०१

विश्वास-प्रस्तुतिः

या वै᳘ दीक्षा सा᳘ निषत्[[!!]]॥
(त्त᳘) त᳘त्सत्रं त᳘स्मादेनाना᳘सत ऽइ᳘त्याहुर᳘थ यत्त᳘तो यज्ञं᳘ तन्व᳘ते त᳘द्यन्ति त᳘न्नयति यो᳘ नेता भ᳘वति स त᳘स्मादेनान्यन्ती᳘त्याहुः॥

मूलम् - श्रीधरादि

या वै᳘ दीक्षा सा᳘ निषत्[[!!]]॥
(त्त᳘) त᳘त्सत्रं त᳘स्मादेनाना᳘सत ऽइ᳘त्याहुर᳘थ यत्त᳘तो यज्ञं᳘ तन्व᳘ते त᳘द्यन्ति त᳘न्नयति यो᳘ नेता भ᳘वति स त᳘स्मादेनान्यन्ती᳘त्याहुः॥

मूलम् - Weber

या वै᳘ दीक्षा सा᳘ निष᳘त्॥
त᳘त्सत्त्रं त᳘स्मादेनाना᳘सत इ᳘त्याहुर᳘थ यत्त᳘तो यज्ञं᳘ तन्व᳘ते त᳘द्यन्ति त᳘न्नयति यो᳘ नेता भ᳘वति स त᳘स्मादेनान्यन्ती᳘त्याहुः॥

मूलम् - विस्वरम्

सत्रोत्थानम् ।

या वै दीक्षा सा निषत्, तत् सत्रम् । तस्मादेनान्- आसत ऽइत्याहुः । अथ यत्ततो यज्ञं तन्वते- तद्यन्ति, तन्नयति- यो नेता भवति सः । तस्मादेनान्यन्तीत्याहुः ॥ १ ॥

सायणः

या वै दीक्षेति । सत्रधर्मा वैशेषिका अत्र ब्राह्मणे उच्यन्ते । सत्राणां च प्रथमा प्रवृत्तिः (आग्नेयवौदमो) द्वादशाहतश्च सत्राणामावृतौ वा निरुक्तत्वादिति सत्रात्मको द्वादशाहो विज्ञायते; तस्मादेवोत्तरेषु एतेषु एते विशेषधर्मा लभ्यन्त इति तदर्थमभ्याम्नायन्ते । तत्र द्वाभ्यां कण्डिकाभ्यां सत्रादीञ्छन्दांस्याचष्टे सत्राधिकाराथ प्रायेणैव हि सत्र एतैः शब्दैः सर्ववेदेषु व्यवहारः सत्रमासते उपयन्ति गवादीनामयनं तत्रोदतिष्ठत्तत्सत्रोत्थानमिति । नवैते ऽतीव वक्ष्यमाणप्रसिद्धत्वेन तान्व्याचष्टे । तत्र चैतद्ध्यधिकृतं भविष्यति चैवाव्याख्याता इति तावत्पर्यन्तं यावानाह- ‘या वै दीक्षा सा निषात्’ इति वाक्याश्रयणीया यो अविवक्षिते वेदे सर्वैकैव दीक्षा ऽत्राभिहिता सा दीक्षा निषत् “षद्लृ विशरणगत्यवसादनेषु” (धा. पा. तु. प. १४६) निपूर्वः (त्रोदामर्थयादीनि धत्ते) निवर्त्तते ‘निषद्’ अवसादः । अथासनमेव केवलमिदमिति नियमवचनान्न कस्यचित् कर्मण उत्सर्पणम् इत्यभिप्रायः । या सा निषत्तत्तन्त्रमिति प्रदर्शनमिदमेव भेदनिदर्शनमपि द्रष्टव्यम् । यथैव हि निषदनं निषत् एवं सदनमवसादनमिति । यस्माच्च निषसदनमवसादनमासीत् ‘तत्’ दीक्षात्मकं ‘सत्रं’ ‘तस्माद्’ एतस्माद् ‘एनान्’ सत्रिणो दीक्षितान्मन्त्रशासन ‘इत्याहुः’ (वै देवा दाश्वतद्विदसति धात्वन्तरं पर्यायतया दर्शितम्) । ‘अथ यत्ततः’ ऊर्ध्व प्रायणीयादि ‘यज्ञं तन्वते’ यज्ञस्य समाप्तिं तदेव ‘नयति’ ‘यो नेता’ च ‘भवति’ ‘स’ गृहपतिं नयतीति वा सत्रिणः अस्माद्यज्ञायतनं दर्शिता उपयन्ति ॥ १ ॥

Eggeling
  1. Now the consecration-ceremony 1 (for the sacrificial session) is a sitting down, is a session (sattra): hence they say of them, ’they sit.’ And when thereafter they perform the sacrifice, then they (under)go; then he, who is the leader, leads: hence they say of them, ’they (under)go 2.’

०२

विश्वास-प्रस्तुतिः

(र्या᳘) या᳘ ह दीक्षा सा᳘ निषत्[[!!]]॥
(त्त᳘) त᳘त्सत्रं तद᳘यनं त᳘त्सत्रायणम᳘थ यत्त᳘तो यज्ञ᳘स्योदृचं[[!!]] ग᳘त्वोत्ति᳘ष्ठन्ति त᳘दुत्था᳘नं त᳘स्मादेनानु᳘दस्थुरि᳘त्याहुरि᳘ति नु᳘ पुर᳘स्ताद्वदनम्[[!!]]॥

मूलम् - श्रीधरादि

(र्या᳘) या᳘ ह दीक्षा सा᳘ निषत्[[!!]]॥
(त्त᳘) त᳘त्सत्रं तद᳘यनं त᳘त्सत्रायणम᳘थ यत्त᳘तो यज्ञ᳘स्योदृचं[[!!]] ग᳘त्वोत्ति᳘ष्ठन्ति त᳘दुत्था᳘नं त᳘स्मादेनानु᳘दस्थुरि᳘त्याहुरि᳘ति नु᳘ पुर᳘स्ताद्वदनम्[[!!]]॥

मूलम् - Weber

या᳘ ह दीक्षा सा᳘ निष᳘त्॥
त᳘त्सत्त्रं तद᳘यनं त᳘त्सत्त्रायणम᳘थ यत्त᳘तो यज्ञ᳘स्योदृ᳘चं गॗत्वोत्ति᳘ष्ठन्ति त᳘दुत्था᳘नं त᳘स्मादेनानु᳘दस्थुरि᳘त्याहुरि᳘ति नु᳘ पुरस्ताद्वदन᳘म् 3

मूलम् - विस्वरम्

या ह दीक्षा- सा निषत्, तत्सत्रम्, तदयनम्, तत्सत्रायणम् । अथ यत्ततो यज्ञस्योदृचं गत्वोत्तिष्ठन्ति- तदुत्थानम् । तस्मादेनानुदस्थुरित्याहुः- इति नु पुरस्ताद्वदनम् ॥ २ ॥

सायणः

दीक्षाशब्दस्य प्रायणीयाद्यशेषवचनव्रतानुष्ठानत्वेन नेतव्यतया पुनः सत्रादीनां सकलप्रयोगवचनं दर्शयति- या ह दीक्षेति । दीक्षया इदानी सर्व एव प्रयोगो लक्ष्यते । अवियुक्तदीक्षैः क्रियमाणत्वात्सर्व एव प्रयोगो दीक्षेत्यभिप्राः । अत एव च लौकिकेभ्यः कर्मभ्यः व्यावृत्तानां कर्मगामिनां मन्यते सदनमिदं च निषदनं ‘निषद्’ तदेव च सदनं ‘सत्रं’ तदेव यज्ञस्योत्सर्पणमित्यभिप्रायेण ‘अयनं’ गमनं तदेव ‘सत्रायणं’ सत्रं च तदयनं चेति सत्रायणं युगपत् कामनया ऽनया विवक्षयेत्यभिप्रायः । ‘अथ यत्’ तत् यत्रह्यभयं व्यास्तं प्रायउपतिष्ठन्ति कर्मान्तरं देशान्तरवद्यन्ति एवं ते तदुत्थानं यस्माच्चैवं ‘तस्मादेनान्’ मन्त्रपरिसमाप्तेः समासतः ‘उदस्थुः’ उत्थिताः सत्राद् ‘इति’ एवम् ‘आहुः’ वेदविदः । (यदि सत्राय दीक्षितानां प्रसीयेताथ सोः (?) स्युछिष्टप्रदित्वादिव (?) एवमाद्ययनै शतैतत्तत्र शब्दनिरूपणं द्रष्टव्यम् ।) इतिनु एतावदेव वैतद्वैशेषिकसत्रकर्मसिद्धेः पुरस्तादुपन्यासायैव ‘वदनं’ व्याख्यानमुपसंहारः ॥ २ ॥

Eggeling
  1. The consecration-ceremony, then, is a sitting down, it is a session, it is an (under)going, it is the (under)going of a session. And when afterwards, having reached the end of the sacrifice, they rise, that is ’the rising:’ hence they say of them, ‘They have risen.’ So much, then, for preliminary remark.

