ऽल्पशः परस्तात् प्रथमं (शंखेनय इति) ईषदन्नमेव भोक्तारमुपगम्याल्पतया श्रूयते स च प्रिय एव भवत्यत्रा [दोग्र] एवं विद्वानेतस्येदं यथोक्तं परस्तादग्रे ऽल्पशः प्राशनं ‘व्रतं शक्नोति चरितुम्’ ॥ ६ ॥

Eggeling
  1. He first eats a very little from the further (back) end of it;–thereby he encourages it: it knows, ‘It was not so as I thought: he has in no wise hurt me.’ Thus it becomes attached to him, and, indeed, whosoever, knowing this, is able to observe the vow thereof, he becomes an eater of food, dear to food.

०७

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘त्॥
(द्द) दशमे᳘ ऽहन्त्सत्रोत्था᳘नं क्रियते ते᳘षामे᳘कैक ऽएव᳘ व्वाचंयम᳘ आस्ते व्वा᳘चमाप्याय᳘यंस्तया᳘ ऽऽपीनया᳘ ऽयातयाम्न्यो᳘त्तरम᳘हस्तन्वते ऽथे᳘तरे व्वि᳘सृज्यन्ते समिद्धारा᳘ वा स्वाध्यायं᳘ वा तत्रा᳘प्यश्नन्ति᳘॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘त्॥
(द्द) दशमे᳘ ऽहन्त्सत्रोत्था᳘नं क्रियते ते᳘षामे᳘कैक ऽएव᳘ व्वाचंयम᳘ आस्ते व्वा᳘चमाप्याय᳘यंस्तया᳘ ऽऽपीनया᳘ ऽयातयाम्न्यो᳘त्तरम᳘हस्तन्वते ऽथे᳘तरे व्वि᳘सृज्यन्ते समिद्धारा᳘ वा स्वाध्यायं᳘ वा तत्रा᳘प्यश्नन्ति᳘॥

मूलम् - Weber

तद्वा᳘ एत᳘त्॥
दशमे᳘ ऽहन्त्सत्त्रोत्था᳘नं क्रियते ते᳘षामे᳘कैक एव᳘ वाचंयम᳘ आस्ते वा᳘चमाप्याय᳘यंस्तया᳘पीनया᳘यातयाम्न्यो᳘त्तरम᳘हस्तन्वते ऽथे᳘तरे वि᳘सृज्यन्ते समिद्धारा᳘ वा स्वाध्यायं᳘ वा तत्रा᳘प्यश्नन्ति॥

मूलम् - विस्वरम्

तद्वा ऽएतद् दशमे ऽहन्त्सत्रोत्थानं क्रियते । तेषामेकैक एव वाचंयम आस्ते- वाचमाप्याययन् । तया ऽऽपीनया ऽयातयाम्न्योत्तरमहस्तन्वते । अथेतरे विसृज्यन्ते । समिद्धारा वा स्वाध्यायं वा । तत्राप्यश्नन्ति ॥ ७ ॥

सायणः

तद्वा ऽएतदिति । दशमे ऽहनि दशरात्रस्य 4 (क्षतन्नद्या ?) “तया ऽऽपीनया ऽयातयाम्न्या ऽतिरात्रं तन्वते” इति ज्योतिष्टोमातिरात्रस्योदयनीयस्य दर्शनात् । अहन्नित्यहःकर्मात्मकं सत्रोत्थानस्याङ्गत्वेनोपात्तम् । कुत एतत्कर्मणा सत्रमासत इति प्रकृतत्वात् ‘उत्तरमहस्तन्वत’ इति तायमाने श्रवणात्सत्रोत्थानमिति क्रियत इत्युपेक्षितं वक्ष्यते- “ते ऽपराह्ण उपसमेत्येति” 5 । इतरे तु तद्व्यतिरिक्ता दीक्षिताः ‘विसृज्यन्ते’ पृथक् पृथक् गच्छन्ति । किमर्थं ‘समिद्धारा वा’ समिधं हर्तुमानेतुं समिद्धारा “भाववचनाश्च" (पा. सू. ३ । ३ । ११) इति क्रिया क्रियार्थेयं यत्र ‘स्वाध्यायं वा’ कर्त्तुमिति शेषः । ते च विगमाः सन्तः समं यन्तीति संबन्धः । तत्रापि गताः सन्तो ये कुतश्चिदासादयन्ति तद् ‘अश्नन्ति’ ते वै सृष्टा अहविरुच्छिष्टमपीति प्रासङ्गिको विधिः ॥ ७ ॥

Eggeling
  1. This, then, is done at the Sattrotthāna (rising from the session) on the tenth day 6. Each of them

sits speechless, strengthening his voice 7: with that (voice) strengthened and reinvigorated they perform the last day. Then the others are dismissed, either (for) fetching fuel or to their day’s reading of the scriptures. Now also they take food.

०८

विश्वास-प्रस्तुतिः

ते ऽपराह्ण᳘ ऽउपसमे᳘त्य॥
(त्या) अप᳘ उपस्पृ᳘श्य पत्नीशा᳘लᳫँ सम्प्र᳘पद्यन्ते ते᳘षु समन्वा᳘रब्धेष्वेते ऽआ᳘हुती जुहोतीह र᳘तिरिह᳘ रमध्वमिह धृ᳘तिरिह स्व᳘धृतिः स्वाहे᳘ति पशू᳘ने᳘वैत᳘दाह पशू᳘ने᳘वैत᳘दात्मन्नि᳘यच्छन्ते॥

मूलम् - श्रीधरादि

ते ऽपराह्ण᳘ ऽउपसमे᳘त्य॥
(त्या) अप᳘ उपस्पृ᳘श्य पत्नीशा᳘लᳫँ सम्प्र᳘पद्यन्ते ते᳘षु समन्वा᳘रब्धेष्वेते ऽआ᳘हुती जुहोतीह र᳘तिरिह᳘ रमध्वमिह धृ᳘तिरिह स्व᳘धृतिः स्वाहे᳘ति पशू᳘ने᳘वैत᳘दाह पशू᳘ने᳘वैत᳘दात्मन्नि᳘यच्छन्ते॥

मूलम् - Weber

ते ऽपराह्ण᳘ उपसमे᳘त्य॥
अप᳘ उपस्पृ᳘श्य पत्नीशा᳘लᳫं सम्प्र᳘पद्यन्ते ते᳘षु समन्वा᳘रब्धेष्वेते आ᳘हुती जुहोतीह र᳘तिरिह᳘ रमध्वमिह धृ᳘तिरिह स्व᳘धृतिः स्वाहेति पशू᳘नेॗवैत᳘दाह पशू᳘नेॗवैत᳘दात्मन्नि᳘यछन्ते॥

मूलम् - विस्वरम्

ते ऽपराह्ण ऽउपसमेत्य, अप उपस्पृश्य, पत्नीशालं सम्प्रपद्यन्ते । तेषु समन्वारब्धेष्वेते ऽआहुती जुहोति । “इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा”- (वा. सं. ८ । ५१) इति । पशूनेवैतदाह- पशूनेवैतदात्मन्नियच्छन्ते ॥ ८ ॥

सायणः

ते ऽपराह्ण इति । पत्न्याः शाला ‘पत्नीशालम्’ “विभाषा सेनासुराच्छायाशालानिशानाम्-” (पा. सू. २ । ४ । २५) इति नपुंसकत्वम् । ‘तेषु’ सत्रेषु अध्वर्युणा ‘समन्वारब्धेषु’ इति कर्तरि निष्ठा ‘पशूनेवैतद्’ अध्वर्युराह । ‘इह’ सत्रेषु ‘रतिः’ वः ‘इह रमध्वम्’ इत्यादि ‘नियच्छन्ते’ सर्वे सत्रिणः अनपक्रमिणः पशून्कुर्वन्ति ॥ ८ ॥

Eggeling
  1. In the afternoon, having come together and touched water, they enter the ladies’ hall 8, and while the others hold on to him from behind, he 9

offers (on the Śālādvārya fire) those two oblations; (the first) with (Vāj. S. VIII, 51), ‘Here is joy: here rejoice ye! here is stability, here is (your) own stability,–Hail!’ He thereby addresses the cattle; they thereby secure cattle for themselves.

०९

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ द्विती᳘यां जुहीति॥
(त्यु) उपसृज᳘न्धरु᳘णं मात्र ऽइ᳘त्यग्नि᳘मे᳘वैत᳘त्पृथिव्या᳘ ऽउपसृज᳘न्नाह धरु᳘णो मात᳘रं ध᳘यन्नि᳘त्यग्नि᳘मे᳘वै त᳘त्पृथिवीं ध᳘यन्तमाह रायस्पो᳘षमस्मा᳘सु दीधरत्स्वाहे᳘ति पश᳘वो वै᳘ रायस्पो᳘षः पशू᳘ने᳘वैत᳘दात्मन्नि᳘यच्छन्ते॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ द्विती᳘यां जुहीति॥
(त्यु) उपसृज᳘न्धरु᳘णं मात्र ऽइ᳘त्यग्नि᳘मे᳘वैत᳘त्पृथिव्या᳘ ऽउपसृज᳘न्नाह धरु᳘णो मात᳘रं ध᳘यन्नि᳘त्यग्नि᳘मे᳘वै त᳘त्पृथिवीं ध᳘यन्तमाह रायस्पो᳘षमस्मा᳘सु दीधरत्स्वाहे᳘ति पश᳘वो वै᳘ रायस्पो᳘षः पशू᳘ने᳘वैत᳘दात्मन्नि᳘यच्छन्ते॥

मूलम् - Weber

अ᳘थ द्विती᳘यां जुहीति॥
उपसृज᳘न्धरु᳘णम् मात्र इ᳘त्यग्नि᳘मेॗवैत᳘त्पृथिव्या᳘ उपसृज᳘न्नाह धरु᳘णो मात᳘रं ध᳘यन्नि᳘त्यग्नि᳘मेॗवैत᳘त्पृथिवीं ध᳘यन्तमाह रायस्पोषमस्मा᳘सु दीधरत्स्वाहे᳘ति पश᳘वो वै᳘ रायस्पो᳘षः पशू᳘नेॗवैत᳘दात्मन्नि᳘यछन्ते॥

मूलम् - विस्वरम्

अथ द्वितीयां जुहोति- “उपसृजन्धरुणं मात्रे”- (वा. सं. ८ । ५१) इति । अग्निमेवैतत्पृथिव्या ऽउपसृजन्नाह । “धरुणो मातरं धयन्" (वा. सं. ८ । ५१)- इति । अग्निमेवैतत्पृथिवीं धयन्तमाह । “रायस्पोषमस्मासु दीधरत्स्वाहा”- (वा. सं. ८ । ५१) इति । पशवो वै रायस्पोषः । पशूनेवैतदात्मन्नियच्छन्ते ॥ ९ ॥

सायणः

अथ द्वितीयामिति 4 । अग्निमेवैतत्सवनीयं मातृभूतायाः पृथिव्याः पानायेति शेषः । पृथिव्याः पानायोपसृजन्नाह । किमाह ‘रायस्पोषमस्मासुदीधरत्’ धारयतु त एवं वा ऽध्वर्य्यौ कुर्वन्ति । सत्रिणः पशून्पश्चिमेन द्वारेण हविर्द्धानं प्रवेशयन्तीत्यर्थः । किं कारणं पुरस्तात्पूर्वस्या दिशः ‘प्रत्यञ्चस्तंस्यमानाः’ करिष्यमाणाः सोमनिधानार्थं प्रपद्यन्ते । ‘अथ’ शब्दो विशेषार्थः । ‘अथैवं’ विपरीतं ‘सत्रोत्थाने’ प्रपद्यन्ते प्रक्रमसमाप्त्यर्थे लक्षणयेत्यभिप्रायः ॥ ९ ॥ १० ॥

Eggeling
  1. And the second he offers with, ‘Letting the sucking calf to the mother,’–he means to say by this, ’letting the fire go to the earth;’–‘a sucking calf drinking from the mother,’–he thereby means the fire sucking the (moisture of the) earth;–‘may he maintain increase of wealth among us,–Hail!’ increase of wealth is cattle: they thus secure cattle for themselves.