०३

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ दीक्षिष्य᳘माणाः सम᳘वस्यन्ति॥
ते य᳘द्यग्निं᳘ चेष्य᳘माणा भ᳘वन्त्यर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त ऽएते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ दीक्षिष्य᳘माणाः सम᳘वस्यन्ति॥
ते य᳘द्यग्निं᳘ चेष्य᳘माणा भ᳘वन्त्यर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त ऽएते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - Weber

अ᳘थ दीक्षिष्य᳘माणाः सम᳘वस्यन्ति॥
ते य᳘द्यग्निं᳘ चेष्य᳘माणा भ᳘वन्त्यर᳘णिष्वेॗवाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथिॗत्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त एते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - विस्वरम्

अथ दीक्षिष्यमाणाः समवस्यन्ति । ते यद्यग्निं चेष्यमाणा भवन्ति- अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति- यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति । मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्ते- एतेन प्राजापत्येन पशुना ॥ ३ ॥

सायणः

अथ दीक्षितेष्वारभ्य वैशेषिककर्मविधिः समवस्यन्ति एकस्मिन्देशे तूपकरणानि विमुञ्चन्ति ततश्च सामर्थ्यादग्न्यादीन्संसृज्य यजन्त इत्येतावदेवैतमभिसमवेक्षमाणानामतः परमाब्राह्मणपरिसमाप्ति अपि साधारणं कल्पत्रयमाह 4- अथेति । प्राजापत्यस्य नियमविकल्पविशेषनिबन्धनाद्वा विशेषो मंथने । प्रत्येकं गृहपतेर्दक्षिणोत्तरा कुत एतत् । एतस्मिन्नेव चाज्ये दीक्षाकालस्य नियमस्य वचनादविरोधः । ‘उपसमाधाय’ पृथक् पृथग्गार्हपत्याहवनीयं सर्वेभ्य एकैकमङ्गारं गृहपतेराहवनीये प्रास्येयुरेवमाहवनीयमुद्धृत्य । कुत एवं शाखान्तराद् गार्हपत्ये एव प्रासनस्येह श्रवणात् । ‘यजन्त एतेन प्राजापत्येन पशुना’- इति प्राजापत्यनियमार्थं वचनम् ॥ ३ ॥

अथ मंथने द्वितीयः पक्षः । गृहपति वा पर्युपविश्य मंथन्ते । गृहपतिः प्रथमः प्रथमः सर्वत्र । सर्वत्र सर्वमंथनपक्षेषु । जातं जातं गृहपतिर्गार्हपत्ये प्रास्यत्युभयत्र । पर्युपवेशनपक्षे पशौ दीक्षायाश्चोभयत्र ग्रहणादिति कर्कः । का० श्रौ० सू० १२ । ३२-३४ ।

अथ मंथने तृतीयः पक्षः । अरण्योर्वाहुर्गृहपतेर्य इतो ऽभिर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामो ऽनेन पशुबंधन तन्नः सह सह नः साधुकृत्या नानापापकृत्या य एव पापं करवत्तस्यैव तदित्युक्त्वा गृहपतिः समारोहयते स्वौ प्रथमम् । यथास्वं वेतरे । इति मंथने तृतीयः पक्षः । का० श्रौ० सू० १२ । ३६ । ३७ ।

Eggeling
  1. Now those who are about to consecrate themselves settle (the time and place) between them. If they intend to construct a fire-altar, they take up their (ordinary sacrificial) fires on churning-sticks 5 and betake themselves together to where they are about to perform the animal offering to Prajāpati. Having churned (the fire), and put fire-wood on, they take out the Āhavanīya fire, and perform that animal offering to Prajāpati.

०४

विश्वास-प्रस्तुतिः

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वेवाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ व्विपरे᳘त्य जुह्वति॥

मूलम् - श्रीधरादि

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वेवाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ व्विपरे᳘त्य जुह्वति॥

मूलम् - Weber

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वेवाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ विपरे᳘त्य जुह्वति॥

मूलम् - विस्वरम्

तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैति- अरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति ॥ ४॥

सायणः

तस्य शिरो निदधतीति । अनुवाद एव ॥ ४ ॥

Eggeling
  1. Its head they keep 6. If their consecration does not fall upon that same day (of the animal offering), then, taking up the fires (again) on the churning-sticks, they disperse to their several (homes) and perform the (daily) offerings.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
(त्य) अर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति गृह᳘पतिरेव᳘ प्रथमो᳘ मन्थते म᳘ध्यं प्र᳘ति शा᳘लाया ऽअथे᳘तरेषामर्धा᳘ दक्षिणत᳘ ऽउपविश᳘न्त्यर्धा᳘ ऽउत्तरतो᳘ मथि᳘त्वोपसमाधायै᳘कैकमेवो᳘ल्मुकमादा᳘योपसमा᳘यन्ति गृह᳘पतेर्गा᳘र्हपत्यं गृ᳘हपतेरेव[[!!]] गा᳘र्हपत्यादुद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं समान᳘ ऽआहवनी᳘यो भ᳘वति ना᳘ना गा᳘र्हपत्या दीक्षोपसत्सु[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
(त्य) अर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति गृह᳘पतिरेव᳘ प्रथमो᳘ मन्थते म᳘ध्यं प्र᳘ति शा᳘लाया ऽअथे᳘तरेषामर्धा᳘ दक्षिणत᳘ ऽउपविश᳘न्त्यर्धा᳘ ऽउत्तरतो᳘ मथि᳘त्वोपसमाधायै᳘कैकमेवो᳘ल्मुकमादा᳘योपसमा᳘यन्ति गृह᳘पतेर्गा᳘र्हपत्यं गृ᳘हपतेरेव[[!!]] गा᳘र्हपत्यादुद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं समान᳘ ऽआहवनी᳘यो भ᳘वति ना᳘ना गा᳘र्हपत्या दीक्षोपसत्सु[[!!]]॥

मूलम् - Weber

अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
अर᳘णिष्वेॗवाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति गृह᳘पतिरेव᳘ प्रथमो᳘ मन्थते म᳘ध्यम् प्र᳘ति शालाया अथे᳘तरेषामर्धा᳘ दक्षिणत᳘ उपविश᳘न्त्यर्धा᳘ उत्तरतो᳘ मथिॗत्वोपसमाधायै᳘कैकमेवो᳘ल्मुकमादा᳘योपसमा᳘यन्ति गृह᳘पतेर्गा᳘र्हपत्यं गृह᳘पतेरेव गा᳘र्हपत्यादुद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं समान᳘ आहवनी᳘यो 7 भ᳘वति ना᳘ना गा᳘र्हपत्या दीक्षोपस᳘त्सु॥

मूलम् - विस्वरम्

अथ यदहरेषां दीक्षा समैति- अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति- यत्र दीक्षिष्यमाणा भवन्ति । गृहपतिरेव प्रथमो मन्थते- मध्यं प्रति शालायाः । अथेतरेषामर्धा दक्षिणत उपविशन्ति, अर्धा उत्तरतः । मथित्वोपसमाधायैकैकमेवोल्मुकमादायोपसमायन्ति- गृहपतेर्गार्हपत्यम् । गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते । तेषां समान आहवनीयो भवति, नाना गार्हपत्यादीक्षोपसत्सु ॥ ५ ॥

सायणः

अथ यदहरिति । यदहरिति सप्तम्या लुक् द्रष्टव्यः । यस्मिन्नहनीत्यर्थः । ‘समैति’ संपद्यते ऽस्मिन्नित्यध्याहारः । ‘यत्र’ देशे ‘दीक्षिष्यमाणा भवन्ति’ तत्रेति शेषः । ‘गृहपतिरेव प्रथमः’ इति क्रमो ‘मध्यं प्रति’ अतिदेश उभयविशिष्टमन्थनं विधीयते । ‘अथेतरेषामर्धा दक्षिणतः’ इति यथाक्रमं प्रत्यासत्तिः । ब्रह्मगृहपतेरनन्तरो दक्षिण इति । उद्गातोत्तरतो ब्रह्मणो दक्षिणतो होतोद्गातुरुत्तरतो ऽध्वर्युरेवमपि द्रष्टव्यम् ॥ ५ ॥

Eggeling
  1. But if their consecration falls upon that same day, then, taking up the fires (again) on the churning-sticks, they betake themselves to where they intend to perform the consecration-ceremony. The Gr̥hapati 8 churns (his fire) first somewhere about the centre of the hall; and one half of the others settle down south and one half north of him. Having

churned (their fires), and put on fire-wood, they take one fire-brand each and betake themselves together to the Gr̥hapati’s Gārhapatya fire. Having taken out the Āhavanīya from the Gr̥hapati’s Gārhapatya, they perform the consecration-ceremony. They have one and the same Āhavanīya, but different Gārhapatyas, during the consecration and the Upasads 9.

०६

विश्वास-प्रस्तुतिः

(त्स्व᳘) अ᳘थ यद᳘हरेषां क्र᳘यो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य ऽउपवसथे धि᳘ष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य ऽउपसमा᳘यन्ति प्रज᳘हत्येतान᳘परानग्नी᳘न्हुत᳘ ऽएव᳘ व्वैसर्जिने[[!!]]॥

मूलम् - श्रीधरादि

(त्स्व᳘) अ᳘थ यद᳘हरेषां क्र᳘यो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य ऽउपवसथे धि᳘ष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य ऽउपसमा᳘यन्ति प्रज᳘हत्येतान᳘परानग्नी᳘न्हुत᳘ ऽएव᳘ व्वैसर्जिने[[!!]]॥

मूलम् - Weber

अ᳘थ यद᳘हरेषां क्रयो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य उपवसथे धि᳘ष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य उपसमा᳘यन्ति प्र᳘जहत्येतान᳘परानग्नी᳘न्हुत᳘ एव᳘ वैसर्जिने᳟॥

मूलम् - विस्वरम्

अथ यदहरेषां क्रयो भवति- तदहर्गार्हपत्यां चितिमुपदधाति । अथेतरेभ्य उपवसथे धिष्ण्यान् । वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति । प्रजहत्येतानपरानग्नीन् हुत ऽएव वैसर्जिने ॥ ६ ॥

सायणः

अथ यदिति । गार्हपत्यां गृहपतिना संयुक्तामिति । गृहपतिर्गार्हपत्यस्य ‘चितिं’ क्रयणीये ऽहनि चिनोति इतरेभ्यस्त्वितरदीक्षितगार्हपत्येभ्यः ‘उपवसथे’ चिनोति । तान् स्वधिष्ण्यरूपानिष्टकानेकविंशतिम् इष्टकानि ‘वैसर्जिनानां काले’ प्राप्ते ‘प्राच्यः पत्न्यो’ यथास्वधिष्ण्यं संतत एव युगपदुपागच्छन्ति । ‘प्रजहति’ च प्रमुञ्चन्ति च एतानपरान्पश्चिमान्निर्मथ्यानग्नीन्प्रजहतीत्येतच्च नाग्नीनामुपगमनमुच्यते, किं तर्हि प्रतिगमाशंका निवर्त्यते नैवमाशङ्कनीयं वचनात् । प्राप्यागत्य पुनस्तानेव पराग्नीकृतेषु वैसर्जिनेषु व्रजन्तीति हुत एव वैसर्जिने द्वितीये राजानं प्रणयतीत्यनुवाद एवोत्तरवचनार्थः ॥ ६ ॥

Eggeling
  1. Then, on whatever day their purchase (of Soma-plants) takes place, on that day he raises the Gārhapatya hearth; and on the Upavasatha day 10 the dhishṇya hearths for the others. At the time of the Vaisarjina 11 offerings, the wives come forward together and they (the sacrificers) abandon those other (Gārhapatya) fires 12. As soon as the Vaisarjina offering has been performed,–

०७

विश्वास-प्रस्तुतिः

रा᳘जानं प्र᳘णयति॥
(त्यु᳘) उ᳘द्यत ए᳘वैष᳘ ऽआग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत᳘ ऽए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ व्विप᳘रायन्ति तै᳘रेव ते᳘षामु᳘ल्मुकैः प्र᳘घ्नन्ती᳘ति ह स्माह या᳘ज्ञवल्क्यो ये त᳘था कुर्व्वन्ती᳘त्येतन्न्वे᳘कम᳘यनम्॥

मूलम् - श्रीधरादि

रा᳘जानं प्र᳘णयति॥
(त्यु᳘) उ᳘द्यत ए᳘वैष᳘ ऽआग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत᳘ ऽए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ व्विप᳘रायन्ति तै᳘रेव ते᳘षामु᳘ल्मुकैः प्र᳘घ्नन्ती᳘ति ह स्माह या᳘ज्ञवल्क्यो ये त᳘था कुर्व्वन्ती᳘त्येतन्न्वे᳘कम᳘यनम्॥

मूलम् - Weber

रा᳘जानम् प्र᳘णयति॥
उ᳘द्यत एॗवैष᳘ आग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ विप᳘रायन्ति तै᳘रेव ते᳘षामु᳘ल्मुकैः प्र᳘घ्नन्ती᳘ति स स्माह या᳘ज्ञवल्क्यो ये त᳘था कुर्वन्ती᳘त्येतन्न्वे᳘कम᳘यनम्॥

मूलम् - विस्वरम्

राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयो ऽग्निर्भवति । त ऽएकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति । तैरेव तेषामुल्मुकैः प्रघ्नन्तीति ह स्माह- याज्ञवल्क्यः- ये तथा कुर्वन्तीति । एतन्न्वेकमयनम् ॥ ७ ॥

सायणः

राजानं प्रणयतीति । ‘उद्यत एव’ आक्षिप्त एव ‘एष’ ‘आग्नीध्रीयो भवति’ यावच्छालाया न निष्क्राम्यात् । तावदेवैतदितरे सत्रिणः साधारण्याच्छालाद्वार्याद् 13 ‘एकैकमुल्मुकमादाय’ पृथक् पृथक् पराङ्मुखा गच्छन्तीति । एको ऽग्निविकल्पः । एवं यज्ञं याज्ञवल्क्यमतेन विन्दति । तैरेवेति । यैरुल्मुकैर्गृहपतयो ऽनुगच्छन्ति दीक्षाकाले तैरेवोल्मुकैस्तेषां सत्रिणां पुत्रादीन् प्रकर्षेण घ्नन्ति तथा कुर्वन्तीत्येतद्याज्ञवल्क्यवचन एवैकमित्युपसंहारः ॥ ७ ॥

Eggeling
  1. He leads forward the king (Soma). That Āgnīdhrīya fire has just been taken up on the support 14, when they take one fire-brand each (from the fire at the hall-door) and disperse to their several dhishṇya hearths: ‘They who do so,’ said Yājñavalkya, ‘slay with those fire-brands of theirs.’ This now is one way.

०८

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थेदं᳘ द्विती᳘यम्॥
(म) अर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त ऽएते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थेदं᳘ द्विती᳘यम्॥
(म) अर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त ऽएते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - Weber

अ᳘थेदं᳘ द्विती᳘यम्॥
अर᳘णिष्वेॗवाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त एते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - विस्वरम्

अथेदं द्वितीयम् अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति- यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति । मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्ते- एतेन प्राजापत्येन पशुना ॥ ८ ॥

सायणः

अथेदमिति । प्रसन्नाश्चतस्रः ॥ ८-११ ॥

Eggeling
  1. Then there is this second. Having taken up their fires on churning-sticks, they betake themselves to where they intend to perform the animal offering to Prajāpati. Having churned (the fire), and put on (fire-wood), they take out the Āhavanīya and perform that animal offering to Prajāpati.