१०

विश्वास-प्रस्तुतिः

ते प्रा᳘ञ्च ऽउपनि᳘ष्क्रामन्ति॥
ते᳘ पश्चात्प्रा᳘ञ्चो हविर्धा᳘ने सम्प्र᳘पद्यन्ते पुर᳘स्ताद्वै᳘ प्रत्य᳘ञ्चस्तᳫँस्य᳘माना ऽअ᳘थैव᳘ᳫं᳘ सत्रोत्था᳘ने॥

मूलम् - श्रीधरादि

ते प्रा᳘ञ्च ऽउपनि᳘ष्क्रामन्ति॥
ते᳘ पश्चात्प्रा᳘ञ्चो हविर्धा᳘ने सम्प्र᳘पद्यन्ते पुर᳘स्ताद्वै᳘ प्रत्य᳘ञ्चस्तᳫँस्य᳘माना ऽअ᳘थैव᳘ᳫं᳘ सत्रोत्था᳘ने॥

मूलम् - Weber

ते प्रा᳘ञ्च उपनि᳘ष्क्रामन्ति॥
ते᳘ पश्चात्पा᳘ञ्चो हविर्धा᳘ने सम्प्र᳘पध्यन्ते पुर᳘स्ताद्वै᳘ प्रत्य᳘ञ्चस्तंस्य᳘माना अ᳘थैव᳘ᳫं᳘ सत्रोत्था᳘ने॥

मूलम् - विस्वरम्

ते प्राञ्च उपनिष्क्रामन्ति । ते पश्चात्प्राञ्चो हविर्धाने सम्प्रपद्यन्ते । पुरस्ताद्वै प्रत्यञ्चस्तंस्यमानाः । अथैवं सत्रोत्थाने ॥ १० ॥

सायणः

[व्याख्यानं नवमे]

Eggeling
  1. They go out eastward, and enter the (shed of the) Havirdhāna carts from behind towards the front; for from the front towards the back (they enter) when about to perform the sacrifice, but thus (it is done) at the rising from the session.

११

विश्वास-प्रस्तुतिः

त ऽउ᳘त्तरस्य हविर्धा᳘नस्य॥
जघ᳘न्यायां कूबर्याᳫँ᳭ सा᳘माभि᳘गायन्ति सत्र᳘स्य ऋ᳘द्धिरि᳘ति रा᳘द्धिमे᳘वैत᳘दभ्यु᳘त्तिष्ठन्त्युत्तरवेदेर्वो᳘त्तरायाᳫँ᳭ श्रो᳘णावि᳘तरं तु᳘ कृत᳘तरम्॥

मूलम् - श्रीधरादि

त ऽउ᳘त्तरस्य हविर्धा᳘नस्य॥
जघ᳘न्यायां कूबर्याᳫँ᳭ सा᳘माभि᳘गायन्ति सत्र᳘स्य ऋ᳘द्धिरि᳘ति रा᳘द्धिमे᳘वैत᳘दभ्यु᳘त्तिष्ठन्त्युत्तरवेदेर्वो᳘त्तरायाᳫँ᳭ श्रो᳘णावि᳘तरं तु᳘ कृत᳘तरम्॥

मूलम् - Weber

त उ᳘त्तरस्य हविर्धा᳘नस्य॥
जघॗन्यायां कूबर्याᳫं सा᳘माभिगायन्ति सत्त्र᳘स्य ऋ᳘द्धिरि᳘ति रा᳘द्धिमेॗवैत᳘दभ्यु᳘त्तिष्ठन्त्युत्तरवेदेर्वोत्तरायां श्रो᳘णावि᳘तरं तु᳘ कृत᳘तरम्॥

मूलम् - विस्वरम्

त ऽउत्तरस्य हविर्धानस्य जघन्यायां कूबर्यां सामाभिगायन्ति । “सत्रस्य ऋद्धिः”- इति । राद्धिमेवैतदभ्युत्तिष्ठन्ति । उत्तरवेदेर्वोत्तरायां श्रोणौ । इतरं तु कृततरम् ॥ ११ ॥

सायणः

त उत्तरस्येति । कूबरी नाम ईषाविधारिणी विष्कंभिका सा चाग्रतः पृष्ठतश्च भवतीति विशिनष्टि- जघन्यायां कूबर्यामिति 10 तस्यां च बहूनामारोहणस्यासंभवात्तामालभ्य गायन्तीत्यर्थः । “सत्रस्य ऋद्धिः” इत्येतस्मिन्मन्त्रे सामभिर्गायन्तीति वचनात्सर्वे । ‘इतरं’ तु कर्म ‘कृततरम्’ अतिशयेन पूर्वैः वादिभिः कृतं कृततरं कर्म ॥ ११ ॥

Eggeling
  1. On the hinder shaft of the northern cart 11 they sing the Sāman (Vāg . S. VIII, 52), called ’the completion of the session,’–there it is that they reach completeness; or on the northern hip of the high altar; but the other is the more usual,

१२

विश्वास-प्रस्तुतिः

यदु᳘त्तरस्य हविर्धा᳘नस्य॥
जघ᳘न्यायां कूबर्याम᳘गन्म ज्यो᳘तिरमृ᳘ता ऽअभूमे᳘ति ज्यो᳘तिर्वा᳘ ऽएते᳘ भवन्त्यमृ᳘ता भवन्ति ये᳘ सत्रमा᳘सते दि᳘वं पृथिव्या ऽअद्ध्या᳘रुहामे᳘ति दि᳘वं वा᳘ ऽएते᳘ पृथिव्या ऽअद्ध्यारोहन्ति ये᳘ सत्रमा᳘सते᳘ ऽविदाम देवानि᳘ति व्विन्द᳘न्ति हि᳘ देवा᳘न्त्स्वर्ज्यो᳘तिरि᳘ति[[!!]] त्रि᳘र्निध᳘नमुपा᳘वयन्ति᳘ स्व᳘र्ह्येते ज्यो᳘ति᳘र्ह्येते भ᳘वन्ति तद्य᳘दे᳘वैत᳘स्य सा᳘म्नो रूपं त᳘दे᳘वैते᳘ भवन्ति ये᳘ सत्रमा᳘सते॥

मूलम् - श्रीधरादि

यदु᳘त्तरस्य हविर्धा᳘नस्य॥
जघ᳘न्यायां कूबर्याम᳘गन्म ज्यो᳘तिरमृ᳘ता ऽअभूमे᳘ति ज्यो᳘तिर्वा᳘ ऽएते᳘ भवन्त्यमृ᳘ता भवन्ति ये᳘ सत्रमा᳘सते दि᳘वं पृथिव्या ऽअद्ध्या᳘रुहामे᳘ति दि᳘वं वा᳘ ऽएते᳘ पृथिव्या ऽअद्ध्यारोहन्ति ये᳘ सत्रमा᳘सते᳘ ऽविदाम देवानि᳘ति व्विन्द᳘न्ति हि᳘ देवा᳘न्त्स्वर्ज्यो᳘तिरि᳘ति[[!!]] त्रि᳘र्निध᳘नमुपा᳘वयन्ति᳘ स्व᳘र्ह्येते ज्यो᳘ति᳘र्ह्येते भ᳘वन्ति तद्य᳘दे᳘वैत᳘स्य सा᳘म्नो रूपं त᳘दे᳘वैते᳘ भवन्ति ये᳘ सत्रमा᳘सते॥

मूलम् - Weber

यदु᳘त्तरस्य हविर्धा᳘नस्य॥
जघॗन्यायां कूबर्याम᳘गन्म ज्यो᳘तिरमृ᳘ता अभूमे᳘ति ज्यो᳘तिर्वा᳘ एते᳘ भवन्त्यमृ᳘ता भवन्ति ये᳘ सत्त्रमा᳘सते दि᳘वम् पृथिव्या अध्या᳘रुहामे᳘ति दि᳘वं वा᳘ एते᳘ पृथिव्या अध्या᳘रोहन्ति ये᳘ सत्त्रमा᳘सते᳘ ऽविदाम देवानि᳘ति विन्द᳘न्ति हि देवान्त्स्व᳘र्ज्यो᳘तिरि᳘ति त्रि᳘र्निध᳘नमुपा᳘वयन्तिॗ स्व᳘र्ह्येते ज्यो᳘तिॗर्ह्येते भ᳘वन्ति तद्य᳘देॗवैत᳘स्य सा᳘म्नो रूपं त᳘देॗवैते᳘ भवन्ति ये᳘ सत्त्रमा᳘सते॥

मूलम् - विस्वरम्

यदुत्तरस्य हविर्धानस्य जघन्यायां कूबर्याम् । “अगन्म ज्योतिरमृता अभूम”- इति । ज्योतिर्वा ऽएते भवन्ति । अमृता भवन्ति ये सत्रमासते । “दिवं पृथिव्या अद्भ्यारुहाम”- इति । दिवं वा ऽएते पृथिव्या अद्भ्यारोहन्ति- ये सत्रमासते । “अविदाम देवान्” इति । विन्दन्ति हि देवान् “स्वर्ज्योतिः”- (वा. सं. ८ । ५२) इति । त्रिर्निधनमुपावयन्ति । स्वर्ह्येते, ज्योतिर्ह्येते भवन्ति । तद् यदेवैतस्य साम्नो रूपम्- तदेवैते भवन्ति- ये सत्रमासते ॥ १२ ॥

सायणः

यदुत्तरस्य हविर्धानस्येति । कूबर्यां गतमेतत्कृतमेतस्मादुत्तर हविर्धानात् । “अगन्म ज्योतिरि"त्यादि मन्त्रः शेषं व्याख्यातम् । (यज्ज्योतिरित्येतत्साम्नो विधानमेव सा न त्वष्ट्रत ?) उपगच्छंति वाङ्मनसाम्यां कुर्वन्तीत्यर्थः । ‘अथ’ शब्दो ऽवसानद्योतकः ‘यदेवैतस्य साम्नो रूपं’ मान्त्रवर्णिकं तद्धि ज्योतिरमृतमित्यादि ‘तदेवैते भवंति’ तद्वन्तो भवन्ति ‘ये सत्रमासते’ ॥ १२ ॥

Eggeling
  1. That is, on the hinder shaft of the northern cart. ‘We have gone to the light, we have become immortal,’–for they who sit through a sacrificial session become indeed the light, they

become immortal;–’to the sky have we ascended from the earth,’–for they who sit through a sacrificial session indeed ascend from the earth to the sky;–‘we have attained to the gods,’–for they indeed attain to the gods;–’to heaven, to the light!’ thrice they repeat the finale; for they indeed become (partakers of) heaven and bliss. Thus, whatever the nature of his Sāman is, that they come to be who sit through a sacrificial session.