०९

विश्वास-प्रस्तुतिः

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ व्विपरे᳘त्य जुह्वति॥

मूलम् - श्रीधरादि

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ व्विपरे᳘त्य जुह्वति॥

मूलम् - Weber

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वेॗवाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ विपरे᳘त्य जुह्वति॥

मूलम् - विस्वरम्

तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैति- अरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. Its head they keep. If their consecration does not fall upon the same day, then, taking up the fires (again) on the churning-sticks, they disperse to their several (homes), and perform (the ordinary) offerings.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
(त्य) अर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति गृह᳘पतिरेव᳘ प्रथमो᳘ मन्थते ऽथे᳘तरे पर्युपवि᳘श्य मन्थन्ते ते᳘ जातं᳘ जातमे᳘वानुप्र᳘हरन्ति गृह᳘पतेर्गा᳘र्हपत्ये गृह᳘पतेरेव गा᳘र्हपत्यादुद्धृत्याहवनी᳘यं[[!!]] दीक्षन्ते ते᳘षाᳫं समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यो दीक्षोपसत्सु[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
(त्य) अर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति गृह᳘पतिरेव᳘ प्रथमो᳘ मन्थते ऽथे᳘तरे पर्युपवि᳘श्य मन्थन्ते ते᳘ जातं᳘ जातमे᳘वानुप्र᳘हरन्ति गृह᳘पतेर्गा᳘र्हपत्ये गृह᳘पतेरेव गा᳘र्हपत्यादुद्धृत्याहवनी᳘यं[[!!]] दीक्षन्ते ते᳘षाᳫं समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यो दीक्षोपसत्सु[[!!]]॥

मूलम् - Weber

अ᳘थ यद᳘हरेषां दीक्षा᳘ समैॗति॥
अर᳘णिष्वेॗवाग्नी᳘न्त्समारो᳘ह्योपसमा᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति गृह᳘पतिरेव᳘ प्रथमो᳘ मन्थते ऽथे᳘तरे पर्युपवि᳘श्य मन्थन्ते ते᳘ जातं᳘ जातमेॗवानुप्र᳘हरन्ति गृह᳘पतेर्गा᳘र्हपत्ये गृह᳘पतेरेव गा᳘र्हपत्यादुद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यो दीक्षोपस᳘त्सु॥

मूलम् - विस्वरम्

अथ यदहरेषां दीक्षा समैति- अराणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति- यत्र दीक्षिष्यमाणा भवन्ति । गृहपतिरेव प्रथमो मन्थते- अथेतरे पर्युपविश्य मन्थन्ते । ते जातं जातमेवानुप्रहरन्ति- गृहपतेर्गार्हपत्ये गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते । तेषां समान आहवनीयो भवति, समानो गार्हपत्यो- दीक्षोपसत्सु ॥ १० ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. But if their consecration falls upon the same day, then, taking up the fires (again) on the churning-sticks, they betake themselves to where they intend to perform the consecration-ceremony. The Gr̥hapati churns first, and then the others churn, seated round about him, and throw each the (fire) produced by him on the Gr̥hapati’s Gārhapatya. Having taken out the Āhavanīya from the Gr̥hapati’s Gārhapatya, they perform the Dīkshā. Theirs is the same Āhavanīya and the same Gārhapatya during the consecration and the Upasads.

११

विश्वास-प्रस्तुतिः

(त्स्व᳘) अ᳘थ यद᳘हरेषां क्र᳘यो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य ऽउपवसथे धिष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य ऽउपसमा᳘यन्ति प्र᳘जहत्येतम᳘परमग्नि᳘ᳫँ᳘ हुत᳘ ऽएव᳘ व्वैसर्जिने[[!!]]॥

मूलम् - श्रीधरादि

(त्स्व᳘) अ᳘थ यद᳘हरेषां क्र᳘यो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य ऽउपवसथे धिष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य ऽउपसमा᳘यन्ति प्र᳘जहत्येतम᳘परमग्नि᳘ᳫँ᳘ हुत᳘ ऽएव᳘ व्वैसर्जिने[[!!]]॥

मूलम् - Weber

अ᳘थ यद᳘हरेषां क्रयो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमुपदधात्यथे᳘तरेभ्य उपवसथे धिष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य उपसमा᳘यन्ति प्र᳘जहत्येतम᳘परमग्नि᳘ᳫं᳘ हुत᳘ एव᳘ वैसर्जिने᳟॥

मूलम् - विस्वरम्

अथ यदहरेषां क्रयो भवति- तदहर्गार्हपत्यां चितिमुपदधाति । अथेतरेभ्य उपवसथे धिष्ण्यान् । वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति । प्रजहत्येतमपरमग्निम् हुत ऽएव वैसर्जिने ॥ ११ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. Then, on whatever day their purchase (of Soma-plants) takes place, on that day he piles up the Gārhapatya hearth, and on the Upavasatha day the dhishṇya hearths for the others. At the time of the Vaisarjina offerings the wives come forward together; they (the sacrificers) abandon that (common Gārhapatya) fire. As soon as the Vaisarjina offering has taken place,–

१२

विश्वास-प्रस्तुतिः

रा᳘जानं प्र᳘णयति॥
(त्यु᳘) उ᳘द्यत ऽए᳘वैष᳘ ऽआग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ऽए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ व्विप᳘रायन्ति सम᳘दमु हैव ते᳘ कुर्वन्ति सम᳘द्धैनान्विन्दत्य᳘र्तुका ह भवन्त्य᳘पि ह तम᳘र्धᳫँ᳭ सम᳘द्विन्दति य᳘स्मिन्न᳘र्धे य᳘जन्ते ये त᳘था कुर्व᳘न्त्येत᳘द्द्विती᳘यम᳘यनम्॥

मूलम् - श्रीधरादि

रा᳘जानं प्र᳘णयति॥
(त्यु᳘) उ᳘द्यत ऽए᳘वैष᳘ ऽआग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ऽए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ व्विप᳘रायन्ति सम᳘दमु हैव ते᳘ कुर्वन्ति सम᳘द्धैनान्विन्दत्य᳘र्तुका ह भवन्त्य᳘पि ह तम᳘र्धᳫँ᳭ सम᳘द्विन्दति य᳘स्मिन्न᳘र्धे य᳘जन्ते ये त᳘था कुर्व᳘न्त्येत᳘द्द्विती᳘यम᳘यनम्॥

मूलम् - Weber

रा᳘जानम् प्र᳘णयति॥
उ᳘द्यत एॗवैष᳘ आग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ विप᳘रायन्ति सम᳘दमु हैव ते᳘ कुर्वन्ति सम᳘द्धैनान्विन्दत्य᳘र्तुका ह भवन्त्य᳘पि ह तम᳘र्धᳫं सम᳘द्विन्दति य᳘स्मिन्न᳘र्धे य᳘जन्ते ये त᳘था क्॥

मूलम् - विस्वरम्

राजानं प्रणयति उद्यत एवैष आग्नीध्रीयो ऽग्निर्भवति । अथैत ऽएकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति । समदमु हैव ते कुर्वन्ति । समद्धैनान्विन्दति । अर्तुका ह भवन्ति । अपि ह तमर्धं समद्विन्दति- यस्मिन्नर्धे यजन्ते- ये तथा कुर्वन्ति एतद्द्वितीयमयनम् ॥ १२ ॥

सायणः

राजानं प्रणयतीति । समदमिति । यत्र जातमग्निं गृहपतेर्गार्हपत्ये प्रास्यन्ति तत्समदं संमरणं विरोधमग्नीनां कुर्वन्ति । तदनुकारेण वैनान् सत्रिणो विरोधः प्राप्नोति अंतकस्तस्य स्पर्द्धनशीलाः परस्परं भवन्ति ये तथा कुर्वन्ति तस्य कल्पस्यापवादः । न केवलं सत्रिणः ‘समद्विन्दति’ यस्मिन्नर्द्धे जनपदे तमपि जनपदविरोधं प्राप्नोति ॥ १२ ॥

Eggeling
  1. He leads forward the king. That Āgnīdhrīya fire has just been taken up on the support, when they take one fire-brand each and disperse to their several dhishṇya hearths. But those who do it thus, raise

up strife, and strife comes upon them; they become contentious, and, moreover, strife comes upon that community where they sacrifice. This is the second way.