१३

विश्वास-प्रस्तुतिः

ते द᳘क्षिणस्य हविर्धा᳘नस्य॥
(स्या᳘) अ᳘धो ऽधो᳘ ऽक्षᳫँ᳭ सर्पन्ति स यथा᳘ ऽहिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यन्ते᳘ ऽतिच्छन्दसा स᳘र्पन्त्येषा वै स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि यद᳘तिच्छन्दास्त᳘थैनान्पाप्मा᳘ नान्व᳘त्येति त᳘स्माद᳘तिच्छन्दसा सर्पन्ति॥

मूलम् - श्रीधरादि

ते द᳘क्षिणस्य हविर्धा᳘नस्य॥
(स्या᳘) अ᳘धो ऽधो᳘ ऽक्षᳫँ᳭ सर्पन्ति स यथा᳘ ऽहिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यन्ते᳘ ऽतिच्छन्दसा स᳘र्पन्त्येषा वै स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि यद᳘तिच्छन्दास्त᳘थैनान्पाप्मा᳘ नान्व᳘त्येति त᳘स्माद᳘तिच्छन्दसा सर्पन्ति॥

मूलम् - Weber

ते द᳘क्षिणस्य हविर्धा᳘नस्य॥
अॗधो ऽधो᳘ ऽक्षम् सर्पन्ति स यथा᳘हिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫं स᳘र्वस्मात्पाप्म᳘नो नि᳘र्मुच्यन्ते᳘ ऽतिछन्दसा सर्पन्त्येषा वै स᳘र्वाणि छ᳘न्दांसि यद᳘तिछन्दास्त᳘थैनान्पाप्माॗ नान्व᳘त्येति त᳘स्माद᳘तिछन्दसा सर्पन्ति॥

मूलम् - विस्वरम्

ते दक्षिणस्य हविर्धानस्याधो ऽधो ऽक्षं सर्पन्ति । स यथा ऽहिस्त्वचो निर्मुच्येत । एवं सर्वस्मात्पाप्मनो निर्मुच्यन्ते । अतिच्छन्दसा सर्पन्ति । एषा वै सर्वाणि छन्दांसि यदतिच्छन्दाः । तथैनान्पाप्मा नान्वत्येति । तस्मादतिच्छन्दसा सर्पन्ति ॥ १३ ॥

सायणः

ते दक्षिणस्येति 12 । प्रसन्नास्तिस्रः ॥ १३-१५ ॥

Eggeling
  1. They creep 13 along right under the axle of the southern cart: even as a snake frees itself from its skin, so do they free themselves from all evil. They creep along with an atichandas verse; for that, the atichandas (redundant metre), is all the metres;–thus evil does not overtake them: therefore they creep along with an atichandas verse.

१४

विश्वास-प्रस्तुतिः

ते᳘ सर्पन्ति॥
युवं त᳘मिन्द्रापर्वता पुरोयु᳘धा यो᳘ नः पृतन्याद᳘पतं᳘तमि᳘द्धतं व्व᳘ज्रेण तं᳘तमि᳘द्धतम्॥ दूरे᳘ चत्ता᳘य च्छन्त्सद्ग᳘हनं यदि᳘नक्षत्।अस्मा᳘कᳫँ᳭ श᳘त्रून्प᳘रि शूर व्विश्व᳘तो दर्मा᳘ दर्षीष्ट व्विश्व᳘त इ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ सर्पन्ति॥
युवं त᳘मिन्द्रापर्वता पुरोयु᳘धा यो᳘ नः पृतन्याद᳘पतं᳘तमि᳘द्धतं व्व᳘ज्रेण तं᳘तमि᳘द्धतम्॥ दूरे᳘ चत्ता᳘य च्छन्त्सद्ग᳘हनं यदि᳘नक्षत्।अस्मा᳘कᳫँ᳭ श᳘त्रून्प᳘रि शूर व्विश्व᳘तो दर्मा᳘ दर्षीष्ट व्विश्व᳘त इ᳘ति॥

मूलम् - Weber

ते᳘ सर्पन्ति॥
युवं त᳘मिन्द्रापर्वता पुरोयु᳘धा यो᳘ नः पृतन्याद᳘प तं᳘ तमि᳘द्धतं व᳘ज्रेण तं᳘-तमि᳘द्धतम् 14
दूरे᳘ चत्ता᳘य छन्त्सद्ग᳘हने यदि᳘नक्षत्॥
अस्मा᳘कं श᳘त्रून्प᳘रि शूर विश्व᳘तो दर्मा᳘ दर्षीष्ट विश्व᳘त इ᳘ति॥

मूलम् - विस्वरम्

ते सर्पन्ति- “युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादपतंतमिद्धतम्, वज्रेण तंतमिद्धतम् । दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः”- (वा. सं. ८ । ५३)- इति ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. They creep along with (Vāj. S. VIII, 53; Rig-veda I, 132, 6), ‘O Indra and Parvata, leaders in battle, smite ye every one that wars against us, smite him with the thunderbolt! him that is hidden may it please in the far retreat which he hath reached: our foes, O hero, on all sides may the tearer tear to pieces,–on all sides!’

१५

विश्वास-प्रस्तुतिः

ते प्रा᳘ञ्च ऽउपनि᳘ष्क्रामन्ति॥
ते᳘ पुर᳘स्तात्प्रत्य᳘ञ्चः स᳘दः सम्प्र᳘पद्यन्ते पश्चाद्वै प्रा᳘ञ्चस्तᳫँ᳭स्य᳘माना ऽअ᳘थैव᳘ᳫँ᳘ सत्रोत्था᳘ने॥

मूलम् - श्रीधरादि

ते प्रा᳘ञ्च ऽउपनि᳘ष्क्रामन्ति॥
ते᳘ पुर᳘स्तात्प्रत्य᳘ञ्चः स᳘दः सम्प्र᳘पद्यन्ते पश्चाद्वै प्रा᳘ञ्चस्तᳫँ᳭स्य᳘माना ऽअ᳘थैव᳘ᳫँ᳘ सत्रोत्था᳘ने॥

मूलम् - Weber

ते प्रा᳘ञ्च उपनि᳘ष्क्रामन्ति॥
ते᳘ पुर᳘स्तात्प्रत्य᳘ञ्चः स᳘दः सम्प्र᳘पद्यन्ते पश्चाद्वै प्रा᳘ञ्चस्तंस्य᳘माना अ᳘थैव᳘ᳫं᳘ सत्रोत्था᳘ने॥

मूलम् - विस्वरम्

ते प्राञ्च उपनिष्क्रामन्ति । ते पुरस्तात्प्रत्यञ्चः सदः सम्प्रपद्यन्ते । पश्चाद्वै प्राञ्चस्तंस्यमानाः । अथैवं सत्रोत्थाने ॥ १५ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. They go out eastward, and enter the Sadas from the front towards the back; for from the back towards the front (they do so) when about to perform the sacrifice; but thus (they do) at the rising from the session.

१६

विश्वास-प्रस्तुतिः

ते᳘ यथाधिष्ण्य᳘मेवो᳘पविशन्ति॥
देवे᳘भ्यो ह वै᳘ व्वाचो र᳘सो ऽभि᳘जितो ऽपचिक्रमिषां᳘चकार स᳘ ऽइमा᳘मेव प᳘राङ᳘त्यसिसृप्सदियं वै व्वाक्त᳘स्या ऽएष र᳘सो यदो᳘षधयो यद्व᳘नस्प᳘तयस्त᳘मेते᳘न सा᳘म्ना ऽऽप्नुवन्त्स᳘ ऽएनानाप्तो ऽभ्या᳘वर्तत[[!!]] त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऽऊर्ध्वा व्व᳘नस्प᳘तयस्त᳘थो ऽए᳘वैते᳘भ्य ऽएत᳘द्वाचो र᳘सो ऽभि᳘जितो᳘ ऽपचिक्रमिषति स᳘ ऽइमा᳘मेव प᳘राङ᳘तिसिसृप्सतीयं वै व्वाक्त᳘स्या ऽएष र᳘सो यदो᳘षधयो यद्व᳘नस्प᳘तयस्त᳘मेते᳘न सा᳘म्ना ऽऽप्नुवन्ति स᳘ ऽएना᳘नाप्तो ऽभ्या᳘वर्तते[[!!]] त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऽऊर्ध्वा व्व᳘नस्प᳘तयः॥

मूलम् - श्रीधरादि

ते᳘ यथाधिष्ण्य᳘मेवो᳘पविशन्ति॥
देवे᳘भ्यो ह वै᳘ व्वाचो र᳘सो ऽभि᳘जितो ऽपचिक्रमिषां᳘चकार स᳘ ऽइमा᳘मेव प᳘राङ᳘त्यसिसृप्सदियं वै व्वाक्त᳘स्या ऽएष र᳘सो यदो᳘षधयो यद्व᳘नस्प᳘तयस्त᳘मेते᳘न सा᳘म्ना ऽऽप्नुवन्त्स᳘ ऽएनानाप्तो ऽभ्या᳘वर्तत[[!!]] त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऽऊर्ध्वा व्व᳘नस्प᳘तयस्त᳘थो ऽए᳘वैते᳘भ्य ऽएत᳘द्वाचो र᳘सो ऽभि᳘जितो᳘ ऽपचिक्रमिषति स᳘ ऽइमा᳘मेव प᳘राङ᳘तिसिसृप्सतीयं वै व्वाक्त᳘स्या ऽएष र᳘सो यदो᳘षधयो यद्व᳘नस्प᳘तयस्त᳘मेते᳘न सा᳘म्ना ऽऽप्नुवन्ति स᳘ ऽएना᳘नाप्तो ऽभ्या᳘वर्तते[[!!]] त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऽऊर्ध्वा व्व᳘नस्प᳘तयः॥

मूलम् - Weber

ते᳘ यथाधिष्ण्य᳘मेवो᳘पविशन्ति॥
देवे᳘भ्यो ह वै᳘ वाचो र᳘सो ऽभि᳘जितो ऽपचिक्रमिषां᳘ चकार स᳘ इमा᳘मेव प᳘राङ᳘त्यसिसृप्सदियं वै वाक्त᳘स्या एष र᳘सो यदो᳘षधयो यद्व᳘नस्प᳘तयस्त᳘मेते᳘न सा᳘म्नाप्नुवन्त्स᳘ एनानाॗप्तो ऽभ्या᳘वर्तत त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऊर्ध्वा व᳘नस्प᳘तयस्त᳘थो एॗवैते᳘भ्य एत᳘द्वाचो र᳘सो ऽभि᳘जितो᳘ ऽपचिक्रमिषति स᳘ इमा᳘मेव प᳘राङ᳘तिसिसृप्सतीयं वै वाक्त᳘स्या एष र᳘सो यदो᳘षधयो यद्व᳘नस्प᳘तयस्त᳘मेते᳘न सा᳘म्नाप्नुवन्ति स᳘ एनानाॗप्तो ऽभ्या᳘वर्तते त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऊर्ध्वा व᳘नस्प᳘तयः॥

मूलम् - विस्वरम्

ते यथाधिष्ण्यमेवोपविशन्ति । देवेभ्यो ह वै वाचो रसो ऽभिजितो ऽपचिक्रमिषाञ्चकार । स इमामेव पराङत्यसिसृप्सत् । इयं वै वाक्- तस्या एष रसो- यदोषधयः, यद्वनस्पतयः । तमेतेन साम्ना ऽऽप्नुवन् । स एनानाप्तो ऽभ्यावर्तत । तस्मादस्यामूर्ध्वा ओषधयो जायन्ते, ऊर्ध्वा वनस्पतयः । तथो ऽएवैतेभ्य एतद्वाचो रसो ऽभिजितो ऽपचिक्रमिषति । स इमामेव पराङतिसिसृप्सति । इयं वै वाक्- तस्या एष रसो- यदोषधयः, यद्वनस्पतयः । तमेतेन साम्ना ऽऽप्नुवन्ति । स एनानाप्तो ऽभ्यावर्तते । तस्मादस्यामूर्ध्वा ओषधयो जायन्ते, ऊर्ध्वा वनस्पतयः ॥ १६ ॥

सायणः

ते यथाधिष्ण्यमिति । ‘यथाधिष्ण्यं’ यद्यस्य धिष्ण्यमेतस्मिन्नित्येतस्मिन्नर्थे यथाधिष्ण्यमित्येतत्पदं वर्तते । यथाधिष्ण्यमुपविष्टेष्वध्वर्युर्ग्रहं गृह्णाति 15 प्राजापत्यं वायुं पृथिव्या पात्रेण तूष्णीं सादयित्वा च स्तोत्रमुपाकरोति । तत्रोद्गातारो याम्येन साम्ना स्तुवत इत्येतावति श्रुत्यन्तरात्सिद्धे केनाथ तत्साम्ना स्तुवत इत्यादि इत्यपेक्षिते देवेभ्यो वै वाक् इत्याह देवेभ्यो हेति । (देवेसोदशरंते) ‘वाचः’ वागिन्द्रियस्य संबन्धी रसो ऽपि (तयीत्तसमुत्थ) अभिजितः स्तोत्रशस्त्राणां सततप्रयोगादभिक्षयितः यथा कुपितो व्याधिर्जित इत्युच्यते ‘अपचिक्रमिषाञ्चकार’ अपक्रमितुमियेष । इमामेव भूमिम् अत्यसिसृप्सत् अतिसर्पितुमतिक्रमितुमैच्छत् । ‘पराङ्’ मुखः पातालं प्रतीत्यर्थः । किन्तु पुनः कारणमत्यसिसृप्सदत आह- ‘इयं’ ‘वाक्’ कथं वागिन्द्रियस्य मुखमायतनं तत्त्वपार्थिवं ततश्चैव पराङ् मुखशरीरा वागियमेव पृथिवी एतावांस्तु विशेषो मुखात्मतायामस्ति; ताल्वाद्यभिघाताद्वर्षात्मकः शब्दो ऽभिव्यज्यते । इतरदध्वर्युरात्मन इति तस्या एव रस इति ‘तस्या’ आधिदैविक्याः पृथिव्यात्मिकाया वाचः ‘एष रसः’ सारः ओषध्यादिः स च तस्मादाध्यात्मिकाद्रसादशितपीतसमुत्थादभितस्तत्कारणत्वात् । ततश्च तस्मिन्वागाध्यात्मिकी शरीरादपचिक्रमिषति तस्मादभिन्नो ऽयमिति पार्थिवो रसः पृथिवीमतिसिसृप्सतीत्युपपन्नम् । ‘सृप्लृ गतौ’- (धा. पा. तु. प. १००८) (वस्तुतुकारित्वा यातमेतेन सान्मुनि (?) तं रसशरीरेभ्यः पृथिव्या दग्धापचिक्रमिषंति) तमेतेन याम्येन साम्ना मानसग्रहस्तोत्राङ्गभूतेनापूर्वकर्मणा वशीकृतवन्तः स च वशीकृतः सत्रे तान्देवानभिमुख आवृतः शरीरमपि सरसं जातं पृथिव्योषध्यादिमती जातेत्यर्थः । तस्मादित्यभ्यावृत्तिप्रदर्शनं तथो एवैतेभ्य इति पूर्ववद्व्याख्येयम् ॥ १६ ॥

Eggeling
  1. They sit down by their several dhishṇya-hearths. Now, once on a time, the pith of Vāc (speech) wished to desert the gods who had won it; it tried to creep away along this earth, for Vāc is

this earth: her pith are these plants and trees. By means of this Sāman 16 they overtook it, and, thus overtaken, it returned to them. Hence upwards on this earth grow the plants, and upwards the trees. And in like manner does the pith of Vāc wish to desert these (sacrificers) who have won it, and tries to creep away along this earth,–for Vāc is this earth: her pith are these plants and trees. By means of this Sāman they overtake it, and, thus overtaken, it returns to them. Hence upwards on this earth grow the plants, and upwards the trees.

१७

विश्वास-प्रस्तुतिः

सर्पराज्ञ्या᳘ ऋक्षु᳘ स्तुवते॥
(त ऽ) इयं वै᳘ पृथिवी᳘ सर्पराज्ञी त᳘दन᳘यै᳘वैतत्स᳘र्व्वमाप्नुवन्ति स्वयम्प्रस्तुतम᳘नुपगीतं य᳘था᳘ नान्य᳘ ऽउपशृणु᳘याद᳘ति ह रेचयेद्य᳘दन्यः᳘ प्रस्तुयाद᳘तिरेचयेद्य᳘दन्य᳘ ऽउपगा᳘येद᳘तिरेचयेद्य᳘दन्य᳘ उपशृणु᳘यात्त᳘स्मात्स्वयम्प्रस्तुतम᳘नुपगीतम्॥

मूलम् - श्रीधरादि

सर्पराज्ञ्या᳘ ऋक्षु᳘ स्तुवते॥
(त ऽ) इयं वै᳘ पृथिवी᳘ सर्पराज्ञी त᳘दन᳘यै᳘वैतत्स᳘र्व्वमाप्नुवन्ति स्वयम्प्रस्तुतम᳘नुपगीतं य᳘था᳘ नान्य᳘ ऽउपशृणु᳘याद᳘ति ह रेचयेद्य᳘दन्यः᳘ प्रस्तुयाद᳘तिरेचयेद्य᳘दन्य᳘ ऽउपगा᳘येद᳘तिरेचयेद्य᳘दन्य᳘ उपशृणु᳘यात्त᳘स्मात्स्वयम्प्रस्तुतम᳘नुपगीतम्॥

मूलम् - Weber

सर्पराज्ञ्या᳘ ऋक्षु᳘ स्तुवते॥
इयं वै᳘ पृथिवी᳘ सर्पराज्ञी त᳘दन᳘यैॗवैतत्स᳘र्वमाप्नुवन्ति स्वयम्प्रस्तुतम᳘नुपगीतं य᳘थाॗ नान्य᳘ उपशृणुयाद᳘ति ह रेचयेद्य᳘दन्यः᳘ प्रस्तुयाद᳘तिरेचयेद्य᳘दन्य᳘ उपगा᳘येद᳘तिरेचयेद्य᳘दन्य᳘ उपशृणुयात्त᳘स्मात्स्वयम्प्रस्तुतम᳘नुपगीतम्॥

मूलम् - विस्वरम्

सर्पराज्ञ्या ऋक्षु स्तुवते । इयं वै पृथिवी सर्पराज्ञी, तदनयैवैतत्सर्वमाप्नुवन्ति । स्वयम्प्रस्तुतमनुपगीतम् । यथा नान्य उपशृणुयात् । अति ह रेचयेद्- यदन्यः प्रस्तुयात् । अतिरेचयेद्- यदन्य उपगायेत् । अतिरेचयेद्- यदन्य उपशृणुयात् । तस्मात्स्वयं प्रस्तुतमनुपगीतम् ॥ १७ ॥

सायणः

सर्पराज्ञ्या ऋक्ष्विति । सर्पराज्ञी कद्रूः पृथिव्या अभिमानिनी तस्या आर्ष्यः ऋचः “आयं गौः पृश्निरक्रमीत्” (वा. सं. ३ । ६-८) इत्यादयः । तासु ‘स्तुवते’ स्वयं प्रस्तुतं यथा ऽन्येषु स्तोत्रेषु प्रस्तोता प्रस्तौत्युद्गातोद्गायति प्रतिहर्ता प्रतिहरति तथा ऽत्र । कथं तर्हि स्वयमेव प्रस्तुत्य सर्वमाप्नुवन्त्यनुपगीतं यथा अत्र उकारहोकाराभ्याम् उपगायंति नैव मन्त्रं गीयमानमन्यः समीपस्थो ऽपि शृणुयात् । शृणुयाञ्चेत् दुर्यागः स्यादित्यर्थः । किं कारणमतिरेचयेदात्मानं न साम्नस्तस्यैकादशं पुरुषान्तरे कुर्यात् । आत्मनि कृत्वा न कुर्यात् । यद् ‘अन्यः प्रस्तुयात्’ उपगायेत ‘उपशृणुयाद्’ वा ततश्च तदनुकारेणैतत् सर्वमेकेन सत्रिणा न प्रस्तुयादित्यभिप्रायः ॥ १७ ॥

Eggeling
  1. They chant verses of the queen of serpents; for the queen of serpents is this earth: through her they thus obtain everything. The prelude is performed by (the Udgātr̥) himself 17, and the chant is not joined in (by the choristers 18), lest some one else overhear it. For he would cause (the performance) to be in excess were another to chant; he would cause an excess, were another to join in it; he would cause an excess, were another to overhear it: therefore the prelude is performed by (the Udgātr̥) himself, and the chant is not joined in.