१३

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थेदं᳘ तृती᳘यम्॥
गृह᳘पतेरे᳘वार᳘ण्योः सं᳘व्वदन्ते य᳘ इ᳘तो ऽग्नि᳘र्जनिष्य᳘ते स᳘ नः सह य᳘दने᳘न य᳘ज्ञे᳘न जेष्या᳘मो ऽने᳘न पशुबन्धे᳘न त᳘न्नः सह᳘ सह᳘ नः साधुकृत्या य᳘ ऽएव᳘ पापं᳘ कर᳘वत्त᳘स्यैव तदि᳘त्येव᳘मुक्त्वा᳘ गृह᳘पतिरेव᳘ प्रथमः᳘ समा᳘रोहयते ऽथे᳘तरेभ्यः समा᳘रोहयति स्वयं᳘ वैव᳘ समा᳘रोहयन्ते त ऽआ᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त ऽएते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थेदं᳘ तृती᳘यम्॥
गृह᳘पतेरे᳘वार᳘ण्योः सं᳘व्वदन्ते य᳘ इ᳘तो ऽग्नि᳘र्जनिष्य᳘ते स᳘ नः सह य᳘दने᳘न य᳘ज्ञे᳘न जेष्या᳘मो ऽने᳘न पशुबन्धे᳘न त᳘न्नः सह᳘ सह᳘ नः साधुकृत्या य᳘ ऽएव᳘ पापं᳘ कर᳘वत्त᳘स्यैव तदि᳘त्येव᳘मुक्त्वा᳘ गृह᳘पतिरेव᳘ प्रथमः᳘ समा᳘रोहयते ऽथे᳘तरेभ्यः समा᳘रोहयति स्वयं᳘ वैव᳘ समा᳘रोहयन्ते त ऽआ᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशु᳘ना यक्ष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त ऽएते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - Weber

अ᳘थेदं᳘ तृती᳘यम्॥
गृह᳘पतेरेॗवार᳘ण्योः सं᳘वदन्ते य᳘ इॗतो ऽग्नि᳘र्जनिष्य᳘ते स᳘ नः सह य᳘दने᳘न यज्ञे᳘न जेष्या᳘मो ऽने᳘न पशुबन्धे᳘न त᳘न्नः सह᳘ सह᳘ नः साधुकृत्या य᳘ एव᳘ पापं᳘ कर᳘वत्त᳘स्यैव तदि᳘त्येव᳘मुक्त्वा᳘ गृह᳘पतिरेव᳘ प्रथमः᳘ समारोहयते ऽथे᳘तरेभ्यः समा᳘रोहयति स्वयं᳘ वैव᳘ समा᳘रोहयन्ते त आ᳘यन्ति य᳘त्र प्राजापत्ये᳘न पशुना यक्ष्य᳘माणा भ᳘वन्ति मथिॗत्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं य᳘जन्त एते᳘न प्राजापत्ये᳘न पशु᳘ना॥

मूलम् - विस्वरम्

अथेदं तृतीयम्- गृहपतेरेवारण्योः सम्वदन्ते- ‘य इतो ऽग्निर्जनिष्यते- स नः सह, यदनेन यज्ञेन जेष्यामः- अनेन पशुबन्धेन- तन्नः सह, सह नः साधुकृत्या य एव पापं करवत्- तस्यैव तत्- इत्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयते । अथेतरेभ्यः समारोहयति । स्वयं वैव समारोहयन्ते । त ऽआयन्ति- यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति । मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्ते- एतेन प्राजापत्येन पशुना ॥ १३ ॥

सायणः

अथेदं तृतीयमिति । प्रसन्नाश्चतस्रः । ‘गृहपतिरेव’ प्रथमः स्वमग्निं समारोहयति स्वयोररण्योरथेतरेभ्यः स्वयोरेव समारोहयति अनेन साधारण्यार्थेन यासु अरणिष्वेव दीक्षासमारोपणं वक्ष्यते । राजानं प्रकृतमिति तच्छब्दो वाक्योपन्यासे । यदेतयोररण्योः समुपजाताग्नीनां साधारण्यं कृतमस्मिन्कल्पे तत्कृतमेव नाशयितव्यम् । गृहपतेररणिभ्यां जातो ऽग्निः संवादमात्रेण साधारणो भवतीति न तत्कृतमित्युल्मुकप्रेष्यानसमप्राप्तिदोषमेवं दर्शयति- दोषे हि सति साधारण्यं कृतं स्यादित्यभिप्रायः । नन्वेवं सति धिष्ण्यपुरोडाशैरपि साधारणैरेव भवितव्यम्, भेदे कारणाभावादित्याशङ्कित आह । यत्र नाना पृथग्धिष्ण्या भवन्ति तत्रैव तत्प्रयोजनं कथं नाम वरीयान् । उत्तरः- शालायामाकाशो ऽवकाशः स्यादिति किं तेनावकाशेनेति चेदत आह- परिचरणाय कस्यचिद्दीक्षितस्यातुरस्याह- तथाहि वक्ष्यति नानाधिष्ण्या एव स्युर्यदि दीक्षितस्यैतत् प्रेत्य पार्श्वतो ऽग्निहोत्रे जुह्वदित्यर्थो ऽभिप्रायः । अथ यत्र पुरोडाशा इति त्रिष्वपि पूर्वेषु विधिरयं प्राप्तत्वात् पुरोडाशा इति सवनीयानाह । भूयो बहुतरं हविर्देवानामुच्छिष्टमुपभुक्तादासमाप्तेः समाप्यर्थं तद्वन्मत्तो (?) तद्व्यश्नन्तो दीक्षिता जीवन्तः समापयन्तीतरथा महान्तमन्नराशिमल्पेनाशनेन समापयेयुरिति ब्रुवन्ति विशेषादन्य आहारो नास्ति दीक्षितस्येति दर्शयति ॥ १३-१७ ॥

Eggeling
  1. Then there is this third. They commune with each other over the Gr̥hapati’s churning-sticks,–‘What fire shall be produced therefrom, be that ours in common! what we shall gain by this sacrifice, by this animal offering, be that ours in common! In common be our good work! whosoever shall do evil, be that his alone!’ Having thus spoken, the Gr̥hapati first takes up (the fire on the churning-sticks) for himself, then he takes it up for the others, or they take it 15 up for themselves. They betake themselves to where they intend to perform the animal offering to Prajāpati. Having churned (the fire) and put on (fire-wood), they take out the Āhavanīya and perform that animal offering to Prajāpati.

१४

विश्वास-प्रस्तुतिः

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ व्विपरे᳘त्य जुह्वति॥

मूलम् - श्रीधरादि

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वे᳘वाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ व्विपरे᳘त्य जुह्वति॥

मूलम् - Weber

त᳘स्य शि᳘रो नि᳘दधति॥
ते᳘षां य᳘दि तद᳘हर्दीक्षा न᳘ समै᳘त्यर᳘णिष्वेॗवाग्नी᳘न्त्समारो᳘ह्य यथायथं᳘ विपरे᳘त्य जुह्वति॥

मूलम् - विस्वरम्

तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैति- अरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. Its head they keep. If their consecration does not fall on the same day, then, taking up (again) the fires on the churning-sticks, they disperse to their several (homes), and perform (the ordinary) offerings.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
गृह᳘पतेरे᳘वार᳘ण्योः सं᳘व्वदन्ते य᳘ इ᳘तो ऽग्नि᳘र्जनिष्य᳘ते स᳘ नः सह य᳘दने᳘न य᳘ज्ञे᳘न जेष्या᳘मो ऽने᳘न सत्रे᳘ण त᳘न्नः सह᳘ सह᳘ नः साधुकृत्या य᳘ एव᳘ पापं᳘ कर᳘वत्त᳘स्यैव तदि᳘त्येव᳘मुक्त्वा᳘ गृह᳘पतिरेव᳘ प्रथमः᳘ समा᳘रोहयते ऽथे᳘तरेभ्यः समा᳘रोहयति स्वयं᳘ वैव᳘ समा᳘रोहयन्ते त ऽआ᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं᳭ समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यो दीक्षोपसत्सु[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
गृह᳘पतेरे᳘वार᳘ण्योः सं᳘व्वदन्ते य᳘ इ᳘तो ऽग्नि᳘र्जनिष्य᳘ते स᳘ नः सह य᳘दने᳘न य᳘ज्ञे᳘न जेष्या᳘मो ऽने᳘न सत्रे᳘ण त᳘न्नः सह᳘ सह᳘ नः साधुकृत्या य᳘ एव᳘ पापं᳘ कर᳘वत्त᳘स्यैव तदि᳘त्येव᳘मुक्त्वा᳘ गृह᳘पतिरेव᳘ प्रथमः᳘ समा᳘रोहयते ऽथे᳘तरेभ्यः समा᳘रोहयति स्वयं᳘ वैव᳘ समा᳘रोहयन्ते त ऽआ᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति मथि᳘त्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं᳭ समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यो दीक्षोपसत्सु[[!!]]॥