१८

विश्वास-प्रस्तुतिः

च᳘तुर्होतॄन्हो᳘ता[[!!]] व्या᳘चष्टे॥
(ष्ट ऽ) एत᳘दे᳘वैत᳘त्स्तुतम᳘नुशᳫँ᳭सति य᳘दि हो᳘ता न᳘ विद्या᳘द्गृह᳘पतिर्व्या᳘चक्षीत हो᳘तु᳘स्त्वेव᳘ व्याख्या᳘नम्॥

मूलम् - श्रीधरादि

च᳘तुर्होतॄन्हो᳘ता[[!!]] व्या᳘चष्टे॥
(ष्ट ऽ) एत᳘दे᳘वैत᳘त्स्तुतम᳘नुशᳫँ᳭सति य᳘दि हो᳘ता न᳘ विद्या᳘द्गृह᳘पतिर्व्या᳘चक्षीत हो᳘तु᳘स्त्वेव᳘ व्याख्या᳘नम्॥

मूलम् - Weber

च᳘तुर्होतॄ᳘न्हो᳘ता व्या᳘चष्टे॥
एत᳘देॗवैत᳘त्स्तुतम᳘नुशंसति य᳘दि हो᳘ता न᳘ विद्या᳘द्गृह᳘पतिर्व्या᳘चक्षीत हो᳘तुॗस्त्वेव व्याख्या᳘नम्॥

मूलम् - विस्वरम्

चतुर्होतॄन्होता व्याचष्टे । एतदेवैतत् स्तुतमनुशंसति । यदि होता न विद्याद्- गृहपतिर्व्याचक्षीत । होतुस्त्वेव व्याख्यानम् ॥ १८ ॥

सायणः

चतुर्होतॄनिति । चतुर्होतॄनपि मन्त्रसम्बन्धित्वात्पृथिवी होता चौरध्वर्युरित्यादयश्चत्वारो होतारस्तान् होता स्तोत्रान्ते ‘व्याचष्टे’ 19 विभक्त्यर्थान् दर्शयति ॥ १८ ॥

Eggeling
  1. The Hotr̥ recites the Four-Hotr̥ formulas, whereby he follows up that chant by a Śastra 20. If the Hotr̥ does not know them, let the Gr̥hapati recite them; but it is the Hotr̥’s recitation 21.

१९

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाध्वर्योः᳘ प्रतिगरः[[!!]]॥
(रो᳘ ऽ) अ᳘रात्सुरिमे य᳘जमाना भद्र᳘मेभ्यो य᳘जमानेभ्यो ऽभूदि᳘ति कल्या᳘णमे᳘वैत᳘न्मानुष्यै᳘ व्वाचो᳘ व्वदति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाध्वर्योः᳘ प्रतिगरः[[!!]]॥
(रो᳘ ऽ) अ᳘रात्सुरिमे य᳘जमाना भद्र᳘मेभ्यो य᳘जमानेभ्यो ऽभूदि᳘ति कल्या᳘णमे᳘वैत᳘न्मानुष्यै᳘ व्वाचो᳘ व्वदति॥

मूलम् - Weber

अ᳘थाध्वर्योः᳘ प्रतिगरः᳟॥
अ᳘रात्सुरिमे य᳘जमाना भद्र᳘मेभ्यो ऽभूदि᳘ति कल्या᳘णमेॗवैत᳘न्मानुष्यै᳘ वाचो᳘ वदति॥

मूलम् - विस्वरम्

अथाध्वर्योः प्रतिगरः । अरात्सुरिमे यजमानाः- भद्रमेभ्यो ऽभूदिति । कल्याणमेवैतन्मानुष्यै वाचो वदति ॥ १९ ॥

सायणः

अथाध्वर्योरिति 19 । ‘कल्याणं’ प्रशस्तम् ‘एतन्मानुष्यै’ मानुष्या ‘वाचः’ हता ध्वस्ता इत्येवमादित्वं कल्याणत्वे ॥ १९ ॥

Eggeling
  1. Then the Adhvaryu’s response 22 is, ‘These sacrificers have prospered: happiness hath accrued unto them!’ whereby he bespeaks success to human speech.

२०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वाकोवा᳘क्ये ब्रह्मो᳘द्यं व्वदन्ति॥
स᳘र्व्वं वै ते᳘षामाप्तं᳘ भवति स᳘र्व्वं जितं ये᳘ सत्रमा᳘सते᳘ ऽचारिषुर्य᳘जुर्भिस्तत्ता᳘न्यापंस्तद᳘वारुत्सता᳘शᳫँ᳭सिषुर्ऋ᳘चस्तत्ता᳘ ऽआपंस्तद᳘वारुत्सता᳘स्तोषत सा᳘मभिस्तत्ता᳘न्यापंस्तद᳘वारुत्सता᳘थैषामेत᳘देवा᳘नाप्तम᳘नवरुद्धं भवति य᳘द्वाकोवाक्यं[[!!]] ब्रा᳘ह्मणं त᳘दे᳘वैते᳘नाप्नुव᳘न्ति तद᳘वरुन्धते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वाकोवा᳘क्ये ब्रह्मो᳘द्यं व्वदन्ति॥
स᳘र्व्वं वै ते᳘षामाप्तं᳘ भवति स᳘र्व्वं जितं ये᳘ सत्रमा᳘सते᳘ ऽचारिषुर्य᳘जुर्भिस्तत्ता᳘न्यापंस्तद᳘वारुत्सता᳘शᳫँ᳭सिषुर्ऋ᳘चस्तत्ता᳘ ऽआपंस्तद᳘वारुत्सता᳘स्तोषत सा᳘मभिस्तत्ता᳘न्यापंस्तद᳘वारुत्सता᳘थैषामेत᳘देवा᳘नाप्तम᳘नवरुद्धं भवति य᳘द्वाकोवाक्यं[[!!]] ब्रा᳘ह्मणं त᳘दे᳘वैते᳘नाप्नुव᳘न्ति तद᳘वरुन्धते॥

मूलम् - Weber

अ᳘थ वाकोवाॗक्ये ब्रह्मो᳘द्यं वदन्ति॥
स᳘र्वं वै ते᳘षामाप्त᳘म् भवति स᳘र्वं जितं ये᳘ सत्त्रमा᳘सते᳘ ऽचारिषुर्य᳘जुर्भिस्तत्ता᳘न्यापंस्तद᳘वारुत्सता᳘शंसिषुरृ᳘चस्तत्ता᳘ आपस्तद᳘वारुत्सता᳘स्तोषत सा᳘मभिस्तत्ता᳘न्यापंस्तद᳘वारुत्सता᳘थैषामेत᳘देवा᳘नाप्तम᳘नवरुद्धं भवति य᳘द्वाकोवाक्य᳘म् ब्रा᳘ह्मणं त᳘देॗवैतेनाप्नुव᳘न्ति तद᳘वरुन्धते॥

मूलम् - विस्वरम्

अथ वाकोवाक्ये ब्रह्मोद्यं वदन्ति । सर्वं वै तेषामाप्तं भवति, सर्वं जितम्- ये सत्रमासते । अचारिपुर्यजुर्भिः- तत्तान्यापन्, तदवारुत्सत । आशंसिपुर्ऋचः- तत्ता आपन्; तदवारुत्सत । अस्तोषत सामभिः- तत्तान्यापन्; तदवारुत्सत । अथैषामेतदेवानाप्तमनवरुद्धं भवति- यद्वाकोवाक्यं ब्राह्मणम् । तदेवैतेनाप्नुवन्ति, तदवरुन्धते ॥ २० ॥

सायणः

अथ वाकोवाक्य इति । उच्यते इति वाकः पूर्वपक्षवचनं यथा “अब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मैति” (श. प. ब्रा. १४ । ६ । १० । २) उच्यत इति । वाक्यम् उत्तरपक्षवचनं यथा “एकपाद्वा एतत्सम्राड्” (श. प. ब्रा. १४ । ६ । १० । २) इति । वाकाश्च वाक्यानि चेति वाकवाक्यानीति प्राप्ते विभक्तेरलुक् द्रष्टव्यः । वाकोवाक्यानि वाकोवाक्यानां समूहो वाकोवाक्यं पूर्वोत्तरपक्षवचनसंघातो जनक याज्ञवल्क्यसंवादादिस्तस्मिन् ‘वाकोवाक्ये’ विषयभूते ‘ब्रह्मोद्यं’ ‘वदन्ति’ 23 सर्वे परस्परं यजमाना ब्रह्मणो ब्राह्मणज्ञातीयस्य द्रष्टव्यम् । ब्रह्मोद्यं किञ्चिद्ब्राह्मणानां वेदितव्यं ज्ञाते प्रकर्षविचिरव्यापयिषया प्रश्नो विषये प्रश्नप्रतिवचनसंघातस्तावद्ब्रह्मोद्यप्रभृतिवाकोवाक्यं ब्राह्मणः कविर्मन्त्रिणः कश्चित्पृच्छत्यर्थं ग्रन्थं वा अन्ये तु प्रतिक्रियन्त इत्यर्थः । ‘सर्वं वै’ मन्त्रजातं ‘तेषामाप्तं भवति’ इत्यभिप्रायः । ‘सर्वं जितं’ प्रयोगेण वशीकृतं कथं यजुर्भिस्तावद् ‘अचारिषुः’ चरितवन्तः । ‘तत्’ तेनैव चरणेन ‘तानि’ यजूंषि ‘आपन्’ आपन्नाः । तेनैव वचनानि ‘अवारुत्सत’ अवरुद्धवन्तो वशीकृतवन्तः । एवम् ‘अस्तोषत’ स्तुतवन्तः ‘सामभिः’ ‘आशंसिषुः’ शस्तवन्तः शस्त्रेष्वृचः । ‘अथैषाम्’ ‘अथ’ शब्दो विशेषणार्थः । एतच्च तेषां सत्रिणाम् ‘अनाप्तं’ भवति । यद्वाकोवाक्यमुक्तिप्रत्युक्तिका ब्राह्मणं “जनको ह वैदेह आसांचक्रे” (श. प. ब्रा. १४-६-१०-१) इत्यादि तदेवैतेन ब्रह्मोद्येनाप्नुवन्ति तद्धि प्रश्नप्रतिवचनाभ्यां पाठ्यमानं व्याख्यानं च प्रयुक्तमेव भवतीत्यभिप्रायः ॥ २० ॥

Eggeling
  1. Thereupon they utter the Brahmodya 24 in

(the form of a) dialogue. For everything, indeed, is obtained, everything gained by them that sit through a sacrificial session,–they have performed with Yajus prayers: these have obtained so much, have acquired so much; they have recited R̥k verses: these have obtained so much, have acquired so much; they have chanted Sāmans: these have obtained so much, have acquired so much. But this has not been obtained, this has not been acquired by them, namely, the (theological) discussion, the sacred discourse: this is what they thereby obtain, what they acquire.

२१

विश्वास-प्रस्तुतिः

(त ऽऔ᳘) औ᳘दुम्बरीमुपसᳫँ᳭सृ᳘प्य व्वा᳘चं यच्छन्ति॥
व्वि᳘दुहन्ति वा᳘ ऽएते᳘ यज्ञं नि᳘र्धयन्ति ये᳘ व्वाचा᳘ यज्ञं᳘ तन्व᳘ते व्वाग्घि᳘ यज्ञस्ता᳘मेषां पुरै᳘कैक ऽएव᳘ व्वाचंयम᳘ आस्ते व्वा᳘चमाप्याय᳘यंस्तया᳘ ऽऽपीनया᳘ ऽयातयाम्न्यो᳘त्तरम᳘हस्तन्वते ऽथा᳘त्र स᳘र्व्वैव व्वा᳘गाप्ता᳘ भवत्य᳘पवृक्ता ताᳫँ᳭ स᳘र्व ऽएव᳘ व्वाचंयमा व्वा᳘चमा᳘प्याययन्ति तया᳘ ऽऽपीनया᳘ ऽयातयाम्न्या ऽतिरात्रं᳘ तन्वते॥

मूलम् - श्रीधरादि

(त ऽऔ᳘) औ᳘दुम्बरीमुपसᳫँ᳭सृ᳘प्य व्वा᳘चं यच्छन्ति॥
व्वि᳘दुहन्ति वा᳘ ऽएते᳘ यज्ञं नि᳘र्धयन्ति ये᳘ व्वाचा᳘ यज्ञं᳘ तन्व᳘ते व्वाग्घि᳘ यज्ञस्ता᳘मेषां पुरै᳘कैक ऽएव᳘ व्वाचंयम᳘ आस्ते व्वा᳘चमाप्याय᳘यंस्तया᳘ ऽऽपीनया᳘ ऽयातयाम्न्यो᳘त्तरम᳘हस्तन्वते ऽथा᳘त्र स᳘र्व्वैव व्वा᳘गाप्ता᳘ भवत्य᳘पवृक्ता ताᳫँ᳭ स᳘र्व ऽएव᳘ व्वाचंयमा व्वा᳘चमा᳘प्याययन्ति तया᳘ ऽऽपीनया᳘ ऽयातयाम्न्या ऽतिरात्रं᳘ तन्वते॥

मूलम् - Weber

औ᳘दुम्बरीमुपसंसृ᳘प्य वा᳘चं यछन्ति॥
वि᳘दुहन्ति वा᳘ एते᳘ यज्ञं नि᳘र्धयन्ति ये᳘ वाचा᳘ यज्ञं᳘ तन्व᳘ते वाग्घि᳘ यज्ञस्ता᳘मेषाम् पुरै᳘कैक एव᳘ वाचंयम᳘ आस्ते वा᳘चमाप्याय᳘यंस्तया᳘पीनया᳘यातयाम्न्यो᳘त्तरम᳘हस्तन्वते ऽथा᳘त्र स᳘र्वैव वा᳘गाप्ता᳘ भवत्य᳘पवृक्ता ताᳫं स᳘र्व एव᳘ वाचंयमा वा᳘चमा᳘प्याययन्ति तया᳘पीनया᳘यातयाम्न्यातिरात्रं᳘ तन्वते॥

मूलम् - विस्वरम्

औदुम्बरीमुपसंसृप्य वाचं यच्छन्ति । विदुहन्ति वा ऽएते यज्ञम्, निर्धयन्ति । ये वाचा यज्ञं तन्वते । वाग्घि यज्ञः । तामेषां पुरैकैक एव वाचंयम आस्ते- वाचमाप्याययन् । तया ऽऽपीनया ऽयातयाम्न्योत्तरमहस्तन्वते । अथात्र सर्वैव वागाप्ता भवति । अपवृक्ता । तां सर्व ऽएव वाचंयमा वाचमाप्याययन्ति । तया ऽऽपीनया ऽयातयाम्न्या ऽतिरात्रं तन्वते ॥ २१ ॥

सायणः

‘औदुम्बरी’ स्थूणामुपसङ्गम्य वागिन्द्रियं यच्छन्ति अस्तमिते गृहीत्वौदुंबरीं व्वाचं यच्छंति । (का. श्रौ. सू. १२ । ८८) व्यापारादुपरमयन्ति । किं कारणं ‘विदुहन्ति’ बहुप्रकारं क्षारयन्तो यज्ञं वागिन्द्रियेण तदभिव्यक्तया ‘वाचा’ शब्देन यज्ञं विस्तारयन्ति कथं पुनर्वाचा यज्ञं तन्वानाश्च यज्ञं दुहन्तीत्यन्तवाचमेव [स्तृतृणा ?] एकैकस्य एव सत्री ‘पुरा’ पूर्वेष्वहःसु वाचम् आप्याययन् तावतैव अनया उत्तरमहस्तन्वते । ‘अथात्र’ दशमे ऽहन्ययं विशेष: । ‘सर्वैव’ वागिन्द्रियात्मिका अभि ‘वाक्’ [य ?] शब्दात्मिका ‘आप्ता’ भवति । वाकोवाक्यं ब्रह्मोद्यस्य सर्वे युगपदवहिता इत्यभिप्रायः । स चाप्रकृता समाप्ता नालं पुनः प्रयोगायतनेनैव ‘तां’ सर्व एव सत्रिणो ‘वाचमाप्याययन्ति’ ‘तया’ वाचा ‘आपीनया ऽतिरात्रं तन्वते’ महत्तरत्वात् ॥ २१ ॥

Eggeling
  1. Having ‘crept’ up to the Udumbara post, they restrain their speech. Now, they who perform the sacrifice with speech, milk and suck out the

sacrifice; for sacrifice is speech. And previously to this, each of them sits speechless, strengthening his speech 25, and with their speech thus strengthened and reinvigorated they perform the last day. But at this (disputation) the entire speech, thus obtained, becomes exhausted: that speech they all strengthen (by remaining) speechless, and with it thus strengthened and reinvigorated they perform the Atirātra 26.

२२

विश्वास-प्रस्तुतिः

(त ऽ) औ᳘दुम्बरीमन्वार᳘भ्यासते॥
(ते᳘ ऽन्नं) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऊ᳘र्जै᳘वैतद्वा᳘चमा᳘प्याययन्ति॥

मूलम् - श्रीधरादि

(त ऽ) औ᳘दुम्बरीमन्वार᳘भ्यासते॥
(ते᳘ ऽन्नं) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऊ᳘र्जै᳘वैतद्वा᳘चमा᳘प्याययन्ति॥

मूलम् - Weber

औ᳘दुम्बरीमन्वार᳘भ्यासते॥
अ᳘न्नं वा ऊ᳘र्गुदुम्ब᳘र ऊॗर्जैॗवैतद्वा᳘चमा᳘प्याययन्ति॥

मूलम् - विस्वरम्

औदुम्बरीमन्वारभ्यासते । अन्नं वा ऊर्गुदुम्बरः । ऊर्जैवैतद्वाचमाप्याययन्ति ॥ २२ ॥

सायणः

औदुम्बरीमिति । प्रसन्ना ॥ २२ ॥

Eggeling
  1. They sit touching the Udumbara post 27, for strength is food, and the Udumbara tree is strength: with strength he thus invigorates speech.

२३

विश्वास-प्रस्तुतिः

ते᳘ ऽस्तमिते प्रा᳘ञ्च ऽउपनि᳘ष्क्रामन्ति॥
ते᳘ जघ᳘नेनाहवनी᳘यमासते᳘ ऽग्रेण हविर्धा᳘ने ता᳘न्वाचंयमा᳘नेव᳘ व्वाचंयमः᳘ प्रतिप्रस्थाता᳘ व्वसतीव᳘रीभिरभिप᳘रिहरति ते य᳘त्कामा ऽआ᳘सीरंस्ते᳘न व्वा᳘चं व्वि᳘सृजेरन्का᳘मैर्ह स्म वै᳘ पुर᳘ ऽर्षयः सत्रमासते ऽसौ᳘ नः का᳘मः स᳘ नः स᳘मृध्यतामि᳘ति य᳘द्यु ऽअ᳘नेककामाः स्यु᳘र्लोक᳘कामा वा प्रजा᳘कामा वा पशु᳘कामा वा॥

मूलम् - श्रीधरादि

ते᳘ ऽस्तमिते प्रा᳘ञ्च ऽउपनि᳘ष्क्रामन्ति॥
ते᳘ जघ᳘नेनाहवनी᳘यमासते᳘ ऽग्रेण हविर्धा᳘ने ता᳘न्वाचंयमा᳘नेव᳘ व्वाचंयमः᳘ प्रतिप्रस्थाता᳘ व्वसतीव᳘रीभिरभिप᳘रिहरति ते य᳘त्कामा ऽआ᳘सीरंस्ते᳘न व्वा᳘चं व्वि᳘सृजेरन्का᳘मैर्ह स्म वै᳘ पुर᳘ ऽर्षयः सत्रमासते ऽसौ᳘ नः का᳘मः स᳘ नः स᳘मृध्यतामि᳘ति य᳘द्यु ऽअ᳘नेककामाः स्यु᳘र्लोक᳘कामा वा प्रजा᳘कामा वा पशु᳘कामा वा॥

मूलम् - Weber

ते᳘ ऽस्तमिते प्रा᳘ञ्च उपनि᳘ष्क्रामन्ति॥
ते᳘ जघ᳘नेनाहवनी᳘यमासते᳘ ऽग्रेण हविर्धा᳘ने ता᳘न्वाचंयमा᳘नेव᳘ वाचंयमः᳘ प्रतिरस्थाता᳘ वसतीव᳘रीभिरभिप᳘रिहरति ते य᳘त्कामा आ᳘सीरंस्ते᳘न वा᳘चं वि᳘सृजेरन्का᳘मैर्ह स्म वै᳘ पुर᳘र्षयः सत्त्र᳘मासते ऽसौ᳘ नः का᳘मः स᳘ नः स᳘मृध्यतामि᳘ति 28 य᳘द्यु अ᳘नेककामाः स्यु᳘र्लोक᳘कामा वा प्रजा᳘कामा वा पशु᳘कामा वा॥