मूलम् - Weber

अ᳘थ यद᳘हरेषां दीक्षा᳘ समै᳘ति॥
गृह᳘पतेरेॗवार᳘ण्योः सं᳘वदन्ते य᳘ इॗतो ऽग्नि᳘र्जनिष्यते स᳘ नः सह य᳘दने᳘न यज्ञे᳘न जेस्या᳘मो ऽने᳘न सत्त्रे᳘ण त᳘न्नः सह᳘ सह᳘ नः साधुकृत्या य᳘ एव᳘ पपं᳘ कर᳘वत्त᳘स्यैव तदि᳘त्येव᳘मुक्त्वा᳘ गृह᳘पतिरेव᳘ प्रथमः᳘ समा᳘रोहयते ऽथे᳘तरेभ्यः समा᳘रोहयति स्वयं᳘ वैव᳘ समा᳘रोहयन्ते त आ᳘यन्ति य᳘त्र दीक्षिष्य᳘माणा भ᳘वन्ति मथिॗत्वोपसमाधा᳘योद्धृ᳘त्याहवनी᳘यं दीक्षन्ते ते᳘षाᳫं समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यो दीक्षोपस᳘त्सु॥

मूलम् - विस्वरम्

अथ यदहरेषां दीक्षा समैति- गृहपतेरेवारण्योः संवदन्ते- ‘य इतो ऽग्निर्जनिष्यते- स नः सह, यदनेन यज्ञेन जेष्यामः- अनेन सत्रेण; तन्नः सह, सह नः साधुकृत्या य एव पापं करवत्- तस्यैव तत्- इत्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयते । अथेतरेभ्यः समारोहयति । स्वयं वैव समारोहयन्ते । त ऽआयन्ति- यत्र दीक्षिष्यमाणा भवन्ति । मथित्वोपसमाधायोद्धृत्याहवनीयं दीक्षन्ते । तेषां समान आहवनीयो भवति, समानो गार्हपत्यो- दीक्षोपसत्सु ॥ १५ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. But if their consecration falls on the same day, they commune with each other over the Gr̥hapati’s churning-sticks,–‘What fire shall be produced therefrom, be that ours in common! what we shall gain by this sacrifice, by this session, be that ours in common! In common be our good work! Whosoever shall do evil, be that his alone!’ Having thus spoken, the Gr̥hapati first takes up (the fire) on the churning-sticks for himself, then he takes it up for

the others, or they take it up for themselves. They betake themselves to where they intend to perform the consecration-ceremony. Having churned (the fire) and put on (fire-wood), they take out the Āhavanīya and perform the consecration-ceremony. Theirs is the same Āhavanīya and the same Gārhapatya during the consecration and the Upasads.

१६

विश्वास-प्रस्तुतिः

(त्स्व᳘) अ᳘थ यद᳘हरेषां क्र᳘यो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य ऽउपवसथे धि᳘ष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य ऽउपसमा᳘यन्ति प्र᳘जहत्येतम᳘परमग्नि᳘ᳫँ᳘ हुत᳘ ऽएव᳘ व्वैसर्जिने[[!!]]॥

मूलम् - श्रीधरादि

(त्स्व᳘) अ᳘थ यद᳘हरेषां क्र᳘यो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य ऽउपवसथे धि᳘ष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य ऽउपसमा᳘यन्ति प्र᳘जहत्येतम᳘परमग्नि᳘ᳫँ᳘ हुत᳘ ऽएव᳘ व्वैसर्जिने[[!!]]॥

मूलम् - Weber

अ᳘थ यद᳘हरेषां क्रयो भ᳘वति॥
तद᳘हर्गा᳘र्हपत्यां चि᳘तिमु᳘पदधात्यथे᳘तरेभ्य उपवसथे धि᳘ष्ण्यान्वैसर्जिना᳘नां काले प्रा᳘च्यः प᳘त्न्य उपसमा᳘यन्ति प्र᳘जहत्येतम᳘परमग्नि᳘ᳫं᳘ हुत᳘ एव᳘ वैसर्जि᳘ने॥

मूलम् - विस्वरम्

अथ यदहरेषां क्रयो भवति- तदहर्गार्हपत्यां चितिमुपदधाति । अथेतरेभ्य उपवसथे धिष्ण्यान् । वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति । प्रजहत्येतमपरमग्निम् । हुत ऽएव वैसर्जिने ॥ १६ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. And on whatever day their purchase (of Soma-plants) takes place, on that day he piles up the Gārhapatya hearth, and on the Upavasatha day the dhishṇya hearths for the others. At the time of the Vaisarjina offerings the wives come forward together; and they (the sacrificers) abandon that (Gārhapatya) fire. As soon as the Vaisarjina offering has been performed,

१७

विश्वास-प्रस्तुतिः

रा᳘जानं प्र᳘णयति॥
(त्यु᳘) उ᳘द्यत ऽए᳘वैष᳘ ऽआग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ऽए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ व्विप᳘रायन्ति तत्त᳘त्कृतं ना᳘नाकृतं यन्ना᳘नाधिष्ण्या भ᳘वन्ति व्व᳘रीयानाका᳘शो ऽसत्परिच᳘रणायेत्य᳘थ यन्ना᳘नापुरोडाशा भू᳘यो हविरुच्छिष्टमसत्स᳘माप्त्या ऽइति[[!!]]॥

मूलम् - श्रीधरादि

रा᳘जानं प्र᳘णयति॥
(त्यु᳘) उ᳘द्यत ऽए᳘वैष᳘ ऽआग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ऽए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ व्विप᳘रायन्ति तत्त᳘त्कृतं ना᳘नाकृतं यन्ना᳘नाधिष्ण्या भ᳘वन्ति व्व᳘रीयानाका᳘शो ऽसत्परिच᳘रणायेत्य᳘थ यन्ना᳘नापुरोडाशा भू᳘यो हविरुच्छिष्टमसत्स᳘माप्त्या ऽइति[[!!]]॥

मूलम् - Weber

रा᳘जानम् प्र᳘णयति॥
उ᳘द्यत एॗवैष᳘ आग्नीध्री᳘यो ऽग्निर्भ᳘वत्य᳘थैत ए᳘कैकमेवो᳘ल्मुकमादा᳘य यथाधिष्ण्यं᳘ विप᳘रायन्ति तत्त᳘त्कृतं ना᳘कृतं यन्ना᳘नाधिष्ण्या भ᳘वन्ति व᳘रीयानाकाॗशो ऽसत्परिच᳘रणायेत्य᳘थ यन्ना᳘नापुरोडाशा भू᳘यो हविरुछिष्ट᳘मसत्स᳘माप्त्या इ᳘ति॥

मूलम् - विस्वरम्

राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयो ऽग्निर्भवति । अथैत ऽएकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति । तत्तत्कृतं- नानाकृतम्-यन्नानाधिष्ण्या भवन्ति । वरीयानाकाशो ऽसत्परिचरणायेति । अथ यन्नानापुरोडाशा 16 भूयो हविरुच्छिष्टमसत्समाप्त्या ऽइति ॥ १७ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. He leads forward the king. That Āgnīdhrīya fire has just been taken up on the support, when they take one fire-brand each and disperse to their several dhishṇya hearths. Thus is this done, and not (left) undone. The reason why they have different dhishṇyas, is that there may be wider space for moving about; and why they have different puroḍāśas 17, is that more sacrificial food may be left over for completeness.