मूलम् - विस्वरम्

ते ऽस्तमेति प्राञ्च उपनिष्क्रामन्ति । ते जघनेनाहवनीयमासते- अग्रेण हविर्धाने । तान्वाचंयमानेव वाचंयमः प्रतिप्रस्थाता वसतीवरीभिरभिपरिहरति । ते यत्कामा आसीरन्- तेन वाचं विसृजेरन् । कामैर्ह स्म वै पुर ऽर्षयः सत्रमासते- असौ नः कामः- स नः समृध्यतामिति । यद्यु ऽअनेककामाः स्युः, लोककामा वा, प्रजाकामा वा, पशुकामा वा ॥ २३ ॥

सायणः

ते ऽस्तमेतीति । सदसो निष्क्रम्योत्तरवेदिमुपविशति 29 । तत्रैव चोपविष्टान् ‘प्रतिप्रस्थाता वसतीवरीभिः परिहरति’ व्याप्नोति । अद्भिरभिहृताश्च संतः ‘ते’ ‘यत्कामाः’ यः काम एषां यत्कामाः सत्रम् ‘आसीरन्’ ‘तेन’ एव कामेन युक्तां तत्कामाभिवादिनीं ‘वाचं’ ‘विसृजेरन्’ । कथम् ‘असौ’ यागः ‘कामः’ ‘स नः’ ‘समृध्यतामिति’ एवं किं कारणं ‘कामैर्ह स्म वै पुरा’ यज्ञैः ह स्म ‘ऋषयः सत्रमासते’ न नित्यकर्म निष्कामादधुनापि कामेन तेन वाचं विसृजेरन्यदितु नानाकामाः स्युः सत्रिणः ॥ २३ ॥

Eggeling
  1. When the sun has set, they go out (of the Sadas) eastward, and sit down behind the Āhavanīya, in front of the Havirdhāna shed. Round them, sitting speechless, the Pratiprasthātr̥ carries the Vasatīvarī water 30. For whatever object they perform the session, therewith let them release their speech. For in olden times the R̥shis were wont to hold sacrificial sessions for certain objects,–‘such is our wish: may that be fulfilled!’ And if they be desirous of different objects, desirous of subjects, desirous of offspring, desirous of cattle,–

२४

विश्वास-प्रस्तुतिः

(वा ऽने᳘) अने᳘नैव व्वा᳘चं व्वि᳘सृजेरन्॥
(न्भू) भूर्भु᳘वः स्वरि᳘ति त᳘त्सत्ये᳘नै᳘वैतद्वा᳘चᳫँ᳭ स᳘मर्धयन्ति त᳘या स᳘मृद्धया ऽऽशि᳘ष ऽआ᳘शास्ते सुप्रजाः᳘ प्रजा᳘भिः स्यामे᳘ति त᳘त्प्रजामा᳘शासते सुवी᳘रा व्वीरैरि᳘ति त᳘द्वीराना᳘शासते सुपो᳘षाः पोषैरि᳘ति[[!!]] तत्पुष्टिमा᳘शासते[[!!]]॥

मूलम् - श्रीधरादि

(वा ऽने᳘) अने᳘नैव व्वा᳘चं व्वि᳘सृजेरन्॥
(न्भू) भूर्भु᳘वः स्वरि᳘ति त᳘त्सत्ये᳘नै᳘वैतद्वा᳘चᳫँ᳭ स᳘मर्धयन्ति त᳘या स᳘मृद्धया ऽऽशि᳘ष ऽआ᳘शास्ते सुप्रजाः᳘ प्रजा᳘भिः स्यामे᳘ति त᳘त्प्रजामा᳘शासते सुवी᳘रा व्वीरैरि᳘ति त᳘द्वीराना᳘शासते सुपो᳘षाः पोषैरि᳘ति[[!!]] तत्पुष्टिमा᳘शासते[[!!]]॥

मूलम् - Weber

अने᳘नैव वा᳘चं वि᳘सृजेरन्॥
भूर्भु᳘वः स्वरि᳘ति त᳘त्सत्ये᳘नैॗवैतद्वा᳘चᳫं स᳘मर्धयन्ति त᳘या स᳘मृद्धयाशि᳘ष आ᳘शासते सुप्रजाः᳘ प्रजा᳘भिः स्यामे᳘ति त᳘त्प्रजामा᳘शासते सुवी᳘रा वीरैरि᳘ति त᳘द्वीराना᳘शासते सुपो᳘षाः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शासते॥

मूलम् - विस्वरम्

अनेनैव वाचं विसृजेरन्- “भूर्भुवः स्वः”- इति । तत् सत्येनैवैतद्वाचं समर्धयन्ति । तया समृद्धया ऽशिष आशास्ते । “सुप्रजाः प्रजाभिः स्याम”- इति । तत् प्रजामाशासते । “सुवीरा वीरैः”- इति । तद्वीरानाशासते । “सुपोषाः पोषैः”- (वा० सं० २ । ५३) इति । तत् पुष्टिमाशासते ॥ २४ ॥

सायणः

अनेनेति । तदाः ‘अनेनैव’ प्रमाणेन ‘भूर्भुवः स्वरिति’ मन्त्रेण ‘वाचं विसृजेरन्’ यागादिना कामेन ॥ २४ ॥

Eggeling
  1. Let them release their speech with this (Vāj. S. VIII, 53), ‘Earth! Air! Sky!’ Thus they render their speech auspicious by means of the truth, and with that auspicious (speech) they pray for blessings,–‘May we be abundantly supplied with offspring!’–thereby they pray for offspring;–‘May we be abundantly supplied with men!’–thereby they pray for men;–‘May we be abundantly supplied with food!’ thereby they pray for prosperity.

२५

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ गृह᳘पतिः सुब्रह्मण्यामा᳘ह्वयति॥
यं᳘ वा गृह᳘पतिर्ब्रूयात्पृ᳘थगु हैवै᳘के सुब्रह्मण्यामा᳘ह्वयन्ति गृह᳘पति᳘स्त्वेव᳘ सुब्रह्मण्यामा᳘ह्वयेद्यं᳘ वा गृह᳘पतिर्ब्रूयात्त᳘स्मिन्त्समुपहव᳘मिष्ट्वा᳘ समि᳘धो ऽभ्या᳘दधति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ गृह᳘पतिः सुब्रह्मण्यामा᳘ह्वयति॥
यं᳘ वा गृह᳘पतिर्ब्रूयात्पृ᳘थगु हैवै᳘के सुब्रह्मण्यामा᳘ह्वयन्ति गृह᳘पति᳘स्त्वेव᳘ सुब्रह्मण्यामा᳘ह्वयेद्यं᳘ वा गृह᳘पतिर्ब्रूयात्त᳘स्मिन्त्समुपहव᳘मिष्ट्वा᳘ समि᳘धो ऽभ्या᳘दधति॥

मूलम् - Weber

अ᳘थ गृह᳘पतिः सुब्रह्मण्यामा᳘ह्वयति॥
यं वा गृह᳘पतिर्ब्रूयात्पृ᳘थगु हैवै᳘के सुब्रह्मण्यामा᳘ह्वयन्ति गृह᳘पतिॗस्त्वेव᳘ सुब्रह्मण्यामा᳘ह्वयेद्य᳘म् वा गृह᳘पतिर्ब्रूयात्त᳘स्मिन्त्समुपहव᳘मिष् ट्वा᳘ समि᳘धो ऽभ्या᳘दधति॥

मूलम् - विस्वरम्

अथ गृहपतिः सुब्रह्मण्यामाह्वयति, यं वा गृहपतिर्ब्रूयात् । पृथगु हैवैके सुब्रह्मण्यामाह्वयन्ति । गृहपतिस्त्वेव सुब्रह्मण्यामाह्वयेत् । यं वा गृहपतिर्ब्रूयात् । तस्मिन्त्समुपहवमिष्ट्वा समिधो ऽभ्यादधति ॥ २५ ॥

इति सत्रोत्थानम् ॥

सायणः

एतच्च ब्रुवन्नानाकामानामप्यस्ति सत्रमिति दर्शयति । अथेति अतो ऽनेवं वाचि विसृष्टायां गृहपतिः ‘सुब्रह्मण्यामाह्वयति’ 31 यथा ‘गृहपतिर्ब्रूयात्’ त्वमाह्वयेति ‘सुब्रह्मण्याम्’ आह्वयेत् यश्च तामाह्वयति । ‘तस्मिन्’ अधीतेन (धारं वा) ‘समुपहवं’ अनुज्ञाम् ‘इष्ट्वा’ “इषु इच्छायाम्”- (धा. पा. तु. प. ७१) तत्पूर्वं प्राक् लक्ष्यते सुब्रह्मण्यामाह्वयस्वेत्यैवमुक्त्वा ? एकैकेन ततः समिधो ऽभ्यादधति’ आहवनीये ॥ २५॥

इत्याचार्यहरिस्वामिनः कृतौ शतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये नवमं ब्राह्मणम् ॥४-६-९॥

इति पञ्चमः प्रपाठकः समाप्तः ॥ ५ ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ शतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठो ऽध्यायः समाप्तः ॥ ६ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ १ ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां हरिस्वामिनां शुक्लयजुर्वेदीये माध्यन्दिनशतपथब्राह्मणभाष्ये ग्रहनामकं चतुर्थं काण्डं समाप्तम् ॥ ४ ॥

Eggeling
  1. Thereupon the Gr̥hapati, or whomsoever the Gr̥hapati may call upon, recites the Subrahmaṇyā litany 32. Some, indeed, recite the Subrahmaṇyā each separately; but rather let the Gr̥hapati, or whomsoever the Gr̥hapati may call upon, recite the Subrahmaṇyā. Having desired an invitation to that (Atirātra feast), they put kindling-sticks on the fire 33.

  1. 446:3 The Kāṇva text has nisheduḥ, ’they sat down.’ See IV, 6, 8, 1. ↩︎

  2. 446:4 See p. 31, note 1. ↩︎

  3. 447:1 Viz. those referred to in paragraphs 8 and 9. ↩︎

  4. सत्रात्मकस्य द्वादशाहस्य मध्ये यो दशरात्रः तस्य दशमे ऽहनि सत्रोत्थानं कर्म तद्धर्मा विधीयते । ↩︎ ↩︎

  5. दशमे ऽपराह्णे ऽप उपस्पृश्य शालाप्रवेशनम् । शालाद्वार्ये ऽन्वारब्धेष्विह रतिरिति जुहोति । का. श्रौ. सू. १२ । ७४ । ७५ । ↩︎

  6. 447:2 That is, on the tenth day of the Daśarātra, and hence either the last but one day of the sessional Dvādaśāha (p. 402, note 2), or the last day but two of the Gavām ayana (p. 426, note 3), called Avivākya. The ceremonies here described take place in the afternoon, after the regular performance of that day’s (atyagnishṭoma) Soma-sacrifice. ↩︎

  7. 448:1 ‘Each of them (? or, one by one), speech-bound, guards Soma till the wakening,’ Kāty. XII, 4, 1. According to the Kāṇva text only one (eko haishām) does so (but perhaps at a time), while the others disperse (vitishṭḥante). ↩︎

  8. 448:2 The Patnīśāla seems to be identical here with the Prācīnavaṁśa (see Kāty. XII, 4, 7), unless it be some shed or tent adjoining the latter, cf. Āpast. Śr. X, 5, comm. The sacrificial formula of the first offering seems to refer to the domestic hearth, the centre of the family life, as a source of joy and strength to the householder. ↩︎

  9. 448:3 According to the Kāṇva text, the Adhvaryu makes the oblations; but if he does not know how to perform them (i.e. if they are not recognised by his school as belonging to the Adhvaryu’s duties), the Gr̥hapati does so; and if he cannot do so, any one that knows them, may perform them. Regarding these oblations, and the order of the subsequent ceremonies, there is indeed considerable difference of opinion among the ritualistic authorities. According to Āśv. VIII, 13, 1-2 all of them offer, but only the first oblation is to be performed on the Gārhapatya, and the second on the Āgnīdhrīya. Lāṭy. III, 7, 8 seq., on the other hand, enjoins the Udgātr̥ to perform two oblations on the Gārhapatya; the first with the (somewhat modified) formula, assigned in our text to the second oblation, while the second oblation is to be made with ‘Svāhā’ simply. [The first of the above formulas is, according to that authority, to be used by them, when they touch the Udumbara post, see IV, 6, 9, 22.] The oblations completed, they are to proceed to the Āhavanīya, where the Udgātr̥s are to chant thrice the Sāman II, 1126 (?); after which they enter the Sadas to perform the Mānasa-stotra. ↩︎

  10. उत्तरस्य हविर्द्धानस्यापरकूबरीमालम्ब्य सत्रस्यर्द्धि गायंति सत्रस्य ऋद्धिरिति । उत्तरवेदिश्रोण्यां वोत्तरस्याम् । का. श्रौ. सू. १२ । ७७ । ७८ । ↩︎

  11. 449:1 According to Kāty. XII, 4, 10 and comm., the southern shaft of the northern cart is intended. Similarly the Kāṇva text,–while touching the right shaft of the northern cart he sings thereon the Sāman ’the completion (success) of the session.’ The words ‘sattrasya r̥ddhiḥ’ are doubtless the name of the Sāman, which has been erroneously made, with ‘asi’ appended to it in the Mādhy. text of the Saṁhitā, the beginning of the Sāman. ↩︎

  12. युवं तमिति दक्षिणस्याधो ऽक्षं प्रांञ्चो निष्क्रामंति । का. श्रौ. सू. । १२ । ७९ । ↩︎

  13. 450:1 See p. 299, note 2. ↩︎

  14. त्संत्सद्ग᳘हनं B. ↩︎

  15. सदः प्रविश्य पूर्व्वेण स्वासनेषूपविशंति । ग्रहं गृह्णाति प्राजापत्यं व्वायुं पृथिव्या पात्रेण । ग्रहणप्रदानस्तोत्रोपाकरणहोमभक्षाहरणभक्षणानि मनसा । का० श्रौ० सू० । १२ । ८० । ८१ ॥ ↩︎

  16. 451:1 Viz. the so-called Mānasa-stotra (mental chant), Sāma-veda II, 726-8 (Rig-veda X, 289, 1-3, ascribed to the queen of serpents): ‘The spotted bull has come up, &c.,’ performed inaudibly. In connection with this Stotra, an imaginary libation to Prajāpati-Vāyu is performed, everything connected with which, from the upākaraṇa (or introduction, on the part of the Adhvaryu, see p. 401, note 1) up to the bhaksha, or drinking of the cup by the priests, is done ‘mentally’ (that is, as would seem, by gestures merely). According to. Āśv. II, 13, 6, however, the Hotr̥ recites the same hymn in a low voice (upāṁśu), but not inaudibly, as a Śastra. But see p. 452, note 1. ↩︎

  17. 451:2 Not by the Prastotr̥, as is otherwise the case; see p. 310, note 1. ↩︎

  18. 451:3 See p. 311, note 1. ↩︎

  19. चतुर्होतृव्याख्यानँ होतुः । गृहपतिरजानति । का० श्रौ० सू० । १२ । ८१ । ८२ । ↩︎ ↩︎

  20. 452:1 According to this (and Tāṇḍya Br. IV, 9, 13) it would seem that the Hotr̥ is not to recite the hymn of the Mānasa-stotra, as prescribed by the Ait. Br. and Āśv. ↩︎

  21. 452:2 The caturhotr̥ formulas–so-called from four priests, Agnīdh, Adhvaryu, Hotr̥; and Upavaktr̥; being mentioned in them–are as follows: ‘Their offering-spoon was (the power of) thinking; the ghee was thought; the altar was speech; the barhis was object of meditation; the fire was intelligence; the Agnīdh was understanding; the oblation was breath; the Adhvaryu was the Sāman; the Hotr̥ was Vācaspati; the Upavaktr̥ was the mind;’–at the end of each of these ten formulas the Adhvaryu, according to Āśv., responds, ‘Yea (om), Hotar! So (it is), O Hotar!’–(the Hotr̥ proceeds), ‘They forsooth took that (mānasa) graha; O Vācaspati! O disposer (or decree), O name! Let us praise thy name! Praise thou (and) by our name go to heaven! What success the gods have obtained with Prajāpati as their gr̥hapati, that success shall we obtain!’ ↩︎

  22. 452:3 ? That is, at the conclusion of the caturhotr̥-mantras. Āśv., on the other hand, makes the Hotr̥ conclude the Brahmodya with the benediction, ‘O Adhvaryu, we have succeeded!’ to which the latter is to respond, ‘We have succeeded, O Hotar!’ ↩︎

  23. ब्रह्मोद्यं व्वदति । प्रजापतेरगुणाख्यानम् । अप्रतिभायां वा तद्वादः । आश्वमेधिकं वा नामधेयात् । का. श्रौ. सू. १२ । ८४-८७ । ↩︎

  24. 452:4 That is, a discussion, or disputation, regarding the nature of the Brahman. According to Tāṇḍya Br. IV, 9, 14, as interpreted by the commentary, the performance consists rather in (or is followed by?) vituperative remarks on Prajāpati, whom they have now safely got into their power (allusion being made, for instance, to his criminal relations to his daughter; to his having created thieves, gad-flies and mosquitos, &c.); but this, it seems to me, is probably a wrong interpretation of the ‘parivadanti’ in the text, which may mean that ’they discourse’ upon Prajāpati. So also Kāty. XII, 4, 21, Prajāpater aguṇākhyānam, ‘aguṇa’ may have to be taken in the sense of ’nirguṇa’ or ’nirguṇatvam’ (unqualifiedness, unconditionedness), rather than in that of ‘vice;’ and it is worthy of note that the Prajāpati-tanu formulas, preceding the Brahmodya proper, consist chiefly in the enumeration of negative qualities. ‘The twelve bodies of Prājapati are qualified as follows:–the eater of food and the mistress of food; the happy and glorious; the abodeless and dauntless; the unattained and unattainable; the invincible and irresistible; the unpreceded and unmatched.’ Then follows the Brahmodya:–‘Agni is the house-lord (gr̥hapati),’ so say some: ‘he is the house-lord of this world;’–‘Vāyu is the house-lord,’ so say some: ‘he is the house-lord of the airy region;’–yonder (sun), forsooth, is the house-lord: he who burns yonder, he is the lord, and the seasons are the house. Verily, to whatsoever (sacrificers) he becomes the gr̥hapati, who knows that divine gr̥hapati, that gr̥hapati prospers, and they, the sacrificers, prosper: to whatsoever (sacrificers) he becomes the gr̥hapati, who knows the divine averter of evil, that gr̥hapati averts evil, and they, the sacrificers, avert evil! See Ait. Br. V, 25. According to Āśv., the Hotr̥ alone would seem to repeat the Brahmodya. The expression vākovākya (dialogue) apparently refers to the controversial form of this discourse. See also A. Ludwig, Rig-veda, III p. 390 seq. ↩︎

  25. 454:1 The construction of the text is quite irregular, and I am by no means certain whether ’tām eshām purā’ should not be separated from what follows, and have the verbs ‘viduhanti’ and ’nirdhayanti’ supplied after them,–That (speech) of theirs (they milk and suck out) before this. Each now sits speech-bound, strengthening his speech, &c. ↩︎

  26. 454:2 That is, the last day of the Dvādaśāha, or of the Gavāmayana, the so-called Udayanīya-atirātra. ↩︎

  27. 454:3 According to Lāṭy. III, 8, it they form a circle round the Udumbara post and touch it, muttering the mantra, ‘Here is stability, here is (our) own stability! Here is joy: here rejoice ye!’ or, ‘In me is stability, in me is (your) own stability! in me is joy: in me rejoice ye!’ or both. See p. 448, note 3. ↩︎

  28. स᳘मृद्ध्यता AB ↩︎

  29. अस्तमिते निष्क्रम्यापरेणोत्तरवेदिमासते । प्रतिप्रस्थाता वसतीवरीःपरिहरति । व्वाग्विसर्जनँ सत्रकामेन पृथक्कामेषु भूर्भुव इति । का० श्रौ० सू० १२ । ८८-९१ ॥ ↩︎

  30. 454:4 See III, 9, 2, 1 seq. ↩︎

  31. सुब्रह्मण्याह्वानं गृहपतिर्ये वा ऽऽह । सुब्रह्मण्य उपमाह्वयस्वेत्युक्त्वा सामदाधानम् । अप उपस्पर्शनाद्येतत्सत्रोत्थानम् । इति सत्रोत्थानम् । तद्धर्माः । का० श्रौ० सू० १२ । ९३-९५ ॥ ↩︎

  32. 455:1 See III, 3, 4, 17 seq. ↩︎

  33. 455:2 According to the comm. on Kāty. XII, 4, 28 it is the reciter of the Subrahmaṇyā who, having said ‘O Subrahmaṇyā, invite me thereto!’ puts sticks on the fire. ↩︎