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ये᳘न सत्रे᳘ण देवाः᳘॥
क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपा᳘घ्नतेमां जि᳘तिम᳘जय᳘न्यैषामियं जि᳘तिस्तद᳘त ऽउद्यत ए᳘कगृहपतिका वै᳘ देवा ऽए᳘कपुरोडाशा ऽए᳘कधिष्ण्याः क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपा᳘घ्नत क्षिप्रे प्रा᳘जायन्त त᳘थो ऽए᳘वैत ऽए᳘कगृहपतिका ए᳘कपुरोडाशा ए᳘कधिष्ण्याः क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपघ्नते᳘[[!!]] क्षिप्रे प्र᳘जायन्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ये᳘न सत्रे᳘ण देवाः᳘॥
क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपा᳘घ्नतेमां जि᳘तिम᳘जय᳘न्यैषामियं जि᳘तिस्तद᳘त ऽउद्यत ए᳘कगृहपतिका वै᳘ देवा ऽए᳘कपुरोडाशा ऽए᳘कधिष्ण्याः क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपा᳘घ्नत क्षिप्रे प्रा᳘जायन्त त᳘थो ऽए᳘वैत ऽए᳘कगृहपतिका ए᳘कपुरोडाशा ए᳘कधिष्ण्याः क्षिप्र᳘ ऽएव᳘ पाप्मा᳘नमपघ्नते᳘[[!!]] क्षिप्रे प्र᳘जायन्ते॥

मूलम् - Weber

अ᳘थ ये᳘न सत्त्रे᳘ण देवाः᳟॥
क्षिप्र᳘ एव᳘ पाप्मा᳘नमपा᳘घ्नतेमां जि᳘तिम᳘जयॗन्यैषामियं जि᳘तिस्तद᳘त उद्यत ए᳘कगृहपतिका वै᳘ देवा ए᳘कपुरोडाशा ए᳘कधिष्ण्याः क्षिप्र᳘ एव᳘ पाप्मा᳘नमपा᳘घ्नत क्षिप्रे प्रा᳘जायन्त त᳘थो एॗवैत ए᳘कगृहपतिका ए᳘कपुरोडाशा ए᳘कधिष्ण्याः क्षिप्र᳘ एव᳘ पाप्मा᳘नमपघ्न᳘ते क्षिप्रे प्र᳘जायन्ते॥

मूलम् - विस्वरम्

अथ येन सत्रेण देवाः क्षिप्र ऽएव पाप्मानमपाघ्नत । इमं जितिमजयन्- येषामियं जितिः । तदत उद्यते । एकगृहपतिका वै देवा एकपुरोडाशा एकधिष्ण्याः क्षिप्र ऽएव पाप्मानमपाघ्नत, क्षिप्रे प्रजायन्त । तथो ऽएवैत ऽएकगृहपतिका एकपुरोडाशा एकधिष्ण्याः क्षिप्र ऽएव पाप्मानमपघ्नते क्षिप्रे प्रजायन्ते ॥ १८ ॥

सायणः

अथ येन सत्रेणेति । शाला गार्हपत्यपुरोडाशपत्नीसंयाजा एकाहवत्कार्या इत्येतदेतेन कण्डिकात्रयेणोच्यते ‘येन सत्रेण’ यादृशेनेत्यर्थः । एकगृहपतिका इति श्रुत्यन्तरे बहवो ऽपि गृहपतयो दृश्यन्ते । “सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्” इत्यत्र हि ये सप्तदशभ्यो ऽधिकास्ते गृहपतयो भवन्ति तन्निवृत्त्यर्थमेकगृहपतिकवचनम् । कथं नामास्मिन्पक्षे एक एव गृहपतिः स्यादित्येकपुरोडाश इत्येकशब्दः समानार्थे नानात्वप्रतिपक्षे आहवनीय इति निन्दार्थमपि प्रवृत्तमिदमेव वचनमुदीचीनवंशत्वे द्रष्टव्यम् । समान आहवनीय इत्येतत्तु प्राप्तमेव निन्दार्थमनूद्यते । विकृष्टं विधिमन्यथा कृष्टफलं सालक्षण्येन गार्हपत्याहवनीययोर्भवतीत्यभिप्रायः । गृहपतेरेवेत्येतदप्यत एव वचनादवसीयते । इतरे दीक्षिता आज्येन प्रतियजन्तः प्रत्यात्मसाधारण्यान्यजन्त आसते सत्रमेवं नयन्तीत्यर्थः । तद्विकृष्टम् अपि पापिष्वविशेषात् किंचित्साधारणं किञ्चिन्नेति तस्माच्च विशेषात् ॥ १८ ॥ १९॥

Eggeling
  1. Now then the sacrificial session is explained, whereby the gods quickly drove out evil, and gained the supreme authority which they now wield: having one Gr̥hapati, one puroḍāśa, one dhishṇya, they quickly drove out mischief and quickly were born again. And in like manner will these (sacrificers), by having one Gr̥hapati, one puroḍāśa, one dhishṇya, quickly drive out evil and be born again.

१९

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथा) अ᳘थादः पू᳘र्व्वस्मिन्नुदीची᳘नवᳫँ᳭शा शा᳘ला भवति॥
त᳘न्मानुष᳘ᳫँ᳘ समान᳘ आहवनी᳘यो भवति ना᳘ना गा᳘र्हपत्यास्तद्वि᳘कृष्टं गृह᳘पतेरेव गा᳘र्हपत्ये जा᳘घन्या प᳘त्नीः संयाज᳘यन्त्या᳘ज्येने᳘तरे प्रतिय᳘जन्त ऽआसते तद्वि᳘कृष्टम्॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथा) अ᳘थादः पू᳘र्व्वस्मिन्नुदीची᳘नवᳫँ᳭शा शा᳘ला भवति॥
त᳘न्मानुष᳘ᳫँ᳘ समान᳘ आहवनी᳘यो भवति ना᳘ना गा᳘र्हपत्यास्तद्वि᳘कृष्टं गृह᳘पतेरेव गा᳘र्हपत्ये जा᳘घन्या प᳘त्नीः संयाज᳘यन्त्या᳘ज्येने᳘तरे प्रतिय᳘जन्त ऽआसते तद्वि᳘कृष्टम्॥

मूलम् - Weber

अ᳘थादः पू᳘र्वस्मिन्नुदीची᳘नवंशा शा᳘ला भवति॥
त᳘न्मानुष᳘ᳫं᳘ समान᳘ आहवनी᳘यो भवति ना᳘ना गा᳘र्हपत्यास्तद्वि᳘कृष्टं गृह᳘पतेरेव गा᳘र्हपत्ये जा᳘घन्या प᳘त्नीः संयाजयन्त्या᳘ज्येने᳘तरे प्रतिय᳘जन्त आसते तद्वि᳘कृष्टम् 18

मूलम् - विस्वरम्

अथादः पूर्वस्मिन्नुदीचीनवंशा शाला भवति- तन्मानुषम् । समान आहवनीयो भवति, नाना गार्हपत्याः- तद्विकृष्टम् । गृहपतेरेव गार्हपत्ये जाघन्या पत्नीः संयाजयन्ति, आज्येन । इतरे प्रति यजन्त आसते, तद्विकृष्टम् ॥ १९ ॥

सायणः

[व्याख्यानं अष्टादशे]

Eggeling
  1. Now, in that former case, there is a hall with the roof-beams running from south to north 19,–that is human practice. There are one and the same Āhavanīya, and different Gārhapatyas–that is dissimilar. On the Gr̥hapati’s Gārhapatya they perform the Patnīsaṁyājas with the tail (of the victim), and the others sit offering in response with ghee–that is dissimilar:

२०

विश्वास-प्रस्तुतिः

(म) अथा᳘त्र प्राची᳘नवᳫँ᳭शा शा᳘ला भवति॥
त᳘द्देवत्रा᳘ समान᳘ ऽआहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यः समान᳘ ऽआग्नीध्री᳘यस्त᳘देत᳘त्सत्रᳫँ᳭स᳘मृद्धं य᳘थैकाहः स᳘मृद्ध ऽएवं त᳘स्य न᳘ ह्व᳘ला ऽस्ति त᳘स्यै᳘षैव᳘ समा᳘न्यावृद्य᳘दन्यद्धि᳘ष्ण्येभ्यः॥

मूलम् - श्रीधरादि

(म) अथा᳘त्र प्राची᳘नवᳫँ᳭शा शा᳘ला भवति॥
त᳘द्देवत्रा᳘ समान᳘ ऽआहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यः समान᳘ ऽआग्नीध्री᳘यस्त᳘देत᳘त्सत्रᳫँ᳭स᳘मृद्धं य᳘थैकाहः स᳘मृद्ध ऽएवं त᳘स्य न᳘ ह्व᳘ला ऽस्ति त᳘स्यै᳘षैव᳘ समा᳘न्यावृद्य᳘दन्यद्धि᳘ष्ण्येभ्यः॥

मूलम् - Weber

अथा᳘त्र प्राची᳘नवंशा शा᳘ला भवति॥
त᳘द्देवत्रा᳘ समान᳘ आहवनी᳘यो भ᳘वति समानो गा᳘र्हपत्यः समान᳘ आग्नीध्री᳘यस्त᳘देत᳘त्सत्त्रᳫं स᳘मृद्धं य᳘थैकाहः स᳘मृद्ध एवं त᳘स्य न᳘ ह्वॗलास्ति त᳘स्यैॗषैव᳘ समाॗन्यावृद्य᳘दन्यद्धि᳘ष्ण्येभ्यः॥

मूलम् - विस्वरम्

अथात्र प्राचीनवंशा शाला भवति- तद्देवत्रा । समान आहवनीयो भवति, समानो गार्हपत्यः, समान आग्नीध्रीयः । तदेतत्सत्रं समृद्धम् । यथैकाहः समृद्धः- एवम् । तस्य न ह्वला ऽस्ति । तस्यैषैव समान्यावृत्- यदन्यद्धिष्ण्येभ्यः ॥ २० ॥

सायणः

अथात्रेति । प्राचीनवंशेत्येकगृहपतित्वमादित्सन्नियोगेन नियमविधिः । ‘समानो गार्हपत्यः’ इत्ययं च ‘समान आहवनीयः’ ‘समान आग्नीध्रीयश्च’ इत्यनुवाद एवाविकृष्टत्वप्रदर्शनार्थः । ‘यथैकाहः समृद्धमिति’ च्छन्दः ‘तस्य’ सत्रस्य ‘एषैव’ तुल्या आवृत्क्रिया । या तृतीयमन्थनमुपक्रम्याथेदं तृतीयमित्यादिकाः सा किं सर्वैवानेन पक्षेण तुल्या अत आह- यदन्यद्धिष्ण्येभ्य इति । धिष्ण्यविषयाया आवृतः अन्या या आवृत्संवादादिका सा समानी या धिष्ण्येष्वथ चयनं पुरोडाशनिष्पादनेन पत्नीसंयाजादिका सा समानी- इत्यनुवाद एवायम् ॥ २० ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये चतुर्थकाण्डे षष्ठे ऽध्याये ऽष्टमं ब्राह्मणम् ॥ (४-६-८) ॥

Eggeling
  1. But here there is a hall with the roof-beams running from west to east [^egg_1031]: that is as with the gods. There are the same Āhavanīya, the same Gārhapatya, and the same Āgnīdhrīya: thus this sacrificial session is successful, even as the one day’s Soma-sacrifice was successful, there is no failure for it. Its course is one and the same in everything except the dhishṇyas.

  1. 440:3 For the Dīkshā see III, 1, 1, 1 seq. In the Kāṇva text I have found nothing corresponding to the present Brāhmaṇa. ↩︎

  2. 440:4 That is to say, the verb ‘i’ (to go; more especially its compound upa-i, to undergo, go through, undertake) is used of sacrificial performances in the Sattra lasting for twelve (pressing) days and upward, to distinguish the latter from the ahīna-sacrifices, lasting for from two to twelve (pressing) days. ↩︎

  3. पुर᳘स्ताद्वदन᳟म् A prima m. ↩︎

  4. अथ द्वादशाहधर्माः । अग्निं चेष्यमाणाः समारोह्य गृहपतिर्मध्यं मंथत्यर्द्धश इतरे दक्षिणोत्तराः । गृहपत्याहवनीयें ऽगारप्रासनम् । तत्र प्राजापत्यः पशुः । आज्येन पत्नीसंयाजा गृहपतिवर्जम् । तदहर्दीक्षा अनेन सूत्रेण दीक्षायाः प्राजापत्यपशोश्चैककालतोच्यते । तत्र दीक्षाकाले प्राजापत्यः कर्तव्यः । न पशुकाले दीक्षा । इति सूत्रार्थः । अशक्तौ नियतक्रियां समारूढनिर्मथितेषु सर्वत्र । पशुदीक्षयोरेककालता अशक्तौ स्वकाले पशुं कृत्वा समारोपनिर्मंथनपूर्विका ऽनियतानां क्रियाः । सर्वत्रग्रहणाच्च त्रिष्वपि मंथनपक्षेषु । इति कार्कः सूत्रार्थः । अर्थाद्दिनांतरे दीक्षा । दीक्षाकाल उदग्वँशायां पूर्व्ववन्मंथनम् । अनेन दीक्षाकाले मंथनं बोध्यते । तत्रायं मंथनकालस्यैकः पक्षः । गार्हपत्ये प्रासनमत्र । अस्मिन्नेव पक्षे । आहवनीयस्ततः । अस्मिन्नेव पक्षे । तुल्यन्यायाद्दक्षिणाग्निरप्युच्छ्रियते इति कर्कः । तत्र दीक्षा । का० श्रौ० सू० । १२ । १६-२५ । ↩︎

  5. 441:1 That is to say, they hold their churning-sticks to the fires to get warm; see part i, p. 396, note 1. ↩︎

  6. 441:2 The head of the victim (or victims, see VI, 2, 1 seq.) will have to be put in the bottom layer of the fire-altar, to impart stability to the latter. ↩︎

  7. सामान᳘ आहव A. ↩︎

  8. 441:3 See p. 97, note 1. At a Sattra the Gr̥hapati, as well as all the other r̥tvig, should be a Brahman; Kāty. I, 6, 13-16. ↩︎

  9. 442:1 At Sattras there are usually twelve Upasad days. See p. 105, note 1. Ait. Br. IV, 24 enjoins twelve days for the Dīkshā and as many for the Upasads of the Dvādaśāha. Kāty. XII, 1, 19; 2, 14 gives no special rule regarding the duration of the Dīkshā, but enjoins twelve Upasads. See also Lāṭy. III, 3, 27; Āśv. VI, 1, 2. ↩︎

  10. 442:2 The day before the first pressing day. ↩︎

  11. 442:3 See III, 6, 3, 1 seq. ↩︎

  12. 442:4 Or, those minor (? western) fires, viz. they extinguish those south and north of the Gr̥hapati’s Gārhapatya; or (optionally) also the latter, it being again supplied by the fire-brand from the Sālādvārya fire. Cf. Kāty. XII, 1, 25-26. ↩︎

  13. उपवसयमभृति प्रागमीषोमग्रणयनादुपशमय्य चिनोत्येनान् शालाद्वार्याद्दक्षिणोत्तरान् धिष्ण्यवत् । श्रुतेः । वा यथोक्तं गृहपतेः । आग्नीध्रीये उद्यतें ऽगारमेकैकँ हरंति प्रतिचिति शालाद्वार्यात् । का. श्रौ. सू. १२ । २६-२९ । ↩︎

  14. 442:5 See III, 6, 3, 9 seq. ↩︎

  15. 444:1 Or, according to Kāty. XII, 2, 8-9, each takes up two fires, viz. his own and that of the Gr̥hapati. ↩︎

  16. प्रत्यग्नि सवनीयपुरोडाशा “भूयो हविरुच्छिष्टमसत्समाप्त्या इति” श्रुतेः । का. श्रौ. सू. १२ । ३० । ↩︎

  17. 445:1 The usual Savanīya-puroḍāśas (III, 8, 3, 1) are to be offered separately on each fire. ↩︎

  18. A has at the close ॥ १० ॥ एब्राह्मणानि नाम बालसर्प. ↩︎

  19. 446:1 Viz. the Sadas, see p. 128, note 1. ↩︎